वाल्मीकि-घोषणम्. Built from structured/verses.jsonl. Rows are monotone-aligned half-verse/pāda-like units split at । and ॥, so verse-number boundary differences can appear as inserted or shifted line rows.
52 aligned line rows across 7 source streams.
gor-kn 48 lines
gor-hi 48 lines
crit 40 lines
gr 49 lines
dr-mula 48 lines
| # | gor-kn | gor-hi | crit | gr | dr-mula | gr-iitk | iitk |
|---|---|---|---|---|---|---|---|
| 1 | #1aತಸ್ಯಾಂ ರಜನ್ಯಾಂ ವ್ಯಷ್ಟಾಯಾಂ ಯಜ್ಞವಾಟಂ ಗತೋ ನೃಪಃ । | 7.96.1aतस्यां रजन्यां व्युष्टायां यज्ञवाटं गतो नृपः । | 7.87.1aतस्यां रजन्यां व्युष्टायां यज्ञवाटगतो नृपः । | 7.96.1aतस्यां रजन्यां व्युष्टायां यज्ञवाटगतो नृपः । | 7.96.1aतस्यां रजन्यां व्युष्टायां यज्ञवाटगतो नृपः। | ||
| 2 | #1bಋಷೀನ್ಸರ್ವಾನ್ಮಹಾತೇಜಾಃ ಶಬ್ದಾಪಯತಿ ರಾಘವಃ ॥ | 7.96.1bऋषीन् सर्वान् महातेजाः शब्दापयति राघवः ॥ १ ॥ | 7.87.1bऋषीन्सर्वान्महातेजाः शब्दापयति राघवः ॥7.87.1॥ | 7.96.1bऋषीन्त्सर्वान्महातेजाः शब्दापयति राघवः ॥ १ ॥ | 7.96.1bऋषीन्सर्वान्महातेजाः शब्दापयति राघवः ॥ 7.96.1 ॥ | ||
| 3 | #2aವಸಿಷ್ಠೋ ವಾಮದೇವಶ್ಚ ಜಾಬಾಲಿರಥ ಕಾಶ್ಯಪಃ । | 7.96.2aवसिष्ठो वामदेवश्च जाबालिरथ काश्यपः । | 7.87.2aवसिष्ठो वामदेवश्च जाबालिरथ काश्यपः । | 7.96.2aवसिष्ठो वामदेवश्च जाबालिरथ काश्यपः । | 7.96.2aवसिष्ठो वामदेवश्च जाबालिरथ काश्यपः। | ||
| 4 | #2bವಿಶ್ವಾಮಿತ್ರೋ ದೀರ್ಘತಮಾ ದುರ್ವಾಸಾಶ್ಚ ಮಹಾತಪಾಃ ॥ | 7.96.2bविश्वामित्रो दीर्घतमा दुर्वासाश्च महातपाः ॥ २ ॥ | 7.87.2bविश्वामित्रो दीर्घतपा दुर्वासाश्च महातपाः ॥7.87.2॥ | 7.96.2bविश्वामित्रो दीर्घतपा दुर्वासाश्च महातपाः ॥ २ ॥ | 7.96.2bविश्वामित्रो दीर्घतपा दुर्वासाश्च महातपाः ॥ 7.96.2 ॥ | ||
| 5 | #3aಪುಲಸ್ತ್ಯೋಽಪಿ ತಥಾ ಶಕ್ತಿರ್ಭಾರ್ಗವಶ್ಚೈವವಾಮನಃ । | 7.96.3aपुलस्त्योऽपि तथा शक्तिर्भार्गवश्चैव वामनः । | 7.87.3aअगस्त्योऽथ तथाशक्तिर्भार्गवश्चैव वामनः । | 7.96.3aपुलस्त्योपि तथा शक्तिर्भार्गवश्चैव वामनः । | 7.96.3aपुलस्त्योऽपि तथा शक्तिर्भार्गवश्चैव वामनः। | ||
| 6 | #3bಮಾರ್ಕಂಡೇಯಶ್ಚ ದೀರ್ಘಾಯುರ್ವೌದ್ಗಲ್ಯಶ್ಚಮಹಾಯಶಾಃ ॥ | 7.96.3bमार्कण्डेयश्च दीर्घायुर्मौद्गल्यश्च महायशाः ॥ ३ ॥ | 7.87.3bमार्कण्डेयश्च दीर्घायुर्मौद्गल्यश्च महातपाः ॥7.87.3॥ | 7.96.3bमार्कण्डेयश्च दीर्घायुमौद्गल्यथ महायशाः ॥ ३ ॥ | 7.96.3bमार्कण्डेयश्च दीर्घायुर्मौद्गल्यश्च महायशाः ॥ 7.96.3 ॥ | ||
| 7 | #4aಗರ್ಗಶ್ಚ ಚ್ಯವನಶ್ಚೈವ ಶತಾನಂದಶ್ಚ ಧರ್ಮವಿತ್ । | 7.96.4aगर्गश्च च्यवनश्चैव शतानन्दश्च धर्मवित् । | 7.87.4aभार्गवश्च्यवनश्चैव शतानन्दश्च धर्मवित् । | 7.96.4aगर्गश्च च्यवनश्चैव शतानन्दश्च धर्मवित् । | 7.96.4aगर्गश्च च्यवनश्चैव शतानन्दश्च धर्मवित्। | ||
| 8 | #4bಭರದ್ವಾಜಶ್ಚ ತೇಜಸ್ವೀ ಹ್ಯಗ್ನಿಪುತ್ರಶ್ಚ ಸುಪ್ರಭಃ ॥ | 7.96.4bभरद्वाजश्च तेजस्वी अग्निपुत्रश्च सुप्रभः ॥ ४ ॥ | 7.87.4bभरद्वाजश्च तेजस्वी अग्निपुत्रश्च सुप्रभः ॥7.87.4॥ | 7.96.4bभरद्वाजश्व तेजस्वी ह्यग्निपुत्रश्च सुप्रभः ॥ ४ ॥ | 7.96.4bभरद्वाजश्च तेजस्वी ह्यग्निपुत्रश्च सुप्रभः ॥ 7.96.4 ॥ | ||
| 9 | #5aನಾರದಃ ಪರ್ವತಶ್ಚೈವ ಗೌತಮಶ್ಚ ಮಹಾಯಶಾಃ । | 7.96.5aनारदः पर्वतश्चैव गौतमश्च महायशाः । | 7.96.5aनारदः पर्वतश्चैव गौतमश्च महायशाः । | 7.96.5aनारदः पर्वतश्चैव गौतमश्च महायशाः। | |||
| 10 | #5bಕಾತ್ಯಾಯನಃ ಸುಯಜ್ಞಶ್ಚ ಹ್ಯಗಸ್ತ್ಯಸ್ತಪಸಾಂ ನಿಧಿಃ ॥ | 7.96.5bकात्यायनः सुयज्ञश्च ह्यगस्त्यस्तपसां निधिः ॥ ५ ॥ | 7.96.5bकात्यायनः सुयज्ञश्च ह्यगस्त्यस्तपसांनिधिः ॥ ५ ॥ | 7.96.5bकात्यायनः सुयज्ञश्च ह्यगस्त्यस्तपसां निधिः ॥ 7.96.5 ॥ | |||
| 11 | #6aಏತೇ ಚಾನ್ಯೇ ಚ ಬಹವೋ ಮುನಯಃ ಸಂಶಿತವ್ರತಾಃ । | 7.96.6aएते चान्ये च बहवो मुनयः संशितव्रताः । | 7.87.5aएते चान्ये च मुनयो बहवः संशितव्रताः । | 7.96.6aएते चान्ये च बहवो मुनयः संशितव्रताः । | 7.96.6aएते चान्ये च बहवो मुनयः संशितव्रताः। | ||
| 12 | 7.87.5bराजानश्च नरव्याघ्राः सर्व एव समागताः ॥7.87.5॥ | ||||||
| 13 | #6bಕೌತೂಹಲಸಮಾವಿಷ್ಟಾಃ ಸರ್ವ ಏವ ಸಮಾಗತಃ ॥ | 7.96.6bकौतूहलसमाविष्टाः सर्व एव समागताः ॥ ६ ॥ | 7.96.6bकौतूहलसमाविष्टाः सर्व एव समागताः ॥ ६ ॥ | 7.96.6bकौतूहलसमाविष्टाः सर्व एव समागताः ॥ 7.96.6 ॥ | |||
| 14 | #7aರಾಕ್ಷಸಾಶ್ಚ ಮಹಾವೀರ್ಯಾ ವಾನರಾಶ್ಚ ಮಹಾಬಲಾಃ । | 7.96.7aराक्षसाश्च महावीर्या वानराश्च महाबलाः । | 7.87.6aराक्षसाश्च महावीर्या वानराश्च महाबलाः । | 7.96.7aराक्षसाश्च महावीर्या वानराश्च महाबलाः । | 7.96.7aराक्षसाश्च महावीर्या वानराश्च महाबलाः। | ||
| 15 | #7bಸರ್ವ ಏವ ಸಮಾಜಗ್ಮುರ್ಮಹಾತ್ಮಾನಃ ಕುತೂಹಲಾತ್ ॥ | 7.96.7bसर्व एव समाजग्मुर्महात्मानः कुतूहलात् ॥ ७ ॥ | 7.87.6bसमाजग्मुर्महात्मानः सर्व एव कुतूहलात् ॥7.87.6॥ | 7.96.7bसर्व एव समाजग्मुर्महात्मानः कुतूहलात् ॥ ७ ॥ | 7.96.7bसर्व एव समाजग्मुर्महात्मानः कुतूहलात् ॥ 7.96.7 ॥ | ||
| 16 | #8aಕ್ಷತ್ರಿಯಾ ಯೇ ಚ ಶೂದ್ರಾಶ್ಚ ವೈಶ್ಯಾಶ್ಚೈವ ಸಹಸ್ರಶಃ । | 7.96.8aक्षत्रिया ये च शूद्राश्च वैश्याश्चैव सहस्रशः । | 7.87.7aक्षत्रियाश्चैव वैश्याश्च शूद्राश्चैव सहस्रशः । | 7.96.8aक्षत्रिया ये च शूद्राश्च वैश्याश्चैव सहस्रशः । | 7.96.8aक्षत्रिया ये च शूद्राश्च वैश्याश्चैव सहस्रशः। | ||
| 17 | #8bನಾನಾದೇಶಗತಾಶ್ಚೈವ ಬ್ರಾಹ್ಮಣಾಃ ಸಂಶಿತವ್ರತಾಃ ॥ | 7.96.8bनानादेशगताश्चैव ब्राह्मणाः संशितव्रताः ॥ ८ ॥ | 7.96.8bनानादेशगताश्चैव ब्राह्मणाः संशितव्रताः ॥ ८ ॥ | 7.96.8bनानादेशगताश्चैव ब्राह्मणाः संशितव्रताः ॥ 7.96.8 ॥ | |||
| 18 | #9aಜ್ಞಾನನಿಷ್ಠಾಃ ಕರ್ಮನಿಷ್ಠಾಃ ಯೋಗನಿಷ್ಠಾಸ್ತಥಾಪರೇ । | 7.96.9aज्ञाननिष्ठाः कर्मनिष्ठा योगनिष्ठास्तथापरे । | 7.96.9aज्ञाननिष्ठाः कर्मनिष्ठा योगनिष्ठास्तथाऽपरे । | 7.96.9aज्ञाननिष्ठाः कर्मनिष्ठाः योगनिष्ठास्तथापरे। | |||
| 19 | #9bಸೀತಾಶಪಥವೀಕ್ಷಾರ್ಥಂ ಸರ್ವ ಏವ ಸಮಾಗತಾಃ ॥ | 7.96.9bसीताशपथवीक्षार्थं सर्व एव समागताः ॥ ९ ॥ | 7.87.7bसीताशपथवीक्षार्थं सर्व एव समागताः ॥7.87.7॥ | 7.96.9bसीताशपथवीक्षार्थं सर्व एव समागताः ॥ ९ ॥ | 7.96.9bसीताशपथवीक्षार्थं सर्व एव समागताः ॥ 7.96.9 ॥ | ||
| 20 | #10aತದಾ ಸಮಾಗತಂ ಸರ್ವಮಶ್ಮಭೂತಮಿವಾಚಲಮ್ । | 7.96.10aतदा समागतं सर्वमश्मभूतमिवाचलम् । | 7.87.8aतथा समागतं सर्वमश्वभूतमिवाचलम् । | 7.96.10aतदा समागतं सर्वमश्मभूतमिवाचलम् । | 7.96.10aतदा समागतं सर्वमश्मभूतमिवाचलम्। | ||
| 21 | #10bಶ್ರುತ್ವಾ ಮುನಿವರಸ್ತೂರ್ಣಂ ಸಸೀತಃ ಸಮುಪಾಗಮತ್ ॥ | 7.96.10bश्रुत्वा मुनिवरस्तूर्णं ससीतः समुपागमत् ॥ १० ॥ | 7.87.8bश्रुत्वा मुनिवरस्तूर्णं ससीतः समुपागमत् ॥7.87.8॥ | 7.96.10bश्रुत्वा मुनिवरस्तूर्णं ससीतः समुपागमत् ॥ १० ॥ | 7.96.10bश्रुत्वा मुनिवरस्तूर्णं ससीतः समुपागमत् ॥ 7.96.10 ॥ | ||
| 22 | #11aತಮೃಷಿಂ ಪೃಷ್ಠತಃ ಸೀತಾ ಅನ್ವಗಚ್ಛದವಾಙ್ಮುಖೀ । | 7.96.11aतमृषिं पृष्ठतः सीता अन्वगच्छदवाङ्मुखी । | 7.87.9aतमृषिं पृष्ठतः सीता सान्वगच्छदवाङ्मुखी । | 7.96.11aतमृषिं पृष्ठतः सीता त्वन्वगच्छदवाङ्मुखी । | 7.96.11aतमृषिं पृष्ठतः सीता त्वन्वगच्छदवाङ्मुखी। | ||
| 23 | #11bಕೃತಾಂಜಲಿರ್ಬಾಷ್ಪಕಲಾ ಕೃತ್ವಾ ರಾಮಂಮನೋಗತಮ್ ॥ | 7.96.11bकृताञ्जलिर्बाष्पकला कृत्वा रामं मनोगतम् ॥ ११ ॥ | 7.87.9bकृताञ्जलिर्बाष्पगला कृत्वा रामं मनोगतम् ॥7.87.9॥ | 7.96.11bकृताञ्जलिर्बाष्पगला कृत्वा रामं मनोगतम् ॥ ११ ॥ | 7.96.11bकृताञ्जलिर्बाष्पगला कृत्वा रामं मनोगतम् ॥ 7.96.11 ॥ | ||
| 24 | #12aತಾಂ ದೃಷ್ಟ್ವಾ ಶ್ರುತಿಮಾಯಾಂತೀಂ ಬ್ರಹ್ಮಾಣಮನುಗಾಮಿನೀಮ್ । | 7.96.12aतां दृष्ट्वा श्रुतिमायान्तीं ब्रह्माणमनुगामिनीम् । | 7.87.10aतां दृष्ट्वा श्रीमिवायान्तीं ब्रह्माणमनुगामिनीम् । | 7.96.12aदृष्ट्वा श्रुतिमिवायान्तीं ब्रह्माणमनुगामिनीम् । | 7.96.12aदृष्ट्वा श्रुतिमिवायान्तीं ब्रह्माणमनुगामिनीम्। | ||
| 25 | #12bವಾಲ್ಮೀಕೇಃ ಪೃಷ್ಠತಃ ಸೀತಾಂ ಸಾಧುವಾದೋ ಮಹಾನಭೂತ್ ॥ | 7.96.12bवाल्मीकेः पृष्ठतः सीतां साधुवादो महानभूत् ॥ १२ ॥ | 7.87.10bवाल्मीकेः पृष्ठतः सीतां साधुकारो महानभूत् ॥7.87.10॥ | 7.96.12bवाल्मीकेः पृष्ठतः सीतां साधुवादो महानभूत् ॥ १२ ॥ | 7.96.12bवाल्मीकेः पृष्ठतः सीतां साधुवादो महानभूत् ॥ 7.96.12 ॥ | ||
| 26 | #13aತತೋ ಹಲಹಲಾಶಬ್ದಃ ಸರ್ವೇಷಾಮೇವಮಾಬಭೌ । | 7.96.13aततो हलहलाशब्दः सर्वेषामेवमाबभौ । | 7.87.11aततो हलहलाशब्दः सर्वेषामेवमाबभौ । | 7.96.13aततो हलहलाशब्दः सर्वेषामेवभाबभौ । | 7.96.13aततो हलहलाशब्दः सर्वेषामेवमाबभौ। | ||
| 27 | #13bದುಃಖಜನ್ಮವಿಶಾಲೇನ ಶೋಕೇನಾಕುಲಿತಾತ್ಮನಾಮ್ ॥ | 7.96.13bदुःखजन्मविशालेन शोकेनाकुलितात्मनाम् ॥ १३ ॥ | 7.87.11bदुःखजेन विशालेन शोकेनाकुलितात्मनाम् ॥7.87.11॥ | 7.96.13bदुःखजन्मविशालेन शोकेनाकुलितात्मनाम् ॥ १३ ॥ | 7.96.13bदुःखजन्मविशालेन शोकेनाकुलितात्मनाम् ॥ 7.96.13 ॥ | ||
| 28 | #14aಸಾಧು ರಾಮೇತಿ ಕೇಚಿತ್ತು ಸಾಧು ಸೀತೇತಿ ಚಾಪರೇ । | 7.96.14aसाधु रामेति केचित् तु साधु सीतेति चापरे । | 7.87.12aसाधु सीतेति केचित्तु साधु रामेति चापरे । | 7.96.14aसाधु रामेति केचित्तु साधु सीतेति चापरे । | 7.96.14aसाधु रामेति केचित्तु साधु सीतेति चापरे। | ||
| 29 | 7.87.12bउभावेव तु तत्रान्ये साधु साध्विति चाब्रुवन् ॥7.87.12॥ | ||||||
| 30 | #14bಉಭಾವೇವ ಚ ತತ್ರಾನ್ಯೇ ಪ್ರೇಕ್ಷಕಾಃ ಸಂಪ್ರಚುಕ್ರುಶುಃ ॥ | 7.96.14bउभावेव च तत्रान्ये प्रेक्षकाः सम्प्रचुक्रुशुः ॥ १४ ॥ | 7.96.14bउभावेव च तत्रान्ये प्रेक्षकाः संप्रचुक्रुशुः ॥ १४ ॥ | 7.96.14bउभावेव च तत्रान्ये प्रेक्षकाः सम्प्रचुक्रुशुः ॥ 7.96.14 ॥ | |||
| 31 | #15aತತೋ ಮಧ್ಯೇ ಜನೌಘಸ್ಯ ಪ್ರವಿಶ್ಯ ಮುನಿಪುಂಗವಃ । | 7.96.15aततो मध्ये जनौघस्य प्रविश्य मुनिपुङ्गवः । | 7.87.13aततो मध्यं जनौघानां प्रविश्य मुनिपुंगवः । | 7.96.15aततो मध्ये जनौघस्य प्रविश्य मुनिपुङ्गवः । | 7.96.15aततो मध्ये जनौघस्य प्रविश्य मुनिपुङ्गवः। | ||
| 32 | #15bಸೀತಾಸಹಾಯೋ ವಾಲ್ಮೀಕಿರಿತಿ ಹೋವಾಚ ರಾಘವಮ್ ॥ | 7.96.15bसीतासहायो वाल्मीकिरिति होवाच राघवम् ॥ १५ ॥ | 7.87.13bसीतासहायो वाल्मीकिरिति होवाच राघवम् ॥7.87.13॥ | 7.96.15bसीतासहायो वाल्मीकिरिति होवाच राघवम् ॥ १५ ॥ | 7.96.15bसीतासहायो वाल्मीकिरिति होवाच राघवम् ॥ 7.96.15 ॥ | ||
| 33 | #16aಇಯಂ ದಾಶರಥೇ ಸೀತಾ ಸುವ್ರತಾ ಧರ್ಮಚಾರಿಣೀ । | 7.96.16aइयं दाशरथे सीता सुव्रता धर्मचारिणी । | 7.87.14aइयं दाशरथे सीता सुव्रता धर्मचारिणी । | 7.96.16aइयं दाशरथे सीता सुव्रता धर्मचारिणी । | 7.96.16aइयं दाशरथे सीता सुव्रता धर्मचारिणी। | ||
| 34 | #16bಅಪವಾದಾತ್ಪರಿತ್ಯಕ್ತಾ ಮಮಾಶ್ರಮಸಮೀಪತಃ ॥ | 7.96.16bअपवादात् परित्यक्ता ममाश्रमसमीपतः ॥ १६ ॥ | 7.87.14bअपापा ते परित्यक्ता ममाश्रमसमीपतः ॥7.87.14॥ | 7.96.16bअपवादैः परित्यक्ता ममाश्रमसमीपतः ॥ १६ ॥ | 7.96.16bअपवादैः परित्यक्ता ममाश्रमसमीपतः ॥ 7.96.16 ॥ | ||
| 35 | #17aಲೋಕಾಪವಾದಭೀತಸ್ಯ ತವ ರಾಮ ಮಹಾವ್ರತ । | 7.96.17aलोकापवादभीतस्य तव राम महाव्रत । | 7.87.15aलोकापवादभीतस्य तव राम महाव्रत । | 7.96.17aलोकापवादभीतस्य तव राम महाव्रत । | 7.96.17aलोकापवादभीतस्य तव राम महाव्रत। | ||
| 36 | #17bಪ್ರತ್ಯಯಂ ದಾಸ್ಯತೇ ಸೀತಾ ತಾಮನುಜ್ಞಾತುಮರ್ಹಸಿ ॥ | 7.96.17bप्रत्ययं दास्यते सीता तामनुज्ञातुमर्हसि ॥ १७ ॥ | 7.87.15bप्रत्ययं दास्यते सीता तामनुज्ञातुमर्हसि ॥7.87.15॥ | 7.96.17bप्रत्ययं दास्यते सीता तदनुज्ञातुमर्हसि ॥ १७ ॥ | 7.96.17bप्रत्ययं दास्यते सीता तदनुज्ञातुमर्हसि ॥ 7.96.17 ॥ | ||
| 37 | #18aಇಮೌ ತು ಜಾನಕೀಪುತ್ರಾವುಭೌ ಚ ಯಮಜಾತಕೌ । | 7.96.18aइमौ तु जानकीपुत्रावुभौ च यमजातकौ । | 7.87.16aइमौ च जानकीपुत्रावुभौ च यमजातकौ । | 7.96.18aइमौ तु जानकी पुत्रावुभौ च यमजातकौ । | 7.96.18aइमौ तु जानकीपुत्रावुभौ च यमजातकौ। | ||
| 38 | #18bಸುತೌ ತವೈವ ದುರ್ಧರ್ಷೌ ಸತ್ಯಮೇತದ್ಬ್ರವೀಮಿ ತೇ ॥ | 7.96.18bसुतौ तवैव दुर्धर्षौ सत्यमेतद् ब्रवीमि ते ॥ १८ ॥ | 7.87.16bसुतौ तवैव दुर्धर्षौ सत्यमेतद्ब्रवीमि ते ॥7.87.16॥ | 7.96.18bसुतौ तवैव दुर्धर्षो सत्यमेतद्ब्रवीमि ते ॥ १८ ॥ | 7.96.18bसुतौ तवैव दुर्धर्षौ सत्यमेतद्ब्रवीमि ते ॥ 7.96.18 ॥ | ||
| 39 | #19aಪ್ರಚೇತಸೋಽಹಂ ದಶಮಃ ಪುತ್ರೋರಾಘವನಂದನ । | 7.96.19aप्रचेतसोऽहं दशमः पुत्रो राघवनन्दन । | 7.87.17aप्रचेतसोऽहं दशमः पुत्रो राघवनन्दन । | 7.96.19aप्रचेतसोऽहं दशमः पुत्रो राघवनन्दन । | 7.96.19aप्रचेतसोऽहं दशमः पुत्रो राघवनन्दन। | ||
| 40 | #19bನ ಸ್ಮರಾಮ್ಯನೃತಂ ವಾಕ್ಯಮಿವೌ ತು ತವ ಪುತ್ರಕೌ ॥ | 7.96.19bन स्मराम्यनृतं वाक्यमिमौ तु तव पुत्रकौ ॥ १९ ॥ | 7.87.17bन स्मराम्यनृतं वाक्यं तथेमौ तव पुत्रकौ ॥7.87.17॥ | 7.96.19bन स्मराभ्यनृतं वाक्यमिमौ तु तव पुत्रकौ ॥ १९ ॥ | 7.96.19bन स्मराम्यनृतं वाक्यमिमौ तु तव पुत्रकौ ॥ 7.96.19 ॥ | ||
| 41 | #20aಬಹುವರ್ಷಸಹಸ್ರಾಣಿ ತಪಶ್ಚರ್ಯಾ ಮಯಾ ಕೃತಾ । | 7.96.20aबहुवर्षसहस्राणि तपश्चर्या मया कृता । | 7.87.18aबहुवर्षसहस्राणि तपश्चर्या मया कृता । | 7.96.20aबहुवर्षसहस्राणि तपश्चर्या मया कृता । | 7.96.20aबहुवर्षसहस्राणि तपश्चर्या मया कृता। | ||
| 42 | #20bನೋಪಾಶ್ನೀಯಾಂ ಲಂ ತಸ್ಯಾ ದುಷ್ಟೇಯಂ ಯದಿ ಮೈಥಿಲೀ ॥ | 7.96.20bनोपाश्नीयां फलं तस्या दुष्टेयं यदि मैथिली ॥ २० ॥ | 7.96.20bनोपाश्नीयां फलं तस्या दुष्टेयं यदि मैथिली ॥ २० ॥ | 7.96.20bनोपाश्नीयां फलं तस्या दुष्टेयं यदि मैथिली ॥ 7.96.20 ॥ | |||
| 43 | #21aಮನಸಾ ಕರ್ಮಣಾ ವಾಚಾ ಭೂತ ಪೂರ್ವಂ ನ ಕಿಲ್ಬಿಷಮ್ । | 7.96.21aमनसा कर्मणा वाचा भूतपूर्वं न किल्बिषम् । | 7.96.21aमनसा कर्मणा वाचा भूतपूर्वं न किल्बिषम् । | 7.96.21aमनसा कर्मणा वाचा भूतपूर्वं न किल्बिषम्। | |||
| 44 | 7.87.18bतस्याः फलमुपाश्नीयामपापा मैथिली यथा ॥7.87.18॥ | 7.96.21bतस्याः फलमुपाश्नीयामपापा यदि मैथिली ॥ २१ ॥ | 7.96.21bतस्याः फलमुपाश्नीयामपापा मैथिली यदि ॥ 7.96.21 ॥ | ||||
| 45 | #21bತಸ್ಯಾಹಂ ಲಮಶ್ನಾಮಿ ಅಪಾಪಾ ಮೈಥಿಲೀ ಯದಿ ॥ | 7.96.21bतस्याहं फलमश्नामि अपापा मैथिली यदि ॥ २१ ॥ | |||||
| 46 | #22aಅಹಂ ಪಂಚಸು ಭೂತೇಷು ಮನಃಷಷ್ಠೇಷುರಾಘವ । | 7.96.22aअहं पञ्चसु भूतेषु मनःषष्ठेषु राघव । | 7.87.19aअहं पञ्चसु भूतेषु मनःषष्ठेषु राघव । | 7.96.22aअहं पञ्चसु भूतेषु मनष्षष्ठेषु राघव । | 7.96.22aअहं पञ्चसु भूतेषु मनष्षष्ठेषु राघव। | ||
| 47 | #22bವಿಚಿಂತ್ಯ ಸೀತಾ ಶುದ್ಧೇತಿ ಜಗ್ರಾಹ ವನನಿರ್ಝರೇ ॥ | 7.96.22bविचिन्त्य सीता शुद्धेति जग्राह वननिर्झरे ॥ २२ ॥ | 7.87.19bविचिन्त्य सीतां शुद्धेति न्यगृह्णां वननिर्झरे ॥7.87.19॥ | 7.96.22bविचिन्त्य सीतां शुद्धेति जग्राह वननिर्झरे ॥ २२ ॥ | 7.96.22bविचिन्त्य सीतां शुद्धेति जग्राह वननिर्झरे ॥ 7.96.22 ॥ | ||
| 48 | #23aಇಯಂ ಶುದ್ಧಸಮಾಚಾರಾ ಅಪಾಪಾ ಪತಿದೇವತಾ । | 7.96.23aइयं शुद्धसमाचारा अपापा पतिदेवता । | 7.87.20aइयं शुद्धसमाचारा अपापा पतिदेवता । | 7.96.23aइयं शुद्धसमाचारा अपापा पतिदेवता । | 7.96.23aइयं शुद्धसमाचारा अपापा पतिदेवता। | ||
| 49 | #23bಲೋಕಾಪವಾದಭೀತಸ್ಯ ಪ್ರತ್ಯಯಂ ತವ ದಾಸ್ಯತಿ ॥ | 7.96.23bलोकापवादभीतस्य प्रत्ययं तव दास्यति ॥ २३ ॥ | 7.87.20bलोकापवादभीतस्य दास्यति प्रत्ययं तव ॥7.87.20॥ | 7.96.23bलोकापवादभीतस्य प्रत्ययं तव दास्यति ॥ २३ ॥ | 7.96.23bलोकापवादभीतस्य प्रत्ययं तव दास्यति ॥ 7.96.23 ॥ | ||
| 50 | #24aತಸ್ಮಾದಿಯಂ ನರವರಾತ್ಮಜ ಶುದ್ಧಭಾವಾ ದಿವ್ಯೇನ ದೃಷ್ಟಿ ವಿಷಯೇಣ ಮಯಾ ಪ್ರವಿಷ್ಟಾ । | 7.96.24aतस्मादियं नरवरात्मज शुद्धभावा दिव्येन दृष्टिविषयेण मया प्रविष्टा । | 7.96.24aतस्मादियं नरवरात्मज शुद्धभावा दिव्येन दृष्टिविषयेण तदा प्रविष्टा । | 7.96.24aतस्मादियं नरवरात्मज शुद्धभावा दिव्येन दृष्टिविषयेण तदा प्रविष्टा। | |||
| 51 | #24bಲೋಕಾಪವಾದಕಲುಷೀಕೃತಚೇತಸಾ ಯಾ ತ್ಯಕ್ತಾ ತ್ವಯಾ ಪ್ರಿಯತಮಾ ವಿದಿತಾಪಿ ಶುದ್ಧಾ ॥ | 7.96.24bलोकापवादकलुषीकृतचेतसा या त्यक्ता त्वया प्रियतमा विदितापि शुद्धा ॥ २४ ॥ | 7.96.24bलोकापवादकलुषीकृतचेतसा या त्यक्ता त्वया प्रियतमा विदिताऽपि शुद्धा ॥ २४ ॥ | 7.96.24bलोकापवादकलुषीकृतचेतसा या त्यक्ता त्वया प्रियतमा विदिताऽपि शुद्धा ॥ 7.96.24 ॥ | |||
| 52 | 7.96.96इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने षण्णवतितमः सर्गः ॥ ९६ ॥ |