सूर्य-बुभुक्षा. Built from structured/verses.jsonl. Rows are monotone-aligned half-verse/pāda-like units split at । and ॥, so verse-number boundary differences can appear as inserted or shifted line rows.
136 aligned line rows across 7 source streams.
gor-kn 131 lines
gor-hi 131 lines
crit 129 lines
gr 133 lines
dr-mula 130 lines
| # | gor-kn | gor-hi | crit | gr | dr-mula | gr-iitk | iitk |
|---|---|---|---|---|---|---|---|
| 1 | #1aಅಪೃಚ್ಛತ ತದಾ ರಾಮೋ ದಕ್ಷಿಣಾಶಾಶ್ರಯಂ ಮುನಿಮ್ । | 7.35.1aअपृच्छत तदा रामो दक्षिणाशाश्रयं मुनिम् । | 7.35.1aअपृच्छत ततो रामो दक्षिणाशालयं मुनिम् । | 7.35.1aअपृच्छत तदा रामो दक्षिणाशाश्रयं मुनिम् । | 7.35.1aअपृच्छत तदा रामो दक्षिणाशाश्रमं मुनिम्। | ||
| 2 | #1bಪ್ರಾಂಜಲಿರ್ವಿನಯೋಪೇತ ಇದಮಾಹ ವಚೋಽರ್ಥವತ್ ॥ | 7.35.1bप्राञ्जलिर्विनयोपेत इदमाह वचोऽर्थवत् ॥ १ ॥ | 7.35.1bप्राञ्जलिर्विनयोपेत इदमाह वचोऽर्थवत् ॥7.35.1॥ | 7.35.1bप्राञ्जलिर्विनयोपेत इदमाह वचोर्थवत् ॥ १ ॥ | 7.35.1bप्राञ्जलिर्विनयोपेत इदमाह वचोऽर्थवत् ॥ 7.35.1 ॥ | ||
| 3 | #2aಅತುಲಂ ಬಲಮೇತದ್ವೈ ವಾಲಿನೋ ರಾವಣಸ್ಯ ಚ । | 7.35.2aअतुलं बलमेतद् वै वालिनो रावणस्य च । | 7.35.2aअतुलं बलमेताभ्यां वालिनो रावणस्य च । | 7.35.2aअतुलं बलमेतद्वै वालिनो रावणस्य च । | 7.35.2aअतुलं बलमेतद्वै वालिनो रावणस्य च। | ||
| 4 | 7.35.2bन त्वेतौ हनुमद्वीर्यैः समाविति मतिर्मम ॥7.35.2॥ | ||||||
| 5 | #2bನ ತ್ವೇತಾಭ್ಯಾಂ ಹನುಮತಾ ಸಮಂ ತ್ವಿತಿ ಮತಿರ್ಮಮ ॥ | 7.35.2bन त्वेताभ्यां हनुमता समं त्विति मतिर्मम ॥ २ ॥ | 7.35.2bन त्वेताभ्यां हनुमता समं त्विति मतिर्मम ॥ २ ॥ | 7.35.2bन त्वेताभ्यां हनुमता समं त्विति मतिर्मम ॥ 7.35.2 ॥ | |||
| 6 | #3aಶೌರ್ಯಂ ದಾಕ್ಷ್ಯಂ ಬಲಂ ಧೈರ್ಯಂ ಪ್ರಾಜ್ಞತಾ ನಯಸಾಧನಮ್ । | 7.35.3aशौर्यं दाक्ष्यं बलं धैर्यं प्राज्ञता नयसाधनम् । | 7.35.3aशौर्यं दाक्ष्यं बलं धैर्यं प्राज्ञता नयसाधनम् । | 7.35.3aशौर्य दाक्ष्यं बलं धैर्यं प्राज्ञता नयसाधनम् । | 7.35.3aशौर्यं दाक्ष्यं बलं धैर्यं प्राज्ञता नयसाधनम्। | ||
| 7 | #3bವಿಕ್ರಮಶ್ಚ ಪ್ರಭಾವಶ್ಚ ಹನೂಮತಿ ಕೃತಾಲಯಾಃ ॥ | 7.35.3bविक्रमश्च प्रभावश्च हनूमति कृतालयाः ॥ ३ ॥ | 7.35.3bविक्रमश्च प्रभावश्च हनूमति कृतालयाः ॥7.35.3॥ | 7.35.3bविक्रमश्च प्रभावश्च हनूमति कृतालयाः ॥ ३ ॥ | 7.35.3bविक्रमश्च प्रभावश्च हनूमति कृतालयाः ॥ 7.35.3 ॥ | ||
| 8 | 7.35.4aदृष्ट्वोदधिं विषीदन्तीं तदैष कपिवाहिनीम् । | ||||||
| 9 | #4aದೃಷ್ಟ್ವೈವ ಸಾಗರಂ ವೀಕ್ಷ್ಯಸೀದಂತೀಂ ಕಪಿವಾಹಿನೀಮ್ । | 7.35.4aदृष्ट्वैव सागरं वीक्ष्य सीदन्तीं कपिवाहिनीम् । | 7.35.4aदृष्ट्वैव सागरं वीक्ष्य सीदन्तीं कपिवाहिनीम् । | 7.35.4aदृष्ट्वैव सागरं वीक्ष्य सीदन्तीं कपिवाहिनीम्। | |||
| 10 | #4bಸಮಾಶ್ಚಾಸ್ಯ ಮಹಾಬಾಹುರ್ಯೋಜನಾನಾಂ ಶತಂ ಪ್ಲುತಃ ॥ | 7.35.4bसमाश्वास्य महाबाहुर्योजनानां शतं प्लुतः ॥ ४ ॥ | 7.35.4bसमाश्वास्य कपीन्भूयो योजनानां शतं प्लुतः ॥7.35.4॥ | 7.35.4bसमाश्वास्य महावाहुर्योजनानां शतं प्लुतः ॥ ४ ॥ | 7.35.4bसमाश्वास्य महाबाहुर्योजनानां शतं प्लुतः ॥ 7.35.4 ॥ | ||
| 11 | #5aಧರ್ಷಯಿತ್ವಾ ಪುರೀಂ ಲಂಕಾಂ ರಾವಣಾಂತಃಪುರಂ ತದಾ । | 7.35.5aधर्षयित्वा पुरीं लङ्कां रावणान्तःपुरं तदा । | 7.35.5aधर्षयित्वा पुरीं लङ्कां रावणान्तःपुरं तथा । | 7.35.5aधर्षयित्वा पुरीं लङ्कां रावणान्तःपुरं तदा । | 7.35.5aधर्षयित्वा पुरीं लङ्कां रावणान्तःपुरं तदा। | ||
| 12 | #5bದೃಷ್ಟಾ ಸಂಭಾಷಿತಾ ಚಾಪಿ ಸೀತಾ ಹ್ಯಾಶ್ವಾಸಿತಾ ತಥಾ ॥ | 7.35.5bदृष्टा सम्भाषिता चापि सीता ह्याश्वासिता तथा ॥ ५ ॥ | 7.35.5bदृष्ट्वा संभाषिता चापि सीता विश्वासिता तथा ॥7.35.5॥ | 7.35.5bदृष्ट्वा संभाषिता चापि सीता ह्याश्वासिता तथा ॥ ५ ॥ | 7.35.5bदृष्ट्वा सम्भाषिता चापि सीता ह्याश्वासिता तथा ॥ 7.35.5 ॥ | ||
| 13 | #6aಸೇನಾಗ್ರಗಾ ಮಂತ್ರಿಸುತಾಃ ಕಿಂಕರಾ ರಾವಣಾತ್ಮಜಃ । | 7.35.6aसेनाग्रगा मन्त्रिसुताः किङ्करा रावणात्मजः । | 7.35.6aसेनाग्रगा मन्त्रिसुताः किंकरा रावणात्मजः । | 7.35.6aसेनाग्रगा मन्त्रिसुताः किंकरा रावणात्मजः । | 7.35.6aसेनाग्रगा मन्त्रिसुताः किङ्करा रावणात्मजः। | ||
| 14 | #6bಏತೇ ಹನುಮತಾ ತತ್ರ ಏಕೇನ ವಿನಿಪಾತಿತಾಃ ॥ | 7.35.6bएते हनुमता तत्र एकेन विनिपातिताः ॥ ६ ॥ | 7.35.6bएते हनुमता तत्र एकेन विनिपातिताः ॥7.35.6॥ | 7.35.6bएते हनुमता तत्र ह्येकेन विनिपातिताः ॥ ६ ॥ | 7.35.6bएते हनुमता तत्र ह्येकेन वितिपातिताः ॥ 7.35.6 ॥ | ||
| 15 | #7aಭೂಯೋ ಬಂಧಾದ್ವಿಮುಕ್ತೇನ ಭಾಷಯಿತ್ವಾ ದಶಾನನಮ್ । | 7.35.7aभूयो बन्धाद् विमुक्तेन भाषयित्वा दशाननम् । | 7.35.7aभूयो बन्धाद्विमुक्तेन संभाषित्वा दशाननम् । | 7.35.7aभूयो बन्धाद्विमुक्तेन भाषयित्वा दशाननम् । | 7.35.7aभूयो बन्धाद्विमुक्तेन भाषयित्वा दशाननम्। | ||
| 16 | #7bಲಂಕಾ ಭಸ್ಮೀಕೃತಾ ಯೇನ ಪಾವಕೇನೇವ ಮೇದಿನೀ ॥ | 7.35.7bलङ्का भस्मीकृता येन पावकेनेव मेदिनी ॥ ७ ॥ | 7.35.7bलङ्का भस्मीकृता तेन पावकेनेव मेदिनी ॥7.35.7॥ | 7.35.7bलड्डा भस्सीकृता येन पावकेनेव मेदिनी ॥ ७ ॥ | 7.35.7bलङ्का भस्मीकृता येन पावकेनेव मेदिनी ॥ 7.35.7 ॥ | ||
| 17 | #8aನ ಕಾಲಸ್ಯ ನ ಶಕ್ರಸ್ಯ ನ ವಿಷ್ಣೋರ್ವಿತ್ತಪಸ್ಯ ಚ । | 7.35.8aन कालस्य न शक्रस्य न विष्णोर्वित्तपस्य च । | 7.35.8aन कालस्य न शक्रस्य न विष्णोर्वित्तपस्य च । | 7.35.8aन कालस्य न शक्रस्य न विष्णोर्वित्तपस्य च । | 7.35.8aन कालस्य न शक्रस्य न विष्णोर्वित्तपस्य च। | ||
| 18 | #8bಕರ್ಮಾಣಿ ತಾನು ಶ್ರೂಯಂತೇ ಯಾನಿ ಯುದ್ಧೇ ಹನೂಮತಃ ॥ | 7.35.8bकर्माणि तानि श्रूयन्ते यानि युद्धे हनूमतः ॥ ८ ॥ | 7.35.8bकर्माणि तानि श्रूयन्ते यानि युद्धे हनूमतः ॥7.35.8॥ | 7.35.8bकर्माणि तानि श्रूयन्ते यानि युद्धे हनूमतः ॥ ८ ॥ | 7.35.8bकर्माणि तानि श्रूयन्ते यानि युद्धे हनूमतः ॥ 7.35.8 ॥ | ||
| 19 | #9aಏತಸ್ಯ ಬಾಹುವೀರ್ಯೇಣ ಲಂಕಾ ಸೀತಾ ಚ ಲಕ್ಷ್ಮಣಃ । | 7.35.9aएतस्य बाहुवीर्येण लङ्का सीता च लक्ष्मणः । | 7.35.9aएतस्य बाहुवीर्येण लङ्का सीता च लक्ष्मणः । | 7.35.9aएतस्य बाहुवीर्येण लङ्का सीता च लक्ष्मणः । | 7.35.9aएतस्य बाहुवीर्येण लङ्का सीता च लक्ष्मणः। | ||
| 20 | #9bಪ್ರಾಪ್ತಾ ಮಯಾ ಜಯಶ್ಚೈವ ರಾಜ್ಯಂ ಮಿತ್ರಾಣಿ ಬಾಂಧವಾಃ ॥ | 7.35.9bप्राप्ता मया जयश्चैव राज्यं मित्राणि बान्धवाः ॥ ९ ॥ | 7.35.9bप्राप्तो मया जयश्चैव राज्यं मित्राणि बान्धवाः ॥7.35.9॥ | 7.35.9bप्राप्ता मया जयश्चैव राज्यं मित्राणि बान्धवाः ॥ ९ ॥ | 7.35.9bप्राप्ता मया जयश्चैव राज्यं मित्राणि बान्धवाः ॥ 7.35.9 ॥ | ||
| 21 | #10aಹನೂಮಾನ್ಯದಿ ಮೇ ನ ಸ್ಯಾದ್ ವಾನರಾಧಿಪತೇಃ ಸಖಾ । | 7.35.10aहनूमान् यदि मे न स्याद् वानराधिपतेः सखा । | 7.35.10aहनूमान्यदि मे न स्याद्वानराधिपतेः सखा । | 7.35.10aहनुमान्यदि नो न स्याद्वानराधिपतेः सखा । | 7.35.10aहनूमान्यदि मे नः स्याद्वानराधिपतेः सखा। | ||
| 22 | #10bಪ್ರವೃತ್ತಿಮಪಿ ಕೋ ವೇತ್ತುಂ ಜಾನಕ್ಯಾಃ ಶಕ್ತಿಮಾನ್ ಭವೇತ್ ॥ | 7.35.10bप्रवृत्तिमपि को वेत्तुं जानक्याः शक्तिमान् भवेत् ॥ १० ॥ | 7.35.10bप्रवृत्तमपि को वेत्तुं जानक्याः शक्तिमान्भवेत् ॥7.35.10॥ | 7.35.10bप्रवृत्तिमपि को वेत्तुं जानक्याः शक्तिमान्भवेत् ॥ १० ॥ | 7.35.10bप्रवृत्तिमपि को वेत्तुं जानक्याः शक्तिमान्भवेत् ॥ 7.35.10 ॥ | ||
| 23 | #11aಕಿಮರ್ಥಂ ವಾಲೀ ಚೈತೇನ ಸುಗ್ರೀವ ಪ್ರಿಯಕಾಮ್ಯಯಾ । | 7.35.11aकिमर्थं वाली चैतेन सुग्रीवप्रियकाम्यया । | 7.35.11aकिमर्थं वाली चैतेन सुग्रीवप्रियकाम्यया । | 7.35.11aकिमर्थं वाल्यनेनैव सुग्रीवप्रियकाम्यया । | 7.35.11aकिमर्थं वाल्यनेनैव सुग्रीवप्रियकाम्यया। | ||
| 24 | #11bತದಾ ವೈರೇ ಸಮುತ್ಪನ್ನೇ ನ ದಗ್ಧೋ ವೀರುಧೋ ಯಥಾ ॥ | 7.35.11bतदा वैरे समुत्पन्ने न दग्धो वीरुधो यथा ॥ ११ ॥ | 7.35.11bतदा वैरे समुत्पन्ने न दग्धो वीरुधो यथा ॥7.35.11॥ | 7.35.11bतदा वैरे समुत्पन्ने न दग्धो वीरुधो यथा ॥ ११ ॥ | 7.35.11bतदा वैरे समुत्पन्ने न दग्धो वीरुधो यथा ॥ 7.35.11 ॥ | ||
| 25 | #12aನ ಹಿ ವೇದಿತವಾನ್ಮನ್ಯೇ ಹನೂಮಾನಾತ್ಮನೋ ಬಲಮ್ । | 7.35.12aनहि वेदितवान् मन्ये हनूमानात्मनो बलम् । | 7.35.12aन हि वेदितवान्मन्ये हनूमानात्मनो बलम् । | 7.35.12aन हि वेदितवान्मन्ये हनूमानात्मनो बलम् । | 7.35.12aनहि वेदितवान्मन्ये हनूमानात्मनो बलम्। | ||
| 26 | #12bಯದ್ದೃಷ್ಟವಾಂ ಜೀವಿತೇಷ್ಟಂ ಕ್ಲಿಶ್ಯಂತಂ ವಾನರಾಧಿಪಮ್ ॥ | 7.35.12bयद् दृष्टवाञ्जीवितेष्टं क्लिश्यन्तं वानराधिपम् ॥ १२ ॥ | 7.35.12bयद्दृष्टवाञ्जीवितेष्टं क्लिश्यन्तं वानराधिपम् ॥7.35.12॥ | 7.35.12bयदृष्टवाञ्जीवितेष्टं क्लिश्यन्तं वानराधिपम् ॥ १२ ॥ | 7.35.12bयद्दृष्टवाञ्जीवितेष्टं क्लिश्यन्तं वानराधिपम् ॥ 7.35.12 ॥ | ||
| 27 | #13aಏತನ್ಮೇ ಭಗವನ್ಸರ್ವಂ ಹನೂಮತಿ ಮಹಾಮುನೇ । | 7.35.13aएतन्मे भगवन् सर्वं हनूमति महामुने । | 7.35.13aएतन्मे भगवन्सर्वं हनूमति महामुने । | 7.35.13aएतन्मे भगवन्सर्वं हनूमति महामतौ । | 7.35.13aएतन्मे भगवन्सर्वं हनूमति महामतौ। | ||
| 28 | #13bವಿಸ್ತರೇಣ ಯಥಾತತ್ತ್ವಂ ಕಥಯಾಮರಪೂಜಿತ ॥ | 7.35.13bविस्तरेण यथातत्त्वं कथयामरपूजित ॥ १३ ॥ | 7.35.13bविस्तरेण यथातत्त्वं कथयामरपूजित ॥7.35.13॥ | 7.35.13bविस्तरेण यथातत्त्वं कथयामरपूजित ॥ १३ ॥ | 7.35.13bविस्तरेण यथातत्त्वं कथयामरपूजित ॥ 7.35.13 ॥ | ||
| 29 | #14aರಾಘವಸ್ಯ ವಚಃ ಶ್ರುತ್ವಾ ಹೇತುಯುಕ್ತಮೃಷಿಸ್ತತಃ । | 7.35.14aराघवस्य वचः श्रुत्वा हेतुयुक्तमृषिस्ततः । | 7.35.14aराघवस्य वचः श्रुत्वा हेतुयुक्तमृषिस्ततः । | 7.35.14aराघवस्य वचः श्रुत्वा हेतुयुक्तमृषिस्तदा । | 7.35.14aराघवस्य वचः श्रुत्वा हेतुयुक्तमृषिस्तदा। | ||
| 30 | #14bಹನೂಮತಃ ಸಮಕ್ಷಂ ತಮಿದಂ ವಚನಮಬ್ರವೀತ್ ॥ | 7.35.14bहनूमतः समक्षं तमिदं वचनमब्रवीत् ॥ १४ ॥ | 7.35.14bहनूमतः समक्षं तमिदं वचनमब्रवीत् ॥7.35.14॥ | 7.35.14bहनूमतः समक्षं तमिदं वचनमब्रवीत् ॥ १४ ॥ | 7.35.14bहनूमतः समक्षं तमिदं वचनमब्रवीत् ॥ 7.35.14 ॥ | ||
| 31 | #15aಸತ್ಯಮೇತದ್ ರಘುಶ್ರೇಷ್ಠ ಯದ್ಬ್ರವೀಷಿ ಹನೂಮತಿ । | 7.35.15aसत्यमेतद् रघुश्रेष्ठ यद् ब्रवीषि हनूमति । | 7.35.15aसत्यमेतद्रघुश्रेष्ठ यद्ब्रवीषि हनूमतः । | 7.35.15aसत्यमेतद्रघुश्रेष्ठ यद्ब्रवीषि हनूमतः । | 7.35.15aसत्यमेतद्रघुश्रेष्ठ यद्ब्रवीषि हनूमतः। | ||
| 32 | #15bನ ಬಲೇ ವಿದ್ಯತೇ ತುಲ್ಯೋ ನ ಗತೌ ನ ಮತೌ ಪರಃ ॥ | 7.35.15bन बले विद्यते तुल्यो न गतौ न मतौ परः ॥ १५ ॥ | 7.35.15bन बले विद्यते तुल्यो न गतौ न मतौ परः ॥7.35.15॥ | 7.35.15bन बले विद्यते तुल्यो न गतौ न मतौ परः ॥ १५ ॥ | 7.35.15bन बले विद्यते तुल्यो न गतौ न मतौ परः ॥ 7.35.15 ॥ | ||
| 33 | #16aಅಮೋಘಶಾಪೈಃ ಶಾಪಸ್ತು ದತ್ತೋಽಸ್ಯ ಮುನಿಭಿಃ ಪುರಾ । | 7.35.16aअमोघशापैः शापस्तु दत्तोऽस्य मुनिभिः पुरा । | 7.35.16aअमोघशापैः शापस्तु दत्तोऽस्य ऋषिभिः पुरा । | 7.35.16aअमोघशापैः शापस्तु दत्तोस्य ऋषिभिः पुरा । | 7.35.16aअमोघशापैः शप्तस्तु दत्तोऽस्य मुनिभिः पुरा। | ||
| 34 | #16bನ ವೇತ್ತಾ ಹಿ ಬಲಂ ಸರ್ವಂ ಬಲೀ ಸನ್ನರಿಮರ್ದನ ॥ | 7.35.16bन वेत्ता हि बलं सर्वं बली सन्नरिमर्दन ॥ १६ ॥ | 7.35.16bन वेदिता बलं येन बली सन्नरिमर्दनः ॥7.35.16॥ | 7.35.16bन वेत्ता हि बलं येन बली सन्नरिमर्दनः ॥ १६ ॥ | 7.35.16bन वेत्ता हि बलं येन बली सन्निरिमर्दनः ॥ 7.35.16 ॥ | ||
| 35 | #17aಬಾಲ್ಯೇಽಪ್ಯೇತೇನ ಯತ್ಕರ್ಮ ಕೃತಂ ರಾಮ ಮಹಾಬಲ । | 7.35.17aबाल्येऽप्येतेन यत् कर्म कृतं राम महाबल । | 7.35.17aबाल्येऽप्येतेन यत्कर्म कृतं राम महाबल । | 7.35.17aबाल्येप्येतेन यत्कर्म कृतं राम महाबल । | 7.35.17aबाल्येऽप्येतेन यत्कर्म कृतं राम महाबल। | ||
| 36 | #17bತನ್ನ ವರ್ಣಯಿತುಂ ಶಕ್ಯಮಿತಿ ಬಾಲ್ಯತಯಾಸ್ಯತೇ ॥ | 7.35.17bतन्न वर्णयितुं शक्यमिति बाल्यतयास्यते ॥ १७ ॥ | 7.35.17bतन्न वर्णयितुं शक्यमतिबालतयास्य ते ॥7.35.17॥ | 7.35.17bतन्न वर्णयितुं शक्यमिति बालतयाऽस्यते ॥ १७ ॥ | 7.35.17bतन्न वर्णयितुं शक्यमिति बालतयाऽऽस्यते ॥ 7.35.17 ॥ | ||
| 37 | #18aಯದಿ ವಾಸ್ತಿ ತ್ವಭಿಪ್ರಾಯಃ ಸಂಶ್ರೋತುಂ ತವ ರಾಘವ । | 7.35.18aयदि वास्ति त्वभिप्रायः संश्रोतुं तव राघव । | 7.35.18aयदि वास्ति त्वभिप्रायस्तच्छ्रोतुं तव राघव । | 7.35.18aयदि वाऽस्ति ह्यभिप्रायस्तच्छ्रोतुं तव राघव । | 7.35.18aयदि वाऽस्ति त्वभिप्रायस्तच्छ्रोतुं तव राघव। | ||
| 38 | #18bಸಮಾಧಾಯ ಮತಿಂ ರಾಮ ನಿಶಾಮಯ ವದಾಮ್ಯಹಮ್ ॥ | 7.35.18bसमाधाय मतिं राम निशामय वदाम्यहम् ॥ १८ ॥ | 7.35.18bसमाधाय मतिं राम निशामय वदाम्यहम् ॥7.35.18॥ | 7.35.18bसमाधाय मतिं राम निशामय वदाम्यहम् ॥ १८ ॥ | 7.35.18bसमाधाय मतिं राम निशामय वदाम्यहम् ॥ 7.35.18 ॥ | ||
| 39 | #19aಸೂರ್ಯದತ್ತವರ ಸ್ವರ್ಣಃ ಸುಮೇರುರ್ನಾಮ ಪರ್ವತಃ । | 7.35.19aसूर्यदत्तवरस्वर्णः सुमेरुर्नाम पर्वतः । | 7.35.19aसूर्यदत्तवरस्वर्णः सुमेरुर्नाम पर्वतः । | 7.35.19aसूर्यदत्तवरस्वर्णः सुमेरुर्नाम पर्वतः । | 7.35.19aसूर्यदत्तवरस्वर्णः सुमेरुर्नाम पर्वतः। | ||
| 40 | #19bಯತ್ರ ರಾಜ್ಯಂ ಪ್ರಶಾಸ್ಥಸ್ಯ ಕೇಸರೀನಾಮ ವೈ ಪಿತಾ ॥ | 7.35.19bयत्र राज्यं प्रशास्त्यस्य केसरी नाम वै पिता ॥ १९ ॥ | 7.35.19bयत्र राज्यं प्रशास्त्यस्य केसरी नाम वै पिता ॥7.35.19॥ | 7.35.19bयत्र राज्यं प्रशास्त्यस्य केसरी नाम वै पिता ॥ १९ ॥ | 7.35.19bयत्र राज्यं प्रशास्त्यस्य केसरी नाम वै पिता ॥ 7.35.19 ॥ | ||
| 41 | #20aತಸ್ಯ ಭಾರ್ಯಾ ಬಭೂವೇಷ್ಟಾ ಅಂಜನೇತಿ ಪರಿಶ್ರುತಾ । | 7.35.20aतस्य भार्या बभूवेष्टा अञ्जनेति परिश्रुता । | 7.35.20aतस्य भार्या बभूवेष्टा ह्यञ्जनेति परिश्रुता । | 7.35.20aतस्य भार्या बभूवैषा ह्यञ्जनेति परिश्रुता । | 7.35.20aतस्य भार्या बभूवैषा ह्यञ्जनेति परिश्रुता। | ||
| 42 | #20bಜನಯಾಮಾಸ ತಸ್ಯಾಂ ವೈ ವಾಯುರಾತ್ಮಜಮುತ್ತಮಮ್ ॥ | 7.35.20bजनयामास तस्यां वै वायुरात्मजमुत्तमम् ॥ २० ॥ | 7.35.20bजनयामास तस्यां वै वायुरात्मजमुत्तमम् ॥7.35.20॥ | 7.35.20bजनयामास तस्यां वै वायुरात्मजमुत्तमम् ॥ २० ॥ | 7.35.20bजनयामास तस्यां वै वायुरात्मजमुत्तमम् ॥ 7.35.20 ॥ | ||
| 43 | #21aಶಾಲಿಶೂಕನಿಭಾಭಾಸಂ ಪ್ರಸೂತೇಮಂ ತದಾಂಜನಾ । | 7.35.21aशालिशूकनिभाभासं प्रासूतेमं तदाञ्जना । | 7.35.21aशालिशूकसमाभासं प्रासूतेमं तदाञ्जना । | 7.35.21aशालिशूकनिभाभासं प्रासूतामुं तदाऽञ्जना । | 7.35.21aशालिशूकनिभाभासं प्रासूतामुं तदाऽञ्जना। | ||
| 44 | #21bಫಲಾನ್ಯಾಹರ್ತುಕಾಮಾ ವೈ ನಿಷ್ಕ್ರಾಂತಾ ಗಹನೇ ವರಾ ॥ | 7.35.21bफलान्याहर्तुकामा वै निष्क्रान्ता गहनेचरा ॥ २१ ॥ | 7.35.21bफलान्याहर्तुकामा वै निष्क्रान्ता गहने चरा ॥7.35.21॥ | 7.35.21bफलान्याहर्तुकामा वै निष्क्रान्ता गहनेचरा ॥ २१ ॥ | 7.35.21bफलान्याहर्तुकामा वै निष्क्रान्ता गहनेचरा ॥ 7.35.21 ॥ | ||
| 45 | #22aಏಷ ಮಾತುರ್ವಿಯೋಗಾಚ್ಚ ಕ್ಷುಧಯಾ ಚ ಭೃಶಾರ್ದಿತಃ । | 7.35.22aएष मातुर्वियोगाच्च क्षुधया च भृशार्दितः । | 7.35.22aएष मातुर्वियोगाच्च क्षुधया च भृशार्दितः । | 7.35.22aएष मातुर्वियोगाच्च क्षुधया च भृशार्दितः । | 7.35.22aएष मातुर्वियोगाच्च क्षुधया च भृशार्दितः। | ||
| 46 | #22bರುರೋದ ಶಿಶುರತ್ಯರ್ಥಂ ಶಿಶುಃ ಶರವಣೇ ಯಥಾ ॥ | 7.35.22bरुरोद शिशुरत्यर्थं शिशुः शरवणे यथा ॥ २२ ॥ | 7.35.22bरुरोद शिशुरत्यर्थं शिशुः शरभराडिव ॥7.35.22॥ | 7.35.22bरुरोद शिशुरत्यर्थं शिशुः शरवणे यथा ॥ २२ ॥ | 7.35.22bरुरोद शिशुरत्यर्थं शिशुः शरवणे यथा ॥ 7.35.22 ॥ | ||
| 47 | #23aತದೋದ್ಯಂತಂ ವಿವಸ್ವಂತಂ ಜಪಾಪುಷ್ಪೋತ್ಕರೋಪಮಮ್ । | 7.35.23aतदोद्यन्तं विवस्वन्तं जपापुष्पोत्करोपमम् । | 7.35.23aततोद्यन्तं विवस्वन्तं जपापुष्पोत्करोपमम् । | 7.35.23aतदोद्यन्तं विवस्वन्तं जपापुष्पोत्करोपमम् । | 7.35.23aतदोद्यन्तं विवस्वन्तं जपापुष्पोत्करोपमम्। | ||
| 48 | #23bದದರ್ಶ ಫಲಲೋಭಾಚ್ಚ ಹ್ಯುತ್ಪಪಾತ ರವಿಂ ಪ್ರತಿ ॥ | 7.35.23bददर्श फललोभाच्च ह्युत्पपात रविं प्रति ॥ २३ ॥ | 7.35.23bददृशे फललोभाच्च उत्पपात रविं प्रति ॥7.35.23॥ | 7.35.23bददर्श फललोभाच्च ह्युत्पपात रविं प्रति ॥ २३ ॥ | 7.35.23bददर्श फललोभाच्च ह्युत्पपात रविं प्रति ॥ 7.35.23 ॥ | ||
| 49 | #24aಬಾಲಾರ್ಕಾಭಿಮುಖೋ ಬಾಲೋ ಬಾಲಾರ್ಕ ಇವ ಮೂರ್ತಿಮಾನ್ । | 7.35.24aबालार्काभिमुखो बालो बालार्क इव मूर्तिमान् । | 7.35.24aबालार्काभिमुखो बालो बालार्क इव मूर्तिमान् । | 7.35.24aबालार्काभिमुखो बालो बालार्क इव मूर्तिमान् । | 7.35.24aबालार्काभिमुखो बालो बालार्क इव मूर्तिमान्। | ||
| 50 | #24bಗ್ರಹೀತುಕಾಮೋ ಬಾಲಾರ್ಕಂ ಪ್ಲವತೇಂಽಬರಮಧ್ಯಗಃ ॥ | 7.35.24bग्रहीतुकामो बालार्कं प्लवतेऽम्बरमध्यगः ॥ २४ ॥ | 7.35.24bग्रहीतुकामो बालार्कं प्लवतेऽम्बरमध्यगः ॥7.35.24॥ | 7.35.24bग्रहीतुकामो बालार्कं प्लवतेऽम्बरमध्यगः ॥ २४ ॥ | 7.35.24bग्रहीतुकामो बालार्कं प्लवतेऽम्बरमध्यगः ॥ 7.35.24 ॥ | ||
| 51 | #25aಏತಸ್ಮಿನ್ಪ್ಲವಮಾನೇ ತು ಶಿಶುಭಾವೇ ಹನೂಮತಿ । | 7.35.25aएतस्मिन् प्लवमाने तु शिशुभावे हनूमति । | 7.35.25aएतस्मिन्प्लवमाने तु शिशुभावे हनूमति । | 7.35.25aएतस्मिन्प्लवमाने तु शिशुभावे हनूमति । | 7.35.25aएतस्मिन्प्लवमाने तु शिशुभावे हनूमति। | ||
| 52 | #25bದೇವದಾನವಯಕ್ಷಾಣಾಂ ವಿಸ್ಮಯಃ ಸುಮಹಾನಭೂತ್ ॥ | 7.35.25bदेवदानवयक्षाणां विस्मयः सुमहानभूत् ॥ २५ ॥ | 7.35.25bदेवदानवसिद्धानां विस्मयः सुमहानभूत् ॥7.35.25॥ | 7.35.25bदेवदानवयक्षाणां विस्मयः सुमहानभूत् ॥ २५ ॥ | 7.35.25bदेवदानवयक्षाणां विस्मयः सुमहानभूत् ॥ 7.35.25 ॥ | ||
| 53 | #26aನಾಪ್ಯೇವಂ ವೇಗವಾನ್ವಾಯುರ್ಗರುಡೋ ನ ಮನಸ್ತಥಾ । | 7.35.26aनाप्येवं वेगवान् वायुर्गरुडो न मनस्तथा । | 7.35.26aनाप्येवं वेगवान्वायुर्गरुडो न मनस्तथा । | 7.35.26aनाप्येवं वेगवान्वायुर्गरुडो वा मनस्तथा । | 7.35.26aनाप्येवं वेगवान्वायुर्गरुडो वा मनस्तथा। | ||
| 54 | #26bಯಥಾಯಂ ವಾಯುಪುತ್ರಸ್ತು ಕ್ರಮತೇಂಽಬರಮುತ್ತಮಮ್ ॥ | 7.35.26bयथायं वायुपुत्रस्तु क्रमतेऽम्बरमुत्तमम् ॥ २६ ॥ | 7.35.26bयथायं वायुपुत्रस्तु क्रमतेऽम्बरमुत्तमम् ॥7.35.26॥ | 7.35.26bयथाऽयं वायुपुत्रस्तु क्रमतेऽम्बरमुत्तमम् ॥ २६ ॥ | 7.35.26bयथाऽयं वायुपुत्रस्तु क्रमतेऽम्बरमुत्तमम् ॥ 7.35.26 ॥ | ||
| 55 | #27aಯದಿ ತಾವಚ್ಛಿಶೋರಸ್ಯ ಈದೃಶೋ ಗತಿವಿಕ್ರಮಃ । | 7.35.27aयदि तावच्छिशोरस्य ईदृशो गतिविक्रमः । | 7.35.27aयदि तावच्छिशोरस्य ईदृशौ गतिविक्रमौ । | 7.35.27aयदि तावच्छिशोरस्य स्वीदृशो गतिविक्रमः । | 7.35.27aयदि तावच्छिशोरस्य त्वीदृशो गतिविक्रमः। | ||
| 56 | #27bಯೌವನಂ ಬಲಮಾಸಾದ್ಯ ಕಥಂ ವೇಗೋ ಭವಿಷ್ಯತಿ ॥ | 7.35.27bयौवनं बलमासाद्य कथं वेगो भविष्यति ॥ २७ ॥ | 7.35.27bयौवनं बलमासाद्य कथं वेगो भविष्यति ॥7.35.27॥ | 7.35.27bयौवनं बलमासाद्य कथं वेगो भविष्यति ॥ २७ ॥ | 7.35.27bयौवनं बलमासाद्य कथं वेगो भविष्यति ॥ 7.35.27 ॥ | ||
| 57 | #28aತಮನುಪ್ಲವತೇ ವಾಯುಃ ಪ್ಲವಂತಂ ಪುತ್ರಮಾತ್ಮನಃ । | 7.35.28aतमनुप्लवते वायुः प्लवन्तं पुत्रमात्मनः । | 7.35.28aतमनुप्लवते वायुः प्लवन्तं पुत्रमात्मनः । | 7.35.28aतमनुप्लवते वायुः प्लवन्तं पुत्रमात्मनः । | 7.35.28aतमनुप्लवते वायुः प्लवन्तं पुत्रमात्मनः। | ||
| 58 | #28bಸೂರ್ಯದಾಹಭಯಾದ್ ರಕ್ಷಂ ಸ್ತುಷಾರಚಯ ಶೀತಲಃ ॥ | 7.35.28bसूर्यदाहभयाद् रक्षंस्तुषारचयशीतलः ॥ २८ ॥ | 7.35.28bसूर्यदाहभयाद्रक्षंस्तुषारचयशीतलः ॥7.35.28॥ | 7.35.28bसूर्यदाहमयाद्रक्षंस्तुषारचयशीतलः ॥ २८ ॥ | 7.35.28bसूर्यदाहभयाद्रक्षंस्तुषारचयशीतलः ॥ 7.35.28 ॥ | ||
| 59 | #29aಬಹುಯೋಜನ ಸಾಹಸ್ರಂ ಕ್ರಾಮನ್ನೇವ ಗತೋಂಬರಮ್ । | 7.35.29aबहुयोजनसाहस्रं क्रमन्नेव गतोऽम्बरम् । | 7.35.29aबहुयोजनसाहस्रं क्रमत्येष ततोऽम्बरम् । | 7.35.29aबहुयोजनसाहस्रं क्रमत्येष गतोम्बरम् । | 7.35.29aबहुयोजनसाहस्रं क्रमत्येष गतोम्बरम्। | ||
| 60 | #29bಪಿತುರ್ಬಲಾಚ್ಚ ಬಾಲ್ಯಾಚ್ಚ ಭಾಸ್ಕರಾಭ್ಯಾಶಮಾಗತಃ ॥ | 7.35.29bपितुर्बलाच्च बाल्याच्च भास्कराभ्याशमागतः ॥ २९ ॥ | 7.35.29bपितुर्बलाच्च बाल्याच्च भास्कराभ्याशमागतः ॥7.35.29॥ | 7.35.29bपितुर्बलाच्च बाल्याच्च भास्कराभ्याशमागतः ॥ २९ ॥ | 7.35.29bपितुर्बलाच्च बाल्याच्च भास्कराभ्याशमागतः ॥ 7.35.29 ॥ | ||
| 61 | #30aಶಿಶುರೇಷ ತ್ವದೋಷಜ್ಞ ಇತಿ ಮತ್ವಾ ದಿವಾಕರಃ । | 7.35.30aशिशुरेष त्वदोषज्ञ इति मत्वा दिवाकरः । | 7.35.30aशिशुरेष त्वदोषज्ञ इति मत्वा दिवाकरः । | 7.35.30aशिशुरेष त्वदोषज्ञ इति मत्वा दिवाकरः। | |||
| 62 | 7.35.30aशिशुरेप स्वदोपज्ञ इति मत्वा दिनेश्वरः । | ||||||
| 63 | #30bಕಾರ್ಯಂ ಚಾಸ್ಮಿನ್ಸಮಾಯತ್ತಮಿತ್ಯೇವಂ ನ ದದಾಹ ಸಃ ॥ | 7.35.30bकार्यं चास्मिन् समायत्तमित्येवं न ददाह सः ॥ ३० ॥ | 7.35.30bकार्यं चात्र समायत्तमित्येवं न ददाह सः ॥7.35.30॥ | 7.35.30bकार्यं चात्र समायत्तमित्येवं न ददाह सः ॥ ३० ॥ | 7.35.30bकार्यं चात्र समायत्तमित्येवं न ददाह सः ॥ 7.35.30 ॥ | ||
| 64 | #31aಯಮೇವ ದಿವಸಂ ಹ್ಯೇಷ ಗ್ರಹೀತುಂ ಭಾಸ್ಕರಂ ಪ್ಲುತಃ । | 7.35.31aयमेव दिवसं ह्येष ग्रहीतुं भास्करं प्लुतः । | 7.35.31aयमेव दिवसं ह्येष ग्रहीतुं भास्करं प्लुतः । | 7.35.31aयमेव दिवसं ह्येष ग्रहीतुं भास्करं प्लुतः । | 7.35.31aयमेव दिवसं ह्येष ग्रहीतुं भास्करं प्लुतः। | ||
| 65 | #31bತಮೇವ ದಿವಸಂ ರಾಹುರ್ಜಿಘೃಕ್ಷತಿ ದಿವಾಕರಮ್ ॥ | 7.35.31bतमेव दिवसं राहुर्जिघृक्षति दिवाकरम् ॥ ३१ ॥ | 7.35.31bतमेव दिवसं राहुर्जिघृक्षति दिवाकरम् ॥7.35.31॥ | 7.35.31bतमेत्र दिवसं राहुर्जिंघृक्षति दिवाकरम् ॥ ३१ ॥ | 7.35.31bतमेव दिवसं राहुर्जिघृक्षति दिवाकरम् ॥ 7.35.31 ॥ | ||
| 66 | #32aಅನೇನ ಚ ಪರಾಮೃಷ್ಟೋ ರಾಹುಃ ಸೂರ್ಯರಥೋಪರಿ । | 7.35.32aअनेन च परामृष्टो राहुः सूर्यरथोपरि । | 7.35.32aअनेन च परामृष्टो राम सूर्यरथोपरि । | 7.35.32aअनेन स परामृष्टो राम सूर्यरथोपरि । | 7.35.32aअनेन स परामृष्टो राम सूर्यरथोपरि। | ||
| 67 | #32bಅಪಕ್ರಾಂತಸ್ತ ತಸ್ತ್ರಸ್ತೋ ರಾಹುಶ್ಚಂದ್ರಾರ್ಕಮರ್ದನಃ ॥ | 7.35.32bअपक्रान्तस्ततस्त्रस्तो राहुश्चन्द्रार्कमर्दनः ॥ ३२ ॥ | 7.35.32bअपक्रान्तस्ततस्त्रस्तो राहुश्चन्द्रार्कमर्दनः ॥7.35.32॥ | 7.35.32bअपक्रान्तस्ततस्त्रस्तो राहुश्चन्द्रार्कमर्दनः ॥ ३२ ॥ | 7.35.32bअपक्रान्तस्ततस्त्रस्तो राहुश्चन्द्रार्कमर्दनः ॥ 7.35.32 ॥ | ||
| 68 | #33aಇಂದ್ರಸ್ಯ ಭವನಂ ಗತ್ವಾ ಸರೋಷಃ ಸಿಂಹಿಕಾಸುತಃ । | 7.35.33aइन्द्रस्य भवनं गत्वा सरोषः सिंहिकासुतः । | 7.35.33aस इन्द्रभवनं गत्वा सरोषः सिंहिकासुतः । | 7.35.33aस इन्द्रभवनं गत्वा सरोषः सिंहिकासुतः । | 7.35.33aस इन्द्रभवनं गत्वा सरोषः सिंहिकासुतः। | ||
| 69 | #33bಅಬ್ರವೀದ್ಭ್ರುಕುಟಿಂ ಕೃತ್ವಾ ದೇವಂ ದೇವಗಣೈರ್ವೃತಮ್ ॥ | 7.35.33bअब्रवीद् भ्रुकुटिं कृत्वा देवं देवगणैर्वृतम् ॥ ३३ ॥ | 7.35.33bअब्रवीद्भ्रुकुटीं कृत्वा देवं देवगणैर्वृतम् ॥7.35.33॥ | 7.35.33bअब्रवीद्भृकुटिं कृत्वा देवं देवगणैर्वृतम् ॥ ३३ ॥ | 7.35.33bअब्रवीद्भ्रुकुटिं कृत्वा देवं देवगणैर्वृतम् ॥ 7.35.33 ॥ | ||
| 70 | #34aಬುಭುಕ್ಷಾಪನಯಂ ದತ್ವಾ ಚಂದ್ರಾರ್ಕೌ ಮಮ ವಾಸವ । | 7.35.34aबुभुक्षापनयं दत्त्वा चन्द्रार्कौ मम वासव । | 7.35.34aबुभुक्षापनयं दत्त्वा चन्द्रार्कौ मम वासव । | 7.35.34aबुभुक्षापनयं दत्त्वा चन्द्रार्कौ मम वासव । | 7.35.34aबुभुक्षापनयं दत्त्वा चन्द्रार्कौ मम वासव। | ||
| 71 | #34bಕಿಮಿದಂ ತತ್ತ್ವಯಾ ದತ್ತಮನ್ಯಸ್ಯ ಬಲವೃತ್ರಹನ್ ॥ | 7.35.34bकिमिदं तत् त्वया दत्तमन्यस्य बलवृत्रहन् ॥ ३४ ॥ | 7.35.34bकिमिदं तत्त्वया दत्तमन्यस्य बलवृत्रहन् ॥7.35.34॥ | 7.35.34bकिमिदं तत्त्वया दत्तमन्यस्य बलवृत्रहन् ॥ ३४ ॥ | 7.35.34bकिमिदं तत्त्वया दत्तमन्यस्य बलवृत्रहन् ॥ 7.35.34 ॥ | ||
| 72 | #35aಅದ್ಯಾಹಂ ಪರ್ವಕಾಲೇ ತು ಜಿಘೃಕ್ಷುಃ ಸೂರ್ಯಮಾಗತಃ । | 7.35.35aअद्याहं पर्वकाले तु जिघृक्षुः सूर्यमागतः । | 7.35.35aअद्याहं पर्वकाले तु जिघृक्षुः सूर्यमागतः । | 7.35.35aअद्याहं पर्वकाले तु जिघृक्षुः सूर्यमागतः । | 7.35.35aअद्याहं पर्वकाले तु जिघृक्षुः सूर्यमागतः। | ||
| 73 | #35bಅಥಾನ್ಯೋ ರಾಹುರಾಸಾದ್ಯ ಜಗ್ರಾಹ ಸಹಸಾ ರವಿಮ್ ॥ | 7.35.35bअथान्यो राहुरासाद्य जग्राह सहसा रविम् ॥ ३५ ॥ | 7.35.35bअथान्यो राहुरासाद्य जग्राह सहसा रविम् ॥7.35.35॥ | 7.35.35bअथान्यो राहुरासाद्य जग्राह सहसा रविम् ॥ ३५ ॥ | 7.35.35bअथान्यो राहुरासाद्य जग्राह सहसा रविम् ॥ 7.35.35 ॥ | ||
| 74 | #36aಸ ರಾಹೋರ್ವಚನಂ ಶ್ರುತ್ವಾ ವಾಸವಃ ಸಂಭ್ರಮಾನ್ವಿತಃ । | 7.35.36aस राहोर्वचनं श्रुत्वा वासवः सम्भ्रमान्वितः । | 7.35.36aस राहोर्वचनं श्रुत्वा वासवः संभ्रमान्वितः । | 7.35.36aस राहोर्वचनं श्रुत्वा वासवः संभ्रमान्वितः । | 7.35.36aस राहोर्वचनं श्रुत्वा वासवः सम्भ्रमान्वितः। | ||
| 75 | #36bಉತ್ಪಪಾತಾಸನಂ ಹಿತ್ವಾ ಉದ್ವಹನ್ಕಾಂಚನೀಂ ಸ್ರಜಮ್ ॥ | 7.35.36bउत्पपातासनं हित्वा उद्वहन् काञ्चनीं स्रजम् ॥ ३६ ॥ | 7.35.36bउत्पपातासनं हित्वा उद्वहन्काञ्चनस्रजम् ॥7.35.36॥ | 7.35.36bउत्पपातासनं हित्वा चोद्वन्काञ्चनीं स्रजम् ॥ ३६ ॥ | 7.35.36bउत्पपातासनं हित्वा चोद्वहन्काञ्चनीं स्रजम् ॥ 7.35.36 ॥ | ||
| 76 | #37aತತಃ ಕೈಲಾಸಕೂಟಾಭಂ ಚತುರ್ದಂತಂ ಮದಸ್ರವಮ್ । | 7.35.37aततः कैलासकूटाभं चतुर्दन्तं मदस्रवम् । | 7.35.37aततः कैलासकूटाभं चतुर्दन्तं मदस्रवम् । | 7.35.37aततः कैलासकूटाभं चतुर्दन्तं मदस्रवम् । | 7.35.37aततः कैलासकूटाभं चतुर्दन्तं मदस्रवम्। | ||
| 77 | #37bಶೃಂಗಾರಧಾರಿಣಂ ಪ್ರಾಂಶುಂ ಸ್ವರ್ಣಘಂಘಾಟ್ಟಹಾಸಿನಮ್ ॥ | 7.35.37bशृङ्गारधारिणं प्रांशुं स्वर्णघण्टाट्टहासिनम् ॥ ३७ ॥ | 7.35.37bशृङ्गारकारिणं प्रांशुं स्वर्णघण्टाट्टहासिनम् ॥7.35.37॥ | 7.35.37bशृङ्गारधारिणं प्रांशुं स्वर्णघण्टाट्टहासिनम् ॥ ३७ ॥ | 7.35.37bशृङ्गारधारिणं प्रांशुं स्वर्णघण्टाट्टहासिनम् ॥ 7.35.37 ॥ | ||
| 78 | #38aಇಂದ್ರಃ ಕರೀಂದ್ರಮಾರುಹ್ಯರಾಹುಂ ಕೃತ್ವಾ ಪುರಃಸರಮ್ । | 7.35.38aइन्द्रः करीन्द्रमारुह्य राहुं कृत्वा पुरःसरम् । | 7.35.38aइन्द्रः करीन्द्रमारुह्य राहुं कृत्वा पुरःसरम् । | 7.35.38aइन्द्रः करीन्द्रमारुह्य राहु कृत्वा पुरस्सरम् । | 7.35.38aइन्द्रः करीन्द्रमारुह्य राहुं कृत्वा पुरःसरम्। | ||
| 79 | #38bಪ್ರಾಯಾದ್ಯತ್ರಾಭವತ್ ಸೂರ್ಯಃ ಸಹಾನೇನ ಹನೂಮತಾ ॥ | 7.35.38bप्रायाद् यत्राभवत् सूर्यः सहानेन हनूमता ॥ ३८ ॥ | 7.35.38bप्रायाद्यत्राभवत्सूर्यः सहानेन हनूमता ॥7.35.38॥ | 7.35.38bप्रायाद्यत्राभवत्सूर्यः सहानेन हनूमता ॥ ३८ ॥ | 7.35.38bप्रायाद्यत्राभवत्सूर्यः सहानेन हनूमता ॥ 7.35.38 ॥ | ||
| 80 | #39aಅಥಾತಿರಭಸೇನಾಗಾದ್ ರಾಹುರುತ್ಸೃಜ್ಯ ವಾಸವಮ್ । | 7.35.39aअथातिरभसेनागाद् राहुरुत्सृज्य वासवम् । | 7.35.39aअथातिरभसेनागाद्राहुरुत्सृज्य वासवम् । | 7.35.39aअथातिरभसेनागाद्राहुरुत्सृज्य वासवम् । | 7.35.39aअथातिरभसेनागाद्राहुरुत्सृज्य वासवम्। | ||
| 81 | #39bಅನೇನ ಚ ಸ ವೈ ದೃಷ್ಟಃ ಪ್ರಧಾವನ್ ಶೈಲಕೂಟವತ್ ॥ | 7.35.39bअनेन च स वै दृष्टः प्रधावन् शैलकूटवत् ॥ ३९ ॥ | 7.35.39bअनेन च स वै दृष्ट आधावञ्शैलकूटवत् ॥7.35.39॥ | 7.35.39bअनेन च स वै दृष्टः प्रधावन्शैलकूटवत् ॥ ३९ ॥ | 7.35.39bअनेन च स वै दृष्टः प्रधावञ्छैलकूटवत् ॥ 7.35.39 ॥ | ||
| 82 | #40aತತಃ ಸೂರ್ಯಂ ಸಮುತ್ಸೃಜ್ಯ ರಾಹುಂ ಫಲಮವೇಕ್ಷ್ಯ ಚ । | 7.35.40aततः सूर्यं समुत्सृज्य राहुं फलमवेक्ष्य च । | 7.35.40aततः सूर्यं समुत्सृज्य राहुमेवमवेक्ष्य च । | 7.35.40aततः सूर्यं समुत्सृज्य राहु फलमवेक्ष्य च । | 7.35.40aततः सूर्यं समुत्सृज्य राहुं फलमवेक्ष्य च। | ||
| 83 | #40bಉತ್ಪಪಾತ ಪುನರ್ವ್ಯೋಮ ಗ್ರಹೀತುಂ ಸಿಂಹಿಕಾಸುತಮ್ ॥ | 7.35.40bउत्पपात पुनर्व्योम ग्रहीतुं सिंहिकासुतम् ॥ ४० ॥ | 7.35.40bउत्पपात पुनर्व्योम ग्रहीतुं सिंहिकासुतम् ॥7.35.40॥ | 7.35.40bउत्पपात पुनर्व्योम ग्रहीतुं सिंहिकासुतम् ॥ ४० ॥ | 7.35.40bउत्पपात पुनर्व्योम ग्रहीतुं सिंहिकासुतम् ॥ 7.35.40 ॥ | ||
| 84 | #41aಉತ್ಸೃರ್ಜ್ಯಾರ್ಕಮಿಮಂ ರಾಮ ಪ್ರಧಾವಂತಂ ಪ್ಲವಂಗಮಮ್ । | 7.35.41aउत्सृज्यार्कमिमं राम प्रधावन्तं प्लवङ्गमम् । | 7.35.41aउत्सृज्यार्कमिमं राम आधावन्तं प्लवंगमम् । | 7.35.41aउत्सृज्यार्कमिमं राम प्रधावन्तं प्लवङ्गमम् । | 7.35.41aउत्सृज्यार्कमिमं राम प्रधावन्तं प्लवङ्गमम्। | ||
| 85 | #41bಅವೇಕ್ಷ್ಯೈವಂ ಪರಾವೃತ್ತೋ ಮುಖಶೇಷಃ ಪರಾಙ್ಮುಖಃ ॥ | 7.35.41bअवेक्ष्यैवं परावृत्तो मुखशेषः पराङ्मुखः ॥ ४१ ॥ | 7.35.41bदृष्ट्वा राहुः परावृत्य मुखशेषः पराङ्मुखः ॥7.35.41॥ | 7.35.41bअवेक्ष्यैवं परावृत्य मुखशेषः पराङ्मुखः ॥ ४१ ॥ | 7.35.41bअवेक्ष्यैवं परावृत्त्य मुखशेषः पराङ्मुखः ॥ 7.35.41 ॥ | ||
| 86 | #42aಇಂದ್ರಮಾಶಂಸಮಾನಸ್ತು ತ್ರಾತಾರಂ ಸಿಂಹಿಕಾಸುತಃ । | 7.35.42aइन्द्रमाशंसमानस्तु त्रातारं सिंहिकासुतः । | 7.35.42aइन्द्रमाशंसमानस्तु त्रातारं सिंहिकासुतः । | 7.35.42aइन्द्रमाशंसमानस्तु त्रातारं सिंहिकासुतः । | 7.35.42aइन्द्रमाशंसमानस्तु त्रातारं सिंहिकासुतः। | ||
| 87 | #42bಇಂದ್ರ ಇಂದ್ರೇತಿ ಸಂತ್ರಾಸಾನ್ಮುಹುರ್ಮುಹುರಭಾಷತ ॥ | 7.35.42bइन्द्र इन्द्रेति सन्त्रासान्मुहुर्मुहुरभाषत ॥ ४२ ॥ | 7.35.42bइन्द्र इन्द्रेति संत्रासान्मुहुर्मुहुरभाषत ॥7.35.42॥ | 7.35.42bइन्द्र इन्द्रेति संत्रासान्मुहुर्मुहुरभाषत ॥ ४२ ॥ | 7.35.42bइन्द्र इन्द्रेति सन्त्रासान्मुहुर्महुरभाषत ॥ 7.35.42 ॥ | ||
| 88 | #43aರಾಹೋರ್ವಿಕ್ರೋಶಮಾನಸ್ಯ ಪ್ರಾಗೇವಾಲಕ್ಷಿತಂ ಸ್ವರಮ್ । | 7.35.43aराहोर्विक्रोशमानस्य प्रागेवालक्षितं स्वरम् । | 7.35.43aराहोर्विक्रोशमानस्य प्रागेवालक्षितः स्वरः । | 7.35.43aराहोर्विक्रोशमानस्य प्रागेवालक्षितं स्वरम् । | 7.35.43aराहोर्विक्रोशमानस्य प्रागेवालक्षितं स्वरम्। | ||
| 89 | #43bಶ್ರುತ್ವೇಂದ್ರೋ ವಾಚ ಮಾ ಭೈಷೀರಹಮೇನಂ ನಿಷೂದಯೇ ॥ | 7.35.43bश्रुत्वेन्द्रोवाच मा भैषीरहमेनं निषूदये ॥ ४३ ॥ | 7.35.43bश्रुत्वेन्द्रोवाच मा भैषीरयमेनं निहन्म्यहम् ॥7.35.43॥ | 7.35.43bश्रुत्वेन्द्रोवाच मा भैषीरहमेनं निषूदये ॥ ४३ ॥ | 7.35.43bश्रुत्वेन्द्रोवाच मा भैषीरहमेनं निषूदये ॥ 7.35.43 ॥ | ||
| 90 | #44aಐರಾವತಂ ತತೋ ದೃಷ್ಟ್ವಾ ಮಹತ್ತದಿದಮಿತ್ಯಪಿ । | 7.35.44aऐरावतं ततो दृष्ट्वा महत्तदिदमित्यपि । | 7.35.44aऐरावतं ततो दृष्ट्वा महत्तदिदमित्यपि । | 7.35.44aऐरावतं ततो दृष्ट्वा महत्तदिदमित्यपि । | 7.35.44aऐरावतं ततो दृष्ट्वा महत्तदिदमित्यपि। | ||
| 91 | #44bಫಲಂ ತಂ ಹಸ್ತಿರಾಜಾಮಭಿದುದ್ರಾವ ಮಾರುತಿಃ ॥ | 7.35.44bफलं तं हस्तिराजानमभिदुद्राव मारुतिः ॥ ४४ ॥ | 7.35.44bफलं तं हस्तिराजानमभिदुद्राव मारुतिः ॥7.35.44॥ | 7.35.44bफलं मत्वा हस्तिराजमभिदुद्राव मारुतिः ॥ ४४ ॥ | 7.35.44bफलं मत्वा हस्तिराजमभिदुद्राव मारुतिः ॥ 7.35.44 ॥ | ||
| 92 | #45aತಥಾಸ್ಯ ಧಾವತೋ ರೂಪಮೈರಾವತ ಜಿಘೃಕ್ಷಯಾ । | 7.35.45aतथास्य धावतो रूपमैरावतजिघृक्षया । | 7.35.45aतदास्य धावतो रूपमैरावतजिघृक्षया । | 7.35.45aतथास्य धावतो रूपमैरावतजिघृक्षया । | 7.35.45aतथास्य धावतो रूपमैरावतजिघृक्षया। | ||
| 93 | #45bಮುಹೂರ್ತಮಭವದ್ ಘೋರಮಿಂದ್ರಾಗ್ನ್ಯೋರಿವ ಭಾಸ್ವರಮ್ ॥ | 7.35.45bमुहूर्तमभवद् घोरमिन्द्राग्न्योरिव भास्वरम् ॥ ४५ ॥ | 7.35.45bमुहूर्तमभवद्घोरमिन्द्राग्न्योरिव भास्वरम् ॥7.35.45॥ | 7.35.45bमुहूर्तमभवद्दोरमिन्द्राग्न्योरिव भास्वरम् ॥ ४५ ॥ | 7.35.45bमुहूर्तमभवद्घोरमिन्द्राग्न्योरिव भास्वरम् ॥ 7.35.45 ॥ | ||
| 94 | #46aಏವಮಾಧಾವಮಾನಂ ತು ನಾತಿಕ್ರುದ್ಧಃ ಶಚೀಪತಿಃ । | 7.35.46aएवमाधावमानं तु नातिक्रुद्धः शचीपतिः । | 7.35.46aएवमाधावमानं तु नातिक्रुद्धः शचीपतिः । | 7.35.46aएवमाधावमानं तु नातिक्रुद्धः शचीपतिः । | 7.35.46aएवमाधावमानं तु नातिक्रुद्धः शचीपतिः। | ||
| 95 | #46bಹಸ್ತಾಂತಾದತಿಮುಕ್ತೇನ ಕುಲಿಶೇನಾಭ್ಯ ತಾಡಯತ್ ॥ | 7.35.46bहस्तान्तादतिमुक्तेन कुलिशेनाभ्यताडयत् ॥ ४६ ॥ | 7.35.46bहस्तान्तेनातिमुक्तेन कुलिशेनाभ्यताडयत् ॥7.35.46॥ | 7.35.46bहस्तान्तादतिमुक्तेन कुलिशेनाभ्यताडयत् ॥ ४६ ॥ | 7.35.46bहस्तान्तादतिमुक्तेन कुलिशेनाभ्यताडयत् ॥ 7.35.46 ॥ | ||
| 96 | #47aತತೋ ಗಿರೌ ಪಪಾತೈಷ ಇಂದ್ರವಜ್ರಾಭಿತಾಡಿತಃ । | 7.35.47aततो गिरौ पपातैष इन्द्रवज्राभिताडितः । | 7.35.47aततो गिरौ पपातैष इन्द्रवज्राभिताडितः । | 7.35.47aततो गिरौ पपातैष इन्द्रवज्राभिताडितः । | 7.35.47aततो गिरौ पपातैष इन्द्रवज्राभिताडितः। | ||
| 97 | #47bಪತಮಾನಸ್ಯ ಚೈತಸ್ಯ ವಾಮಾ ಹನುರಭಜ್ಯತ ॥ | 7.35.47bपतमानस्य चैतस्य वामा हनुरभज्यत ॥ ४७ ॥ | 7.35.47bपतमानस्य चैतस्य वामो हनुरभज्यत ॥7.35.47॥ | 7.35.47bपतमानस्य चैतस्य वामो हनुरभज्यत ॥ ४७ ॥ | 7.35.47bपतमानस्य चैतस्य वामो हनुरभज्यत ॥ 7.35.47 ॥ | ||
| 98 | #48aತಸ್ಮಿಂಸ್ತು ಪತಿತೇ ಚಾಪಿ ವಜ್ರತಾಡನವಿಹ್ವಲೇ । | 7.35.48aतस्मिंस्तु पतिते चापि वज्रताडनविह्वले । | 7.35.48aतस्मिंस्तु पतिते बाले वज्रताडनविह्वले । | 7.35.48aतस्मिंस्तु पतिते बाले वज्रताडनविह्वले । | 7.35.48aतस्मिंस्तु पतिते बाले वज्रताडनविह्वले। | ||
| 99 | #48bಚುಕ್ರೋಧೇಂದ್ರಾಯ ಪವನಃ ಪ್ರಜಾನಾಮಹಿತಾಯ ಸಃ ॥ | 7.35.48bचुक्रोधेन्द्राय पवनः प्रजानामहिताय सः ॥ ४८ ॥ | 7.35.48bचुक्रोधेन्द्राय पवनः प्रजानामशिवाय च ॥7.35.48॥ | 7.35.48bचुक्रोधेन्द्राय पवनः प्रजानामहिताय सः ॥ ४८ ॥ | 7.35.48bचुक्रोधेन्द्राय पवनः प्रजानामहिताय सः ॥ 7.35.48 ॥ | ||
| 100 | #49aಪ್ರಚಾರಂ ಸ ತು ಸಂಗೃಹ್ಯ ಪ್ರಜಾಸ್ವಂತರ್ಗತಃ ಪ್ರಭುಃ । | 7.35.49aप्रचारं स तु सङ्गृह्य प्रजास्वन्तर्गतः प्रभुः । | 7.35.49aप्रचारं स तु संगृह्य प्रजास्वन्तर्गतः प्रभुः । | 7.35.49aप्रचारं स तु सङ्गृह्य प्रजास्वन्तर्गतः प्रभुः। | |||
| 101 | #49bಗುಹಾಂ ಪ್ರವಿಷ್ಟಃ ಸ್ವಸುತಂ ಶಿಶುಮಾದಾಯ ಮಾರುತಃ ॥ | 7.35.49bगुहां प्रविष्टः स्वसुतं शिशुमादाय मारुतः ॥ ४९ ॥ | 7.35.49bगुहां प्रविष्टः स्वसुतं शिशुमादाय मारुतः ॥ ४९ ॥ | 7.35.49bगुहां प्रविष्टः स्वसुतं शिशुमादाय मारुतः ॥ 7.35.49 ॥ | |||
| 102 | #50aವಿಣ್ಮೂತ್ರಾಶಯಮಾವೃತ್ಯ ಪ್ರಜಾನಾಂ ಪರಮಾರ್ತಿಕೃತ್ । | 7.35.50aविण्मूत्राशयमावृत्य प्रजानां परमार्तिकृत् । | 7.35.49aविण्मूत्राशयमावृत्य प्रजास्वन्तर्गतः प्रभुः । | 7.35.50aविण्मुत्राशयमावृत्य प्रजानां परमार्तिकृत् । | 7.35.50aविण्मूत्राशयमावृत्य प्रजानां परमार्तिकृत्। | ||
| 103 | #50bರುರೋಧ ಸರ್ವಭೂತಾನಿ ಯಥಾ ವರ್ಷಾಣಿ ವಾಸವಃ ॥ | 7.35.50bरुरोध सर्वभूतानि यथा वर्षाणि वासवः ॥ ५० ॥ | 7.35.49bरुरोध सर्वभूतानि यथा वर्षाणि वासवः ॥7.35.49॥ | 7.35.50bरुरोध सर्वभूतानि यथा वर्षाणि वासवः ॥ ५० ॥ | 7.35.50bरुरोध सर्वभूतानि यथा वर्षाणि वासवः ॥ 7.35.50 ॥ | ||
| 104 | #51aವಾಯುಪ್ರಕೋಪಾದ್ಭೂತಾನಿ ನಿರುಚ್ಛ್ವಾ ಸಾನಿ ಸರ್ವತಃ । | 7.35.51aवायुप्रकोपाद् भूतानि निरुच्छ्वासानि सर्वतः । | 7.35.50aवायुप्रकोपाद्भूतानि निरुच्छ्वासानि सर्वतः । | 7.35.51aवायुप्रकोपाद्भूतानि निरुच्छ्वासानि सर्वतः । | 7.35.51aवायुप्रकोपाद्भूतानि निरुच्छ्वासानि सर्वतः। | ||
| 105 | #51bಸಂಧಿಭಿರ್ಭಿದ್ಯಮಾನೈಶ್ಚ ಕಾಷ್ಠಭೂತಾನಿ ಜಜ್ಞಿರೇ ॥ | 7.35.51bसन्धिभिर्भिद्यमानैश्च काष्ठभूतानि जज्ञिरे ॥ ५१ ॥ | 7.35.50bसंधिभिर्भज्यमानानि काष्ठभूतानि जज्ञिरे ॥7.35.50॥ | 7.35.51bसन्धिनिर्भिद्यमानैश्च काष्ठभूतानि जज्ञिरे ॥ ५१ ॥ | 7.35.51bसन्धिभिर्भिद्यमानैश्च काष्ठभूतानि जज्ञिरे ॥ 7.35.51 ॥ | ||
| 106 | #52aನಿಃಸ್ವಾಧ್ಯಾಯವಷಟ್ಕಾರಂ ನಿಷ್ಕ್ರಿಯಂ ಧರ್ಮವರ್ಜಿತಮ್ । | 7.35.52aनिःस्वाध्यायवषट्कारं निष्क्रियं धर्मवर्जितम् । | 7.35.51aनिःस्वधं निर्वषट्कारं निष्क्रियं धर्मवर्जितम् । | 7.35.52aनिःस्वाध्यायवषट्कारं निष्क्रियं धर्मवर्जितम् । | 7.35.52aनिःस्वाध्यायवषट्कारं निष्क्रियं धर्मवर्जितम्। | ||
| 107 | #52bವಾಯುಪ್ರಕೋಪಾಸ್ತ್ರೈಲೋಕ್ಯಂ ನಿರಯಸ್ಥಮಿವಾಭವತ್ ॥ | 7.35.52bवायुप्रकोपात् त्रैलोक्यं निरयस्थमिवाभवत् ॥ ५२ ॥ | 7.35.51bवायुप्रकोपात्त्रैलोक्यं निरयस्थमिवाबभौ ॥7.35.51॥ | 7.35.52bवायुप्रकोपात्रैलोक्यं निरयस्थमिवाभवत् ॥ ५२ ॥ | 7.35.52bवायुप्रकोपात्त्रैलोक्यं निरयस्थमिवाभवत् ॥ 7.35.52 ॥ | ||
| 108 | #53aತತಃ ಪ್ರಜಾಃ ಸಗಂಧರ್ವಾಃ ಸದೇವಾಸುರ ಮಾನುಷಾಃ । | 7.35.53aततः प्रजाः सगन्धर्वाः सदेवासुरमानुषाः । | 7.35.52aततः प्रजाः सगन्धर्वाः सदेवासुरमानुषाः । | 7.35.53aततः प्रजाः सगन्धर्वाः सदेवासुरमानुषाः । | 7.35.53aततः प्रजाः सगन्धर्वाः सदेवासुरमानुषाः। | ||
| 109 | #53bಪ್ರಜಾಪತಿಂ ಸಮಾಧಾವನ್ ದುಃಖಿತಾಶ್ಚ ಸುಖೇಚ್ಛಯಾ ॥ | 7.35.53bप्रजापतिं समाधावन् दुःखिताश्च सुखेच्छया ॥ ५३ ॥ | 7.35.52bप्रजापतिं समाधावन्नसुखार्ताः सुखैषिणः ॥7.35.52॥ | 7.35.53bप्रजापतिं समाधावन्दुःखिताश्च सुखेच्छया ॥ ५३ ॥ | 7.35.53bप्रजापतिं समाधावन्दुःखिताश्च सुखेच्छया ॥ 7.35.53 ॥ | ||
| 110 | #54aಊಚುಃ ಪ್ರಾಂಜಲಯೋ ದೇವಾ ಮಹೋದರನಿಭೋದರಾಃ । | 7.35.54aऊचुः प्राञ्जलयो देवा महोदरनिभोदराः । | 7.35.53aऊचुः प्राञ्जलयो देवा दरोदरनिभोदराः । | 7.35.54aऊचुः प्राञ्जलयो देवा महोदरनिभोदराः । | 7.35.54aऊचुः प्राञ्जलयो देवा महोदरनिभोदराः। | ||
| 111 | #54bತ್ವಯಾ ತು ಭಗವನ್ಸೃಷ್ಟಾಃ ಪ್ರಜಾ ನಾಥ ಚತುರ್ವಿಧಾಃ ॥ | 7.35.54bत्वया तु भगवन् सृष्टाः प्रजा नाथ चतुर्विधाः ॥ ५४ ॥ | 7.35.53bत्वया स्म भगवन्सृष्टाः प्रजानाथ चतुर्विधाः ॥7.35.53॥ | 7.35.54bत्वया नु भगवन्सृष्टाः प्रजानाथ चतुर्विधाः ॥ ५४ ॥ | 7.35.54bत्वया नु भगवन्सृष्टाः प्रजानाथ चतुर्विधाः ॥ 7.35.54 ॥ | ||
| 112 | #55aತ್ವಯಾ ದತ್ತೋಽಯಮಸ್ಮಾಕಮಾಯುಷಃ ಪವನಃ ಪತಿಃ । | 7.35.55aत्वया दत्तोऽयमस्माकमायुषः पवनः पतिः । | 7.35.54aत्वया दत्तोऽयमस्माकमायुषः पवनः पतिः । | 7.35.55aत्वया दत्तोऽयमस्माकमायुषः पवनः पतिः । | 7.35.55aत्वया दत्तोऽयमस्माकमायुषः पवनः पतिः। | ||
| 113 | #55bಸೋಽಸ್ಮಾನ್ಪ್ರಾಣೇಶ್ವರೋಭೂತ್ವಾ ಕಸ್ಮಾದೇಷೋಽದ್ಯ ಸತ್ತಮ ॥ | 7.35.55bसोऽस्मान् प्राणेश्वरो भूत्वा कस्मादेषोऽद्य सत्तम ॥ ५५ ॥ | 7.35.54bसोऽस्मान्प्राणेश्वरो भूत्वा कस्मादेषोऽद्य सत्तम ॥7.35.54॥ | 7.35.55bसोस्मान्प्राणेश्वरो भूत्वा कस्मादेषोऽद्य सत्तम ॥ ५५ ॥ | 7.35.55bसोऽस्मान्प्राणेश्वरो भूत्वा कस्मादेषोऽद्य सत्तम ॥ 7.35.55 ॥ | ||
| 114 | #56aರುರೋಧ ದುಃಖಂ ಜನಯನ್ನಂತಃಪುರ ಇವ ಸ್ತ್ರಿಯಃ । | 7.35.56aरुरोध दुःखं जनयन्नन्तःपुर इव स्त्रियः । | 7.35.55aरुरोध दुःखं जनयन्नन्तःपुर इव स्त्रियः । | 7.35.56aरुरोध दुःखं जनयन्नन्तःपुर इव स्त्रियः । | 7.35.56aरुरोध दुःखं जनयन्नन्तःपुर इव स्त्रियः। | ||
| 115 | #56bತಸ್ಮಾತ್ತ್ವಾಂ ಶರಣಂ ಪ್ರಾಪ್ತಾ ವಾಯುನೋಪಹತಾ ವಯಮ್ ॥ | 7.35.56bतस्मात् त्वां शरणं प्राप्ता वायुनोपहता वयम् ॥ ५६ ॥ | 7.35.55bतस्मात्त्वां शरणं प्राप्ता वायुनोपहता विभो ॥7.35.55॥ | 7.35.56bतस्मात्त्वां शरणं प्राप्ता वायुनोपहता वयम् । | 7.35.56bतस्मात्त्वां शरणं प्राप्ता वायुनोहता वयम् ॥ 7.35.56 ॥ | ||
| 116 | #57aವಾಯುಸಂರೋಧಜಂ ದುಃಖಮಿದಂ ನೋ ನುದ ದುಃಖಹನ್ । | 7.35.57aवायुसंरोधजं दुःखमिदं नो नुद दुःखहन् । | 7.35.56वायुसंरोधजं दुःखमिदं नो नुद शत्रुहन् ॥7.35.56॥ | 7.35.56c[ वांयुसंरोधजं दुःखमिदं नो जुद दुःखहन् ॥ ५६ ॥ | |||
| 117 | 7.35.56d] | ||||||
| 118 | #57bಏತತ್ಪ್ರಜಾನಾಂ ಶ್ರುತ್ವಾ ತು ಪ್ರಜಾನಾಥಃ ಪ್ರಜಾಪತಿಃ ॥ | 7.35.57bएतत् प्रजानां श्रुत्वा तु प्रजानाथः प्रजापतिः ॥ ५७ ॥ | 7.35.57aएतत्प्रजानां श्रुत्वा तु प्रजानाथः प्रजापतिः । | 7.35.57aएतत्प्रजानां श्रुत्वा तु प्रजानाथः प्रजापतिः । | 7.35.57aएतत्प्रजानां श्रुत्वा तु प्रजानाथः प्रजापतिः। | ||
| 119 | #58aಕಾರಣಾದಿತಿ ಚೋಕ್ತ್ವಾಸೌ ಪ್ರಜಾಃ ಪುನರಭಾಷತ । | 7.35.58aकारणादिति चोक्त्वासौ प्रजाः पुनरभाषत । | 7.35.57bकारणादिति तानुक्त्वा प्रजाः पुनरभाषत ॥7.35.57॥ | 7.35.57bकारणादिति चोक्त्वाऽसौ प्रजाः पुनरभाषत ॥ ५७ ॥ | 7.35.57bकारणादिति चोक्त्वासौ प्रजाः पुनरभाषत ॥ 7.35.57 ॥ | ||
| 120 | #58bಯಸ್ಮಿಂಶ್ಚ ಕಾರಣೇ ವಾಯುಶ್ಚುಕ್ರೋಧ ಚರುರೋಧ ಚ ॥ | 7.35.58bयस्मिंश्च कारणे वायुश्चुक्रोध च रुरोध च ॥ ५८ ॥ | 7.35.58aयस्मिन्वः कारणे वायुश्चुक्रोध च रुरोध च । | 7.35.58aयस्मिंश्च कारणे वायुश्चुक्रोध च रुरोध च । | 7.35.58aयस्मिंश्च कारणे वायुश्चुक्रोध च रुरोध च। | ||
| 121 | #59aಪ್ರಜಾಃ ಶೃಣುಧ್ವಂ ತತ್ಸರ್ವಂ ಶ್ರೋತವ್ಯಂಚಾತ್ಮನಃ ಕ್ಷಮಮ್ । | 7.35.59aप्रजाः शृणुध्वं तत् सर्वं श्रोतव्यं चात्मनः क्षमम् । | 7.35.58bप्रजाः शृणुध्वं तत्सर्वं श्रोतव्यं चात्मनः क्षमम् ॥7.35.58॥ | 7.35.58bप्रजाः शृणुध्वं तत्सर्वं श्रोतव्यं चात्मनः क्षमम् ॥ ५८ ॥ | 7.35.58bप्रजाः शृणुध्वं तत्सर्वं श्रोतव्यं चात्मनः क्षमम् ॥ 7.35.58 ॥ | ||
| 122 | #59bಪುತ್ರಸ್ತಸ್ಯಾಮರೇಶೇನ ಇಂದ್ರೇಣಾದ್ಯ ನಿಪಾತಿತಃ ॥ | 7.35.59bपुत्रस्तस्यामरेशेन इन्द्रेणाद्य निपातितः ॥ ५९ ॥ | 7.35.59aपुत्रस्तस्यामरेशेन इन्द्रेणाद्य निपातितः । | 7.35.59aपुत्रस्तस्यामरेशेन इन्द्रेणाद्य निपातितः । | 7.35.59aपुत्रस्तस्यामरेशेन इन्द्रेणाद्य निपातितः। | ||
| 123 | #60aರಾಹೋರ್ವಚನಮಾಸ್ಥಾಯ ತತಃ ಸ ಕುಪಿತೋಽನಿಲಃ । | 7.35.60aराहोर्वचनमास्थाय ततः स कुपितोऽनिलः । | 7.35.59bराहोर्वचनमाज्ञाय राज्ञा वः कोपितोऽनिलः ॥7.35.59॥ | 7.35.59bराहोर्वचनमास्थाय ततः स कुपितोऽनिलः ॥ ५९ ॥ | 7.35.59bराहोर्वचनमास्थाय ततः स कुपितोऽनिलः ॥ 7.35.59 ॥ | ||
| 124 | #60bಅಶರೀರಃ ಶರೀರೇಷು ವಾಯುಶ್ಚರತಿ ಪಾಲಯನ್ ॥ | 7.35.60bअशरीरः शरीरेषु वायुश्चरति पालयन् ॥ ६० ॥ | 7.35.60aअशरीरः शरीरेषु वायुश्चरति पालयन् । | 7.35.60aअशरीरः शरीरेषु वायुश्चरति पालयन् । | 7.35.60aअशरीरः शरीरेषु वायुश्चरति पालयन्। | ||
| 125 | #61aಶರೀರಂ ಹಿ ವಿನಾ ವಾಯುಂ ಸಮತಾಂ ಯಾತಿ ದಾರುಭಿಃ । | 7.35.61aशरीरं हि विना वायुं समतां याति दारुभिः । | 7.35.60bशरीरं हि विना वायुं समतां याति रेणुभिः ॥7.35.60॥ | 7.35.60bशरीरं हि विना वायुं समतां याति दारुभिः ॥ ६० ॥ | 7.35.60bशरीरं हि विना वायुं समतां याति दारुभिः ॥ 7.35.60 ॥ | ||
| 126 | #61bವಾಯುಃ ಪ್ರಾಣಃ ಸುಖಂ ವಾಯುಃ ವಾಯುಃ ಸರ್ವಮಿದಂಜಗತ್ ॥ | 7.35.61bवायुः प्राणः सुखं वायुर्वायुः सर्वमिदं जगत् ॥ ६१ ॥ | 7.35.61aवायुः प्राणाः सुखं वायुर्वायुः सर्वमिदं जगत् । | 7.35.61aवायुः प्राणः सुखं वायुर्वायुः सर्वमिदं जगत् । | 7.35.61aवायुः प्राणः सुखं वायुर्वायुः सर्वमिदं जगत्। | ||
| 127 | #62aವಾಯುನಾ ಸಂಪರಿತ್ಯಕ್ತಂ ನ ಸುಖಂ ವಿಂದತೇ ಜಗತ್ । | 7.35.62aवायुना सम्परित्यक्तं न सुखं विन्दते जगत् । | 7.35.61bवायुना संपरित्यक्तं न सुखं विन्दते जगत् ॥7.35.61॥ | 7.35.61bवायुना संपरित्यक्तं न सुखं विन्दते जगत् ॥ ६१ ॥ | 7.35.61bवायुना सम्परित्यक्तं न सुखं विन्दते जगत् ॥ 7.35.61 ॥ | ||
| 128 | #62bಅದ್ಯೈವ ಚಪರಿತ್ಯಕ್ತಂ ವಾಯುನಾ ಜಗದಾಯುಷಾ ॥ | 7.35.62bअद्यैव च परित्यक्तं वायुना जगदायुषा ॥ ६२ ॥ | 7.35.62aअद्यैव च परित्यक्तं वायुना जगदायुषा । | 7.35.62aअद्यैव च परित्यक्तं वायुना जगदायुषा । | 7.35.62aअद्यैव च परित्यक्तं वायुना जगदायुषा। | ||
| 129 | #63aಅದ್ಯೈವ ತೇ ನಿರುಚ್ಛ್ವಾಸಾಃ ಕಾಷ್ಠ ಕುಡ್ಯೋಪಮಾಃ ಸ್ಥಿತಾಃ । | 7.35.63aअद्यैव ते निरुच्छ्वासाः काष्ठकुड्योपमाः स्थिताः । | 7.35.62bअद्यैवेमे निरुच्छ्वासाः काष्ठकुड्योपमाः स्थिताः ॥7.35.62॥ | 7.35.62bअद्यैव ते निरुच्छ्वासाः काष्ठकुड्योपमाः स्थिताः ॥ ६२ ॥ | 7.35.62bअद्यैव ते निरुच्छ्वासाः काष्ठकुड्योपमाः स्थिताः ॥ 7.35.62 ॥ | ||
| 130 | #63bತದ್ಯಾಮಸ್ತತ್ರ ಯತ್ರಾಸ್ತೇ ಮಾರುತೋ ರುಕ್ಪ್ರದೋ ಹಿ ನಃ । | 7.35.63bतद् यामस्तत्र यत्रास्ते मारुतो रुक्प्रदो हि नः । | 7.35.63aतद्यामस्तत्र यत्रास्ते मारुतो रुक्प्रदो हि वः । | 7.35.63aतद्यामस्तत्र यत्रास्ते मारुतो रुक्प्रदो हि नः । | 7.35.63aतद्यामस्तत्र यत्रास्ते मारुतो रुक्प्रदो हि नः। | ||
| 131 | #63cಮಾ ವಿನಾಶಂ ಗಮಿಷ್ಯಾಮಿ ಅಪ್ರಸಾದ್ಯಾದಿತೇಃ ಸುತಾಃ ॥ | 7.35.63cमा विनाशं गमिष्याम अप्रसाद्यादितेः सुताः ॥ ६३ ॥ | 7.35.63bमा विनाशं गमिष्याम अप्रसाद्यादितेः सुतम् ॥7.35.63॥ | 7.35.63bमा विनाशं गमिष्याम अप्रसाद्यादितेः सुताः ॥ ६३ ॥ | 7.35.63bमा विनाशं गमिष्याम अप्रसाद्यादितेः सुताः ॥ 7.35.63 ॥ | ||
| 132 | #64aತತಃ ಪ್ರಜಾಭಿಃ ಸಹಿತಃ ಪ್ರಜಾಪತಿಃ ಸದೇವಗಂಧರ್ವಭುಜಂಗಗುಹ್ಯಕೈಃ । | 7.35.64aततः प्रजाभिः सहितः प्रजापतिः सदेवगन्धर्वभुजङ्गगुह्यकैः । | 7.35.64aततः प्रजाभिः सहितः प्रजापतिः सदेवगन्धर्वभुजंगगुह्यकः । | 7.35.64aततः प्रजाभिः सहितः प्रजापतिः सदेवगन्धर्वभुजङ्गगुह्यकैः । | 7.35.64aततः प्रजाभिः सहितः प्रजापतिः सदेवगन्धर्वभुजङ्गगुह्यकैः। | ||
| 133 | #64bಜಗಾಮ ತತ್ರಾಸ್ಯತಿ ಯತ್ರ ಮಾರುತಃ ಸುತಂ ಸುರೇಂದ್ರಾಭಿಹತಂ ಪ್ರಗೃಹ್ಯ ಸಃ ॥ | 7.35.64bजगाम तत्रास्यति यत्र मारुतः सुतं सुरेन्द्राभिहतं प्रगृह्य सः ॥ ६४ ॥ | 7.35.64bजगाम तत्रास्यति यत्र मारुतः सुतं सुरेन्द्राभिहतं प्रगृह्य सः ॥7.35.64॥ | 7.35.64bजगाम तत्रास्यति यत्र मारुतः सुतं सुरेन्द्राभिहतं प्रगृह्य सः ॥ ६४ ॥ | 7.35.64bजगाम तत्रास्यति यत्र मारुतः सुतं सुरेन्द्राभिहतं प्रगृह्य सः ॥ 7.35.64 ॥ | ||
| 134 | #65aತತೋಽರ್ಕವೈಶ್ವಾನರಕಾಂಚನಪ್ರಭಂ ಸುತಂ ತದೋತ್ಸಂಗಗತಂ ಸದಾಗತೇಃ । | 7.35.65aततोऽर्कवैश्वानरकाञ्चनप्रभं सुतं तदोत्सङ्गगतं सदागतेः । | 7.35.65aततोऽर्कवैश्वानरकाञ्चनप्रभं सुतं तदोत्सङ्गगतं सदागतेः । | 7.35.65aततोर्कवैश्वानरकाञ्चनप्रभं सुतं तदोत्सङ्गगतं सदागतेः । | 7.35.65aततोऽर्कवैश्वानरकाञ्चनप्रभं सुतं तदोत्सङ्गगतं सदागतेः। | ||
| 135 | #65bಚತುರ್ಮುಖೋ ವೀಕ್ಷ್ಯ ಕೃಪಾಮಥಾಕರೋತ್ ಸದೇವಗಂಧರ್ವಋಷಿಯಕ್ಷರಾಕ್ಷಸೈಃ ॥ | 7.35.65bचतुर्मुखो वीक्ष्य कृपामथाकरोत् सदेवगन्धर्वर्षियक्षराक्षसैः ॥ ६५ ॥ | 7.35.65bचतुर्मुखो वीक्ष्य कृपामथाकरोत् सदेवसिद्धर्षिभुजंगराक्षसः ॥7.35.65॥ | 7.35.65bचतुर्मुखो वीक्ष्य कृपामथाकरोत्सदेवगन्धर्वर्षियक्षराक्षसैः ॥ ६५ ॥ | 7.35.65bचतुर्मुखो वीक्ष्य कृपामथाकरोत्सदेवगन्धर्वर्षियक्षराक्षसैः ॥ 7.35.65 ॥ | ||
| 136 | 7.35.35इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने पञ्चत्रिंशः सर्गः ॥ ३५ ॥ |