परित्याग-सूचनम्. Built from structured/verses.jsonl. Rows are monotone-aligned half-verse/pāda-like units split at । and ॥, so verse-number boundary differences can appear as inserted or shifted line rows.
38 aligned line rows across 7 source streams.
gor-kn 37 lines
gor-hi 37 lines
crit 36 lines
gr 2 lines
dr-mula 36 lines
| # | gor-kn | gor-hi | crit | gr | dr-mula | gr-iitk | iitk |
|---|---|---|---|---|---|---|---|
| 1 | #1aಅಥ ನಾವಂ ಸುವಿಸ್ತೀರ್ಣಾಂ ನೈಷಾದೀಂ ರಾಘವಾನುಜಃ । | 7.47.1aअथ नावं सुविस्तीर्णां नैषादीं राघवानुजः । | 7.46.1aअथ नावं सुविस्तीर्णां नैषादीं राघवानुजः । | 7.47.1aअथ नावं सुविस्तीर्णां नैपादीं राघवानुजः । | 7.47.1aअथ नावं सुविस्तीर्णां नैषादीं राघवानुजः। | ||
| 2 | #1bಆರುರೋಹ ಸಮಾಯುಕ್ತಾಂ ಪೂರ್ವಮಾರೋಪ್ಯ ಮೈಥಿಲೀಮ್ ॥ | 7.47.1bआरुरोह समायुक्तां पूर्वमारोप्य मैथिलीम् ॥ १ ॥ | 7.46.1bआरुरोह समायुक्तां पूर्वमारोप्य मैथिलीम् ॥7.46.1॥ | 7.47.1bआरुरोह समायुक्तां पूर्वमारोप्य मैथिलीम् ॥ १ ॥ | 7.47.1bआरुरोह समायुक्तां पूर्वमारोप्य मैथिलीम् ॥ 7.47.1 ॥ | ||
| 3 | #2aಸುಮಂತ್ರಂ ಚೈವ ಸರಥಂ ಸ್ಥೀಯತಾಮಿತಿ ಲಕ್ಷ್ಮಣಃ । | 7.47.2aसुमन्त्रं चैव सरथं स्थीयतामिति लक्ष्मणः । | 7.46.2aसुमन्त्रं चैव सरथं स्थीयतामिति लक्ष्मणः । | 7.47.2aसुमन्त्रं चैव सरथं स्थीयतामिति लक्ष्मणः। | |||
| 4 | #2bಉವಾಚ ಶೋಕಸಂತಪ್ತಃ ಪ್ರಯಾಹೀತಿ ಚ ನಾವಿಕಮ್ ॥ | 7.47.2bउवाच शोकसन्तप्तः प्रयाहीति च नाविकम् ॥ २ ॥ | 7.46.2bउवाच शोकसंतप्तः प्रयाहीति च नाविकम् ॥7.46.2॥ | 7.47.2bउवाच शोकसन्तप्तः प्रयाहीति च नाविकम् ॥ 7.47.2 ॥ | |||
| 5 | #3aತತಸ್ತೀರಮುಪಾಗಮ್ಯ ಭಾಗೀರಥ್ಯಾಃ ಸ ಲಕ್ಷ್ಮಣಃ । | 7.47.3aततस्तीरमुपागम्य भागीरथ्याः स लक्ष्मणः । | 7.46.3aततस्तीरमुपागम्य भागीरथ्याः स लक्ष्मणः । | 7.47.3aततस्तीरमुपागम्य भागीरथ्याः स लक्ष्मणः। | |||
| 6 | #3bಉವಾಚ ಮೈಥಿಲೀಂ ವಾಕ್ಯಂಪ್ರಾಂಜಲಿರ್ಬಾಷ್ಪಸಂವೃತಃ ॥ | 7.47.3bउवाच मैथिलीं वाक्यं प्राञ्जलिर्बाष्पसंवृतः ॥ ३ ॥ | 7.46.3bउवाच मैथिलीं वाक्यं प्राञ्जलिर्बाष्पगद्गदः ॥7.46.3॥ | 7.47.3bउवाच मैथिलीं वाक्यं प्राञ्जलिर्बाष्पसम्प्लुतः ॥ 7.47.3 ॥ | |||
| 7 | #4aಹೃದ್ಗತಂ ಮೇ ಮಹಚ್ಛಲ್ಯಂ ಯಸ್ಮಾದಾರ್ಯೇಣ ಧೀಮತಾ । | 7.47.4aहृद्गतं मे महच्छल्यं यस्मादार्येण धीमता । | 7.46.4aहृद्गतं मे महच्छल्यं यदस्म्यार्येण धीमता । | 7.47.4aहृद्गतं मे महच्छल्यं यस्मादार्येण धीमता। | |||
| 8 | #4bಅಸ್ಮನ್ನಿಮಿತ್ತೇ ವೈದೇಹಿ ಲೋಕಸ್ಯ ವಚನೀಕೃತಃ ॥ | 7.47.4bअस्मिन्निमित्ते वैदेहि लोकस्य वचनीकृतः ॥ ४ ॥ | 7.46.4bअस्मिन्निमित्ते वैदेहि लोकस्य वचनीकृतः ॥7.46.4॥ | 7.47.4bअस्मिन्निमित्ते वैदेहि लोकस्य वचनीकृतः ॥ 7.47.4 ॥ | |||
| 9 | #5aಶ್ರೇಯೋ ಹಿ ಮರಣಂ ಮೇದ್ಯ ಮೃತ್ಯುರ್ವಾ ಯತ್ಪರಂ ಭವೇತ್ । | 7.47.5aश्रेयो हि मरणं मेऽद्य मृत्युर्वा यत्परं भवेत् । | 7.46.5aश्रेयो हि मरणं मेऽद्य मृत्योर्वा यत्परं भवेत् । | 7.47.5aश्रेयो हि मरणं मेऽद्य मृत्युर्वा यत्परं भवेत्। | |||
| 10 | #5bನ ಚಾಸ್ಮಿನ್ನೀದೃಶೇ ಕಾರ್ಯೇ ನಿಯೋಜ್ಯೋ ಲೋಕನಿಂದಿತೇ ॥ | 7.47.5bन चास्मिन्नीदृशे कार्ये नियोज्यो लोकनिन्दिते ॥ ५ ॥ | 7.46.5bन चास्मिन्नीदृशे कार्ये नियोज्यो लोकनिन्दिते ॥7.46.5॥ | 7.47.5bन चास्मिन्नीदृशे कार्ये नियोज्यो लोकनिन्दिते ॥ 7.47.5 ॥ | |||
| 11 | 7.46.6aप्रसीद न च मे रोषं कर्तुमर्हसि सुव्रते । | ||||||
| 12 | #6aಪ್ರಸೀದ ಚ ನ ಮೇ ಪಾಪಂ ಕರ್ತುಮರ್ಹಸಿ ಶೋಭನೇ । | 7.47.6aप्रसीद च न मे पापं कर्तुमर्हसि शोभने । | 7.47.6aप्रसीद च न मे पापं कर्तुमर्हसि शोभने। | ||||
| 13 | #6bಇತ್ಯಂಜಲಿಕೃತೋ ಭೂವೌ ನಿಪಪಾತ ಸ ಲಕ್ಷ್ಮಣಃ ॥ | 7.47.6bइत्यञ्जलिकृतो भूमौ निपपात स लक्ष्मणः ॥ ६ ॥ | 7.46.6bइत्यञ्जलिकृतो भूमौ निपपात स लक्ष्मणः ॥7.46.6॥ | 7.47.6bइत्यञ्जलिकृतो भूमौ निपपात स लक्ष्मणः ॥ 7.47.6 ॥ | |||
| 14 | #7aರುದಂತಂ ಪ್ರಾಂಜಲಿಂ ದೃಷ್ಟ್ವಾ ಕಾಂಕ್ಷಂತಂ ಮೃತ್ಯುಮಾತ್ಮನಃ । | 7.47.7aरुदन्तं प्राञ्जलिं दृष्ट्वा काङ्क्षन्तं मृत्युमात्मनः । | 7.46.7aरुदन्तं प्राञ्जलिं दृष्ट्वा काङ्क्षन्तं मृत्युमात्मनः । | 7.47.7aरुदन्तं प्राञ्जलिं दृष्ट्वा काङ्क्षन्तं मृत्युमात्मनः। | |||
| 15 | #7bಮೈಥಿಲೀಭೃಶಸಂವಿಗ್ನಾ ಲಕ್ಷ್ಮಣಂ ವಾಕ್ಯಮಬ್ರವೀತ್ ॥ | 7.47.7bमैथिली भृशसंविग्ना लक्ष्मणं वाक्यमब्रवीत् ॥ ७ ॥ | 7.46.7bमैथिली भृशसंविग्ना लक्ष्मणं वाक्यमब्रवीत् ॥7.46.7॥ | 7.47.7bमैथिली भृशसंविग्ना लक्ष्मणं वाक्यमब्रवीत् ॥ 7.47.7 ॥ | |||
| 16 | #8aಕಿಮಿದಂ ನಾವಗಚ್ಛಾಮಿಬ್ರೂಹಿ ತತ್ತ್ವೇನ ಲಕ್ಷ್ಮಣ । | 7.47.8aकिमिदं नावगच्छामि ब्रूहि तत्त्वेन लक्ष्मण । | 7.46.8aकिमिदं नावगच्छामि ब्रूहि तत्त्वेन लक्ष्मण । | 7.47.8aकिमिदं नावगच्छामि ब्रूहि तत्त्वेन लक्ष्मण। | |||
| 17 | #8bಪಶ್ಯಾಮಿ ತ್ವಾಂ ನ ಚ ಸ್ವಸ್ಥಮಪಿ ಕ್ಷೇಮಂ ಮಹೀಪತೇಃ ॥ | 7.47.8bपश्यामि त्वां न च स्वस्थमपि क्षेमं महीपतेः ॥ ८ ॥ | 7.46.8bपश्यामि त्वां च न स्वस्थमपि क्षेमं महीपतेः ॥7.46.8॥ | 7.47.8bपश्यामि त्वां न च स्वस्थमपि क्षेमं महीपतेः ॥ 7.47.8 ॥ | |||
| 18 | #9aಶಾಪಿತೋಽಸಿ ನರೇಂದ್ರೇಣ ಯತ್ತ್ವಂ ಸಂತಾಪಮಾಗತಃ । | 7.47.9aशापितोऽसि नरेन्द्रेण यत् त्वं सन्तापमागतः । | 7.46.9aशापितोऽसि नरेन्द्रेण यत्त्वं संतापमात्मनः । | 7.47.9aशापितोऽसि नरेन्द्रेण यत्त्वं सन्तापमागतः। | |||
| 19 | #9bತದ್ಬ್ರೂಯಾಃ ಸಂನಿಧೌ ಮಹ್ಯಮಹಮಾಜ್ಞಾಪಯಾಮಿ ತೇ ॥ | 7.47.9bतद् ब्रूयाः सन्निधौ मह्यमहमाज्ञापयामि ते ॥ ९ ॥ | 7.46.9bतद्ब्रूयाः संनिधौ मह्यमहमाज्ञापयामि ते ॥7.46.9॥ | 7.47.9bतद्ब्रूयाः सन्निधौ मह्यमहमाज्ञापयामि ते ॥ 7.47.9 ॥ | |||
| 20 | #10aವೈದೇಹ್ಯಾ ಚೋದ್ಯಮಾನಸ್ತು ಲಕ್ಷ್ಮಣೋ ದೀನಚೇತನಃ । | 7.47.10aवैदेह्या चोद्यमानस्तु लक्ष्मणो दीनचेतनः । | 7.46.10aवैदेह्या चोद्यमानस्तु लक्ष्मणो दीनचेतनः । | 7.47.10aवैदेह्या चोद्यमानस्तु लक्ष्मणो दीनचेतनः। | |||
| 21 | #10bಅವಾಙ್ಮುಖೋ ಬಾಷ್ಪಗಲೋ ವಾಕ್ಯಮೇತದುವಾಚ ಹ ॥ | 7.47.10bअवाङ्मुखो बाष्पगलो वाक्यमेतदुवाच ह ॥ १० ॥ | 7.46.10bअवाङ्मुखो बाष्पगलो वाक्यमेतदुवाच ह ॥7.46.10॥ | 7.47.10bअवाङ्मुखो बाष्पकलं वाक्यमेतदुवाच ह ॥ 7.47.10 ॥ | |||
| 22 | #11aಶ್ರುತ್ವಾ ಪರಿಷದೋ ಮಧ್ಯೇ ಹ್ಯಪವಾದಂ ಸುದಾರುಣಮ್ । | 7.47.11aश्रुत्वा परिषदो मध्ये ह्यपवादं सुदारुणम् । | 7.46.11aश्रुत्वा परिषदो मध्ये अपवादं सुदारुणम् । | ||||
| 23 | #11bಪುರೇ ಜನಪದೇ ಚೈವ ತ್ವತ್ಕೃತೇ ಜನಕಾತ್ಮಜೇ ॥ | 7.47.11bपुरे जनपदे चैव त्वत्कृते जनकात्मजे ॥ ११ ॥ | 7.46.11bपुरे जनपदे चैव त्वत्कृते जनकात्मजे ॥7.46.11॥ | 7.47.11aपुरे जनपदे चैव त्वत्कृते जनकात्मजे। | |||
| 24 | #12aರಾಮಃ ಸಂತಪ್ತಹೃದಯೋ ಮಾಂ ನಿವೇದ್ಯ ಗೃಹಂ ಗತಃ । | 7.47.12aरामः सन्तप्तहृदयो मां निवेद्य गृहं गतः । | 7.47.11bरामः सन्तप्तहृदयो मा निवेद्य गृहं गतः ॥ 7.47.11 ॥ | ||||
| 25 | #12bನ ತಾನಿವಚನೀಯಾನಿ ಮಯಾ ದೇವಿ ತವಾಗ್ರತಃ ॥ | 7.47.12bन तानि वचनीयानि मया देवि तवाग्रतः ॥ १२ ॥ | 7.46.12aन तानि वचनीयानि मया देवि तवाग्रतः । | 7.47.12aन तानि वचनीयानि मया देवि तवाग्रतः। | |||
| 26 | #13aಯಾನಿ ರಾಜ್ಞಾ ಹೃದಿ ನ್ಯಸ್ತಾನ್ಯಮರ್ಷಾತ್ಪೃಷ್ಠತಃ ಕೃತಃ । | 7.47.13aयानि राज्ञा हृदि न्यस्तान्यमर्षात्पृष्ठतः कृतः । | 7.46.12bयानि राज्ञा हृदि न्यस्तान्यमर्षः पृष्ठतः कृतः ॥7.46.12॥ | 7.47.12bयानि राज्ञा हृदि न्यस्तान्यमर्षात्पृष्ठतः कृतः ॥ 7.47.12 ॥ | |||
| 27 | #13bಸಾ ತ್ವಂ ತ್ಯಕ್ತಾ ನೃಪತಿನಾ ನಿರ್ದೋಷಾ ಮಮ ಸಂನಿಧೌ ॥ | 7.47.13bसा त्वं त्यक्ता नृपतिना निर्दोषा मम सन्निधौ ॥ १३ ॥ | 7.46.13aसा त्वं त्यक्ता नृपतिना निर्दोषा मम संनिधौ । | 7.47.13aसा त्वं त्यक्ता नृपतिना निर्दोषा मम सन्निधौ। | |||
| 28 | #14aಪೌರಾಪವಾದಭೀತೇನ ಗ್ರಾಹ್ಯಂ ದೇವಿ ನ ತೇಽನ್ಯಥಾ । | 7.47.14aपौरापवादभीतेन ग्राह्यं देवि न तेऽन्यथा । | 7.46.13bपौरापवादभीतेन ग्राह्यं देवि न तेऽन्यथा ॥7.46.13॥ | 7.47.13bपौरापवादभीतेन ग्राह्यं देवि न तेऽन्यथा ॥ 7.47.13 ॥ | |||
| 29 | #14bಆಶ್ರಮಾಂತೇಷು ಚ ಮಯಾ ತ್ಯಕ್ತವ್ಯಾ ತ್ವಂ ಭವಿಷ್ಯಸಿ ॥ | 7.47.14bआश्रमान्तेषु च मया त्यक्तव्या त्वं भविष्यसि ॥ १४ ॥ | 7.46.14aआश्रमान्तेषु च मया त्यक्तव्या त्वं भविष्यसि । | 7.47.14aआश्रमान्तेषु च मया त्यक्तव्या त्वं भविष्यसि। | |||
| 30 | #15aರಾಜ್ಞಃ ಶಾಸನಮಾದಾಯ ತಥೈವ ಕಿಲ ದೌರ್ಹೃದಮ್ । | 7.47.15aराज्ञः शासनमादाय तथैव किल दौर्हृदम् । | 7.46.14bराज्ञः शासनमाज्ञाय तवैवं किल दौर्हृदम् ॥7.46.14॥ | 7.47.14bराज्ञः शासनमाज्ञाय तवेदं किल दौर्हृदम् ॥ 7.47.14 ॥ | |||
| 31 | #15bತದೇತಜ್ಜಾಹ್ನವೀತೀರೇ ಬ್ರಹ್ಮರ್ಷೀಣಾಂ ತಪೋವನಮ್ ॥ | 7.47.15bतदेतज्जाह्नवीतीरे ब्रह्मर्षीणां तपोवनम् ॥ १५ ॥ | 7.46.15aतदेतज्जाह्नवीतीरे ब्रह्मर्षीणां तपोवनम् । | 7.47.15aतदेतज्जाह्नवीतीरे ब्रह्मर्षीणां तपोवनम्। | |||
| 32 | #16aಪುಣ್ಯಂ ಚ ರಮಣೀಯಂ ಚ ಮಾ ವಿಷಾದಂ ಕೃಥಾಃಶುಭೇ । | 7.47.16aपुण्यं च रमणीयं च मा विषादं कृथाः शुभे । | 7.46.15bपुण्यं च रमणीयं च मा विषादं कृथाः शुभे ॥7.46.15॥ | 7.47.15bपुण्यं च रमणीयं च मा विषादं कृथाः शुभे ॥ 7.47.15 ॥ | |||
| 33 | #16bರಾಜ್ಞೋ ದಶರಥಸ್ಯೈವ ಪಿತುರ್ಮೇ ಮುನಿಪುಂಗವಃ ॥ | 7.47.16bराज्ञो दशरथस्यैव पितुर्मे मुनिपुङ्गवः ॥ १६ ॥ | 7.46.16aराज्ञो दशरथस्यैष पितुर्मे मुनिपुंगवः । | 7.47.16aराज्ञो दशरथस्येष्टः पितुर्मे मुनिपुङ्गवः। | |||
| 34 | #17aಸಖಾ ಪರಮಕೋ ವಿಪ್ರೋ ವಾಲ್ಮೀಕಿಃ ಸುಮಹಾಯಶಾಃ । | 7.47.17aसखा परमको विप्रो वाल्मीकिः सुमहायशाः । | 7.46.16bसखा परमको विप्रो वाल्मीकिः सुमहायशाः ॥7.46.16॥ | 7.47.16bसखा परमको विप्रो वाल्मीकिः सुमहायशाः ॥ 7.47.16 ॥ | |||
| 35 | #17bಪಾದಚ್ಛಾಯಾಮುಪಾಗಮ್ಯ ಸುಖಮಸ್ಯ ಮಹಾತ್ಮನಃ । | 7.47.17bपादच्छायामुपागम्य सुखमस्य महात्मनः । | 7.46.17aपादच्छायामुपागम्य सुखमस्य महात्मनः । | 7.47.17aपादच्छायामुपागम्य सुखमस्य महात्मनः। | |||
| 36 | #17cಉಪವಾಸಪರೈಕಾಗ್ರಾ ವಸ ತ್ವಂ ಜನಕಾತ್ಮಜೇ ॥ | 7.47.17cउपवासपरैकाग्रा वस त्वं जनकात्मजे ॥ १७ ॥ | 7.46.17bउपवासपरैकाग्रा वस त्वं जनकात्मजे ॥7.46.17॥ | 7.47.17bउपवासपरैकाग्रा वस त्वं जनकात्मजे ॥ 7.47.17 ॥ | |||
| 37 | #18aಪತಿವ್ರತಾತ್ವಮಾಸ್ಥಾಯ ರಾಮಂ ಕೃತ್ವಾ ಸದಾ ಹೃದಿ । | 7.47.18aपतिव्रतात्वमास्थाय रामं कृत्वा सदा हृदि । | 7.46.18aपतिव्रतात्वमास्थाय रामं कृत्वा सदा हृदि । | 7.47.18aपतिव्रतात्वमास्थाय रामं कृत्वा सदा हृदि। | |||
| 38 | #18bಶ್ರೇಯಸ್ತೇ ಪರಮಂ ದೇವಿ ತಥಾ ಕೃತ್ವಾ ಭವಿಷ್ಯತಿ ॥ | 7.47.18bश्रेयस्ते परमं देवि तथा कृत्वा भविष्यति ॥ १८ ॥ | 7.46.18bश्रेयस्ते परमं देवि तथा कृत्वा भविष्यति ॥7.46.18॥ | 7.47.18bश्रेयस्ते परमं देवि तथा कृत्वा भविष्यति ॥ 7.47.18 ॥ |