Ramayana Half-Verse Concordance 7.20

यम-युद्ध-चोदनम्. Built from structured/verses.jsonl. Rows are monotone-aligned half-verse/pāda-like units split at । and ॥, so verse-number boundary differences can appear as inserted or shifted line rows.

68 aligned line rows across 7 source streams.

Columns:
gor-kn 66 lines gor-hi 66 lines crit 50 lines gr 68 lines dr-mula 65 lines
#gor-kngor-hicritgrdr-mulagr-iitkiitk
1#1aತತೋ ವಿತ್ರಾಸಯನ್ಮರ್ತ್ಯಾನ್ ಪೃಥಿವ್ಯಾಂರಾಕ್ಷಸಾಧಿಪಃ ।7.20.1aततो वित्रासयन् मर्त्यान् पृथिव्यां राक्षसाधिपः ।7.20.1aततो वित्रासयन्मर्त्यान्पृथिव्यां राक्षसाधिपः ।7.20.1aततो वित्रासयन्मर्त्यान्पृथिव्यां राक्षसाधिपः ।7.20.1aततो वित्रासयन्मर्त्यान्पृथिव्यां राक्षसाधिपः।
2#1bಆಸಸಾದ ಘನೇ ತಸ್ಮಿನ್ನಾರದಂ ಮುನಿಪುಂಗವಮ್ ॥7.20.1bआससाद घने तस्मिन् नारदं मुनिपुङ्गवम् ॥ १ ॥7.20.1bआससाद घने तस्मिन्नारदं मुनिसत्तमम् ॥7.20.1॥7.20.1bआससाद घने तस्मिन्नारदं मुनिपुङ्गवम् ॥ १ ॥7.20.1bआससाद घने तस्मिन्नारदं मुनिपुङ्गवम् ॥ 7.20.1 ॥
3#2aತಸ್ಯಾಭಿವಾದನಂ ಕೃತ್ವಾ ದಶಗ್ರೀವೋ ನಿಶಾಚರಃ ।7.20.2aतस्याभिवादनं कृत्वा दशग्रीवो निशाचरः ।7.20.2aतस्याभिवादनं कृत्वा दशग्रीवो निशाचरः ।7.20.2aतस्याभिवादनं कृत्वा दशग्रीवो निशाचरः।
4#2bಅಬ್ರವೀತ್ಕುಶಲಂ ಪೃಷ್ಟ್ವಾ ಹೇತುಮಾಗಮನಸ್ಯ ಚ ॥7.20.2bअब्रवीत् कुशलं पृष्ट्वा हेतुमागमनस्य च ॥ २ ॥7.20.2bअब्रवीत्कुशलं दृष्ट्वा हेतुमागमनस्य च ॥ २ ॥7.20.2bअब्रवीत्कुशलं पृष्ट्वा हेतुमागमनस्य च ॥ 7.20.2 ॥
5#3aನಾರದಸ್ತು ಮಹಾತೇಜಾ ದೇವರ್ಷಿರಮಿತಪ್ರಭಃ ।7.20.3aनारदस्तु महातेजा देवर्षिरमितप्रभः ।7.20.2aनारदस्तु महातेजा देवर्षिरमितप्रभः ।7.20.3aनारदस्तु महातेजा देवर्षिरमितप्रभः ।7.20.3aनारदस्तु महातेजा देवर्षिरमितप्रभः।
6#3bಅಬ್ರವೀನ್ಮೇಘಪೃಷ್ಠಸ್ಥೋ ರಾವಣಂ ಪುಷ್ಪಕೇ ಸ್ಥಿತಮ್ ॥7.20.3bअब्रवीन्मेघपृष्ठस्थो रावणं पुष्पके स्थितम् ॥ ३ ॥7.20.2bअब्रवीन्मेघपृष्ठस्थो रावणं पुष्पके स्थितम् ॥7.20.2॥7.20.3bअब्रवीन्मेघपृष्ठस्थो रावणं पुष्पके स्थितम् ॥ ३ ॥7.20.3bअब्रवीन्मेघपृष्ठस्थो रावणं पुष्पके स्थितम् ॥ 7.20.3 ॥
7#4aರಾಕ್ಷಸಾಧಿಪತೇ ಸೌಮ್ಯ ತಿಷ್ಠ ವಿಶ್ರವಸಃ ಸುತ ।7.20.4aराक्षसाधिपते सौम्य तिष्ठ विश्रवसः सुत ।7.20.3aराक्षसाधिपते सौम्य तिष्ठ विश्रवसः सुत ।7.20.4aराक्षसाधिपते सौम्य तिष्ठ विश्रवसः सुत ।7.20.4aराक्षसाधिपते सौम्य तिष्ठ विश्रवसः सुत।
8#4bಪ್ರೀತೋಸ್ಮ್ಯಭಿಜನೋಪೇತ ವಿಕ್ರಮೈರೂರ್ಜಿತೈಸ್ತವ ॥7.20.4bप्रीतोऽस्म्यभिजनोपेत विक्रमैरूर्जितैस्तव ॥ ४ ॥7.20.3bप्रीतोऽस्म्यभिजनोपेत विक्रमैरूर्जितैस्तव ॥7.20.3॥7.20.4bप्रीतोस्म्यभिजनोपेत विक्रमैरूर्जितैस्तव ॥ ४ ॥7.20.4bप्रीतोऽस्म्यभिजनोपेतविक्रमैरूर्जितैस्तव ॥ 7.20.4 ॥
9#5aವಿಷ್ಣುನಾ ದೈತ್ಯಘಾತೈಶ್ಚ ಗಂಧರ್ವೋರಗಧರ್ಷಣೈಃ ।7.20.5aविष्णुना दैत्यघातैश्च गन्धर्वोरगधर्षणैः ।7.20.4aविष्णुना दैत्यघातैश्च तार्क्ष्यस्योरगधर्षणैः ।7.20.5aविष्णुना दैत्यघातैश्च गन्धर्वोरगधर्षणैः ।7.20.5aविष्णुना दैत्यघातैश्च गन्धर्वोरगधर्षणैः।
10#5bತ್ವಯಾ ಸಮಂ ವಿಮರ್ದೈಶ್ಚ ಭೃಶಂ ಹಿ ಪರಿತೋಷಿತಃ ॥7.20.5bत्वया समं विमर्दैश्च भृशं हि परितोषितः ॥ ५ ॥7.20.4bत्वया समरमर्दैश्च भृशं हि परितोषितः ॥7.20.4॥7.20.5bत्वया समं विमर्दैश्च भृशं हि परितोषितः ॥ ५ ॥7.20.5bत्वया समं विमर्दैश्च भृशं हि परितोषितः ॥ 7.20.5 ॥
11#6aಕಿಂಚಿದ್ವಕ್ಷ್ಯಾಮಿ ತಾವತ್ತು ಶ್ರೋತವ್ಯಂ ಶ್ರೋಷ್ಯಸೇ ಯದಿ ।7.20.6aकिञ्चिद् वक्ष्यामि तावत् तु श्रोतव्यं श्रोष्यसे यदि ।7.20.5aकिंचिद्वक्ष्यामि तावत्ते श्रोतव्यं श्रोष्यसे यदि ।7.20.6aकिंचिद्वक्ष्यामि तावत्ते श्रोतव्यं श्रोष्यसे यदि ।
127.20.5bश्रुत्वा चानन्तरं कार्यं त्वया राक्षसपुंगव ॥7.20.5॥7.20.6bश्रुत्वा चानन्तरं कार्यं त्वया राक्षससत्तम ।7.20.6aश्रुत्वा चानन्तरं कार्यं त्वया राक्षससत्तम।
13#6bತನ್ಮೇ ನಿಗದತಸ್ತಾತ ಸಮಾಧಿಂ ಶ್ರವಣೇ ಕುರು ॥7.20.6bतन्मे निगदतस्तात समाधिं श्रवणे कुरु ॥ ६ ॥7.20.6cतन्मे निगदतस्तात समाधिं श्रवणे कुरु ॥ ६ ॥7.20.6bतन्मे निगदतस्तात समाधिं श्रवणे कुरु ॥ 7.20.6 ॥
14#7aಕಿಮಯಂ ವಧ್ಯತೇ ತಾತ ತ್ವಯಾವಧ್ಯೇನ ದೈವತೈಃ ।7.20.7aकिमयं वध्यते तात त्वयावध्येन दैवतैः ।7.20.6aकिमयं वध्यते लोकस्त्वयावध्येन दैवतैः ।7.20.7aकिमयं वध्यते तात त्वयाऽवध्येन दैवतैः ।7.20.7aकिमयं वध्यते तात त्वयाऽवध्येन दैवतैः।
15#7bಹತ ಏವ ಹ್ಯಯಂ ಲೋಕೋ ಯದಾ ಮೃತ್ಯುವಶಂ ಗತಃ ॥7.20.7bहत एव ह्ययं लोको यदा मृत्युवशं गतः ॥ ७ ॥7.20.6bहत एव ह्ययं लोको यदा मृत्युवशं गतः ॥7.20.6॥7.20.7bहत एव ह्ययं लोको यदा मृत्युवशं गतः ॥ ७ ॥7.20.7bहत एव ह्ययं लोको यदा मृत्युवशं गतः ॥ 7.20.7 ॥
16#8aದೇವದಾನವದೈತ್ಯಾನಾಂ ಯಕ್ಷಗಂಧರ್ವರಕ್ಷಸಾಮ್ ।7.20.8aदेवदानवदैत्यानां यक्षगन्धर्वरक्षसाम् ।7.20.8aदेवदानवदैत्यानां यक्षगन्धर्वरक्षसाम् ।7.20.8aदेवदानवदैत्यानां यक्षगन्धर्वरक्षसाम्।
17#8bಅವಧ್ಯೇನ ತ್ವಯಾ ಲೋಕಃ ಕ್ಲೇಷ್ಟುಂ ಯೋಗ್ಯೋ ನ ಮಾನುಷಃ ॥7.20.8bअवध्येन त्वया लोकः क्लेष्टुं योग्यो न मानुषः ॥ ८ ॥7.20.8bअवध्येन त्वया लोकः क्लेष्टुं युक्तो न मानुषः ॥ ८ ॥7.20.8bअवध्येन त्वया लोकः क्लेष्टुं युक्तो न मानुषः ॥ 7.20.8 ॥
18#9aನಿತ್ಯಂ ಶ್ರೇಯಸಿ ಸಮ್ಮೂಢಂ ಮಹದ್ಭಿರ್ವ್ಯಸನೈರ್ವೃತಮ್ ।7.20.9aनित्यं श्रेयसि सम्मूढं महद्भिर्व्यसनैर्वृतम् ।7.20.9aनित्यं श्रेयसि संमूढं महद्भिर्व्यसनैर्वृतम् ।7.20.9aनित्यं श्रेयसि सम्मूढं महद्भिर्व्यसनैर्वृतम्।
19#9bಹನ್ಯಾತ್ಕಸ್ತಾದೃಶಂ ಲೋಕಂ ಜರಾವ್ಯಾಧಿಶತೈರ್ಯುತಮ್ ॥7.20.9bहन्यात् कस्तादृशं लोकं जराव्याधिशतैर्युतम् ॥ ९ ॥7.20.9bहन्यात्कस्तादृशं लोकं जराव्याधिशतैर्युतम् ॥ ९ ॥7.20.9bहन्यात्कस्तादृशं लोकं जराव्याधिशतैर्युतम् ॥ 7.20.9 ॥
20#10aತೈಸ್ತೈರನಿಷ್ಟೋಪಗಮೈರಜಸ್ರಂ ಯತ್ರ ಕುತ್ರ ಕಃ ।7.20.10aतैस्तैरनिष्टोपगमैरजस्रं यत्र कुत्र कः ।7.20.10aतैस्तैरनिष्टोपगमैरजस्रं यत्रकुत्र कः ।7.20.10aतैस्तैरनिष्टोपगमैरजस्रं यत्र कुत्र कः।
21#10bಮತಿಮಾನ್ಮಾನುಷೇ ಲೋಕೇ ಯುದ್ಧೇನ ಪ್ರಣಯೀ ಭವೇತ್ ॥7.20.10bमतिमान् मानुषे लोके युद्धेन प्रणयी भवेत् ॥ १० ॥7.20.10bमतिमान्मानुषे लोके युद्धेन प्रणयी भवेत् ॥ १० ॥7.20.10bमतिमान्मानुषे लोके युद्धेन प्रणयी भवेत् ॥ 7.20.10 ॥
22#11aಕ್ಷೀಯಮಾಣಂ ದೈವಹತಂ ಕ್ಷುತ್ಪಿಪಾಸಾಜರಾದಿಭಿಃ ।7.20.11aक्षीयमाणं दैवहतं क्षुत्पिपासाजरादिभिः ।7.20.11aक्षीयमाणं दैवहतं क्षुत्पिपासाजरादिभिः ।7.20.11aक्षीयमाणं दैवहतं श्रुत्पिपासाजरादिभिः।
23#11bಏಷಾದಶೋಕಸಮ್ಮೂಢಂ ಲೋಕಂ ತ್ವಂ ಕ್ಷಪಯಸ್ವ ಮಾ ॥7.20.11bविषादशोकसम्मूढं लोकं त्वं क्षपयस्व मा ॥ ११ ॥7.20.11bविषादशोकसंमूढं लोकं त्वं क्षपयस्व मा ॥ ११ ॥7.20.11bविषादशोकसम्मूढं लोकं त्वं क्षपयस्व मा ॥ 7.20.11 ॥
24#12aಪಶ್ಯ ತಾವನ್ಮಹಾಬಾಹೋ ರಾಕ್ಷಸೇಶ್ವರ ಮಾನುಷಮ್ ।7.20.12aपश्य तावन्महाबाहो राक्षसेश्वर मानुषम् ।7.20.7aपश्य तावन्महाबाहो राक्षसेश्वरमानुषम् ।7.20.12aपश्य तावन्महाबाहो राक्षसेश्वर मानुषम् ।7.20.12aपश्य तावन्महाबाहो राक्षसेश्वर मानुषम्।
25#12bಮೂಢಮೇವಂ ವಿಚಿತ್ರಾರ್ಥಂ ಯಸ್ಯ ನ ಜ್ಞಾಯತೇ ಗತಿಃ ॥7.20.12bमूढमेवं विचित्रार्थं यस्य न ज्ञायते गतिः ॥ १२ ॥7.20.7bलोकमेनं विचित्रार्थं यस्य न ज्ञायते गतिः ॥7.20.7॥7.20.12bमूढमेवं विचित्रार्थं यस्य न ज्ञायते गतिः ॥ १२ ॥7.20.12bमूढमेवं विचित्रार्थं यस्य न ज्ञायते गतिः ॥ 7.20.12 ॥
26#13aಕ್ವಚಿದ್ವಾದಿತ್ರನೃತ್ಯಾದಿ ಸೇವ್ಯತೇ ಮುದಿತೈರ್ಜನೈಃ ।7.20.13aक्वचिद् वादित्रनृत्यादि सेव्यते मुदितैर्जनैः ।7.20.8aक्वचिद्वादित्रनृत्तानि सेव्यन्ते मुदितैर्जनैः ।7.20.13aक्वचिद्रादित्रनृत्यादि सेव्यते मुदितैर्जनैः ।7.20.13aक्वचिद्वादित्रनृत्यादि सेव्यते मुदितैर्जनैः।
27#13bರುದ್ಯತೇ ಚಾಪರೈರಾರ್ತೈರ್ಧಾರಾಶ್ರುನಯನಾನನೈಃ ॥7.20.13bरुद्यते चापरैरार्तैर्धाराश्रुनयनाननैः ॥ १३ ॥7.20.8bरुद्यते चापरैरार्तैर्धाराश्रुनयनाननैः ॥7.20.8॥7.20.13bरुद्यते चापरैरार्तैर्धाराश्रुनयनाननैः ॥ १३ ॥7.20.13bरुद्यते चापरैरार्तैर्धाराश्रुनयनाननैः ॥ 7.20.13 ॥
28#14aಮಾತಾಪಿತೃ ಸುತಸ್ನೇಹಭಾರ್ಯಾಬಂಧುಮನೋರಮೈಃ ।7.20.14aमातापितृसुतस्नेहभार्याबन्धुमनोरमैः ।7.20.9aमाता पितृसुतस्नेहैर्भार्या बन्धुमनोरमैः ।7.20.14aमातापितृसुतस्नेहैर्भार्याबन्धुमनोरमैः ।7.20.14aमातापितृसुतस्नेहैर्भार्याबन्धुमनोरमैः।
29#14bಮೋಹಿತೋಯಂ ಜನೋ ಧ್ವಸ್ತಃ ಕ್ಲೇಶಂ ಸ್ವಂ ನಾವಬುಧ್ಯತೇ ॥7.20.14bमोहितोऽयं जनो ध्वस्तः क्लेशं स्वं नावबुध्यते ॥ १४ ॥7.20.9bमोहेनायं जनो ध्वस्तः क्लेशं स्वं नावबुध्यते ॥7.20.9॥7.20.14bमोहितोऽयं जनो ध्वस्तः कलेशं स्वं नावबुध्यते ॥ १४ ॥7.20.14bमोहितोऽयं जनो ध्वस्तः क्लेशं स्वं नावबुध्यते ॥ 7.20.14 ॥
30#15aತತ್ಕಿಮೇವಂ ಪರಿಕ್ಲಿಶ್ಯ ಲೋಕಂ ಮೋಹನಿರಾಕೃತಮ್ ।7.20.15aतत्किमेवं परिक्लिश्य लोकं मोहनिराकृतम् ।7.20.10aतत्किमेवं परिक्लिश्य लोकं मोहनिराकृतम् ।7.20.15aअलमेनं परिक्लिश्य लोकं मोहनिराकृतम् ।7.20.15aअलमेनं परिक्लिश्य लोकं मोहनिराकृतम्।
31#15bಜಿತ ಏವ ತ್ವಯಾ ಸೌಮ್ಯ ಮರ್ತ್ಯಲೋಕೋ ನಸಂಶಯಃ ॥7.20.15bजित एव त्वया सौम्य मर्त्यलोको न संशयः ॥ १५ ॥7.20.10bजित एव त्वया सौम्य मर्त्यलोको न संशयः ॥7.20.10॥7.20.15bजित एव त्वया सौम्य मर्त्यलोको न संशयः ॥ १५ ॥7.20.15bजित एव त्वया सौम्य मर्त्यलोको न संशयः ॥ 7.20.15 ॥
32#16aಅವಶ್ಯಮೇಭಿಃ ಸರ್ವೈಶ್ಚಗಂತವ್ಯಂ ಯಮಸಾದನಮ್ ।7.20.16aअवश्यमेभिः सर्वैश्च गन्तव्यं यमसादनम् ।7.20.16aअवश्यमेभिः सर्वेश्च गन्तव्यं यमसादनम् ।7.20.16aअवश्यमेभिः सर्वैश्च गन्तव्यं यमसादनम्।
33#16bತನ್ನಿಗೃಹ್ಣೀಷ್ವ ಪೌಲಸ್ತ್ಯ ಯಮಂ ಪರಪುರಂಜಯ ॥7.20.16bतन्निगृह्णीष्व पौलस्त्य यमं परपुरञ्जय ॥ १६ ॥7.20.16bतन्निगृह्णीष्व पौलस्त्य यमं परपुरंजय ॥ १६ ॥7.20.16bतन्निगृह्णीष्व पौलस्त्य यमं परपुरञ्जय ॥ 7.20.16 ॥
34#17aತಸ್ಮಿಂಜಿತೇ ಜಿತಂ ಸರ್ವಂ ಭವತ್ಯೇವ ನ ಸಂಶಯಃ ।7.20.17aतस्मिञ्जिते जितं सर्वं भवत्येव न संशयः ।7.20.17aतमिञ्जिते जितं सर्वं भवत्येव न संशयः ।
35#17bಏವಮುಕ್ತಸ್ತು ಲಂಕೇಶೋ ದೀಪ್ಯಮಾನಂ ಸ್ವತೇಜಸಾ ॥7.20.17bएवमुक्तस्तु लङ्केशो दीप्यमानं स्वतेजसा ॥ १७ ॥7.20.11aएवमुक्तस्तु लङ्केशो दीप्यमान इवौजसा ।7.20.17bएवमुक्तस्तु लंकेशो दीप्यमानं स्वतेजसा ।7.20.17aएवमुक्तस्तु लङ्केशो दीप्यमानं स्वतेजसा।
36#18aಅಬ್ರವೀನ್ನಾರದಂ ತತ್ರ ಸಂಪ್ರಹಸ್ಯಾಭಿವಾದ್ಯ ಚ ।7.20.18aअब्रवीन्नारदं तत्र सम्प्रहस्याभिवाद्य च ।7.20.11bअब्रवीन्नारदं तत्र संप्रहस्याभिवाद्य च ॥7.20.11॥7.20.17cअब्रवीन्नारदं तत्र संप्रहस्याभिवाद्य च ॥ १७ ॥7.20.17bअब्रवीन्नारदं तत्र सम्प्रहस्याभिवाद्य च ॥ 7.20.17 ॥
37#18bಮಹರ್ಷೇ ದೇವಗಂಧರ್ವವಿಹಾರ ಸಮರಪ್ರಿಯ ॥7.20.18bमहर्षे देवगन्धर्वविहार समरप्रिय ॥ १८ ॥7.20.12aमहर्षे देवगन्धर्वविहार समरप्रिय ।7.20.18aमहर्षे देवगन्धर्वविहार समरप्रिय ।7.20.18aमहर्षे देवगन्धर्वविहार समरप्रिय।
38#19aಅಹಂ ಸಮುದ್ಯತೋ ಗಂತುಂ ವಿಜಯಾರ್ಥಂ ರಸಾತಲಮ್ ।7.20.19aअहं समुद्यतो गन्तुं विजयार्थं रसातलम् ।7.20.12bअहं खलूद्यतो गन्तुं विजयार्थी रसातलम् ॥7.20.12॥7.20.18bअहं समुद्यतो गन्तुं विजयार्थं रसातलम् ॥ १८ ॥7.20.18bअहं समुद्यतो गन्तुं विजयार्थं रसातलम् ॥ 7.20.18 ॥
39#19bತತೋ ಲೋಕತ್ರಯಂ ಜಿತ್ವಾ ಸ್ಥಾಪ್ಯ ನಾಗಾನ್ಸುರಾನ್ವಶೇ ॥7.20.19bततो लोकत्रयं जित्वा स्थाप्य नागान् सुरान् वशे ॥ १९ ॥7.20.13aततो लोकत्रयं जित्वा स्थाप्य नागान्सुरान्वशे ।7.20.19aततो लोकत्रयं जित्वा स्थाप्य नागान्सुरान्वशे ।7.20.19aततो लोकत्रयं जित्वा स्थाप्य नागान्सुरान्वशे।
40#20aಸಮುದ್ರಮಮೃತಾರ್ಥಂ ಚ ಮಥಿಶ್ಯಾಮಿ ರಸಾಲಯಮ್ ।7.20.20aसमुद्रममृतार्थं च मथिष्यामि रसालयम् ।7.20.13bसमुद्रममृतार्थं वै मथिष्यामि रसालयम् ॥7.20.13॥7.20.19bसमुद्रममृतार्थं च मथिष्यामि रसालयम् ॥ १९ ॥7.20.19bसमुद्रममृतार्थं च मथिष्यामि रसालयम् ॥ 7.20.19 ॥
41#20bಅಥಾಬ್ರವೀದ್ದಶಗ್ರೀವಂ ನಾರದೋ ಭಗವಾನೃಷಿಃ ॥7.20.20bअथाब्रवीद् दशग्रीवं नारदो भगवानृषिः ॥ २० ॥7.20.14aअथाब्रवीद्दशग्रीवं नारदो भगवानृषिः ।7.20.20aअथाब्रवीद्दशग्रीवं नारदो भगवानृषिः ।7.20.20aअथाब्रवीदृशग्रीवं नारदो भगवानृषिः।
42#21aಕ್ವ ಖಲ್ವಿದಾನೀಂ ಮಾರ್ಗೇಣ ತ್ವಯೇಹಾನ್ಯೇನ ಗಮ್ಯತೇ ।7.20.21aक्व खल्विदानीं मार्गेण त्वयेहान्येन गम्यते ।7.20.14bक्व खल्विदानीं मार्गेण त्वयानेन गमिष्यते ॥7.20.14॥7.20.20bक खल्विदानीं मार्गेण त्वया ह्यन्येन गम्यते ॥ २० ॥7.20.20bक्व खल्विदानीं मार्गेण त्वया ह्यन्येन गम्यते ॥ 7.20.20 ॥
43#21bಅಯಂ ಖಲು ಸುದುರ್ಗಮ್ಯಃ ಪ್ರೇತರಾಜಪುರಂ ಪ್ರತಿ ॥7.20.21bअयं खलु सुदुर्गम्यः प्रेतराजपुरं प्रति ॥ २१ ॥7.20.15aअयं खलु सुदुर्गम्यः पितृराज्ञः पुरं प्रति ।7.20.21aअयं खलु सुदुर्गम्यः प्रेतराजपुरं प्रति ।7.20.21aअयं खलु सुदुर्गम्यः प्रेतराजपुरं प्रति।
44#22aಮಾರ್ಗೋ ಗಚ್ಛತಿ ದುರ್ಧರ್ಷ ಯಮಸ್ಯಾಮಿತ್ರಕರ್ಶನ ।7.20.22aमार्गो गच्छति दुर्धर्ष यमस्यामित्रकर्शन ।7.20.15bमार्गो गच्छति दुर्धर्षो यमस्यामित्रकर्शन ॥7.20.15॥7.20.21bमार्गों गच्छति दुर्धर्षो यमस्यामित्रकर्शन ॥ २१ ॥7.20.21bमार्गो गच्छति दुर्धर्षो यमस्यामित्रकर्शन ॥ 7.20.21 ॥
45#22bಸ ತು ಶಾರದಮೇಘಾಭಂ ಹಾಸಂಮುಕ್ತ್ವಾ ದಶಾನನಃ ॥7.20.22bस तु शारदमेघाभं हासं मुक्त्वा दशाननः ॥ २२ ॥7.20.16aस तु शारदमेघाभं मुक्त्वा हासं दशाननः ।7.20.22aस तु शारदमेघाभं हासं मुक्त्वा दशाननः ।7.20.22aस तु शारदमेघाभं हासं मुक्त्वा दशाननः।
46#23aಉವಾಚ ಕೃತಮಿತ್ಯೇವ ವಚನಂ ಚೇದಮಬ್ರವೀತ್ ।7.20.22aउवाच कृतमित्येव वचनं चेदमब्रवीत् ।7.20.16bउवाच कृतमित्येव वचनं चेदमब्रवीत् ॥7.20.16॥7.20.22bउवाच कृतमित्येव वचनं चेदमब्रवीत् ॥ २२ ॥7.20.22bउवाच कृतमित्येव वचनं चेदमब्रवीत् ॥ 7.20.22 ॥
47#23bತಸ್ಮಾದೇವಮಹಂ ಬ್ರಹ್ಮನ್ವೈವಸ್ವತವಧೋದ್ಯತಃ ॥7.20.22bतस्मादेवमहं ब्रह्मन् वैवस्वतवधोद्यतः ॥ २२ ॥7.20.17aतस्मादेष महाब्रह्मन्वैवस्वतवधोद्यतः ।7.20.23aतस्मादेवमहं ब्रह्मन्वैवस्वतवधोद्यतः ।7.20.23aतस्मादेवमहं ब्रह्मन् वैवस्वतवधोद्यतः।
48#24aಗಚ್ಛಾಮಿ ದಕ್ಷಿಣಾಮಾಶಾಂ ಯತ್ರ ಸೂರ್ಯಾತ್ಮಜೋ ನೃಪಃ ।7.20.24aगच्छामि दक्षिणामाशां यत्र सूर्यात्मजो नृपः ।7.20.17bगच्छामि दक्षिणामाशां यत्र सूर्यात्मजो नृपः ॥7.20.17॥7.20.23bगच्छामि दक्षिणामाशां यत्र सूर्यात्मजो नृपः ॥ २३ ॥7.20.23bगच्छामि दक्षिणामाशां यत्र सूर्यात्मजो नृपः ॥ 7.20.23 ॥
49#24bಮಯಾ ಹಿ ಭಗವನ್ಕ್ರೋಧಾತ್ಪ್ರತಿಜ್ಞಾತಂ ರಣಾರ್ಥಿನಾ ॥7.20.24bमया हि भगवन् क्रोधात् प्रतिज्ञातं रणार्थिना ॥ २४ ॥7.20.18aमया हि भगवन्क्रोधात्प्रतिज्ञातं रणार्थिना ।7.20.24aमया हि भगवन्क्रोधात्प्रतिज्ञातं रणार्थिना ।7.20.24aमया हि भगवन्क्रोधात्प्रतिज्ञातं रणार्थिना।
50#25aಅವಜೇಷ್ಯಾಮಿ ಚತುರೋ ಲೋಕಪಾಲಾನಿತಿ ಪ್ರಭೋ ।7.20.25aअवजेष्यामि चतुरो लोकपालानिति प्रभो ।7.20.18bअवजेष्यामि चतुरो लोकपालानिति प्रभो ॥7.20.18॥7.20.24bअवजेष्यामि चतुरो लोकपालानिति प्रभो ॥ २४ ॥7.20.24bअवजेष्यामि चतुरो लोकपालानिति प्रभो ॥ 7.20.24 ॥
51#25bತದಿಹ ಪ್ರಸ್ಥಿತೋಹಂ ವೈ ಪಿತೃರಾಜಪುರಂ ಪ್ರತಿ ॥7.20.25bतदिह प्रस्थितोऽहं वै पितृराजपुरं प्रति ॥ २५ ॥7.20.19aतेनैष प्रस्थितोऽहं वै पितृराजपुरं प्रति ।7.20.25aतदिह प्रस्थितोऽहं वै प्रेतराजपुरं प्रति ।7.20.25aतदिह प्रस्थितोऽहं वै प्रेतराजपुरं प्रति।
52#26aಪ್ರಾಣಿಸಂಕ್ಲೇಶಕರ್ತಾರಂ ಯೋಜಯಿಷ್ಯಾಮಿ ಮೃತ್ಯುನಾ ।7.20.26aप्राणिसङ्क्लेशकर्तारं योजयिष्यामि मृत्युना ।7.20.19bप्राणिसंक्लेशकर्तारं योजयिष्यामि मृत्युना ॥7.20.19॥7.20.25bप्राणिसंक्लेशकर्तारं योजयिष्यामि मृत्युना ॥ २५ ॥7.20.25bप्राणिसङ्क्लेशकर्तारं योजयिष्यामि मृत्युना ॥ 7.20.25 ॥
53#26bಏವಮುಕ್ತ್ವಾ ದಶಗ್ರೀವೋ ಮುನಿಂ ತಮಭಿವಾದ್ಯ ಚ ॥7.20.26bएवमुक्त्वा दशग्रीवो मुनिं तमभिवाद्य च ॥ २६ ॥7.20.20aएवमुक्त्वा दशग्रीवो मुनिं तमभिवाद्य च ।7.20.26aएवमुक्त्वा दशग्रीवो मुनिं तमभिवाद्य च ।7.20.26aएवमुक्त्वा दशग्रीवो मुनिं तमभिवाद्य च।
54#27aಪ್ರಯಯೌ ದಕ್ಷಿಣಾಮಾಶಾಂ ಪ್ರವಿಷ್ಟಃ ಸಹ ಮಂತ್ರಿಭಿಃ ।7.20.27aप्रययौ दक्षिणामाशां प्रविष्टः सह मन्त्रिभिः ।7.20.20bप्रययौ दक्षिणामाशां प्रहृष्टैः सह मन्त्रिभिः ॥7.20.20॥7.20.26bप्रययौ दक्षिणामाशां प्रहृष्टः सह मन्त्रिभिः ॥ २६ ॥7.20.26bप्रययौ दक्षिणामाशां प्रविष्टः सह मन्त्रिभिः ॥ 7.20.26 ॥
55#27bನಾರದಸ್ತು ಮಹಾತೇಜಾ ಮುಹೂರ್ತಂ ಧ್ಯಾನಮಾಸ್ಥಿತಃ ॥7.20.27bनारदस्तु महातेजा मुहूर्तं ध्यानमास्थितः ॥ २७ ॥7.20.21aनारदस्तु महातेजा मुहूर्तं ध्यानमास्थितः ।7.20.27aनारदस्तु महातेजा मुहूर्तं ध्यानमास्थितः ।7.20.27aनारदस्तु महातेजा मुहूर्तं ध्यानमास्थितः।
56#28aಚಿಂತಯಾಮಾಸ ವಿಪ್ರೇಂದ್ರೋ ವಿಧೂಮ ಇವ ಪಾವಕಃ ।7.20.28aचिन्तयामास विप्रेन्द्रो विधूम इव पावकः ।7.20.21bचिन्तयामास विप्रेन्द्रो विधूम इव पावकः ॥7.20.21॥7.20.27bचिन्तयामास विप्रेन्द्रो विधूम इव पावकः ॥ २७ ॥7.20.27bचिन्तयामास विप्रेन्द्रो विधूम इव पावकः ॥ 7.20.27 ॥
57#28bಯೇನ ಲೋಕಾಸಯಃ ಸೇಂದ್ರಾಃ ಕ್ಲಿಶ್ಯಂತೇ ಸಚರಾಚರಾಃ ॥7.20.28bयेन लोकास्त्रयः सेन्द्राः क्लिश्यन्ते सचराचराः ॥ २८ ॥7.20.22aयेन लोकास्त्रयः सेन्द्राः क्लिश्यन्ते सचराचराः ।7.20.28aयेन लोकास्त्रयः सेन्द्राः क्लिश्यन्ते सचराचराः ।7.20.28aयेन लोकास्त्रयः सेन्द्राः क्लिश्यन्ते सचराचराः।
58#29aಕ್ಷೀಣೇ ಚಾಯುಷಿ ಧರ್ಮೇಣ ಸ ಕಾಲೋ ಜೇಷ್ಯತೇ ಕಥಮ್ ।7.20.29aक्षीणे चायुषि धर्मेण स कालो जेष्यते कथम् ।7.20.22bक्षीणे चायुषि धर्मे च स कालो हिंस्यते कथम् ॥7.20.22॥7.20.28bक्षीणे चायुषि धर्मेण स कालो जेष्यते कथम् ॥ २८ ॥7.20.28bक्षीणे चायुषि धर्मेण स कालो जेष्यते कथम् ॥ 7.20.28 ॥
59#29bಸ್ವದತ್ತಕೃತಸಾಕ್ಷೀ ಯೋ ದ್ವಿತೀಯ ಇವ ಪಾವಕಃ ॥7.20.29bस्वदत्तकृतसाक्षी यो द्वितीय इव पावकः ॥ २९ ॥7.20.29aस्वदत्तकृत साक्षी यो द्वितीय इव पावकः ।7.20.29aस्वदत्तकृतसाक्षी यो द्वितीय इव पावकः।
60#30aಲಬ್ಧಸಂಜ್ಞಾ ವಿಚೇಷ್ಟಂತೇ ಲೋಕಾ ಯಸ್ಯ ಮಹಾತ್ಮನಃ ।7.20.30aलब्धसञ्ज्ञा विचेष्टन्ते लोका यस्य महात्मनः ।7.20.29bलब्धसंज्ञा विजेष्यन्ते लोका यस्य महात्मनः ॥ २९ ॥7.20.29bलब्धसञ्ज्ञा विजेष्यन्ते लोका यस्य महात्मनः ॥ 7.20.29 ॥
61#30bಯಸ್ಯ ನಿತ್ಯಂ ತ್ರಯೋ ಲೋಕಾ ವಿದ್ರವಂತಿ ಭಯಾರ್ದಿತಾಃ ॥7.20.30bयस्य नित्यं त्रयो लोका विद्रवन्ति भयार्दिताः ॥ ३० ॥7.20.23aयस्य नित्यं त्रयो लोका विद्रवन्ति भयार्दिताः ।7.20.30aयस्य नित्यं त्रयो लोका विद्रवन्ति भयार्दिताः ।7.20.30aयस्य नित्यं त्रयो लोका विद्रवन्ति भयार्दिताः।
62#31aತಂ ಕಥಂ ರಾಕ್ಷಸೇಂದ್ರೋಸೌ ಸ್ವಯಮೇವ ಗಮಿಷ್ಯತಿ ।7.20.31aतं कथं राक्षसेन्द्रोऽसौ स्वयमेव गमिष्यति ।7.20.23bतं कथं राक्षसेन्द्रोऽसौ स्वयमेवाभिगच्छति ॥7.20.23॥7.20.30bतं कथं राक्षसेन्द्रोसौ स्वयमेव गमिष्यति ॥ ३० ॥7.20.30bतं कथं राक्षसेन्द्रोऽसौ स्वयमेव गमिष्यति ॥ 7.20.30 ॥
63#31bಯೋ ವಿಧಾತಾ ಚ ಧಾತಾ ಚ ಸುಕೃತಂ ದುಷ್ಕೃತಂ ತಥಾ ॥7.20.31bयो विधाता च धाता च सुकृतं दुष्कृतं तथा ॥ ३१ ॥7.20.24aयो विधाता च धाता च सुकृते दुष्कृते यथा ।7.20.31aयो विधाता च धाता च सुकृतं दुष्कृतं तथा ।7.20.31aयो विधाता च धाता च सुकृतं दुष्कृतं तथा।
64#32aತ್ರೈಲೋಕ್ಯಂ ವಿಜಿತಂ ಯೇನ ತಂ ಕಥಂ ವಿಜಯಿಷ್ಯತೇ ।7.20.32aत्रैलोक्यं विजितं येन तं कथं विजयिष्यते ।7.20.24bत्रैलोक्यं विजितं येन तं कथं नु विजेष्यति ॥7.20.24॥7.20.31bत्रैलोक्यं विजितं येन तं कथं विजयिष्यते ॥ ३१ ॥7.20.31bत्रैलोक्यं विजितं येन तं कथं विजयिष्यते ॥ 7.20.31 ॥
65#32bಅಪರಂ ಕಿಂ ತು ಕೃತ್ವೈವಂ ವಿಧಾನಂ ಸಂವಿಧಾಸ್ಯತಿ ॥7.20.32bअपरं किं तु कृत्वैवं विधानं संविधास्यति ॥ ३२ ॥7.20.25aअपरं किं नु कृत्वैवं विधानं संविधास्यति ।7.20.32aअपरं किंतु कृत्वाऽयं विधानं संविधास्यति ।7.20.32aअपरं किन्तु कृत्वायं विधानं संविधास्यति।
66#33aಕೌತೂಹಲಂ ಸಮುತ್ಪನ್ನೋ ಯಾಸ್ಯಾಮಿ ಯಮಸಾದನಮ್ ।7.20.33aकौतूहलं समुत्पन्नो यास्यामि यमसादनम् ।7.20.25bकौतूहलसमुत्पन्नो यास्यामि यमसादनम् ॥7.20.25॥7.20.32bकौतूहलसमुत्पन्नो यास्यामि यमसादनम् ।7.20.32bकौतूहलसमुत्पन्नो यास्यामि यमसादनम् ॥ 7.20.32 ॥
67#33bವಿಮರ್ದಂ ದ್ರಷ್ಟುಮನಯೋರ್ಯಮರಾಕ್ಷಸಯೋಃ ಸ್ವಯಮ್ ॥7.20.33bविमर्दं द्रष्टुमनयोर्यमराक्षसयोः स्वयम् ॥ ३३ ॥7.20.32cविमर्दं द्रष्टुमनयोर्यमराक्षसयोः स्वयम् ॥ ३२ ॥7.20.33विमर्दं द्रष्टुमनयोर्यमराक्षसयोः स्वयम् ॥ 7.20.33 ॥
687.20.20इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने विंशः सर्गः ॥ २० ॥