इन्द्रजिज्-जयन्त-युद्धम्. Built from structured/verses.jsonl. Rows are monotone-aligned half-verse/pāda-like units split at । and ॥, so verse-number boundary differences can appear as inserted or shifted line rows.
109 aligned line rows across 7 source streams.
gor-kn 98 lines
gor-hi 98 lines
crit 93 lines
gr 99 lines
dr-mula 98 lines
| # | gor-kn | gor-hi | crit | gr | dr-mula | gr-iitk | iitk |
|---|---|---|---|---|---|---|---|
| 1 | #1aಸುಮಾಲಿನಂ ಹತಂ ದೃಷ್ಟ್ವಾವಸುನಾ ಭಸ್ಮಸಾತ್ಕೃತಮ್ । | 7.28.1aसुमालिनं हतं दृष्ट्वा वसुना भस्मसात्कृतम् । | 7.28.1aसुमालिनं हतं दृष्ट्वा वसुना भस्मसात्कृतम् । | 7.28.1aसुमालिनं हतं दृष्ट्वा वसुना भस्मसात्कृतम् । | 7.28.1aसुमालिनं हतं दृष्ट्वा वसुना भस्मसात्कृतम्। | ||
| 2 | #1bಸ್ವಸೈನ್ಯಂ ವಿದ್ರುತಂ ಚಾಪಿ ಲಕ್ಷಯಿತ್ವಾರ್ದಿತಂ ಸುರೈಃ ॥ | 7.28.1bस्वसैन्यं विद्रुतं चापि लक्षयित्वार्दितं सुरैः ॥ १ ॥ | 7.28.1bविद्रुतं चापि स्वं सैन्यं लक्षयित्वार्दितं शरैः ॥7.28.1॥ | 7.28.1bस्वसैन्यं विद्रुतं चापि लक्षयित्वाऽर्दितं सुरैः ॥ १ ॥ | 7.28.1bस्वसैन्यं विद्रुतं चापि लक्षयित्वाऽर्दितं सुरैः ॥ 7.28.1 ॥ | ||
| 3 | #2aತತಃ ಸ ಬಲವಾನ್ ಕ್ರುದ್ಧೋ ರಾವಣಸ್ಯ ಸುತಸ್ತದಾ । | 7.28.2aततः स बलवान् क्रुद्धो रावणस्य सुतस्तदा । | 7.28.2aततः स बलवान्क्रुद्धो रावणस्य सुतो युधि । | 7.28.2aततः स बलवान्क्रुद्ध रावणस्य सुतस्तदा । | 7.28.2aततः स बलवान्क्रुद्धो रावणस्य सुतस्तदा। | ||
| 4 | #2bನಿವರ್ತ್ಯ ರಾಕ್ಷಸಾನ್ಸರ್ವಾನ್ಮೇಘನಾದೋ ವ್ಯವಸ್ಥಿತಃ ॥ | 7.28.2bनिवर्त्य राक्षसान् सर्वान् मेघनादो व्यवस्थितः ॥ २ ॥ | 7.28.2bनिवर्त्य राक्षसान्सर्वान्मेघनादो व्यतिष्ठत ॥7.28.2॥ | 7.28.2bनिवर्त्य राक्षसान्सर्वान्मेघनादो व्यवस्थितः ॥ २ ॥ | 7.28.2bनिवर्त्य राक्षसान्सर्वान्मेघनादो व्यवस्थितः ॥ 7.28.2 ॥ | ||
| 5 | #3aಸ ರಥೇನಾಗ್ನಿವರ್ಣೇನ ಕಾಮಗೇನ ಮಹಾರಥಃ । | 7.28.3aस रथेनाग्निवर्णेन कामगेन महारथः । | 7.28.3aस रथेनाग्निवर्णेन कामगेन महारथः । | 7.28.3aसुरथेनाग्निवर्णेन कामगेन महारथः । | 7.28.3aसुरथेनाग्निवर्णेन कामगेन महारथः। | ||
| 6 | #3bಅಭಿದುದ್ರಾವ ಸೇನಾಂ ತಾಂ ವನಾನ್ಯಗ್ನಿರಿವ ಜ್ವಲನ್ ॥ | 7.28.3bअभिदुद्राव सेनां तां वनान्यग्निरिव ज्वलन् ॥ ३ ॥ | 7.28.3bअभिदुद्राव सेनां तां वनान्यग्निरिव ज्वलन् ॥7.28.3॥ | 7.28.3bअभिदुद्राव सेनां तां वनान्यग्निरिव ज्वलन् ॥ ३ ॥ | 7.28.3bअभिदुद्राव सेनां तां वनान्यग्निरिव ज्वलन् ॥ 7.28.3 ॥ | ||
| 7 | #4aತತಃ ಪ್ರವಿಶತಸ್ತಸ್ಯ ವಿವಿಧಾಯುಧಧಾರಿಣಃ । | 7.28.4aततः प्रविशतस्तस्य विविधायुधधारिणः । | 7.28.4aततः प्रविशतस्तस्य विविधायुधधारिणः । | 7.28.4aततः प्रविशतस्तस्य विविधायुधधारिणः । | 7.28.4aततः प्रविशतस्तस्य विविधायुधधारिणः। | ||
| 8 | #4bವಿದುದ್ರುವುರ್ದಿಶಃ ಸರ್ವಾ ದರ್ಶನಾದೇವ ದೇವತಾಃ ॥ | 7.28.4bविदुद्रुवुर्दिशः सर्वा दर्शनादेव देवताः ॥ ४ ॥ | 7.28.4bविदुद्रुवुर्दिशः सर्वा देवास्तस्य च दर्शनात् ॥7.28.4॥ | 7.28.4bविदुद्रुवुर्दिशः सर्वा दर्शनादेव देवताः ॥ ४ ॥ | 7.28.4bविदुद्रुवुर्दिशः सर्वा दर्शनादेव देवताः ॥ 7.28.4 ॥ | ||
| 9 | 7.28.5aन तत्रावस्थितः कश्चिद्रणे तस्य युयुत्सतः । | ||||||
| 10 | #5aನ ಬಭೂವ ತದಾ ಕಶ್ಚಿದ್ಯುಯುತ್ಸೋರಸ್ಯ ಸಮ್ಮುಖೇ । | 7.28.5aन बभूव तदा कश्चिद् युयुत्सोरस्य सम्मुखे । | 7.28.5aन बभूव तदा कश्चिद्युयुत्सोरस्य संमुखे । | 7.28.5aन बभूव तदा कश्चिद्युयुत्सोरस्य सम्मुखे। | |||
| 11 | #5bಸರ್ವಾನಾವಿದ್ಧ್ಯ ವಿತ್ರಸ್ತಾಂಸ್ತತಃ ಶಕ್ರೋಽಬ್ರವೀತ್ಸುರಾನ್ ॥ | 7.28.5bसर्वानाविद्ध्य वित्रस्तांस्ततः शक्रोऽब्रवीत् सुरान् ॥ ५ ॥ | 7.28.5bसर्वानाविध्य वित्रस्तान्दृष्ट्वा शक्रोऽभ्यभाषत ॥7.28.5॥ | 7.28.5bसर्वानाविध्य वित्रस्तांस्ततः शक्रोऽब्रवीत्सुरान् ॥ ५ ॥ | 7.28.5bसर्वानाविद्ध्य वित्रस्तांस्ततः शक्रोऽब्रवीत्सुरान् ॥ 7.28.5 ॥ | ||
| 12 | #6aನ ಭೇತವ್ಯಂ ನ ಗಂತವ್ಯಂ ನಿವತರ್ರ್ಧ್ವಂ ರಣೇ ಸುರಾಃ । | 7.28.6aन भेतव्यं न गन्तव्यं निवर्तध्वं रणे सुराः । | 7.28.6aन भेतव्यं न गन्तव्यं निवर्तध्वं रणं प्रति । | 7.28.6aन भेतव्यं न गन्तव्यं निवर्तध्वं रणे सुराः । | 7.28.6aन भेतव्यं न गन्तव्यं निवर्तध्वं रणे सुराः। | ||
| 13 | #6bಏಷ ಗಚ್ಛತಿ ಪುತ್ರೋ ಮೇ ಯುದ್ಧಾರ್ಥಮಪರಾಜಿತಃ ॥ | 7.28.6bएष गच्छति पुत्रो मे युद्धार्थमपराजितः ॥ ६ ॥ | 7.28.6bएष गच्छति मे पुत्रो युद्धार्थमपराजितः ॥7.28.6॥ | 7.28.6bएष गच्छति पुत्रो मे युद्धार्थमपराजितः ॥ ६ ॥ | 7.28.6bएष गच्छति पुत्रो मे युद्धार्थमपराजितः ॥ 7.28.6 ॥ | ||
| 14 | #7aತತಃ ಶಕ್ರಸುತೋ ದೇವೋ ಜಯಂತ ಇತಿ ವಿಶ್ರುತಃ । | 7.28.7aततः शक्रसुतो देवो जयन्त इति विश्रुतः । | 7.28.7aततः शक्रसुतो देवो जयन्त इति विश्रुतः । | 7.28.7aततः शक्रसुतो देवो जयन्त इति विश्रुतः । | 7.28.7aततः शक्रसुतो देवो जयन्त इति विश्रुतः। | ||
| 15 | #7bರಥೇನಾದ್ಭುತಕಲ್ಪೇನ ಸಂಗ್ರಾಮೇ ಸೋಽಭ್ಯವರ್ತತ ॥ | 7.28.7bरथेनाद्भुतकल्पेन सङ्ग्रामे सोऽभ्यवर्तत ॥ ७ ॥ | 7.28.7bरथेनाद्भुतकल्पेन संग्राममभिवर्तत ॥7.28.7॥ | 7.28.7bरथेनाद्भुतकल्पेन संग्रामे सोभ्यवर्तत ॥ ७ ॥ | 7.28.7bरथेनाद्भुतकल्पेन सङ्ग्रामे सोऽभ्यवर्तत ॥ 7.28.7 ॥ | ||
| 16 | #8aತತಸ್ತೇ ತ್ರಿದಶಾಃ ಸರ್ವೇ ಪರಿವಾರ್ಯ ಶಚೀಸುತಮ್ । | 7.28.8aततस्ते त्रिदशाः सर्वे परिवार्य शचीसुतम् । | 7.28.8aततस्ते त्रिदशाः सर्वे परिवार्य शचीसुतम् । | 7.28.8aततस्ते त्रिदशाः सर्वे परिवार्य शचीसुतम् । | 7.28.8aततस्ते त्रिदशाः सर्वे परिवार्य शचीसुतम्। | ||
| 17 | #8bರಾವಣಸ್ಯ ಸುತಂ ಯುದ್ಧೇ ಸಮಾಸಾದ್ಯ ಪ್ರಜಘ್ನಿರೇ ॥ | 7.28.8bरावणस्य सुतं युद्धे समासाद्य प्रजघ्निरे ॥ ८ ॥ | 7.28.8bरावणस्य सुतं युद्धे समासाद्य व्यवस्थिताः ॥7.28.8॥ | 7.28.8bरावणस्य सुतं युद्धे समासाद्य प्रजघ्निरे ॥ ८ ॥ | 7.28.8bरावणस्य सुतं युद्धे समासाद्य प्रजघ्निरे ॥ 7.28.8 ॥ | ||
| 18 | #9aತೇಷಾಂ ಯುದ್ಧಂ ಸಮಭವತ್ಸದೃಶಂ ದೇವರಕ್ಷಸಾಮ್ । | 7.28.9aतेषां युद्धं समभवत् सदृशं देवरक्षसाम् । | 7.28.9aतेषां युद्धं महदभूत्सदृशं देवरक्षसाम् । | 7.28.9aतेषां युद्धं समभवत्सदृशं देवरक्षसाम् । | 7.28.9aतेषां युद्धं समभवत्सदृशं देवरक्षसाम्। | ||
| 19 | #9bಮಹೇಂದ್ರಸ್ಯ ಚ ಪುತ್ರಸ್ಯ ರಾಕ್ಷಸೇಂದ್ರ ಸುತಸ್ಯ ಚ ॥ | 7.28.9bमहेन्द्रस्य च पुत्रस्य राक्षसेन्द्रसुतस्य च ॥ ९ ॥ | 7.28.9bकृते महेन्द्रपुत्रस्य राक्षसेन्द्रसुतस्य च ॥7.28.9॥ | 7.28.9bमहेन्द्रस्य च पुत्रस्य राक्षसेन्द्रसुतस्य च ॥ ९ ॥ | 7.28.9bमहेन्द्रस्य च पुत्रस्य राक्षसेन्द्रसुतस्य च ॥ 7.28.9 ॥ | ||
| 20 | #10aತತೋ ಮಾತಲಿಪುತ್ರಸ್ಯ ಗೋಮುಖಸ್ಯ ಸ ರಾವಣಿಃ । | 7.28.10aततो मातलिपुत्रस्य गोमुखस्य स रावणिः । | 7.28.10aततो मातलिपुत्रे तु गोमुखे राक्षसात्मजः । | 7.28.10aततो मातलिपुत्रे तु गोमुखे राक्षसात्मजः । | 7.28.10aततो मातलिपुत्रे तु गोमुखे राक्षसात्मजः। | ||
| 21 | #10bಸಾರಥೇಃ ಪಾತಯಾಮಾಸ ಶರಾನ್ಕನಕಭೂಷಣಾನ್ ॥ | 7.28.10bसारथेः पातयामास शरान् कनकभूषणान् ॥ १० ॥ | 7.28.10bसारथौ पातयामास शरान्काञ्चनभूषणान् ॥7.28.10॥ | 7.28.10bसारथौ पातयामास शरान्कनकभूषणान् ॥ १० ॥ | 7.28.10bसारथौ पातयामास शरान्कनकभूषणान् ॥ 7.28.10 ॥ | ||
| 22 | #11aಶಚೀಸುತಶ್ಚಾಪಿ ತಥಾ ಜಯಂತಸ್ತಸ್ಯ ಸಾರಥಿಮ್ । | 7.28.11aशचीसुतश्चापि तथा जयन्तस्तस्य सारथिम् । | 7.28.11aशचीसुतस्त्वपि तथा जयन्तस्तस्य सारथिम् । | 7.28.11aशचीसुतश्चापि तथा जयन्तस्तस्य सारथिम् । | 7.28.11aशचीसुतश्चापि तथा जयन्तस्तस्य सारथिम्। | ||
| 23 | 7.28.11bतं चैव रावणिं क्रुद्धः प्रत्यविध्यद्रणाजिरे ॥7.28.11॥ | ||||||
| 24 | 7.28.12aततः क्रुद्धो महातेजा रक्षो विस्फारितेक्षणः । | ||||||
| 25 | #11bತಂ ಚಾಪಿ ರಾವಣಿಃ ಕ್ರುದ್ಧಃ ಸಮಂತಾತ್ ಪ್ರತ್ಯವಿಧ್ಯತ ॥ | 7.28.11bतं चापि रावणिः क्रुद्धः समन्तात् प्रत्यविध्यत ॥ ११ ॥ | 7.28.11bतं चापि रावणिः क्रुद्धः समन्तास्प्रत्यविध्यत ॥ ११ ॥ | 7.28.11bतं चापि रावणिः क्रुद्धः समन्तात्प्रत्यविध्यत ॥ 7.28.11 ॥ | |||
| 26 | #12aಸ ಹಿ ಕ್ರೋಧಸಮಾವಿಷ್ಟೋ ಬಲೀ ವಿಸ್ಫಾರಿತೇಕ್ಷಣಃ । | 7.28.12aस हि क्रोधसमाविष्टो बली विस्फारितेक्षणः । | 7.28.12aस हि क्रोधसमाविष्टो बली विस्फारितेक्षणः । | 7.28.12aस हि क्रोधसमाविष्टो बली विस्फारितेक्षणः। | |||
| 27 | #12bರಾವಣಿಃ ಶಕ್ರತನಯಂ ಶರವರ್ಷೈರವಾಕಿರತ್ ॥ | 7.28.12bरावणिः शक्रतनयं शरवर्षैरवाकिरत् ॥ १२ ॥ | 7.28.12bरावणिः शक्रपुत्रं तं शरवर्षैरवाकिरत् ॥7.28.12॥ | 7.28.12bरावणिः शक्रतनयं शरवर्षैरवाकिरत् ॥ १२ ॥ | 7.28.12bरावणिः शक्रतनयं शरवर्षैरवाकिरत् ॥ 7.28.12 ॥ | ||
| 28 | 7.28.13aततः प्रगृह्य शस्त्राणि सारवन्ति महान्ति च । | ||||||
| 29 | #13aತತೋ ನಾನಾ ಪ್ರಹರಣಾನ್ ಶಿತಧಾರಾನ್ಸಹಸ್ರಶಃ । | 7.28.13aततो नानाप्रहरणाञ्छितधारान् सहस्रशः । | 7.28.13aततो नानाप्रहरणांश्छितधारान्त्सहस्रशः । | 7.28.13aततो नानाप्रहरणाञ्छितधारान्सहस्रशः। | |||
| 30 | #13bಪಾತಯಾಮಾಸ ಸಂಕ್ರುದ್ಧಃ ಸುರಸೈನ್ಯೇಷು ರಾವಣಿಃ ॥ | 7.28.13bपातयामास सङ्क्रुद्धः सुरसैन्येषु रावणिः ॥ १३ ॥ | 7.28.13bपातयामास संक्रुद्धः सुरसैन्येषु रावणिः ॥ १३ ॥ | 7.28.13bपातयामास सङ्क्रुद्धः सुरसैन्येषु रावणिः ॥ 7.28.13 ॥ | |||
| 31 | #14aಶತಘ್ನೀಮುಸಲಪ್ರಾಸ ಗದಾಖಡ್ಗ ಪರಶ್ವಧಾನ್ । | 7.28.14aशतघ्नीमुसलप्रासगदाखड्गपरश्वधान् । | 7.28.13bशतघ्नीस्तोमरान्प्रासान्गदाखड्गपरश्वधान् । | 7.28.14aशतघ्नीमुसलप्रासगदाखड्गपरश्वधान् । | 7.28.14aशतघ्नीमुसलप्रासगदाखड्गपरश्वधान्। | ||
| 32 | #14bಮಹಾಂತಿ ಗಿರಿಶೃಂಗಾಣಿ ಪಾತಯಾಮಾಸ ರಾವಣಿಃ ॥ | 7.28.14bमहान्ति गिरिशृङ्गाणि पातयामास रावणिः ॥ १४ ॥ | 7.28.13cसुमहान्त्यद्रिशृङ्गाणि पातयामास रावणिः ॥7.28.13॥ | 7.28.14bमहान्ति गिरिशृङ्गाणि पातयामास रावणिः ॥ १४ ॥ | 7.28.14bमहान्ति गिरिशृङ्गाणि पातयामास रावणिः ॥ 7.28.14 ॥ | ||
| 33 | #15aತತಃ ಪ್ರವ್ಯಥಿತಾಃ ಲೋಕಾಃ ಸಂಜಜ್ಞೇ ಚ ತಮಸ್ತತಃ । | 7.28.15aततः प्रव्यथिताः लोकाः सञ्जज्ञे च तमस्ततः । | 7.28.14aततः प्रव्यथिता लोकाः संजज्ञे च तमो महत् । | 7.28.15aततः प्रव्यथिता लोकाः संजज्ञे च तमो महत् । | 7.28.15aततः प्रव्यथिता लोकाः सञ्जज्ञे च तमोऽभवत्। | ||
| 34 | #15bತಸ್ಯ ರಾವಣ ಪುತ್ರಸ್ಯ ಶತ್ರುಸೈನ್ಯಾನಿ ನಿಘ್ನತಃ ॥ | 7.28.15bतस्य रावणपुत्रस्य शत्रुसैन्यानि निघ्नतः ॥ १५ ॥ | 7.28.14bतस्य रावणपुत्रस्य तदा शत्रूनभिघ्नतः ॥7.28.14॥ | 7.28.15bतस्य रावणपुत्रस्य शत्रुसैन्यानि निघ्नतः ॥ १५ ॥ | 7.28.15bतस्य रावणपुत्रस्य शत्रुसैन्यानि निघ्नतः ॥ 7.28.15 ॥ | ||
| 35 | #16aತತಸ್ತದ್ ದೈವತಬಲಂ ಸಮಂತಾತ್ತಂ ಶಚೀಸುತಮ್ । | 7.28.16aततस्तद् दैवतबलं समन्तात् तं शचीसुतम् । | 7.28.15aततस्तद्दैवतबलं समन्तात्तं शचीसुतम् । | 7.28.16aततस्तद्दैवतबलं समन्तात्तं शचीसुतम् । | 7.28.16aततस्तद्दैवतबलं समन्तात्तं शचीसुतम्। | ||
| 36 | #16bಬಹುಪ್ರಕಾರಮಸ್ವಸ್ಥಮಭವಚ್ಛರಪೀಡಿತಮ್ ॥ | 7.28.16bबहुप्रकारमस्वस्थमभवच्छरपीडितम् ॥ १६ ॥ | 7.28.15bबहुप्रकारमस्वस्थं तत्र तत्र स्म धावति ॥7.28.15॥ | 7.28.16bबहुप्रकारमस्वस्थमभवच्छरपीडितम् ॥ १६ ॥ | 7.28.16bबहुप्रकारमस्वस्थमभवच्छरपीडितम् ॥ 7.28.16 ॥ | ||
| 37 | #17aನಾಭ್ಯಜಾನಂತ ಚಾನ್ಯೋನ್ಯಂ ರಕ್ಷೋ ವಾ ದೇವತಾಥವಾ । | 7.28.17aनाभ्यजानन्त चान्योन्यं रक्षो वा देवताथवा । | 7.28.16aनाभ्यजानंस्तदान्योन्यं शत्रून्वा दैवतानि वा । | 7.28.17aनाभ्यजानन्त चान्योन्यं रक्षो वा देवताऽथवा । | 7.28.17aनाभ्यजानन्त चान्योन्यं रक्षो वा देवताऽथवा। | ||
| 38 | #17bತತ್ರ ತತ್ರ ವಿಪರ್ಯಸ್ತಂ ಸಮಂತಾತ್ ಪರಿಧಾವತ ॥ | 7.28.17bतत्र तत्र विपर्यस्तं समन्तात् परिधावत ॥ १७ ॥ | 7.28.16bतत्र तत्र विपर्यस्तं समन्तात्परिधावितम् ॥7.28.16॥ | 7.28.17bतत्र तत्र विपर्यस्तं समन्तात्परिधावति ॥ १७ ॥ | 7.28.17bतत्र तत्र विपर्यस्तं समन्तात्परिधावति ॥ 7.28.17 ॥ | ||
| 39 | #18aದೇವಾ ದೇವಾನ್ನಿಜಘ್ನುಸ್ತೇ ರಾಕ್ಷಸಾನ್ ರಾಕ್ಷಸಾಸ್ತಥಾ । | 7.28.18aदेवा देवान् निजघ्नुस्ते राक्षसान् राक्षसास्तथा । | 7.28.18aदेवा देवान्निजघ्नुस्ते राक्षसा राक्षसांस्तथा । | 7.28.18aदेवा देवान्निजघ्नुस्ते राक्षसान्राक्षसास्तथा। | |||
| 40 | #18bಸಮ್ಮೂಢಾಸ್ತಮಸಾಚ್ಛನ್ನಾ ವ್ಯದ್ರವನ್ನಪರೇ ತಥಾ ॥ | 7.28.18bसम्मूढास्तमसाच्छन्ना व्यद्रवन्नपरे तथा ॥ १८ ॥ | 7.28.18bसंमूढास्तमसाच्छन्ना व्यद्रवन्नपरे तदा ॥ १८ ॥ | 7.28.18bसम्मूढास्तमसाच्छन्ना व्यद्रवन्नपरे तथा ॥ 7.28.18 ॥ | |||
| 41 | #19aಏತಸ್ಮಿನ್ನಂತರೇ ವೀರಃ ಪುಲೋಮಾ ನಾಮ ವೀರ್ಯವಾನ್ । | 7.28.19aएतस्मिन्नन्तरे वीरः पुलोमा नाम वीर्यवान् । | 7.28.17aएतस्मिन्नन्तरे शूरः पुलोमा नाम वीर्यवान् । | 7.28.19aएतस्मिन्नन्तरे वीरः पुलोमा नाम वीर्यवान् । | 7.28.19aएतस्मिन्नन्तरे वीरः पुलोमा नाम वीर्यवान्। | ||
| 42 | #19bದೈತ್ಯೇಂದ್ರಸ್ತೇನ ಸಂಗೃಹ್ಯ ಶಚೀಪುತ್ರೋಽಪವಾಹಿತಃ ॥ | 7.28.19bदैत्येन्द्रस्तेन सङ्गृह्य शचीपुत्रोऽपवाहितः ॥ १९ ॥ | 7.28.17bदैतेयस्तेन संगृह्य शचीपुत्रोऽपवाहितः ॥7.28.17॥ | 7.28.19bदैत्येन्द्रस्तेन संगृह्य शचीपुत्रोपवाहितः ॥ १९ ॥ | 7.28.19bदैत्येन्द्रस्तेन सङ्गृह्य शचीपुत्रोऽपवाहितः ॥ 7.28.19 ॥ | ||
| 43 | 7.28.18aगृहीत्वा तं तु नप्तारं प्रविष्टः स महोदधिम् । | ||||||
| 44 | 7.28.18bमातामहोऽर्यकस्तस्य पौलोमी येन सा शची ॥7.28.18॥ | ||||||
| 45 | 7.28.19aप्रणाशं दृश्य तु सुरा जयन्तस्यातिदारुणम् । | ||||||
| 46 | 7.28.19bव्यथिताश्चाप्रहृष्टाश्च समन्ताद्विप्रदुद्रुवुः ॥7.28.19॥ | ||||||
| 47 | #20aಸಂಗೃಹ್ಯ ತಂ ತು ದೌಹಿತ್ರಂ ಪ್ರವಿಷ್ಟಃ ಸಾಗರಂ ತದಾ । | 7.28.20aसङ्गृह्य तं तु दौहित्रं प्रविष्टः सागरं तदा । | 7.28.20aसंगृह्य तं तु दौहित्रं प्रविष्टः सागरं तदा । | 7.28.20aसङ्गृह्य तं तु दौहित्रं प्रविष्टः सागरं तदा। | |||
| 48 | #20bಆರ್ಯಕಃ ಸ ಹಿ ತಸ್ಯಾಸೀತ್ಪುಲೋಮಾ ಯೇನ ಸಾ ಶಚೀ ॥ | 7.28.20bआर्यकः स हि तस्यासीत् पुलोमा येन सा शची ॥ २० ॥ | 7.28.20bआर्यकः स हि तस्यासीत्पुलोमा येन सा शची ॥ २० ॥ | 7.28.20bआर्यकः स हि तस्यासीत्पुलोमा येन सा शची ॥ 7.28.20 ॥ | |||
| 49 | #21aಜ್ಞಾತ್ವಾ ಪ್ರಣಾಶಂ ತು ತದಾ ಜಯಂತಸ್ಯಾಥ ದೇವತಾಃ । | 7.28.21aज्ञात्वा प्रणाशं तु तदा जयन्तस्याथ देवताः । | 7.28.21aज्ञात्वा प्रणाशं तु तदा जयन्तस्याथ देवताः । | 7.28.21aज्ञात्वा प्रणाशं तु तदा जयन्तस्याथ देवताः। | |||
| 50 | #21bಅಪ್ರಹೃಷ್ಟಾಸ್ತತಃ ಸರ್ವಾ ವ್ಯಥಿತಾಃ ಸಂಪ್ರದುದ್ರುವುಃ ॥ | 7.28.21bअप्रहृष्टास्ततः सर्वा व्यथिताः सम्प्रदुद्रुवुः ॥ २१ ॥ | 7.28.21bअप्रहृष्टास्ततः सर्वा व्यथिताः संप्रदुद्रुवुः ॥ २१ ॥ | 7.28.21bअप्रहृष्टास्ततः सर्वा व्यथिताः सम्प्रदुद्रुवुः ॥ 7.28.21 ॥ | |||
| 51 | #22aರಾವಣಿಸ್ತ್ವಥ ಸಂಕ್ರುದ್ಧೋ ಬಲೈಃ ಪರಿವೃತಃ ಸ್ವಕೈಃ । | 7.28.22aरावणिस्त्वथ सङ्क्रुद्धो बलैः परिवृतः स्वकैः । | 7.28.20aरावणिस्त्वथ संहृष्टो बलैः परिवृतः स्वकैः । | 7.28.22aरावणिस्त्वथ संक्रुद्धो बलैः परिवृतः स्वकैः । | 7.28.22aरावणिस्त्वथ सङ्क्रुद्धो बलैः परिवृतः स्वकैः। | ||
| 52 | #22bಅಭ್ಯಧಾವತ ದೇವಾಂಸ್ತಾನ್ಮುಮೋಚ ಚ ಮಹಾಸ್ವನಮ್ ॥ | 7.28.22bअभ्यधावत देवांस्तान् मुमोच च महास्वनम् ॥ २२ ॥ | 7.28.20bअभ्यधावत देवांस्तान्मुमोच च महास्वनम् ॥7.28.20॥ | 7.28.22bअभ्यधावत देवांस्तान्मुमोच च महास्वनम् ॥ २२ ॥ | 7.28.22bअभ्यधावत देवांस्तान्मुमोच च महास्वनम् ॥ 7.28.22 ॥ | ||
| 53 | #23aದೃಷ್ಟ್ವಾ ಪ್ರಣಾಶಂ ಪುತ್ರಸ್ಯ ದೈವತೇಷು ಚ ವಿದ್ರುತಮ್ । | 7.28.23aदृष्ट्वा प्रणाशं पुत्रस्य दैवतेषु च विद्रुतम् । | 7.28.21aदृष्ट्वा प्रणाशं पुत्रस्य रावणेश्चापि विक्रमम् । | 7.28.23aदृष्ट्वा प्रणाशं पुत्रस्य दैवतेषु च विद्रुतम् । | 7.28.23aदृष्ट्वा प्रणाशं पुत्रस्य दैवतेषु च विद्रुतम्। | ||
| 54 | #23bಮಾತಲಿಂ ಚಾಹ ದೇವೇಶೋ ರಥಃ ಸಮುಪನೀಯತಾಮ್ ॥ | 7.28.23bमातलिं चाह देवेशो रथः समुपनीयताम् ॥ २३ ॥ | 7.28.21bमातलिं प्राह देवेन्द्रो रथः समुपनीयताम् ॥7.28.21॥ | 7.28.23bमातलिं चाह देवेशो रथः समुपनीयताम् ॥ २३ ॥ | 7.28.23bमातलिं चाह देवेशो रथः समुपनीयताम् ॥ 7.28.23 ॥ | ||
| 55 | #24aಸ ತು ದಿವ್ಯೋ ಮಹಾಭೀಮಃ ಸಜ್ಜ ಏವ ಮಹಾರಥಃ । | 7.28.24aस तु दिव्यो महाभीमः सज्ज एव महारथः । | 7.28.22aस तु दिव्यो महाभीमः सज्ज एव महारथः । | 7.28.24aस तु दिव्यो महाभीमः सज्ज एव महारथः । | 7.28.24aस तु दिव्यो महाभीमः सज्ज एव महारथः। | ||
| 56 | #24bಉಪಸ್ಥಿತೋ ಮಾತಲಿನಾ ವಾಹ್ಯಮಾನೋ ಮಹಾಜವಃ ॥ | 7.28.24bउपस्थितो मातलिना वाह्यमानो महाजवः ॥ २४ ॥ | 7.28.22bउपस्थितो मातलिना वाह्यमानो मनोजवः ॥7.28.22॥ | 7.28.24bउपस्थितो मातलिना वाह्यमानो महाजवः ॥ २४ ॥ | 7.28.24bउपस्थितो मातलिना वाह्यमानो महाजवः ॥ 7.28.24 ॥ | ||
| 57 | #25aತತ್ರೋ ಮೇಘಾ ರಥೇ ತಸ್ಮಿಂಸ್ತಡಿತ್ತ್ವಂತೋ ಮಹಾಬಲಾಃ । | 7.28.25aततो मेघा रथे तस्मिंस्तडित्त्वन्तो महाबलाः । | 7.28.23aततो मेघा रथे तस्मिंस्तडिद्वन्तो महास्वनाः । | 7.28.25aततो मेघा रथे तस्मिंस्तडिद्वन्तो महाबलाः । | 7.28.25aततो मेघा रथे तस्मिंस्तडित्त्वन्तो महाबलाः। | ||
| 58 | #25bಅಗ್ರತೋ ವಾಯುಚಪಲಾ ನೇದುಃ ಪರಮ ನಿಃಸ್ವನಾಃ ॥ | 7.28.25bअग्रतो वायुचपला नेदुः परमनिःस्वनाः ॥ २५ ॥ | 7.28.23bअग्रतो वायुचपला गच्छन्तो व्यनदंस्तदा ॥7.28.23॥ | 7.28.25bअग्रतो वायुचपला नेदुः परमनिस्वनाः ॥ २५ ॥ | 7.28.25bअग्रतो वायुचपला नेदुः परमनिःस्वनाः ॥ 7.28.25 ॥ | ||
| 59 | #26aನಾನಾ ವಾದ್ಯಾನಿ ವಾದ್ಯಂತ ಗಂಧರ್ವಾಶ್ಚ ಸಮಾಹಿತಾಃ । | 7.28.26aनानावाद्यानि वाद्यन्त गन्धर्वाश्च समाहिताः । | 7.28.24aनानावाद्यानि वाद्यन्त स्तुतयश्च समाहिताः । | 7.28.26aनानावाद्यानि वाद्यन्त गन्धर्वाश्च समाहिताः । | 7.28.26aनानावाद्यानि वाद्यन्त गन्धर्वाश्च समाहिताः। | ||
| 60 | #26bನನೃತುಶ್ಚಾಪ್ಸರಃ ಸಂಘಾ ನಿರ್ಯಾತೇ ತ್ರಿದಶೇಶ್ವರೇ ॥ | 7.28.26bननृतुश्चाप्सरःसङ्घा निर्याते त्रिदशेश्वरे ॥ २६ ॥ | 7.28.24bननृतुश्चाप्सरःसंघाः प्रयाते वासवे रणम् ॥7.28.24॥ | 7.28.26bननृतुश्वाप्सरःसङ्घा निर्याते त्रिदशेश्वरे ॥ २६ ॥ | 7.28.26bननृतुश्चाप्सरःसङ्घा निर्याते त्रिदशेश्वरे ॥ 7.28.26 ॥ | ||
| 61 | #27aರುದ್ರೈರ್ವಸುಭಿರಾದಿತ್ಯೈರಶ್ವಿಭ್ಯಾಂ ಸಮರುದ್ಗಣೈಃ । | 7.28.27aरुद्रैर्वसुभिरादित्यैरश्विभ्यां समरुद्गणैः । | 7.28.25aरुद्रैर्वसुभिरादित्यैः साध्यैश्च समरुद्गणैः । | 7.28.27aरुद्रैर्वसुभिरादित्यैः साध्यैश्च समरुद्गणैः । | 7.28.27aरुद्रैर्वसुभिरादित्यैस्साध्यैश्च समरुद्गणैः। | ||
| 62 | #27bವೃತೋ ನಾನಾ ಪ್ರಹರಣೈರ್ನಿರ್ಯಯೌತ್ರಿದಶಾಧಿಪಃ ॥ | 7.28.27bवृतो नानाप्रहरणैर्निर्ययौ त्रिदशाधिपः ॥ २७ ॥ | 7.28.25bवृतो नानाप्रहरणैर्निर्ययौ त्रिदशाधिपः ॥7.28.25॥ | 7.28.27bवृतो नानाप्रहरणैर्निर्ययौ त्रिदशाधिपः ॥ २७ ॥ | 7.28.27bवृतो नानाप्रहरणैर्निर्ययौ त्रिदशाधिपः ॥ 7.28.27 ॥ | ||
| 63 | #28aನಿರ್ಗಚ್ಛತಸ್ತು ಶಕ್ರಸ್ಯ ಪರುಷಃ ಪವನೋ ವವೌ । | 7.28.28aनिर्गच्छतस्तु शक्रस्य परुषः पवनो ववौ । | 7.28.26aनिर्गच्छतस्तु शक्रस्य परुषं पवनो ववौ । | 7.28.28aनिर्गच्छतस्तु शक्रस्य परुषं पवनो ववौ । | 7.28.28aनिर्गच्छतस्तु शक्रस्य परुषं पवनो ववौ। | ||
| 64 | #28bಭಾಸ್ಕರೋ ನಿಷ್ಪ್ರಭಶ್ಚೈವ ಮಹೋಲ್ಕಾಶ್ಚ ಪ್ರಪೇದಿರೇ ॥ | 7.28.28bभास्करो निष्प्रभश्चैव महोल्काश्च प्रपेदिरे ॥ २८ ॥ | 7.28.26bभास्करो निष्प्रभश्चासीन्महोल्काश्च प्रपेदिरे ॥7.28.26॥ | 7.28.28bभास्करो निष्प्रभश्चासीन्महोल्काश्च प्रपेदिरे ॥ २८ ॥ | 7.28.28bभास्करो निष्प्रभश्चासीन्महोल्काश्च प्रपेदिरे ॥ 7.28.28 ॥ | ||
| 65 | #29aಏತಸ್ಮಿನ್ನಂತರೇ ಶೂರೋ ದಶಗ್ರೀವಃ ಪ್ರತಾಪವಾನ್ । | 7.28.29aएतस्मिन्नन्तरे शूरो दशग्रीवः प्रतापवान् । | 7.28.27aएतस्मिन्नन्तरे शूरो दशग्रीवः प्रतापवान् । | 7.28.29aएतस्मिन्नन्तरे वीरो दशग्रीवः प्रतापवान् । | 7.28.29aएतस्मिन्नन्तरे शूरो दशग्रीवः प्रतापवान्। | ||
| 66 | #29bಆರುರೋಹ ರಥಂ ದಿವ್ಯಂ ನಿರ್ಮಿತಂ ವಿಶ್ವಕರ್ಮಣಾ ॥ | 7.28.29bआरुरोह रथं दिव्यं निर्मितं विश्वकर्मणा ॥ २९ ॥ | 7.28.27bआरुरोह रथं दिव्यं निर्मितं विश्वकर्मणा ॥7.28.27॥ | 7.28.29bआरुरोह रथं दिव्यं निर्मित विश्वकर्मणा ॥ २९ ॥ | 7.28.29bआरुरोह रथं दिव्यं निर्मितं विश्वकर्मणा ॥ 7.28.29 ॥ | ||
| 67 | #30aಪನ್ನಗೈಃ ಸುಮಹಾಕಾಯೈರ್ವೇಷ್ಟಿತಂ ಲೋಮಹರ್ಷಣೈಃ । | 7.28.30aपन्नगैः सुमहाकायैर्वेष्टितं लोमहर्षणैः । | 7.28.28aपन्नगैः सुमहाकायैर्वेष्टितं लोमहर्षणैः । | 7.28.30aपन्नगैस्तु महाभोगैर्वेष्टितं रोमहर्षणैः । | 7.28.30aपन्नगैः सुमहाकार्यैर्वेष्टितं रोमहर्षणैः। | ||
| 68 | #30bಯೇಷಾಂ ನಿಃಶ್ವಾಸವಾತೇನ ಪ್ರದೀಪ್ತಮಿವ ಸಂಯುಗೇ ॥ | 7.28.30bयेषां निःश्वासवातेन प्रदीप्तमिव संयुगे ॥ ३० ॥ | 7.28.28bयेषां निश्वासवातेन प्रदीप्तमिव संयुगम् ॥7.28.28॥ | 7.28.30bतेषां निश्वासवातेन प्रदीप्तमिव संयुगे ॥ ३० ॥ | 7.28.30bतेषां निःश्वासवातेन प्रदीप्तमिव संयुगे ॥ 7.28.30 ॥ | ||
| 69 | #31aದೈತ್ಯೈರ್ನಿಶಾಚರೈಶ್ಚೈವ ಸ ರಥಃ ಪರಿವಾರಿತಃ । | 7.28.31aदैत्यैर्निशाचरैश्चैव स रथः परिवारितः । | 7.28.29aदैत्यैर्निशाचरैः शूरै रथः संपरिवारितः । | 7.28.31aदैत्यैर्निशाचरैश्चैव सरथः परिवारितः । | 7.28.31aदैत्यैर्निशाचरैश्चैव स रथः परिवारितः। | ||
| 70 | #31bಸಮರಾಭಿಮುಖೋ ದಿವ್ಯೋ ಮಹೇಂದ್ರಂ ಸೋಽಭ್ಯವರ್ತತ ॥ | 7.28.31bसमराभिमुखो दिव्यो महेन्द्रं सोऽभ्यवर्तत ॥ ३१ ॥ | 7.28.29bसमराभिमुखो दिव्यो महेन्द्रमभिवर्तत ॥7.28.29॥ | 7.28.31bसमराभिमुखो दैत्यो महेन्द्रं सोभ्यवर्तत ॥ ३१ ॥ | 7.28.31bसमराभिमुखो दैत्यो महेन्द्रं सोऽभ्यवर्तत ॥ 7.28.31 ॥ | ||
| 71 | #32aಪುತ್ರಂ ತಂ ವಾರಯಿತ್ವಾ ತು ಸ್ವಯಮೇವ ವ್ಯವಸ್ಥಿತಃ । | 7.28.32aपुत्रं तं वारयित्वा तु स्वयमेव व्यवस्थितः । | 7.28.30aपुत्रं तं वारयित्वासौ स्वयमेव व्यवस्थितः । | 7.28.32aपुत्रं तं वारयित्वा तु स्वयमेव व्यवस्थितः । | 7.28.32aपुत्रं तं वारयित्वा तु स्वयमेव व्यवस्थितः। | ||
| 72 | #32bಸೋಽಪಿ ಯುದ್ಧಾದ್ವಿನಿಷ್ಕ್ರಮ್ಯ ರಾವಣಿಃ ಸಮುಪಾವಿಶತ್ ॥ | 7.28.32bसोऽपि युद्धाद् विनिष्क्रम्य रावणिः समुपाविशत् ॥ ३२ ॥ | 7.28.30bसोऽपि युद्धाद्विनिष्क्रम्य रावणिः समुपाविशत् ॥7.28.30॥ | 7.28.32bसोपि युद्धाद्विनिष्क्रम्य रावणिः समुपाविशत् ॥ ३२ ॥ | 7.28.32bसोऽपि युद्धाद्विनिष्क्रम्य रावणिः समुपाविशत् ॥ 7.28.32 ॥ | ||
| 73 | #33aತತೋ ಯುದ್ಧಂ ಪ್ರವೃತ್ತಂ ತು ಸುರಾಣಾಂ ರಾಕ್ಷಸೈಃ ಸಹ । | 7.28.33aततो युद्धं प्रवृत्तं तु सुराणां राक्षसैः सह । | 7.28.31aततो युद्धं प्रवृत्तं तु सुराणां राक्षसैः सह । | 7.28.33aततो युद्धं प्रवृत्तं तु सुराणां राक्षसैः सह । | 7.28.33aततो युद्धं प्रवृत्तं तु सुराणां राक्षसैः सह। | ||
| 74 | #33bಶಸ್ತ್ರಾಣಿ ವರ್ಷತಾಂ ತೇಷಾಂ ಮೇಘಾನಾಮಿವ ಸಂಯುಗೇ ॥ | 7.28.33bशस्त्राणि वर्षतां तेषां मेघानामिव संयुगे ॥ ३३ ॥ | 7.28.31bशस्त्राभिवर्षणं घोरं मेघानामिव संयुगे ॥7.28.31॥ | 7.28.33bशस्त्राणि वर्षतां घोरं मेघानामिव संयुगे ॥ ३३ ॥ | 7.28.33bशस्त्राणि वर्षतां घोरं मेघानामिव संयुगे ॥ 7.28.33 ॥ | ||
| 75 | #34aಕುಂಭಕರ್ಣಸ್ತು ದುಷ್ಟಾತ್ಮಾ ನಾನಾ ಪ್ರಹರಣೋದ್ಯತಃ । | 7.28.34aकुम्भकर्णस्तु दुष्टात्मा नानाप्रहरणोद्यतः । | 7.28.32aकुम्भकर्णस्तु दुष्टात्मा नानाप्रहरणोद्यतः । | 7.28.34aकुम्भकर्णस्तु दुष्टात्मा नानाप्रहरणोद्यतः । | 7.28.34aकुम्भकर्णस्तु दुष्टात्मा नानाप्रहरणोद्यतः। | ||
| 76 | #34bನಾಜ್ಞಾಯತ ತದಾ ರಾಜನ್ಯುದ್ಧಂ ಕೇನಾಭ್ಯಪದ್ಯತ ॥ | 7.28.34bनाज्ञायत तदा राजन् युद्धं केनाभ्यपद्यत ॥ ३४ ॥ | 7.28.32bनाज्ञायत तदा युद्धे सह केनाप्ययुध्यत ॥7.28.32॥ | 7.28.34bनाज्ञायत तदा युद्धे सह केनाप्ययुध्यत ॥ ३४ ॥ | 7.28.34bनाज्ञायत तदा युद्धे सह केनाप्ययुध्यत ॥ 7.28.34 ॥ | ||
| 77 | 7.28.33aदन्तैर्भुजाभ्यां पद्भ्यां च शक्तितोमरसायकैः । | 7.28.35aदन्तैर्भुजाभ्यां पद्भ्यां च शक्तितोमरसायकैः । | 7.28.35aदन्तैः भुजाभ्यां पद्मां च शक्तितोमरसायकैः। | ||||
| 78 | 7.28.33bयेन केनैव संरब्धस्ताडयामास वै सुरान् ॥7.28.33॥ | 7.28.35bयेन केनैव संरब्धस्ताडयामास वै सुरान् ॥ ३५ ॥ | 7.28.35bयेन केनैव संरब्धस्ताडयामास वै सुरान् ॥ 7.28.35 ॥ | ||||
| 79 | #35aದಂತೈಃ ಪಾದೈರ್ಭುಜೈರ್ಹಸ್ತೈಃ ಶಕ್ತಿತೋಮರ ಮುದ್ಗರೈಃ । | 7.28.35aदन्तैः पादैर्भुजैर्हस्तैः शक्तितोमरमुद्गरैः । | |||||
| 80 | #35bಯೇನ ತೇನೈವ ಸಂಕ್ರುದ್ಧಸ್ತಾಡಯಾಮಾಸ ದೇವತಾಃ ॥ | 7.28.35bयेन तेनैव सङ्क्रुद्धस्ताडयामास देवताः ॥ ३५ ॥ | |||||
| 81 | #36aಸ ತು ರುದ್ರೈರ್ಮಹಾಘೋರೈಃ ಸಂಗಮ್ಯಾಥ ನಿಶಾಚರಃ । | 7.28.36aस तु रुद्रैर्महाघोरैः सङ्गम्याथ निशाचरः । | 7.28.34aततो रुद्रैर्महाभागैः सहादित्यैर्निशाचरः । | 7.28.36aततो रुद्रैर्महाघोरैः संगम्याथ निशाचरः । | 7.28.36aततो रुद्रैर्महाघोरैः सङ्गम्याथ निशाचरः। | ||
| 82 | #36bಪ್ರಯುದ್ಧಸ್ತೈಶ್ಚ ಸಂಗ್ರಾಮೇ ಕ್ಷತಃ ಶಸ್ತ್ರೈರ್ನಿರಂತರಮ್ ॥ | 7.28.36bप्रयुद्धस्तैश्च सङ्ग्रामे क्षतः शस्त्रैर्निरन्तरम् ॥ ३६ ॥ | 7.28.34bप्रयुद्धस्तैश्च संग्रामे कृत्तः शस्त्रैर्निरन्तरम् ॥7.28.34॥ | 7.28.36bप्रयुद्धस्तैश्च संग्रामे क्षतः शस्खैर्निरन्तरम् ॥ ३६ ॥ | 7.28.36bप्रयुद्धस्तैश्च सङ्ग्रामे क्षतः शस्त्रैर्निरन्तरम् ॥ 7.28.36 ॥ | ||
| 83 | #37aಬಭೌ ಶಸ್ತ್ರಾಚಿತತನುಃ ಕುಂಭಕರ್ಣಃ ಕ್ಷರನ್ನಸೃಕ್ । | 7.28.37aबभौ शस्त्राचिततनुः कुम्भकर्णः क्षरन्नसृक् । | 7.28.37aबभौ शस्त्राचिततनुः कुम्भकर्णः क्षरन्नसृक् । | 7.28.37aबभौ शस्त्राचिततनुः कुम्भकर्णः क्षरन्नसृक्। | |||
| 84 | #37bವಿದ್ಯುತ್ಸ್ತ ನಿತನಿರ್ಘೋಷೋ ಧಾರಾವಾನಿವ ತೋಯದಃ ॥ | 7.28.37bविद्युत्स्तनितनिर्घोषो धारावानिव तोयदः ॥ ३७ ॥ | 7.28.37bविद्युत्स्तनितनिर्घोषो धारावानिव तोयदः ॥ ३७ ॥ | 7.28.37bविद्युत्स्तनितनिर्घोषो धारवानिव तोयदः ॥ 7.28.37 ॥ | |||
| 85 | #38aತತಸ್ತದ್ರಾಕ್ಷಸಂ ಸೈನ್ಯಂ ಪ್ರಯುದ್ಧಂ ಸಮರುದ್ಗಣೈಃ । | 7.28.38aततस्तद् राक्षसं सैन्यं प्रयुद्धं समरुद्गणैः । | 7.28.35aततस्तद्राक्षसं सैन्यं त्रिदशैः समरुद्गणैः । | 7.28.38aततस्तद्राक्षसं सैन्यं प्रयुद्धं समरुद्गणैः । | 7.28.38aततस्तद्राक्षसं सैन्यं प्रयुद्धं समरुद्गणैः। | ||
| 86 | #38bರಣೇ ವಿದ್ರಾವಿತಂ ಸರ್ವಂ ನಾನಾ ಪ್ರಹರಣೈಸ್ತದಾ ॥ | 7.28.38bरणे विद्रावितं सर्वं नानाप्रहरणैस्तदा ॥ ३८ ॥ | 7.28.35bरणे विद्रावितं सर्वं नानाप्रहरणैः शितैः ॥7.28.35॥ | 7.28.38bरणे विद्रावितं सर्वं नानाप्रहरणैः शितैः ॥ ३८ ॥ | 7.28.38bरणे विद्रावितं सर्वं नानाप्रहरणैः शितैः ॥ 7.28.38 ॥ | ||
| 87 | #39aಕೇಚಿದ್ವಿನಿಹತಾಃ ಕೃತ್ತಾಶ್ಚೇಷ್ಟಂತಿ ಸ್ಮ ಮಹೀತಲೇ । | 7.28.39aकेचिद् विनिहताः कृत्ताश्चेष्टन्ति स्म महीतले । | 7.28.36aकेचिद्विनिहताः शस्त्रैर्वेष्टन्ति स्म महीतले । | 7.28.39aकेचिद्विनिहताः कृत्ताश्चेष्टन्ति स्म महीतले । | 7.28.39aकेचिद्विनिहताः कृत्ताश्चेष्टन्ति स्म महीतले। | ||
| 88 | #39bವಾಹನೇಷ್ವವಸಕ್ತಾಶ್ಚ ಸ್ಮಿತಾ ಏವಾಪರೇ ರಣೇ ॥ | 7.28.39bवाहनेष्ववसक्ताश्च स्थिता एवापरे रणे ॥ ३९ ॥ | 7.28.36bवाहनेष्ववसक्ताश्च स्थिता एवापरे रणे ॥7.28.36॥ | 7.28.39bवाहनेष्ववसक्ताशश्च स्थिता एवापरे रणे ॥ ३९ ॥ | 7.28.39bवाहनेष्ववसक्ताश्च स्थिता एवापरे रणे ॥ 7.28.39 ॥ | ||
| 89 | #40aರಥಾನ್ನಾಗಾನ್ ಖರಾನುಷ್ಟ್ರಾನ್ ಪನ್ನಗಾಂ ಸ್ತುರಗಾಂ ಸ್ತಥಾ । | 7.28.40aरथान् नागान् खरानुष्ट्रान् पन्नगांस्तुरगांस्तथा । | 7.28.37aरथान्नागान्खरानुष्ट्रान्पन्नगांस्तुरगांस्तथा । | 7.28.40aरथान्नागान्खरानुष्ट्रान्पन्नगांस्तुरमान्रणे । | 7.28.40aरथान्नागान्खरानुष्ट्रान्पन्नगांस्तुरगान् रणे। | ||
| 90 | #40bಶಿಶುಮಾರಾನ್ವರಾಹಾಂಶ್ಚ ಪಿಶಾಚವದನಾನಪಿ ॥ | 7.28.40bशिशुमारान् वराहांश्च पिशाचवदनानपि ॥ ४० ॥ | 7.28.37bशिंशुमारान्वराहांश्च पिशाचवदनांस्तथा ॥7.28.37॥ | 7.28.40bशिंशुमारान्वराहांश्च पिशाचवदनांस्तथा ॥ ४० ॥ | 7.28.40bशिंशुमारान्वराहांश्च पिशाचवदनान्तथा ॥ 7.28.40 ॥ | ||
| 91 | #41aತಾನ್ಸಮಾಲಿಂಗ್ಯಬಾಹುಭ್ಯಾಂ ವಿಷ್ಟಬ್ಧಾಃ ಕೇಚಿದುತ್ಥಿತಾಃ । | 7.28.41aतान् समालिङ्ग्य बाहुभ्यां विष्टब्धाः केचिदुत्थिताः । | 7.28.38aतान्समालिङ्ग्य बाहुभ्यां विष्टब्धाः केचिदुच्छ्रिताः । | 7.28.41aतान्समालिङ्ग्य बाहुभ्यां विष्टब्धाः केचिदुच्छ्रिताः । | 7.28.41aतान्समालिङ्ग्य बाहुभ्यां विष्टब्धाः केचिदुच्छ्रुताः। | ||
| 92 | #41bದೇವೈಸ್ತು ಶಸ್ತ್ರಸಂಭಿನ್ನಾಮಮ್ರಿರೇ ಚ ನಿಶಾಚರಾಃ ॥ | 7.28.41bदेवैस्तु शस्त्रसम्भिन्ना मम्रिरे च निशाचराः ॥ ४१ ॥ | 7.28.38bदेवैस्तु शस्त्रसंविद्धा मम्रिरे च निशाचराः ॥7.28.38॥ | 7.28.41bदेवैस्तु शस्त्रसंभिन्ना मम्रिरे च निशाचराः ॥ ४१ ॥ | 7.28.41bदेवैस्तु शस्त्रसम्भिन्ना मम्रिरे च निशाचराः ॥ 7.28.41 ॥ | ||
| 93 | #42aಚಿತ್ರಕರ್ಮ ಇವಾಭಾತಿ ಸರ್ವೇಷಾಂ ರಣಸಂಪ್ಲವಃ । | 7.28.42aचित्रकर्म इवाभाति सर्वेषां रणसम्प्लवः । | 7.28.39aचित्रकर्म इवाभाति स तेषां रणसंप्लवः । | 7.28.42aचित्रकर्म इवाभाति स तेषां रणसंप्लवः । | 7.28.42aचित्रकर्म इवाभाति स तेषां रणसम्प्लवः। | ||
| 94 | #42bನಿಹತಾನಾಂ ಪ್ರಸುಪ್ತಾನಾಂ ರಾಕ್ಷಸಾನಾಂ ಮಹೀತಲೇ ॥ | 7.28.42bनिहतानां प्रसुप्तानां राक्षसानां महीतले ॥ ४२ ॥ | 7.28.39bनिहतानां प्रमत्तानां राक्षसानां महीतले ॥7.28.39॥ | 7.28.42bनिहतानां प्रमत्तानां राक्षसानां महीतले ॥ ४२ ॥ | 7.28.42bनिहतानां प्रमत्तानां राक्षसानां महीतले ॥ 7.28.42 ॥ | ||
| 95 | #43aಶೋಣಿತೋದಕ ನಿಷ್ಪಂದಾ ಕಾಕಗೃಧ್ರ ಸಮಾಕುಲಾ । | 7.28.43aशोणितोदकनिष्पन्दा काकगृध्रसमाकुला । | 7.28.40aशोणितोदक निष्यन्दाकङ्कगृध्रसमाकुला । | 7.28.43aशोणितोदकनिष्पन्द कङ्कगृध्रसमाकुला । | 7.28.43aशोणितोदकनिष्पन्दकङ्कगृध्रसमाकुला। | ||
| 96 | #43bಪ್ರವೃತ್ತಾ ಸಂಯುಗಮುಖೇ ಶಸ್ತ್ರಗ್ರಾಹವತೀ ನದೀ ॥ | 7.28.43bप्रवृत्ता संयुगमुखे शस्त्रग्राहवती नदी ॥ ४३ ॥ | 7.28.40bप्रवृत्ता संयुगमुखे शस्त्रग्राहवती नदी ॥7.28.40॥ | 7.28.43bप्रवृत्ता संयुगमुखे शस्त्रग्राहवती नदी ॥ ४३ ॥ | 7.28.43bप्रवृत्ता संयुगमुखे शस्त्रग्राहवती नदी ॥ 7.28.43 ॥ | ||
| 97 | #44aಏತಸ್ಮಿನ್ನಂತರೇ ಕ್ರುದ್ಧೋ ದಶಗ್ರೀವಃ ಪ್ರತಾಪವಾನ್ । | 7.28.44aएतस्मिन्नन्तरे क्रुद्धो दशग्रीवः प्रतापवान् । | 7.28.41aएतस्मिन्नन्तरे क्रुद्धो दशग्रीवः प्रतापवान् । | 7.28.44aएतस्मिन्नन्तरे क्रुद्धो दशग्रीवः प्रतापवान् । | 7.28.44aएतस्मिन्नन्तरे क्रुद्धो दशग्रीवः प्रतापवान्। | ||
| 98 | #44bನಿರೀಕ್ಷ್ಯತು ಬಲಂ ಸರ್ವಂ ದೈವತೈರ್ವಿನಿಪಾತಿತಮ್ ॥ | 7.28.44bनिरीक्ष्य तु बलं सर्वं दैवतैर्विनिपातितम् ॥ ४४ ॥ | 7.28.41bनिरीक्ष्य तद्बलं सर्वं दैवतैर्विनिपातितम् ॥7.28.41॥ | 7.28.44bनिरीक्ष्य तद्बलं कृत्स्नं दैवतैर्विनिपातितम् ॥ ४४ ॥ | 7.28.44bनिरीक्ष्य तद्बलं कृत्स्नं दैवतैर्विनिपातितम् ॥ 7.28.44 ॥ | ||
| 99 | #45aಸ ತಂ ಪ್ರತಿವಿಗಾಹ್ಯಾಶು ಪ್ರವೃದ್ಧಂ ಸೈನ್ಯಸಾಗರಮ್ । | 7.28.45aस तं प्रतिविगाह्याशु प्रवृद्धं सैन्यसागरम् । | 7.28.42aस तं प्रतिविगाह्याशु प्रवृद्धं सैन्यसागरम् । | 7.28.45aस तं प्रतिविगाह्याशु प्रवृद्धं सैन्यसागरम् । | 7.28.45aस तं प्रति विगाह्याशु प्रवृद्धं सैन्यसागरम्। | ||
| 100 | #45bತ್ರಿದಶಾನ್ಸಮರೇ ನಿಘ್ನನ್ ಶಕ್ರಮೇವಾಭ್ಯವರ್ತತ ॥ | 7.28.45bत्रिदशान् समरे निघ्नन् शक्रमेवाभ्यवर्तत ॥ ४५ ॥ | 7.28.42bत्रिदशान्समरे निघ्नञ्शक्रमेवाभ्यवर्तत ॥7.28.42॥ | 7.28.45bत्रिदशान्समरे निघ्नञ्शक्रमेवाभ्यवर्तत ॥ ४५ ॥ | 7.28.45bत्रिदशान्समरे निघ्नञ्छक्रमेवाभ्यवर्तत ॥ 7.28.45 ॥ | ||
| 101 | #46aತತಃ ಶಕ್ರೋ ಮಹಚ್ಚಾಪಂ ವಿಸ್ಫಾರ್ಯ ಸುಮಹಾಸ್ವನಮ್ । | 7.28.46aततः शक्रो महच्चापं विस्फार्य सुमहास्वनम् । | 7.28.43aततः शक्रो महच्चापं विस्फार्य सुमहास्वनम् । | 7.28.46aआगाच्छक्रो महच्चापं विस्फार्य सुमहास्वनम् । | 7.28.46aआगाच्छक्रो महच्चापं विस्फार्य सुमहास्वनम्। | ||
| 102 | #46bಯಸ್ಯ ವಿಸ್ಫಾರನಿರ್ಘೋಷೈಃ ಸ್ತನಂತಿ ಸ್ಮ ದಿಶೋ ದಶ ॥ | 7.28.46bयस्य विस्फारनिर्घोषैः स्तनन्ति स्म दिशो दश ॥ ४६ ॥ | 7.28.43bयस्य विस्फारघोषेण स्वनन्ति स्म दिशो दश ॥7.28.43॥ | 7.28.46bयस्य विस्फारघोषेण स्वनन्ति स दिशो दश ॥ ४६ ॥ | 7.28.46bयस्य विस्फारघोषेण स्तनन्ति स्म दिशो दश ॥ 7.28.46 ॥ | ||
| 103 | #47aತದ್ವಿಕೃಷ್ಯ ಮಹಚ್ಚಾಪಿಮಿಂದ್ರೋ ರಾವಣಮೂರ್ಧನಿ । | 7.28.47aतद् विकृष्य महच्चापमिन्द्रो रावणमूर्धनि । | 7.28.44aतद्विकृष्य महच्चापमिन्द्रो रावणमूर्धनि । | 7.28.47aतद्विकृष्य महच्चापमिन्द्रो रावणमूर्धनि । | 7.28.47aतद्विकृष्य महच्चापमिन्द्रो रावणमूर्धनि। | ||
| 104 | #47bಪಾತಯಾಮಾಸ ಸ ಶರಾನ್ ಪಾವಕಾದಿತ್ಯವರ್ಚಸಃ ॥ | 7.28.47bपातयामास स शरान् पावकादित्यवर्चसः ॥ ४७ ॥ | 7.28.44bनिपातयामास शरान्पावकादित्यवर्चसः ॥7.28.44॥ | 7.28.47bनिपातयामास शरान्पावकादित्यवर्चसः ॥ ४७ ॥ | 7.28.47bनिपातयामास शरान्पावकादित्यवर्चसः ॥ 7.28.47 ॥ | ||
| 105 | #48aತಥೈವ ಚ ಮಹಾಬಾಹುರ್ದಶಗ್ರೀವೋ ನಿಶಾಚರಃ । | 7.28.48aतथैव च महाबाहुर्दशग्रीवो निशाचरः । | 7.28.45aतथैव च महाबाहुर्दशग्रीवो व्यवस्थितः । | 7.28.48aतथैव च महाबाहुर्दशग्रीवो व्यवस्थितः । | 7.28.48aतथैव च महाबाहुर्दशग्रीवो व्यवस्थितः। | ||
| 106 | #48bಶಕ್ರಂ ಕಾರ್ಮುಕ ವಿಭ್ರಷ್ಟೈಃ ಶರವರ್ಷೈರವಾಕಿರತ್ ॥ | 7.28.48bशक्रं कार्मुकविभ्रष्टैः शरवर्षैरवाकिरत् ॥ ४८ ॥ | 7.28.45bशक्रं कार्मुकविभ्रष्टैः शरवर्षैरवाकिरत् ॥7.28.45॥ | 7.28.48bशक्रं कार्मुकविभ्रष्टैः शरवर्षैरवाकिरत् ॥ ४८ ॥ | 7.28.48bशक्रं कार्मुकविभ्रष्टैः शरवर्षैरवाकिरत् ॥ 7.28.48 ॥ | ||
| 107 | #49aಪ್ರಯುಧ್ಯತೋರಥ ತಯೋರ್ಬಾಣವರ್ಷೈಃ ಸಮಂತತಃ । | 7.28.49aप्रयुध्यतोरथ तयोर्बाणवर्षैः समन्ततः । | 7.28.46aप्रयुध्यतोरथ तयोर्बाणवर्षैः समन्ततः । | 7.28.49aप्रयुध्यतोरथ तयोर्बाणवर्षैः समन्ततः । | 7.28.49aप्रयुध्यतोरथ तयोर्बाणवर्षैः समन्ततः। | ||
| 108 | #49bನಾಜ್ಞಾಯತ ತದಾ ಕಿಂಚಿತ್ಸರ್ವಂ ಹಿ ತಮಸಾ ವೃತಮ್ ॥ | 7.28.49bनाज्ञायत तदा किञ्चित् सर्वं हि तमसा वृतम् ॥ ४९ ॥ | 7.28.46bनाज्ञायत तदा किंचित्सर्वं हि तमसा वृतम् ॥7.28.46॥ | 7.28.49bन ज्ञायते तदा किंचित्सर्वं हि तमसा वृतम् ॥ ४९ ॥ | 7.28.49bन ज्ञायते तदा किञ्चित्सर्वं हि तमसा वृतम् ॥ 7.28.49 ॥ | ||
| 109 | 7.28.28इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने अष्टाविंशः सर्गः ॥ २८ ॥ |