Ramayana Half-Verse Concordance 7.15

पुष्पक-प्राप्तिः. Built from structured/verses.jsonl. Rows are monotone-aligned half-verse/pāda-like units split at । and ॥, so verse-number boundary differences can appear as inserted or shifted line rows.

105 aligned line rows across 7 source streams.

Columns:
gor-kn 89 lines gor-hi 89 lines crit 63 lines gr 93 lines dr-mula 88 lines
#gor-kngor-hicritgrdr-mulagr-iitkiitk
17.15.1aततस्तान्विद्रुतान्दृष्ट्वा यक्षाञ्शतसहस्रशः ।
27.15.1bस्वयमेव धनाध्यक्षो निर्जगाम रणं प्रति ॥7.15.1॥
37.15.2aतत्र माणिचारो नाम यक्षः परमदुर्जयः ।
4#1aತತಸ್ತಾನ್ಲ್ಲಕ್ಷ್ಯ ವಿತ್ರಸ್ಥಾನ್ ಯಕ್ಷೇಂದ್ರಾಂಶ್ಚ ಸಹಸ್ರಶಃ ।7.15.1aततस्ताल्ँ लक्ष्य वित्रस्तान् यक्षेन्द्रांश्च सहस्रशः ।7.15.1aततस्ता लक्ष्य वित्रस्तान्यक्षेन्द्रांच सहस्रशः ।7.15.1aततस्ताल्ँलक्ष्य वित्रस्तान्यक्षेन्द्रांश्च सहस्रशः।
5#1bಧನಾಧ್ಯಕ್ಷೋ ಮಹಾಯಕ್ಷಂ ಮಣಿಭದ್ರಮಥಾಬ್ರವೀತ್ ॥7.15.1bधनाध्यक्षो महायक्षं माणिभद्रमथाब्रवीत् ॥ १ ॥7.15.1bधनाध्यक्षो महायक्षं माणिचारमथाब्रवीत् ॥ १ ॥7.15.1bधनाध्यक्षो महायक्षं माणिचारमथाब्रवीत् ॥ 7.15.1 ॥
6#2aರಾವಣಂ ಜಹಿ ಯಕ್ಷೇಂದ್ರ ದುರ್ವೃತ್ತಂ ಪಾಪಚೇತಸಮ್ ।7.15.2aरावणं जहि यक्षेन्द्र दुर्वृत्तं पापचेतसम् ।7.15.2aरावणं जहि यक्षेन्द्र दुर्वृत्तं पापचेतसम् ।7.15.2aरावणं जहि यक्षेन्द्र दुर्वृत्तं पापचेतसम्।
7#2bಶರಣಂ ಭವ ವೀರಾಣಾಂ ಯಕ್ಷಾಣಾಂ ಯುದ್ಧಶಾಲಿನಾಮ್ ॥7.15.2bशरणं भव वीराणां यक्षाणां युद्धशालिनाम् ॥ २ ॥7.15.2bशरणं भव वीराणां यक्षाणां युद्धशालिनाम् ॥ २ ॥7.15.2bशरणं भव वीराणां यक्षाणां युद्धशालिनाम् ॥ 7.15.2 ॥
8#3aಏವಮುಕ್ತೋ ಮಹಾಬಾಹುರ್ಮಣಿಭದ್ರಃ ಸುದುರ್ಜಯಃ ।7.15.3aएवमुक्तो महाबाहुर्माणिभद्रः सुदुर्जयः ।7.15.3aएवमुक्तो महाबाहुर्माणिभद्रः सुदुर्जयः ।7.15.3aएवमुक्तो महाबाहुर्माणिभद्रः सुदुर्जयः।
9#3bವೃತೋ ಯಕ್ಷಸಹಸ್ರೈಸ್ತು ಚತುರ್ಭಿಃ ಸಮಯೋಧಯತ್ ॥7.15.3bवृतो यक्षसहस्रैस्तु चतुर्भिः समयोधयत् ॥ ३ ॥7.15.2bवृतो यक्षसहस्रैः स चतुर्भिः समयोधयत् ॥7.15.2॥7.15.3bवृतो यक्षसहस्रैस्तु चतुर्भिः समयोधयत् ॥ ३ ॥7.15.3bवृतो यक्षसहस्रैस्तु चतुर्भिः समयोधयत् ॥ 7.15.3 ॥
10#4aತೇ ಗದಾಮುಸಲಪ್ರಾಸೈಃ ಶಕ್ತಿತೋಮರಮುದ್ಗರೈಃ ।7.15.4aते गदामुसलप्रासैः शक्तितोमरमुद्गरैः ।7.15.3aते गदामुसलप्रासशक्तितोमरमुद्गरैः ।7.15.4aते गदामुसलप्रासैः शक्तितोमरमुद्गरैः ।7.15.4aते गदामुसलप्रासैः शक्तितोमरमुद्गरैः।
11#4bಅಭಿಘ್ನಂತಸ್ತದಾ ಯಕ್ಷಾ ರಾಕ್ಷಸಾನ್ ಸಮುಪಾದ್ರವನ್ ॥7.15.4bअभिघ्नन्तस्तदा यक्षा राक्षसान् समुपाद्रवन् ॥ ४ ॥7.15.3bअभिघ्नन्तो रणे यक्षा राक्षसानभिदुद्रुवुः ॥7.15.3॥7.15.4bअभिघ्नन्तस्तदा यक्षा राक्षसान्समुपाद्रवन् ॥ ४ ॥7.15.4bअभिघ्नन्तस्तदा यक्षा राक्षसान्समुपाद्रवन् ॥ 7.15.4 ॥
12#5aಕುರ್ವಂತಸ್ತುಮುಲಂ ಯುದ್ಧಂ ಚರಂತಃ ಶ್ಯೇನವಲ್ಲಘು ।7.15.5aकुर्वन्तस्तुमुलं युद्धं चरन्तः श्येनवल्लघु ।7.15.5aकुर्वन्तस्तुमुलं युद्धं चरन्तः श्येनवल्लघु ।7.15.5aकुर्वन्तस्तुमुलं युद्धं चरन्तः श्येनवल्लघु।
13#5bಬಾಢಂ ಪ್ರಯಚ್ಛ ನೇಚ್ಛಾಮಿ ದೀಯತಾಮಿತಿ ಭಾಷಿಣಃ ॥7.15.5bबाढं प्रयच्छ नेच्छामि दीयतामिति भाषिणः ॥ ५ ॥7.15.5bबाढं प्रयच्छन्नेच्छामि दीयतामिति भाषिणः ॥ ५ ॥7.15.5bबाढं प्रयच्छन्नेच्छामि दीयतामिति भाषिणः ॥ 7.15.5 ॥
14#6aತತೋ ದೇವಾಃ ಸಗಂಧರ್ವಾ ಋಷಯೋ ಬ್ರಹ್ಮವಾದಿನಃ ।7.15.6aततो देवाः सगन्धर्वा ऋषयो ब्रह्मवादिनः ।7.15.6aततो देवाः सगन्धर्वा ऋषयो ब्रह्मवादिनः ।7.15.6aततो देवाः सगन्धर्वा ऋषयो ब्रह्मवादिनः।
15#6bದೃಷ್ಟ್ವಾ ತತ್ತುಮುಲಂ ಯುದ್ಧಂ ಪರಂ ವಿಸ್ಮಯಮಾಗಮನ್ ॥7.15.6bदृष्ट्वा तत् तुमुलं युद्धं परं विस्मयमागमन् ॥ ६ ॥7.15.6bदृष्ट्वा तत्तुमुलं युद्धं परं विस्मयमागमन् ॥ ६ ॥7.15.6bदृष्ट्वा तत्तुमुलं युद्धं परं विस्मयमागमन् ॥ 7.15.6 ॥
16#7aಯಕ್ಷಾಣಾಂ ತು ಪ್ರಹಸ್ತೇನ ಸಹಸ್ರಂ ನಿಹತಂ ರಣೇ ।7.15.7aयक्षाणां तु प्रहस्तेन सहस्रं निहतं रणे ।7.15.4aततः प्रहस्तेन तदा सहस्रं निहतं रणे ।7.15.7aयक्षाणां तु प्रहस्तेन सहस्रं निहतं रणे ।7.15.7aयक्षाणां तु प्रहस्तेन सहस्रं निहतं रणे।
17#7bಮಹೋದರೇಣ ಚಾನಿಂದ್ಯಂ ಸಹಸ್ರಮಪರಂ ಹತಮ್ ॥7.15.7bमहोदरेण चानिन्द्यं सहस्रमपरं हतम् ॥ ७ ॥7.15.4bमहोदरेण गदया सहस्रमपरं हतम् ॥7.15.4॥7.15.7bमहोदरेण चानिन्द्यं सहस्रमपरं हतम् ॥ ७ ॥7.15.7bमहोदरेण चानिन्द्यं सहस्रमपरं हतम् ॥ 7.15.7 ॥
18#8aಕ್ರುದ್ಧೇನ ಚ ತದಾ ರಾಜನ್ ಮಾರಿಚೇನ ಯುಯುತ್ಸುನಾ ।7.15.8aक्रुद्धेन च तदा राजन् मारीचेन युयुत्सुना ।7.15.5aक्रुद्धेन च तदा राम मारीचेन दुरात्मना ।7.15.8aक्रुद्धेन च तदा राजन्मारीचेन युयुत्सुना ।7.15.8aक्रुद्धेन च तदा राजन्मारीचेन युयुत्सुना।
19#8bನಿಮೇಷಾಂತರಮಾತ್ರೇಣ ದ್ವೇ ಸಹಸ್ರೇ ನಿಪಾತಿತೇ ॥7.15.8bनिमेषान्तरमात्रेण द्वे सहस्रे निपातिते ॥ ८ ॥7.15.5bनिमेषान्तरमात्रेण द्वे सहस्रे निपातिते ॥7.15.5॥7.15.8bनिमेषान्तरमात्रेण द्वे सहस्त्रे निपातिते ॥ ८ ॥7.15.8bनिमेषान्तरमात्रेण द्वे सहस्रे निपातिते ॥ 7.15.8 ॥
20#9aಕ್ವ ಚ ಯಕ್ಷಾರ್ಜವಂ ಯುದ್ಧಂ ಕ್ವ ಚ ಮಾಯಾ ಬಲಾಶ್ರಯಮ್ ।7.15.9aक्व च यक्षार्जवं युद्धं क्व च मायाबलाश्रयम् ।7.15.9aक्व च यक्षार्जवं युद्धं क्व च मायावलाश्रयम् ।7.15.9aक्व च यक्षार्जवं युद्धं क्व च मायाबलाश्रयम्।
21#9bರಕ್ಷಸಾಂ ಪುರುಷವ್ಯಾಘ್ರತೇನ ತೇಽಭ್ಯಧಿಕಾ ಯುಧಿ ॥7.15.9bरक्षसां पुरुषव्याघ्र तेन तेऽभ्यधिका युधि ॥ ९ ॥7.15.9bरक्षसां पुरुषव्याघ्र तेन तेऽभ्यधिका युधि ॥ ९ ॥7.15.9bरक्षसां पुरुषव्याघ्र तेन तेऽभ्यधिका युधि ॥ 7.15.9 ॥
22#10aಧೂಮ್ರಾಕ್ಷೇಣ ಸಮಾಗಮ್ಯ ಮಣಭದ್ರೋ ಮಹಾರಣೇ ।7.15.10aधूम्राक्षेण समागम्य माणिभद्रो महारणे ।7.15.6aधूम्राक्षेण समागम्य माणिभद्रो महारणे ।7.15.10aधूम्राक्षेण समागम्य माणिभद्रो महारणे ।7.15.10aधूम्राक्षेण समागम्य माणिभद्रो महारणे।
23#10bಮುಸಲೇನೋರಸಿ ಕ್ರೋಧಾತ್ತಾಡಿತೋ ನ ಚ ಕಂಪಿತಃ ॥7.15.10bमुसलेनोरसि क्रोधात् ताडितो न च कम्पितः ॥ १० ॥7.15.6bमुसलेनोरसि क्रोधात्ताडितो न च कम्पितः ॥7.15.6॥7.15.10bमुसलेनोरसि क्रोधात्ताडितो न च कम्पितः ॥ १० ॥7.15.10bमुसलेनोरसि क्रोधात्तडितो न च कम्पितः ॥ 7.15.10 ॥
24#11aತತೋ ಗದಾಂ ಸಮಾವಿಧ್ಯ ಮಣಿಭದ್ರೇಣ ರಾಕ್ಷಸಃ ।7.15.11aततो गदां समाविध्य माणिभद्रेण राक्षसः ।7.15.7aततो गदां समाविध्य माणिभद्रेण राक्षसः ।7.15.11aततो गदां समाविध्य माणिभद्रेण राक्षसः ।7.15.11aततो गदां समाविध्य माणिभद्रेण राक्षसः।
25#11bಧೂಮ್ರಾಕ್ಷಸ್ತಾಡಿತೋ ಮೂರ್ಧ್ನಿ ವಿಹ್ವಲಃ ಸ ಪಪಾತ ಹ ॥7.15.11bधूम्राक्षस्ताडितो मूर्ध्नि विह्वलः स पपात ह ॥ ११ ॥7.15.7bधूम्राक्षस्ताडितो मूर्ध्नि विह्वलो निपपात ह ॥7.15.7॥7.15.11bधूम्राक्षस्ताडितो मूर्ध्नि विह्वलः स पपात ह ॥ ११ ॥7.15.11bधूम्राक्षस्ताडितो मूर्ध्नि विह्वलः स पपात ह ॥ 7.15.11 ॥
26#12aಧೂಮ್ರಾಕ್ಷಂ ತಾಡಿತಂ ದೃಷ್ಟ್ವಾ ಪತಿತಂ ಶೋಣಿತೋಕ್ಷಿತಮ್ ।7.15.12aधूम्राक्षं ताडितं दृष्ट्वा पतितं शोणितोक्षितम् ।7.15.8aधूम्राक्षं ताडितं दृष्ट्वा पतितं शोणितोक्षितम् ।7.15.12aधुम्राक्षं ताडितं दृष्ट्वा पतितं शोणितोक्षितम् ।7.15.12aधूम्राक्षं ताडितं दृष्ट्वा पतितं शोणितोक्षितम्।
27#12bಅಭ್ಯಧಾವತ ಸಂಗ್ರಾಮೇ ಮಣಿಭದ್ರಂ ದಶಾನನಃ ॥7.15.12bअभ्यधावत सङ्ग्रामे माणिभद्रं दशाननः ॥ १२ ॥7.15.8bअभ्यधावत्सुसंक्रुद्धो माणिभद्रं दशाननः ॥7.15.8॥7.15.12bअभ्यधावत संग्रामे माणिभद्रं दशाननः ॥ १२ ॥7.15.12bअभ्यधावत सङ्ग्रामे माणिभद्रं दशाननः ॥ 7.15.12 ॥
28#13aಸಂಕ್ರುದ್ಧಮಭಿಧಾವಂತಂ ಮಣಿಭದ್ರೋ ದಶಾನನಮ್ ।7.15.13aसङ्क्रुद्धमभिधावन्तं माणिभद्रो दशाननम् ।7.15.9aतं क्रुद्धमभिधावन्तं युगान्ताग्निमिवोत्थितम् ।7.15.13aतं क्रुद्धमभिधावन्तं माणिभद्रो दशाननम् ।7.15.13aतं क्रुद्धमभिधावन्तं माणिभद्रो दशाननम्।
29#13bಶಕ್ತಿಭಿಸ್ತಾಡಯಾಮಾಸ ತಿಸೃಭಿರ್ಯಕ್ಷ ಪುಂಗವಃ ॥7.15.13bशक्तिभिस्ताडयामास तिसृभिर्यक्षपुङ्गवः ॥ १३ ॥7.15.9bशक्तिभिस्ताडयामास तिसृभिर्यक्षपुंगवः ॥7.15.9॥7.15.13bशक्तिभिस्ताडयामास तिसृभिर्यक्षपुङ्गवः ॥ १३ ॥7.15.13bशक्तिभिस्ताडयामास तिसृभिर्यक्षपुङ्गवः ॥ 7.15.13 ॥
307.15.10aततो राक्षसराजेन ताडितो गदया रणे ।
31#14aತಾಡಿತೋ ಮಣಿಭದ್ರಸ್ಯ ಮುಕುಟೇ ಪ್ರಾಹರದ್ರಣೇ ।7.15.14aताडितो माणिभद्रस्य मुकुटे प्राहरद् रणे ।7.15.14aताडितो माणिभद्रस्य मुकुटे प्राहरद्रणे ।7.15.14aताडितो माणिभद्रस्य मुकुटे प्राहरद्रणे।
32#14bತಸ್ಯ ತೇನ ಪ್ರಹಾರೇಣ ಮುಕುಟಂ ಪಾರ್ಶ್ವಮಾಗತಮ್ ॥7.15.14bतस्य तेन प्रहारेण मुकुटं पार्श्वमागतम् ॥ १४ ॥7.15.10bतस्य तेन प्रहारेण मुकुटः पार्श्वमागतः ।7.15.14bतस्य तेन प्रहारेण मुकुटं पार्श्वमागतम् ॥ १४ ॥7.15.14bतस्य तेन प्रहारेम मुकुटं पार्श्वमागतम् ॥ 7.15.14 ॥
337.15.15aततः संयुध्यमानेन विष्टब्धो न व्यकम्पत ।
34#15aತತಃ ಪ್ರಭೃತಿ ಯಕ್ಷೋಽಸೌ ಪಾರ್ಶ್ವಮೌಲಿರಭೂತ್ಕಿಲ ।7.15.15aततः प्रभृति यक्षोऽसौ पार्श्वमौलिरभूत् किल ।7.15.10cतदा प्रभृति यक्षोऽसौ पार्श्वमौलिरिति स्मृतः ॥7.15.10॥7.15.15bतदाप्रभृति यक्षोसौ पार्श्वमौलिरिति स्मृतः ॥ १५ ॥
35#15bತಸ್ಮಿಂಸ್ತು ವಿಮುಖೀಭೂತೋ ಮಣಿಭದ್ರೇ ಮಹಾತ್ಮನಿ ।7.15.15bतस्मिंस्तु विमुखीभूते माणिभद्रे महात्मनि ।7.15.11aतस्मिंस्तु विमुखे यक्षे माणिभद्रे महात्मनि ।7.15.16aतस्मिंस्तु विमुखे यक्षे माणिभद्रे महात्मनि ।7.15.15a[तस्मिंस्तु विमुखे यक्षे माणिभद्रे महात्मनि।
367.15.11bसंनादः सुमहान्राम तस्मिञ्शैले व्यवर्धत ॥7.15.11॥
37#15cಸಂನಾದಃ ಸುಮಹಾನ್ ರಾಜಂಸ್ತಸ್ಮಿನ್ ಶೈಲೇ ವ್ಯವರ್ಧತ ॥7.15.15cसन्नादः सुमहान् राजंस्तस्मिन् शैले व्यवर्धत ॥ १५ ॥7.15.16bसंनादः सुमहान्राजंस्तस्मिन् शैलेऽभ्यवर्तत ॥ १६ ॥7.15.15b] सन्नादः सुमहान्राजंस्तस्मिन्शैलेऽभ्यवर्तत ॥ 7.15.15 ॥
38#16aತತೋ ದೂರಾತ್ಪ್ರದದೃಶೇ ಧನಾಧ್ಯಕ್ಷೋ ಗದಾಧರಃ ।7.15.16aततो दूरात् प्रददृशे धनाध्यक्षो गदाधरः ।7.15.12aततो दूरात्प्रददृशे धनाध्यक्षो गदाधरः ।7.15.17aततो दूरात्प्रददृशे धनाध्यक्षो गदाधरः ।7.15.16aततो दूरात्प्रददृशे धनाध्यक्षो गदाधरः।
39#16bಶುಕ್ರಪ್ರೌಷ್ಠಪದಾಭ್ಯಾಂ ಚ ಪದ್ಮಶಂಖಸಮಾವೃತಃ ॥7.15.16bशुक्रप्रौष्ठपदाभ्यां च पद्मशङ्खसमावृतः ॥ १६ ॥7.15.12bशुक्रप्रोष्टःपदाभ्यां च शङ्खपद्मसमावृतः ॥7.15.12॥7.15.17bशुक्रप्रोष्ठपदाभ्यां च पद्मशङ्खसमावृतः ॥ १७ ॥7.15.16bशुक्रप्रौष्ठपदाभ्यां च पद्मशङ्खसमावृतः ॥ 7.15.16 ॥
40#17aಸ ದೃಷ್ಟ್ವಾ ಭ್ರಾತರಂ ಸಂಖ್ಯೇ ಶಾಪಾದ್ ವಿಭ್ರಷ್ಟಗೌರವಮ್ ।7.15.17aस दृष्ट्वा भ्रातरं सङ्ख्ये शापाद् विभ्रष्टगौरवम् ।7.15.13aस दृष्ट्वा भ्रातरं संख्ये शापाद्विभ्रष्टगौरवम् ।7.15.18aस दृष्ट्वा भ्रातरं संख्ये शापाद्विभ्रष्टगौरवम् ।7.15.17aस दृष्ट्वा भ्रातरं सङ्ख्ये शापाद्विभ्रष्टगौरवम्।
41#17bಉವಾಚ ವಚನಂ ಧೀಮಾನ್ಯುಕ್ತಂ ಪೈತಾಮಹೇ ಕುಲೇ ॥7.15.17bउवाच वचनं धीमान् युक्तं पैतामहे कुले ॥ १७ ॥7.15.13bउवाच वचनं धीमान्युक्तं पैतामहे कुले ॥7.15.13॥7.15.18bउवाच वचनं धीमान्युक्तं पैतामहे कुले ॥ १८ ॥7.15.17bउवाच वचनं धीमान्युक्तं पैतामहे कुले ॥ 7.15.17 ॥
42#18aಯನ್ಮಯಾ ವಾರ್ಯಮಾಣಸ್ತ್ವಂ ನಾವಗಚ್ಛಸಿ ದುರ್ಮತೇಃ ।7.15.18aयन्मया वार्यमाणस्त्वं नावगच्छसि दुर्मतेः ।7.15.14aमया त्वं वार्यमाणोऽपि नावगच्छसि दुर्मते ।7.15.19aयन्मया वार्यमाणस्त्वं नावगच्छसि दुर्मते ।7.15.18aयन्मया वार्यमाणस्त्वं नावगच्छसि दुर्मते।
43#18bಪಶ್ಚಾದಸ್ಯ ಫಲಂ ಪ್ರಾಪ್ಯ ಜ್ಞಾಸ್ಯಸೇ ನಿರಯಂ ಗತಃ ॥7.15.18bपश्चादस्य फलं प्राप्य ज्ञास्यसे निरयं गतः ॥ १८ ॥7.15.14bपश्चादस्य फलं प्राप्य ज्ञास्यसे निरयं गतः ॥7.15.14॥7.15.19bपश्चादस्य फलं प्राप्य ज्ञास्यसे निरयं गतः ॥ १९ ॥7.15.18bपश्चादस्य फलं प्राप्य ज्ञास्यसे निरयं गतः ॥ 7.15.18 ॥
44#19aಯೋ ಹಿ ಮೋಹಾದ್ವಿಷಂ ಪೀತ್ವಾ ನಾವಗಚ್ಛತಿ ದುರ್ಮತಿಃ ।7.15.19aयो हि मोहाद् विषं पीत्वा नावगच्छति दुर्मतिः ।7.15.15aयो हि मोहाद्विषं पीत्वा नावगच्छति मानवः ।7.15.20aयो हि मोहाद्विषं पीत्वा नावगच्छति दुर्मतिः ।7.15.19aयो हि मोहाद्विषं पीत्वा नावगच्छति दुर्मतिः।
45#19bಸ ತಸ್ಯ ಪರಿಣಾಮಾಂತೇ ಜಾನೀತೇ ಕರ್ಮಣಃ ಫಲಮ್ ॥7.15.19bस तस्य परिणामान्ते जानीते कर्मणः फलम् ॥ १९ ॥7.15.15bपरिणामे स वि मूढो जानीते कर्मणः फलम् ॥7.15.15॥7.15.20bस तस्य परिणामान्ते जानीते कर्मणः फलम् ॥ २० ॥7.15.19bस तस्य परिणामान्ते जानीते कर्मणः फलम् ॥ 7.15.19 ॥
46#20aದೈವತಾನಿ ನ ನಂದಂತಿ ಧರ್ಮಯುಕ್ತೇನ ಕೇನಚಿತ್ ।7.15.20aदैवतानि न नन्दन्ति धर्मयुक्तेन केनचित् ।7.15.16aदैवतानि हि नन्दन्ति धर्मयुक्तेन केनचित् ।7.15.21aदेवता नाभिनन्दन्ति धर्मयुक्तेन केनचित् ।7.15.20aदेवता नाभिनन्दन्ति धर्मयुक्तेन केनचित्।
47#20bಯೇನ ತ್ವಮೀದೃಶಂ ಭಾವಂ ನೀತಸ್ತಚ್ಚ ನ ಬುದ್ಧ್ಯಸೇ ॥7.15.20bयेन त्वमीदृशं भावं नीतस्तच्च न बुद्ध्यसे ॥ २० ॥7.15.16bयेन त्वमीदृशं भावं नीतस्तच्च न बुध्यसे ॥7.15.16॥7.15.21bयेन त्वमीदृशं भावं नीतः सन्नावबुध्यते ॥ २१ ॥7.15.20bयेन त्वमीदृशं भावं नीतस्सन्नावबुद्ध्यसे ॥ 7.15.20 ॥
487.15.17aयो हि मातॄः पितॄन्भ्रातॄनाचर्यांश्चावमन्यते ।
49#21aಮಾತರಂ ಪಿತರಂ ವಿಪ್ರಮಾಚಾರ್ಯಂ ಚಾವಮನ್ಯತೇ ।7.15.21aमातरं पितरं विप्रमाचार्यं चावमन्यते ।7.15.22aमातरं पितरं यो हि आचार्यं चावमन्यते ।7.15.21aमातरं पितरं यो हि आचार्यं चावमन्यते।
50#21bಸ ಪಶ್ಯತಿ ಫಲಂ ತಸ್ಯ ಪ್ರೇತರಾಜವಶಂ ಗತಃ ॥7.15.21bस पश्यति फलं तस्य प्रेतराजवशं गतः ॥ २१ ॥7.15.17bस पश्यति फलं तस्य प्रेतराजवशं गतः ॥7.15.17॥7.15.22bस पश्यति फलं तस्य प्रेतराजवशं गतः ॥ २२ ॥7.15.21bस पश्यति फलं तस्य प्रेतराजवशं गतः ॥ 7.15.21 ॥
51#22aಅಧ್ರುವೇ ಹಿ ಶರೀರೇ ಯೋ ನ ಕರೋತಿ ತಪೋಽರ್ಜನಮ್ ।7.15.22aअध्रुवे हि शरीरे यो न करोति तपोऽर्जनम् ।7.15.18aअध्रुवे हि शरीरे यो न करोति तपोऽर्जनम् ।7.15.23aअध्रुवे हि शरीरे यो न करोति तपोर्जनम् ।7.15.22aअध्रुवे हि शरीरे यो न करोति तपोर्जनम्।
52#22bಸ ಪಶ್ಯಾತ್ತಪ್ಯತೇ ಮೂಢೋ ಮೃತೋ ಗತ್ವಾತ್ಮನೋ ಗತಿಮ್ ॥7.15.22bस पश्चात् तप्यते मूढो मृतो गत्वाऽऽत्मनो गतिम् ॥ २२ ॥7.15.18bस पश्चात्तप्यते मूढो मृतो दृष्ट्वात्मनो गतिम् ॥7.15.18॥7.15.23bस पश्चात्तप्यते मुढो मृतो दृष्ट्वाऽऽत्मनो गतिम् ॥ २३ ॥7.15.22bस पश्चात्तप्यते मूढो मृतो दृष्ट्वाऽऽत्मनो गतिम् ॥ 7.15.22 ॥
537.15.19aकस्यचिन्न हि दुर्बुधेश्छन्दतो जायते मतिः ।
54#23aಧರ್ಮಾದ್ರಾಜ್ಯಂ ಧನಂ ಸೌಖ್ಯಮಧರ್ಮಾದ್ದುಃಖಮೇವ ಚ ।7.15.23aधर्माद् राज्यं धनं सौख्यमधर्माद् दुःखमेव च ।7.15.24धर्माद्राज्यं धनं सौख्यमधर्माद्दुःखमेव च ष
तस्माद्धर्मं सुखार्थाय कुर्यात्पापं विसर्जयेत् ॥ २४ ॥
7.15.23aधर्माद्राज्यं धनं सौख्यमधर्माद्दुःखमेव च।
55#23bತಸ್ಮಾದ್ಧರ್ಮಂ ಸುಖಾರ್ಥಾಯ ಕುರ್ಯಾತ್ಪಾಪಂ ವಿಸರ್ಜಯೇತ್ ॥7.15.23bतस्माद् धर्मं सुखार्थाय कुर्यात् पापं विसर्जयेत् ॥ २३ ॥7.15.23bतस्माद्धर्मं सुखार्थाय कुर्यात्पापं विसर्जयेत् ॥ 7.15.23 ॥
56#24aಪಾಪಸ್ಯ ಹಿ ಫಲಂ ದುಃಖಂ ತದ್ಭೋಕ್ತವ್ಯಮಿಹಾತ್ಮನಾ ।7.15.24aपापस्य हि फलं दुःखं तद् भोक्तव्यमिहात्मना ।7.15.25aपापस्य हि फलं दुःखं तद्भोक्तव्यमिहात्मना ।7.15.24aपापस्य हि फलं दुःखं तद्भोक्तव्यमिहात्मना।
57#24bತಸ್ಮಾದಾತ್ಮಾಪಘಾತಾರ್ಥಂ ಮೂಢಃ ಪಾಪಂ ಕರಿಷ್ಯತಿ ॥7.15.24bतस्मादात्मापघातार्थं मूढः पापं करिष्यति ॥ २४ ॥7.15.25bतस्मादात्मापघातार्थं मूढः पापं करिष्यति ॥ २५ ॥7.15.24bतस्मादात्मापघातार्थं मूढः पापं करिष्यति ॥ 7.15.24 ॥
58#25aಕಸ್ಯಚಿನ್ನ ಹಿ ದುರ್ಬುದ್ಧೇಶ್ಛಂದತೋ ಜಾಯತೇ ಮತಿಃ ।7.15.25aकस्यचिन्न हि दुर्बुद्धेश्छन्दतो जायते मतिः ।#26aकस्यचिन्न हि दुर्बुद्धेश्छन्दतो जायते मतिः ।
59#26b[ दैवं चेष्टयते सर्वं हतो दैवेन हन्यति ॥7.15.25aदेवं चेष्टयते सर्वं हतो दैवेन हन्यते।
60#26c]
61#25bಯಾದೃಶಂ ಕುರುತೇ ಕರ್ಮ ತಾದೃಶಂ ಫಲಮಶ್ನುತೇ ॥7.15.25bयादृशं कुरुते कर्म तादृशं फलमश्नुते ॥ २५ ॥7.15.19bयादृशं कुरुते कर्म तादृशं फलमश्नुते ॥7.15.19॥7.15.26यादृशं कुरुते कर्म तादृशं फलमश्नुते ॥ २६ ॥7.15.25bयादृशं कुरुते कर्म तादृशं फलमश्नुते ॥ 7.15.25 ॥
62#26aಋದ್ಧಿ ರೂಪಂ ಬಲಂ ಪುತ್ರಾನ್ವಿತ್ತಂ ಶೂರತ್ವಮೇವ ಚ ।7.15.26aऋद्धिं रूपं बलं पुत्रान् वित्तं शूरत्वमेव च ।7.15.20aबुद्धिं रूपं बलं वित्तं पुत्रान्माहात्म्यमेव च ।
637.15.20bप्रप्नुवन्ति नराः सर्वं स्वकृतैः पूर्वकर्मभिः ॥7.15.20॥
647.15.27aबुद्धिरूपं फलं पुत्राञ्छौर्यं धीरत्वमेव च ।7.15.26aबुद्धिरूपं फलं पुत्राञ्छौर्यं धीरत्वमेव च।
65#26bಪ್ರಾಪ್ನುವಂತಿ ನರಾ ಲೋಕೇ ನಿರ್ಜಿತಂ ಪುಣ್ಯಕರ್ಮಭಿಃ ॥7.15.26bप्राप्नुवन्ति नरा लोके निर्जितं पुण्यकर्मभिः ॥ २६ ॥7.15.27bप्राप्नुवन्ति नरा लोके निर्जितं पुण्यकर्मभिः ॥ २७ ॥7.15.26bप्राप्नुवन्ति नरा लोके निर्जितं पुण्यकर्मभिः ॥ 7.15.26 ॥
66#27aಏವಂ ನಿರಯಗಾಮೀ ತ್ವಂ ಯಸ್ಯ ತೇ ಮತಿರೀದೃಶೀ ।7.15.27aएवं निरयगामी त्वं यस्य ते मतिरीदृशी ।7.15.21aएवं निरयगामी त्वं यस्य ते मतिरीदृशी ।7.15.28aएवं निरयगामी त्वं यस्य ते मतिरीदृशी ।7.15.27aएवं निरयगामी त्वं यस्य ते मतिरीदृशी।
67#27bನ ತ್ವಾಂ ಸಮಭಿಭಾಷಿಷ್ಯೇಽಸದ್ವತ್ತೇಷ್ವೇಷ ನಿರ್ಣಯಃ ॥7.15.27bन त्वां समभिभाषिष्येऽसद्वृत्तेष्वेव निर्णयः ॥ २७ ॥7.15.21bन त्वां समभिभाषिष्ये दुर्वृत्तस्यैष निर्णयः ॥7.15.21॥7.15.28bन त्वां समभिभाषिष्ये सद्वृत्तेष्वेष निर्णयः ॥ २८ ॥7.15.27bन त्वां समभिभाषिष्येऽसद्वृत्तेष्वेव निर्णयः ॥ 7.15.27 ॥
68#28aಏವಮುಕ್ತಾಸ್ತತಸ್ತೇನ ತಸ್ಯಾಮಾತ್ಯಾಃ ಸಮಾಹತಾಃ ।7.15.28aएवमुक्तास्ततस्तेन तस्यामात्याः समाहताः ।7.15.22aएवमुक्त्वा ततस्तेन तस्यामात्याः समाहताः ।7.15.29aएवमुक्तास्ततस्तेन तस्यामात्याः समाहताः ।7.15.28aएवमुक्तास्ततस्तेन तस्यामात्याः समाहताः।
697.15.29b[ दृष्ट्वाऽथ धनदं राम राक्षसाः सुमहाबलाः ] ।
70#28bಮಾರೀಚಪ್ರಮುಖಾಃ ಸರ್ವೇ ವಿಮುಖಾ ವಿಪ್ರದುದ್ರುವುಃ ॥7.15.28bमारीचप्रमुखाः सर्वे विमुखा विप्रदुद्रुवुः ॥ २८ ॥7.15.22bमारीचप्रमुखाः सर्वे विमुखा विप्रदुद्रुवुः ॥7.15.22॥7.15.29cमारीचप्रमुखाः सर्वे विमुखा विप्रदुद्रुवुः ॥ २९ ॥7.15.28bमारीचप्रमुखाः सर्वे विमुखा विप्रदुद्रुवुः ॥ 7.15.28 ॥
71#29aತತಸ್ತೇನ ದಶಗ್ರೀವೋ ಯಕ್ಷೇಂದ್ರೇಣ ಮಹಾತ್ಮನಾ ।7.15.29aततस्तेन दशग्रीवो यक्षेन्द्रेण महात्मना ।7.15.23aततस्तेन दशग्रीवो यक्षेन्द्रेण महात्मना ।7.15.30aततस्तेन दशग्रीवो यक्षेन्द्रेण महात्मना ।7.15.29aततस्तेन दशग्रीवो यक्षेन्द्रेण महात्मना।
72#29bಗದಯಾಭಿಹತೋ ಮೂರ್ಧ್ನಿ ನ ಚ ಸ್ಥಾನಾತ್ಪ್ರಕಂಪಿತಃ ॥7.15.29bगदयाभिहतो मूर्ध्नि न च स्थानात् प्रकम्पितः ॥ २९ ॥7.15.23bगदयाभिहतो मूर्ध्नि न च स्थानाद्व्यकम्पत ॥7.15.23॥7.15.30bगदयाऽभिहतो मूर्ध्नि न च स्थानात्प्रकम्पितः ॥ ३० ॥7.15.29bगदयाभिहतो मूर्ध्नि न च स्थानात्प्रकम्पितः ॥ 7.15.29 ॥
73#30aತತಸ್ತೌ ರಾಮ ನಿಘ್ನಂತೌ ತದಾನ್ಯೋನ್ಯಂ ಮಹಾಮೃಧೇ ।7.15.30aततस्तौ राम निघ्नन्तौ तदान्योन्यं महामृधे ।7.15.24aततस्तौ राम निघ्नन्तावन्योन्यं परमाहवे ।7.15.31aततस्तौ राम निघ्नन्तौ तदाऽन्योन्यं महामृधे ।7.15.30aततस्तौ राम निघ्नन्तौ तदान्योन्यं महामृधे।
74#30bನ ವಿಹ್ವಲೌ ನ ಚ ಶ್ರಾಂತೌ ತಾವುಭೌ ಯಕ್ಷರಾಕ್ಷಸೌ ॥7.15.30bन विह्वलौ न च श्रान्तौ तावुभौ यक्षराक्षसौ ॥ ३० ॥7.15.24bन विह्वलौ न च श्रान्तौ बभूवतुरमर्षणैः ॥7.15.24॥7.15.31bन विह्वलौ न च श्रान्तौ बभूवतुरमर्षणौ ॥ ३१ ॥7.15.30bन विह्वलौ न च श्रान्तौ बभूवतुरमर्षणौ ॥ 7.15.30 ॥
75#31aಆಗ್ನೇಯಮಸ್ತ್ರಂ ತಸ್ಮೈ ಸ ಮುಮೋಚ ಧನದಸ್ತದಾ ।7.15.31aआग्नेयमस्त्रं तस्मै स मुमोच धनदस्तदा ।7.15.25aआग्नेयमस्त्रं स ततो मुमोच धनदो रणे ।7.15.32aआग्नेयमस्त्रं तस्मै स मुमोच धनदस्तदा ।7.15.31aआग्नेयमस्त्रं तस्मै स मुमोच धनदस्तदा।
76#31bರಾಕ್ಷಸೇಂದ್ರೋ ವಾರುಣೇನ ತದಸ್ತ್ರಂ ಪ್ರತ್ಯವಾರಯತ್ ॥7.15.31bराक्षसेन्द्रो वारुणेन तदस्त्रं प्रत्यवारयत् ॥ ३१ ॥7.15.25bवारुणेन दशग्रीवस्तदस्त्रं प्रत्यवारयत् ॥7.15.25॥7.15.32bराक्षसेन्द्रो वारुणेन तदस्त्रं प्रत्यवारयत् ॥ ३२ ॥7.15.31bराक्षसेन्द्रो वारुणेन तदस्त्रं प्रत्यवारयत् ॥ 7.15.31 ॥
77#32aತತೋ ಮಾಯಾಂ ಪ್ರವಿಷ್ಟೋಽಸೌ ರಾಕ್ಷಸೀಂ ರಾಕ್ಷಸೇಶ್ವರಃ ।7.15.32aततो मायां प्रविष्टोऽसौ राक्षसीं राक्षसेश्वरः ।7.15.26aततो मायां प्रविष्टः स राक्षसीं राक्षसेश्वरः ।7.15.33aततो मायां प्रविष्टोसौ राक्षसीं राक्षसेश्वरः ।7.15.32aततो मायां प्रविष्टोऽसौ राक्षसीं राक्षसेश्वरः।
78#32bರೂಪಾಣಾಂ ಶತಸಾಹಸ್ರಂ ವಿನಾಶಾಯ ಚಕಾರ ಚ ॥7.15.32bरूपाणां शतसाहस्रं विनाशाय चकार च ॥ ३२ ॥7.15.33bरूपाणां शतसाहस्रं विनाशाय चकार च ॥ ३३ ॥7.15.32bरूपाणां शतसाहस्रं विनाशाय चकार च ॥ 7.15.32 ॥
79#33aವ್ಯಾಘ್ರೋ ವರಾಹೋ ಜೀಮೂತಃ ಪರ್ವತಃ ಸಾಗರೋ ದ್ರುಮಃ ।7.15.33aव्याघ्रो वराहो जीमूतः पर्वतः सागरो द्रुमः ।7.15.34aव्याघ्रो वराहो जीमूतः पर्वतः सागरो द्रुमः ।7.15.33aव्याघ्रो वराहो जीमूतः पर्वतः सागरो द्रुमः।
80#33bಯಕ್ಷೋ ದೈತ್ಯಸ್ವರೂಪೀ ಚ ಸೋಽದೃಶ್ಯತ ದಶಾನನಃ ॥7.15.33bयक्षो दैत्यस्वरूपी च सोऽदृश्यत दशाननः ॥ ३३ ॥7.15.34bयक्षो दैत्यस्वरूपी च सोदृश्यत दशाननः ॥ ३४ ॥7.15.33bयक्षो दैत्यस्वरूपी च सोऽदृश्यत दशाननः ॥ 7.15.33 ॥
81#34aಬಹೂನಿ ಚ ಕರೋತಿ ಸ್ಮ ದೃಶ್ಯಂತೇ ನ ತ್ವಸೌ ತತಃ ।7.15.34aबहूनि च करोति स्म दृश्यन्ते न त्वसौ ततः ।7.15.35बहूनि च करोति स्म दृश्यन्ते न त्वसौ ततः ॥ ३५ ॥7.15.34aबहूनि च करोति स्म दृश्यन्ते न त्वसौ ततः।
82#34bಪ್ರತಿಗೃಹ್ಯ ತತೋ ರಾಮ ಮಹದಸ್ತ್ರಂ ದಶಾನನಃ ॥7.15.34bप्रतिगृह्य ततो राम महदस्त्रं दशाननः ॥ ३४ ॥7.15.36aप्रतिगृह्य ततो राम महदस्त्रं दशाननः ।7.15.34bप्रतिगृह्य ततो राम महदस्त्रं दशाननः ॥ 7.15.34 ॥
83#35aಜಘಾನ ಮೂರ್ಧ್ನಿ ಧನದಂ ವ್ಯಾವಿದ್ಧ್ಯ ಮಹತೀಂ ಗದಾಮ್ ।7.15.35aजघान मूर्ध्नि धनदं व्याविद्ध्य महतीं गदाम् ।7.15.26bजघान मूर्ध्नि धनदं व्याविध्य महतीं गदाम् ॥7.15.26॥7.15.36bजघान मूर्ध्नि धनदं व्याविध्य महतीं गदाम् ॥ ३६ ॥7.15.35aजघान मूर्ध्नि धनदं व्याविद्ध्य महतीं गदाम्।
84#35bಏವಂ ಸ ತೇನಾಭಿಹತೋ ವಿಹ್ವಲಃ ಶೋಣಿತೋಕ್ಷಿತಃ ॥7.15.35bएवं स तेनाभिहतो विह्वलः शोणितोक्षितः ॥ ३५ ॥7.15.27aएवं स तेनाभिहतो विह्वलः शोणितोक्षितः ।7.15.37aएवं स तेनाभिहतो विह्वलः शोणितोक्षितः ।7.15.35bएवं स तेनाभिहतो विह्वलः शोणितोक्षितः ॥ 7.15.35 ॥
85#36aಕೃತ್ತಮೂಲ ಇವಾಶೋಕೋ ನಿಪಪಾತ ಧನಾಧಿಪಃ ।7.15.36aकृत्तमूल इवाशोको निपपात धनाधिपः ।7.15.27bकृत्तमूल इवाशोको निपपात धनाधिपः ॥7.15.27॥7.15.37bकृत्तमूल इवाशोको निपपात धनाधिपः ॥ ३७ ॥7.15.36कृत्तमूल इवाशोको निपपात धनाधिपः ॥ 7.15.36 ॥
86#36bತತಃ ಪದ್ಮಾದಿಭಿಸ್ತತ್ರ ನಿಧಿಭಿಃ ಸ ತದಾ ವೃತಃ ॥7.15.36bततः पद्मादिभिस्तत्र निधिभिः स तदा वृतः ॥ ३६ ॥7.15.28aततः पद्मादिभिस्तत्र निधिभिः स धनाधिपः ।7.15.38aततः पद्मादिभिस्तत्र निधिभिः स तदावृतः ।7.15.37aततः पद्मादिभिस्तत्र निधिभिः स तदा वृतः।
877.15.28bनन्दनं वनमानीय धनदो श्वासितस्तदा ॥7.15.28॥
887.15.29aततो निर्जित्य तं राम धनदं राक्षसाधिपः ।
89#37aಧನದೋಽಚ್ಛ್ವಾಸಿತಸ್ತೈಸ್ತು ವನಮಾನೀಯ ನಂದನಮ್ ।7.15.37aधनदोच्छ्वासितस्तैस्तु वनमानीय नन्दनम् ।7.15.38bधनदोच्छ्वासितस्तैस्तु वनमानीय नन्दनम् ॥ ३८ ॥7.15.37bधनदोच्छ्वासितस्तैस्तु वनमानीय नन्दनम् ॥ 7.15.37 ॥
90#37bನಿರ್ಜಿತ್ಯ ರಾಕ್ಷಸೇಂದ್ರಸ್ತಂ ಧನದಂ ಹೃಷ್ಟಮಾನಸಃ ॥7.15.37bनिर्जित्य राक्षसेन्द्रस्तं धनदं हृष्टमानसः ॥ ३७ ॥7.15.39aनिर्जित्य राक्षसेन्द्रस्तं धनदं हृष्टमानसः ।7.15.38aनिर्जित्य राक्षसेन्द्रस्तं धनदं हृष्टमानसः।
91#38aಪುಷ್ಪಕಂತಸ್ಯ ಜಗ್ರಾಹ ವಿಮಾನಂ ಜಯಲಕ್ಷಣಮ್ ।7.15.38aपुष्पकं तस्य जग्राह विमानं जयलक्षणम् ।7.15.29bपुष्पकं तस्य जग्राह विमानं जयलक्षणम् ॥7.15.29॥7.15.39bपुष्पकं तस्य जग्राह विमानं जयलक्षणम् ॥ ३९ ॥7.15.38bपुष्पकं तस्य जग्राह विमानं जयलक्षणम् ॥ 7.15.38 ॥
92#38bಕಾಂಚನಸ್ತಂಭ ಸಂವೀತಂ ವೈದೂರ್ಯಮಣಿ ತೋರಣಮ್ ॥7.15.38bकाञ्चनस्तम्भसंवीतं वैदूर्यमणितोरणम् ॥ ३८ ॥7.15.30aकाञ्चनस्तम्भसंवीतं वैदूर्यमणितोरणम् ।7.15.40aकाञ्चनस्तम्भसंवीतं वैडूर्यमणितोरणम् ।7.15.39aकाञ्चनस्तम्भसंवीतं वैडूर्यमणितोरणम्।
93#39aಮುಕ್ತಾಜಾಲ ಪರಿಚ್ಛನ್ನಂ ಸರ್ವಕಾಲಫಲದ್ರುಮಮ್ ।7.15.39aमुक्ताजालप्रतिच्छन्नं सर्वकालफलद्रुमम् ।7.15.30bमुक्ताजालप्रतिच्छन्नं सर्वकामफलद्रुमम् ॥7.15.30॥7.15.40bमुक्ताजालप्रतिच्छन्नं संर्वकामफलप्रदम् ॥ ४० ॥7.15.39bमुक्ताजालप्रतिच्छन्नं सर्वकामफलद्रुमम् ॥ 7.15.39 ॥
94#39bಮನೋಜವಂ ಕಾಮಗಮಂ ಕಾಮರೂಪಂ ವಿಹಂಗಮಮ್ ॥7.15.39bमनोजवं कामगमं कामरूपं विहङ्गमम् ॥ ३९ ॥7.15.41aमनोजवं कामगमं कामरूपं विहङ्गमम् ।7.15.40aमनोजवं कामगमं कामरूपं विहङ्गमम्।
95#40aಮಣಿಕಾಂಚನಸೋಪಾನಂ ತಪ್ತಕಾಂಚನ ವೇದಿಕಮ್ ।7.15.40aमणिकाञ्चनसोपानं तप्तकाञ्चनवेदिकम् ।7.15.41bमणिकाञ्चनसोपानं तप्तकाञ्चनवेदिकम् ॥ ४१ ॥7.15.40bमणिकाञ्चनसोपानं तप्तकाञ्चनवेदिकम् ॥ 7.15.40 ॥
96#40bದೇವೋಪವಾಹ್ಯಮಕ್ಷಯ್ಯಂ ಸದಾ ದೃಷ್ಟಿಮನಃಸುಖಮ್ ॥7.15.40bदेवोपवाह्यमक्षय्यं सदा दृष्टिमनःसुखम् ॥ ४० ॥7.15.42aदेवोपवाह्यमक्षय्यं सदा दृष्टिमनःसुखम् ।7.15.41aदेवोपवाह्यमक्षय्यं सदादृष्टिमनःसुखम्।
97#41aಬಹ್ವಾಶ್ಚರ್ಯಂ ಭಕ್ತಿಚಿತ್ರಂ ಬ್ರಹ್ಮಣಾ ಪರಿನಿರ್ಮಿತಮ್ ।7.15.41aबह्वाश्चर्यं भक्तिचित्रं ब्रह्मणा परिनिर्मितम् ।7.15.42bबह्वाश्चर्यं भक्तिचित्रं ब्रह्मणा परिनिर्मितम् ॥ ४२ ॥7.15.41bबह्वाश्चर्यं भक्तिचित्रं ब्रह्मणा परिनिर्मितम् ॥ 7.15.41 ॥
98#41bನಿರ್ಮಿತಂ ಸರ್ವಕಾಮೈಸ್ತು ಮನೋಹರಮನುತ್ತಮಮ್ ॥7.15.41bनिर्मितं सर्वकामैस्तु मनोहरमनुत्तमम् ॥ ४१ ॥7.15.43aनिर्मितं सर्वकामैस्तु मनोहरमनुत्तमम् ।7.15.42aनिर्मितं सर्वकामैस्तु मनोहरमनुत्तमम्।
99#42aನ ತು ಶೀತಂ ನ ಚೋಷ್ಣಂ ಚ ಸರ್ವರ್ತುಸುಖದಂ ಶುಭಮ್ ।7.15.42aन तु शीतं न चोष्णं च सर्वर्तुसुखदं शुभम् ।7.15.43bन तु शीतं न चोष्णं च सर्वर्तुसुखदं शुभम् ॥ ४३ ॥7.15.42bन तु शीतं न चोष्णं च सर्वर्तुसुखदं शुभम् ॥ 7.15.42 ॥
100#42bಸ ತಂ ರಾಜಾ ಸಮಾರುಹ್ಯ ಕಾಮಗಂ ವೀರ್ಯ ನಿರ್ಜಿತಮ್ ॥7.15.42bस तं राजा समारुह्य कामगं वीर्यनिर्जितम् ॥ ४२ ॥7.15.31aतत्तु राजा समारुह्य कामगं वीर्यनिर्जितम् ।7.15.44aस तं राजा समारुह्य कामगं वीर्यनिर्जितम् ।7.15.43aस तं राजा समारुह्य कामगं वीर्यनिर्जितम्।
101#43aಜಿತಂ ತ್ರಿಭುವನಂ ಮೇನೇ ದರ್ಪೋತ್ಸೇಕಾತ್ಸುದುರ್ಮತಿಃ ।7.15.43aजितं त्रिभुवनं मेने दर्पोत्सेकात् सुदुर्मतिः ।7.15.44bजितं त्रिभुवनं मेने दर्पोत्सेकात्सुदुर्मतिः ॥ ४४ ॥7.15.43bजितं त्रिभुवनं मेने दर्पोत्सेकात्सुदुर्मतिः ॥ 7.15.43 ॥
102#43bಜಿತ್ವಾ ವೈಶ್ರವಣಂ ದೇವಂ ಕೈಲಾಸಾತ್ ಸಮವಾತರತ್ ॥7.15.43bजित्वा वैश्रवणं देवं कैलासात् समवातरत् ॥ ४३ ॥7.15.31bजित्वा वैश्रवणं देवं कैलासादवरोहत ॥7.15.31॥7.15.45जित्वा वैश्रवणं देवं कैलासात्समवातरत् ॥ ४५ ॥7.15.44जित्वा वैश्रवणं देवं कैलासात्समवातरत् ॥ 7.15.44 ॥
103#44aಸ ತೇಜಸಾ ವಿಪುಲಮವಾಪ್ಯ ತಂ ಜಯಂ
ಪ್ರತಾಪವಾನ್ ವಿಮಲ ಕಿರೀಟ ಹಾರವಾನ್ ।
7.15.44aस तेजसा विपुलमवाप्य तं जयं
प्रतापवान् विमलकिरीटहारवान् ।
7.15.46aस्वतेजसा विपुलमवाप्य तं जयं प्रतापवान्विमलकिरीटहारवान् ।7.15.45aस्वतेजसा विपुलमवाप्य तं जयं प्रतापवान्विमलकिरीटहारवान्।
104#44bರರಾಜ ವೈ ಪರಮವಿಮಾನಮಾಸ್ಥಿತೋ
ನಿಶಾಚರಃ ಸಹಸಿ ಗತೋ ಯಥಾನಲಃ ॥
7.15.44bरराज वै परमविमानमास्थितो
निशाचरः सदसि गतो यथानलः ॥ ४४ ॥
7.15.46bरराज वै परमविमानमास्थितो निशाचरः सदसि गतो यथाऽनलः ॥ ४६ ॥7.15.45bरराज वै परमविमानमास्थितो निशाचरः सदसि गतो यथानलः ॥ 7.15.45 ॥
1057.15.15इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने पञ्चदशः सर्गः ॥ १५ ॥