Ramayana Half-Verse Concordance 7.16

कैलास-चालन-यत्नः. Built from structured/verses.jsonl. Rows are monotone-aligned half-verse/pāda-like units split at । and ॥, so verse-number boundary differences can appear as inserted or shifted line rows.

123 aligned line rows across 7 source streams.

Columns:
gor-kn 99 lines gor-hi 99 lines crit 61 lines gr 118 lines dr-mula 100 lines
#gor-kngor-hicritgrdr-mulagr-iitkiitk
1#1aಸ ಜಿತ್ವಾ ಧನದಂ ರಾಮ ಭ್ರಾತರಂ ರಾಕ್ಷಸಾಧಿಪಃ ।7.16.1aस जित्वा धनदं राम भ्रातरं राक्षसाधिपः ।7.16.1aस जित्वा भ्रातरं राम धनदं राक्षसाधिपः ।7.16.1aस जित्वा धनदं राम भ्रातरं राक्षसाधिपः ।7.16.1aस जित्वा धनदं राम भ्रातरं राक्षसाधिपः।
2#1bಮಹಾಸೇನ ಪ್ರಸೂತಿಂ ತದ್ಯಯೌ ಶರವಣಂ ಮಹತ್ ॥7.16.1bमहासेनप्रसूतिं तद् ययौ शरवणं महत् ॥ १ ॥7.16.1bमहासेनप्रसूतिं तु ययौ शरवणं ततः ॥7.16.1॥7.16.1bमहासेनप्रसूतिं तद्ययौ शरवणं महत् ॥ १ ॥7.16.1bमहासेनप्रसूतिं तद्ययौ शरवणं महत् ॥ 7.16.1 ॥
3#2aಅಥಾಪಶ್ಯದ್ದಶಗ್ರೀವೋ ರೌಕ್ಮಂ ಶರವಣಂ ಮಹತ್ ।7.16.2aअथापश्यद् दशग्रीवो रौक्मं शरवणं महत् ।7.16.2aअथापश्यद्दशग्रीवो रौक्मं शरवणं तदा ।7.16.2aअथापश्यद्दशग्रीवो रौक्मं शरवणं महत् ।7.16.2aअथापश्यदृशग्रीवो रौक्मं शरवणं महत्।
4#2bಗಭಸ್ತಿಜಾಲ ಸಂವೀತಂ ದ್ವಿತೀಯಮಿವ ಭಾಸ್ಕರಮ್ ॥7.16.2bगभस्तिजालसंवीतं द्वितीयमिव भास्करम् ॥ २ ॥7.16.2bगभस्तिजालसंवीतं द्वितीयमिव भास्करम् ॥7.16.2॥7.16.2bगभस्तिजालसंवीतं द्वितीयमिव भास्करम् ॥ २ ॥7.16.2bगभस्तिजालसंवीतं द्वितीयमिव भास्करम् ॥ 7.16.2 ॥
5#3aಸ ಪರ್ವತಂ ಸಮಾರುಹ್ಯ ಕಂಚಿದ್ ರಮ್ಯವನಾಂತರಮ್ ।7.16.3aस पर्वतं समारुह्य कञ्चिद् रम्यवनान्तरम् ।7.16.3aपर्वतं स समासाद्य किंचिद्रम्यवनान्तरम् ।7.16.3aस पर्वतं समारुह्य कंचिद्रम्यवनान्तरम् ।7.16.3aस पर्वतं समारुह्य कञ्चिद्रम्यवनान्तरम्।
6#3bಪ್ರೇಕ್ಷತೇ ಪುಷ್ಪಕಂ ತತ್ರ ರಾಮ ವಿಷ್ಟಂಭಿತಂ ತದಾ ॥7.16.3bप्रेक्षते पुष्पकं तत्र राम विष्टम्भितं तदा ॥ ३ ॥7.16.3bअपश्यत्पुष्पकं तत्र राम विष्टम्भितं दिवि ॥7.16.3॥7.16.3bअपश्यत्पुष्पकं तत्र राम विष्टम्भितं तदा ॥ ३ ॥7.16.3bअपश्यत् पुष्पकं तत्र रामविष्टम्भितं तदा ॥ 7.16.3 ॥
7#4aವಿಷ್ಟಬ್ಧಂ ಕಿಮಿದಂ ಕಸ್ಮಾನ್ನಾಗಮತ್ ಕಾಮಗಂ ಕೃತಮ್ ।7.16.4aविष्टब्धं किमिदं कस्मान्नागमत् कामगं कृतम् ।7.16.4aविष्टब्धं पुष्पकं दृष्ट्वा कामगं ह्यगमं कृतम् ।7.16.4aविष्टब्धं पुष्पकं दृष्ट्वा ह्यगमं कामगं कृतम् ।7.16.4aविष्टब्धं पुष्पकं दृष्ट्वा ह्यगमं कामागं कृतम्।
8#4bಅಚಿಂತಯದ್ರಾಕ್ಷಸೇಂದ್ರಃ ಸಚಿವೈಸ್ತೈಃ ಸಮಾವೃತಃ ॥7.16.4bअचिन्तयद् राक्षसेन्द्रः सचिवैस्तैः समावृतः ॥ ४ ॥7.16.4bराक्षसश्चिन्तयामास सचिवैस्तैः समावृतः ॥7.16.4॥7.16.4bअचिन्तयद्राक्षसेन्द्रः सचिवैस्तैः समावृतः ॥ ४ ॥7.16.4bअचिन्तयद्राक्षसेन्द्रः सचिवैस्तैः समावृतः ॥ 7.16.4 ॥
9#5aಕಿಂ ನಿಮಿತ್ತಮಿಚ್ಛಯಾ ಮೇ ನೇದಂ ಗಚ್ಛತಿ ಪುಷ್ಪಕಮ್ ।7.16.5aकिन्निमित्तमिच्छया मे नेदं गच्छति पुष्पकम् ।7.16.5aकिमिदं यन्निमित्तं मे न च गच्छति पुष्पकम् ।7.16.5aकिन्निमित्तं चेच्छया मे नेदं गच्छति पुष्पकम् ।7.16.5aकिन्निमित्तं चेच्छया मे नेदं गच्छति पुष्पकम्।
10#5bಪರ್ವತಸ್ಯೋಪರಿಷ್ಠಸ್ಯ ಕರ್ಮೇದಂ ಕಸ್ಯಚಿದ್ಭವೇತ್ ॥7.16.5bपर्वतस्योपरिष्ठस्य कर्मेदं कस्यचिद् भवेत् ॥ ५ ॥7.16.5bपर्वतस्योपरिस्थस्य कस्य कर्म त्विदं भवेत् ॥7.16.5॥7.16.5bपर्वतस्योपरिष्ठस्य कर्मेदं कस्यचिद्भवेत् ॥ ५ ॥7.16.5bपर्वतस्योपरिष्ठस्य कर्मेदं कस्यचिद्भवेत् ॥ 7.16.5 ॥
11#6aತತೋಽಬ್ರವೀತ್ತದಾ ರಾಮ ಮಾರೀಚೋ ಯುದ್ಧಕೋವಿದಃ ।7.16.6aततोऽब्रवीत् तदा राम मारीचो बुद्धिकोविदः ।7.16.6aततोऽब्रवीद्दशग्रीवं मारीचो बुद्धिकोविदः ।7.16.6aततोऽब्रवीत्तदा राम मारीचो बुद्धिकोविदः ।7.16.6aततोऽब्रवीत्तदा राम मारीचो बुद्धिकोविदः।
12#6bನೇದಂ ನಿಷ್ಕಾರಣಂ ರಾಜನ್ ಪುಷ್ಪಕಂ ಯನ್ನ ಗಚ್ಛತಿ ॥7.16.6bनेदं निष्कारणं राजन् पुष्पकं यन्न गच्छति ॥ ६ ॥7.16.6bनैतन्निष्कारणं राजन्पुष्पकोऽयं न गच्छति ॥7.16.6॥7.16.6bनेदं निष्कारणं राजन्पुष्पकं यन्न गच्छति ॥ ६ ॥7.16.6bनेदं निष्कारणं राजन्पुष्पकं यन्न गच्छति ॥ 7.16.6 ॥
137.16.7a[ शिखरस्थं गिरिस्थस्य कर्म कस्येदमद्भुतम् ।
147.16.7bनिश्चितं राजराजेन पुष्पकं विनिवारितम् ] ॥ ७ ॥
15#7aಅಥವಾ ಪುಷ್ಪಕಮಿದಂ ಧನದಾನ್ನಾನ್ಯವಾಹನಮ್ ।7.16.7aअथवा पुष्पकमिदं धनदान्नान्यवाहनम् ।7.16.8aअथवा पुष्पकमिदं धनदान्नान्यवाहनम् ।7.16.7aअथवा पुष्पकमिदं धनदान्नान्यवाहनम्।
16#7bಅತೋ ನಿಷ್ಪಂದಮಭವದ್ ಧನಾಧ್ಯಕ್ಷ ವಿನಾಕೃತಮ್ ॥7.16.7bअतो निस्पन्दमभवद् धनाध्यक्षविनाकृतम् ॥ ७ ॥7.16.8bअतो निष्पन्दमभवद्धनाध्यक्षविनाकृतम् ॥ ८ ॥7.16.7bअतो निष्पन्दमभवद्धनाध्यक्षविनाकृतम् ॥ 7.16.7 ॥
17#8aಇತಿ ವಾಕ್ಯಾಂತರೇ ತಸ್ಯ ಕರಾಲಃ ಕೃಷ್ಣಪಿಂಗಲಃ ।7.16.8aइति वाक्यान्तरे तस्य करालः कृष्णपिङ्गलः ।7.16.9aइति वाक्यान्तरे तस्य करालः कृष्णपिङ्गलः ।7.16.8aइति वाक्यान्तरे तस्य करालः कृष्णपिङ्गलः।
18#8bವಾಮನೋ ವಿಕಟೋ ಮುಂಡೀ ನಂದೀ ಹ್ರಸ್ವಭುಜೋ ಬಲೀ ॥7.16.8bवामनो विकटो मुण्डी नन्दी ह्रस्वभुजो बली ॥ ८ ॥7.16.9bवामनो विकटो मुण्डी नन्दी प्रह्वभुजो बली ॥ ९ ॥7.16.8bवामनो विकटो मुण्डी नन्दी प्रह्वभुजो बली ॥ 7.16.8 ॥
19#9aತತಃ ಪಾರ್ಶ್ವಮುಪಾಗಮ್ಯ ಭವಸ್ಯಾನುಚರೋಽಬ್ರವೀತ್ ।7.16.9aततः पार्श्वमुपागम्य भवस्यानुचरोऽब्रवीत् ।7.16.7aततः पार्श्वमुपागम्य भवस्यानुचरो बली ।7.16.10aततः पार्श्वमुपागम्य भवस्थानुचरोऽब्रवीत् ।7.16.9aततः पार्श्वमुपागम्य भवस्यानुचरोऽब्रवीत्।
20#9bನಂದೀಶ್ವರೋ ವಚಶ್ಚೇದಂ ರಾಕ್ಷಸೇಂದ್ರಮಶಂಕಿತಃ ॥7.16.9bनन्दीश्वरो वचश्चेदं राक्षसेन्द्रमशङ्कितः ॥ ९ ॥7.16.7bनन्दीश्वर उवाचेदं राक्षसेन्द्रमशङ्कितः ॥7.16.7॥7.16.10bनन्दीश्वरो वचश्चेदं राक्षसेन्द्रमशङ्कितः ॥ १० ॥7.16.9bनन्दीश्वरो वचश्चेदं राक्षसेन्द्रमशङ्कितः ॥ 7.16.9 ॥
21#10aನಿವರ್ತಸ್ವ ದಶಗ್ರೀವ ಶೈಲೇ ಕ್ರೀಡತೀ ಶಂಕರಃ ।7.16.10aनिवर्तस्व दशग्रीव शैले क्रीडति शङ्करः ।7.16.8निवर्तस्व दशग्रीव शैले क्रीडति शंकरः ॥7.16.8॥7.16.11निवर्तस्व दशग्रीव शैले क्रीडति शंकरः ॥ ११ ॥7.16.10aनिवर्तस्व दशग्रीव शैले क्रीडति शङ्करः।
22#10bಸುಪರ್ಣನಾಗ ಯಕ್ಷಾಣಾಂ ದೇವಗಂಧರ್ವ ರಕ್ಷಸಾಮ್ ॥7.16.10bसुपर्णनागयक्षाणां देवगन्धर्वरक्षसाम् ॥ १० ॥7.16.9aसुपर्णनागयक्षाणां दैत्यदानवरक्षसाम् ।7.16.12aसुपर्णनागयक्षाणां देवगन्धर्वरक्षसाम् ।7.16.10bसुपर्णनागयक्षाणां देवगन्धर्वरक्षसाम् ॥ 7.16.10 ॥
23#11aಸರ್ವೇಷಾಮೇವ ಭೂತಾನಾಮಗಮ್ಯಃ ಪರ್ವತಃ ಕೃತಃ ।7.16.11aसर्वेषामेव भूतानामगम्यः पर्वतः कृतः ।7.16.9bप्राणिनामेव सर्वेषामगम्यः पर्वतः कृतः ॥7.16.9॥7.16.12bसर्वेषामेव भूवानामगम्यः पर्वतः कृतः ।
247.16.12cतन्निवर्तस्व दुर्बुद्धे मा विनाशमवाप्स्यसि ॥ १२ ॥7.16.11a[तन्निवर्तस्व दुर्बुद्धे मा विनाशमवाप्स्यसि।
25#11bಇತಿ ನಂದಿ ವಚಃ ಶ್ರುತ್ವಾ ಕ್ರೋಧಾತ್ ಕಂಪಿತಕುಂಡಲಃ ॥7.16.11bइति नन्दिवचः श्रुत्वा क्रोधात् कम्पितकुण्डलः ॥ ११ ॥7.16.13aइति नन्दिवचः श्रुत्वा क्रोधात्कम्पितकुण्डलः ।7.16.11b] इति नन्दिवचः श्रुत्वा क्रोधात्कम्पितकुण्डलः ॥ 7.16.11 ॥
26#12aರೋಷಾತ್ತು ತಾಮ್ರನಯನಃ ಪುಷ್ಪಕಾದವರುಹ್ಯ ಸಃ ।7.16.12aरोषात् तु ताम्रनयनः पुष्पकादवरुह्य सः ।7.16.10aस रोषात्ताम्रनयनः पुष्पकादवरुह्य च ।7.16.13bरोषात्तु ताम्रनयनः पुष्पकादवरुह्य सः ।7.16.12aरोषात्तु ताम्रनयनः पुष्पकादवरुह्य सः।
27#12bಕೋಽಯಂ ಶಂಕರ ಇತ್ಯುಕ್ತ್ವಾ ಶೈಲಮೂಲಮುಪಾಗತಃ ॥7.16.12bकोऽयं शङ्कर इत्युक्त्वा शैलमूलमुपागतः ॥ १२ ॥7.16.10bकोऽयं शंकर इत्युक्त्वा शैलमूलमुपागमत् ॥7.16.10॥7.16.13cकोयं शंकर इत्युक्त्वा शैलमूलमुपागतः ॥ १३ ॥7.16.12bकोऽयं शङ्कर इत्युक्त्वा शैलमूलमुपागतः ॥ 7.16.12 ॥
287.16.11aनन्दीश्वरमथापश्यदविदूरस्थितं प्रभुम् ।
29#13aಸೋಽಪಶ್ಯನ್ನಂದಿನಂ ತತ್ರ ದೇವಸ್ಯಾದೂರತಃ ಸ್ಥಿತಮ್ ।7.16.13aसोऽपश्यन्नन्दिनं तत्र देवस्यादूरतः स्थितम् ।7.16.14aसोपश्यन्नन्दिनं तत्र देवस्थादूरतः स्थितम् ।7.16.13aसोऽपश्यन्नन्दिनं तत्र देवस्यादूरतः स्थितम्।
30#13bದೀಪ್ತಂ ಶೂಲಮವಷ್ಟಭ್ಯ ದ್ವಿತೀಯಮಿವ ಶಂಕರಮ್ ॥7.16.13bदीप्तं शूलमवष्टभ्य द्वितीयमिव शङ्करम् ॥ १३ ॥7.16.11bदीप्तं शूलमवष्टभ्य द्वितीयमिव शंकरम् ॥7.16.11॥7.16.14bदीप्तं शूलमवष्टभ्य द्वितीयमिव शंकरम् ॥ १४ ॥7.16.13bदीप्तं शूलमवष्टभ्य द्वितीयमिव शङ्करम् ॥ 7.16.13 ॥
31#14aತಂ ದೃಷ್ಟ್ವಾವಾನರಮುಖಮವಜ್ಞಾಯ ಸ ರಾಕ್ಷಸಃ ।7.16.14aतं दृष्ट्वा वानरमुखमवज्ञाय स राक्षसः ।7.16.12aस वानरमुखं दृष्ट्वा तमवज्ञाय राक्षसः ।7.16.15aतं दृष्ट्वा वानरमुखमवज्ञाय स राक्षसः ।7.16.14aतं दृष्ट्वा वानरमुखमवज्ञाय स राक्षसः।
32#14bಪ್ರಹಾಸಂ ಮುಮುಚೇ ತತ್ರ ಸತೋಯ ಇವ ತೋಯದಃ ॥7.16.14bप्रहासं मुमुचे तत्र सतोय इव तोयदः ॥ १४ ॥7.16.12bप्रहासं मुमुचे मौर्ख्यात्सतोय इव तोयदः ॥7.16.12॥7.16.15bप्रहासं मुमुचे तत्र सतोय इव तोयदः ॥ १५ ॥7.16.14bप्रहासं मुमुचे तत्र सतोय इव तोयदः ॥ 7.16.14 ॥
33#15aತಂ ಕ್ರುದ್ಧೋ ಭಗವಾನ್ನಂದೀ ಶಂಕರಸ್ಯಾಪರಾ ತನುಃ ।7.16.15aतं क्रुद्धो भगवान् नन्दी शङ्करस्यापरा तनुः ।7.16.13aसंक्रुद्धो भगवान्नन्दी शंकरस्यापरा तनुः ।7.16.16aतं क्रुद्ध भगवान्नन्दी शंकरस्यापरा तनुः ।7.16.15aतं क्रुद्धो भगवान्नन्दी शङ्करस्यापरा तनुः।
347.16.13bअब्रवीद्राक्षसं तत्र दशग्रीवमुपस्थितम् ॥7.16.13॥
357.16.16bअब्रवीत्तत्र तद्रक्षो दशाननमुपस्थितम् ॥ १६ ॥
367.16.14aयस्माद्वानरमूर्तिं मां दृष्ट्वा राक्षसदुर्मते ।7.16.17a[ यस्माद्वानरमूर्तिं मां दृष्ट्वा राक्षस दुर्मते ।
377.16.14bमौर्ख्यात्त्वमवजानीषे परिहासं च मुञ्चसि ॥7.16.14॥7.16.17bमौर्ख्याचमवजानीषे परिहासं च मुञ्चसि ॥ १७ ॥
38#15bಅಬ್ರವೀತ್ತತ್ರ ತದ್ರಕ್ಷೋ ದಶಾನನಮುಪಸ್ಥಿತಮ್ ॥7.16.15bअब्रवीत् तत्र तद् रक्षो दशाननमुपस्थितम् ॥ १५ ॥7.16.15bअब्रवीत्तत्र तद्रक्षो दशाननमुपस्थितम् ॥ 7.16.15 ॥
397.16.17c]
40#16aಯಸ್ಮಾದ್ವಾನರರೂಪಂ ಮಾಮವಜ್ಞಾಯ ದಶಾನನ ।7.16.16aयस्माद् वानररूपं मामवज्ञाय दशानन ।7.16.18aयस्माद्वानररूपं मामवज्ञाय दशानन ।7.16.16aयस्माद्वानररूपं मामवज्ञाय दशानन।
41#16bಅಶನೀಪಾತ ಸಂಕಾಶಮಪಹಾಸಂ ಪ್ರಮುಕ್ತವಾನ್ ॥7.16.16bअशनीपातसङ्काशमपहासं प्रमुक्तवान् ॥ १६ ॥7.16.18bअशनीपातसंकाशमुपहासं प्रमुक्तवान् ॥ १८ ॥7.16.16bअशनीपातसङ्काशमपहासं प्रमुक्तवान् ॥ 7.16.16 ॥
42#17aತಸ್ಮಾನ್ಮದ್ವೀರ್ಯ ಸಂಯುಕ್ತಾಮದ್ರೂಪ ಸಮತೇಜಸಃ ।7.16.17aतस्मान्मद्वीर्यसंयुक्ता मद्रूपसमतेजसः ।7.16.15aतस्मान्मद्रूपसंयुक्ता मद्वीर्यसमतेजसः ।7.16.19aतस्मान्मद्रूपसंपन्ना मदीर्यसमतेजसः ।7.16.17aतस्मान्मद्रूपसम्पन्ना मद्वीर्यसमतेजसः।
43#17bಉತ್ಪತ್ಸ್ಯಂತಿ ವದಾರ್ಥಂ ಹಿ ಕುಲಸ್ಯ ತವ ವಾನರಾಃ ॥7.16.17bउत्पत्स्यन्ति वधार्थं हि कुलस्य तव वानराः ॥ १७ ॥7.16.15bउत्पत्स्यन्ते वधार्थं हि कुलस्य तव वानराः ॥7.16.15॥7.16.19bउत्पत्स्यन्ति वधार्थं हि कुलस्य तव वानराः ॥ १९ ॥7.16.17bउत्पत्स्यन्ति वधार्थं हि कुलस्य तव वानराः ॥ 7.16.17 ॥
44#18aನಖದಂಷ್ಟ್ರಾಯುಧಾಃ ಕ್ರೂರ ಮನಃ ಸಂಪಾತರಂ ಹಸಃ ।7.16.18aनखदंष्ट्रायुधाः क्रूर मनःसम्पातरंहसः ।7.16.20aनखदंष्ट्रायुधाः क्रूरा मनःसंपातरंहसः ।7.16.18aनखदंष्ट्रायुधाः क्रूरा मनःसम्पातरंहसः।
45#18bಯುದ್ಧೋನ್ಮತ್ತಾ ಬಲೋದ್ರಿಕ್ತಾಃ ಶೈಲಾ ಇವ ವಿಸರ್ಪಿಣಃ ॥7.16.18bयुद्धोन्मत्ता बलोद्रिक्ताः शैला इव विसर्पिणः ॥ १८ ॥7.16.20bयुद्धोन्मत्ता बलोद्रिक्ताः शैला इव विसर्पिणः ॥ २० ॥7.16.18bयुद्धोन्मत्ता बलोद्रिक्ताः शैला इव विसर्पिणः ॥ 7.16.18 ॥
46#19aತೇ ತವ ಪ್ರಬಲಂ ದರ್ಪಮುತ್ಸೇಧಂ ಚ ಪೃಥಗ್ವಿಧಮ್ ।7.16.19aते तव प्रबलं दर्पमुत्सेधं च पृथग्विधम् ।7.16.21aते तव प्रबलं दर्पमुत्सेधं च पृथग्विधम् ।7.16.19aते तव प्रबलं दर्पमुत्सेधं च पृथग्विधम्।
47#19bವ್ಯಪನೇಷ್ಯಂತಿ ಸಂಭೂಯ ಸಹಾಮಾತ್ಯಸು ತಸ್ಯ ಚ ॥7.16.19bव्यपनेष्यन्ति सम्भूय सहामात्यसुतस्य च ॥ १९ ॥7.16.21bव्यपनेष्यन्ति संभूय सहामात्यसुतस्य च ॥ २१ ॥7.16.19bव्यपनेष्यन्ति सम्भूय सहामात्यसुतस्य च ॥ 7.16.19 ॥
48#20aಕಿಂ ತ್ವಿದಾನೀಂ ಮಯಾ ಶಕ್ಯಂ ಹಂತುಂ ತ್ವಾಂ ಹೇ ನಿಶಾಚರ ।7.16.20aकिं त्विदानीं मया शक्यं हन्तुं त्वां हे निशाचर ।7.16.16aकिं त्विदानीं मया शक्यं कर्तुं यत्त्वां निशाचर ।7.16.22aकिंत्विदानीं मया शैक्यं हन्तुं त्वां हे निशाचर ।7.16.20aकिं त्विदानीं मया शक्यं हन्तुं त्वां हे निशाचर।
49#20bನ ಹಂತವ್ಯೋ ಹಸತ್ತ್ವಂ ಹಿ ಪೂರ್ವಮೇವ ಸ್ವಕರ್ಮಭಿಃ ॥7.16.20bन हन्तव्यो हतस्त्वं हि पूर्वमेव स्वकर्मभिः ॥ २० ॥7.16.16bन हन्तव्यो हतस्त्वं हि पूर्वमेव स्वकर्मभिः ॥7.16.16॥7.16.22bन हन्तव्यो हतस्त्वं हि पूर्वमेव स्वकर्मभिः ॥ २२ ॥7.16.20bन हन्तव्यो हतस्त्वं हि पूर्वमेव स्वकर्मभिः ॥ 7.16.20 ॥
50#21aಇತ್ಯುದೀರಿತವಾಕ್ಯೇ ತು ದೇವೇ ತಸ್ಮಿನ್ಮಹಾತ್ಮನಿ ।7.16.21aइत्युदीरितवाक्ये तु देवे तस्मिन् महात्मनि ।7.16.23aइत्युदीरितवाक्ये तु देवे तस्मिन्महात्मनि ।7.16.21aइत्युदीरितवाक्ये तु देवे तस्मिन्महात्मनि।
51#21bದೇವದುಂದುಭಯೋ ನೇದುಃ ಪುಷ್ಪವೃಷ್ಟಿಶ್ಚ ಖಾಚ್ಚ್ಯುತಾ ॥7.16.21bदेवदुन्दुभयो नेदुः पुष्पवृष्टिश्च खाच्च्युता ॥ २१ ॥7.16.23bदेवदुन्दुभयो नेदुः पुष्पवृष्टिश्च खाच्युता ॥ २३ ॥7.16.21bदेवदुन्दुभयो नेदुः पुष्पवृष्टिश्च खाच्च्युता ॥ 7.16.21 ॥
52#22aಅಚಿಂತಯಿತ್ವಾ ಸ ತದಾ ನಂದಿವಾಕ್ಯಂ ಮಹಾಬಲಃ ।7.16.22aअचिन्तयित्वा स तदा नन्दिवाक्यं महाबलः ।7.16.17aअचिन्तयित्वा स तदा नन्दिवाक्यं निशाचरः ।7.16.24aअचिन्तयित्वा स तदा नन्दिवाक्यं महाबलः ।7.16.22aअचिन्तयित्वा स तदा नन्दिवाक्यं महाबलः।
53#22bಪರ್ವತಂ ತು ಸಮಾಸಾದ್ಯ ವಾಕ್ಯಮಾಹ ದಶಾನನಃ ॥7.16.22bपर्वतं तु समासाद्य वाक्यमाह दशाननः ॥ २२ ॥7.16.17bपर्वतं तं समासाद्य वाक्यमेतदुवाच ह ॥7.16.17॥7.16.24bपर्वतं तु समासाद्य वाक्यमाह दशाननः ॥ २४ ॥7.16.22bपर्वतं तु समासाद्य वाक्यमाह दशाननः ॥ 7.16.22 ॥
54#23aಪುಷ್ಪಕಸ್ಯ ಗತಿಶ್ಛಿನ್ನಾ ಯತ್ಕೃತೇ ಮಮ ಗಚ್ಛತಃ ।7.16.23aपुष्पकस्य गतिश्छिन्ना यत्कृते मम गच्छतः ।7.16.18aपुष्पकस्य गतिश्छिन्ना यत्कृते मम गच्छतः ।7.16.25aपुष्पकस्य गतिश्छिन्ना यत्कृते मम गच्छतः ।7.16.23aपुष्पकस्य गतिश्छिन्ना यत्कृते मम गच्छतः।
55#23bತಮಿಮಂ ಶೈಲಮುನ್ಮೂಲಂ ಕರೋಮಿ ತವಗೋಪತೇ ॥7.16.23bतमिमं शैलमुन्मूलं करोमि तव गोपते ॥ २३ ॥7.16.18bतदेतच्छैलमुन्मूलं करोमि तव गोपते ॥7.16.18॥7.16.25bतमिमं शैलमुन्मूलं करोमि तव गोपते ॥ २५ ॥7.16.23bतमिमं शैलमुन्मूलं करोमि तव गोपते ॥ 7.16.23 ॥
56#24aಕೇನ ಪ್ರಭಾವೇಣ ಭವೋ ನಿತ್ಯಂ ಕ್ರೀಡತಿ ರಾಜವತ್ ।7.16.24aकेन प्रभावेण भवो नित्यं क्रीडति राजवत् ।7.16.19aकेन प्रभावेन भवस्तत्र क्रीडति राजवत् ।7.16.26aकेन प्रभावन भवो नित्यं क्रीडति राजवत् ।7.16.24aकेन प्रभावेण भवो नित्यं क्रीडति राजवत्।
57#24bವಿಜ್ಞಾತವ್ಯಂ ನ ಜಾನೀತೇ ಭಯಸ್ಥಾನಮುಪಸ್ಥಿತಮ್ ॥7.16.24bविज्ञातव्यं न जानीते भयस्थानमुपस्थितम् ॥ २४ ॥7.16.19bविज्ञातव्यं न जानीषे भयस्थानमुपस्थितम् ॥7.16.19॥7.16.26bविज्ञातव्यं न जानीते भयस्थानमुपस्थितम् ॥ २६ ॥7.16.24bविज्ञातव्यं न जानीते भयस्थानमुपस्थितम् ॥ 7.16.24 ॥
58#25aಏವಮುಕ್ತ್ವಾ ತತೋ ರಾಮಭುಜಾನ್ವಿಕ್ಷಿಪ್ಯ ಪರ್ವತೇ ।7.16.25aएवमुक्त्वा ततो राम भुजान् विक्षिप्य पर्वते ।7.16.20aएवमुक्त्वा ततो राजन्भुजान्प्रक्षिप्य पर्वते ।7.16.27aएवमुक्त्वा ततो राम भुजान्विक्षिप्य पर्वते ।7.16.25aएवमुक्त्वा ततो राम भुजान्विक्षिप्य पर्वते।
59#25bತೋಲಯಾಮಾಸ ತಂ ಶೀಘ್ರಂ ಸ ಶೈಲಃ ಸಮಕಂಪತ ॥7.16.25bतोलयामास तं शीघ्रं स शैलः समकम्पत ॥ २५ ॥7.16.20bतोलयामास तं शैलं समृगव्यालपादपम् ॥7.16.20॥7.16.27bतोलयामास तं शैलं स शैलः समकम्पत ॥ २७ ॥7.16.25bतोलयामास तं शीघ्रं स शैलं समकम्पत ॥ 7.16.25 ॥
607.16.21aततो राम महादेवः प्रहसन्वीक्ष्य तत्कृतम् ।
61#26aಚಾಲನಾತ್ಪರ್ವತಸ್ಯೈವ ಗಣಾ ದೇವಸ್ಯ ಕಂಪಿತಾಃ ।7.16.26aचालनात् पर्वतस्यैव गणा देवस्य कम्पिताः ।7.16.28aचालनात्पर्वतस्यैव गणा देवस्य कम्पिताः ।7.16.26aचालनात्पर्वतस्यैव गणा देवस्य कम्पिताः।
62#26bಚಚಾಲ ಪಾರ್ವತೀ ಚಾಪಿ ತದಾಶ್ಲಿಷ್ಟಾ ಮಹೇಶ್ವರಮ್ ॥7.16.26bचचाल पार्वती चापि तदाश्लिष्टा महेश्वरम् ॥ २६ ॥7.16.28bचचाल पार्वती चापि तदाश्लिष्टा महेश्वरम् ॥ २८ ॥7.16.26bचचाल पार्वती चापि तदाऽऽश्लिष्टा महेश्वरम् ॥ 7.16.26 ॥
63#27aತತೋ ರಾಮ ಮಹಾದೇವೋ ದೇವಾನಾಂ ಪ್ರವರೋ ಹರಃ ।7.16.27aततो राम महादेवो देवानां प्रवरो हरः ।7.16.29aततो राम महादेवो देवानां प्रवरो हरः ।7.16.27aततो राम महादवो देवानां प्रवरो हरः।
64#27bಪಾದಾಂಗುಷ್ಠೇನ ತಂ ಶೈಲಂ ಪೀಡಯಾಮಾಸ ಲೀಲಯಾ ॥7.16.27bपादाङ्गुष्ठेन तं शैलं पीडयामास लीलया ॥ २७ ॥7.16.21bपादाङ्गुष्ठेन तं शैलं पीडयामास लीलया ॥7.16.21॥7.16.29bपादाङ्गुष्ठेन तं शैलं पीडयामास लीलया ॥ २९ ॥7.16.27bपादाङ्गुष्ठेन तं शैलं पीडयामास लीलया ॥ 7.16.27 ॥
65#28aಪೀಡಿತಾಸ್ತು ತತಸ್ತಸ್ಯ ಶೈಲ ಸ್ತಂಭೋಪಮಾ ಭುಜಾಃ ।7.16.28aपीडितास्तु ततस्तस्य शैलस्तम्भोपमा भुजाः ।7.16.22aततस्ते पीडितास्तस्य शैलस्याधो गता भुजाः ।7.16.30aपीडितास्तु ततस्तस्य शैलस्याधोगता भुजाः ।7.16.28aपीडितास्तु ततस्तस्य शैलस्याधोगता भुजाः।
66#28bವಿಸ್ಮಿತಾಶ್ಚಾಭವಂಸ್ತತ್ರ ಸಚಿವಾಸ್ತಸ್ಯ ರಕ್ಷಸಃ ॥7.16.28bविस्मिताश्चाभवंस्तत्र सचिवास्तस्य रक्षसः ॥ २८ ॥7.16.22bविस्मिताश्चाभवंस्तत्र सचिवास्तस्य रक्षसः ॥7.16.22॥7.16.30bविस्मिताश्चाभवंस्तत्र सचिवास्तस्य रक्षसः ॥ ३० ॥7.16.28bविस्मिताश्चाभवंस्तत्र सचिवास्तस्य रक्षसः ॥ 7.16.28 ॥
67#29aರಕ್ಷಸಾ ತೇನ ರೋಷಾಚ್ಚ ಭುಜಾನಾಂ ಪೀಡನಾತ್ತಥಾ ।7.16.29aरक्षसा तेन रोषाच्च भुजानां पीडनात् तथा ।7.16.23aरक्षसा तेन रोषाच्च भुजानां पीडनात्तथा ।7.16.31aरक्षसा तेन रोषाच्च भुजानां पीडनात्तदा ।7.16.29aरक्षसा तेन रोषाच्च भुजानां पीडनात्तदा।
68#29bಮುಕ್ತೋ ವಿರಾವಃ ಸಹಸಾ ತ್ರೈಲೋಕ್ಯಂ ಯೇನ ಕಂಪಿತಮ್ ॥7.16.29bमुक्तो विरावः सहसा त्रैलोक्यं येन कम्पतम् ॥ २९ ॥7.16.23bमुक्तो विरावः सुमहांस्त्रैलोक्यं येन पूरितम् ॥7.16.23॥7.16.31bमुक्तो विरावः सहसा त्रैलोक्यं येन कम्पितम् ॥ ३१ ॥7.16.29bमुक्तो विरावः सहसा त्रैलोक्यं येन कम्पितम् ॥ 7.16.29 ॥
697.16.24aमानुषाः शब्दवित्रस्ता मेनिरे लोकसंक्षयम् ।7.16.32a[मानुषाः शब्दवित्रस्ता मेनिरे लोकसंक्षयम् ।
707.16.24bदेवताश्चापि संक्षुब्धाश्चलिताः स्वेषु कर्मसु ॥7.16.24॥7.16.32bदेवताश्चापि संक्षुब्धाश्चलिताः स्वेषु वर्त्मसु ॥ ३२ ॥
717.16.33aविस्फोटिताश्च गिरयो नागा गर्जन्ति चासकृत् ।
727.16.33bनिश्चेष्टाः सत्ववन्तोपि नदन्ति बहुशस्तदा ॥ ३३ ॥
737.16.34aसमुद्राश्चुक्षुभुस्तत्र प्रचकंपे वसुंधरा ।
747.16.34bराम नागाः सगन्धर्वाः स्तब्धाक्षास्तत्र तत्रसुः ॥ ३४ ॥
757.16.34c]
76#30aಮೇನಿರೇ ವಜ್ರನಿಷ್ಪೇಷಂ ತಸ್ಯಾಮಾತ್ಯಾ ಯುಗಕ್ಷಯೇ ।7.16.30aमेनिरे वज्रनिष्पेषं तस्यामात्या युगक्षये ।7.16.35aमेनिरे वज्रनिष्पेषं तस्यामात्या युगक्षये ।7.16.30aमेनिरे वज्रनिष्पेषं तस्यामात्या युगक्षये।
77#30bತದಾ ವರ್ತ್ಮಸು ಚಲಿತಾ ದೇವಾ ಇಂದ್ರಪುರೋಗಮಾಃ ॥7.16.30bतदा वर्त्मसु चलिता देवा इन्द्रपुरोगमाः ॥ ३० ॥7.16.35bतदा वर्त्मस्थचलिता देवा इन्द्रपुरोगमाः ॥ ३५ ॥7.16.30bतदा वर्त्मस्थचलिता देवा इन्द्रपुरोगमाः ॥ 7.16.30 ॥
78#31aಸಮುದ್ರಾಶ್ಚಾಪಿ ಸಂಕ್ಷುಬ್ಧಾಶ್ಚಲಿತಾಶ್ಚಾಪಿ ಪರ್ವತಾಃ ।7.16.31aसमुद्राश्चापि सङ्क्षुब्धाश्चलिताश्चापि पर्वताः ।7.16.36aसमुद्राश्चापि संक्षुब्धाश्चलिताश्चापि पर्वताः ।7.16.31aसमुद्राश्चापि सङ्क्षुब्धाश्चलिताश्चापि पर्वताः।
79#31bಯಕ್ಷಾ ವಿದ್ಯಾಧರಾಃ ಸಿದ್ಧಾಃ ಕಿಮೇತದಿತಿ ಚಾಬ್ರುವನ್ ॥7.16.31bयक्षा विद्याधराः सिद्धाः किमेतदिति चाब्रुवन् ॥ ३१ ॥7.16.36bयक्षा विद्याधराः सिद्धाः किमेतदिति चाब्रुवन् ॥ ३६ ॥7.16.31bयक्षा विद्याधराः सिद्धाः किमेतदिति चाब्रुवन् ॥ 7.16.31 ॥
807.16.37aअथ ते मन्त्रिणस्तस्य विक्रोशन्तमथाब्रुवन् ।7.16.32aअथ ते मन्त्रिणस्तस्य विक्रोशन्तमथाब्रुवन्।
81#32aತೋಷಯಸ್ವ ಮಹಾದೇವಂ ನೀಲಕಂಠಮುಮಾಪತಿಮ್ ।7.16.32aतोषयस्व महादेवं नीलकण्ठमुमापतिम् ।7.16.37bतोषयस्व महादेवं नीलकण्ठमुमापतिम् ॥ ३७ ॥7.16.32bतोषयस्व महादेवं नीलकण्ठमुमापतिम् ॥ 7.16.32 ॥
82#32bತಮೃತೇ ಶರಣಂ ನಾನ್ಯಂ ಪಶ್ಯಾಮೋಽತ್ರ ದಶಾನನ ॥7.16.32bतमृते शरणं नान्यं पश्यामोऽत्र दशानन ॥ ३२ ॥7.16.38aतमृते शरणं नान्यं पश्यामोत्र दशानन ।7.16.33aतमृते शरणं नान्यं पश्यामोऽत्र दशानन।
83#33aಸ್ತುತಿಭಿಃ ಪ್ರಣತೋ ಭೂತ್ವಾ ತಮೇವ ಶರಣಂ ವ್ರಜ ।7.16.33aस्तुतिभिः प्रणतो भूत्वा तमेव शरणं व्रज ।7.16.38bस्तुतिभिः प्रणतो भूत्वा तमेव शरणं व्रज ।7.16.33bस्तुतिभिः प्रणतो भूत्वा तमेव शरणं व्रज ॥ 7.16.33 ॥
84#33bಕೃಪಾಲುಃ ಶಂಕರಸ್ತುಷ್ಟಃ ಪ್ರಸಾದಂ ತೇ ವಿಧಾಸ್ಯತಿ ॥7.16.33bकृपालुः शङ्करस्तुष्टः प्रसादं ते विधास्यति ॥ ३३ ॥7.16.38cकृपालुः शंकरस्तुष्टः प्रसादं ते विधास्यति ॥ ३८ ॥7.16.34aकृपालुः शङ्करस्तुष्टः प्रसादं ते विधास्यति।
85#34aಏವಮುಕ್ತಸ್ಯದಾಮಾತ್ಯೈಸ್ತುಷ್ಟಾವ ವೃಷಭಧ್ವಜಮ್ ।7.16.34aएवमुक्तस्तदामात्यैस्तुष्टाव वृषभध्वजम् ।7.16.39aएवमुक्तस्तदाऽमात्यैस्तुष्टाव वृषभध्वजम् ।7.16.34bएवमुक्तस्तदामात्यैस्तुष्टाव वृषभध्वजम् ॥ 7.16.34 ॥
86#34bಸಾಮಭಿರ್ವಿವಿಧೈಃ ಸ್ತೋತ್ರೈಃ ಪ್ರಣಮ್ಯ ಸ ದಶಾನನಃ ।7.16.34bसामभिर्विविधैः स्तोत्रैः प्रणम्य स दशाननः ।7.16.39bसामभिर्विविधैः स्तोत्रैः प्रणम्य स दशाननः ॥ ३९ ॥7.16.35aसामभिर्विविधैः स्तोत्रैः प्रणम्य स दशाननः।
877.16.40a[ कालो महान्नरश्रेष्ठ रुवतो रक्षसो गतः ।
88#34cಸಂವತ್ಸರಸಹಸ್ರಂತು ರುದತೋ ರಕ್ಷಸೋ ಗತಮ್ ॥7.16.34cसंवत्सरसहस्रं तु रुदतो रक्षसो गतम् ॥ ३४ ॥7.16.40b]
संवत्सरसहस्रं तु रुदतो रक्षसो गतम् ॥ ४० ॥
7.16.35bसंवत्सरसहस्रं तु रुदतो रक्षसो गतम् ॥ 7.16.35 ॥
89#35aತತಃ ಪ್ರೀತೋ ಮಹಾದೇವಃ ಶೈಲಾಗ್ರೇ ವಿಷ್ಠಿತಃ ಪ್ರಭುಃ ।7.16.35aततः प्रीतो महादेवः शैलाग्रे विष्ठितः प्रभुः ।7.16.25aततः प्रीतो महादेवः शैलाग्रे विष्ठितस्तदा ।7.16.41aततः प्रीतो महादेवः शैलाग्रे विष्ठितः प्रभुः ।7.16.36aततः प्रीतो महादेवः शैलाग्रे विष्ठितः प्रभुः।
90#35bಮುಕ್ತ್ವಾ ಚಾಸ್ಯ ಭುಜಾನ್ರಾಮ ಪ್ರಾಹ ವಾಕ್ಯಂ ದಶಾನನಮ್ ॥7.16.35bमुक्त्वा चास्य भुजान् राम प्राह वाक्यं दशाननम् ॥ ३५ ॥7.16.25bमुक्त्वा तस्य भुजान्राजन्प्राह वाक्यं दशाननम् ॥7.16.25॥7.16.41bमुक्त्वा चास्य भुजान्राम ग्राह वाक्यं दशाननम् ॥ ४१ ॥7.16.36bमुक्त्वा चास्य भुजान्राम प्राह वाक्यं दशाननम् ॥ 7.16.36 ॥
91#36aಪ್ರೀತೋಽಸ್ಮಿ ತವ ವೀರ್ಯಸ್ಯ ಶೌಟೀರ್ಯಾಚ್ಚ ದಶಾನನ ।7.16.36aप्रीतोऽस्मि तव वीरस्य शौटीर्याच्च दशानन ।7.16.26aप्रीतोऽस्मि तव वीर्याच्च शौण्डीर्याच्च निशाचर ।7.16.42aप्रीतोस्मि तव वीर्यस्य शौण्डीर्याच्च दशानन ।7.16.37aप्रीतोऽस्मि तव वीर्यस्य शौण्डार्याच्च दशानन।
927.16.26bरवतो वेदना मुक्तः स्वरः परमदारुणः ॥7.16.26॥
93#36bಶೈಲಾಕ್ರಾಂತೇನ ಯೋ ಮುಕ್ತಸ್ತ್ವಯಾ ರಾವಃ ಸುದಾರುಣಃ ॥7.16.36bशैलाक्रान्तेन यो मुक्तस्त्वया रावः सुदारुणः ॥ ३६ ॥7.16.42bशैलाक्रान्तेन यो मुक्तस्त्वया रावः सुदारुणः ॥ ४२ ॥7.16.37bशैलाक्रान्तेन यो मुक्तस्त्वया रावः सुदारुणः ॥ 7.16.37 ॥
94#37aಯಸ್ಮಾಲ್ಲೋಕತ್ರಯಂ ಚೈತದ್ರಾವಿತಂ ಭಯಮಾಗತಮ್ ।7.16.37aयस्माल्लोकत्रयं चैतद् रावितं भयमागतम् ।7.16.27aयस्माल्लोकत्रयं त्वेतद्रावितं भयमागतम् ।7.16.43aयस्माल्लोकत्रयं चैतद्रावितं भयमागतम् ।7.16.38aयस्माल्लोकत्रयं चैतद्रावितं भयमागतम्।
95#37bತಸ್ಮಾತ್ತ್ವಂ ರಾವಣೋ ನಾಮ ನಾಮ್ನಾ ರಾಜನ್ ಭವಿಷ್ಯಸಿ ॥7.16.37bतस्मात् त्वं रावणो नाम नाम्ना राजन् भविष्यसि ॥ ३७ ॥7.16.27bतस्मात्त्वं रावणो नाम नाम्ना तेन भविष्यसि ॥7.16.27॥7.16.43bतस्मात्वं रावणो नाम नाम्ना राजन्भविष्यसि ॥ ४३ ॥7.16.38bतस्मात्त्वं रावणो नाम नाम्ना राजन्भविष्यसि ॥ 7.16.38 ॥
96#38aದೇವತಾ ಮಾನುಷಾ ಯಕ್ಷಾ ಯೇ ಚಾನ್ಯೇ ಜಗತೀತಲೇ ।7.16.38aदेवता मानुषा यक्षा ये चान्ये जगतीतले ।7.16.28aदेवता मानुषा यक्षा ये चान्ये जगतीतले ।7.16.44aदेवता मानुषा यक्षा ये चान्ये जगतीतले ।7.16.39aदेवता मानुषा यक्षा ये चान्ये जगतीतले।
97#38bಏವಂ ತ್ವಾಮಭಿಧಾಸ್ಯಂತಿ ರಾವಣಂ ಲೋಕರಾವಣಮ್ ॥7.16.38bएवं त्वामभिधास्यन्ति रावणं लोकरावणम् ॥ ३८ ॥7.16.28bएवं त्वामभिधास्यन्ति रावणं लोकरावणम् ॥7.16.28॥7.16.44bएवं त्वामभिधास्यन्ति रावणं लोकरावणम् ॥ ४४ ॥7.16.39bएवं त्वामभिधास्यन्ति रावणं लोकरावणम् ॥ 7.16.39 ॥
98#39aಗಚ್ಛ ಪೌಲಸ್ತ್ಯ ವಿಸ್ರಬ್ಧಂ ಪಥಾ ಯೇನ ತ್ವಮಿಚ್ಛಸಿ ।7.16.39aगच्छ पौलस्त्य विस्रब्धं पथा येन त्वमिच्छसि ।7.16.29aगच्छ पौलस्त्य विस्रब्धः पथा येन त्वमिच्छसि ।7.16.45aगच्छ पौलस्त्य विस्रब्धं पथा येन त्वमिच्छसि ।7.16.40aगच्छ पौलस्त्य विस्रब्धं पथा येन त्वमिच्छसि।
99#39bಮಯಾ ಚೈವಾಭ್ಯನುಜ್ಞಾತೋ ರಾಕ್ಷಸಾಧಿಪ ಗಮ್ಯತಾಮ್ ॥7.16.39bमया चैवाभ्यनुज्ञातो राक्षसाधिप गम्यताम् ॥ ३९ ॥7.16.29bमया त्वमभ्यनुज्ञातो राक्षसाधिप गम्यताम् ॥7.16.29॥7.16.45bमया चैवाभ्यनुज्ञातो राक्षसाधिप गम्यताम् ॥ ४५ ॥7.16.40bमया चैवाभ्यनुज्ञातो राक्षसाधिप गम्यताम् ॥ 7.16.40 ॥
100#40aಏವಮುಕ್ತಸ್ತು ಲಂಕೇಶಃ ಶಂಭುನಾ ಸ್ವಯಮಬ್ರವೀತ್ ।7.16.40aएवमुक्तस्तु लङ्केशः शम्भुना स्वयमब्रवीत् ।7.16.46aएवमुक्तस्तु लङ्केशः शंभुना स्वयमब्रवीत् ।7.16.41aएवमुक्तस्तु लङ्केशः शम्भुना स्वयमब्रवीत्।
101#40bಪ್ರೀತೋ ಯದಿ ಮಹಾದೇವ ವರಂ ಮೇ ದೇಹಿ ಯಾಚತಃ ॥7.16.40bप्रीतो यदि महादेव वरं मे देहि याचतः ॥ ४० ॥7.16.46bप्रीतो यदि महादेव वरं मे देहि याचतः ॥ ४६ ॥7.16.41bप्रीतो यदि महादेव वरं मे देहि याचतः ॥ 7.16.41 ॥
102#41aಅವಧ್ಯತ್ವಂ ಮಯಾ ಪ್ರಾಪ್ತಂ ದೇವಗಂಧರ್ವದಾನವೈಃ ।7.16.41aअवध्यत्वं मया प्राप्तं देवगन्धर्वदानवैः ।7.16.47aअवध्यत्वं मया प्राप्तं देवगन्धर्वदानवैः ।7.16.42aअवध्यत्वं मया प्राप्तं देवगन्धर्वदानवैः।
103#41bರಾಕ್ಷಸೈರ್ಗುಹ್ಯಕೈರ್ನಾಗೈರ್ಯೇ ಚಾನ್ಯೇ ಬಲವತ್ತರಾಃ ॥7.16.41bराक्षसैर्गुह्यकैर्नागैर्ये चान्ये बलवत्तराः ॥ ४१ ॥7.16.47bराक्षसैर्गुह्यकैर्नागैर्ये चान्ये बलवत्तराः ॥ ४७ ॥7.16.42bराक्षसैर्गुह्यकैर्नागैर्ये चान्ये बलवत्तराः ॥ 7.16.42 ॥
104#42aಮಾನುಷಾನ್ನ ಗಣೇ ದೇವ ಸ್ವಲ್ಪಾಸ್ತೇ ಮಮ ಸಮ್ಮತಾಃ ।7.16.42aमानुषान् न गणे देव स्वल्पास्ते मम सम्मताः ।7.16.48aमानुषान्न गणे देव स्वल्पास्ते मम संमताः ।7.16.43aमानुषान्न गणे देव स्वल्पास्ते मम सम्मताः।
105#42bದೀರ್ಘಮಾಯುಶ್ಚ ಮೇ ಪ್ರಾಪ್ತಂ ಬ್ರಹ್ಮಣಸ್ತ್ರಿ ಪುರಾಂತಕ ॥7.16.42bदीर्घमायुश्च मे प्राप्तं ब्रह्मणस्त्रिपुरान्तक ॥ ४२ ॥7.16.48bदीर्घमायुश्च मे प्राप्तं ब्रह्मणस्त्रिपुरान्तक ।7.16.43bदीर्घमायुश्च मे प्राप्तं ब्रह्मणस्त्रिपुरान्तक ॥ 7.16.43 ॥
106#43aವಾಂಛಿತಂ ಚಾಯುಷಃ ಶೇಷಂ ಶಸ್ತ್ರಂ ತ್ವಂ ಚ ಪ್ರಯಚ್ಛಮೇ ।7.16.43aवाञ्छितं चायुषः शेषं शस्त्रं त्वं च प्रयच्छ मे ।7.16.48cवाञ्छितं चायुषः शेषं शस्त्रं त्वं च प्रयच्छ मे ॥ ४८ ॥7.16.44aवाञ्छितं चायुषः शेषं शस्त्रं त्वं च प्रयच्छ मे।
107#43bಏವಮುಕ್ತಸ್ತತಸ್ತೇನ ರಾವಣೇನ ಸ ಶಂಕರಃ ॥7.16.43bएवमुक्तस्ततस्तेन रावणेन स शङ्करः ॥ ४३ ॥7.16.49aएवमुक्तस्ततस्तेन रावणेन स शंकरः ।7.16.44bएवमुक्तस्ततस्तेन रावणेन स शङ्करः ॥ 7.16.44 ॥
108#44aದದೌ ಖಡ್ಗಂ ಮಹಾದೀಪ್ತಂ ಚಂದ್ರಹಾಸಮಿತಿ ಶ್ರುತಮ್ ।7.16.44aददौ खड्गं महादीप्तं चन्द्रहासमिति श्रुतम् ।7.16.49bददौ खड्गं महादीप्तं चन्द्रहासमिति श्रुतम् ।7.16.45aददौ खड्गं महादीप्तं चन्द्रहासमिति श्रुतम्।
109#44bಆಯುಷಶ್ಚಾವಶೇಷಂ ಚ ದದೌ ಭೂತಪತಿಸ್ತದಾ ॥7.16.44bआयुषश्चावशेषं च ददौ भूतपतिस्तदा ॥ ४४ ॥7.16.49cआयुषश्चावशेषं च स्थित्वा भूतपतिस्तदा ॥ ४९ ॥7.16.45bआयुषश्चावशेषं च स्थित्वा भूतपतिस्तदा ॥ 7.16.45 ॥
110#45aದತ್ತ್ವೋವಾಚ ತತಃ ಶಂಭುರ್ನಾವಜ್ಞೇಯಮಿದಂ ತ್ವಯಾ ।7.16.45aदत्त्वोवाच ततः शम्भुर्नावज्ञेयमिदं त्वया ।7.16.50aदत्वोवाच ततः शंभुर्नावज्ञेयमिदं त्वया ।7.16.46aदत्त्वोवाच ततः शम्भुर्नावज्ञेयमिदं त्वया।
111#45bಅವಜ್ಞಾತಂ ಯದಿಹಿ ತೇ ಮಾಮೇವೈಷ್ಯತ್ಯಸಂಶಯಃ ॥7.16.45bअवज्ञातं यदि हि ते मामेवैष्यत्यसंशयः ॥ ४५ ॥7.16.50bअवज्ञातं यदि हि ते मामेवैष्यत्यसंशयः ॥ ५० ॥7.16.46bअवज्ञातं यदि हि ते मामेवैष्यत्यसंशयः ॥ 7.16.46 ॥
112#46aಏವಂ ಮಹೇಶ್ವರೇಣೈವ ಕೃತನಾಮಾ ಸ ರಾವಣಃ ।7.16.46aएवं महेश्वरेणैव कृतनामा स रावणः ।7.16.30aसाक्षान्महेश्वरेणैवं कृतनामा स रावणः ।7.16.51aएवं महेश्वरेणैव कृतनामा स रावणः ।7.16.47aएवं महेश्वरेणैव कृतनामा स रावणः।
113#46bಅಭಿವಾದ್ಯ ಮಹಾದೇವಮಾರುರೋಹಾಥ ಪುಷ್ಪಕಮ್ ॥7.16.46bअभिवाद्य महादेवमारुरोहाथ पुष्पकम् ॥ ४६ ॥7.16.30bअभिवाद्य महादेवं विमानं तत्समारुहत् ॥7.16.30॥7.16.51bअभिवाद्य महादेवमारुरोहाथ पुष्पकम् ॥ ५१ ॥7.16.47bअभिवाद्य महादेवमारुरोहाथ पुष्पकम् ॥ 7.16.47 ॥
114#47aತತೋ ಮಹೀತಲಂ ರಾಮ ಪರ್ಯಕ್ರಾಮತ ರಾವಣಃ ।7.16.47aततो महीतलं राम पर्यक्रामत रावणः ।7.16.31aततो महीतले राम परिचक्राम रावणः ।7.16.52aततो महीतले राम परिचक्राम रावणः ।7.16.48aततो महीतले राम पर्यक्रामत रावणः।
115#47bಕ್ಷತ್ರಿಯಾನ್ ಸುಮಹಾವೀರ್ಯಾನ್ ಬಾಧಮಾನಸ್ತತಸ್ತತಃ ॥7.16.47bक्षत्रियान् सुमहावीर्यान् बाधमानस्ततस्ततः ॥ ४७ ॥7.16.31bक्षत्रियान्सुमहावीर्यान्बाधमानस्ततस्ततः ॥7.16.31॥7.16.52bक्षत्रियान्सुमहावीर्यान्बाधमान इतस्ततः ॥ ५२ ॥7.16.48bक्षत्€ित्रयान्सुमहावीर्यान्बाधमान इतस्ततः ॥ 7.16.48 ॥
116#48aಕೇಚಿತ್ತೇಜಸ್ವಿನಃ ಶೂರಾಃ ಕ್ಷತ್ರಿಯಾ ಯುದ್ಧದುರ್ಮದಾಃ ।7.16.48aकेचित् तेजस्विनः शूराः क्षत्रिया युद्धदुर्मदाः ।7.16.53aकेचित्तेजस्विनः शूराः क्षत्रिया युद्धदुर्मदाः ।7.16.49aकेचित्तेजस्विनः शूराः क्षत्€ित्रया युद्धदुर्मदाः।
117#48bತಚ್ಛಾಸನಮಕುರ್ವಂತೋ ವಿನೇಶುಃ ಸಪರಿಚ್ಛದಾಃ ॥7.16.48bतच्छासनमकुर्वन्तो विनेशुः सपरिच्छदाः ॥ ४८ ॥7.16.53bतच्छासनमकुर्वन्तो विनेशुः सपरिच्छदाः ॥ ५३ ॥7.16.49bतच्छासनमकुर्वन्तो विनेशुः सपरिच्छदाः ॥ 7.16.49 ॥
118#49aಅಪರೇ ದುರ್ಜಯಂ ರಕ್ಷೋ ಜಾನಂತಃ ಪ್ರಾಜ್ಞಸಮ್ಮತಾಃ ।7.16.49aअपरे दुर्जयं रक्षो जानन्तः प्राज्ञसम्मताः ।7.16.54aअपरे दुर्जयं रक्षो जानन्तः प्राज्ञसंमताः ।7.16.50aअपरे दुर्जयं रक्षो जानन्तः प्राज्ञसम्मताः।
119#49bಜಿತಾಃ ಸ್ಮ ಇತ್ಯಭಾಷಂತ ರಾಕ್ಷಸಂ ಬಲದರ್ಪಿತಮ್ ॥7.16.49bजिताः स्म इत्यभाषन्त राक्षसं बलदर्पितम् ॥ ४९ ॥7.16.54bजिताः स्म इत्यभाषन्त राक्षसं बलदर्पितम् ॥ ५४ ॥7.16.50bजिताः स्म इत्यभाषन्त राक्षसं बलदर्पितम् ॥ 7.16.50 ॥
1207.16.55a[ एवं दर्पबलोत्सिक्तो रावणो लोकरावणः ।
1217.16.55bप्रतापावनती कुर्वन्राष्ट्राणि विचचारह ॥ ५५ ॥
1227.16.55c]
1237.16.16इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने षोडशः सर्गः ॥ १६ ॥