यम-पराजयः. Built from structured/verses.jsonl. Rows are monotone-aligned half-verse/pāda-like units split at । and ॥, so verse-number boundary differences can appear as inserted or shifted line rows.
129 aligned line rows across 7 source streams.
gor-kn 102 lines
gor-hi 102 lines
crit 86 lines
gr 109 lines
dr-mula 99 lines
| # | gor-kn | gor-hi | crit | gr | dr-mula | gr-iitk | iitk |
|---|---|---|---|---|---|---|---|
| 1 | #1aಸ ತಸ್ಯ ತು ಮಹಾನಾದಂ ಶ್ರುತ್ವಾ ವೈವಸ್ವತಃ ಪ್ರಭುಃ । | 7.22.1aस तस्य तु महानादं श्रुत्वा वैवस्वतः प्रभुः । | 7.22.1aस तु तस्य महानादं श्रुत्वा वैवस्वतो यमः । | 7.22.1aस तस्य तु महानादं श्रुत्वा वैवस्वतः प्रभुः । | 7.22.1aस तस्य तु महानादं श्रुत्वा वैवस्वतः प्रभुः। | ||
| 2 | #1bಶತ್ರುಂ ವಿಜಯಿನಂ ಮೇನೇ ಸ್ವಬಲಸ್ಯ ಚ ಸಂಕ್ಷಯಮ್ ॥ | 7.22.1bशत्रुं विजयिनं मेने स्वबलस्य च सङ्क्षयम् ॥ १ ॥ | 7.22.1bशत्रुं विजयिनं मेने स्वबलस्य च संक्षयम् ॥7.22.1॥ | 7.22.1bशत्रुं विजयिनं मेने स्वबलस्य च संक्षयम् ॥ १ ॥ | 7.22.1bशत्रुं विजयिनं मेने स्वबलस्य च सङ्क्षयम् ॥ 7.22.1 ॥ | ||
| 3 | #2aಸ ಹಿ ಯೋಧಾನ್ಹತಾನ್ಮತ್ವಾ ಕ್ರೋಧ ಸಂರಕ್ತಲೋಚನಃ । | 7.22.2aस हि योधान् हतान् मत्वा क्रोधसंरक्तलोचनः । | 7.22.2aस तु योधान्हतान्मत्वा क्रोधपर्याकुलेक्षणः । | 7.22.2aस हि योधान्हतान्मत्वा क्रोधसंरक्तलोचनः । | 7.22.2aस हि योधान्हतान्मत्वा क्रोधसंरक्तलोचनः। | ||
| 4 | #2bಅಬ್ರವೀತ್ತ್ವರಿತಃ ಸೂತಂ ರಥೋ ಮೇ ಉಪನೀಯತಾಮ್ ॥ | 7.22.2bअब्रवीत् त्वरितः सूतं रथो मे उपनीयताम् ॥ २ ॥ | 7.22.2bअब्रवीत्त्वरितं सूतं रथः समुपनीयताम् ॥7.22.2॥ | 7.22.2bअब्रवीत्वरितं सूतं रथोऽयमुपनीयताम् ॥ २ ॥ | 7.22.2bअब्रवीत्त्वरितं सूतं रथोऽयमुपनीयताम् ॥ 7.22.2 ॥ | ||
| 5 | #3aತಸ್ಯ ಸೂತಸ್ತದಾ ದಿವ್ಯಮುಪಸ್ಥಾಪ್ಯ ಮಹಾರಥಮ್ । | 7.22.3aतस्य सूतस्तदा दिव्यमुपस्थाप्य महारथम् । | 7.22.3aतस्य सूतो रथं दिव्यमुपस्थाप्य महास्वनम् । | 7.22.3aतस्य सूतस्तदा दिव्यमुपस्थाप्य महारथम् । | |||
| 6 | #3bಸ್ಥಿತಃ ಸ ಚ ಮಹಾತೇಜಾ ಅಧ್ಯಾರೋಹತ ತಂ ರಥಮ್ ॥ | 7.22.3bस्थितः स च महातेजा अध्यारोहत तं रथम् ॥ ३ ॥ | 7.22.3bस्थितः स च महातेजा आरुरोह महारथम् ॥7.22.3॥ | 7.22.3bस्थितः स च महातेजा ह्यध्यारोहत तं रथम् । | 7.22.3aस्थितः स च महातेजा ह्यध्यारोहत तं रथम्। | ||
| 7 | #4aಪ್ರಾಸಮುದ್ಗರಹಸ್ತಶ್ಚ ಮೃತ್ಯುಸ್ತಸ್ಯಾಗ್ರತಃ ಸ್ಥಿತಃ । | 7.22.4aप्रासमुद्गरहस्तश्च मृत्युस्तस्याग्रतः स्थितः । | 7.22.4aपाशमुद्गरहस्तश्च मृत्युस्तस्याग्रतो स्थितः । | 7.22.3cपाशमुद्गरहस्तश्च मृत्युस्तस्याग्रतः स्थितः ॥ ३ ॥ | 7.22.3bप्राशमुद्गरहस्तश्च मृत्युस्तस्याग्रतः स्थितः ॥ 7.22.3 ॥ | ||
| 8 | #4bಯೇನ ಸಂಕ್ಷಿಪ್ಯತೇ ಸರ್ವಂ ತ್ರೈಲೋಕ್ಯಮಿದಮವ್ಯಯಮ್ ॥ | 7.22.4bयेन सङ्क्षिप्यते सर्वं त्रैलोक्यमिदमव्ययम् ॥ ४ ॥ | 7.22.4bयेन संक्षिप्यते सर्वं त्रैलोक्यं सचराचरम् ॥7.22.4॥ | 7.22.4aयेन संक्षिप्यते सर्वं त्रैलोक्यमिदमव्ययम् । | |||
| 9 | #5aಕಾಲದಂಡಸ್ತು ಪಾರ್ಶ್ವಸ್ಥೋ ಮೂರ್ತಿಮಾನಸ್ಯ ಚಾಭವತ್ । | 7.22.5aकालदण्डस्तु पार्श्वस्थो मूर्तिमानस्य चाभवत् । | 7.22.5aकालदण्डश्च पार्श्वस्थो मूर्तिमान्स्यन्दने स्थितः । | 7.22.4bकालदण्डस्तु पार्श्वस्थो मूर्तिमानस्य चाभवत् । | 7.22.4aकालदण्डस्तु पार्श्वस्थो मूर्तिमानस्य चाभवत्। | ||
| 10 | #5bಯಮಪ್ರಹರಣಂ ದಿವ್ಯಂ ತೇಜಸಾ ಜ್ವಲದಗ್ನಿವತ್ ॥ | 7.22.5bयमप्रहरणं दिव्यं तेजसा ज्वलदग्निवत् ॥ ५ ॥ | 7.22.5bयमप्रहरणं दिव्यं प्रज्वलन्निव तेजसा ॥7.22.5॥ | 7.22.4cयमप्रहरणं दिव्यं तेजसा ज्वलदग्निमत् ॥ ४ ॥ | 7.22.4bयमप्रहरणं दिव्यं तेजसा ज्वलदग्निमत् ॥ 7.22.4 ॥ | ||
| 11 | 7.22.6aततो लोकास्त्रयस्त्रस्ताः कम्पन्ते च दिवौकसः । | ||||||
| 12 | 7.22.6bकालं क्रुद्धं तदा दृष्ट्वा लोकत्रयभयावहम् ॥7.22.6॥ | ||||||
| 13 | #6aತಸ್ಯ ಪಾರ್ಶ್ವೇಷು ನಿಚ್ಛಿದ್ರಾಃ ಕಾಲಪಾಶಾಃ ಪ್ರತಿಷ್ಠಿತಾಃ । | 7.22.6aतस्य पार्श्वेषु निश्छिद्राः कालपाशाः प्रतिष्ठिताः । | 7.22.5aतस्य पार्श्वेषु निश्छिद्राः कालपाशाः प्रतिष्ठिताः । | 7.22.5तस्य पार्श्वेषु निच्छिद्राः कालपाशाः प्रतिष्ठिताः ॥ 7.22.5 ॥ | |||
| 14 | #6bಪಾವಕಸ್ಪರ್ಶ ಸಂಕಾಶಃ ಸ್ಥಿತೋ ಮೂರ್ತಶ್ಚ ಮುದ್ಗರಃ ॥ | 7.22.6bपावकस्पर्शसङ्काशः स्थितो मूर्तश्च मुद्गरः ॥ ६ ॥ | 7.22.5bपावकस्पर्शसंकाशः स्थितो मूर्तश्च मुद्गरः ॥ ५ ॥ | 7.22.6पावकस्पर्शसङ्काशः स्थितो मूर्तश्च मुद्गरः ॥ 7.22.6 ॥ | |||
| 15 | #7aತತೋ ಲೋಕತ್ರಯಂ ಕ್ಷುಬ್ಧಮಕಂಪಂತ ದಿವೌಕಸಃ । | 7.22.7aततो लोकत्रयं क्षुब्धमकम्पन्त दिवौकसः । | 7.22.6aततो लोकत्रयं क्षुब्धमकम्पन्त दिवौकसः । | 7.22.7aततो लोकत्रयं क्षुब्धमकम्पन्त दिवौकसः। | |||
| 16 | #7bಕಾಲಂ ದೃಷ್ಟ್ವಾ ತಥಾ ಕ್ರುದ್ಧಂ ಸರ್ವಲೋಕಭಯಾವಹಮ್ ॥ | 7.22.7bकालं दृष्ट्वा तथा क्रुद्धं सर्वलोकभयावहम् ॥ ७ ॥ | 7.22.6bकालं दृष्ट्वा तथा क्रुद्धं सर्वलोकभयावहम् ॥ ६ ॥ | 7.22.7bकालं दृष्ट्वा तथा क्रुद्धं सर्वलोकभयावहम् ॥ 7.22.7 ॥ | |||
| 17 | #8aತತಸ್ತ್ವಚೋದಯತ್ ಸೂತಸ್ತಾನಶ್ವಾನ್ ರುಚಿರಪ್ರಭಾನ್ । | 7.22.8aततस्त्वचोदयत् सूतस्तानश्वान् रुचिरप्रभान् । | 7.22.7aततः प्रचोदयन्सूतस्तानश्वान्रुधिरप्रभान् । | 7.22.8aततः प्रचोदयन्सूतस्तानश्वान्रुचिरप्रभान्। | |||
| 18 | #8bಪ್ರಯಯೌ ಭೀಮಸಂನಾದೋ ಯತ್ರ ರಕ್ಷಃಪತಿಃ ಸ್ಥಿತಃ ॥ | 7.22.8bप्रययौ भीमसन्नादो यत्र रक्षःपतिः स्थितः ॥ ८ ॥ | 7.22.7bप्रययौ भीमसन्नादो यत्र रक्षःपतिः स्थितः ॥ ७ ॥ | 7.22.8bप्रययौ भीमसन्नादो यत्र रक्षःपतिः स्थितः ॥ 7.22.8 ॥ | |||
| 19 | #9aಮುಹೂರ್ತೇನ ಯಮಂ ತೇ ತು ಹಯಾ ಹರಿಹಯೋಪಮಾಃ । | 7.22.9aमुहूर्तेन यमं ते तु हया हरिहयोपमाः । | 7.22.8aमुहूर्तेन यमं ते तु हया हरिहयोपमाः । | 7.22.9aमुहूर्तेन यमं ते तु हया हरिहयोपमाः। | |||
| 20 | #9bಪ್ರಾಪಯನ್ಮನಸಸ್ತುಲ್ಯಾ ಯತ್ರ ತತ್ಪ್ರಸ್ತುತಂ ರಣಮ್ ॥ | 7.22.9bप्रापयन् मनसस्तुल्या यत्र तत् प्रस्तुतं रणम् ॥ ९ ॥ | 7.22.8bप्रापयन्मनसस्तुल्या यत्र तत्प्रस्तुतं रणम् ॥ ८ ॥ | 7.22.9bप्रापयन्मनसस्तुल्या यत्र तत्प्रस्तुतं रणम् ॥ 7.22.9 ॥ | |||
| 21 | #10aದೃಷ್ಟ್ವಾ ತಥೈವ ವಿಕೃತಂ ರಥಂ ಮೃತ್ಯುಸಮನ್ವಿತಮ್ । | 7.22.10aदृष्ट्वा तथैव विकृतं रथं मृत्युसमन्वितम् । | 7.22.7aदृष्ट्वा तु ते तं विकृतं रथं मृत्युसमन्वितम् । | 7.22.9aदृष्ट्वा तथैव विकृतं रथं मृत्युसमन्वितम् । | 7.22.10aदृष्ट्वा तथैव विकृतं रथं मृत्युसमन्वितम्। | ||
| 22 | #10bಸಚಿವಾ ರಾಕ್ಷಸೇಂದ್ರಸ್ಯ ಸಹಸಾ ವಿಪ್ರದುದ್ರುವುಃ ॥ | 7.22.10bसचिवा राक्षसेन्द्रस्य सहसा विप्रदुद्रुवुः ॥ १० ॥ | 7.22.7bसचिवा राक्षसेन्द्रस्य सर्वलोकभयावहम् ॥7.22.7॥ | 7.22.9bसचिवा राक्षसेन्द्रस्य सहसा विप्रदुद्रुवुः ॥ ९ ॥ | 7.22.10bसचिवा राक्षसेन्द्रस्य सहसा विप्रदुद्रुवुः ॥ 7.22.10 ॥ | ||
| 23 | 7.22.10a[ अभ्यधावन्त संक्रुद्धा बलिनोतिभयंकराः । | ||||||
| 24 | #11aಲಘುಸತ್ತ್ವತಯಾ ತೇ ಹಿ ನಷ್ಟಸಂಜ್ಞಾ ಭಯಾರ್ದಿತಾಃ । | 7.22.11aलघुसत्त्वतया ते हि नष्टसञ्ज्ञा भयार्दिताः । | 7.22.8aलघुसत्त्वतया सर्वे नष्टसंज्ञा भयार्दिताः । | 7.22.10b] लघुसन्वतया ते हि नष्टसंज्ञा भयार्दिताः । | 7.22.11aलघुसत्त्वतया ते हि नष्टसञ्ज्ञा भयार्दिताः। | ||
| 25 | #11bನೇಹ ಯೋದ್ಧುಂ ಸಮರ್ಥಾಃ ಸ್ಮ ಇತ್ಯುಕ್ತ್ವಾ ಪ್ರಯಯುರ್ದಿಶಃ ॥ | 7.22.11bनेह योद्धुं समर्थाः स्म इत्युक्त्वा प्रययुर्दिशः ॥ ११ ॥ | 7.22.8bनात्र योद्धुं समर्थाः स्म इत्युक्त्वा विप्रदुद्रुवुः ॥7.22.8॥ | 7.22.10cनेह योद्धुं समर्थाः स्म इत्युक्त्वा प्रययुर्दिशः ॥ १० ॥ | 7.22.11bनेह योद्धुं समर्थाः स्म इत्युक्त्वा प्रययुर्दिशः ॥ 7.22.11 ॥ | ||
| 26 | #12aಸ ತು ತಂ ತಾದೃಶಂ ದೃಷ್ಟ್ವಾ ರಥಂ ಲೋಕಭಯಾವಹಮ್ । | 7.22.12aस तु तं तादृशं दृष्ट्वा रथं लोकभयावहम् । | 7.22.9aस तु तं तादृशं दृष्ट्वा रथं लोकभयावहम् । | 7.22.11aस तु तं तादृशं दृष्ट्वा रथं लोकभयावहम् । | 7.22.12aस तु तं तादृशं दृष्ट्वा रथं लोकभयावहम्। | ||
| 27 | 7.22.9bनाक्षुभ्यत तदा रक्षो व्यथा चैवास्य नाभवत् ॥7.22.9॥ | ||||||
| 28 | #12bನಾಕ್ಷುಭ್ಯತ ದಶಗ್ರೀವೋ ನ ಚಾಪಿ ಭಯಮಾವಿಶತ್ ॥ | 7.22.12bनाक्षुभ्यत दशग्रीवो न चापि भयमाविशत् ॥ १२ ॥ | 7.22.11bनाक्षुभ्यत दशग्रीवो न चापि भयमाविशत् ॥ ११ ॥ | 7.22.12bनाक्षुभ्यत दशग्रीवो न चापि भयमाविशत् ॥ 7.22.12 ॥ | |||
| 29 | #13aಸ ತು ರಾವಣಮಾಸಾದ್ಯ ವ್ಯಸೃಜಚ್ಛಕ್ತಿತೋಮರಾನ್ । | 7.22.13aस तु रावणमासाद्य व्यसृजच्छक्तितोमरान् । | 7.22.10aस तु रावणमासाद्य विसृजञ्शक्तितोमरान् । | 7.22.12aस तु रावणमासाद्य व्यसृजच्छक्तितोमरान् । | 7.22.13aस तु रावणमासाद्य व्यसृजच्छक्तितोमरान्। | ||
| 30 | #13bಯಮೋ ಮರ್ಮಾಣಿ ಸಂಕ್ರುದ್ಧೋ ರಾವಣಸ್ಯ ನ್ಯಕೃಂತತ ॥ | 7.22.13bयमो मर्माणि सङ्क्रुद्धो रावणस्य न्यकृन्तत ॥ १३ ॥ | 7.22.10bयमो मर्माणि संक्रुद्धो राक्षसस्य न्यकृन्तत ॥7.22.10॥ | 7.22.12bयमो मर्माणि संक्रुद्धो रावणस्योपकृन्तत ॥ १२ ॥ | 7.22.13bयमो मर्माणि सङ्क्रुद्धो रावणस्योपकृन्तत ॥ 7.22.13 ॥ | ||
| 31 | 7.22.13a[ मर्मसु च्छिद्यमानेषु रावणो राक्षसेश्वरः । | ||||||
| 32 | 7.22.13bसहंस्तस्थौ रुजं घोरां भिद्यमान इवाचलः ॥ १३ ॥ | ||||||
| 33 | 7.22.13c] | ||||||
| 34 | #14aರಾವಣಸ್ತು ತತಃ ಸ್ವಸ್ಥಃ ಶರವರ್ಷಂ ಮುಮೋಚ ಹ । | 7.22.14aरावणस्तु ततः स्वस्थः शरवर्षं मुमोच ह । | 7.22.11aरावणस्तु स्थितः स्वस्थः शरवर्षं मुमोच ह । | 7.22.14aरावणस्तु ततः स्वस्थः शरवर्षं मुमोच ह । | 7.22.14aरावणस्तु ततः स्वस्थः शरवर्षं मुमोच ह। | ||
| 35 | #14bತಸ್ಮಿನ್ ವೈವಸ್ವತರಥೇ ತೋಯವರ್ಷಮಿವಾಂಬುದಃ ॥ | 7.22.14bतस्मिन् वैवस्वतरथे तोयवर्षमिवाम्बुदः ॥ १४ ॥ | 7.22.11bतस्मिन्वैवस्वतरथे तोयवर्षमिवाम्बुदः ॥7.22.11॥ | 7.22.14bतस्मिन्वैवस्वतरथे तोयवर्षमिवाम्बुदः ॥ १४ ॥ | 7.22.14bतस्मिन्वैवस्वतरथे तोयवर्षमिवाम्बुदः ॥ 7.22.14 ॥ | ||
| 36 | 7.22.15a[ शरास्ते वज्रसंकाशाश्छादयन्ति रणे यमम् । | ||||||
| 37 | 7.22.15bयथाऽचलं महाघोरा नानावर्णा वलाहकाः ॥ १५ ॥ | ||||||
| 38 | 7.22.16aतान्निहत्य शरांस्तूर्णं रावणस्य यमः स्वयम् । | ||||||
| 39 | 7.22.16bततः प्रहरणं घोरं मुमोचारिनिषूदनः ॥ १६ ॥ | ||||||
| 40 | 7.22.16c] | ||||||
| 41 | #15aತತೋ ಮಹಾಶಕ್ತಿಶತೈಃ ಪಾತ್ಯಮಾನೈರ್ಮಹೋರಸಿ । | 7.22.15aततो महाशक्तिशतैः पात्यमानैर्महोरसि । | 7.22.12aततो महाशक्तिशतैः पात्यमानैर्महोरसि । | 7.22.17aततो महाशक्तिशरैः पात्यमानो महोरसि । | 7.22.15aततो महाशक्तिशरैः पात्यमानैर्महोरसि (पात्यमानो)। | ||
| 42 | #15bನಾಶಕ್ನೋತ್ಪ್ರತಿಕರ್ತುಂ ಸ ರಾಕ್ಷಸಃ ಶಲ್ಯಪೀಡಿತಃ ॥ | 7.22.15bनाशक्नोत् प्रतिकर्तुं स राक्षसः शल्यपीडितः ॥ १५ ॥ | 7.22.12bप्रतिकर्तुं स नाशक्नोद्राक्षसः शल्यपीडितः ॥7.22.12॥ | 7.22.17bनाशक्नोत्प्रतिकर्तुं स राक्षसः शल्यपीडितः ॥ १७ ॥ | 7.22.15bनाशक्नोत्प्रतिकर्तुं स राक्षसः शल्यपीडितः ॥ 7.22.15 ॥ | ||
| 43 | #16aಏವಂ ನಾನಾ ಪ್ರಹರಣೈರ್ಯಮೇನಾಮಿತ್ರಕರ್ಷಿಣಾ । | 7.22.16aएवं नानाप्रहरणैर्यमेनामित्रकर्षिणा । | 7.22.13aनानाप्रहरणैरेवं यमेनामित्रकर्शिना । | 7.22.18aएवं नानाप्रहरणैर्यमेनामित्रकर्शिना । | 7.22.16aएवं नानाप्रहरणैर्यमेनामित्रकर्षिणा। | ||
| 44 | #16bಸಪ್ತರಾತ್ರಂ ಕೃತಃ ಸಂಖ್ಯೇ ವಿಸಂಜ್ಞೋ ವಿಮುಖೋರಿಪುಃ ॥ | 7.22.16bसप्तरात्रं कृतः सङ्ख्ये विसञ्ज्ञो विमुखो रिपुः ॥ १६ ॥ | 7.22.13bसप्तरात्रं कृते संख्ये न भग्नो विजितोऽपि वा ॥7.22.13॥ | 7.22.18bसप्तरात्रं कृतः सङ्ख्ये विसंज्ञो विमुखो रिपुः ॥ १८ ॥ | 7.22.16bसप्तरात्रं कृतः सङ्ख्ये विसञ्ज्ञो विमुखो रिपुः ॥ 7.22.16 ॥ | ||
| 45 | 7.22.14aततोऽभवत्पुनर्युद्धं यमराक्षसयोस्तदा । | ||||||
| 46 | #17aತದಾಽಽಸೀತ್ತುಮುಲಂ ಯುದ್ಧಂ ಯಮರಾಕ್ಷಸಯೋರ್ದ್ವಯೋಃ । | 7.22.17aतदाऽऽसीत् तुमुलं युद्धं यमराक्षसयोर्द्वयोः । | 7.22.19aतदासीत्तुमुलं युद्धं यमराक्षसयोर्द्वयोः । | 7.22.17aतदासीत्तुमुलं युद्धं यमराक्षसयोर्द्वयोः। | |||
| 47 | #17bಜಯಮಾಕಾಂಕ್ಷತೋರ್ವೀರ ಸಮರೇಷ್ವ ನಿವರ್ತಿನೋಃ ॥ | 7.22.17bजयमाकाङ्क्षतोर्वीर समरेष्वनिवर्तिनोः ॥ १७ ॥ | 7.22.14bविजयाकाङ्क्षिणोस्तत्र समरेष्वनिवर्तिनोः ॥7.22.14॥ | 7.22.19bजयमाकाङ्क्षतोर्वीर समरेष्वनिवर्तिनोः ॥ १९ ॥ | 7.22.17bजयमाकाङ्क्षतोर्वीर समरेष्वनिवर्तिनोः ॥ 7.22.17 ॥ | ||
| 48 | #18aತತೋ ದೇವಾಃ ಸಗಂಧರ್ವಾಃ ಸಿದ್ಧಾಶ್ಚ ಪರಮರ್ಷಯಃ । | 7.22.18aततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः । | 7.22.15aततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः । | 7.22.20aततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः । | 7.22.18aततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः। | ||
| 49 | #18bಪ್ರಜಾಪತಿಂ ಪುರಸ್ಕೃತ್ಯ ಸಮೇತಾಸ್ತದ್ರಣಾಜಿರೇ ॥ | 7.22.18bप्रजापतिं पुरस्कृत्य समेतास्तद्रणाजिरे ॥ १८ ॥ | 7.22.15bप्रजापतिं पुरस्कृत्य ददृशुस्तद्रणाजिरम् ॥7.22.15॥ | 7.22.20bप्रजापतिं पुरस्कृत्य समेतास्तद्रणाजिरम् ॥ २० ॥ | 7.22.18bप्रजापतिं पुरस्कृत्य समेतास्तद्रणाजिरम् ॥ 7.22.18 ॥ | ||
| 50 | #19aಸಂವರ್ತ ಇವ ಲೋಕಾನಾಂ ಯುಧ್ಯತೋರಭವತ್ತದಾ । | 7.22.19aसंवर्त इव लोकानां युध्यतोरभवत् तदा । | 7.22.16aसंवर्त इव लोकानामभवद्युध्यतोस्तयोः । | 7.22.21aसंवर्त इव लोकानां क्रुध्यतोरभवत्तदा । | 7.22.19aसंवर्त इव लोकानां क्रुध्यतोरभवत्तदा। | ||
| 51 | #19bರಾಕ್ಷಸಾನಾಂ ಚ ಮುಖ್ಯಸ್ಯ ಪ್ರೇತಾನಾಮೀಶ್ವರಸ್ಯ ಚ ॥ | 7.22.19bराक्षसानां च मुख्यस्य प्रेतानामीश्वरस्य च ॥ १९ ॥ | 7.22.16bराक्षसानां च मुख्यस्य प्रेतानामीश्वरस्य च ॥7.22.16॥ | 7.22.21bराक्षसानां च मुख्यस्य प्रेतानामीश्वरस्य च ॥ २१ ॥ | 7.22.19bराक्षसानां च मुख्यस्य प्रेतानामीश्वरस्य च ॥ 7.22.19 ॥ | ||
| 52 | 7.22.17aराक्षसेन्द्रस्ततः क्रुद्धश्चापमायम्य संयुगे । | ||||||
| 53 | #20aರಾಕ್ಷಸೇಂದ್ರೋಽಪಿ ವಿಸ್ಫಾರ್ಯ ಚಾಪಮಿಂದ್ರಾಶನಿಪ್ರಭಮ್ । | 7.22.20aराक्षसेन्द्रोऽपि विस्फार्य चापमिन्द्राशनिप्रभम् । | 7.22.22aराक्षसेन्द्रोपि विस्फार्य चापमिन्द्राशनिप्रभम् । | 7.22.20aराक्षसेन्द्रोऽपि विस्फार्य चापमिन्द्राशनिप्रभम्। | |||
| 54 | #20bನಿರಂತರಮಿವಾಕಾಶಂ ಕುರ್ವನ್ ಬಾಣಾಂಸ್ತತೋಽಸೃಜತ್ ॥ | 7.22.20bनिरन्तरमिवाकाशं कुर्वन् बाणांस्ततोऽसृजत् ॥ २० ॥ | 7.22.17bनिरन्तरमिवाकाशं कुर्वन्बाणान्मुमोच ह ॥7.22.17॥ | 7.22.22bनिरन्तरमिवाकाशं कुर्वन्बाणांस्ततोसृजत् ॥ २२ ॥ | 7.22.20bनिरन्तरमिवाकाशं कुर्वन्बाणांस्ततोऽसृजत् ॥ 7.22.20 ॥ | ||
| 55 | #21aಮೃತ್ಯುಂ ಚತುರ್ಭಿರ್ವಿಶಿಖೈಃ ಸೂತಂ ಸಪ್ತಭಿರಾರ್ದಯತ್ । | 7.22.21aमृत्युं चतुर्भिर्विशिखैः सूतं सप्तभिरार्दयत् । | 7.22.18aमृत्युं चतुर्भिर्विशिखैः सूतं सप्तभिरर्दयत् । | 7.22.23aमृत्युं चतुर्भिर्विशिखैः सूतं सप्तभिरर्दयत् । | 7.22.21aमृत्युं चतुर्भिर्विशिखैः सूतं सप्तभिरार्दयत्। | ||
| 56 | #21bಯಮಂ ಶತಸಹಸ್ರೇಣ ಶೀಘ್ರಂ ಮರ್ಮಸ್ವತಾಡಯತ್ ॥ | 7.22.21bयमं शतसहस्रेण शीघ्रं मर्मस्वताडयत् ॥ २१ ॥ | 7.22.18bयमं शरसहस्रेण शीघ्रं मर्मस्वताडयत् ॥7.22.18॥ | 7.22.23bयमं शतसहस्रेण शीघ्रं मर्मस्वताडयत् ॥ २३ ॥ | 7.22.21bयमं शतसहस्रेण शीघ्रं मर्मस्वताडयत् ॥ 7.22.21 ॥ | ||
| 57 | #22aತತಃ ಕ್ರುದ್ಧಸ್ಯ ವದನಾದ್ಯಮಸ್ಯ ಸಮಜಾಯತ । | 7.22.22aततः क्रुद्धस्य वदनाद् यमस्य समजायत । | 7.22.19aततः क्रुद्धस्य सहसा यमस्याभिविनिःसृतः । | 7.22.24aततः क्रुद्धस्य वदनाद्यमस्य समजायत । | 7.22.22aततः क्रुद्धस्य वदनाद्यमस्य समजायत। | ||
| 58 | #22bಜ್ವಾಲಾಮಾಲೀ ಸನಿಃಶ್ವಾಸಃ ಸಧೂಮಃ ಕೋಪಪಾವಕಃ ॥ | 7.22.22bज्वालामाली सनिश्वासः सधूमः कोपपावकः ॥ २२ ॥ | 7.22.19bज्वालामालो विनिश्वासो वदनात्क्रोधपावकः ॥7.22.19॥ | 7.22.24bज्वालामाली सनिश्वासः सधूमः कोपपावकः ॥ २४ ॥ | 7.22.22bज्वालामाली सनिःश्वासः सधूमः कोपपावकः ॥ 7.22.22 ॥ | ||
| 59 | 7.22.20aततोऽपश्यंस्तदाश्चर्यं देवदानवराक्षसाः । | ||||||
| 60 | 7.22.20bक्रोधजं पावकं दीप्तं दिधक्षन्तं रिपोर्बलम् ॥7.22.20॥ | ||||||
| 61 | 7.22.21aमृत्युस्तु परमक्रुद्धो वैवस्वतमथाब्रवीत् । | ||||||
| 62 | 7.22.21bमुञ्च मां देव शीघ्रं त्वं निहन्मि समरे रिपुम् ॥7.22.21॥ | ||||||
| 63 | 7.22.22aनरकः शम्बरो वृत्रः शम्भुः कार्तस्वरो बली । | ||||||
| 64 | 7.22.22bनमुचिर्विरोचनश्चैव तावुभौ मधुकैटभौ ॥7.22.22॥ | ||||||
| 65 | #23aತದಾಶ್ಚರ್ಯಮಥೋ ದೃಷ್ಟ್ವಾ ದೇವದಾನವಸಂನಿಧೌ । | 7.22.23aतदाश्चर्यमथो दृष्ट्वा देवदानवसन्निधौ । | 7.22.25aतदाश्चर्यमथो दृष्ट्वा देवदानवसन्निधौ । | 7.22.23aतदाश्चर्यमथो दृष्ट्वा देवदानवसन्निधौ। | |||
| 66 | #23bಪ್ರಹರ್ಷಿತೌ ಸುಸಂರಭ್ಧೌ ಮೃತ್ಯುಕಾಲೌ ಬಭೂವತುಃ ॥ | 7.22.23bप्रहर्षितौ सुसंरब्धौ मृत्युकालौ बभूवतुः ॥ २३ ॥ | 7.22.25bप्रहर्षितौ सुसंरब्धौ मृत्युकालौ बभूवतुः ॥ २५ ॥ | 7.22.23bप्रहर्षितौ सुसंरब्धौ मृत्युकालौ बभूवतुः ॥ 7.22.23 ॥ | |||
| 67 | #24aತತೋ ಮೃತ್ಯುಃ ಕ್ರುದ್ಧತರೋ ವೈವಸ್ವತಮಭಾಷತ । | 7.22.24aततो मृत्युः क्रुद्धतरो वैवस्वतमभाषत । | 7.22.26aततो मृत्युः क्रुद्धतरो वैवस्वतमभाषत । | ||||
| 68 | #24bಮುಂಚ ಮಾಂ ಸಮರೇ ಯಾವದ್ಧನ್ಮೀಮಂ ಪಾಪರಾಕ್ಷಸಮ್ ॥ | 7.22.24bमुञ्च मां समरे यावद्धन्मीमं पापराक्षसम् ॥ २४ ॥ | 7.22.26bमुञ्च मां समरे यावद्धन्मीमं पापराक्षसम् । | 7.22.24aमुञ्च मां समरे यावद्धन्मीमं पापराक्षसम्। | |||
| 69 | #25aನೈಷ ರಕ್ಷೋ ಭವೇದದ್ಯ ಮರ್ಯಾದಾ ಹಿ ನಿಸರ್ಗತಃ । | 7.22.25aनैषा रक्षो भवेदद्य मर्यादा हि निसर्गतः । | 7.22.26cनैषा रक्षोभवेदद्य मर्यादा हि निसर्गतः ॥ २६ ॥ | 7.22.24bनैषा रक्षो भवेदद्य मर्यादा हि निसर्गतः ॥ 7.22.24 ॥ | |||
| 70 | #25bಹಿರಣ್ಯಕಶಿಪುಃ ಶ್ರೀಮಾನ್ ನಮುಚಿಃ ಶಂಬರಸ್ತಥಾ ॥ | 7.22.25bहिरण्यकशिपुः श्रीमान् नमुचिः शम्बरस्तथा ॥ २५ ॥ | 7.22.27aहिरण्यकशिपुः श्रीमान्नमुचिः शम्बरस्तथा । | 7.22.25aहिरण्यकशिपुः श्रीमान्नमुचिः शम्बरस्तथा। | |||
| 71 | #26aನಿಸಂದಿರ್ಧೂಮಕೇತುಶ್ಚ ಬಲಿರ್ವೈರೋಚನೋಽಪಿ ಚ । | 7.22.26aनिसन्दिर्धूमकेतुश्च बलिर्वैरोचनोऽपि च । | 7.22.27bविसंधिर्धूमकेतुश्च बलिर्वैरोचनोपि च । | 7.22.25bविसन्धिर्धूमकेतुश्च बलिर्वैरोचनोऽपि च ॥ 7.22.25 ॥ | |||
| 72 | #26bಶಂಭುರ್ದೈತ್ಯೋ ಮಹಾರಾಜೋ ವೃತ್ರೋ ಬಾಣಸ್ತಥೈವ ಚ ॥ | 7.22.26bशम्भुर्दैत्यो महाराजो वृत्रो बाणस्तथैव च ॥ २६ ॥ | 7.22.27cदम्भुर्दैत्यमहाराजो वृत्रो बाणस्तथैव च ॥ २७ ॥ | 7.22.26aदम्भुर्दैत्यमहाराजो वृत्रो बाणस्तथैव च। | |||
| 73 | #27aರಾಜರ್ಷಯಃ ಶಾಸ್ತ್ರವಿದೋ ಗಂಧರ್ವಾಃ ಸಮಹೋರಗಾಃ । | 7.22.27aराजर्षयः शास्त्रविदो गन्धर्वाः समहोरगाः । | 7.22.28aराजर्षयः शास्त्रविदो गन्धर्वाः समहोरगाः । | 7.22.26bराजर्षयः शास्त्रविदो गन्धर्वाः समहोरगाः ॥ 7.22.26 ॥ | |||
| 74 | #27bಋಷಯಃ ಪನ್ನಗಾ ದೈತ್ಯಾ ಯಕ್ಷಾಶ್ಚ ಹ್ಯಪ್ಸರೋಗಣಾಃ ॥ | 7.22.27bऋषयः पन्नगा दैत्या यक्षाश्च ह्यप्सरोगणाः ॥ २७ ॥ | 7.22.28bऋषयः पन्नगा दैत्या पक्षाश्चाप्यप्सरोगणाः ॥ २८ ॥ | 7.22.27aऋषयः पन्नगा दैत्या यक्षाश्चाप्यप्सरोगणाः। | |||
| 75 | #28aಯುಗಾಂತಪರಿವರ್ತೇ ಚ ಪೃಥಿವೀ ಸಮಹಾರ್ಣವಾ । | 7.22.28aयुगान्तपरिवर्ते च पृथिवी समहार्णवा । | 7.22.29aयुगान्तपरिवर्ते च पृथिवी समहार्णवा । | 7.22.27bयुगान्तपरिवर्ते च पृथिवी समहार्णवा ॥ 7.22.27 ॥ | |||
| 76 | #28bಕ್ಷಯಂ ನೀತಾ ಮಹಾರಾಜ ಸಪರ್ವತಸರಿದ್ದ್ರುಮಾ ॥ | 7.22.28bक्षयं नीता महाराज सपर्वतसरिद्द्रुमा ॥ २८ ॥ | 7.22.29bक्षयं नीता महाराज सपर्वतसरिद्द्रुमा ॥ २९ ॥ | 7.22.28aक्षयं नीता महाराज सपर्वतसरिद्द्रुमा। | |||
| 77 | #29aಏತೇ ಚಾನ್ಯೇ ಚ ಬಹವೋ ಬಲವಂತೋ ದುರಾಸದಾಃ । | 7.22.29aएते चान्ये च बहवो बलवन्तो दुरासदाः । | 7.22.23aएते चान्ये च बहवो बलवन्तो दुरासदाः । | 7.22.30aएते चान्ये च बहवो बलवन्तो दुरासदाः । | 7.22.28bएते चान्ये च बहवो बलवन्तो दुरासदाः ॥ 7.22.28 ॥ | ||
| 78 | #29bವಿನಿಪನ್ನಾ ಮಯಾ ದೃಷ್ಟಾಃ ಕಿಮುತಾಯಂ ನಿಶಾಚರಃ ॥ | 7.22.29bविनिपन्ना मया दृष्टाः किमुतायं निशाचरः ॥ २९ ॥ | 7.22.23bविनिपन्ना मया दृष्टाः का चिन्तास्मिन्निशाचरे ॥7.22.23॥ | 7.22.30bविनिपन्ना मया दृष्टाः किमुताय निशाचरः ॥ ३० ॥ | 7.22.29विनिपन्ना मया दृष्टाः किमुतायं निशाचरः ॥ 7.22.29 ॥ | ||
| 79 | #30aಮುಂಚ ಮಾಂ ಸಾಧು ಧರ್ಮಜ್ಞ ಯಾವದೇನಂ ನಿಹನ್ಮ್ಯಹಮ್ । | 7.22.30aमुञ्च मां साधु धर्मज्ञ यावदेनं निहन्म्यहम् । | 7.22.24aमुञ्च मां साधु धर्मज्ञ यावदेनं निहन्म्यहम् । | 7.22.31aमुञ्च मां साधु धर्मज्ञ यावदेनं निहन्म्यहम् । | 7.22.30aमुञ्चं मां साधु धर्मज्ञ यावदेनं निहन्म्यहम्। | ||
| 80 | #30bನ ಹಿ ಕಶ್ಚಿನ್ಮಯಾ ದೃಷ್ಟೋ ಬಲವಾನಪಿ ಜೀವತಿ ॥ | 7.22.30bनहि कश्चिन्मया दृष्टो बलवानपि जीवति ॥ ३० ॥ | 7.22.24bन हि कश्चिन्मया दृष्टो मुहूर्तमपि जीवति ॥7.22.24॥ | 7.22.31bन हि कश्चिन्मया दृष्टो बलवानपि जीवति ॥ ३१ ॥ | 7.22.30bनहि कश्चिन्मया दृष्टो बलवानपि जीवति ॥ 7.22.30 ॥ | ||
| 81 | #31aಬಲಂ ಮಮ ನ ಖಲ್ವೇ ತನ್ಮರ್ಯಾದೈಷಾ ನಿಸರ್ಗತಃ । | 7.22.31aबलं मम न खल्वेतन्मर्यादैषा निसर्गतः । | 7.22.25aबलं मम न खल्वेतन्मर्यादैषा निसर्गतः । | 7.22.32aबलं मम न खल्वेतन्मर्यादैषा निसर्गतः । | 7.22.31aबलं मम न खल्वेतन्मर्यादैषा निसर्गतः। | ||
| 82 | 7.22.25bसंस्पृष्टो हि मया कश्चिन्न जीवेदिति निश्चयः ॥7.22.25॥ | ||||||
| 83 | #31bಸ ದೃಷ್ಟೋ ನ ಮಯಾ ಕಾಲ ಮುಹೂರ್ತಮಪಿ ಜೀವತಿ ॥ | 7.22.31bस दृष्टो न मया काल मुहूर्तमपि जीवति ॥ ३१ ॥ | 7.22.32bस दृष्टो न मया कालं मुहूर्तमपि जीवति ॥ ३२ ॥ | 7.22.31bस दृष्टो न मया कालं मुहुर्तमापि जीवति ॥ 7.22.31 ॥ | |||
| 84 | #32aತಸ್ಯೈವಂ ವಚನಂ ಶ್ರುತ್ವಾ ಧರ್ಮರಾಜಃ ಪ್ರತಾಪವಾನ್ । | 7.22.32aतस्यैवं वचनं श्रुत्वा धर्मराजः प्रतापवान् । | 7.22.26aएतत्तु वचनं श्रुत्वा धर्मराजः प्रतापवान् । | 7.22.33aतस्यैवं वचनं श्रुत्वा धर्मराजः प्रतापवान् । | 7.22.32aतस्यैवं वचनं श्रुत्वा धर्मराजः प्रतापवान्। | ||
| 85 | #32bಅಬ್ರವೀತ್ತತ್ರ ತಂ ಮೃತ್ಯುಂ ತ್ವಂ ತಿಷ್ಠೈನಂ ನಿಹನ್ಮ್ಯಹಮ್ ॥ | 7.22.32bअब्रवीत् तत्र तं मृत्युं त्वं तिष्ठैनं निहन्म्यहम् ॥ ३२ ॥ | 7.22.26bअब्रवीत्तत्र तं मृत्युमयमेनं निहन्म्यहम् ॥7.22.26॥ | 7.22.33bअब्रवीत्तत्र तं मृत्युं त्वं तिष्ठैनं निहन्म्यहम् ॥ ३३ ॥ | 7.22.32bअब्रवीत्तत्र तं मुत्युं त्वं तिष्ठैनं निहन्म्यहम् ॥ 7.22.32 ॥ | ||
| 86 | #33aತತಃ ಸಂರಕ್ತನಯನಃ ಕ್ರುದ್ಧೋ ವೈವಸ್ವತಃ ಪ್ರಭುಃ । | 7.22.33aततः संरक्तनयनः क्रुद्धो वैवस्वतः प्रभुः । | 7.22.27aततः संरक्तनयनः क्रुद्धो वैवस्वतः प्रभुः । | 7.22.34aततः संरक्तनयनः क्रुद्धो वैवस्वतः प्रभुः । | 7.22.33aततः संरक्तनयनः क्रुद्धो वैवस्वतः प्रभुः। | ||
| 87 | #33bಕಾಲದಂಡಮಮೋಘಂ ತು ತೋಲಯಾಮಾಸ ಪಾಣಿನಾ ॥ | 7.22.33bकालदण्डममोघं तु तोलयामास पाणिना ॥ ३३ ॥ | 7.22.27bकालदण्डममोघं तं तोलयामास पाणिना ॥7.22.27॥ | 7.22.34bकालदण्डममोघं तु तोलयामास पाणिना ॥ ३४ ॥ | 7.22.33bकालदण्डममोघं तु तोलयामास पाणिना ॥ 7.22.33 ॥ | ||
| 88 | #34aಯಸ್ಯ ಪಾರ್ಶ್ವೇಷು ನಿಹಿತಾಃ ಕಾಲಪಾಶಾಃ ಪ್ರತಿಷ್ಠಿತಾಃ । | 7.22.34aयस्य पार्श्वेषु निहिताः कालपाशाः प्रतिष्ठिताः । | 7.22.28aयस्य पार्श्वेषु निश्छिद्राः कालपाशाः प्रतिष्ठिताः । | 7.22.35aयस्य पार्श्वेषु निखिलाः कालपाशाः प्रतिष्ठिताः । | 7.22.34aयस्य पार्श्वेषु निखिला कालपाशाः प्रतिष्ठिताः। | ||
| 89 | #34bಪಾವಕಾಶನಿಸಂಕಾಶೋ ಮುದ್ಗರೋ ಮೂರ್ತಿಮಾನ್ ಸ್ಥಿತಃ ॥ | 7.22.34bपावकाशनिसङ्काशो मुद्गरो मूर्तिमान् स्थितः ॥ ३४ ॥ | 7.22.28bपावकस्पर्शसंकाशो मुद्गरो मूर्तिमान्स्थितः ॥7.22.28॥ | 7.22.35bपावकाशनिसंकाशो मुद्गरो मूर्तिमान्स्थितः ॥ ३५ ॥ | 7.22.34bपावकाशनिसङ्काशो मुद्गरो मूर्तिमान्स्थितः ॥ 7.22.34 ॥ | ||
| 90 | #35aದರ್ಶನಾದೇವ ಯಃ ಪ್ರಾಣಾನ್ ಪ್ರಾಣಿನಾಮಪಿ ಕರ್ಷತಿ । | 7.22.35aदर्शनादेव यः प्राणान् प्राणिनामपि कर्षति । | 7.22.29aदर्शनादेव यः प्राणान्प्राणिनामुपरुध्यति । | 7.22.36aदर्शनादेव यः प्राणान्प्राणिनामकर्षति । | 7.22.35aदर्शनादेव यः प्राणान्प्राणिनामपकर्षति। | ||
| 91 | 7.22.29bकिं पुनस्ताडनाद्वापि पीडनाद्वापि देहिनः ॥7.22.29॥ | ||||||
| 92 | #35bಕಿಂ ಪುನಃ ಸ್ಪೃಶಮಾನಸ್ಯ ಪಾತ್ಯಮಾನಸ್ಯ ವಾ ಪುನಃ ॥ | 7.22.35bकिं पुनः स्पृशमानस्य पात्यमानस्य वा पुनः ॥ ३५ ॥ | 7.22.36bकिं पुनः स्पृश्यमानस्य पात्यमानस्य वा पुनः ॥ ३६ ॥ | 7.22.35bकिं पुनः स्पृश्यमानस्य पात्यमानस्य वा पुनः ॥ 7.22.35 ॥ | |||
| 93 | #36aಸ ಜ್ವಾಲಾಪರಿವಾರಸ್ತು ನಿರ್ದಹನ್ನಿವ ರಾಕ್ಷಸಮ್ । | 7.22.36aस ज्वालापरिवारस्तु निर्दहन्निव राक्षसम् । | 7.22.30aस ज्वालापरिवारस्तु पिबन्निव निशाचरम् । | 7.22.37aस ज्वालापरिवारस्तु निर्दहन्निव राक्षसम् । | 7.22.36aस ज्वालापरिवारस्तु निर्दहन्निव राक्षसम्। | ||
| 94 | 7.22.30bकरस्पृष्टो बलवता दण्डः क्रुद्धः सुदारुणः ॥7.22.30॥ | ||||||
| 95 | #36bತೇನ ಸ್ಪೃಷ್ಟೋ ಬಲವತಾ ಮಹಾಪ್ರಹರಣೋಸ್ಫುರತ್ ॥ | 7.22.36bतेन स्पृष्टो बलवता महाप्रहरणोऽस्फुरत् ॥ ३६ ॥ | 7.22.37bतेन स्पृष्टो बलवता महाप्रहरणोऽस्फुरत् ॥ ३७ ॥ | 7.22.36bतेन स्पृष्टो बलवता महाप्रहरणोऽस्फुरत् ॥ 7.22.36 ॥ | |||
| 96 | #37aತತೋ ವಿದುದ್ರುವುಃ ಸರ್ವೇ ತಸ್ಮಾತ್ ತ್ರಸ್ತಾ ರಣಾಜಿರೇ । | 7.22.37aततो विदुद्रुवुः सर्वे तस्मात् त्रस्ता रणाजिरे । | 7.22.31aततो विदुद्रुवुः सर्वे सत्त्वास्तस्माद्रणाजिरात् । | 7.22.38aततो विदुद्रुवुः सर्वे तस्मात्रस्ता रणाजिरे । | 7.22.37aततो विदुद्रुवुः सर्वे तस्मात्रस्ता रणाजिरे। | ||
| 97 | #37bಸುರಾಶ್ಚ ಕ್ಷುಭಿತಾಃ ಸರ್ವೇ ದೃಷ್ಟ್ವಾ ದಂಡೋದ್ಯತಂ ಯಮಮ್ ॥ | 7.22.37bसुराश्च क्षुभिताः सर्वे दृष्ट्वा दण्डोद्यतं यमम् ॥ ३७ ॥ | 7.22.31bसुराश्च क्षुभिता दृष्ट्वा कालदण्डोद्यतं यमम् ॥7.22.31॥ | 7.22.38bसुराश्च क्षुभिताः सर्वे दृष्ट्वा दण्डोद्यतं यमम् ॥ ३८ ॥ | 7.22.37bसुराश्च क्षुभिताः सर्वे दृष्ट्वा दण्डोद्यतं यमम् ॥ 7.22.37 ॥ | ||
| 98 | #38aತಸ್ಮಿನ್ ಪ್ರಹರ್ತುಕಾಮೇ ತು ಯಮೇ ದಂಡೇನ ರಾವಣಮ್ । | 7.22.38aतस्मिन् प्रहर्तुकामे तु यमे दण्डेन रावणम् । | 7.22.32aतस्मिन्प्रहर्तुकामे तु दण्डमुद्यम्य रावणम् । | 7.22.39aतस्मिन्प्रहर्तुकामे तु यमे दण्डेन रावणम् । | 7.22.38aतस्मिन्प्रहर्तुकामे तु यमे दण्डेन रावणम्। | ||
| 99 | #38bಯಮಂ ಪಿತಾಮಹಃ ಸಾಕ್ಷಾದ್ದರ್ಶಯಿತ್ವೇದಮಬ್ರವೀತ್ ॥ | 7.22.38bयमं पितामहः साक्षाद् दर्शयित्वेदमब्रवीत् ॥ ३८ ॥ | 7.22.32bयमं पितामहः साक्षाद्दर्शयित्वेदमब्रवीत् ॥7.22.32॥ | 7.22.39bयमं पितामहः साक्षाद्दर्शयित्वेदमब्रवीत् ॥ ३९ ॥ | 7.22.38bयमं पितामहः साक्षाद्दर्शयित्वेदमब्रवीत् ॥ 7.22.38 ॥ | ||
| 100 | #39aವೈವಸ್ವತ ಮಹಾಬಾಹೋ ನ ಖಲ್ವಮಿತವಿಕ್ರಮ । | 7.22.39aवैवस्वत महाबाहो न खल्वमितविक्रम । | 7.22.33aवैवस्वत महाबाहो न खल्वतुलविक्रम । | 7.22.40aवैवस्वत महाबाहो न खल्वमितविक्रम । | 7.22.39aवैवस्वत महाबाहो न खल्वमितविक्रम। | ||
| 101 | 7.22.33bप्रहर्तव्यं त्वयैतेन दण्डेनास्मिन्निशाचरे ॥7.22.33॥ | ||||||
| 102 | #39bನ ಹಂತವ್ಯಸ್ತ್ವಯೈತೇನ ದಂಡೇನೈಷ ನಿಶಾಚರಃ ॥ | 7.22.39bन हन्तव्यस्त्वयैतेन दण्डेनैष निशाचरः ॥ ३९ ॥ | 7.22.40bन हन्तव्यस्त्वया तेन दण्डेनैव निशाचरः ॥ ४० ॥ | 7.22.39bन हन्तव्यस्त्वया तेन दण्डेनैव निशाचरः ॥ 7.22.39 ॥ | |||
| 103 | #40aವರಃ ಖಲು ಮಯೈ ತಸ್ಮೈದತ್ತಸ್ತ್ರಿದಶಪುಂಗವ । | 7.22.40aवरः खलु मयैतस्मै दत्तस्त्रिदशपुङ्गव । | 7.22.34aवरः खलु मया दत्तस्तस्य त्रिदशपुंगव । | 7.22.41aवरः खलु मयैतस्मै दत्तस्त्रिदशपुङ्गव । | 7.22.40aवरः खलु मयैतस्मै दत्तस्त्रिदशपुङ्गव। | ||
| 104 | #40bಸ ತ್ವಯಾ ನಾನೃತಃ ಕಾರ್ಯೋ ಯನ್ಮಯಾ ವ್ಯಾಹೃತಂ ವಚಃ ॥ | 7.22.40bस त्वया नानृतः कार्यो यन्मया व्याहृतं वचः ॥ ४० ॥ | 7.22.34bतत्त्वया नानृतं कार्यं यन्मया व्याहृतं वचः ॥7.22.34॥ | 7.22.41bस त्वया नानृतः कार्यो यन्मया व्याहृतं वचः ॥ ४१ ॥ | 7.22.40bस त्वया नानृतः कार्यो यन्मया व्याहृतं वचः ॥ 7.22.40 ॥ | ||
| 105 | #41aಯೋ ಹಿ ಮಾಮನೃತಂ ಕುರ್ಯಾದ್ದೇವೋ ವಾ ಮಾನುಷೋಽಪಿ ವಾ । | 7.22.41aयो हि मामनृतं कुर्याद् देवो वा मानुषोऽपि वा । | 7.22.42aयो हि मामनृतं कुर्याद्देवो वा मानुषोपि वा । | 7.22.41aयो हि मामनृतं कुर्याद्देवो वा मानुषोऽपि वा। | |||
| 106 | #41bತ್ರೈಲೋಕ್ಯಮನೃತಂ ತೇನ ಕೃತಂ ಸ್ಯಾನ್ನಾತ್ರ ಸಂಶಯಃ ॥ | 7.22.41bत्रैलोक्यमनृतं तेन कृतं स्यान्नात्र संशयः ॥ ४१ ॥ | 7.22.42bत्रैलोक्यमनृतं तेन कृतं स्यान्नात्र संशयः ॥ ४२ ॥ | 7.22.41bत्रैलोक्यमनृतं तेन कृतं स्यान्नात्र संशयः ॥ 7.22.41 ॥ | |||
| 107 | #42aಕ್ರುದ್ಧೇನ ವಿಪ್ರಮುಕ್ತೋಽಯಂ ನಿರ್ವಿಶೇಷಂ ಪ್ರಿಯಾಪ್ರಿಯೇ । | 7.22.42aक्रुद्धेन विप्रमुक्तोऽयं निर्विशेषं प्रियाप्रिये । | 7.22.43aक्रुद्धेन विप्रमुक्तोयं निर्विशेषं प्रियाप्रिये । | 7.22.42aक्रुद्धेन विप्रमुक्तोऽयं निर्विशेषं प्रियाप्रिये। | |||
| 108 | #42bಪ್ರಜಾಃ ಸಂಹರತೇ ರೌದ್ರೋ ಲೋಕತ್ರಯ ಭಯಾವಹಃ ॥ | 7.22.42bप्रजाः संहरते रौद्रो लोकत्रयभयावहः ॥ ४२ ॥ | 7.22.43bप्रजाः संहरते रौद्रो लोकत्रयभयावहः ॥ ४३ ॥ | 7.22.42bप्रजाः संहरते रौद्रो लोकत्रयभयावहः ॥ 7.22.42 ॥ | |||
| 109 | #43aಅಮೋಘೋ ಹ್ಯೇಷ ಸರ್ವೇಷಾಂ ಪ್ರಾಣಿನಾಮಮಿತಪ್ರಭಃ । | 7.22.43aअमोघो ह्येष सर्वेषां प्राणिनाममितप्रभः । | 7.22.35aअमोघो ह्येष सर्वासां प्रजानां विनिपातने । | 7.22.44aअमोघो ह्येष सर्वेषां प्राणिनाममितप्रभः । | 7.22.43aअमोघो ह्येष सर्वेषां प्राणिनाममितप्रभः। | ||
| 110 | #43bಕಾಲದಂಡೋ ಮಯಾ ಸೃಷ್ಟಃ ಪೂರ್ವ ಮೃತ್ಯುಪುರಸ್ಕೃತಃ ॥ | 7.22.43bकालदण्डो मया सृष्टः पूर्वं मृत्युपुरस्कृतः ॥ ४३ ॥ | 7.22.35bकालदण्डो मया सृष्टः पूर्वं मृत्युपुरस्कृतः ॥7.22.35॥ | 7.22.44bकालदण्डो मया सृष्टः पूर्वं मृत्युपुरस्कृतः ॥ ४४ ॥ | 7.22.43bकालदण्डो मया सृष्टः पूर्वं मृत्युपुरस्कृतः ॥ 7.22.43 ॥ | ||
| 111 | #44aತನ್ನ ಖಲ್ವೇಷ ತೇ ಸೌಮ್ಯ ಪಾತ್ಯೋ ರಾವಣಮೂರ್ಧನಿ । | 7.22.44aतन्न खल्वेष ते सौम्य पात्यो रावणमूर्धनि । | 7.22.36aतन्न खल्वेष ते सौम्य पात्यो राक्षसमूर्धनि । | 7.22.45aतन्न खल्वेष ते सौम्य पात्यो रावणमूर्धनि । | 7.22.44aतन्न खल्वेष ते सौम्य पात्यो रावणमूर्धनि। | ||
| 112 | #44bನ ಹ್ಯಸ್ಮಿನ್ಪತಿತೇ ಕಶ್ಚಿನ್ಮುಹೂರ್ತಮಪಿ ಜೀವತಿ ॥ | 7.22.44bनह्यस्मिन् पतिते कश्चिन्मुहूर्तमपि जीवति ॥ ४४ ॥ | 7.22.36bन ह्यस्मिन्पतिते कश्चिन्मुहूर्तमपि जीवति ॥7.22.36॥ | 7.22.45bन ह्यस्मिन्पतिते कश्चिन्मुहूर्तमपि जीवति ॥ ४५ ॥ | 7.22.44bनह्यस्मिन्पतिते कश्चिन्मुहूर्तमपि जीवति ॥ 7.22.44 ॥ | ||
| 113 | #45aಯದಿ ಹ್ಯಸ್ಮಿನ್ನಿಪತಿತೇ ನ ಮ್ರಿಯೇತೈಷ ರಾಕ್ಷಸಃ । | 7.22.45aयदि ह्यस्मिन् निपतिते न म्रियेतैष राक्षसः । | 7.22.37aयदि ह्यस्मिन्निपतिते न म्रियेतैष राक्षसः । | 7.22.46aयदि ह्यस्मिन्निपतिते न म्रियेतैष राक्षसः । | 7.22.45aयदि ह्यन्मिन्निपतिते न म्रियेतैष राक्षसः। | ||
| 114 | #45bಮ್ರಿಯತೇ ವಾ ದಶಗ್ರೀವಸ್ತದಾಪ್ಯುಭಯತೋಽನೃತಮ್ ॥ | 7.22.45bम्रियते वा दशग्रीवस्तदाप्युभयतोऽनृतम् ॥ ४५ ॥ | 7.22.37bम्रियेत वा दशग्रीवस्तथाप्युभयतोऽनृतम् ॥7.22.37॥ | 7.22.46bम्रियते वा दशग्रीवस्तदा ह्युभयतोनृतम् ॥ ४६ ॥ | 7.22.45bम्रियते वा दशग्रीवस्तदाप्युभयतोऽनृतम् ॥ 7.22.45 ॥ | ||
| 115 | 7.22.38aराक्षसेन्द्रान्नियच्छाद्य दण्डमेनं वधोद्यतम् । | ||||||
| 116 | 7.22.38bसत्यं मम कुरुष्वेदं लोकांस्त्वं समवेक्ष्य च ॥7.22.38॥ | ||||||
| 117 | #46aತನ್ನಿವರ್ತಯ ಲಂಕೇಶಾದ್ದಂಡಮೇತಂ ಸಮುದ್ಯತಮ್ । | 7.22.46aतन्निवर्तय लङ्केशाद् दण्डमेतं समुद्यतम् । | 7.22.47aतन्निवर्तय लङ्केशं दण्डमेतं समुद्यतम् । | 7.22.46aतन्निवर्तय लङ्केशं द्दण्डमेतं समुद्यतम्। | |||
| 118 | #46bಸತ್ಯಂ ಚ ಮಾಂ ಕುರುಷ್ವಾದ್ಯ ಲೋಕಾಂಸ್ತ್ವಂ ಯದ್ಯವೇಕ್ಷಸೇ ॥ | 7.22.46bसत्यं च मां कुरुष्वाद्य लोकांस्त्वं यद्यवेक्षसे ॥ ४६ ॥ | 7.22.47bसत्यं च मां कुरुष्वाद्य लोकांस्त्वं यद्यवेक्षसे ॥ ४७ ॥ | 7.22.46bसत्यं च मां कुरुष्वाद्य लोकांस्त्वं यद्यवेक्षसे ॥ 7.22.46 ॥ | |||
| 119 | #47aಏವಮುಕ್ತಸ್ತು ಧರ್ಮಾತ್ಮಾ ಪ್ರತ್ಯುವಾಚ ಯಮಸ್ತದಾ । | 7.22.47aएवमुक्तस्तु धर्मात्मा प्रत्युवाच यमस्तदा । | 7.22.39aएवमुक्तस्तु धर्मात्मा प्रत्युवाच यमस्तदा । | 7.22.48aएवमुक्तस्तु धर्मात्मा प्रत्युवाच यमस्तदा । | 7.22.47aएवमुक्तस्तु धर्मात्मा प्रत्युवाच यमस्तदा। | ||
| 120 | #47bಏಷ ವ್ಯಾವರ್ತಿತೋ ದಂಡಃ ಪ್ರಭವಿಷ್ಣುರ್ಹಿ ನೋ ಭವಾನ್ ॥ | 7.22.47bएष व्यावर्तितो दण्डः प्रभविष्णुर्हि नो भवान् ॥ ४७ ॥ | 7.22.39bएष व्यावर्तितो दण्डः प्रभविष्णुर्भवान्हि नः ॥7.22.39॥ | 7.22.48bएष व्यावर्तितो दण्डः प्रभविष्णुर्हि नो भवान् ॥ ४८ ॥ | 7.22.47bएष व्यावर्तितो दण्डः प्रभविष्णुर्हि नो भवान् ॥ 7.22.47 ॥ | ||
| 121 | #48aಕಿಂ ತ್ವಿದಾನೀಂ ಮಯಾ ಶಕ್ಯಂ ಕರ್ತುಂ ರಣಗತೇನ ಹಿ । | 7.22.48aकिं त्विदानीं मया शक्यं कर्तुं रणगतेन हि । | 7.22.40aकिं त्विदानीं मया शक्यं कर्तुं रणगतेन हि । | 7.22.49aकिं न्विदानीं मया शक्यं कर्तुं रणगतेन हि । | 7.22.48aकिं न्विदानीं मया शक्यं कर्तुं रणगतेन हि। | ||
| 122 | 7.22.40bयन्मया यन्न हन्तव्यो राक्षसो वरदर्पितः ॥7.22.40॥ | ||||||
| 123 | #48bನ ಮಯಾ ಯದ್ಯಯಂ ಶಕ್ಯೋ ಹಂತುಂ ವರಪುರಸ್ಕೃತಃ ॥ | 7.22.48bन मया यद्ययं शक्यो हन्तुं वरपुरस्कृतः ॥ ४८ ॥ | 7.22.49bन मया यद्ययं शक्यो हन्तुं वरपुरस्कृतः ॥ ४९ ॥ | 7.22.48bन मया यद्ययं शक्यो हन्तुं वरपुरस्कृतः ॥ 7.22.48 ॥ | |||
| 124 | #49aಏಷ ತಸ್ಮಾತ್ ಪ್ರಣಶ್ಯಾಮಿ ದರ್ಶನಾದಸ್ಯ ರಕ್ಷಸಃ । | 7.22.49aएष तस्मात् प्रणश्यामि दर्शनादस्य रक्षसः । | 7.22.41aएष तस्मात्प्रणश्यामि दर्शनादस्य रक्षसः । | 7.22.50aएष तस्मात्प्रणश्यामि दर्शनादस्य रक्षसः । | 7.22.49aएष तस्मात्प्रणश्यामि दर्शनादस्य रक्षसः। | ||
| 125 | #49bಇತ್ಯುತ್ತ್ವಾಸರಥಃ ಸಾಶ್ವಸ್ತತ್ರೈವಾಂತರಧೀಯತ ॥ | 7.22.49bइत्युक्त्वा सरथः साश्वस्तत्रैवान्तरधीयत ॥ ४९ ॥ | 7.22.41bइत्युक्त्वा सरथः साश्वस्तत्रैवान्तरधीयत ॥7.22.41॥ | 7.22.50bइत्युक्त्वा सरथः साश्वस्तत्रैवान्तरधीयत ॥ ५० ॥ | 7.22.49bइत्युक्त्वा सरथः साश्वस्तत्रैवान्तरधीयत ॥ 7.22.49 ॥ | ||
| 126 | #50aದಶಗ್ರೀವಸ್ತು ತಂ ಜಿತ್ವಾ ನಾಮ ವಿಶ್ರಾವ್ಯಚಾತ್ಮನಃ । | 7.22.50aदशग्रीवस्तु तं जित्वा नाम विश्राव्य चात्मनः । | 7.22.42aदशग्रीवस्तु तं जित्वा नाम विश्राव्य चात्मनः । | 7.22.51aदशग्रीवस्तु तं जित्वा नाम विश्राव्य चात्मनः । | 7.22.50aदशग्रीवस्तु तं जित्वा नाम विश्राव्य चात्मनः। | ||
| 127 | #50bಆರುಹ್ಯ ಪುಷ್ಪಕಂ ಭೂಯೋ ನಿಷ್ಕ್ರಾಂತೋ ಯಮಸಾದನಾತ್ ॥ | 7.22.50bआरुह्य पुष्पकं भूयो निष्क्रान्तो यमसादनात् ॥ ५० ॥ | 7.22.42bपुष्पकेण तु संहृष्टो निष्क्रान्तो यमसादनात् ॥7.22.42॥ | 7.22.51bआरुह्य पुष्पकं भूयो निष्क्रान्तो यमसदनात् ॥ ५१ ॥ | 7.22.50bआरुह्य पुष्पकं भूयो निष्क्रान्तो यमसादनात् ॥ 7.22.50 ॥ | ||
| 128 | #51aಸ ತು ವೈವಸ್ವತೋ ದೇವೈಃ ಸಹ ಬ್ರಹ್ಮಪುರೋಗಮೈಃ । | 7.22.51aस तु वैवस्वतो देवैः सह ब्रह्मपुरोगमैः । | 7.22.43aततो वैवस्वतो देवैः सह ब्रह्मपुरोगमैः । | 7.22.51aस तु वैवस्वतो देवैः सह ब्रह्मपुरोगमैः। | |||
| 129 | #51bಜಗಾಮ ತ್ರಿದಿವಂ ಹೃಷ್ಟೋನಾರದಶ್ಚ ಮಹಾಮುನಿಃ ॥ | 7.22.51bजगाम त्रिदिवं हृष्टो नारदश्च महामुनिः ॥ ५१ ॥ | 7.22.43bजगाम त्रिदिवं हृष्टो नारदश्च महामुनिः ॥7.22.43॥ | 7.22.51bजगाम त्रिदिवं हृष्टो नारदश्च महामुनिः ॥ 7.22.51 ॥ |