इन्द्र-पराजयः. Built from structured/verses.jsonl. Rows are monotone-aligned half-verse/pāda-like units split at । and ॥, so verse-number boundary differences can appear as inserted or shifted line rows.
103 aligned line rows across 7 source streams.
gor-kn 84 lines
gor-hi 84 lines
crit 81 lines
gr 87 lines
dr-mula 83 lines
| # | gor-kn | gor-hi | crit | gr | dr-mula | gr-iitk | iitk |
|---|---|---|---|---|---|---|---|
| 1 | #1aತತಸ್ತಮಸಿ ಸಂಜಾತೇ ಸರ್ವೇ ತೇ ದೇವರಾಕ್ಷಸಾಃ । | 7.29.1aततस्तमसि सञ्जाते सर्वे ते देवराक्षसाः । | 7.29.1aततस्तमसि संजाते राक्षसा दैवतैः सह । | 7.29.1aततस्तमसि संजाते सर्वे ते देवराक्षसाः । | 7.29.1aततस्तमसि सञ्जाते सर्वे ते देवराक्षसाः। | ||
| 2 | #1bಆಯುಧ್ಯಂತ ಬಲೋನ್ಮತ್ತಾಃ ಸೂದಯಂತಃ ಪರಸ್ಪರಮ್ ॥ | 7.29.1bअयुद्ध्यन्त बलोन्मत्ताः सूदयन्तः परस्परम् ॥ १ ॥ | 7.29.1bअयुध्यन्त बलोन्मत्ताः सूदयन्तः परस्परम् ॥7.29.1॥ | 7.29.1bअयुध्यन्त बलोन्मत्ताः सूदयन्तः परस्परम् ॥ १ ॥ | 7.29.1bअयुद्ध्यन्त बलोन्मत्ताः सूदयन्तः परस्परम् ॥ 7.29.1 ॥ | ||
| 3 | #2aತತಸ್ತು ದೇವಸೈನ್ಯೇನ ರಾಕ್ಷಸಾನಾಂ ಬೃಹದ್ಬಲಮ್ । | 7.29.2aततस्तु देवसैन्येन राक्षसानां बृहद् बलम् । | 7.29.2aततस्तु देवसैन्येन राक्षसानां महद्बलम् । | 7.29.2aततस्तु देवसैन्येन राक्षसानां बृहद्बलम् । | 7.29.2aततस्तु देवसैन्येन राक्षसानां बृहद्बलम्। | ||
| 4 | #2bದಶಾಂಶಂ ಸ್ಥಾಪಿತಂ ಯುದ್ಧೇ ಶೇಷಂ ನೀತಂ ಯಮಕ್ಷಯಮ್ ॥ | 7.29.2bदशांशं स्थापितं युद्धे शेषं नीतं यमक्षयम् ॥ २ ॥ | 7.29.2bदशांशं स्थापितं युद्धे शेषं नीतं यमक्षयम् ॥7.29.2॥ | 7.29.2bदशांशं स्थापितं युद्धे शेषं नीतं यमक्षयम् ॥ २ ॥ | 7.29.2bदशांशं स्थापितं युद्धे शेषं नीतं यमक्षयम् ॥ 7.29.2 ॥ | ||
| 5 | #3aತಸ್ಮಿಂಸ್ತು ತಾಮಸೇ ಯುದ್ಧೇ ಸರ್ವೇ ತೇ ದೇವರಾಕ್ಷಸಾಃ । | 7.29.3aतस्मिंस्तु तामसे युद्धे सर्वे ते देवराक्षसाः । | 7.29.3aतस्मिंस्तु तमसा नद्धे सर्वे ते देवराक्षसाः । | 7.29.3aतस्मिंस्तु तामसे युद्धे सर्वे ते देवराक्षसाः । | 7.29.3aतस्मिंस्तु तामसे युद्धे सर्वे ते देवराक्षसाः। | ||
| 6 | #3bಅನ್ಯೋನ್ಯಂ ನಾಭ್ಯಜಾನಂತ ಯುದ್ಧಮಾನಾಃ ಪರಸ್ಪರಮ್ ॥ | 7.29.3bअन्योन्यं नाभ्यजानन्त युद्ध्यमानाः परस्परम् ॥ ३ ॥ | 7.29.3bअन्योन्यं नाभ्यजानन्त युध्यमानाः परस्परम् ॥7.29.3॥ | 7.29.3bअन्योन्यं नाभ्यजानन्त युध्यमानाः परस्परम् ॥ ३ ॥ | 7.29.3bअन्योन्यं नाभ्यजानन्त युध्यमानाः परस्परम् ॥ 7.29.3 ॥ | ||
| 7 | #4aಇಂದ್ರಶ್ಚ ರಾವಣಶ್ಚೈವ ರಾವಣಿಶ್ಚ ಮಹಾಬಲಃ । | 7.29.4aइन्द्रश्च रावणश्चैव रावणिश्च महाबलः । | 7.29.4aइन्द्रश्च रावणश्चैव रावणिश्च महाबलः । | 7.29.4aइन्द्रश्च रावणश्चैव रावणिश्च महाबलः । | 7.29.4aइन्द्रश्च रावणश्चैव रावणिश्च महाबलः। | ||
| 8 | #4bತಸ್ಮಿಂಸ್ತಮೋಜಾಲವೃತೇ ಮೋಹಮೀಯುರ್ನ ತೇ ತ್ರಯಃ ॥ | 7.29.4bतस्मिंस्तमोजालवृते मोहमीयुर्न ते त्रयः ॥ ४ ॥ | 7.29.4bतस्मिंस्तमोजालवृते मोहमीयुर्न ते त्रयः ॥7.29.4॥ | 7.29.4bतस्मिंस्तमोजालवृते मोहमीयुर्न ते त्रयः ॥ ४ ॥ | 7.29.4bतस्मिंस्तमोजालवृते मोहमीयुर्न ते त्रयः ॥ 7.29.4 ॥ | ||
| 9 | #5aಸ ತು ದೃಷ್ಟ್ವಾ ಬಲಂ ಸರ್ವಂ ರಾವಣೋ ನಿಹತಂ ಕ್ಷಣಾತ್ । | 7.29.5aस तु दृष्ट्वा बलं सर्वं रावणो निहतं क्षणात् । | 7.29.5aस तु दृष्ट्वा बलं सर्वं निहतं रावणो रणे । | 7.29.5aस तु दृष्ट्वा बलं सर्वं निहतं रावणः क्षणात् । | 7.29.5aस तु दृष्ट्वा बलं सर्वं रावणो निहतं क्षणात्। | ||
| 10 | #5bಕ್ರೋಧಮಭ್ಯಗಮತ್ತೀವ್ರಂ ಮಹಾನಾದಂ ಚ ಮುಕ್ತವಾನ್ ॥ | 7.29.5bक्रोधमभ्यगमत् तीव्रं महानादं च मुक्तवान् ॥ ५ ॥ | 7.29.5bक्रोधमभ्यागमत्तीव्रं महानादं च मुक्तवान् ॥7.29.5॥ | 7.29.5bक्रोधमभ्यागमत्तीव्रं महानादं च मुक्तवान् ॥ ५ ॥ | 7.29.5bक्रोधमभ्यगमत्तीव्रं महानादं च मुक्तवान् ॥ 7.29.5 ॥ | ||
| 11 | #6aಕ್ರೋಧಾತ್ಸೂತಂ ಚ ದುರ್ಧಷಃ ಸ್ಯಂದನಸ್ಥಮುವಾಚ ಹ । | 7.29.6aक्रोधात् सूतं च दुर्धर्षः स्यन्दनस्थमुवाच ह । | 7.29.6aक्रोधात्सूतं च दुर्धर्षः स्यन्दनस्थमुवाच ह । | 7.29.6aक्रोधात्सूतं च दुर्धर्षः सन्दनस्थमुवाच ह । | 7.29.6aक्रोधात्सूतं च दुर्धर्षः स्यन्दनस्थमुवाच ह। | ||
| 12 | #6bಪರಸೈನ್ಯಸ್ಯ ಮಧ್ಯೇನ ಯಾವದಂತೋ ನಯಸ್ವ ಮಾಮ್ ॥ | 7.29.6bपरसैन्यस्य मध्येन यावदन्तो नयस्व माम् ॥ ६ ॥ | 7.29.6bपरसैन्यस्य मध्येन यावदन्तं नयस्व माम् ॥7.29.6॥ | 7.29.6bपरसैन्यस्य मध्येन यावदन्तो नयस्व माम् ॥ ६ ॥ | 7.29.6bपरसैन्यस्य मध्येन यावदन्तो नयस्व माम् ॥ 7.29.6 ॥ | ||
| 13 | #7aಅದ್ಯೈತಾನ್ ತ್ರಿದಶಾನ್ಸರ್ವಾನ್ವಿಕ್ರಮೈಃ ಸಮರೇ ಸ್ವಯಮ್ । | 7.29.7aअद्यैतान् त्रिदशान् सर्वान् विक्रमैः समरे स्वयम् । | 7.29.7aअद्यैतांस्त्रिदशान्सर्वान्विक्रमैः समरे स्वयम् । | 7.29.7aअद्यैतांस्त्रिदशान्सर्वान्विक्रमैः समरे स्वयम् । | 7.29.7aअद्यैतान् त्रिदशान्सर्वान्विक्रमैः समरे स्वयम्। | ||
| 14 | #7bನಾನಾಶಸ್ತ್ರಮಹಾಸಾರೈರ್ನಯಾಮಿ ಯಮಸಾದನಮ್ ॥ | 7.29.7bनानाशस्त्रमहासारैर्नयामि यमसादनम् ॥ ७ ॥ | 7.29.7bनानाशस्त्रैर्महासारैर्नाशयामि नभस्तलात् ॥7.29.7॥ | 7.29.7bनानाशस्त्रैर्महाघोरैर्नयामि यमसादनम् ॥ ७ ॥ | 7.29.7bनानाशस्त्रैर्महाघोरैर्नयामि यमसादनम् ॥ 7.29.7 ॥ | ||
| 15 | #8aಅಹಮಿಂದ್ರಂ ವಧಿಷ್ಯಾಮಿ ಧನದಂ ವರುಣಂ ಯಮಮ್ । | 7.29.8aअहमिन्द्रं वधिष्यामि धनदं वरुणं यमम् । | 7.29.8aअहमिन्द्रं वधिष्यामि वरुणं धनदं यमम् । | 7.29.8aअहमिन्द्रं वधिष्यामि धनदं वरुणं यमम् । | |||
| 16 | #8bತ್ರಿದಶಾನ್ವಿನಿಹತ್ಯಾಶು ಸ್ವಯಂ ಸ್ಥಾಸ್ಯಾಮ್ಯಥೋಪರಿ ॥ | 7.29.8bत्रिदशान् विनिहत्याशु स्वयं स्थास्याम्यथोपरि ॥ ८ ॥ | 7.29.8bत्रिदशान्विनिहत्याशु स्वयं स्थास्याम्यथोपरि ॥7.29.8॥ | 7.29.8bत्रिदशान्विनिहत्याथ स्वयं स्थास्याम्यथोपरि । | 7.29.8aत्रिदशान्विनिहत्याथ स्वयं स्थास्याम्यथोपरि। | ||
| 17 | #9aವಿಷಾದೋ ನೈವ ಕರ್ತವ್ಯಃ ಶೀಘ್ರಂ ವಾಹಯ ಮೇ ರಥಮ್ । | 7.29.9aविषादो नैव कर्तव्यः शीघ्रं वाहय मे रथम् । | 7.29.9aविषादो न च कर्तव्यः शीघ्रं वाहय मे रथम् । | 7.29.8cविषादो न च कर्तव्यः शीघ्रं वाहय मे रथम् ॥ ८ ॥ | 7.29.8bविषादो न च कर्तव्यः शीघ्रं वाहय मे रथम् ॥ 7.29.8 ॥ | ||
| 18 | #9bದ್ವಿಃ ಖಲು ತ್ವಾಂ ಬ್ರವೀಮ್ಯದ್ಯ ಯಾವದಂತಂ ನಯಸ್ವ ಮಾಮ್ ॥ | 7.29.9bद्विः खलु त्वां ब्रवीम्यद्य यावदन्तं नयस्व माम् ॥ ९ ॥ | 7.29.9bद्विः खलु त्वां ब्रवीम्यद्य यावदन्तं नयस्व माम् ॥7.29.9॥ | 7.29.9द्विः खलु त्वां ब्रवीम्यद्य यावदन्तो नयस्व माम् ॥ ९ ॥ | 7.29.9द्विः खलु त्वां ब्रवीम्यद्य यावदन्तो नयस्व माम् ॥ 7.29.9 ॥ | ||
| 19 | #10aಅಯಂ ಸ ನಂದನೋದ್ದೇಶೋ ಯತ್ರ ವರ್ತಾಮಹೇ ವಯಮ್ । | 7.29.10aअयं स नन्दनोद्देशो यत्र वर्तावहे वयम् । | 7.29.10aअयं स नन्दनोद्देशो यत्र वर्तामहे वयम् । | 7.29.10aअयं स नन्दनोद्देशो यत्र वर्तामहे वयम् । | 7.29.10aअयं स नन्दनोद्देशो यत्र वर्तामहे वयम्। | ||
| 20 | #10bನಯಮಾಮದ್ಯ ತತ್ರ ತ್ವಮುದಯೋ ಯತ್ರ ಪರ್ವತಃ ॥ | 7.29.10bनय मामद्य तत्र त्वमुदयो यत्र पर्वतः ॥ १० ॥ | 7.29.10bनय मामद्य तत्र त्वमुदयो यत्र पर्वतः ॥7.29.10॥ | 7.29.10bनय मामद्य तत्र त्वमुदयो यत्र पर्वतः ॥ १० ॥ | 7.29.10bनय मामद्य तत्र त्वमुदयो यत्र पर्वतः ॥ 7.29.10 ॥ | ||
| 21 | #11aತಸ್ಯ ತದ್ವಚನಂ ಶ್ರುತ್ವಾ ತುರಗಾನ್ಸ ಮನೋಜವಾನ್ । | 7.29.11aतस्य तद् वचनं श्रुत्वा तुरगान् स मनोजवान् । | 7.29.11aतस्य तद्वचनं श्रुत्वा तुरगान्स मनोजवान् । | 7.29.11aतस्य तद्वचनं श्रुत्वा तुरङ्गान्त्स मनोजवान् । | 7.29.11aतस्य तद्वचनं श्रुत्वा तुरगान्स मनोजवान्। | ||
| 22 | #11bಆದಿದೇಶಾಥ ಶತ್ರೂಣಾಂ ಮಧ್ಯೇನೈವ ಚ ಸಾರಥಿಃ ॥ | 7.29.11bआदिदेशाथ शत्रूणां मध्येनैव च सारथिः ॥ ११ ॥ | 7.29.11bआदिदेशाथ शत्रूणां मध्येनैव च सारथिः ॥7.29.11॥ | 7.29.11bआदिदेशाथ शत्रूणां मध्येनैव च सारथिः ॥ ११ ॥ | 7.29.11bआदिदेशाथ शत्रणां मध्येनैव च सारथिः ॥ 7.29.11 ॥ | ||
| 23 | #12aತಸ್ಯ ತಂ ನಿಶ್ಚಯಂ ಜ್ಞಾತ್ವಾ ಶಕ್ರೋ ದೇವೇಶ್ವರಸ್ತದಾ । | 7.29.12aतस्य तं निश्चयं ज्ञात्वा शक्रो देवेश्वरस्तदा । | 7.29.12aतस्य तं निश्चयं ज्ञात्वा शक्रो देवेश्वरस्तदा । | 7.29.12aतस्य तं निश्चयं ज्ञात्वा शक्रो देवेश्वरस्तदा । | 7.29.12aतस्य तं निश्चयं ज्ञात्वा शक्रो देवेश्वरस्तदा। | ||
| 24 | #12bರಥಸ್ಥಃ ಸಮರಸ್ಥಸ್ತಾನ್ ದೇವಾನ್ವಾಕ್ಯಮಥಾಬ್ರವೀತ್ ॥ | 7.29.12bरथस्थः समरस्थस्तान् देवान् वाक्यमथाब्रवीत् ॥ १२ ॥ | 7.29.12bरथस्थः समरस्थांस्तान्देवान्वाक्यमथाब्रवीत् ॥7.29.12॥ | 7.29.12bरथस्थः समरस्थांस्तान्देवान्वाक्यमथाब्रवीत् ॥ १२ ॥ | 7.29.12bरथस्थः समरस्थस्तान्देवान्वाक्यमथाब्रवीत् ॥ 7.29.12 ॥ | ||
| 25 | #13aಸುರಾಃ ಶೃಣುತಮದ್ವಾಕ್ಯಂ ಯತ್ತಾವನ್ಮಮ ರೋಚತೇ । | 7.29.13aसुराः शृणुत मद्वाक्यं यत् तावन्मम रोचते । | 7.29.13aसुराः शृणुत मद्वाक्यं यत्तावन्मम रोचते । | 7.29.13aसुराः शृणुत मद्वाक्यं यत्तावन्मम रोचते । | 7.29.13aसुराः शृणुत मद्वाक्यं यत्तावन्मम रोचते। | ||
| 26 | #13bಜೀವನ್ನೇವ ದಶಗ್ರೀವಃ ಸಾಧು ರಕ್ಷೋ ನಿಗೃಹ್ಯತಾಮ್ ॥ | 7.29.13bजीवन्नेव दशग्रीवः साधु रक्षो निगृह्यताम् ॥ १३ ॥ | 7.29.13bजीवन्नेव दशग्रीवः साधु रक्षो निगृह्यताम् ॥7.29.13॥ | 7.29.13bजीवन्नेव दशग्रीवः साधु रक्षो निगृह्यताम् ॥ १३ ॥ | 7.29.13bजीवन्नेव दशग्रीवः साधु रक्षो निगृह्यताम् ॥ 7.29.13 ॥ | ||
| 27 | #14aಏಷ ಹ್ಯತಿಬಲಃ ಸೈನ್ಯೇ ರಥೇನ ಪವನೌಜಸಾ । | 7.29.14aएष ह्यतिबलः सैन्ये रथेन पवनौजसा । | 7.29.14aएष ह्यतिबलः सैन्ये रथेन पवनौजसा । | 7.29.14aएष ह्यतिबलः सैन्ये रथेन पवनौजसा । | 7.29.14aएष ह्यतिबलः सैन्यै रथेन पवनौजसा। | ||
| 28 | #14bಗಮಿಷ್ಯತಿ ಪೃವೃದ್ಧೋರ್ಮಿಃ ಸಮುದ್ರ ಇವ ಪರ್ವಣಿ ॥ | 7.29.14bगमिष्यति प्रवृद्धोर्मिः समुद्र इव पर्वणि ॥ १४ ॥ | 7.29.14bगमिष्यति प्रवृद्धोर्मिः समुद्र इव पर्वणि ॥7.29.14॥ | 7.29.14bगमिष्यति प्रवृद्धोर्मिः समुद्र इव पर्वणि ॥ १४ ॥ | 7.29.14bगमिष्यति प्रवृद्धोर्मिः समुद्र इव पर्वणि ॥ 7.29.14 ॥ | ||
| 29 | #15aನಹ್ಯೇಷ ಹಂತುಂ ಶಕ್ಯೋಽದ್ಯ ವರದಾನಾತ್ಸುನಿರ್ಭಯಃ । | 7.29.15aनह्येष हन्तुं शक्योऽद्य वरदानात् सुनिर्भयः । | 7.29.15aन ह्येष हन्तुं शक्योऽद्य वरदानात्सुनिर्भयः । | 7.29.15aन ह्येष हन्तुं शक्योऽद्य वरदानात्सुनिर्भयः । | 7.29.15aनह्येष हन्तुं शक्योऽद्य वरदानात्सुनिर्भयः। | ||
| 30 | #15bತದ್ಗ್ರಹೀಷ್ಯಾಮಹೇ ರಕ್ಷೋ ಯತ್ತಾ ಭವತ ಸಂಯುಗೇ ॥ | 7.29.15bतद् ग्रहीष्यामहे रक्षो यत्ता भवत संयुगे ॥ १५ ॥ | 7.29.15bतद्ग्रहीष्यामहे रक्षो यत्ता भवत संयुगे ॥7.29.15॥ | 7.29.15bतद्ग्रहीष्यामहे रक्षो यत्ता भवत संयुगे ॥ १५ ॥ | 7.29.15bतद्ग्रहीष्यामहे रक्षो यत्ता भवत संयुगे ॥ 7.29.15 ॥ | ||
| 31 | #16aಯಥಾ ಬಲೌ ನಿರುದ್ಧೇ ಚ ತ್ರೈಲೋಕ್ಯಂ ಭುಜ್ಯತೇ ಮಯಾ । | 7.29.16aयथा बलौ निरुद्धे च त्रैलोक्यं भुज्यते मया । | 7.29.16aयथा बलिं निगृह्यैतत्त्रैलोक्यं भुज्यते मया । | 7.29.16aयथा बलौ निरुद्धे च त्रैलोक्यं भुज्यते मया । | 7.29.16aयथा बलौ निरुद्धे च त्रैलोक्यं भुज्यते मया। | ||
| 32 | #16bಏವಮೇತಸ್ಯ ಪಾಪಸ್ಯ ನಿರೋಧೋ ಮಮರೋಚತೇ ॥ | 7.29.16bएवमेतस्य पापस्य निरोधो मम रोचते ॥ १६ ॥ | 7.29.16bएवमेतस्य पापस्य निग्रहो मम रोचते ॥7.29.16॥ | 7.29.16bएवमेतस्य पापस्य निरोधो मम रोचते ॥ १६ ॥ | 7.29.16bएवमेतस्य पापस्य निरोधो मम रोचते ॥ 7.29.16 ॥ | ||
| 33 | #17aತತೋಽನ್ಯಂ ದೇಶಮಾಸ್ಥಾಯ ಶಕ್ರಃ ಸಂತ್ಯಜ್ಯ ರಾವಣಮ್ । | 7.29.17aततोऽन्यं देशमास्थाय शक्रः सन्त्यज्य रावणम् । | 7.29.17aततोऽन्यं देशमास्थाय शक्रः संत्यज्य रावणम् । | 7.29.17aततोऽन्यं देशमास्थाय शक्रः संत्यज्य रावणम् । | 7.29.17aततोऽन्यं देशमास्थाय शक्रः सन्त्यज्य रावणम्। | ||
| 34 | #17bಅಯುಧ್ಯತ ಮಹಾರಾಜ ರಾಕ್ಷಸಾಂಸ್ತ್ರಾಸಯನ್ರಣೇ ॥ | 7.29.17bअयुध्यत महाराज राक्षसांस्त्रासयन् रणे ॥ १७ ॥ | 7.29.17bअयुध्यत महातेजा राक्षसान्नाशयन्रणे ॥7.29.17॥ | 7.29.17bअयुध्यत महाराज राक्षसांस्त्रासयन्रणे ॥ १७ ॥ | 7.29.17bअयुध्यत महाराज राक्षसांस्त्रासयन्रणे ॥ 7.29.17 ॥ | ||
| 35 | #18aಉತ್ತರೇಣ ದಶಗ್ರೀವಃ ಪ್ರವಿವೇಶಾ ನಿವರ್ತಕಃ । | 7.29.18aउत्तरेण दशग्रीवः प्रविवेशानिवर्तकः । | 7.29.18aउत्तरेण दशग्रीवः प्रविवेशानिवर्तितः । | 7.29.18aउत्तरेण दशग्रीवः प्रविवेशानिवर्तकः । | 7.29.18aउत्तरेण दशग्रीवः प्रविवेशानिवर्तकः। | ||
| 36 | #18bದಕ್ಷಿಣೇನ ತು ಪಾರ್ಶ್ವೇಣ ಪ್ರವಿವೇಶ ಶತಕ್ರತುಃ ॥ | 7.29.18bदक्षिणेन तु पार्श्वेन प्रविवेश शतक्रतुः ॥ १८ ॥ | 7.29.18bदक्षिणेन तु पार्श्वेन प्रविवेश शतक्रतुः ॥7.29.18॥ | 7.29.18bदक्षिणेन तु पार्श्वेन प्रविवेश शतक्रतुः ॥ १८ ॥ | 7.29.18bदक्षिणेन तु पार्श्वेन प्रविवेश शतक्रतुः ॥ 7.29.18 ॥ | ||
| 37 | #19aತತಃ ಸ ಯೋಜನಶತಂ ಪ್ರವಿಷ್ಟೋ ರಾಕ್ಷಸಾಧಿಪಃ । | 7.29.19aततः स योजनशतं प्रविष्टो राक्षसाधिपः । | 7.29.19aततः स योजनशतं प्रविष्टो राक्षसाधिपः । | 7.29.19aततः स योजनशतं प्रविष्टो राक्षसाधिपः । | 7.29.19aततः स योजनशतं प्रविष्टो राक्षसाधिपः। | ||
| 38 | #19bದೇವತಾನಾಂ ಬಲಂ ಸರ್ವಂ ಶರವರ್ಷೈರವಾಕಿರತ್ ॥ | 7.29.19bदेवतानां बलं सर्वं शरवर्षैरवाकिरत् ॥ १९ ॥ | 7.29.19bदेवतानां बलं कृत्स्नं शरवर्षैरवाकिरत् ॥7.29.19॥ | 7.29.19bदेवतानां बलं सर्वं शरवर्षैरवाकिरत् ॥ १९ ॥ | 7.29.19bदेवतानां बलं सर्वं शरवर्षैरवाकिरत् ॥ 7.29.19 ॥ | ||
| 39 | #20aತತಃ ಶಕ್ರೋ ನಿರೀಕ್ಷ್ಯಾಥ ಪ್ರಣಷ್ಟಂ ತು ಸ್ವಕಂ ಬಲಮ್ । | 7.29.20aततः शक्रो निरीक्ष्याथ प्रणष्टं तु स्वकं बलम् । | 7.29.20aततः शक्रो निरीक्ष्याथ प्रविष्टं तं बलं स्वकम् । | 7.29.20aततः शक्रो निरीक्ष्याथ प्रनष्टं तु स्वकं बलम् । | 7.29.20aततः शक्रो निरीक्ष्याथ प्रनष्टं तु स्वकं बलम्। | ||
| 40 | #20bನ್ಯವರ್ತಯದ ಸಂಭ್ರಾಂತಃ ಸಮಾವೃತ್ಯ ದಶಾನನಮ್ ॥ | 7.29.20bन्यवर्तयदसम्भ्रान्तः समावृत्य दशाननम् ॥ २० ॥ | 7.29.20bन्यवर्तयदसंभ्रान्तः समावृत्य दशाननम् ॥7.29.20॥ | 7.29.20bन्यवर्तयदसंभ्रान्त समावृत्य दशाननम् ॥ २० ॥ | 7.29.20bन्यवर्तयदसम्भ्रान्तः समावृत्य दशाननम् ॥ 7.29.20 ॥ | ||
| 41 | #21aಏತಸ್ಮಿನ್ನಂತರೇ ನಾದೋ ಮುಕ್ತೋ ದಾನವರಾಕ್ಷಸೈಃ । | 7.29.21aएतस्मिन्नन्तरे नादो मुक्तो दानवराक्षसैः । | 7.29.21aएतस्मिन्नन्तरे नादो मुक्तो दानवराक्षसैः । | 7.29.21aएतस्मिन्नन्तरे नादो मुक्तो दानवराक्षसैः । | 7.29.21aएतस्मिन्नन्तरे नादो मुक्तो दानवराक्षसैः। | ||
| 42 | #21bಹಾ ಹತಾಃ ಸ್ಮ ಇತಿ ಗ್ರಸ್ತಂ ದೃಷ್ಟ್ವಾಶಕ್ರೇಣ ರಾವಣಮ್ ॥ | 7.29.21bहा हताः स्म इति ग्रस्तं दृष्ट्वा शक्रेण रावणम् ॥ २१ ॥ | 7.29.21bहा हताः स्मेति तं दृष्ट्वा ग्रस्तं शक्रेण रावणम् ॥7.29.21॥ | 7.29.21bहा हताः स्म इति ग्रस्तं दृष्ट्वा शक्रेण रावणम् ॥ २१ ॥ | 7.29.21bहा हताः स्म इति ग्रस्तं दृष्ट्वा शक्रेण रावणम् ॥ 7.29.21 ॥ | ||
| 43 | #22aತತೋ ರಥಂ ಸಮಾಸ್ಥಾಯ ರಾವಣಿಃ ಕ್ರೋಧಮೂರ್ಛಿತಃ । | 7.29.22aततो रथं समास्थाय रावणिः क्रोधमूर्च्छितः । | 7.29.22aततो रथं समारुह्य रावणिः क्रोधमूर्छितः । | 7.29.22aततो रथं समास्थाय रावणिः क्रोधमूर्च्छितः । | 7.29.22aततो रथं समास्थाय रावणिः क्रोधमूर्च्छितः। | ||
| 44 | #22bತತ್ಸೈನ್ಯಮತಿ ಸಂಕ್ರುದ್ಧಃ ಪ್ರವಿವೇಶ ಸುದಾರುಣಮ್ ॥ | 7.29.22bतत् सैन्यमतिसङ्क्रुद्धः प्रविवेश सुदारुणम् ॥ २२ ॥ | 7.29.22bतत्सैन्यमतिसंक्रुद्धः प्रविवेश सुदारुणम् ॥7.29.22॥ | 7.29.22bतत्सैन्यमतिसंक्रुद्धः प्रविवेश सुदारुणम् ॥ २२ ॥ | 7.29.22bतत्सैन्यमतिसङ्क्रुद्धः प्रविवेश सुदारुणम् ॥ 7.29.22 ॥ | ||
| 45 | #23aತಾಂ ಪ್ರವಿಶ್ಯ ಮಹಾಮಾಯಾಂ ಪ್ರಾಪ್ತಾಂ ಪಶುಪತೇಃ ಪುರಾ । | 7.29.23aतां प्रविश्य महामायां प्राप्तां पशुपतेः पुरा । | 7.29.23aस तां प्रविश्य मायां तु दत्तां गोपतिना पुरा । | 7.29.23aतां प्रविश्य महामायां प्राप्तां गोपतिना पुरा । | 7.29.23aतां प्रविश्य महामायां प्राप्तां गोपतिना पुरा। | ||
| 46 | 7.29.23bअदृश्यः सर्वभूतानां तत्सैन्यं समवाकिरत् ॥7.29.23॥ | ||||||
| 47 | 7.29.24aततः स देवान्संत्यज्य शक्रमेवाभ्ययाद्द्रुतम् । | ||||||
| 48 | #23bಪ್ರವಿವೇಶ ಸುಸಂರಬ್ಧಸ್ತತ್ಸೈನ್ಯಂ ಸಮಭಿದ್ರವತ್ ॥ | 7.29.23bप्रविवेश सुसंरब्धस्तत् सैन्यं समभिद्रवत् ॥ २३ ॥ | 7.29.23bप्रविवेश सुसंरब्धस्तत्सैन्यं समभिद्रवत् ॥ २३ ॥ | 7.29.23bप्रविवेश सुसंरब्धस्तत्सैन्यं समभिद्रवत् ॥ 7.29.23 ॥ | |||
| 49 | #24aಸ ಸರ್ವಾ ದೇವತಾಸ್ತ್ಯಕ್ತ್ವಾ ಶಕ್ರಮೇವಾಭ್ಯಧಾವತ । | 7.29.24aस सर्वा देवतास्त्यक्त्वा शक्रमेवाभ्यधावत । | 7.29.24aस सर्वा देवतास्त्यक्त्वा शक्रमेवाभ्यधावत । | 7.29.24aस सर्वा देवतास्त्यक्त्वा शक्रमेवाभ्यधावत। | |||
| 50 | #24bಮಹೇಂದ್ರಶ್ಚ ಮಹಾತೇಜಾ ನಾಪಶ್ಯಚ್ಚ ಸುತಂ ರಿಪೋಃ ॥ | 7.29.24bमहेन्द्रश्च महातेजा नापश्यच्च सुतं रिपोः ॥ २४ ॥ | 7.29.24bमहेन्द्रश्च महातेजा न ददर्श सुतं रिपोः ॥7.29.24॥ | 7.29.24bमहेन्द्रश्च महातेजा नापश्यच्च सुतं रिपोः ॥ २४ ॥ | 7.29.24bमहेन्द्रश्च महातेजा नापश्यच्च सुतं रिपोः ॥ 7.29.24 ॥ | ||
| 51 | #25aವಿಮುಕ್ತಕವಚಸ್ತತ್ರ ವಧ್ಯಮಾನೋಽಪಿ ರಾವಣಿಃ । | 7.29.25aविमुक्तकवचस्तत्र वध्यमानोऽपि रावणिः । | 7.29.25aविमुक्तकवचस्तत्र वध्यमानो हि रावणिः । | 7.29.25aविमुक्तकवचस्तत्र वध्यमानोऽपि रावणिः। | |||
| 52 | #25bತ್ರಿದಶೈಃ ಸುಮಹಾವೀರ್ಯೈರ್ನ ಚಕಾರ ಚ ಕಿಂಚನ ॥ | 7.29.25bत्रिदशैः सुमहावीर्यैर्न चकार च किञ्चन ॥ २५ ॥ | 7.29.25bत्रिदशैः सुमहावीरैर्न चकार च किंचन ॥ २५ ॥ | 7.29.25bत्रिदशैः सुमहावीर्यैर्न चकार च किञ्चन ॥ 7.29.25 ॥ | |||
| 53 | #26aಸ ಮಾತಲಿಂ ಸಮಾಯಾಂತಂ ತಾಡಯಿತ್ವಾ ಶರೋತ್ತಮೈಃ । | 7.29.26aस मातलिं समायान्तं ताडयित्वा शरोत्तमैः । | 7.29.25aस मातलिं हयांश्चैव ताडयित्वा शरोत्तमैः । | 7.29.26aसमातलिं समायान्तं ताडयित्वा शरोत्तमैः । | 7.29.26aस मातलिं समायान्तं ताडयित्वा शरोत्तमैः। | ||
| 54 | #26bಮಹೇಂದ್ರಂ ಬಾಣವರ್ಷೇಣ ಭೂಯ ಏವಾಭ್ಯವಾಕಿರತ್ ॥ | 7.29.26bमहेन्द्रं बाणवर्षेण भूय एवाभ्यवाकिरत् ॥ २६ ॥ | 7.29.25bमहेन्द्रं बाणवर्षेण शीघ्रहस्तो ह्यवाकिरत् ॥7.29.25॥ | 7.29.26bमहेन्द्रं बाणवर्षेण भूय एवाभ्यवाकिरत् ॥ २६ ॥ | 7.29.26bमहेन्द्रं बाणवर्षेण भूय एवाभ्यवाकिरत् ॥ 7.29.26 ॥ | ||
| 55 | 7.29.26aततः शक्रो रथं त्यक्त्व विसृज्य च स मातलिम् । | ||||||
| 56 | #27aತತಸ್ತ್ಯಕ್ತ್ವಾ ರಥಂ ಶಕ್ರೋ ವಿಸಸರ್ಜ ಚ ಸಾರಥಿಮ್ । | 7.29.27aततस्त्यक्त्वा रथं शक्रो विससर्ज च सारथिम् । | 7.29.27aततस्त्यक्त्वा रथं शक्रो विससर्ज च सारथिम् । | 7.29.27aततस्त्यक्त्वा रथं शक्रो विससर्ज च सारथिम्। | |||
| 57 | #27bಐರಾವತಂ ಸಮಾರುಹ್ಯ ಮೃಗಯಾಮಾಸ ರಾವಣಿಮ್ ॥ | 7.29.27bऐरावतं समारुह्य मृगयामास रावणिम् ॥ २७ ॥ | 7.29.26bऐरावतं समारुह्य मृगयामास रावणिम् ॥7.29.26॥ | 7.29.27bऐरावतं समारुह्य मृगयामास रावणिम् ॥ २७ ॥ | 7.29.27bऐरावतं समारुह्य मृगयामास रावणिम् ॥ 7.29.27 ॥ | ||
| 58 | 7.29.27aस तु माया बलाद्रक्षः संग्रामे नाभ्यदृश्यत । | ||||||
| 59 | 7.29.27bकिरमाणः शरौघेन महेन्द्रममितौजसं ॥7.29.27॥ | ||||||
| 60 | #28aಸ ತತ್ರ ಮಾಯಾಬಲವಾನದೃಶ್ಯೋಽಥಾಂತರಿಕ್ಷಗಃ । | 7.29.28aस तत्र मायाबलवानदृश्योऽथान्तरिक्षगः । | 7.29.28aस तत्र मायाबलवानदृश्योथान्तरिक्षगः । | 7.29.28aस तत्र मायाबलवानदृश्योऽथान्तरिक्षगः। | |||
| 61 | #28bಇಂದ್ರಂ ಮಾಯಾ ಪರಿಕ್ಷಿಪ್ತಂ ಕೃತ್ವಾ ಸ ಪ್ರಾದ್ರವಚ್ಛರೈಃ ॥ | 7.29.28bइन्द्रं मायापरिक्षिप्तं कृत्वा स प्राद्रवच्छरैः ॥ २८ ॥ | 7.29.28bइन्द्रं मायापरिक्षितं कृत्वा स प्राद्रवच्छरैः ॥ २८ ॥ | 7.29.28bइन्द्रं मायापरिक्षिप्तं कृत्वा स प्राद्रवच्छरैः ॥ 7.29.28 ॥ | |||
| 62 | #29aಸ ತಂ ಯದಾ ಪರಿಶ್ರಾಂತಮಿಂದ್ರಂ ಜಜ್ಞೇಽಥ ರಾವಣಿಃ । | 7.29.29aस तं यदा परिश्रान्तमिन्द्रं जज्ञेऽथ रावणिः । | 7.29.28aस तं यदा परिश्रान्तमिन्द्रं मेनेऽथ रावणिः । | 7.29.29aस तं यदा परिश्रान्तमिदं जज्ञेऽथ रावणिः । | 7.29.29aस तं यदा परिश्रान्तमिन्द्रं जज्ञेऽथ रावणिः। | ||
| 63 | #29bತದೈನಂ ಮಾಯಯಾ ಬದ್ಧ್ವಾ ಸ್ವಸೈನ್ಯಮಭಿತೋಽನಯತ್ ॥ | 7.29.29bतदैनं मायया बद्ध्वा स्वसैन्यमभितोऽनयत् ॥ २९ ॥ | 7.29.28bतदैनं मायया बद्ध्वा स्वसैन्यमभितोऽनयत् ॥7.29.28॥ | 7.29.29bतदैनं मायया बध्वा स्वसैन्यमभितोनयत् ॥ २९ ॥ | 7.29.29bतदैनं मायया बद्ध्वा स्वसैन्यमभितोऽनयत् ॥ 7.29.29 ॥ | ||
| 64 | 7.29.29aतं दृष्ट्वाथ बलात्तस्मिन्माययापहृतं रणे । | ||||||
| 65 | #30aತಂ ತು ದೃಷ್ಟ್ವಾ ಬಲಾತ್ತೇನ ನೀಯಮಾನಂ ಮಹಾರಣಾತ್ । | 7.29.30aतं तु दृष्ट्वा बलात् तेन नीयमानं महारणात् । | 7.29.30aतं तु दृष्ट्वा बलात्तेन नीयमानं महारणात् । | 7.29.30aतं तु दृष्ट्वा बलात्तेन नीयमानं महारणात्। | |||
| 66 | #30bಮಹೇಂದ್ರಮಮರಾಃ ಸರ್ವೇ ಕಿಂ ನು ಸ್ಯಾದಿತ್ಯಚಿಂತಯನ್ ॥ | 7.29.30bमहेन्द्रममराः सर्वे किं नु स्यादित्यचिन्तयन् ॥ ३० ॥ | 7.29.29bमहेन्द्रममराः सर्वे किं न्वेतदिति चुक्रुशुः । | 7.29.30bमहेन्द्रममराः सर्वे किंनु सादित्यचिन्तयन् ॥ ३० ॥ | 7.29.30bमहेन्द्रममराः सर्वे किं नु स्यादित्यचिन्तयन् ॥ 7.29.30 ॥ | ||
| 67 | 7.29.29cन हि दृश्यति विद्यावान्मायया येन नीयते ॥7.29.29॥ | ||||||
| 68 | #31aದೃಶ್ಯತೇ ನ ಸ ಮಾಯಾವೀ ಶಕ್ರಜಿತ್ಸಮಿತಿಂಜಯಃ । | 7.29.31aदृश्यते न स मायावी शक्रजित् समितिञ्जयः । | 7.29.31aदृश्यते न स मायावी शक्रजित्समितिंजयः । | 7.29.31aदृश्यते न स मायावी शक्रजित्समितिञ्जयः। | |||
| 69 | #31bವಿದ್ಯಾವಾನಪಿ ಯೇನೇಂದ್ರೋ ಮಾಯಯಾಪಹೃತೋ ಬಲಾತ್ ॥ | 7.29.31bविद्यावानपि येनेन्द्रो माययापहृतो बलात् ॥ ३१ ॥ | 7.29.31bविद्यावानपि येनेन्द्रो मायया नीयते बलात् ॥ ३१ ॥ | 7.29.31bविद्यावानपि येनेन्द्रो मायया नीयते बलात् ॥ 7.29.31 ॥ | |||
| 70 | #32aಏತಸ್ಮಿನ್ನಂತರೇ ಕ್ರುದ್ಧಾಃ ಸರ್ವೇ ಸುರಗಣಾಸ್ತದಾ । | 7.29.32aएतस्मिन्नन्तरे क्रुद्धाः सर्वे सुरगणास्तदा । | 7.29.30aएतस्मिन्नन्तरे चापि सर्वे सुरगणास्तदा । | 7.29.32aएतस्मिन्नन्तरे क्रुद्धाः सर्वे सुरगणास्तदा । | 7.29.32aएतस्मिन्नन्तरे क्रुद्धाः सर्वे सुरगणास्तदा। | ||
| 71 | 7.29.30bअभ्यद्रवन्सुसंक्रुद्धा रावणं शस्त्रवृष्टिभिः ॥7.29.30॥ | ||||||
| 72 | #32bರಾವಣಂ ವಿಮುಖೀಕೃತ್ಯ ಶರವರ್ಷೈರವಾಕಿರನ್ ॥ | 7.29.32bरावणं विमुखीकृत्य शरवर्षैरवाकिरन् ॥ ३२ ॥ | 7.29.32bरावणं विमुखीकृत्य शरवर्षैरवाकिरन् ॥ ३२ ॥ | 7.29.32bरावणं विमुखीकृत्य शरवर्षैरवाकिरन् ॥ 7.29.32 ॥ | |||
| 73 | #33aರಾವಣಸ್ತು ಸಮಾಸಾದ್ಯ ಆದಿತ್ಯಾಂಶ್ಚ ವಸೂಂಸ್ತದಾ । | 7.29.33aरावणस्तु समासाद्य आदित्यांश्च वसूंस्तदा । | 7.29.31aरावणस्तु समासाद्य वस्वादित्यमरुद्गणान् । | 7.29.33aरावणस्तु समासाद्य आदित्यांश्च वसूंस्तथा । | 7.29.33aरावणस्तु समासाद्य आदित्यांश्च वसूंस्तदा। | ||
| 74 | 7.29.31bन शशाक रणे स्थातुं न योद्धुं शस्त्रपीडितः ॥7.29.31॥ | ||||||
| 75 | #33bನ ಶಶಾಕ ಸ ಸಂಗ್ರಾಮೇ ಯೋದ್ಧುಂ ಶತ್ರುಭಿರರ್ದಿತಃ ॥ | 7.29.33bन शशाक स सङ्ग्रामे योद्धुं शत्रुभिरर्दितः ॥ ३३ ॥ | 7.29.33bन शशाक स संग्रामे योद्धुं शत्रुभिरर्दितः ॥ ३३ ॥ | 7.29.33bन शशाक स सङ्ग्रामे योद्धुं शत्रुभिरर्दितः ॥ 7.29.33 ॥ | |||
| 76 | #34aಸ ತಂ ದೃಷ್ಟ್ವಾ ಪರಿಮ್ಲಾನಂ ಪ್ರಹಾರೈರ್ಜರ್ಜರೀಕೃತಮ್ । | 7.29.34aस तं दृष्ट्वा परिम्लानं प्रहारैर्जर्जरीकृतम् । | 7.29.32aतं तु दृष्ट्वा परिश्रान्तं प्रहारैर्जर्जरच्छविम् । | 7.29.34aस तं दृष्ट्वा परिम्लानं प्रहारैर्जर्जरीकृतम् । | 7.29.34aस तं दृष्ट्वा परिम्लानं प्रहारैर्जर्जरीकृतम्। | ||
| 77 | #34bರಾವಣಿಃ ಪಿತರಂ ಯುದ್ಧೇಽದರ್ಶನಸ್ಥೋಽಬ್ರವೀದಿದಮ್ ॥ | 7.29.34bरावणिः पितरं युद्धेऽदर्शनस्थोऽब्रवीदिदम् ॥ ३४ ॥ | 7.29.32bरावणिः पितरं युद्धेऽदर्शनस्थोऽब्रवीदिदम् ॥7.29.32॥ | 7.29.34bरावणिः पितरं युद्धेऽदर्शनस्थोऽब्रवीदिदम् ॥ ३४ ॥ | 7.29.34bरावणिः पितरं युद्धे दर्शनस्थोऽब्रवीदिदम् ॥ 7.29.34 ॥ | ||
| 78 | #35aಆಗಚ್ಛ ತಾತ ಗಚ್ಛಾಮೋ ರಣಕರ್ಮ ನಿವರ್ತತಾಮ್ । | 7.29.35aआगच्छ तात गच्छामो रणकर्म निवर्तताम् । | 7.29.33aआगच्छ तात गच्छावो निवृत्तं रणकर्म तत् । | 7.29.35aआगच्छ तात गच्छामो रणकर्म निवर्तताम् । | 7.29.35aआगच्छ तात गच्छामो रणकर्म निवर्तताम्। | ||
| 79 | #35bಜಿತಂ ನೋ ವಿದಿತಂ ತೇಽಸ್ತು ಸ್ವಸ್ಥೋಭವ ಗತಜ್ವರಃ ॥ | 7.29.35bजितं नो विदितं तेऽस्तु स्वस्थो भव गतज्वरः ॥ ३५ ॥ | 7.29.33bजितं ते विदितं भोऽस्तु स्वस्थो भव गतज्वरः ॥7.29.33॥ | 7.29.35bजितं नो विदितं तेऽस्तु स्वस्थो भव गतज्वरः ॥ ३५ ॥ | 7.29.35bजितं नो विदितं तेऽस्तु स्वस्थो भव गतज्वरः ॥ 7.29.35 ॥ | ||
| 80 | #36aಅಯಂ ಹಿ ಸುರಸೈನ್ಯಸ್ಯ ತ್ರೈಲೋಕ್ಯಸ್ಯ ಚ ಯಃ ಪ್ರಭುಃ । | 7.29.36aअयं हि सुरसैन्यस्य त्रैलोक्यस्य च यः प्रभुः । | 7.29.34aअयं हि सुरसैन्यस्य त्रैलोक्यस्य च यः प्रभुः । | 7.29.36aअयं हि सुरसैन्यस्य त्रैलोक्यस्य च यः प्रभुः । | 7.29.36aअयं हि सुरसैन्यस्य त्रैलोक्यस्य च यः प्रभुः। | ||
| 81 | 7.29.34bस गृहीतो मया शक्रो भग्नमानाः सुराः कृताः ॥7.29.34॥ | ||||||
| 82 | #36bಸ ಗೃಹೀತೋ ದೇವಬಲಾದ್ ಭಗ್ನದರ್ಪಾಃ ಸುರಾಃ ಕೃತಾಃ ॥ | 7.29.36bस गृहीतो देवबलाद् भग्नदर्पाः सुराः कृताः ॥ ३६ ॥ | 7.29.36bस गृहीतो दैवबलाद्भग्नदर्पाः सुराः कृताः ॥ ३६ ॥ | 7.29.36bस गृहीतो दैवबलाद्भग्नदर्पाः सुराः कृताः ॥ 7.29.36 ॥ | |||
| 83 | #37aಯಥೇಷ್ಟಂ ಭುಂಕ್ಷ್ವ ಲೋಕಾಂ ಸ್ತ್ರೀನ್ನಿಗೃಹ್ಯಾರಾತಿಮೋಜಸಾ । | 7.29.37aयथेष्टं भुङ्क्ष्व लोकांस्त्रीन् निगृह्यारातिमोजसा । | 7.29.35aयथेष्टं भुङ्क्ष्व त्रैलोक्यं निगृह्य रिपुमोजसा । | 7.29.37aयथेष्टं भुङ्क्ष्व लोकांस्त्रीन्निगृह्यारातिमोजसा । | 7.29.37aयथेष्टं भुङ्क्ष्व लोकांस्त्रीन्निगृह्यारातिमोजसा। | ||
| 84 | 7.29.35bवृथा ते किं श्रमं कृत्वा युद्धं हि तव निष्फलम् ॥7.29.35॥ | ||||||
| 85 | 7.29.36aस दैवतबलात्तस्मान्निवृत्तो रणकर्मणः । | ||||||
| 86 | #37bವೃಥಾ ಕಿಂ ತೇ ಶ್ರಮೇಣೇಹ ಯುದ್ಧಮದ್ಯ ತು ನಿಷ್ಫಲಮ್ ॥ | 7.29.37bवृथा किं ते श्रमेणेह युद्धमद्य तु निष्फलम् ॥ ३७ ॥ | 7.29.37bवृथा किं ते श्रमेणेह युद्धमद्य तु निष्फलम् ॥ ३७ ॥ | 7.29.37bवृथा किं ते श्रमेणेह युद्धमद्य तु निष्फलम् ॥ 7.29.37 ॥ | |||
| 87 | #38aತತಸ್ತೇ ದೈವತಗಣಾ ನಿವೃತ್ತಾ ರಣಕರ್ಮಣಃ । | 7.29.38aततस्ते दैवतगणा निवृत्ता रणकर्मणः । | 7.29.38aततस्ते दैवतगणा निवृत्ता रणकर्मणः । | 7.29.38aततस्ते दैवतगणा निवृत्ता रणकर्मणः। | |||
| 88 | #38bತಚ್ಛ್ರುತ್ವಾ ರಾವಣೇರ್ವಾಕ್ಯಂ ಶಕ್ರಹೀನಾಃ ಸುರಾಃ ಗತಾಃ ॥ | 7.29.38bतच्छ्रुत्वा रावणेर्वाक्यं शक्रहीनाः सुरा गताः ॥ ३८ ॥ | 7.29.36bतच्छ्रुत्वा रावणेर्वाक्यं स्वस्थचेता दशाननः ॥7.29.36॥ | 7.29.38bतच्छ्रुत्वा रावणेर्वाक्यं स्वस्थचेता बभूव ह ॥ ३८ ॥ | 7.29.38bतच्छ्रुत्वा रावणेर्वाक्यं स्वस्थचेताः बभूव ह ॥ 7.29.38 ॥ | ||
| 89 | 7.29.37aअथ रणविगतज्वरः प्रभु र्विजयमवाप्य निशाचराधिपः । | #39अथ रणविगतज्वरः प्रभुर्विजयमवाप्य निशाचराधिपः ॥ | 7.29.39aअथ स रणविगतज्वरः प्रभुर्विजयमवाप्य निशाचराधिपः। | ||||
| 90 | 7.29.37bभवनमभि ततो जगाम हृष्टः स्वसुतमवाप्य च वाक्यमब्रवीत् ॥7.29.37॥ | 7.29.39स्वभवनमभितो जगाम हृष्टः स्वसुतमवाप्य च वाक्यमब्रवीत् ॥ ३९ ॥ | 7.29.39bस्वभवनमभितो जगाम हृष्टः स्वसुतमवाप्य च वाक्यमब्रवीत् ॥ 7.29.39 ॥ | ||||
| 91 | #39aಅಥ ರಣವಿಗತಃ ಸ ಉತ್ತವೌಜಾ- ಸ್ತ್ರಿದಶರಿಪುಃ ಪ್ರಥಿತೋ ನಿಶಾಚರೇಂದ್ರಃ । | 7.29.39aअथ रणविगतः स उत्तमौजा- स्त्रिदशरिपुः प्रथितो निशाचरेन्द्रः । | |||||
| 92 | #39bಸ್ವಸುತವಚನಮಾದೃತಃ ಪ್ರಿಯಂ ತತ್ ಸಮನುನಿಶಮ್ಯ ಜಗಾದಚೈವ ಸೂನುಮ್ ॥ | 7.29.39bस्वसुतवचनमादृतः प्रियं तत् समनुनिशम्य जगाद चैव सूनुम् ॥ ३९ ॥ | |||||
| 93 | #40aಅತಿಬಲಸದೃಶೈಃ ಪರಾಕ್ರಮೈಸ್ತ್ವಂ ಮಮ ಕುಲವಂಶವಿವರ್ಧನಃ ಪ್ರಭೋ । | 7.29.40aअतिबलसदृशैः पराक्रमैस्त्वं मम कुलवंशविवर्धनः प्रभो । | 7.29.38aअतिबलसदृशैः पराक्रमैस्तै र्मम कुलमानविवर्धनं कृतम् । | 7.29.40aअतिबलसदृशैः पराक्रमैस्तैर्मम कुलमानविवर्धनं कृतम् । | 7.29.40aअतिबलसदृशैः पराक्रमैस्तैर्मम कुलमानविवर्धनं कृतम्। | ||
| 94 | #40bಯದಯಮತುಲ್ಯಬಲಸ್ತ್ವಯಾದ್ಯ ವೈ ತ್ರಿದಶಪತಿಸ್ತ್ರಿದಶಾಶ್ಚ ನಿರ್ಜಿತಾಃ ॥ | 7.29.40bयदयमतुल्यबलस्त्वयाद्य वै त्रिदशपतिस्त्रिदशाश्च निर्जिताः ॥ ४० ॥ | 7.29.38bयदमरसमविक्रम त्वया त्रिदशपतिस्त्रिदशाश्च निर्जिताः ॥7.29.38॥ | 7.29.40bयदयमतुल्यबलस्त्वयाऽद्य वै त्रिदशपतिस्त्रिदशाश्च निर्जिताः ॥ ४० ॥ | 7.29.40bयदयमतुल्यबलस्त्वयाद्य वै त्रिदशपतिस्त्रिदशाश्च निर्जिताः ॥ 7.29.40 ॥ | ||
| 95 | 7.29.39aत्वरितमुपनयस्व वासवं नगरमितो व्रज सैन्यसंवृतः । | ||||||
| 96 | #41aನಯ ರಥಮಧಿರೋಪ್ಯ ವಾಸವಂ ನಗರ- ಮಿತೋ ವ್ರಜ ಸೇನಯಾ ವೃತಸ್ತ್ವಮ್ । | 7.29.41aनय रथमधिरोप्य वासवं नगरमितो व्रज सेनया वृतस्त्वम् । | 7.29.41aनय रथमधिरोप्य वासवं नगरमितो व्रज सेनया वृतस्त्वम् । | 7.29.41aनय रथमधिरोप्य वासवं नगरमितो व्रज सेनया वृतस्त्वम्। | |||
| 97 | #41bಅಹಮಪಿ ತವ ಪೃಷ್ಠತೋ ದ್ರುತಂ ಸಹ ಸಚಿವೈರನುಯಾಮಿ ಹೃಷ್ಟವತ್ ॥ | 7.29.41bअहमपि तव पृष्ठतो द्रुतं सह सचिवैरनुयामि हृष्टवत् ॥ ४१ ॥ | 7.29.39bअहमपि तव गच्छतो द्रुतं सह सचिवैरनुयामि पृष्ठतः ॥7.29.39॥ | 7.29.41bअहमपि तवै गच्छतो द्रुतं सह सचिवैरनुयामि पृष्ठतः ॥ ४१ ॥ | 7.29.41bअहमपि तव गच्छतो द्रुतं सह सचिवैरनुयामि पृष्ठतः ॥ 7.29.41 ॥ | ||
| 98 | #42aಅಥ ಸ ಬಲವೃತಃ ಸವಾಹನ- ಸ್ತ್ರಿದಶಪತಿಂ ಪರಿಗೃಹ್ಯ ರಾವಣಿಃ । | 7.29.42aअथ स बलवृतः सवाहन- स्त्रिदशपतिं परिगृह्य रावणिः । | 7.29.40aअथ स बलवृतः सवाहन स्त्रिदशपतिं परिगृह्य रावणिः । | 7.29.42aअथ स बलवृतः सवाहनस्त्रिदशपतिं परिगृह्य रावणिः । | 7.29.42aअथ स बलवृतः सवाहनस्त्रिदशपतिं परिगृह्य रावणिः। | ||
| 99 | 7.29.40bस्वभवनमुपगम्य राक्षसो मुदितमना विससर्ज राक्षसान् ॥7.29.40॥ | ||||||
| 100 | #42bಸ್ವಭವನಮಧಿಗಮ್ಯ ವೀರ್ಯವಾನ್ ಕೃತಸಮರಾನ್ವಿಸಸರ್ಜ ರಾಕ್ಷಸಾನ್ ॥ | 7.29.42bस्वभवनमधिगम्य वीर्यवान् कृतसमरान् विससर्ज राक्षसान् ॥ ४२ ॥ | 7.29.42bस्वभवनभिगम्य वीर्यवान्कृतसमरान्विससर्ज राक्षसान् ॥ ४२ ॥ | 7.29.42bस्वभवनमभिगम्य वीर्यवान्कृतसमरान्विससर्ज राक्षसान् ॥ 7.29.42 ॥ | |||
| 101 | 7.29.43a[ तान्विसृज्य तदा रक्षो महेन्द्रं पाकशासनम् । | ||||||
| 102 | 7.29.43bबबन्ध नगरद्वारि मध्ये क्रीडननिर्वृतः ॥ ४३ ॥ | ||||||
| 103 | 7.29.29इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने एकोनत्रिंशः सर्गः ॥ २९ ॥ |