इन्द्राश्व-मेधः. Built from structured/verses.jsonl. Rows are monotone-aligned half-verse/pāda-like units split at । and ॥, so verse-number boundary differences can appear as inserted or shifted line rows.
44 aligned line rows across 7 source streams.
gor-kn 42 lines
gor-hi 42 lines
crit 38 lines
gr 43 lines
dr-mula 42 lines
| # | gor-kn | gor-hi | crit | gr | dr-mula | gr-iitk | iitk |
|---|---|---|---|---|---|---|---|
| 1 | #1aತದಾ ವೃತ್ರವಧಂ ಸರ್ವಮಖಿಲೇನ ಸ ಲಕ್ಷ್ಮಣಃ । | 7.86.1aतदा वृत्रवधं सर्वमखिलेन स लक्ष्मणः । | 7.77.1aतथा वृत्रवधं सर्वमखिलेन स लक्ष्मणः । | 7.86.1aतदा वृत्रवधं सर्वमखिलेन स लक्ष्मणः । | 7.86.1aतदा वृत्रवधं सर्वमखिलेन स लक्ष्मणः। | ||
| 2 | #1bಕಥಯಿತ್ವಾ ನರಶ್ರೇಷ್ಠಃ ಕಥಾಶೇಷಂ ಪ್ರಚಕ್ರಮೇ ॥ | 7.86.1bकथयित्वा नरश्रेष्ठः कथाशेषं प्रचक्रमे ॥ १ ॥ | 7.77.1bकथयित्वा नरश्रेष्ठः कथाशेषमुपाक्रमत् ॥7.77.1॥ | 7.86.1bकथयित्वा नरश्रेष्ठः कथाशेषं प्रचक्रमे ॥ १ ॥ | 7.86.1bकथयित्वा नरश्रेष्ठः कथाशेषं प्रचक्रमे ॥ 7.86.1 ॥ | ||
| 3 | #2aತತೋ ಹತೇ ಮಹಾವೀರ್ಯೇ ವೃತ್ರೇ ದೇವಭಯಂಕರೇ । | 7.86.2aततो हते महावीर्ये वृत्रे देवभयङ्करे । | 7.77.2aततो हते महावीर्ये वृत्रे देवभयंकरे । | 7.86.2aततो हते महावीर्ये वृत्रे देवभयंकरे । | 7.86.2aततो हते महावीर्ये वृत्रे देवभयङ्करे। | ||
| 4 | #2bಬ್ರಹ್ಮಹತ್ಯಾವೃತಃ ಶಕ್ರಃ ಸಂಜ್ಞಾಂ ಲೇಭೇನ ವೃತ್ರಹಾ ॥ | 7.86.2bब्रह्महत्यावृतः शक्रः सञ्ज्ञां लेभे न वृत्रहा ॥ २ ॥ | 7.77.2bब्रह्महत्यावृतः शक्रः संज्ञां लेभे न वृत्रहा ॥7.77.2॥ | 7.86.2bब्रह्महत्यावृतः शक्रः संज्ञां लेभे न वृत्रहा ॥ २ ॥ | 7.86.2bब्रह्महत्यावृतः शक्रः सञ्ज्ञां लेभे न वृत्रहा ॥ 7.86.2 ॥ | ||
| 5 | #3aಸೋಂತಮಾಶ್ರಿತ್ಯ ಲೋಕಾನಾಂ ನಷ್ಟಸಂಜ್ಞೋ ವಿಚೇತನಃ । | 7.86.3aसोऽन्तमाश्रित्य लोकानां नष्टसञ्ज्ञो विचेतनः । | 7.77.3aसोऽन्तमाश्रित्य लोकानां नष्टसंज्ञो विचेतनः । | 7.86.3aसोन्तमाश्रित्य लोकानां नष्टसंज्ञो विचेतनः । | 7.86.3aसोऽन्तमाश्रित्य लोकानां नष्टसञ्ज्ञो विचेतनः। | ||
| 6 | #3bಕಾಲಂ ತತ್ರಾವಸತ್ಕಂಚಿದ್ವೇಷ್ಟಮಾನ ಇವೋರಗಃ ॥ | 7.86.3bकालं तत्रावसत् कञ्चिद् वेष्टमान इवोरगः ॥ ३ ॥ | 7.77.3bकालं तत्रावसत्कंचिद्वेष्टमानो यथोरगः ॥7.77.3॥ | 7.86.3bकालं तत्रावसत्कंचिद्वेष्टमान इवोरगः ॥ ३ ॥ | 7.86.3bकालं तत्रावसत्कञ्चिद्वेष्टमान इवोरगः ॥ 7.86.3 ॥ | ||
| 7 | #4aಅಥ ನಷ್ಟೇ ಸಹಸ್ರಾಕ್ಷೇ ಉದ್ವಿಗ್ನಮಭವಜ್ಜಗತ್ । | 7.86.4aअथ नष्टे सहस्राक्षे उद्विग्नमभवज्जगत् । | 7.77.4aअथ नष्टे सहस्राक्षे उद्विग्नमभवज्जगत् । | 7.86.4aअथ नष्टे सहस्राक्षे उद्विग्नमभवज्जगत् । | 7.86.4aअथ नष्टे सहस्राक्षे उद्विग्नमभवज्जगत्। | ||
| 8 | #4bಭೂಮಿಶ್ಚ ಧ್ವಸ್ತಸಂಕಾಶಾ ನಿಃಸ್ನೇಹಾ ಶುಷ್ಕಕಾನನಾ ॥ | 7.86.4bभूमिश्च ध्वस्तसङ्काशा निःस्नेहा शुष्ककानना ॥ ४ ॥ | 7.77.4bभूमिश्च ध्वस्तसंकाशा निःस्नेहा शुष्ककानना ॥7.77.4॥ | 7.86.4bभूमिश्च ध्वस्तसंकाशा निस्नेहा शुष्ककानना ॥ ४ ॥ | 7.86.4bभूमिश्च ध्वस्तसङ्काशा निःस्नेहा शुष्ककानना ॥ 7.86.4 ॥ | ||
| 9 | #5aನಿಃಸ್ರೋತಸಸ್ತೇ ಸರ್ವೇತು ಹ್ರದಾಶ್ಚ ಸರಿತಸ್ತಥಾ । | 7.86.5aनिःस्रोतसस्ते सर्वे तु ह्रदाश्च सरितस्तथा । | 7.77.5aनिःस्रोतसश्चाम्बुवाहा ह्रदाश्च सरितस्तथा । | 7.86.5aनिःस्रोतसश्च ते सर्वे ह्रदाश्च सरितस्तथा । | 7.86.5aनिःस्रोतसश्च ते सर्वे तु ह्रदाश्च सरितस्तथा। | ||
| 10 | #5bಸಂಕ್ಷೋಭಶ್ಚೈವ ಸತ್ತ್ವಾನಾಮನಾವೃಷ್ಟಿ ಕೃತೋಽಭವತ್ ॥ | 7.86.5bसङ्क्षोभश्चैव सत्त्वानामनावृष्टिकृतोऽभवत् ॥ ५ ॥ | 7.77.5bसंक्षोभश्चैव सत्त्वानामनावृष्टिकृतोऽभवत् ॥7.77.5॥ | 7.86.5bसंक्षोभश्चैव सत्त्वानामनावृष्टिकृतोऽभवत् ॥ ५ ॥ | 7.86.5bसङ्क्षोभश्चैव सत्त्वानामनावृष्टिकृतोऽभवत् ॥ 7.86.5 ॥ | ||
| 11 | #6aಕ್ಷೀಯಮಾಣೇ ತು ಲೋಕೇಽಸ್ಮಿನ್ ಸಂಭ್ರಾಂತಮನಸಃ ಸುರಾಃ । | 7.86.6aक्षीयमाणे तु लोकेऽस्मिन् सम्भ्रान्तमनसः सुराः । | 7.77.6aक्षीयमाणे तु लोकेऽस्मिन्संभ्रान्तमनसः सुराः । | 7.86.6aक्षीयमाणे तु लोकेऽस्मिन्त्संभ्रान्तमनसः सुराः । | 7.86.6aक्षीयमाणे तु लोकेऽस्मिन्सम्भ्रान्तमनसः सुराः। | ||
| 12 | #6bಯದುಕ್ತಂ ವಿಷ್ಣುನಾ ಪೂರ್ವಂ ತಂ ಯಜ್ಞಂ ಸಮುಪಾನಯನ್ ॥ | 7.86.6bयदुक्तं विष्णुना पूर्वं तं यज्ञं समुपानयन् ॥ ६ ॥ | 7.77.6bयदुक्तं विष्णुना पूर्वं तं यज्ञं समुपानयन् ॥7.77.6॥ | 7.86.6bयदुक्तं विष्णुना पूर्वं तं यज्ञं समुपानयन् ॥ ६ ॥ | 7.86.6bयदुक्तं विष्णुना पूर्वं तं यज्ञं समुपानयन् ॥ 7.86.6 ॥ | ||
| 13 | #7aತತಃ ಸರ್ವೇ ಸುರಗಣಾಃ ಸೋಪಾಧ್ಯಾಯಾಃ ಸಹರ್ಷಿಭಿಃ । | 7.86.7aततः सर्वे सुरगणाः सोपाध्यायाः सहर्षिभिः । | 7.77.7aततः सर्वे सुरगणाः सोपाध्यायाः सहर्षिभिः । | 7.86.7aततः सर्वे सुरगणाः सोपाध्यायाः सहर्षिभिः । | 7.86.7aततः सर्वे सुरगणाः सोपाध्यायाः सहर्षिभिः। | ||
| 14 | #7bತಂ ದೇಶಂ ಸಮುಪಾಜಗ್ಮುರ್ಯತ್ರೇಂದ್ರೋ ಭಯಮೋಹಿತಃ ॥ | 7.86.7bतं देशं समुपाजग्मुर्यत्रेन्द्रो भयमोहितः ॥ ७ ॥ | 7.77.7bतं देशं सहिता जग्मुर्यत्रेन्द्रो भयमोहितः ॥7.77.7॥ | 7.86.7bतं देशं समुपाजग्मुर्यत्रेन्द्रो भयमोहितः ॥ ७ ॥ | 7.86.7bतं देशं समुपाजग्मुर्यत्रेन्द्रो भयमोहितः ॥ 7.86.7 ॥ | ||
| 15 | #8aತೇ ತು ದೃಷ್ಟ್ವಾ ಸಹಸ್ರಾಕ್ಷಮಾವೃತಂ ಬ್ರಹ್ಮಹತ್ಯಯಾ । | 7.86.8aते तु दृष्ट्वा सहस्राक्षमावृतं ब्रह्महत्यया । | 7.77.8aते तु दृष्ट्वा सहस्राक्षं मोहितं ब्रह्महत्यया । | 7.86.8aते तु दृष्ट्वा सहस्राक्षमावृतं ब्रह्महत्यया । | 7.86.8aते तु दृष्ट्वा सहस्राक्षमावृतं ब्रह्महत्यया। | ||
| 16 | #8bತಂ ಪುರಸ್ಕೃತ್ಯ ದೇವೇಶಮಶ್ವಮೇಧಂ ಪ್ರಚಕ್ರಿರೇ ॥ | 7.86.8bतं पुरस्कृत्य देवेशमश्वमेधं प्रचक्रिरे ॥ ८ ॥ | 7.77.8bतं पुरस्कृत्य देवेशमश्वमेधं प्रचक्रिरे ॥7.77.8॥ | 7.86.8bतं पुरस्कृत्य देवेशमश्वमेधमुपाक्रमन् ॥ ८ ॥ | 7.86.8bतं पुरस्कृत्य देवेशमश्वमेधमुपाक्रमन् ॥ 7.86.8 ॥ | ||
| 17 | #9aತತೋಽಶ್ವಮೇಧಃ ಸುಮಹಾನ್ಮಹೇಂದ್ರಸ್ಯ ಮಹಾತ್ಮನಃ । | 7.86.9aततोऽश्वमेधः सुमहान् महेन्द्रस्य महात्मनः । | 7.77.9aततोऽश्वमेधः सुमहान्महेन्द्रस्य महात्मनः । | 7.86.9aततोश्वमेधः सुमहान्महेन्द्रस महात्मनः । | 7.86.9aततोऽश्वमेधः सुमहान्महेन्द्रस्य महात्मनः। | ||
| 18 | #9bವವೃಧೇ ಬ್ರಹ್ಮಹತ್ಯಾಯಾಃ ಪಾವನಾರ್ಥಂ ನರೇಶ್ವರ ॥ | 7.86.9bववृते ब्रह्महत्यायाः पावनार्थं नरेश्वर ॥ ९ ॥ | 7.77.9bववृधे ब्रह्महत्यायाः पावनार्थं नरेश्वर ॥7.77.9॥ | 7.86.9bववृधे ब्रह्महत्यायाः पावनार्थं नरेश्वर ॥ ९ ॥ | 7.86.9bववृधे ब्रह्महत्ययाः पावनार्थं नरेश्वर ॥ 7.86.9 ॥ | ||
| 19 | #10aತತೋ ಯಜ್ಞೇ ಸಮಾಪ್ತೇ ತು ಬ್ರಹ್ಮಹತ್ಯಾಮಹಾತ್ಮನಃ । | 7.86.10aततो यज्ञे समाप्ते तु ब्रह्महत्या महात्मनः । | 7.77.10aततो यज्ञसमाप्तौ तु ब्रह्महत्या महात्मनः । | 7.86.10aततो यज्ञे समाप्ते तु ब्रह्महत्या महात्मनः । | 7.86.10aततो यज्ञे समाप्ते तु ब्रह्महत्या महात्मनः। | ||
| 20 | #10bಅಭಿಗಮ್ಯಾಬ್ರವೀದ್ವಾಕ್ಯಂಕ್ವ ಮೇ ಸ್ಥಾನಂ ವಿಧಾಸ್ಯಥ ॥ | 7.86.10bअभिगम्याब्रवीद् वाक्यं क्व मे स्थानं विधास्यथ ॥ १० ॥ | 7.77.10bअभिगम्याब्रवीद्वाक्यं क्व मे स्थानं विधास्यथ ॥7.77.10॥ | 7.86.10bअभिगम्याब्रवीद्वाक्यं क्व मे स्थानं विधास्यथ ॥ १० ॥ | 7.86.10bअभिगम्याब्रवीद्वाक्यं क्व मे स्थानं विधास्यथ ॥ 7.86.10 ॥ | ||
| 21 | #11aತೇ ತಾಮೂಚುಸ್ತತೋ ದೇವಾಸ್ತುಷ್ಟಾಃ ಪ್ರೀತಿಸಮನ್ವಿತಾಃ । | 7.86.11aते तामूचुस्ततो देवास्तुष्टाः प्रीतिसमन्विताः । | 7.77.11aते तामूचुस्ततो देवास्तुष्टाः प्रीतिसमन्विताः । | 7.86.11aते तामूचुस्तदा देवास्तुष्टाः प्रीतिसमन्विताः । | 7.86.11aते तामूचुस्तदा देवास्तुष्टाः प्रीतिसमन्विताः। | ||
| 22 | #11bಚತುರ್ಧಾ ವಿಭಜಾತ್ಮಾನಮಾತ್ಮನೈವ ದುರಾಸದೇ ॥ | 7.86.11bचतुर्धा विभजात्मानमात्मनैव दुरासदे ॥ ११ ॥ | 7.77.11bचतुर्धा विभजात्मानमात्मनैव दुरासदे ॥7.77.11॥ | 7.86.11bचतुर्धा विभजात्मानमात्मनैव दुरासदे ॥ ११ ॥ | 7.86.11bचतुर्धा विभजात्मानमात्मनैव दुरासदे ॥ 7.86.11 ॥ | ||
| 23 | #12aದೇವಾನಾಂ ಭಾಷಿತಂ ಶ್ರುತ್ವಾ ಬ್ರಹ್ಮಹತ್ಯಾ ಮಹಾತ್ಮನಾಮ್ । | 7.86.12aदेवानां भाषितं श्रुत्वा ब्रह्महत्या महात्मनाम् । | 7.77.12aदेवानां भाषितं श्रुत्वा ब्रह्महत्या महात्मनाम् । | 7.86.12aदेवानां भाषितं श्रुत्वा ब्रह्महत्या महात्मनाम् । | 7.86.12aदेवानां भाषितं श्रुत्वा ब्रह्महत्या महात्मनाम्। | ||
| 24 | #12bಸಂದಧೌ ಸ್ಥಾನಮನ್ಯತ್ರ ವರಯಾಮಾಸ ದುರ್ವಸಾ ॥ | 7.86.12bसन्दधौ स्थानमन्यत्र वरयामास दुर्वसा ॥ १२ ॥ | 7.77.12bसंनिधौ स्थानमन्यत्र वरयामास दुर्वसा ॥7.77.12॥ | 7.86.12bसन्निधौ स्थानमन्यत्र वरयामास दुर्वसा ॥ १२ ॥ | 7.86.12bसन्निधौ स्थानमन्यत्र वरयामास दुर्वसा ॥ 7.86.12 ॥ | ||
| 25 | #13aಏಕೇನಾಂಶೇನ ವತ್ಸ್ಯಾಮಿ ಪೂರ್ಣೋದಾಸು ನದೀಷು ವೈ । | 7.86.13aएकेनांशेन वत्स्यामि पूर्णोदासु नदीषु वै । | 7.77.13aएकेनांशेन वत्स्यामि पूर्णोदासु नदीषु वै । | 7.86.13aएकेनांशेन वत्स्यामि पूर्णोदासु नदीषु वै । | 7.86.13aएकेनांशेन वत्स्यामि पूर्णोदासु नदीषु वै। | ||
| 26 | 7.77.13bद्वितीयेन तु वृक्षेषु सत्यमेतद्ब्रवीमि वः ॥7.77.13॥ | ||||||
| 27 | #13bಚತುರೋ ವಾರ್ಷಿಕಾನ್ಮಾಸಾನ್ದರ್ಪಘ್ನೀ ಕಾಮಚಾರಿಣೀ ॥ | 7.86.13bचतुरो वार्षिकान् मासान् दर्पघ्नी कामचारिणी ॥ १३ ॥ | 7.86.13bचतुरो वार्षिकान्मासान्दर्पघ्नी कामवारिणी ॥ १३ ॥ | 7.86.13bचतुरो वार्षिकान्मासान्दर्पघ्नी कामवारिणी ॥ 7.86.13 ॥ | |||
| 28 | #14aಭೂಮ್ಯಾಮಹಂ ಸರ್ವಕಾಲಮೇಕೇನಾಂಶೇನ ಸರ್ವದಾ । | 7.86.14aभूम्यामहं सर्वकालमेकेनांशेन सर्वदा । | 7.86.14aभूम्यामहं सर्वकालमेकेनांशेन दुर्वसा । | 7.86.14aभूम्यामहं सर्वकालमेकेनांशेन सर्वदा। | |||
| 29 | #14bವಸಿಷ್ಯಾಮಿ ನ ಸಂದೇಹಃ ಸತ್ಯೇನೈತದ್ಬ್ರವೀಮಿ ವಃ ॥ | 7.86.14bवसिष्यामि न सन्देहः सत्येनैतद् ब्रवीमि वः ॥ १४ ॥ | 7.86.14bवसिष्यामि न सन्देहः सत्येनैतद्ब्रवीमि वः ॥ १४ ॥ | 7.86.14bवसिष्यामि न सन्देहः सत्येनैतद्ब्रवीमि वः ॥ 7.86.14 ॥ | |||
| 30 | #15aಯೋಯಮಂಶಸ್ತೃತೀಯೋ ಮೇ ಸ್ತ್ರೀಷು ಯೌವನಶಾಲಿಷು । | 7.86.15aयोऽयमंशस्तृतीयो मे स्त्रीषु यौवनशालिषु । | 7.77.14aयोऽयमंशस्तृतीयो मे स्त्रीषु यौवनशालिषु । | 7.86.15aयोयमंशस्तृतीयो मे स्त्रीषु यौवनशालिषु । | 7.86.15aयोऽयमंशस्तृतीयो मे स्त्रीषु यौवनशालिषु। | ||
| 31 | #15bತ್ರಿರಾತ್ರಂ ದರ್ಪಪೂರ್ಣಾಸುವಸಿಷ್ಯೇದರ್ಪಘಾತಿನೀ ॥ | 7.86.15bत्रिरात्रं दर्पपूर्णासु वसिष्ये दर्पघातिनी ॥ १५ ॥ | 7.77.14bत्रिरात्रं दर्पपर्णासु वसिष्ये दर्पघातिनी ॥7.77.14॥ | 7.86.15bत्रिरात्रं दर्पपूर्णासु वसिष्ये दर्पघातिनी ॥ १५ ॥ | 7.86.15bत्रिरात्रं दर्पपूर्णासु वशिष्ये दर्पघातिनी ॥ 7.86.15 ॥ | ||
| 32 | #16aಹಂತಾರೋ ಬ್ರಾಹ್ಮಣಾನ್ಯೇ ತುಮೃಷಾಪೂರ್ವಮದೂಷಕಾನ್ । | 7.86.16aहन्तारो ब्राह्मणान् ये तु मृषापूर्वमदूषकान् । | 7.77.15aहन्तारो ब्राह्मणान्ये तु प्रेक्षापूर्वमदूषकान् । | 7.86.16aहन्तारो ब्राह्मणान्ये तु मृषापूर्वमदूषकान् । | 7.86.16aहन्तारो ब्राह्मणान्ये तु मृषापूर्वमदूषकान्। | ||
| 33 | #16bತಾಂಶ್ಚತುರ್ಥೇನ ಭಾಗೇನ ಸಂಶ್ರಯಿಷ್ಯೇ ಸುರರ್ಷಭಾಃ ॥ | 7.86.16bतांश्चतुर्थेन भागेन संश्रयिष्ये सुरर्षभाः ॥ १६ ॥ | 7.77.15bतांश्चतुर्थेन भागेन संश्रयिष्ये सुरर्षभाः ॥7.77.15॥ | 7.86.16bतांश्चतुर्थेन भागेन संश्रयिष्ये सुरर्षभाः ॥ १६ ॥ | 7.86.16bतांश्चतुर्थेन भागेन संश्रयिष्ये सुरर्षभाः ॥ 7.86.16 ॥ | ||
| 34 | #17aಪ್ರತ್ಯೂಚುಸ್ತಾಂ ತತೋ ದೇವಾ ಯಥಾ ವದಸಿ ದುರ್ವಸೇ । | 7.86.17aप्रत्यूचुस्तां ततो देवा यथा वदसि दुर्वसे । | 7.77.16aप्रत्यूचुस्तां ततो देवा यथा वदसि दुर्वसे । | 7.86.17aप्रत्यूचुस्तां ततो देवा यथा वदसि दुर्वसे । | 7.86.17aप्रत्यूचुस्तां ततो देवा यथा वदसि दुर्वसे। | ||
| 35 | #17bತಥಾ ಭವತು ತತ್ಸರ್ವಂ ಸಾಧಯಸ್ವ ಯದೀಪ್ಸಿತಮ್ ॥ | 7.86.17bतथा भवतु तत् सर्वं साधयस्व यदीप्सितम् ॥ १७ ॥ | 7.77.16bतथा भवतु तत्सर्वं साधयस्व यथेप्सितम् ॥7.77.16॥ | 7.86.17bतथा भवतु तत्सर्वं साधयस्व यदीप्सितम् ॥ १७ ॥ | 7.86.17bतथा भवतु तत्सर्वं साधयस्व यदीप्सितम् ॥ 7.86.17 ॥ | ||
| 36 | #18aತತಃಪ್ರೀತ್ಯಾನ್ವಿತಾ ದೇವಾಃ ಸಹಸ್ರಾಕ್ಷಂ ವವಂದಿರೇ । | 7.86.18aततः प्रीत्यान्विता देवाः सहस्राक्षं ववन्दिरे । | 7.77.17aततः प्रीत्यान्विता देवाः सहस्राक्षं ववन्दिरे । | 7.86.18aततः प्रीत्यान्विता देवाः सहस्राक्षं ववन्दिरे । | 7.86.18aततः प्रीत्याऽन्विता देवाः सहस्राक्षं ववन्दिरे। | ||
| 37 | #18bವಿಜ್ವರಃ ಪೂತಪಾಪ್ಮಾ ಚ ವಾಸವಃ ಸಮಪದ್ಯತ ॥ | 7.86.18bविज्वरः पूतपाप्मा च वासवः समपद्यत ॥ १८ ॥ | 7.77.17bविज्वरः पूतपाप्मा च वासवः समपद्यत ॥7.77.17॥ | 7.86.18bविज्वरः स च पूतात्मा चासवः समपद्यत ॥ १८ ॥ | 7.86.18bविज्वरः स च पूतात्मा वासवः समपद्यत ॥ 7.86.18 ॥ | ||
| 38 | #19aಪ್ರಶಾಂತಂ ಚ ಜಗತ್ಸರ್ವಂ ಸಹಸ್ರಾಕ್ಷೇ ಪ್ರತಿಷ್ಠಿತೇ । | 7.86.19aप्रशान्तं च जगत् सर्वं सहस्राक्षे प्रतिष्ठिते । | 7.77.18aप्रशान्तं च जगत्सर्वं सहस्राक्षे प्रतिष्ठते । | 7.86.19aप्रशान्तं च जगत्सर्व सहस्राक्षे प्रतिष्ठिते । | 7.86.19aप्रशान्तं च जगत्सर्वं सहस्राक्षे प्रतिष्ठिते। | ||
| 39 | #19bಯಜ್ಞಂ ಚಾದ್ಭುತಸಂಕಾಶಂ ತದಾ ಶಕ್ರೋಽಭ್ಯ ಪೂಜಯತ್ ॥ | 7.86.19bयज्ञं चाद्भुतसङ्काशं तदा शक्रोऽभ्यपूजयत् ॥ १९ ॥ | 7.77.18bयज्ञं चाद्भुतसंकाशं तदा शक्रोऽभ्यपूजयत् ॥7.77.18॥ | 7.86.19bयज्ञं चाद्भुतसंकाशं तदा शक्रोऽभ्यपूजयत् ॥ १९ ॥ | 7.86.19bयज्ञं चाद्भुतसङ्काशं तदा शक्रोऽभ्यपूजयत् ॥ 7.86.19 ॥ | ||
| 40 | #20aಈದೃಶೋಹ್ಯಶ್ವಮೇಧಸ್ಯ ಪ್ರಭಾವೋ ರಘುನಂದನ । | 7.86.20aईदृशो ह्यश्वमेधस्य प्रभावो रघुनन्दन । | 7.77.19aईदृशो ह्यश्वमेधस्य प्रभावो रघुनन्दन । | 7.86.20aईदृशो ह्यश्वमेधस्य प्रभावो रघुनन्दन । | 7.86.20aईदृशो ह्यश्वमेधस्य प्रसादो रघुनन्दन। | ||
| 41 | #20bಯಜಸ್ವ ಸುಮಹಾಭಾಗ ಹಯಮೇಧೇನ ಪಾರ್ಥಿವ ॥ | 7.86.20bयजस्व सुमहाभाग हयमेधेन पार्थिव ॥ २० ॥ | 7.77.19bयजस्व सुमहाभाग हयमेधेन पार्थिव ॥7.77.19॥ | 7.86.20bयजस्व सुमहाभाग हयमेधेन पार्थिव ॥ २० ॥ | 7.86.20bयजस्व सुमहाभाग हयमेधेन पार्थिव ॥ 7.86.20 ॥ | ||
| 42 | #21aಇತಿ ಲಕ್ಷ್ಮಣವಾಕ್ಯಮುತ್ತಮಂ ನೃಪತಿರತೀವಮನೋಹರಂಮಹಾತ್ಮಾ । | 7.86.21aइति लक्ष्मणवाक्यमुत्तमं नृपतिरतीव मनोहरं महात्मा । | 7.86.21aइति लक्ष्मणवाक्यमुत्तमं नृपतिरतीव मनोहरं महात्मा । | 7.86.21aइति लक्ष्मणवाक्यमुत्तमं नृपतिरतीव मनोहरं महात्मा। | |||
| 43 | #21bಪರಿತೋಷಮವಾಪ ಹೃಷ್ಟಚೇತಾಃ ಸ ನಿಶಮ್ಯೇಂದ್ರಸಮಾನವಿಕ್ರಮೌಜಾಃ ॥ | 7.86.21bपरितोषमवाप हृष्टचेताः स निशम्येन्द्रसमानविक्रमौजाः ॥ २१ ॥ | 7.86.21bपरितोषमवाप हृष्टचेता निशमय्येन्द्रसमानविक्रमौजाः ॥ २१ ॥ | 7.86.21bपरितोषमवाप हृष्टचेता निशमय्येन्द्रसमानविक्रमौजाः ॥ 7.86.21 ॥ | |||
| 44 | 7.86.86इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे उत्तरकाण्डव्याख्याने षडशीतितमः सर्गः ॥ ८६ ॥ |