मरुत्त-पराजयः. Built from structured/verses.jsonl. Rows are monotone-aligned half-verse/pāda-like units split at । and ॥, so verse-number boundary differences can appear as inserted or shifted line rows.
75 aligned line rows across 7 source streams.
gor-kn 71 lines
gor-hi 71 lines
crit 67 lines
gr 51 lines
dr-mula 71 lines
| # | gor-kn | gor-hi | crit | gr | dr-mula | gr-iitk | iitk |
|---|---|---|---|---|---|---|---|
| 1 | #1aಪ್ರವಿಷ್ಟಾಯಾಂ ಹುತಾಶಂ ತು ವೇದವತ್ಯಾಂ ಸ ರಾವಣಃ । | 7.18.1aप्रविष्टायां हुताशं तु वेदवत्यां स रावणः । | 7.18.1aप्रविष्टायां हुताशं तु वेदवत्यां स रावणः । | 7.18.1aप्रविष्टायां हुताशं तु वेदवत्यां स रावणः । | 7.18.1aप्रविष्टायां हुताशं तु वेदवत्यां स रावणः। | ||
| 2 | #1bಪುಷ್ಪಕಂ ತು ಸಮಾರುಹ್ಯ ಪರಿಚಕ್ರಾಮ ಮೇದಿನೀಮ್ ॥ | 7.18.1bपुष्पकं तु समारुह्य परिचक्राम मेदिनीम् ॥ १ ॥ | 7.18.1bपुष्पकं तत्समारुह्य परिचक्राम मेदिनीम् ॥7.18.1॥ | 7.18.1bपुष्पकं तु समारुह्य परिचक्राम मेदिनीम् ॥ १ ॥ | 7.18.1bपुष्पकं तु समारुह्य परिचक्राम मेदिनीम् ॥ 7.18.1 ॥ | ||
| 3 | #2aತತೋ ಮರುತ್ತಂ ನೃಪತಿಂ ಯಜಂತಂ ಸಹ ದೈವತೈಃ । | 7.18.2aततो मरुत्तं नृपतिं यजन्तं सह दैवतैः । | 7.18.2aततो मरुत्तं नृपतिं यजन्तं सह दैवतैः । | 7.18.2aततो मरुत्तं नृपतिं यजन्तं सह दैवतैः । | 7.18.2aततो मरुत्तं नृपतिं यजन्तं सह दैवतैः। | ||
| 4 | #2bಉಶೀರಬೀಜಮಾಸಾದ್ಯ ದದರ್ಶ ಸ ತು ರಾವಣಃ ॥ | 7.18.2bउशीरबीजमासाद्य ददर्श स तु रावणः ॥ २ ॥ | 7.18.2bउशीरबीजमासाद्य ददर्श स तु राक्षसः ॥7.18.2॥ | 7.18.2bउशीरबीजमासाद्य ददर्श स तु रावणः ॥ २ ॥ | 7.18.2bउशीरबीजमासाद्य ददर्श स तु रावणः ॥ 7.18.2 ॥ | ||
| 5 | #3aಸಂವರ್ತೋ ನಾಮ ಬ್ರಹ್ಮರ್ಷಿಃ ಸಾಕ್ಷಾದ್ ಭ್ರಾತಾ ಬೃಹಸ್ಪತೇಃ । | 7.18.3aसंवर्तो नाम ब्रह्मर्षिः साक्षाद् भ्राता बृहस्पतेः । | 7.18.3aसंवर्तो नाम ब्रह्मर्षिर्भ्राता साक्षाद्बृहस्पतेः । | 7.18.3aसंवर्तो नाम ब्रह्मर्षिः साक्षाद्भ्राता बृहस्पतेः । | 7.18.3aसंवर्तो नाम ब्रह्मर्षिः साक्षाद्भ्राता बृहस्पतेः। | ||
| 6 | #3bಯಾಜಯಾಮಾಸ ಧರ್ಮಜ್ಞಃ ಸರ್ವೈರ್ದೇವ ಗಣೈರ್ವೃತಃ ॥ | 7.18.3bयाजयामास धर्मज्ञः सर्वैर्देवगणैर्वृतः ॥ ३ ॥ | 7.18.3bयाजयामास धर्मज्ञः सर्वैर्ब्रह्मगणैर्वृतः ॥7.18.3॥ | 7.18.3bयाजयामास धर्मज्ञः सर्वैर्देवगणैर्वृतः ॥ ३ ॥ | 7.18.3bयाजयामास धर्मज्ञः सर्वैर्देवगणैर्वृतः ॥ 7.18.3 ॥ | ||
| 7 | #4aದೃಷ್ಟ್ವಾ ದೇವಾಸ್ತು ತದ್ರಕ್ಷೋ ವರದಾನೇನ ದುರ್ಜಯಮ್ । | 7.18.4aदृष्ट्वा देवास्तु तद् रक्षो वरदानेन दुर्जयम् । | 7.18.4aदृष्ट्वा देवास्तु तद्रक्षो वरदानेन दुर्जयम् । | 7.18.4aदृष्ट्वा देवास्तु तद्रक्षो वरदानेन दुर्जयम् । | 7.18.4aदृष्ट्वा देवास्तु तद्रक्षो वरदानेन दुर्जयम्। | ||
| 8 | 7.18.4bतां तां योनिं समापन्नास्तस्य धर्षणभीरवः ॥7.18.4॥ | ||||||
| 9 | #4bತಿರ್ಯಗ್ಯೋನಿಂ ಸಮಾವಿಷ್ಟಾಸ್ತಸ್ಯ ಧರ್ಷಣಭೀರವಃ ॥ | 7.18.4bतिर्यग्योनिं समाविष्टास्तस्य धर्षणभीरवः ॥ ४ ॥ | 7.18.4bतिर्यग्योनिं समाविष्टास्तस्य दर्शनभीरवः ॥ ४ ॥ | 7.18.4bतिर्यग्योनिं समाविष्टास्तस्य दर्शनभीरवः ॥ 7.18.4 ॥ | |||
| 10 | #5aಇಂದ್ರೋ ಮಯೂರಃ ಸಂವೃತ್ತೋ ಧರ್ಮರಾಜಸ್ತು ವಾಯಸಃ । | 7.18.5aइन्द्रो मयूरः संवृत्तो धर्मराजस्तु वायसः । | 7.18.5aइन्द्रो मयूरः संवृत्तो धर्मराजस्तु वायसः । | 7.18.5aइन्द्रो मयूरः संवृत्तो धर्मराजस्तु वायसः । | 7.18.5aइन्द्रो मयूरः संवृत्तो धर्मराजस्तु वायसः। | ||
| 11 | #5bಕೃಕಲಾಸೋ ಧನಾಧ್ಯಕ್ಷೋ ಹಂಸಶ್ಚ ಮರುಣೋಭವತ್ ॥ | 7.18.5bकृकलासो धनाध्यक्षो हंसश्च वरुणोऽभवत् ॥ ५ ॥ | 7.18.5bकृकलासो धनाध्यक्षो हंसो वै वरुणोऽभवत् ॥7.18.5॥ | 7.18.5bकृकलासो धनाध्यक्षो हंसश्च वरुणोऽभवत् ॥ ५ ॥ | 7.18.5bकृकलासो धनाध्यक्षो हंसश्च वरुणोऽभवत् ॥ 7.18.5 ॥ | ||
| 12 | #6aಅನ್ಯೇಷ್ವಪಿ ಗತೇಷ್ವೇವಂ ದೇವೇಷ್ವರಿನಿಷೂದನ । | 7.18.6aअन्वेष्वपि गतेष्वेवं देवेष्वरिनिषूदन । | 7.18.6aअन्येष्वपि गतेष्वेवं देवेष्वरिनिषूदन । | 7.18.6aअन्येष्वपि गतेष्वेवं देवेष्वरिनिषूदन। | |||
| 13 | #6bರಾವಣಃ ಪ್ರಾವಿಶದ್ಯಜ್ಞಂ ಸಾರಮೇಯ ಇವಾಶುಚಿಃ ॥ | 7.18.6bरावणः प्राविशद् यज्ञं सारमेय इवाशुचिः ॥ ६ ॥ | 7.18.6bरावणः प्राविशद्यज्ञं सारमेय इवाशुचिः ॥ ६ ॥ | 7.18.6bरावणः प्राविशद्यज्ञं सारमेय इवाशुचिः ॥ 7.18.6 ॥ | |||
| 14 | #7aತಂ ಚ ರಾಜಾನಮಾಸಾದ್ಯ ರಾವಣೋ ರಾಕ್ಷಸಾಧಿಪಃ । | 7.18.7aतं च राजानमासाद्य रावणो राक्षसाधिपः । | 7.18.6aतं च राजानमासाद्य रावणो राक्षसाधिपः । | 7.18.7aतं च राजा समासाद्य रावणो राक्षसाधिपः । | 7.18.7aतं च राजानमासाद्य रावणो राक्षसाधिपः। | ||
| 15 | #7bಪ್ರಾಹ ಯುದ್ಧಂ ಪ್ರಯಚ್ಛೇತಿ ನಿರ್ಜಿತೋಽಸ್ಮೀತಿ ವಾ ವದ ॥ | 7.18.7bप्राह युद्धं प्रयच्छेति निर्जितोऽस्मीति वा वद ॥ ७ ॥ | 7.18.6bप्राह युद्धं प्रयच्चेति निर्जितोऽस्मीति वा वद ॥7.18.6॥ | 7.18.7bप्राह युद्धं प्रयच्छेति निर्जितोस्मीति वा वद ॥ ७ ॥ | 7.18.7bप्राह युद्धं प्रयच्छेति निर्जितोऽस्मीति वा वद ॥ 7.18.7 ॥ | ||
| 16 | #8aತತೋ ಮರುತ್ತೋ ನೃಪತಿಃ ಕೋ ಭವಾನಿತ್ಯುವಾಚ ತಮ್ । | 7.18.8aततो मरुत्तो नृपतिः को भवानित्युवाच तम् । | 7.18.7aततो मरुत्तो नृपतिः को भवानित्युवाच तम् । | 7.18.8aततो मरुत्तो नृपतिः को भवानित्युवाच तम् । | 7.18.8aततो मरुत्तो नृपतिः को भवानित्युवाच तम्। | ||
| 17 | #8bಅವಹಾಸಂ ತತೋ ಮುಕ್ತ್ವಾ ರಾವಣೋ ವಾಕ್ಯಮಬ್ರವೀತ್ ॥ | 7.18.8bअवहासं ततो मुक्त्वा रावणो वाक्यमब्रवीत् ॥ ८ ॥ | 7.18.7bअवहासं ततो मुक्त्वा राक्षसो वाक्यमब्रवीत् ॥7.18.7॥ | 7.18.8bअपहासं ततो मुक्त्वा रावणो वाक्यमब्रवीत् ॥ ८ ॥ | 7.18.8bअपहासं ततो मुक्त्वा रावणो वाक्यमब्रवीत् ॥ 7.18.8 ॥ | ||
| 18 | #9aಅಕುತೂಹಲಭಾವೇನ ಪ್ರೀತೋಽಸ್ಮಿ ತವ ಪಾರ್ಥಿವ । | 7.18.9aअकुतूहलभावेन प्रीतोऽस्मि तव पार्थिव । | 7.18.8aअकुतूहलभावेन प्रीतोऽस्मि तव पार्थिव । | 7.18.9aअकुतूहलभावेन प्रीतोस्मि तव पार्थिव । | 7.18.9aअकुतूहलभावेन प्रीतोऽस्मि तव पार्थिव। | ||
| 19 | #9bಧನದಸ್ಯಾನುಜಂ ಯೋ ಮಾಂ ನಾವಗಚ್ಛಸಿ ರಾವಣಮ್ ॥ | 7.18.9bधनदस्यानुजं यो मां नावगच्छसि रावणम् ॥ ९ ॥ | 7.18.8bधनदस्यानुजं यो मां नावगच्छसि रावणम् ॥7.18.8॥ | 7.18.9bधनदस्यानुजं यो मां नावगच्छसि रावणम् ॥ ९ ॥ | 7.18.9bधनदस्यानुजं यो मां नावगच्छसि रावणम् ॥ 7.18.9 ॥ | ||
| 20 | #10aತ್ರಿಷು ಲೋಕೇಷು ಕೋಽನ್ಯೋಽಸ್ತಿ ಯೋ ನ ಜಾನಾತಿ ಮೇ ಬಲಮ್ । | 7.18.10aत्रिषु लोकेषु कोऽन्योऽस्ति यो न जानाति मे बलम् । | 7.18.9aत्रिषु लोकेषु कः सोऽस्ति यो न जानाति मे बलम् । | 7.18.10aत्रिषु लोकेषु कोऽन्योस्ति यो न जानाति मे बलम् । | |||
| 21 | #10bಭ್ರಾತರಂ ಯೇನ ನಿರ್ಜಿತ್ಯ ವಿಮಾನಮಿದಮಾಹೃತಮ್ ॥ | 7.18.10bभ्रातरं येन निर्जित्य विमानमिदमाहृतम् ॥ १० ॥ | 7.18.9bभ्रातरं येन निर्जित्य विमानमिदमाहृतम् ॥7.18.9॥ | 7.18.10bभ्रातरं येन निर्जित्य विमानमिदमाहृतम् । | 7.18.10aभ्रातरं येन निर्जित्य विमानमिदमाहृतम्। | ||
| 22 | #11aತತೋ ಮರುತ್ತಃ ಸ ನೃಪಸ್ತಂ ರಾವಣಮಥಾಬ್ರವೀತ್ । | 7.18.11aततो मरुत्तः स नृपस्तं रावणमथाब्रवीत् । | 7.18.10aततो मरुत्तो नृपतिस्तं राक्षसमथाब्रवीत् । | 7.18.10cततो मरुत्तः स नृपस्तं रावणमथाब्रवीत् ॥ १० ॥ | 7.18.10bततो मरुत्तः स नृपस्तं रावणमथाब्रवीत् ॥ 7.18.10 ॥ | ||
| 23 | #11bಧನ್ಯಃ ಖಲು ಭವಾನ್ಯೇನ ಜ್ಯೇಷ್ಠೋ ಭ್ರಾತಾರಣೇ ಜಿತಃ ॥ | 7.18.11bधन्यः खलु भवान् येन ज्येष्ठो भ्राता रणे जितः ॥ ११ ॥ | 7.18.10bधन्यः खलु भवान्येन ज्येष्ठो भ्राता रणे जितः ॥7.18.10॥ | 7.18.11aधन्यः खलु भवान्येन ज्येष्ठो भ्राता रणे जितः । | 7.18.11aधन्यः खलु भवान्येन ज्येष्ठो भ्राता रणे जितः। | ||
| 24 | #12aನ ತ್ವಯಾ ಸದೃಶಃ ಶ್ಲಾಘ್ಯಸ್ತ್ರಿಷು ಲೋಕೇಷು ವಿದ್ಯತೇ । | 7.18.12aन त्वया सदृशः श्लाघ्यस्त्रिषु लोकेषु विद्यते । | 7.18.11bन त्वया सदृशः श्लाघ्यस्त्रिषु लोकेषु विद्यते ॥ ११ ॥ | 7.18.11bन त्वया सदृशः श्लाध्यस्त्रिषु लोकेषु विद्यते ॥ 7.18.11 ॥ | |||
| 25 | 7.18.11aनाधर्मसहितं श्लाघ्यं न लोकप्रतिसंहितम् । | 7.18.12aनाधर्मसहितं श्लाघ्यं तल्लोकं प्रतिसंहितम् । | 7.18.12aनाधर्मसहितं श्लाध्यं तल्लोकं प्रतिसंहितम्। | ||||
| 26 | 7.18.11bकर्म दौरात्म्यकं कृत्वा श्लाघसे भ्रातृनिर्जयात् ॥7.18.11॥ | 7.18.12bकर्म दौरात्म्यकं कृत्वा श्लाघ्यसे भ्रातृनिर्जयात् ॥ १२ ॥ | 7.18.12bकर्म दौरात्म्यकं कृत्वा श्लाघ्यसे भ्रातृनिर्जयात् ॥ 7.18.12 ॥ | ||||
| 27 | #12bಕಂ ತ್ವಂ ಪ್ರಾಕ್ಕೇವಲಂ ಧರ್ಮಂ ಚರಿತ್ವಾ ಲಬ್ಧವಾನ್ ವರಮ್ ॥ | 7.18.12bकं त्वं प्राक् केवलं धर्मं चरित्वा लब्धवान् वरम् ॥ १२ ॥ | 7.18.12aकिं त्वं प्राक्केवलं धर्मं चरित्वा लब्धवान्वरम् । | 7.18.13aकं त्वं प्राक्केवलं धर्मं चरित्वा लब्धवान्वरम् । | 7.18.13aक त्वं प्राक्केवलं धर्मं चरित्वा लब्धवान्वरम्। | ||
| 28 | #13aಶ್ರುತಪೂರ್ವಂ ಹಿ ನ ಮಯಾ ಭಾಷಸೇ ಯಾದೃಶಂ ಸ್ವಯಮ್ । | 7.18.13aश्रुतपूर्वं हि न मया भाषसे यादृशं स्वयम् । | 7.18.12bश्रुतपूर्वं हि न मया यादृशं भाषसे स्वयम् ॥7.18.12॥ | 7.18.13bश्रुतपूर्वं हि न मया भाषसे यादृशं स्वयम् ॥ १३ ॥ | 7.18.13bश्रूतपूर्वं हि न मया भाषसे यादृशं स्वयम् ॥ 7.18.13 ॥ | ||
| 29 | #13bತಿಷ್ಠೇದಾನೀಂ ನ ಮೇ ಜೀವನ್ಪ್ರತಿಯಾಸ್ಯಸಿ ದುರ್ಮತೇ ॥ | 7.18.13bतिष्ठेदानीं न मे जीवन् प्रतियास्यसि दुर्मते ॥ १३ ॥ | 7.18.14aतिष्ठेदानीं न मे जीवन्प्रतियास्यसि दुर्मते । | 7.18.14aतिष्ठेदानीं न मे जीवन्प्रतियास्यसि दुर्मते। | |||
| 30 | #14aಅದ್ಯ ತ್ವಾಂ ನಿಶಿತೈರ್ಬಾಣೈಃ ಪ್ರೇಷಯಾಮಿ ಯಮಕ್ಷಯಮ್ । | 7.18.14aअद्य त्वां निशितैर्बाणैः प्रेषयामि यमक्षयम् । | 7.18.14bअद्य त्वां निशितैर्बाणैः प्रेषयामि यमक्षयम् ॥ १४ ॥ | 7.18.14bअद्य त्वां निशितैर्बाणैः प्रेषयामि यमक्षयम् ॥ 7.18.14 ॥ | |||
| 31 | #14bತತಃ ಶರಾಸನಂ ಗೃಹ್ಯ ಸಾಯಕಾಂಶ್ಚ ನರಾಧಿಪಃ ॥ | 7.18.14bततः शरासनं गृह्य सायकांश्च नराधिपः ॥ १४ ॥ | 7.18.13aततः शरासनं गृह्य सायकांश्च स पार्थिवः । | 7.18.15aततः शरासनं गृह्य सायकांश्च नराधिपः । | 7.18.15aततः शरासनं गृह्य सायकांश्च नराधिपः। | ||
| 32 | #15aರಣಾಯ ನಿರ್ಯಯೌ ಕ್ರುದ್ಧಃ ಸಂವರ್ತೋ ಮಾರ್ಗಮಾವೃಣೋತ್ । | 7.18.15aरणाय निर्ययौ क्रुद्धः संवर्तो मार्गमावृणोत् । | 7.18.13bरणाय निर्ययौ क्रुद्धः संवर्तो मार्गमावृणोत् ॥7.18.13॥ | 7.18.15bरणाय निर्ययौ क्रुद्धः संवर्तो मार्गमावृणोत् ॥ १५ ॥ | 7.18.15bरणाय निर्ययौ क्रुद्धः संवर्तो मार्गमावृणोत् ॥ 7.18.15 ॥ | ||
| 33 | #15bಸೋಽಬ್ರವೀತ್ ಸ್ನೇಹ ಸಂಯುಕ್ತಂ ಮರುತ್ತಂ ತಂ ಮಹಾನೃಷಿಃ ॥ | 7.18.15bसोऽब्रवीत् स्नेहसंयुक्तं मरुत्तं तं महानृषिः ॥ १५ ॥ | 7.18.14aसोऽब्रवीत्स्नेहसंयुक्तं मरुत्तं तं महानृषिः । | 7.18.16aसोब्रवीत्स्नेहसंयुक्तं मरुत्तं तं महानृषिः । | 7.18.16aसोऽब्रवीत्स्नेहसंयुक्तं मरुत्तं तं महानृषिः। | ||
| 34 | #16aಶ್ರೋತವ್ಯಂ ಯದಿ ಮದ್ವಾಕ್ಯಂ ಸಂಪ್ರಹಾರೋ ನ ತೇ ಕ್ಷಮಃ । | 7.18.16aश्रोतव्यं यदि मद्वाक्यं सम्प्रहारो न ते क्षमः । | 7.18.14bश्रोतव्यं यदि मद्वाक्यं संप्रहारो न ते क्षमः ॥7.18.14॥ | 7.18.16bश्रोतव्यं यदि मद्वाक्यं संप्रहारो न ते क्षमः ॥ १६ ॥ | 7.18.16bश्रोतव्यं यदि मद्वाक्यं सम्प्रहारो न ते क्षमः ॥ 7.18.16 ॥ | ||
| 35 | #16bಮಾಹೇಶ್ವರಮಿದಂ ಸತ್ರಮಸಮಾಪ್ತಂ ಕುಲಂ ದಹೇತ್ ॥ | 7.18.16bमाहेश्वरमिदं सत्रमसमाप्तं कुलं दहेत् ॥ १६ ॥ | 7.18.15aमाहेश्वरमिदं सत्रमसमाप्तं कुलं दहेत् । | 7.18.17माहेश्वरमिदं सत्रमलमाप्तं कुलं दहेत् ॥ १७ ॥ | 7.18.17माहेश्वरमिदं सत्रमसमाप्तं कुलं दहेत् ॥ 7.18.17 ॥ | ||
| 36 | #17aದೀಕ್ಷಿತಸ್ಯ ಕುತೋ ಯುದ್ಧಂ ಕ್ರೋಧತ್ವಂ ದೀಕ್ಷಿತೇ ಕುತಃ । | 7.18.17aदीक्षितस्य कुतो युद्धं क्रोधित्वं दीक्षिते कुतः । | 7.18.15bदीक्षितस्य कुतो युद्धं क्रूरत्वं दीक्षिते कुतः ॥7.18.15॥ | 7.18.18aदीक्षितस्य कुतो युद्धं क्रोधित्वं दीक्षिते कुतः । | 7.18.18aदीक्षितस्य कुतो युद्धं क्रोधित्वं दीक्षिते कुतः। | ||
| 37 | #17bಸಂಶಯಶ್ಚ ಜಯೇ ನಿತ್ಯಂ ರಾಕ್ಷಸಶ್ಚ ಸುದುರ್ಜಯಃ ॥ | 7.18.17bसंशयश्च जये नित्यं राक्षसश्च सुदुर्जयः ॥ १७ ॥ | 7.18.16aसंशयश्च रणे नित्यं राक्षसश्चैष दुर्जयः । | 7.18.18bसंशयश्च जये नित्यं राक्षसश्च सुदुर्जयः ॥ १८ ॥ | 7.18.18bसंशयश्च जये नित्यं राक्षसश्च सुदुर्जयः ॥ 7.18.18 ॥ | ||
| 38 | #18aಸ ನಿವೃತ್ತೋ ಗುರೋರ್ವಾಕ್ಯಾನ್ಮರುತ್ತಃ ಪೃಥಿವೀಪತಿಃ । | 7.18.18aस निवृत्तो गुरोर्वाक्यान्मरुत्तः पृथिवीपतिः । | 7.18.16bस निवृत्तो गुरोर्वाक्यान्मरुत्तः पृथिवीपतिः । | 7.18.19aस निवृत्तो गुरोर्वाक्यान्मरुत्तः पृथिवीपतिः । | 7.18.19aस निवृत्तो गुरोर्वाक्यान्मरुत्तः पृथिवीपतिः। | ||
| 39 | #18bವಿಸೃಜ್ಯ ಸಶರಂ ಚಾಪಂ ಸ್ವಸ್ಥೋ ಮಖಮುಖೋಽಭವತ್ ॥ | 7.18.18bविसृज्य सशरं चापं स्वस्थो मखमुखोऽभवत् ॥ १८ ॥ | 7.18.16cविसृज्य सशरं चापं स्वस्थो मखमुखोऽभवत् ॥7.18.16॥ | 7.18.19bविसृज्य सशरं चापं स्वस्थो मखमुखोऽभवत् ॥ १९ ॥ | 7.18.19bविसृज्य सशरं चापं स्वस्थो मखमुखोऽभवत् ॥ 7.18.19 ॥ | ||
| 40 | #19aತತಸ್ತಂ ನಿರ್ಜಿತಂ ಮತ್ವಾ ಘೋಷಯಾಮಾಸ ವೈ ಶುಕಃ । | 7.18.19aततस्तं निर्जितं मत्वा घोषयामास वै शुकः । | 7.18.17aततस्तं निर्जितं मत्वा घोषयामास वै शुकः । | 7.18.20aततस्तं निर्जितं मत्वा घोषयामास वै शुकः । | 7.18.20aततस्तं निर्जितं मत्वा घोषयामास वै शुकः। | ||
| 41 | 7.18.17bरावणो जितवांश्चेति हर्षान्नादं च मुक्तवान् ॥7.18.17॥ | ||||||
| 42 | #19bರಾವಣೋ ಜಯತೀತ್ಯುಚ್ಚೈರ್ಹರ್ಷಾನ್ನಾದಂ ವಿಮುಕ್ತವಾನ್ ॥ | 7.18.19bरावणो जयतीत्युच्चैर्हर्षान्नादं विमुक्तवान् ॥ १९ ॥ | 7.18.20bरावणो जयतीत्युच्चेर्हर्षान्नादं विमुक्तवान् ॥ २० ॥ | 7.18.20bरावणो जयतीत्युच्चैर्हर्षान्नादं विमुक्तवान् ॥ 7.18.20 ॥ | |||
| 43 | #20aತಾನ್ಭಕ್ಷಯಿತ್ವಾ ತತ್ರಸ್ಥಾನ್ಮಹರ್ಷೀನ್ಯಜ್ಞ ಮಾಗತಾನ್ । | 7.18.20aतान् भक्षयित्वा तत्रस्थान् महर्षीन् यज्ञमागतान् । | 7.18.18aतान्भक्षयित्वा तत्रस्थान्महर्षीन्यज्ञमागतान् । | 7.18.21aतान्भक्षयित्वा तत्रस्थान्महर्षीन्यज्ञमागतान् । | 7.18.21aतान्भक्षयित्वा तत्रस्थान्महर्षीन्यज्ञमागतान्। | ||
| 44 | #20bವಿತೃಪ್ತೋ ರುಧಿರೈಸ್ತೇಷಾಂ ಪುನಃ ಸಂಪ್ರಯಯೌ ಮಹೀಮ್ ॥ | 7.18.20bवितृप्तो रुधिरैस्तेषां पुनः सम्प्रययौ महीम् ॥ २० ॥ | 7.18.18bवितृप्तो रुधिरैस्तेषां पुनः संप्रययौ महीम् ॥7.18.18॥ | 7.18.21bवितृप्तो रुधिरैस्तेषां पुनः संप्रययौ महीम् ॥ २१ ॥ | 7.18.21bवितृप्तो रुधिरैस्तेषां पुनः सम्प्रययौ महीम् ॥ 7.18.21 ॥ | ||
| 45 | #21aರಾವಣೇ ತು ಗತೇ ದೇವಾಃ ಸೇಂದ್ರಾಶ್ಚೈವ ದಿವೌಕಸಃ । | 7.18.21aरावणे तु गते देवाः सेन्द्राश्चैव दिवौकसः । | 7.18.19aरावणे तु गते देवाः सेन्द्राश्चैव दिवौकसः । | 7.18.22aरावणे तु गते देवाः सेन्द्राश्चैव दिवौकसः । | 7.18.22aरावणे तु गते देवाः सेन्द्राश्चैव दिवौकसः। | ||
| 46 | #21bತತಃ ಸ್ವಾಂ ಯೋನಿಮಾಸಾದ್ಯ ತಾನಿ ಸತ್ತ್ವಾನಿ ಚಾಬ್ರುವನ್ ॥ | 7.18.21bततः स्वां योनिमासाद्य तानि सत्त्वानि चाब्रुवन् ॥ २१ ॥ | 7.18.19bततः स्वां योनिमासाद्य तानि सत्त्वान्यथाब्रुवन् ॥7.18.19॥ | 7.18.22bततः स्वां योनिमासाद्य तानि सत्त्वानि चाब्रुवन् ॥ २२ ॥ | 7.18.22bततः स्वां योनिमासाद्य तानि सत्त्वानि चाब्रुवन् ॥ 7.18.22 ॥ | ||
| 47 | #22aಹರ್ಷಾತ್ತದಾಬ್ರವೀದಿಂದ್ರೋ ಮಯೂರಂ ನೀಲಬರ್ಹಿಣಮ್ । | 7.18.22aहर्षात् तदाब्रवीदिन्द्रो मयूरं नीलबर्हिणम् । | 7.18.20aहर्षात्तदाब्रवीदिन्द्रो मयूरं नीलबर्हिणम् । | 7.18.23aहर्षात्तदाऽब्रवीदिन्द्रो मयूरं नीलबर्हिणम् । | 7.18.23aहर्षात्तदाब्रवीदिन्द्रो मयूरं नीलबर्हिणम्। | ||
| 48 | #22bಪ್ರೀತೋಽಸ್ಮಿ ತವ ಧರ್ಮಜ್ಞ ಭುಜಂಗಾದ್ಧಿ ನ ತೇ ಭಯಮ್ ॥ | 7.18.22bप्रीतोऽस्मि तव धर्मज्ञ भुजङ्गाद्धि न ते भयम् ॥ २२ ॥ | 7.18.20bप्रीतोऽस्मि तव धर्मज्ञ उपकाराद्विहंगम ॥7.18.20॥ | 7.18.23bप्रीतोस्मि तव धर्मज्ञ भुजङ्गाद्धि न ते भयम् ॥ २३ ॥ | 7.18.23bप्रीतोऽस्मि तव धर्मज्ञ भुजङ्गाद्धि न ते भयम् ॥ 7.18.23 ॥ | ||
| 49 | #23aಇದಂ ನೇತ್ರಸಹಸ್ರಂತು ಯತ್ತದ್ಬರ್ಹೇ ಭವಿಷ್ಯತಿ । | 7.18.23aइदं नेत्रसहस्रं तु यत् तद् बर्हे भविष्यति । | 7.18.21aमम नेत्रसहस्रं यत्तत्ते बर्हे भविष्यति । | 7.18.24aइदं नेत्रसहस्रं तु यत्वद्बर्हे भविष्यति । | |||
| 50 | #23bವರ್ಷಮಾಣೇ ಮಯಿ ಮುದಂ ಪ್ರಾಪ್ಸ್ಯಸೇ ಪ್ರೀತಿಲಕ್ಷಣಮ್ ॥ | 7.18.23bवर्षमाणे मयि मुदं प्राप्स्यसे प्रीतिलक्षणाम् ॥ २३ ॥ | 7.18.21bवर्षमाणे मयि मुदं प्राप्स्यसे प्रीतिलक्षणम् ॥7.18.21॥ | 7.18.24bवर्षमाणे मयि मुदं प्राप्स्य से प्रीतिलक्षणाम् । | 7.18.24aवर्षमाणे मयि मुदं प्राप्स्यसे प्रीतिलक्षणाम्। | ||
| 51 | #24ಏವಮಿಂದ್ರೋ ವರಂ ಪ್ರಾದಾನ್ಮಯೂರಾಯ ಸುರೇಶ್ವರಃ ॥ | 7.18.24एवमिन्द्रो वरं प्रादान्मयूरस्य सुरेश्वरः ॥ २४ ॥ | 7.18.24cएवमिन्द्रो वरं प्रादान्मयूरस्य सुरेश्वरः ॥ २४ ॥ | 7.18.24bएवमिन्द्रो वरं प्रादान्मयूरस्य सुरेश्वरः ॥ 7.18.24 ॥ | |||
| 52 | #25aನೀಲಾಃ ಕಿಲ ಪುರಾ ಬರ್ಹಾ ಮಯೂರಾಣಾಂ ನರಾಧಿಪ । | 7.18.25aनीलाः किल पुरा बर्हा मयूराणां नराधिप । | 7.18.22aनीलाः किल पुरा बर्हा मयूराणां नराधिप । | 7.18.25aनीलाः किल पुरा बर्हा मयूराणां नराधिप । | 7.18.25aनीलाः किल पुरा बर्हा मयूराणां नराधिप। | ||
| 53 | #25bಸುರಾಧಿಪಾದ್ವರಂ ಪ್ರಾಪ್ಯ ಗತಾಃ ಸರ್ವೇಽಪಿ ಬರ್ಹಿಣಃ ॥ | 7.18.25bसुराधिपाद् वरं प्राप्य गताः सर्वेऽपि बर्हिणः ॥ २५ ॥ | 7.18.22bसुराधिपाद्वरं प्राप्य गताः सर्वे विचित्रताम् ॥7.18.22॥ | 7.18.25bसुराधिपाद्वरं प्राप्य गताः सर्वेऽपि बर्हिणः ॥ २५ ॥ | 7.18.25bसुराधिपाद्वरं प्राप्य गताः सर्वेऽपि बर्हिणः ॥ 7.18.25 ॥ | ||
| 54 | #26aಧರ್ಮರಾಜೋಽಬ್ರವೀದ್ರಾಮ ಪ್ರಾಗ್ವಂಶೇ ವಾಯಸಂ ಪ್ರತಿ । | 7.18.26aधर्मराजोऽब्रवीद् राम प्राग्वंशे वायसं प्रति । | 7.18.23aधर्मराजोऽब्रवीद्राम प्राग्वंशे वायसं स्थितम् । | 7.18.26aधर्मराजोऽब्रवीद्राम प्राग्वंशे वायसं स्थितम्। | |||
| 55 | #26bಪಕ್ಷಿಂಸ್ತವಾಸ್ಮಿ ಸುಪ್ರೀತಃ ಪ್ರೀತಸ್ಯ ವಚನಂ ಶೃಣು ॥ | 7.18.26bपक्षिंस्तवास्मि सुप्रीतः प्रीतस्य वचनं शृणु ॥ २६ ॥ | 7.18.23bपक्षिंस्तवास्मि सुप्रीतः प्रीतस्य च वचः शृणु ॥7.18.23॥ | 7.18.26bपक्षिंस्तवास्मि सुप्रीतः प्रीतस्य वचनं शृणु ॥ 7.18.26 ॥ | |||
| 56 | #27aಯಥಾನ್ಯೇ ವಿವಿಧೈ ರೋಗೈಃ ಪಿಡ್ಯಂತೇ ಪ್ರಾಣಿನೋ ಮಯಾ । | 7.18.27aयथान्ये विविधै रोगैः पीड्यन्ते प्राणिनो मया । | 7.18.24aयथान्ये विविधै रोगैः पीड्यन्ते प्राणिनो मया । | 7.18.27aयथान्ये विविधै रोगै; पीड्यन्ते प्राणिनो मया। | |||
| 57 | #27bತೇ ನ ತೇ ಪ್ರಭವಿಷ್ಯಂತಿ ಮಯಿ ಪ್ರೀತೇ ನ ಸಂಶಯಃ ॥ | 7.18.27bते न ते प्रभविष्यन्ति मयि प्रीते न संशयः ॥ २७ ॥ | 7.18.24bते न ते प्रभविष्यन्ति मयि प्रीते न संशयः ॥7.18.24॥ | 7.18.27bते न ते प्रभविष्यन्ति मयि प्रीते न संशयः ॥ 7.18.27 ॥ | |||
| 58 | #28aಮೃತ್ಯುಸ್ತೇ ಭಯಂ ನಾಸ್ತಿವರಾನ್ ಮಮ ವಿಹಂಗಮ । | 7.18.28aमृत्युतस्ते भयं नास्ति वरान् मम विहङ्गम । | 7.18.25aमृत्युतस्ते भयं नास्ति वरान्मम विहंगम । | 7.18.28aमृत्युतस्ते भयं नास्ति वरान्मम विहङ्गम। | |||
| 59 | #28bಯಾವತ್ತ್ವಾಂ ನ ವಧಿಷ್ಯಂತಿ ನರಾಸ್ತಾವದ್ಭವಿಷ್ಯಸಿ ॥ | 7.18.28bयावत् त्वां न वधिष्यन्ति नरास्तावद् भविष्यसि ॥ २८ ॥ | 7.18.25bयावत्त्वां न वधिष्यन्ति नरास्तावद्भविष्यसि ॥7.18.25॥ | 7.18.28bयावत्त्वां न वधिष्यन्ति नरास्तावद्भविष्यसि ॥ 7.18.28 ॥ | |||
| 60 | #29aಯೇ ಚ ಮದ್ವಿಷಯಸ್ಥಾ ವೈ ಮಾನವಾಃ ಕ್ಷುಧಯಾರ್ದಿತಾಃ । | 7.18.29aये च मद्विषयस्था वै मानवाः क्षुधयार्दिताः । | 7.18.26aये च मद्विषयस्थास्तु मानवाः क्षुधयार्दिताः । | 7.18.29aएते मद्विषयस्था वै मानवाः क्षुद्भयार्दिताः। | |||
| 61 | #29bತ್ವಯಿ ಭುಕ್ತೇ ಸುತೃಪ್ತಾಸ್ತೇ ಭವಿಷ್ಯಂತಿ ಸಬಾಂಧವಾಃ ॥ | 7.18.29bत्वयि भुक्ते सुतृप्तास्ते भविष्यन्ति सबान्धवाः ॥ २९ ॥ | 7.18.26bत्वयि भुक्ते तु तृप्तास्ते भविष्यन्ति सबान्धवाः ॥7.18.26॥ | 7.18.29bत्वयि भुक्ते तु तृप्तास्ते भविष्यन्ति सबान्धवाः ॥ 7.18.29 ॥ | |||
| 62 | #30aವರುಣಸ್ತ್ವಬ್ರವೀದ್ಧಂಸಂ ಗಂಗಾತೋಯ ವಿಚಾರಿಣಮ್ । | 7.18.30aवरुणस्त्वब्रवीद्धंसं गङ्गातोयविचारिणम् । | 7.18.27aवरुणस्त्वब्रवीद्धंसं गङ्गातोयविचारिणम् । | 7.18.30aवरुणस्त्वब्रवीद्धंसं गङ्गातोयविहारिणम्। | |||
| 63 | #30bಶ್ರೂಯತಾಂ ಪ್ರೀತಿ ಸಂಯುಕ್ತಂ ವಚಃ ಪತ್ರರಥೇಶ್ವರ ॥ | 7.18.30bश्रूयतां प्रीतिसंयुक्तं वचः पत्ररथेश्वर ॥ ३० ॥ | 7.18.27bश्रूयतां प्रीतिसंयुक्तं वचः पत्ररथेश्वर ॥7.18.27॥ | 7.18.30bश्रूयतां प्रीतिसंयुक्तं वचः पत्ररथेश्वर ॥ 7.18.30 ॥ | |||
| 64 | #31aವರ್ಣೋ ಮನೋರಮಃ ಸೌಮ್ಯಶ್ಚಂದ್ರಮಂಡಲ ಸಂನಿಭಃ । | 7.18.31aवर्णो मनोरमः सौम्यश्चन्द्रमण्डलसन्निभः । | 7.18.28aवर्णो मनोहरः सौम्यश्चन्द्रमण्डलसंनिभः । | 7.18.31aवर्णो मनोहरः सौम्यश्चन्द्रमण्डलसन्निभः। | |||
| 65 | #31bಭವಿಷ್ಯತಿ ತವೋದಗ್ರಃ ಶುದ್ಧೇನ ಸಮಪ್ರಭಃ ॥ | 7.18.31bभविष्यति तवोदग्रः शुद्धफेनसमप्रभः ॥ ३१ ॥ | 7.18.28bभविष्यति तवोदग्रः शुक्लफेनसमप्रभः ॥7.18.28॥ | 7.18.31bभविष्यति तवोदग्रः शुद्धफेनसमप्रभः ॥ 7.18.31 ॥ | |||
| 66 | #32aಮಚ್ಛರೀರಂ ಸಮಾಸಾದ್ಯ ಕಾಂತೋ ನಿತ್ಯಂ ಭವಿಷ್ಯಸಿ । | 7.18.32aमच्छरीरं समासाद्य कान्तो नित्यं भविष्यसि । | 7.18.29aमच्छरीरं समासाद्य कान्तो नित्यं भविष्यसि । | 7.18.32aमच्छरीरं समासाद्य कान्तो नित्यं भविष्यसि। | |||
| 67 | #32bಪ್ರಾಪ್ಸ್ಯಸೇ ಚಾತುಲಾಂ ಪ್ರೀತಿಮೇತನ್ಮೇ ಪ್ರೀತಿಲಕ್ಷಣಮ್ ॥ | 7.18.32bप्राप्स्यसे चातुलां प्रीतिमेतन्मे प्रीतिलक्षणम् ॥ ३२ ॥ | 7.18.29bप्राप्स्यसे चातुलां प्रीतिमेतन्मे प्रीतिलक्षणम् ॥7.18.29॥ | 7.18.32bप्राप्स्यसे चातुलां प्रीतिमेतन्मे प्रीतिलक्षणम् ॥ 7.18.32 ॥ | |||
| 68 | #33aಹಂಸಾನಾಂ ಹಿ ಪುರಾ ರಾಮ ನ ವರ್ಣಃ ಸರ್ವ ಪಾಂಡುರಃ । | 7.18.33aहंसानां हि पुरा राम न वर्णः सर्वपाण्डुरः । | 7.18.30aहंसानां हि पुरा राम न वर्णः सर्वपाण्डुरः । | 7.18.33aहंसानां हि पुरा राम नीलवर्णः सपाण्डुरः। | |||
| 69 | #33bಪಕ್ಷಾ ನೀಲಾಗ್ರಸಂವೀತಾಃ ಕ್ರೋಡಾಃ ಶಷ್ಪಾಗ್ರನಿರ್ಮಲಾಃ ॥ | 7.18.33bपक्षा नीलाग्रसंवीताः क्रोडाः शष्पाग्रनिर्मलाः ॥ ३३ ॥ | 7.18.30bपक्षा नीलाग्रसंवीताः क्रोडाः शष्पाग्रनिर्मलाः ॥7.18.30॥ | 7.18.33bपक्षा नीलाग्रसंवीताः क्रोडाः शष्पाग्रनिर्मलाः ॥ 7.18.33 ॥ | |||
| 70 | #34aಅಥಾಬ್ರವೀದ್ ವೈಶ್ರವಣಃ ಕೃಕಲಾ ಸಂಗಿರೌ ಸ್ಥಿತಮ್ । | 7.18.34aअथाब्रवीद् वैश्रवणः कृकलासं गिरौ स्थितम् । | 7.18.31aअथाब्रवीद्वैश्रवणः कृकलासं गिरौ स्थितम् । | 7.18.34aअथाब्रवीद्वैश्रवणः कृकलासं गिरौ स्थितम्। | |||
| 71 | #34bಹೈರಣ್ಯಂ ಸಂಪ್ರಯಚ್ಛಾಮಿ ವರ್ಣಂ ಪ್ರೀತಸ್ತವಾಪ್ಯಹಮ್ ॥ | 7.18.34bहैरण्यं सम्प्रयच्छामि वर्णं प्रीतस्तवाप्यहम् ॥ ३४ ॥ | 7.18.31bहैरण्यं संप्रयच्छामि वर्णं प्रीतिस्तवाप्यहम् ॥7.18.31॥ | 7.18.34bहैरण्यं सम्प्रयच्छामि वर्णं प्रीतस्तवाप्यहम् ॥ 7.18.34 ॥ | |||
| 72 | #35aಸದ್ರವ್ಯಂ ಚ ಶಿರೋ ನಿತ್ಯಂ ಭವಿಷ್ಯತಿ ತವಾಕ್ಷಯಮ್ । | 7.18.35aसद्रव्यं च शिरो नित्यं भविष्यति तवाक्षयम् । | 7.18.32aसद्रव्यं च शिरो नित्यं भविष्यति तवाक्षयम् । | 7.18.35aसद्रव्यं च शिरो नित्यं भविष्यति तवाक्षयम्। | |||
| 73 | #35bಏಷ ಕಾಂಚನಕೋ ವರ್ಣೋ ಮತ್ಪ್ರೀತ್ಯಾ ತೇ ಭವಿಷ್ಯತಿ ॥ | 7.18.35bएष काञ्चनको वर्णो मत्प्रीत्या ते भविष्यति ॥ ३५ ॥ | 7.18.32bएष काञ्चनको वर्णो मत्प्रीत्या ते भविष्यति ॥7.18.32॥ | 7.18.35bएष काञ्चनको वर्णो मत्प्रीत्या ते भविष्यति ॥ 7.18.35 ॥ | |||
| 74 | #36aಏವಂ ದತ್ತ್ವಾ ವರಾಂಸ್ತೇಭ್ಯಸ್ತಸ್ಮಿನ್ಯಜ್ಞೋತ್ಸವೇ ಸುರಾಃ । | 7.18.36aएवं दत्त्वा वरांस्तेभ्यस्तस्मिन् यज्ञोत्सवे सुराः । | 7.18.33aएवं दत्त्वा वरांस्तेभ्यस्तस्मिन्यज्ञोत्सवे सुराः । | 7.18.36aएवं दत्त्वा वरांस्तेभ्यस्तस्मिन्यज्ञोत्सवे सुराः। | |||
| 75 | #36bನಿವೃತ್ತೇ ಸಹ ರಾಜ್ಞಾ ತೇ ಪುನಃ ಸ್ವಭವನಂ ಗತಾಃ ॥ | 7.18.36bनिवृत्ते सह राज्ञा ते पुनः स्वभवनं गताः ॥ ३६ ॥ | 7.18.33bनिवृत्ते सह राज्ञा वै पुनः स्वभवनं गताः ॥7.18.33॥ | 7.18.36bनिवृत्ताः सह राज्ञा ते पुनः स्वभवनं गताः ॥ 7.18.36 ॥ |