Ramayana Half-Verse Concordance 7.22p.1

०१. Built from structured/verses.jsonl. Rows are monotone-aligned half-verse/pāda-like units split at । and ॥, so verse-number boundary differences can appear as inserted or shifted line rows.

184 aligned line rows across 7 source streams.

Columns:
gr 184 lines
#gor-kngor-hicritgrdr-mulagr-iitkiitk
17.22p.1.1प्रक्षिप्तेषु प्रथमः सर्गः ॥ १ ॥
27.22p.1.1aहर्षान्नादांस्तु विसृजन्निष्क्रान्तो वरुणालयात् ।
37.22p.1.1bमहोदरेण संयुक्तो हर्षगद्गदभाषिणा ॥ १ ॥
47.22p.1.2aततोश्मनगरं भूयो विचेरुर्युद्धदुर्मदाः ।
57.22p.1.2bयत्रापश्यद्दशग्रीवो गृहं परमभास्वरम् ।
67.22p.1.2cवैडूर्य तोरणाकीर्णं मुक्ताजालविभूषितम् ॥ २ ॥
77.22p.1.3aसुवर्णस्तम्भगहनं वेदिकाभिः समन्ततः ।
87.22p.1.3bवज्रस्फटिकसोपानं किङ्किणीजालसंयुतम् ॥ ३ ॥
97.22p.1.4aबह्वासनयुतं रम्यं महेन्द्रभवनोपमम् ।
107.22p.1.4bदृष्ट्वा गृहवरं रम्यं दशग्रीवः प्रतापवान् ॥ ४ ॥
117.22p.1.5aकस्येदं भवनं सौम्यं मेरुमन्दरसन्निभम् ।
127.22p.1.5bगच्छ ग्रहस्त शीघ्रं त्वं जानीष्व भवनोत्तमम् ॥ ५ ॥
137.22p.1.6एवमुक्तः प्रहस्तस्तु प्रविवेश गृहोत्तमम् ॥ ६ ॥
147.22p.1.7aस शून्यं प्रेक्ष्य तद्वारं पुनः कक्ष्यान्तरं ययौ ।
157.22p.1.7bसप्तकक्ष्यान्तरं गत्वा ततो ज्वालामपश्यत ॥ ७ ॥
167.22p.1.8aततो दृष्टः पुमांस्तत्र हृष्टो हासं मुमोच सः ।
177.22p.1.8bस तु श्रुत्वा महाहासमृर्ध्वरोमाऽभवत्तदा ॥ ८ ॥
187.22p.1.9aज्वालामध्ये स्थितस्तत्र हेममाली विमोहितः ।
197.22p.1.9bआदित्य इव दुष्प्रेक्ष्यः साक्षाद्यम इव स्थितः ॥ ९ ॥
207.22p.1.10aतथा दृष्ट्वा तु वृत्तान्तं स्वरमाणो विनिर्गतः ।
217.22p.1.10bविनिर्गम्याब्रवीत्सर्वं रावणाय निशाचरः ॥ १० ॥
227.22p.1.11aअथ राम दशग्रीवः पुष्पकादवरुह्य सः ।
237.22p.1.11bप्रवेष्टुमिच्छन्वेश्माथ भिन्नाञ्जनचयोपमः ॥ ११ ॥
247.22p.1.12aचन्द्रमौलिर्व पुष्मांच पुरुषोऽस्याग्रतः स्थितः ।
257.22p.1.12bद्वारमावृत्य सहसा ज्वालासक्तो भयानकः ॥ १२ ॥
267.22p.1.13aरक्ताक्षः श्वेतवदनो बिम्बोष्ठश्चोर्ध्वरोमवान् ।
277.22p.1.13bमहाभीषणनासश्च कम्बुग्रीवो महाहनुः ॥ १३ ॥
287.22p.1.14aगूढश्मश्रुर्निगूढास्थि दंष्ट्राभा रोमहर्षणः ।
297.22p.1.14bएतादृशं वै पुरुषं ददर्श स तु रावणः ।
307.22p.1.14cगृहीत्वा लोहमुसलं द्वारं विष्टभ्य सुस्थितम् ॥ १४ ॥
317.22p.1.15aअथ संदर्शनात्तस्य ऊर्ध्वरोमा बभूव सः ।
327.22p.1.15bअस्पन्दतास्य हृदयं वेपथुश्चाप्यजायत ॥ १५ ॥
337.22p.1.16aनिमित्तान्यमनोज्ञानि दृष्ट्वा राम व्यचिन्तयत् ।
347.22p.1.16bअथ चिन्तयतस्तस्य स एव पुरुषोऽब्रवीत् ॥ १६ ॥
357.22p.1.17aकिं त्वं चिन्तयसे रक्षो ब्रूहि विस्रन्धमानसः ।
367.22p.1.17bयुद्धातिथ्यमहं वीर करिष्ये रजनीचर ॥ १७ ॥
377.22p.1.18aएवमुक्त्वा स तद्रक्षः पुनर्वचनमब्रवीत् ।
387.22p.1.18bयोत्स्यसे बलिना सार्धं मया वा तद्विधीयताम् ॥ १८ ॥
397.22p.1.19aरावणोऽभिहितो भूय ऊर्ध्वरोमा व्यजायत ।
407.22p.1.19bअथ धैर्य समालम्ब्य रावणो वाक्यमब्रवीत् ॥ १९ ॥
417.22p.1.20aगृहेऽत्र तिष्ठते को वा तं ब्रूहि वदतांवर ।
427.22p.1.20bतेनैव सार्धं योत्स्यामि यथा वा मन्यते भवान् ॥ २० ॥
437.22p.1.21स एनं पुनरप्याह दानवेन्द्रोत्र तिष्ठति ॥ २१ ॥
447.22p.1.22aएष वै परमोदारः शूरः सत्यपराक्रमः ।
457.22p.1.22bवीरो बहुगुणोपेतः पाशहस्त इवान्तकः ॥ २२ ॥
467.22p.1.23aबालार्क इव तेजस्वी समरेष्वनिवर्तकः ।
477.22p.1.23bअमर्षी दुर्जयो जेता बलिर्हि गुणसागरः ॥ २३ ॥
487.22p.1.24aप्रियंवदः संविभागी गुरुविप्रप्रियः सदा ।
497.22p.1.24bकालकाङ्क्षी महासत्वः सत्यवाक्सौम्यदर्शनः ॥ २४ ॥
507.22p.1.25aस च सर्वगुणोपेतः शूरः स्वाध्यायतत्परः ।
517.22p.1.25bएष गर्जति वात्येष ज्वलते तपते सदा ॥ २५ ॥
527.22p.1.26aदेवैश्च भूतसंघैश्च पन्नगैश्च महर्षिभिः ।
537.22p.1.26bभयं यो नाभिजानाति तेन किं योद्धुमिच्छसि ॥ २६ ॥
547.22p.1.27aबलिना यदि ते योद्धुं रोचते राक्षसेश्वर ।
557.22p.1.27bप्रविश त्वं महासत्वं संग्रामं कुरु मा चिरम् ॥ २७ ॥
567.22p.1.28aएवमुक्तो दशग्रीवः प्रविवेश यतो बलिः ।
577.22p.1.28bस विलोक्याथ लङ्केशमट्टहासं जहास च ॥ २८ ॥
587.22p.1.29aआदित्य इव दुष्प्रेक्ष्यः स्थितो दानवसत्तमः ।
597.22p.1.29bअथ संदर्शनादेव बलिर्वै विश्वरूपवान् ॥ २९ ॥
607.22p.1.30aस गृहीत्वा च तद्रक्षो ह्युत्सङ्गे स्थाप्य चाब्रवीत् ।
617.22p.1.30bदशग्रीव महाबाहो कं ते कामं करोम्यहम् ।
627.22p.1.30cकिमागमनकृत्यं ते ब्रूहि त्वं राक्षसेश्वर ॥ ३० ॥
637.22p.1.31aएवमुक्तस्तु बलिना रावणो वाक्यमब्रवीत् ।
647.22p.1.31bश्रुतं मया महाभाग वद्धस्त्वं विष्णुना पुरा ॥ ३१ ॥
657.22p.1.32aसोहं मोचयितुं शक्तो बन्धनात्वां न संशयः ।
667.22p.1.32bएवमुक्ते ततो हासं बलिः कृत्वेदमब्रवीत् ॥ ३२ ॥
677.22p.1.33aश्रूयतामभिधास्यामि यं त्वं पृच्छसि रावण ।
687.22p.1.33bय एष पुरुषः श्यामो द्वारि तिष्ठति नित्यदा ॥ ३३ ॥
697.22p.1.34aएतेन दानवेन्द्राश्च तथाऽन्ये बलवत्तराः ।
707.22p.1.34bवशं नीता बलवता पूर्वं पूर्वतराश्च ये ॥ ३४ ॥
717.22p.1.35aबद्धश्चाहमनेनैवं कृतान्तो दुरतिक्रमः ।
727.22p.1.35bक एनं पुरुषो लोके वञ्चयिष्यति रावण ॥ ३५ ॥
737.22p.1.36aसर्वभूतापहर्ता वै य एष द्वारि तिष्ठति ।
747.22p.1.36bकर्ता कारयिता चैव धाता च भुवनेश्वरः ॥ ३६ ॥
757.22p.1.37aन त्वं वेद न चाहं वै भूतभव्यभवत्प्रभुम् ।
767.22p.1.37bकलिश्चैव हि कालश्च सर्वभूतापहारकः ॥ ३७ ॥
777.22p.1.38aलोकत्रयस्य सर्वस्य हर्ता स्रष्टा तथैव च ।
787.22p.1.38bसंहरत्येष भूतानि स्थावराणि चराणि च ॥ ३८ ॥
797.22p.1.39aपुनश्च सृजते सर्वमनाद्यन्तो महेश्वरः ।
807.22p.1.39bकरणं कारणं कर्ता सोयं पुरुषसत्तमः ॥ ३९ ॥
817.22p.1.40aइष्टं चैव हि दत्तं च हुतं चैव निशाचर ।
827.22p.1.40bसर्वमेव हि लोकेशो धाता गोप्ता न संशयः ॥ ४० ॥
837.22p.1.41नैवंविधं महद्भुतं विद्यते भुवनत्रये ॥ ४१ ॥
847.22p.1.42aअहं त्वं चैव पौलस्त्य ये चान्ये पूर्ववत्तराः ।
857.22p.1.42bनेता तेषां महात्मैष पशुं रशनया यथा ॥ ४२ ॥
867.22p.1.43aवृत्रो दनुः शुकः शुम्भो निशुम्भो दम्भुरेव च ।
877.22p.1.43bकालनेमिश्च प्रह्लादस्तथा वैरोचनो बलिः ॥ ४३ ॥
887.22p.1.44aकालकेयास्तारकाख्यो मुचुकुन्दो विवर्धनः ।
897.22p.1.44bहिरण्याक्षो मधुश्चैव कैटभो धूमशम्बरौ ॥ ४४ ॥
907.22p.1.45aयमलार्जुनौ च कंसश्च कैटभो मधुना सह ।
917.22p.1.45bएते तपन्ति द्योतन्ति वान्ति वर्षन्ति चैव हि ॥ ४५ ॥
927.22p.1.46aसर्वैः क्रतुशतैरिष्टं सर्वैस्तप्तं महत्तपः ।
937.22p.1.46bसर्वे ते सुमहात्मानः सर्वे वै योगधर्मिणः ॥ ४६ ॥
947.22p.1.47aसर्वैरैश्वर्यमासाद्य भुक्तभोगैर्महत्तरैः ।
957.22p.1.47bदत्तमिष्टमधीतं च प्रजाश्च परिपालिताः ॥ ४७ ॥
967.22p.1.48aस्वपक्षेष्वनुगोप्तारः प्रहर्तारः परेष्वपि ।
977.22p.1.48bसमरेष्वपि लोकेषु नैतेषां विद्यते समः ॥ ४८ ॥
987.22p.1.49aशूरास्त्वभिजनोपेताः सर्वशस्त्रास्त्रपारगाः ।
997.22p.1.49bसर्वविद्याप्रवेत्तारः संग्रामेष्वनिवर्तकाः ॥ ४९ ॥
1007.22p.1.50aसर्वैस्त्रिदशराज्यानि काङ्क्षितानि महात्मभिः ।
1017.22p.1.50bयुद्धे सुरगणाः सर्वे निर्जिताश्च सहस्रशः ॥ ५० ॥
1027.22p.1.51aदेवानामपि ये शक्ताः स्वपक्षपरिपालकाः ।
1037.22p.1.51bप्रमत्ता भोगरक्ताश्च बालार्कसमतेजसः ॥ ५१ ॥
1047.22p.1.52aयत्स देवान्प्रधर्षेत तदेषो विष्णुरीश्वरः ।
1057.22p.1.52bउपायपूर्वकं नाशं संवेत्ता भगवान्हरिः ॥ ५२ ॥
1067.22p.1.53aप्रादुर्भावं विकुरुते येनैतन्निधनं नयेत् ।
1077.22p.1.53bपुनरेवात्मनात्मानमधिष्ठाय स तिष्ठति ॥ ५३ ॥
1087.22p.1.54aएवमेतेन देवेन दानवेन्द्रा महात्मना ।
1097.22p.1.54bते हि सर्वे क्षयं नीता बलिना कामरूपिणा ॥ ५४ ॥
1107.22p.1.55aसमरे च दुराधर्षा नृपास्ते च पराजिताः ।
1117.22p.1.55bतेन नीताः क्षयं सर्वे कृतान्तबलचोदिताः ॥ ५५ ॥
1127.22p.1.56aएवमुक्त्वाऽथ प्रोवाच राक्षसं दानवेश्वरः ।
1137.22p.1.56bयदेतदृश्यते वीर चक्रं दीप्तानलोपमम् ॥ ५६ ॥
1147.22p.1.57aएतद्गृहीत्वाऽऽगच्छ त्वं मम पार्श्वं महाबल ।
1157.22p.1.57bततोऽहं तव चाख्यास्ये मुक्तिकारणमव्ययम् ॥ ५७ ॥
1167.22p.1.58aतत्कुरुष्व महाबाहो मा विलम्बस्व रावण ।
1177.22p.1.58bएतच्छ्रुत्वा गतो रक्षः प्रहसंश्च महाबलः ॥ ५८ ॥
1187.22p.1.59aयत्र स्थितं महद्दिव्यं कुण्डलं रघुनन्दन ।
1197.22p.1.59bलीलयोत्पाटनं चक्रे रावणो बलदर्पितः ॥ ५९ ॥
1207.22p.1.60aन च चालयितुं शक्तो रावणोऽभूत्कथंचन ।
1217.22p.1.60bलज्जया स पुनर्भूयो यत्नंप चक्रे महाबलः ॥ ६० ॥
1227.22p.1.61aउत्क्षिप्तमात्रे दिव्ये च पपात भुवि राक्षसः ।
1237.22p.1.61bछिन्नमूलो यथा शाखी रुधिरौघपरिप्लुतः ॥ ६१ ॥
1247.22p.1.62aएतस्मिन्नन्तरे जज्ञे शब्दः पुष्करसंभवः ।
1257.22p.1.62bराक्षसेन्द्रस्य सचिवैर्मुक्तो हाहाकृतो महान् ॥ ६२ ॥
1267.22p.1.63aततो रक्षो मुहूर्तेन चेतनां लभ्य चोत्थितम् ।
1277.22p.1.63bलज्जयावनतीभूतं बलिर्वाक्यमुवाच ह ॥ ६३ ॥
1287.22p.1.64aआगच्छ राक्षसश्रेष्ठ वाक्यं शृणु मयोदितम् ।
1297.22p.1.64bयत्त्वया चौद्धृतं वीर कुण्डलं मणिभूषितम् ॥ ६४ ॥
1307.22p.1.65aएतद्धि पूर्वजस्यासीत्कर्णाभरणमीक्ष्यताम् ।
1317.22p.1.65bएतत्पतितमत्रैवमन्यद्भूयो महाबल ॥ ६५ ॥
1327.22p.1.66aअन्यत्पर्वतसानौ हि पतितं कुण्डलादनु ।
1337.22p.1.66bसुकुटं वेदिसामीप्ये पतितं युध्यतो भुवि ॥ ६६ ॥
1347.22p.1.67aहिरण्यकशिपोः पूर्वं मम पूर्वपितामहात् ।
1357.22p.1.67bन तस्य कालो मृत्युर्वा न व्याधिर्न विहिंसकाः ॥ ६७ ॥
1367.22p.1.68aन दिवा मरणं तस्य न रात्रौ सन्ध्ययोरपि ।
1377.22p.1.68bन शुष्केण न चार्द्रेण न च शस्त्रेण केनचित् ।
1387.22p.1.68cविद्यते राक्षसश्रेष्ठ तस्य नास्त्रेण केनचित ॥ ६८ ॥
1397.22p.1.69aप्रह्लादेन समं चक्रे वादं परमदारुणम् ।
1407.22p.1.69bतस्य वादे समुत्पन्ने धीरो लोकभयंकरः ॥ ६९ ॥
1417.22p.1.70aसर्वदृश्यस्य वीरस्य प्रह्लादस्य महात्मनः ।
1427.22p.1.70bउत्पन्नो राक्षसश्रेष्ठ नृसिंहाकृतिरूपधृत् ॥ ७० ॥
1437.22p.1.71दृष्टं च तेन रौद्रेण क्षुब्धं सर्वमशेषतः ॥ ७१ ॥
1447.22p.1.72aतत उद्धृत्य बाहुभ्यां नखैर्निन्ये यमक्षयम् ।
1457.22p.1.72bएष तिष्ठति द्वाः स्थो वै वासुदेवो निरञ्जनः ॥ ७२ ॥
1467.22p.1.73aतस्य देवादिदेवस्य तत्वत्तो मे शृणुष्व ह ।
1477.22p.1.73bवाक्यं परमभावेन यदि ते वर्तते हृदि ॥ ७३ ॥
1487.22p.1.74aइन्द्राणां च सहस्राणि सुराणामयुतानि च ।
1497.22p.1.74bऋषीणां सप्तसंख्यानां शतान्यब्दसहस्रशः ।
1507.22p.1.74cवशं नीतानि सर्वाणि य एष द्वारि तिष्ठति ॥ ७४ ॥
1517.22p.1.75aतस्य तद्वचनं श्रुत्वा रावणो वाक्यमब्रवीत् ।
1527.22p.1.75bमया प्रेतेश्वरो दृष्टः कृतान्तः सह मृत्युना ॥ ७५ ॥
1537.22p.1.76aपाशहस्तो महाज्वाल ऊर्ध्वरोमा भयानकः ।
1547.22p.1.76bविद्युज्जिह्वश्च दंष्ट्रालः सर्पवृश्चिकरोमवान् ॥ ७६ ॥
1557.22p.1.77aरक्ताक्षो भीमवेगश्च सर्वसस्वभयंकरः ।
1567.22p.1.77bआदित्य इव दुष्प्रेक्ष्यः समरेष्वनिवर्तकः ॥ ७७ ॥
1577.22p.1.78aपापानां शमिता चैव स मया युधि निर्जितः ।
1587.22p.1.78bन च मे तत्र भीः काचिद्व्यथा वा दानवेश्वर ॥ ७८ ॥
1597.22p.1.79एनं तु नाभिजानामि तद्भवान्वक्तुमर्हति ॥ ७९ ॥
1607.22p.1.80aरावणस्य वचः श्रुत्वा बलिर्वैरोचनोऽब्रवीत् ।
1617.22p.1.80bएष त्रैलोक्यधाता च हरिर्नारायणः प्रभुः ॥ ८० ॥
1627.22p.1.81aअनन्तः कपिलो विष्णुर्नारसिंहो महाद्युतिः ।
1637.22p.1.81bऋतधामा सुधामा च पाशहस्तो भयानकः ।
1647.22p.1.81cद्वादशादित्यसदृशः पुराणपुरुषोत्तमः ॥ ८१ ॥
1657.22p.1.82aनीलजीमूतसंकाशः सुरनाथः सुरोत्तमः ।
1667.22p.1.82bज्वालामाली महाबाहुर्योगी भक्तजनप्रियः ॥ ८२ ॥
1677.22p.1.83aएवं धारयते लोकानेष वै सृजते प्रभुः ।
1687.22p.1.83bएष संहरते चैव कालो भूत्वा महाबलः ॥ ८३ ॥
1697.22p.1.84aएष यज्ञश्च याज्यश्च चक्रायुधधरो हरिः ।
1707.22p.1.84bसर्वदेवमयश्चैव सर्वभूतमयस्तथा ॥ ८४ ॥
1717.22p.1.85aसर्वलोकमयश्चैव सर्वज्ञानमयस्तथा ।
1727.22p.1.85bसर्वरूपी महारूपी बलदेवो महाभुजः ॥ ८५ ॥
1737.22p.1.86aवीरहा वीरचक्षुष्मांस्त्रैलोक्यगुरुरव्ययः ।
1747.22p.1.86bएवं मुनिगणाः सर्वे कथयन्तीह मोक्षिणः ॥ ८६ ॥
1757.22p.1.87aय एनं वेत्ति पुरुषं न च पापैर्विलिप्यते ।
1767.22p.1.87bस्मृत्वा स्तुत्वा तथेष्ट्वा च सर्वमस्मादवाप्यते ॥ ८७ ॥
1777.22p.1.88aएतच्छ्रुत्वा च वचनं रावणो निर्ययौ तदा ।
1787.22p.1.88bक्रोधसंरक्तनयन उद्यतास्त्रो महाबलः ॥ ८८ ॥
1797.22p.1.89aतथाभूतं च तं दृष्ट्वा हरिर्मुसलधृत्प्रभुः ।
1807.22p.1.89bनैनं हन्म्यधुना पापं चिन्तयित्वेति विश्वधृत् ।
1817.22p.1.89cअन्तर्धानं गतो राम ब्रह्मणः प्रियकाम्यया ॥ ८९ ॥
1827.22p.1.10न च तं पुरुपं तत्र ददर्श रजनीचरः ॥ १० ॥
1837.22p.1.91a[ हर्षान्नादं विमुञ्चन्वै निष्क्रामन्यरुणालयात् ।
1847.22p.1.91bयेनैव संप्रविष्टः स पथा तेनैव निर्ययौ ] ॥ ९१ ॥