Ramayana Half-Verse Concordance 7.22p.2

०२. Built from structured/verses.jsonl. Rows are monotone-aligned half-verse/pāda-like units split at । and ॥, so verse-number boundary differences can appear as inserted or shifted line rows.

31 aligned line rows across 7 source streams.

Columns:
gr 31 lines
#gor-kngor-hicritgrdr-mulagr-iitkiitk
17.22p.2.2प्रक्षिप्तेषु द्वितीयः सर्गः ॥ २ ॥
27.22p.2.1aअथ संचिन्त्य पौलस्त्यः सूर्यलोकं जगाम ह ।
37.22p.2.1bमेरुशृङ्गे वरे रम्ये उषित्वा तत्र शर्वरीम् ॥ १ ॥
47.22p.2.2aपुष्पकं तत्समारुह्य रवेस्तुरगसन्निभम् ।
57.22p.2.2bमनोवातगतिं दिव्यं विहारवियति स्थितम् ।
67.22p.2.2cतत्रापश्यद्रविं देवं सर्वतेजोमयं शुभम् ॥ २ ॥
77.22p.2.3aवरकाञ्चन केयूररक्ताम्बरविभूषितम् ।
87.22p.2.3bकुण्डलाभ्यां शुभाभ्यां तु भ्राजन्मुखविकासितम् ॥ ३ ॥
97.22p.2.4aकेयूरनिष्काभरणं रक्तमालावलम्बिनम् ।
107.22p.2.4bरक्तचन्दनदिग्धाङ्गं सहस्रकिरणोज्ज्वलम् ॥ ४ ॥
117.22p.2.5aतमादिदेवमादित्यं विभुं सप्ताश्ववाहनम् ।
127.22p.2.5bअनाद्यन्तममध्यं च लोकसाक्षिणमीश्वरम् ॥ ५ ॥
137.22p.2.6aतं दृष्ट्वा प्रवरं देवं रावणो राक्षसाधिपः ।
147.22p.2.6bस प्रहस्तमुवाचाथ रवितेजोबलार्दितम् ॥ ६ ॥
157.22p.2.7aगच्छामात्य वद ह्येनं संदेशान्मम शासनम् ।
167.22p.2.7bमार्तण्ड भास्करं श्रेष्ठं तत्त्वत्तो ब्रूहि माचिरम् ॥ ७ ॥
177.22p.2.8aयुद्धार्थी रावणः प्राप्तो युद्धं तस्य प्रदीयताम् ।
187.22p.2.8bनिर्जितोस्मीति वा ब्रूहि पक्षमेकतरं कुरु ॥ ८ ॥
197.22p.2.9aतस्य तद्वचनाद्रक्षः सूर्यस्यान्तिकमागमत् ।
207.22p.2.9bपिङ्गलं दण्डिनं चैव सोपश्यद्वारपालकौ ॥ ९ ॥
217.22p.2.10aआभ्यामाख्याय तत्सर्वं रावणस्य विनिश्चयम् ।
227.22p.2.10bतूष्णीमास्ते प्रहस्तः स सूर्यतेजःप्रतापितः ॥ १० ॥
237.22p.2.11दण्डी गत्वा रवेः पार्श्वं प्रणम्याख्यातवान्विभुम् ॥ ११ ॥
247.22p.2.12aश्रुत्वा तु सूर्यस्तद्वृत्तं दण्डिनो रावणस्य ह ।
257.22p.2.12bउवाच वचनं श्रीमान्बुद्धिपूर्वं दिवाकरः ॥ १२ ॥
267.22p.2.13aगच्छ दण्डिञ्जयस्वैनं निर्जितोस्मीति वा वद ।
277.22p.2.13bकुरु यत्ते कङ्क्षितं तं नाहं कालक्षिपां सहे ॥ १३ ॥
287.22p.2.14aस गत्वा वचनात्तस्य राक्षसाय महात्मनः ।
297.22p.2.14bकथयामास तत्सर्वं सूर्योक्तं वचनं यथा ॥ १४ ॥
307.22p.2.15aस श्रुत्वा वचनं तस्य दण्डिनो वै महात्मनः ।
317.22p.2.15bघोषयित्वा जगामाथ विजयं राक्षसेश्वरः ॥ १५ ॥