Ramayana Half-Verse Concordance 7.86, 7.95

सीता-शपथ-व्यवस्था. Built from structured/verses.jsonl. Rows are monotone-aligned half-verse/pāda-like units split at । and ॥, so verse-number boundary differences can appear as inserted or shifted line rows.

35 aligned line rows across 7 source streams.

Columns:
gor-kn 34 lines gor-hi 34 lines crit 31 lines gr 35 lines dr-mula 33 lines
#gor-kngor-hicritgrdr-mulagr-iitkiitk
1#1aರಾಮೋ ಬಹೂನ್ಯಹಾನ್ಯೇವ ತದ್ಗೀತಂ ಪರಮಂ ಶುಭಮ್ ।7.95.1aरामो बहून्यहान्येव तद् गीतं परमं शुभम् ।7.86.1aरामो बहून्यहान्येव तद्गीतं परमाद्भुतम् ।7.95.1aरामो बहून्यहान्येवं तद्गीतं परमं शुभम् ।7.95.1aरामो बहून्यहान्येवं तद्गीतं परमं शुभम्।
2#1bಶುಶ್ರಾವ ಮುನಿಭಿಃ ಸಾರ್ಧಂ ಪಾರ್ಥಿವೈಃ ಸಹ ವಾನರೈಃ ॥7.95.1bशुश्राव मुनिभिः सार्धं पार्थिवैः सह वानरैः ॥ १ ॥7.86.1bशुश्राव मुनिभिः सार्धं राजभिः सह वानरैः ॥7.86.1॥7.95.1bशुश्राव मुनिभिः सार्धं पार्थिवैः सह वानरैः ॥ १ ॥7.95.1bशुश्राव मुनिभिः सार्धं पार्थिवैः सह वानरैः ॥ 7.95.1 ॥
3#2aತಸ್ಮಿನ್ಗೀತೇ ತು ವಿಜ್ಞಾಯ ಸೀತಾಪುತ್ರೌ ಕುಶೀಲವೌ ।7.95.2aतस्मिन् गीते तु विज्ञाय सीतापुत्रौ कुशीलवौ ।7.86.2aतस्मिन्गीते तु विज्ञाय सीतापुत्रौ कुशीलवौ ।7.95.2aतस्मिन्गीते तु विज्ञाय सीतापुत्रौ कुशीलवौ ।
4#2bತಸ್ಯಾಃ ಪರಿಷದೋ ಮಧ್ಯೇ ರಾಮೋ ವಚನಮಬ್ರವೀತ್ ॥7.95.2bतस्याः परिषदो मध्ये रामो वचनमब्रवीत् ॥ २ ॥7.86.2bतस्याः परिषदो मध्ये रामो वचनमब्रवीत् ॥7.86.2॥7.95.2bतस्याः परिषदो मध्ये रामो वचनमब्रवीत् ।7.95.2aतस्याः परिषदो मध्ये रामो वचनमब्रवीत्।
5#3aದೂತಾನ್ ಶುದ್ಧಸಮಾಚಾರಾನಾಹೂಯಾತ್ಮಮನೀಷಯಾ ।7.95.3aदूतान् शुद्धसमाचारानाहूयात्ममनीषया ।7.95.2cदूताञ्शुद्धसमाचारानाहूयात्ममनीषया ॥ २ ॥7.95.2bदूताञ्छुद्धसमाचारानाहूयात्ममनीषया ॥ 7.95.2 ॥
6#3bಮದ್ವಚೋ ಬ್ರೂತ ಗಚ್ಛಧ್ವಮಿತೋ ಭಗವತೋಂತಿಕೇ ॥7.95.3bमद् वचो ब्रूत गच्छध्वमितो भगवतोऽन्तिके ॥ ३ ॥7.86.3मद्वचो ब्रूत गच्छध्वमिति भगवतोऽन्तिकम् ॥7.86.3॥7.95.3मद्वचो ब्रूत गच्छध्वमितो भगवतोऽन्तिकम् ॥ ३ ॥7.95.3मद्वचो ब्रूत गच्छध्वमितो भगवतोऽन्तिकम् ॥ 7.95.3 ॥
7#4aಯದಿ ಶುದ್ಧಸಮಾಚಾರಾ ಯದಿ ವಾ ವೀತಕಲ್ಮಷಾ ।7.95.4aयदि शुद्धसमाचारा यदि वा वीतकल्मषा ।7.86.4aयदि शुद्धसमाचारा यदि वा वीतकल्मषा ।7.95.4aयदि शुद्धसमाचारा यदि वा वीतकल्मषा ।7.95.4aयदि शुद्धसमाचारा यदि वा वीतकल्मषा।
8#4bಕರೋತ್ವಿಹಾತ್ಮನಃ ಶುದ್ಧಿಮನುಮಾನ್ಯ ಮಹಾಮುನಿಮ್ ॥7.95.4bकरोत्विहात्मनः शुद्धिमनुमान्य महामुनिम् ॥ ४ ॥7.86.4bकरोत्विहात्मनः शुद्धिमनुमान्य महामुनिम् ॥7.86.4॥7.95.4bकरोत्विहात्मनः शुद्धिमनुमान्य महामुनिम् ॥ ४ ॥7.95.4bकरोत्विहात्मनः शुद्धिमनुमान्य महामुनिम् ॥ 7.95.4 ॥
9#5aಛಂದಂ ಮುನೇಶ್ಚ ವಿಜ್ಞಾಯ ಸೀತಾಯಾಶ್ಚ ಮನೋಗತಮ್ ।7.95.5aछन्दं मुनेश्च विज्ञाय सीतायाश्च मनोगतम् ।7.86.5aछन्दं मुनेस्तु विज्ञाय सीतायाश्च मनोगतम् ।7.95.5aछन्दं मुनेश्च विज्ञाय सीतायाश्च मनोगतम् ।7.95.5aछन्दं मुनेश्च विज्ञाय सीतायाश्च मनोगतम्।
10#5bಪ್ರತ್ಯಯಂ ದಾತುಕಾಮಾಯಾಸ್ತತಃ ಶಂಸತ ಮೇ ಲಘು ॥7.95.5bप्रत्ययं दातुकामायास्ततः शंसत मे लघु ॥ ५ ॥7.86.5bप्रत्ययं दातुकामायास्ततः शंसत मे लघु ॥7.86.5॥7.95.5bप्रत्ययं दातुकामायास्ततः शंसत मे लघु ॥ ५ ॥7.95.5bप्रत्ययं दातुकामायास्ततः शंसत मे लघु ॥ 7.95.5 ॥
11#6aಶ್ವಃ ಪ್ರಭಾತೇ ತು ಶಪಥಂ ಮೈಥಿಲೀ ಜನಕಾತ್ಮಜಾ ।7.95.6aश्वः प्रभाते तु शपथं मैथिली जनकात्मजा ।7.86.6aश्वः प्रभाते तु शपथं मैथिली जनकात्मजा ।7.95.6aश्वः प्रभाते तु शपथं मैथिली जनकात्मजा ।7.95.6aश्वः प्रभाते तु शपथं मैथिली जनकात्मजा।
12#6bಕರೋತು ಪರಿಷನ್ಮಧ್ಯೇ ಶೋಧನಾರ್ಥಂ ಮಮೈವ ಚ ॥7.95.6bकरोतु परिषन्मध्ये शोधनार्थं ममैव च ॥ ६ ॥7.86.6bकरोतु परिषन्मध्ये शोधनार्थं ममेह च ॥7.86.6॥7.95.6bकरोतु परिषन्मध्ये शोधनार्थं ममैव च ॥ ६ ॥7.95.6bकरोतु परिषन्मध्ये शोधनार्थं ममैव च ॥ 7.95.6 ॥
13#7aಶ್ರುತ್ವಾ ತು ರಾಘವಸ್ಯೈತದ್ ವಚಃ ಪರಮಮದ್ಭುತಮ್ ।7.95.7aश्रुत्वा तु राघवस्यैतद् वचः परममद्भुतम् ।7.86.7aश्रुत्वा तु राघवस्यैतद्वचः परममद्भुतम् ।7.95.7aश्रुत्वा तु राघवस्यैतद्वचः परममद्भुतम् ।7.95.7aश्रुत्वा तु ऱागवस्यैतद्वचः परममद्भुतम्।
14#7bದೂತಾಃ ಸಂಪ್ರಯಯುರ್ಬಾಢಂ ಯತ್ರವೈ ಮುನಿಪುಂಗವಃ ॥7.95.7bदूताः सम्प्रययुर्बाढं यत्र वै मुनिपुङ्गवः ॥ ७ ॥7.86.7bदूताः संप्रययुर्वाटं यत्रास्ते मुनिपुंगवः ॥7.86.7॥7.95.7bदूताः संप्रययुर्वाटं यत्रास्ते मुनिपुङ्गवः ॥ ७ ॥7.95.7bदूताः सम्प्रययुर्बाटं यत्रास्ते मुनिपुङ्गवः ॥ 7.95.7 ॥
15#8aತೇ ಪ್ರಣಮ್ಯ ಮಹಾತ್ಮಾನಂ ಜ್ವಲಂತಮಮಿತಪ್ರಭಮ್ ।7.95.8aते प्रणम्य महात्मानं ज्वलन्तममितप्रभम् ।7.86.8aते प्रणम्य महात्मानं ज्वलन्तममितप्रभम् ।7.95.8aते प्रणम्य महात्मानं ज्वलन्तममितप्रभम् ।7.95.8aते प्रणम्य महात्मानं ज्वलन्तममितप्रभम्।
16#8bಊಚುಸ್ತೇ ರಾಮವಾಕ್ಯಾನಿ ಮೃದೂನಿ ಮಧುರಾಣಿ ಚ ॥7.95.8bऊचुस्ते रामवाक्यानि मृदूनि मधुराणि च ॥ ८ ॥7.86.8bऊचुस्ते रामवाक्यानि मृदूनि मधुराणि च ॥7.86.8॥7.95.8bऊचुस्ते रामवाक्यानि मृदूनि मधुराणि च ॥ ८ ॥7.95.8bऊचुस्ते रामवाक्यानि मृदूनि मधुराणि च ॥ 7.95.8 ॥
17#9aತೇಷಾಂ ತದ್ಭಾಷಿತಂ ಶ್ರುತ್ವಾ ರಾಮಸ್ಯ ಚ ಮನೋಗತಮ್ ।7.95.9aतेषां तद् भाषितं श्रुत्वा रामस्य च मनोगतम् ।7.86.9aतेषां तद्भाषितं श्रुत्वा रामस्य च मनोगतम् ।7.95.9aतेषां तद्व्याहृतं श्रुत्वा रामस्य च मनोगतम् ।7.95.9aतेषां तद्व्याहृतं श्रुत्वा रामस्य च मनोगतम्।
18#9bವಿಜ್ಞಾಯ ಸುಮಹಾತೇಜಾ ಮುನಿರ್ವಾಕ್ಯ ಮಥಾಬ್ರವೀತ್ ॥7.95.9bविज्ञाय सुमहातेजा मुनिर्वाक्यमथाब्रवीत् ॥ ९ ॥7.86.9bविज्ञाय सुमहातेजा मुनिर्वाक्यमथाब्रवीत् ॥7.86.9॥7.95.9bविज्ञाय सुमहातेजा मुनिर्वाक्यमथाब्रवीत् ॥ ९ ॥7.95.9bविज्ञाय सुमहातेजा मुनिर्वाक्यमथाब्रवीत् ॥ 7.95.9 ॥
19#10aಏವಂ ಭವತು ಭದ್ರಂ ವೋ ಯಥಾ ವದತಿ ರಾಘವಃ ।7.95.10aएवं भवतु भद्रं वो यथा वदति राघवः ।7.86.10aएवं भवतु भद्रं वो यथा तुष्यति राघवः ।7.95.10aएवं भवतु भद्रं वो यथा वदति राघवः ।7.95.10aएवं भवतु भद्रं वो यथा वदति राघवः।
20#10bತಥಾ ಕರಿಷ್ಯತೇ ಸೀತಾ ದೈವತಂ ಹಿ ಪತಿಃ ಸಿಯಾಃ ॥7.95.10bतथा करिष्यते सीता दैवतं हि पतिः स्त्रियाः ॥ १० ॥7.86.10bतथा करिष्यते सीता दैवतं हि पतिः स्त्रियाः ॥7.86.10॥7.95.10bतथा करिष्यते सीता दैवतं हि पतिः स्त्रियाः ॥ १० ॥7.95.10bतथा करिष्यते सीता दैवतं हि पतिः स्त्रियाः ॥ 7.95.10 ॥
21#11aತಥೋಕ್ತಾ ಮುನಿನಾ ಸರ್ವೇ ರಾಜದೂತಾ ಮಹೌಜಸಮ್ ।7.95.11aतथोक्ता मुनिना सर्वे राजदूता महौजसम् ।7.86.11aतथोक्ता मुनिना सर्वे रामदूता महौजसः ।7.95.11aतथोक्ता मुनिना सर्वे रामदूता महौजसम् ।7.95.11aतथोक्ता मुनिना सर्वे राजदूता महौजसम्।
22#11bಪ್ರತ್ಯೇತ್ಯ ರಾಘವಂ ಸರ್ವಂ ಮುನಿವಾಕ್ಯಂ ಬಭಾಷಿರೇ ॥7.95.11bप्रत्येत्य राघवं सर्वं मुनिवाक्यं बभाषिरे ॥ ११ ॥7.86.11bप्रत्येत्य राघवं सर्वे मुनिवाक्यं बभाषिरे ॥7.86.11॥7.95.11bप्रत्येत्य राघवं क्षिप्रं मुनिवाक्यं बभाषिरे ॥ ११ ॥7.95.11bप्रत्येत्य राघवं क्षिप्रं मुनिवाक्यं बभाषिरे ॥ 7.95.11 ॥
23#12aತತಃ ಪ್ರಹೃಷ್ಟಃ ಕಾಕುತ್ಸ್ಥಃಶ್ರುತ್ವಾ ವಾಕ್ಯಂ ಮಹಾತ್ಮನಃ ।7.95.12aततः प्रहृष्टः काकुत्स्थः श्रुत्वा वाक्यं महात्मनः ।7.86.12aततः प्रहृष्टः काकुत्स्थः श्रुत्वा वाक्यं महात्मनः ।7.95.12aततः प्रहृष्टः काकुत्स्थः श्रुत्वा वाक्यं महात्मनः ।7.95.12aततः प्रहृष्टः काकुत्स्थः श्रुत्वा वाक्यं महात्मनः।
24#12bಋಷೀಂಸ್ತತ್ರ ಸಮೇತಾಂಶ್ಚ ರಾಜ್ಞಶ್ಚೈವಾಭ್ಯಭಾಷತ ॥7.95.12bऋषींस्तत्र समेतांश्च राज्ञश्चैवाभ्यभाषत ॥ १२ ॥7.86.12bऋषींस्तत्र समेतांश्च राज्ञश्चैवाभ्यभाषत ॥7.86.12॥7.95.12bऋषींस्तत्र समेतांश्च राज्ञवैवाभ्यभाषत ॥ १२ ॥7.95.12bऋषींस्तत्र समेतांश्च राज्ञश्चैवाभ्यभाषत ॥ 7.95.12 ॥
25#13aಭಗವಂತಃ ಸಶಿಷ್ಯಾ ವೈ ಸಾನುಗಾಶ್ಚ ನರಾಧಿಪಾಃ ।7.95.13aभगवन्तः सशिष्या वै सानुगाश्च नराधिपाः ।7.86.13aभगवन्तः सशिष्या वै सानुगाश्च नराधिपाः ।7.95.13aभगवन्तः सशिष्या वै सानुगाश्च नराधिपाः ।7.95.13aभगवन्तः सशिष्या वै सानुगाश्च नराधिपाः।
26#13bಪಶ್ಯಂತು ಸೀತಾಶಪಥಂ ಯಶ್ಚೈವಾನ್ಯೋಪಿ ಕಾಂಕ್ಷತೇ ॥7.95.13bपश्यन्तु सीताशपथं यश्चैवान्योऽपि काङ्क्षते ॥ १३ ॥7.86.13bपश्यन्तु सीताशपथं यश्चैवान्योऽभिकाङ्क्षते ॥7.86.13॥7.95.13bपश्यन्तु सीताशपथं यश्चैवान्योपि काङ्क्षते ॥ १३ ॥7.95.13bपश्यन्तु सीताशपथं यश्चैवान्योऽपि काङ्क्षते ॥ 7.95.13 ॥
27#14aತಸ್ಯ ತದ್ವಚನಂ ಶ್ರುತ್ವಾ ರಾಘವಸ್ಯ ಮಹಾತ್ಮನಃ ।7.95.14aतस्य तद् वचनं श्रुत्वा राघवस्य महात्मनः ।7.86.14aतस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः ।7.95.14aतस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः ।7.95.14aतस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः।
28#14bಸರ್ವೇಷಾಮೃಷಿಮುಖ್ಯಾನಾಂ ಸಾಧುವಾದೋ ಮಹಾನಭೂತ್ ॥7.95.14bसर्वेषामृषिमुख्यानां साधुवादो महानभूत् ॥ १४ ॥7.86.14bसर्वेषामृषिमुख्यानां साधुवादो महानभूत् ॥7.86.14॥7.95.14bसर्वेषामृषिमुख्यानां साधुवादो महानभूत् ॥ १४ ॥7.95.14bसर्वेषामृषिमुख्यानां साधुवादो महानभूत् ॥ 7.95.14 ॥
29#15aರಾಜಾನಶ್ಚ ಮಹಾತ್ಮಾನಂ ಪ್ರಶಂಸಂತಿ ಸ್ಮ ರಾಘವಮ್ ।7.95.15aराजानश्च महात्मानं प्रशंसन्ति स्म राघवम् ।7.86.15aराजानश्च महात्मानः प्रशंसन्ति स्म राघवम् ।7.95.15aराजानश्च महात्मानं प्रशंसन्ति स राघवम् ।7.95.15aराजानश्च महात्मानः प्रशंसन्ति स्म राघवम्।
30#15bಉಪಪನ್ನಂ ನರಶ್ರೇಷ್ಠ ತ್ವಯ್ಯೇವ ಭುವಿ ನಾನ್ಯತಃ ॥7.95.15bउपपन्नं नरश्रेष्ठ त्वय्येव भुवि नान्यतः ॥ १५ ॥7.86.15bउपपन्नं नरश्रेष्ठ त्वय्येव भुवि नान्यतः ॥7.86.15॥7.95.15bउपपन्नं नरश्रेष्ठ त्वय्येव भुवि नान्यतः ॥ १५ ॥7.95.15bउपपन्नं नरश्रेष्ठ त्वय्येव भुवि नान्यतः ॥ 7.95.15 ॥
31#16aಏವಂ ವಿನಿಶ್ಚಯಂಕೃತ್ವಾ ಶ್ವೋಭೂತ ಇತಿ ರಾಘವಃ ।7.95.16aएवं विनिश्चयं कृत्वा श्वोभूत इति राघवः ।7.86.16aएवं विनिश्चयं कृत्वा श्वोभूत इति राघवः ।7.95.16aएवं विनिश्रयं कृत्वा श्वोभूत इति राघवः ।7.95.16aएवं विनिश्चयं कृत्वा श्वोभूत इति राघवः।
32#16bವಿಸರ್ಜಯಾಮಾಸ ತದಾ ಸರ್ವಾಂಸ್ತಾನ್ ಶತ್ರುಸೂದನಃ ॥7.95.16bविसर्जयामास तदा सर्वांस्ताञ्छत्रुसूदनः ॥ १६ ॥7.86.16bविसर्जयामास तदा सर्वांस्ताञ्शत्रुसूदनः ॥7.86.16॥7.95.16bविसर्जयामास तदा सर्वांस्ताञ्शत्रुसूदनः ॥ १६ ॥7.95.16bविसर्जयामास तदा सर्वांस्ताञ्छत्रुसूदनः ॥ 7.95.16 ॥
33#17aಇತಿ ಸಂಪ್ರವಿಚಾರ್ಯ ರಾಜಸಿಂಹಃ
ಶ್ವೋಭೂತೋ ಶಪಥಸ್ಯ ನಿಶ್ಚಯಮ್ ।
7.95.17aइति सम्प्रविचार्य राजसिंहः
श्वोभूते शपथस्य निश्चयम् ।
7.95.17aइति संप्रविचार्य राजसिंहः श्वोभूते शपथस्य निश्चयं वै ।7.95.17aइति सम्प्रविचार्य राजसिंहः श्वोभूते शपथस्य निश्चयं वै।
34#17bವಿಸಸರ್ಜ ಮುನೀನ್ ನೃಪಾಂಶ್ಚ ಸರ್ವಾನ್
ಸ ಮಹಾತ್ಮಾ ಮಹತೋ ಮಹಾನುಭಾವಃ ॥
7.95.17bविससर्ज मुनीन् नृपांश्च सर्वान्
स महात्मा महतो महानुभावः ॥ १७ ॥
7.95.17bविससर्ज मुनीन्नृपांश्च सर्वान्स महात्मा महतो महानुभावः ॥ १७ ॥7.95.17bविससर्ज मुनीन्नृपांश्च सर्वान्स महात्मा महतो महानुभावः ॥ 7.95.17 ॥
357.95.95इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने पञ्चनवतितमः सर्गः ॥ ९५ ॥