Ramayana Half-Verse Concordance 7.5

माल्यवदादि. Built from structured/verses.jsonl. Rows are monotone-aligned half-verse/pāda-like units split at । and ॥, so verse-number boundary differences can appear as inserted or shifted line rows.

95 aligned line rows across 7 source streams.

Columns:
gor-kn 93 lines gor-hi 93 lines crit 87 lines gr 94 lines dr-mula 89 lines
#gor-kngor-hicritgrdr-mulagr-iitkiitk
1#1aಸುಕೇಶಂ ಧಾರ್ಮಿಕಂ ದೃಷ್ಟ್ವಾವರಲಬ್ಧಂ ಚ ರಾಕ್ಷಸಮ್ ।7.5.1aसुकेशं धार्मिकं दृष्ट्वा वरलब्धं च राक्षसम् ।7.5.1aसुकेशं धार्मिकं दृष्ट्वा वरलब्धं च राक्षसम् ।7.5.1aसुकेशं धार्मिक दृष्ट्वा वरलब्धं च राक्षसम् ।7.5.1aसुकेशं धार्मिकं दृष्ट्वा वरलब्धं च राक्षसम्।
2#1bಗ್ರಾಮಣೀರ್ನಾಮ ಗಂಧರ್ವೋ ವಿಶ್ವಾವಸು ಸಮಪ್ರಭಃ ॥7.5.1bग्रामणीर्नाम गन्धर्वो विश्वावसुसमप्रभः ॥ १ ॥7.5.1bग्रामणीर्नाम गन्धर्वो विश्वावसुसमप्रभः ॥7.5.1॥7.5.1bग्रामणीर्नाम गन्धर्वो विश्वावसुसमप्रभः ॥ १ ॥7.5.1bग्रामणीर्नाम गन्धर्वो विश्वावसुसमप्रभः ॥ 7.5.1 ॥
3#2aತಸ್ಯ ದೇವವತೀ ನಾಮ ದ್ವಿತೀಯಾ ಶ್ರೀರಿವಾತ್ಮಜಾ ।7.5.2aतस्य देववती नाम द्वितीया श्रीरिवात्मजा ।7.5.2aतस्य देववती नाम द्वितीया श्रीरिवात्मजा ।7.5.2aतस्य देववती नाम द्वितीया श्रीरिवात्मजा ।
4#2bತ್ರಿಷು ಲೋಕೇಷು ವಿಖ್ಯಾತಾ ರೂಪಯೌವನಶಾಲಿನೀ ॥7.5.2bत्रिषु लोकेषु विख्याता रूपयौवनशालिनी ॥ २ ॥7.5.2bत्रिषु लोकेषु विख्याता रूपयौवनशालिनी ।7.5.2aत्रिषु लोकेषु विख्याता रूपयौवनशालिनी।
5#3aತಾಂ ಸುಕೇಶಾಯ ಧರ್ಮಾತ್ಮಾ ದದೌ ರಕ್ಷಃಶ್ರಿಯಂ ಯಥಾ ।7.5.3aतां सुकेशाय धर्मात्मा ददौ रक्षःश्रियं यथा ।7.5.2bतां सुकेशाय धर्मेण ददौ दक्षः श्रियं यथा ॥7.5.2॥7.5.2cतां सुकेशाय धर्मेण ददौ रक्षः श्रियं यथा ॥ २ ॥7.5.2bतां सुकेशाय धर्मेण ददौ रक्षःश्रियं यथा ॥ 7.5.2 ॥
6#3bವರದಾನಕೃತೈಶ್ವರ್ಯಂ ಸಾ ತಂ ಪ್ರಾಪ್ಯ ಪತಿಂ ಪ್ರಿಯಮ್ ॥7.5.3bवरदानकृतैश्वर्यं सा तं प्राप्य पतिं प्रियम् ॥ ३ ॥7.5.3aवरदानकृतैश्वर्यं सा तं प्राप्य पतिं प्रियम् ।7.5.3aवरदानकृतैश्वर्यं सा तं प्राप्य पतिं प्रियम् ।7.5.3aवरदानकृतैश्वर्यं सा तं प्राप्य पतिं प्रियम्।
7#4aಆಸೀದ್ದೇವವತೀ ತುಷ್ಟಾ ಧನಂ ಪ್ರಾಪ್ಯೇವ ನಿರ್ಧನಃ ।7.5.4aआसीद् देववती तुष्टा धनं प्राप्येव निर्धनः ।7.5.3bआसीद्देववती तुष्टा धनं प्राप्येव निर्धनः ॥7.5.3॥7.5.3bआसीद्देववती तुष्टा धनं प्राप्येव निर्धनः ॥ ३ ॥7.5.3bआसीद्देववती तुष्टा धनं प्राप्येव निर्धनः ॥ 7.5.3 ॥
8#4bಸ ತಯಾ ಸಹ ಸಂಯುಕ್ತೋ ರರಾಜ ರಜನೀಚರಃ ॥7.5.4bस तया सह संयुक्तो रराज रजनीचरः ॥ ४ ॥7.5.4aस तया सह संयुक्तो रराज रजनीचरः ।7.5.4aस तया सह संयुक्तो रराज रजनीचरः ।7.5.4aस तया सह संयुक्तो रराज रजनीचरः।
9#5aಅಂಜನಾದಭಿನಿಷ್ಕ್ರಾಂತಃ ಕರೇಣ್ವೇವ ಮಹಾಗಜಃ ।7.5.5aअञ्जनादभिनिष्क्रान्तः करेण्वेव महागजः ।7.5.4bअञ्जनादभिनिष्क्रान्तः करेण्वेव महागजः ॥7.5.4॥7.5.4bअञ्जनादभिनिष्क्रान्तः करेण्वेव महागजः ॥ ४ ॥7.5.4bअञ्जनादभिनिष्क्रान्तः करेण्वेव महागजः ॥ 7.5.4 ॥
10#5bತತಃ ಕಾಲೇ ಸುಕೇಶಸ್ತು ಜನಯಾಮಾಸ ರಾಘವ ॥7.5.5bततः काले सुकेशस्तु जनयामास राघव ॥ ५ ॥7.5.5aदेववत्यां सुकेशस्तु जनयामास राघव ।7.5.5देववत्यां सुकेशस्तु जनयामास राघव ॥ ५ ॥7.5.5देववत्यां सुकेशस्तु जनयामास राघव ॥ 7.5.5 ॥
117.5.5bत्रींस्त्रिनेत्रसमान्पुत्रान्राक्षसान्राक्षसाधिपः ।
12#6aತ್ರೀನ್ಪುತ್ರಾಂಜನಯಾಮಾಸ ತ್ರೇತಾಗ್ನಿಸಮ ವಿಗ್ರಹಾನ್ ।7.5.6aत्रीन् पुत्राञ्जनयामास त्रेताग्निसमविग्रहान् ।7.5.6aत्रीपुत्राञ्जनयामास त्रेताग्निसमविग्रहान् ।
13#6bಮಾಲ್ಯವಂತಂ ಸುಮಾಲಿಂ ಚ ಮಾಲಿಂ ಚ ಬಲಿನಾಂ ವರಮ್ ॥7.5.6bमाल्यवन्तं सुमालिं च मालिं च बलिनां वरम् ॥ ६ ॥7.5.5cमाल्यवन्तं सुमालिं च मालिं च बलिनां वरम् ॥7.5.5॥7.5.6bमाल्यवन्तं सुमालिं च मालिं च बलिनां वरम् ।7.5.6aमाल्यवन्तं सुमालिं च मालिं च बलिनां वरम्।
14#7aತ್ರೀಂಸಿ ನೇತ್ರಸಮಾನ್ಪುತ್ರಾನ್ ರಾಕ್ಷಸಾನ್ ರಾಕ್ಷಸಾಧಿಪಃ ।7.5.7aत्रींस्त्रिनेत्रसमान् पुत्रान् राक्षसान् राक्षसाधिपः ।7.5.6cत्रींस्त्रिनेत्रसमान्पुत्रान्राक्षसान्राक्षसाधिपः ॥ ६ ॥7.5.6bत्रींस्त्रिनेत्रसमान्पुत्रान्राक्षसान्राक्षसाधिपः ॥ 7.5.6 ॥
15#7bತ್ರಯೋ ಲೋಕಾ ಇವಾವ್ಯಗ್ರಾಃ ಸ್ಥಿತಾಸ್ತ್ರಯ ಇವಾಗ್ನಯಃ ॥7.5.7bत्रयो लोका इवाव्यग्राः स्थितास्त्रय इवाग्नयः ॥ ७ ॥7.5.6aत्रयो लोका इवाव्यग्राः स्थितास्त्रय इवाग्नयः ।7.5.7aत्रयो लोका इवाव्यग्राः स्थितास्त्रय इवाग्नयः ।7.5.7aत्रयो लोका इवाव्यग्राः स्थितास्त्रय इवाग्नयः।
16#8aತ್ರಯೋ ಮಂತ್ರಾ ಇವಾತ್ಯುಗ್ರಾಸ್ತ್ರಯೋ ಘೋರಾ ಇವಾಮಯಾಃ ।7.5.8aत्रयो मन्त्रा इवात्युग्रास्त्रयो घोरा इवामयाः ।7.5.6bत्रयो मन्त्रा इवात्युग्रास्त्रयो घोरा इवामयाः ॥7.5.6॥7.5.7bत्रयो मन्त्रा इवात्युग्रास्त्रयो घोरा इवामयाः ॥ ७ ॥7.5.7bत्रयो मन्त्रा इवात्युग्रास्त्रयो घोरा इवामयाः ॥ 7.5.7 ॥
17#8bತ್ರಯಃ ಸುಕೇಶಸ್ಯ ಸುತಾಸ್ತ್ರೇತಾಗ್ನಿ ಸಮತೇಜಸಃ ॥7.5.8bत्रयः सुकेशस्य सुतास्त्रेताग्निसमतेजसः ॥ ८ ॥7.5.7aत्रयः सुकेशस्य सुतास्त्रेताग्निसमवर्चसः ।7.5.8aत्रयः सुकेशस्य सुतास्त्रेताग्निंसमतेजसः ।7.5.8aत्रयः सुकेशस्य सुतास्त्रेताग्निसमतेजसः।
18#9aವಿವೃದ್ಧಿಮಗಮಂಸ್ತತ್ರ ವ್ಯಾಧಯೋಪೇಕ್ಷಿತಾ ಇವ ।7.5.9aविवृद्धिमगमंस्तत्र व्याधयोपेक्षिता इव ।7.5.7bविवृद्धिमगमंस्तत्र व्याधयोपेक्षिता इव ॥7.5.7॥7.5.8bविवृद्धिमगमंस्तत्र व्याधयोपेक्षिता इव ॥ ८ ॥7.5.8bविवृद्धिमगमंस्तत्र व्याधयोपेक्षिता इव ॥ 7.5.8 ॥
19#9bವರಪ್ರಾಪ್ತಿಂ ಪಿತುಸ್ತೇ ತು ಜ್ಞಾತ್ವೈಶ್ವರ್ಯಂ ತಪೋಬಲಾತ್ ॥7.5.9bवरप्राप्तिं पितुस्ते तु ज्ञात्वैश्वर्यं तपोबलात् ॥ ९ ॥7.5.8aवरप्राप्तिं पितुस्ते तु ज्ञात्वैश्वर्यं ततो महत् ।7.5.9aवरप्राप्तिं पितुस्ते तु ज्ञात्वेश्वरतपोबलात् ।7.5.9aवरप्राप्तिं पितुस्ते तु ज्ञात्वेश्वरतपोबलात्।
20#10aತಪಸ್ತಪ್ತುಂ ಗತಾ ಮೇರುಂ ಭ್ರಾತರಃ ಕೃತನಿಶ್ಚಯಾಃ ।7.5.10aतपस्तप्तुं गता मेरुं भ्रातरः कृतनिश्चयाः ।7.5.8bतपस्तप्तुं गता मेरुं भ्रातरः कृतनिश्चयाः ॥7.5.8॥7.5.9bतपस्तप्तुं गता मेरुं भ्रातरः कृतनिश्चयाः ॥ ९ ॥7.5.9bतपस्तप्तुं गता मेरुं भ्रातरः कृतनिश्चयाः ॥ 7.5.9 ॥
21#10bಪ್ರಗೃಹ್ಯ ನಿಯಮಾನ್ ಘೋರಾನ್ ರಾಕ್ಷಸಾ ನೃಪಸತ್ತಮ ॥7.5.10bप्रगृह्य नियमान् घोरान् राक्षसा नृपसत्तम ॥ १० ॥7.5.9aप्रगृह्य नियमान्घोरान्राक्षसा नृपसत्तम ।7.5.10aप्रगृह्य नियमान्घोरान्राक्षसा नृपसत्तम ।7.5.10aप्रगृह्य नियमान्घोरान्राक्षसा नृपसत्तम।
22#11aವಿಚೇರುಸ್ತೇ ತಪೋ ಘೋರಂ ಸರ್ವಭೂತ ಭಯಾವಹಮ್ ।7.5.11aविचेरुस्ते तपो घोरं सर्वभूतभयावहम् ।7.5.9bविचेरुस्ते तपो घोरं सर्वभूतभयावहम् ॥7.5.9॥7.5.10bविचेरुस्ते तपो घोरं सर्वभूतभयावहम् ॥ १० ॥7.5.10bविचेरुस्ते तपो घोरं सर्वभूतभयावहम् ॥ 7.5.10 ॥
23#11bಸತ್ಯಾರ್ಜವಶಮೋಪೇತೈಸ್ತಪೋಭಿರ್ಭುವಿ ದುರ್ಲಭೈಃ ॥7.5.11bसत्यार्जवशमोपेतैस्तपोभिर्भुवि दुर्लभैः ॥ ११ ॥7.5.10aसत्यार्जवदमोपेतैस्तपोभिर्भुवि दुष्करैः ।7.5.11aसत्यार्जवशमोपेतैस्तपोभिरतिदुष्करैः ।7.5.11aसत्यार्जवशमोपेतैस्तपोभिरतिदुष्करैः।
24#12aಸಂತಾಪಯಂತಸ್ತ್ರೀಲ್ಲೋಕಾನ್ ಸದೇವಾಸುರ ಮಾನುಷಾನ್ ।7.5.12aसन्तापयन्तस्त्रींल्लोकान् सदेवासुरमानुषान् ।7.5.10bसंतापयन्तस्त्रीँल्लोकान्सदेवासुरमानुषान् ॥7.5.10॥7.5.11bसन्तापयन्तस्त्रील्ँलोकान्सदेवासुरमानुषान् ॥ ११ ॥7.5.11bसन्तापयन्तस्त्रील्लोँकान्सदेवासुरमानुषान् ॥ 7.5.11 ॥
25#12bತತೋ ವಿಭುಶ್ಚತುರ್ವಕ್ತ್ರೋ ವಿಮಾನವರಮಾಶ್ರಿತಃ ॥7.5.12bततो विभुश्चतुर्वक्त्रो विमानवरमाश्रितः ॥ १२ ॥7.5.11aततो विभुश्चतुर्वक्त्रो विमानवरमास्थितः ।7.5.12aततो विभुश्चतुर्वक्रो विमानवरमास्थितः ।7.5.12aततो विभुश्चतुर्वक्त्रो विमानवरमास्थितः।
26#13aಸುಕೇಶಪುತ್ರಾನಾಮಂತ್ರ್ಯ ವರದೋಽಸ್ಮೀತ್ಯಭಾಷತ ।7.5.13aसुकेशपुत्रानामन्त्र्य वरदोऽस्मीत्यभाषत ।7.5.11bसुकेशपुत्रानामन्त्र्य वरदोऽस्मीत्यभाषत ॥7.5.11॥7.5.12bसुकेश पुत्रानामन्त्र्य वरदोस्मीत्यभाषत ॥ १२ ॥7.5.12bसुकेशपुत्रानामन्त्र्य वरदोऽस्मीत्यभाषत ॥ 7.5.12 ॥
27#13bಬ್ರಹ್ಮಾಣಂ ವರದಂ ಜ್ಞಾತ್ವಾ ಸೇಂದ್ರೈರ್ದೇವಗಣೈರ್ವೃತಮ್ ॥7.5.13bब्रह्माणं वरदं ज्ञात्वा सेन्द्रैर्देवगणैर्वृतम् ॥ १३ ॥7.5.12aब्रह्माणं वरदं ज्ञात्वा सेन्द्रैर्देवगणैर्वृतम् ।7.5.13aब्रह्माणं वरदं ज्ञात्वा सेन्द्रैर्देवगणैर्वृतम् ।7.5.13aब्रह्माणं वरदं ज्ञात्वा सेन्द्रैर्देवगणैर्वृतम्।
28#14aಊಚುಃ ಪ್ರಾಂಜಲಯಃ ಸರ್ವೇ ವೇಪಮಾನಾ ಇವ ದ್ರುಮಾಃ ।7.5.14aऊचुः प्राञ्जलयः सर्वे वेपमाना इव द्रुमाः ।7.5.12bऊचुः प्राञ्जलयः सर्वे वेपमाना इव द्रुमाः ॥7.5.12॥7.5.13bऊचुः प्राञ्जलयः सर्वे वेपमाना इव द्रुमाः ॥ १३ ॥7.5.13bऊचुः प्राञ्जलयः सर्वे वेपमाना इव द्रुमाः ॥ 7.5.13 ॥
29#14bತಪಸಾರಾಽಽಧಿಪತೋ ದೇವ ಯದಿ ನೋ ದಿಶಸೇ ವರಮ್ ॥7.5.14bतपसाऽऽराधितो देव यदि नो दिशसे वरम् ॥ १४ ॥7.5.13aतपसाराधितो देव यदि नो दिशसे वरम् ।7.5.14aतपसाऽऽराधितो देव यदि नो दिशसे वरम् ।7.5.14aतपसाराधितो देव यदि नो दिशसे वरम्।
30#15aಅಜೇಯಾಃ ಶತ್ರು ಹಂತಾರಸ್ತಥೈವ ಚಿರಜೀವಿನಃ ।7.5.15aअजेयाः शत्रुहन्तारस्तथैव चिरजीविनः ।7.5.13bअजेयाः शत्रुहन्तारस्तथैव चिरजीविनः ।7.5.14bअजेयाः शत्रुहन्तारस्तथैव चिरजीविनः ।7.5.14bअजेयाः शत्रुहन्तारस्तथैव चिरजीविनः ॥ 7.5.14 ॥
31#15bಪ್ರಭವಿಷ್ಣ್ವೋ ಭವಾಮೇತಿ ಪರಸ್ಪರಮನುವ್ರತಾಃ ॥7.5.15bप्रभविष्ण्वो भवामेति परस्परमनुव्रताः ॥ १५ ॥7.5.13cप्रभविष्णवो भवामेति परस्परमनुव्रताः ॥7.5.13॥7.5.14cप्रभविष्ण्वो भवामेति परस्परमनुव्रताः ॥ १४ ॥7.5.15प्रभविष्ण्वो भवामेति परस्परमनुव्रताः ॥ 7.5.15 ॥
32#16aಏವಂ ಭವಿಷ್ಯಥೇತ್ಯುಕ್ತ್ವಾ ಸುಕೇಶತನಯಾನ್ವಿಭುಃ ।7.5.16aएवं भविष्यथेत्युक्त्वा सुकेशतनयान् विभुः ।7.5.14aएवं भविष्यतीत्युक्त्वा सुकेशतनयान्प्रभुः ।7.5.15aएवं भविष्यतीत्युक्त्वा सुकेशतनयान्विभुः ।7.5.16aएवं भविष्यतीत्युक्त्वा सुकेशतनयान्विभुः।
33#16bಸ ಯಯೌ ಬ್ರಹ್ಮಲೋಕಾಯ ಬ್ರಹ್ಮಾ ಬ್ರಾಹ್ಮಣವತ್ಸಲಃ ॥7.5.16bस ययौ ब्रह्मलोकाय ब्रह्मा ब्राह्मणवत्सलः ॥ १६ ॥7.5.14bप्रययौ ब्रह्मलोकाय ब्रह्मा ब्राह्मणवत्सलः ॥7.5.14॥7.5.15bस ययौ ब्रह्मलोकाय ब्रह्मा ब्राह्मणवत्सलः ॥ १५ ॥7.5.16bस ययौ ब्रह्मलोकाय ब्रह्मा ब्राह्मणवत्सलः ॥ 7.5.16 ॥
34#17aವರಂ ಲಬ್ಧ್ವಾ ತು ತೇ ಸರ್ವೇ ರಾಮ ರಾಂತ್ರಿಂಚರಾಸ್ತದಾ ।7.5.17aवरं लब्ध्वा तु ते सर्वे राम रात्रिञ्चरास्तदा ।7.5.15aवरं लब्ध्वा ततः सर्वे राम रात्रिंचरास्तदा ।7.5.16aवरं लब्ध्वा तु ते सर्वे राम रात्रिंचरास्तदा ।7.5.17aवरं लब्ध्वा तु ते सर्वे राम रात्रिञ्चरास्तदा।
35#17bಸುರಾಸುರಾನ್ ಪ್ರಬಾಧಂತೇ ವರದಾನಸು ನಿರ್ಭಯಾಃ ॥7.5.17bसुरासुरान् प्रबाधन्ते वरदानसुनिर्भयाः ॥ १७ ॥7.5.15bसुरासुरान्प्रबाधन्ते वरदानात्सुनिर्भयाः ॥7.5.15॥7.5.16bसुरासुरान्प्रबाधन्ते वरदानसुनिर्भयाः ॥ १६ ॥7.5.17bसुरासुरान्प्रबाधन्ते वरदानसुनिर्भयाः ॥ 7.5.17 ॥
36#18aತೈರ್ಬಾಧ್ಯಮಾನಾಸ್ತ್ರಿದಶಾಃ ಸರ್ಷಿಸಂಘಾಃ ಸಚಾರಣಾಃ ।7.5.18aतैर्बाध्यमानास्त्रिदशाः सर्षिसङ्घाः सचारणाः ।7.5.16aतैर्वध्यमानास्त्रिदशाः सर्षिसंघाः सचारणाः ।7.5.17aतैर्वध्यमानास्त्रिदशाः सर्षिसङ्घाः सचारणाः ।7.5.18aतैर्वध्यमानास्त्रिदशाः सर्षिसङ्घाः सचारणाः।
37#18bತ್ರಾತಾರಂ ನಾಧಿಗಚ್ಛಂತಿ ನಿರಯಸ್ಥಾ ಯಥಾ ನರಾಃ ॥7.5.18bत्रातारं नाधिगच्छन्ति निरयस्था यथा नराः ॥ १८ ॥7.5.16bत्रातारं नाधिगच्छन्ति निरयस्था यथा नराः ॥7.5.16॥7.5.17bत्रातारं नाधिगच्छन्ति निरयस्था यथा नराः ॥ १७ ॥7.5.18bत्रातारं नाधिगच्छन्ति निरयस्था यथा नराः ॥ 7.5.18 ॥
38#19aಅಥ ತೇ ವಿಶ್ವಕರ್ಮಾಣಂ ಶಿಲ್ಪಿನಾಂ ವರಮವ್ಯಯಮ್ ।7.5.19aअथ ते विश्वकर्माणं शिल्पिनां वरमव्ययम् ।7.5.17aअथ ते विश्वकर्माणं शिल्पिनां वरमव्ययम् ।7.5.18aअथ ते विश्वकर्माणं शिल्पिनां वरमव्ययम् ।7.5.19aअथ ते विश्वकर्माणं शिल्पिनां वरमव्ययम्।
39#19bಊಚುಃ ಸಮೇತ್ಯ ಸಂಹೃಷ್ಟಾ ರಾಕ್ಷಸಾ ರಘುಸತ್ತಮ ॥7.5.19bऊचुः समेत्य संहृष्टा राक्षसा रघुसत्तम ॥ १९ ॥7.5.17bऊचुः समेत्य संहृष्टा राक्षसा रघुसत्तम ॥7.5.17॥7.5.18bऊचुः समेत्य संहृष्टा राक्षसा रघुसत्तम ॥ १८ ॥7.5.19bऊचुः समेत्य संहृष्टा राक्षसा रघुसत्तम ॥ 7.5.19 ॥
40#20aಓಜಸ್ತೇಜೋ ಬಲವತಾಂ ಮಹತಾಮಾತ್ಮತೇಜಸಾ ।7.5.20aओजस्तेजोबलवतां महतामात्मतेजसा ।7.5.19aओजस्तेजोबलवतां महतामात्मतेजसा ।7.5.20aओजस्तेजोबलवतां महतामात्मतेजसा।
41#20bಗೃಹಕರ್ತಾ ಭವಾನೇವ ದೇವಾನಾಂ ಹೃದಯೇಪ್ಸಿತಮ್ ॥7.5.20bगृहकर्ता भवानेव देवानां हृदयेप्सितम् ॥ २० ॥7.5.18aगृहकर्ता भवानेव देवानां हृदयेप्सितम् ।7.5.19bगृहकर्ता भवानेव देवानां हृदयेप्सितम् ॥ १९ ॥7.5.20bगृहकर्ता भवानेव देवानां हृदयेप्सितम् ॥ 7.5.20 ॥
42#21aಅಸ್ಮಾಕಮಪಿ ತಾವತ್ತ್ವಂ ಗೃಹಂ ಕುರು ಮಹಾಮತೇ ।7.5.21aअस्माकमपि तावत् त्वं गृहं कुरु महामते ।7.5.18bअस्माकमपि तावत्त्वं गृहं कुरु महामते ॥7.5.18॥7.5.20aअस्माकमपि तावत्त्वं गृहं कुरु महामते ।
43#21bಹಿಮವಂತಮುಪಾಶ್ರಿತ್ಯ ಮೇರುಂ ಮಂದರಮೇವ ವಾ ॥7.5.21bहिमवन्तमुपाश्रित्य मेरुं मन्दरमेव वा ॥ २१ ॥7.5.19aहिमवन्तं समाश्रित्य मेरुं मन्दरमेव वा ।7.5.20bहिमवन्तमपाश्रित्य मेरुं मन्दरमेव वा ।7.5.21aहिमवन्तमपाश्रित्य मेरुमन्दरमेव वा।
44#22aಮಹೇಶ್ವರಗೃಹಪ್ರಖ್ಯಂ ಗೃಹಂ ನಃ ಕ್ರಿಯತಾಂ ಮಹತ್ ।7.5.22aमहेश्वरगृहप्रख्यं गृहं नः क्रियतां महत् ।7.5.19bमहेश्वरगृहप्रख्यं गृहं नः क्रियतां महत् ॥7.5.19॥7.5.20cमहेश्वरगृहप्रख्यं गृहं नः क्रियतां महत् ॥ २० ॥7.5.21bमहेश्वरगृहप्रख्यं गृहं नः क्रियतां महत् ॥ 7.5.21 ॥
45#22bವಿಶ್ವಕರ್ಮಾ ತತಸ್ತೇಷಾಂ ರಾಕ್ಷಸಾನಾಂ ಮಹಾಭುಜಃ ॥7.5.22bविश्वकर्मा ततस्तेषां राक्षसानां महाभुजः ॥ २२ ॥7.5.20aविश्वकर्मा ततस्तेषां राक्षसानां महाभुजः ।7.5.21aविश्वकर्मा ततस्तेषां राक्षसानां महाभुजः ।7.5.22aविश्वकर्मा ततस्तेषां राक्षसानां महाभुजः।
46#23aನಿವಾಸಂ ಕಥಯಾಮಾಸ ಶಕ್ರಸ್ಯೇವಾಮರಾವತೀಮ್ ।7.5.23aनिवासं कथयामास शक्रस्येवामरावतीम् ।7.5.20bनिवासं कथयामास शक्रस्येवामरावतीम् ॥7.5.20॥7.5.21bनिवासं कथयामास शक्रस्येवामरावतीम् ॥ २१ ॥7.5.22bनिवासं कथयामास शक्रस्येवामरावतीम् ॥ 7.5.22 ॥
47#23bದಕ್ಷಿಣಸ್ಯೋದಧೇಸ್ತೀರೇ ತ್ರಿಕೂಟೋ ನಾಮ ಪರ್ವತಃ ॥7.5.23bदक्षिणस्योदधेस्तीरे त्रिकूटो नाम पर्वतः ॥ २३ ॥7.5.21aदक्षिणस्योदधेस्तीरे त्रिकूटो नाम पर्वतः ।7.5.22aदक्षिणस्योदधेस्तीरे त्रिकूटो नाम पर्वतः ।7.5.23aदक्षिणस्योदधेस्तीरे त्रिकूटो नाम पर्वतः।
48#24aಸುವೇಲ ಇತಿ ಚಾಪ್ಯನ್ಯೋ ದ್ವಿತೀಯೋ ರಾಕ್ಷಸೇಶ್ವರಃ ।7.5.24aसुवेल इति चाप्यन्यो द्वितीयो राक्षसेश्वरः ।7.5.22bसुवेल इति चाप्यन्यो द्वितीयस्तत्र सत्तमाः ॥ २२ ॥7.5.23bसुवेल इति चाप्यन्यो द्वितीयस्तत्र सत्तमाः ॥ 7.5.23 ॥
49#24bಶಿಖರೇ ತಸ್ಯ ಶೈಲಸ್ಯ ಮಧ್ಯಮೇಂಽಬುದಸಂನಿಭೇ ॥7.5.24bशिखरे तस्य शैलस्य मध्यमेऽम्बुदसन्निभे ॥ २४ ॥7.5.21bशिखरे तस्य शैलस्य मध्यमेऽम्बुदसंनिभे ।7.5.23aशिखरे तस्य शैलस्य मध्यमेऽम्बुदसन्निभे ।7.5.24aशिखरे तस्य शैलस्य मध्यमेऽम्बुदसन्निभे।
50#25aಶಕುನೈರಪಿ ದುಷ್ಪ್ರಾಪೇ ಟಂಕಚ್ಛಿನ್ನಚತುರ್ದಿಶಿ ।7.5.25aशकुनैरपि दुष्प्रापे टङ्कच्छिन्नचतुर्दिशि ।7.5.21cशकुनैरपि दुष्प्रापे टङ्कच्छिन्नचतुर्दिशि ॥7.5.21॥7.5.23bशकुनैरपि दुष्प्रापे टङ्कच्छिन्नचतुर्दिशि ॥ २३ ॥7.5.24bशकुनैरपि दुष्प्रापे टङ्कच्छिन्नचतुर्दिशि ॥ 7.5.24 ॥
51#25bತ್ರಿಂಶದ್ಯೋಜನವಿಸ್ತೀರ್ಣಾ ಶತಯೋಜನಮಾಯತಾ ॥7.5.25bत्रिंशद्योजनविस्तीर्णा शतयोजनमायता ॥ २५ ॥7.5.22aत्रिंशद्योजनविस्तीर्णा स्वर्णप्राकारतोरणा ।7.5.24aत्रिंशद्योजनविस्तीर्णा शतयोजनमायता ।7.5.25aत्रिंशद्योजनक्स्तीर्णा शतयोजनमायता।
52#26aಸ್ವರ್ಣಪ್ರಾಕಾರ ಸಂವೀತಾ ಹೇಮತೋರಣ ಸಂವೃತಾ ।7.5.26aस्वर्णप्राकारसंवीता हेमतोरणसंवृता ।7.5.24bस्वर्णप्राकारसंवीता हेमतोरणसंवृता ।7.5.25bस्वर्णप्राकारसंवीता हेमतोरणसंवृता ॥ 7.5.25 ॥
53#26bಮಯಾ ಲಂಕೇತಿ ನಗರೀ ಶಕ್ರಾಜ್ಞಪ್ತೇನ ನಿರ್ಮಿತಾ ॥7.5.26bमया लङ्केति नगरी शक्राज्ञप्तेन निर्मिता ॥ २६ ॥7.5.22bमया लङ्केति नगरी शक्राज्ञप्तेन निर्मिता ॥7.5.22॥7.5.24cमया लङ्केति नगरी शक्राज्ञप्तेन निर्मिता ॥ २४ ॥7.5.26aमया लङ्केति नगरी शक्राज्ञप्तेन निर्मिता।
54#27aತಸ್ಯಾಂ ವಸತ ದುರ್ಧರ್ಷಾ ಯೂಯಂ ರಾಕ್ಷಸಪುಂಗವಾಃ ।7.5.27aतस्यां वसत दुर्धर्षा यूयं राक्षसपुङ्गवाः ।7.5.23aतस्यां वसत दुर्धर्षाः पुर्यां राक्षससत्तमाः ।7.5.25तस्यां वसत दुर्घर्षा यूयं राक्षस पुङ्गवाः ॥ २५ ॥7.5.26bतस्यां वसत दुर्धर्षा यूयं राक्षसपुङ्गवाः ॥ 7.5.26 ॥
55#27bಅಮರಾವತೀಂ ಸಮಾಸಾದ್ಯ ಸೇಂದ್ರಾ ಇವ ದಿವೌಕಸಃ ॥7.5.27bअमरावतीं समासाद्य सेन्द्रा इव दिवौकसः ॥ २७ ॥7.5.23bअमरावतीं समासाद्य सेन्द्रा इव दिवौकसः ॥7.5.23॥7.5.26aअमरावतीं समासाद्य सेन्द्रा इव दिवौकसः ।7.5.27aअमरावतीं समासाद्य सेन्द्रा इव दिवौकसः।
56#28aಲಂಕಾದುರ್ಗಂ ಸಮಾಸಾದ್ಯ ರಾಕ್ಷಸೈರ್ಬಹುಭಿರ್ವೃತಾಃ ।7.5.28aलङ्कादुर्गं समासाद्य राक्षसैर्बहुभिर्वृताः ।7.5.24aलङ्कादुर्गं समासाद्य राक्षसैर्बहुभिर्वृताः ।7.5.26bलङ्कादुर्गं समासाद्य राक्षसैर्बहुभिर्वृताः ।7.5.27bलङ्कादुर्गं समासाद्य राक्षसैर्बहुभिर्वृताः ॥ 7.5.27 ॥
57#28bಭವಿಷ್ಯಥ ದುರಾಧರ್ಷಾಃ ಶತ್ರೂಣಾಂ ಶತ್ರುಸೂದನಾಃ ॥7.5.28bभविष्यथ दुराधर्षाः शत्रूणां शत्रुसूदनाः ॥ २८ ॥7.5.24bभविष्यथ दुराधर्षाः शत्रूणां शत्रुसूदनाः ॥7.5.24॥7.5.26cभविष्यथ दुराधर्षाः शत्रूणां शत्रुसूदनाः ॥ २६ ॥7.5.28भविष्यथ दुराधर्षाः शत्रूणां शत्रुसूदनाः ॥ 7.5.28 ॥
58#29aವಿಶ್ವಕರ್ಮವಚಃ ಶ್ರುತ್ವಾ ತತಸ್ತೇ ರಾಕ್ಷಸೋತ್ತಮಾಃ ।7.5.29aविश्वकर्मवचः श्रुत्वा ततस्ते राक्षसोत्तमाः ।7.5.25aविश्वकर्मवचः श्रुत्वा ततस्ते राम राक्षसाः ।7.5.27aविश्वकर्मवचः श्रुत्वा ततस्ते राक्षसोत्तमाः ।7.5.29aविश्वकर्मवचः श्रुत्वा ततस्ते राक्षसोत्तमाः।
59#29bಸಹಸ್ರಾನುಚರಾ ಭೂತ್ವಾ ಗತ್ವಾ ತಾಮವಸನ್ಪುರೀಮ್ ॥7.5.29bसहस्रानुचरा भूत्वा गत्वा तामवसन् पुरीम् ॥ २९ ॥7.5.25bसहस्रानुचरा गत्वा लङ्कां तामवसन्पुरीम् ॥7.5.25॥7.5.27bसहस्रानुचरा भूत्वा गत्वा तामवसन्पुरीम् ॥ २७ ॥7.5.29bसहस्रानुचरा भूत्वा गत्वा तामवसन्पुरीम् ॥ 7.5.29 ॥
60#30aದೃಢಪ್ರಾಕಾರಪರಿಖಾಂ ಹೈಮೈರ್ಗೃಹಶತೈರ್ವೃತಾಮ್ ।7.5.30aदृढप्राकारपरिखां हैमैर्गृहशतैर्वृताम् ।7.5.26aदृढप्राकारपरिखां हैमैर्गृहशतैर्वृताम् ।7.5.28aदृढप्राकारपरिखां हैमैर्गृहशतैर्वृताम् ।7.5.30aदृढप्राकारपरिखां हैमैर्गृहशतैर्वृताम्।
61#30bಲಂಕಾಮವಾಪ್ಯ ತೇ ಹೃಷ್ಟಾ ನ್ಯವಸನ್ ರಜನೀಚರಾಃ ॥7.5.30bलङ्कामवाप्य ते हृष्टा न्यवसन् रजनीचराः ॥ ३० ॥7.5.26bलङ्कामवाप्य ते हृष्टा विहरन्ति निशाचराः ॥7.5.26॥7.5.28bलङ्कामवाप्य ते हृष्टा व्यवसन्रजनीचराः ॥ २८ ॥7.5.30bलङ्कामवाप्य ते हृष्टा न्यवसन्रजनीचराः ॥ 7.5.30 ॥
62#31aಏತಸ್ಮಿನ್ನೇವ ಕಾಲೇ ತು ಯಥಾಕಾಮಂ ಚ ರಾಘವ ।7.5.31aएतस्मिन्नेव काले तु यथाकामं च राघव ।7.5.29aएतस्मिन्नेव काले तु यथाकामं च राघव ।7.5.31aएतस्मिन्नेव काले तु यथाकामं च राघव।
63#31bನರ್ಮದಾ ನಾಮ ಗಂಧರ್ವೀ ಬಭೂವ ರಘುನಂದನ ॥7.5.31bनर्मदा नाम गन्धर्वी बभूव रघुनन्दन ॥ ३१ ॥7.5.27aनर्मदा नाम गन्धर्वी नानाधर्मसमेधिता ।7.5.29bनर्मदा नाम गन्धर्वी बभूव रघुनन्दन ॥ २९ ॥7.5.31bनर्मदा नाम गन्धर्वी बभूव रघुनन्दन ॥ 7.5.31 ॥
64#32aತಸ್ಯಾಃ ಕನ್ಯಾತ್ರಯಂ ಹ್ಯಾಸೀದ್ ಧ್ರೀ ಶ್ರೀ ಕೀರ್ತಿ ಸಮದ್ಯುತಿ ।7.5.32aतस्याः कन्यात्रयं ह्यासीद् ह्रीश्रीकीर्तिसमद्युति ।7.5.27bतस्याः कन्यात्रयं ह्यासीद्धीश्रीकीर्तिसमद्युति ॥7.5.27॥7.5.30aतस्याः कन्यात्रयं ह्यासीद्धीश्री कीर्तिसमद्युति ।7.5.32aतस्याः कान्यात्रयं ह्यासीत् धीश्रीकिर्तिसमद्युति।
65#32bಜ್ಯೇಷ್ಠಕ್ರಮೇಣಸಾ ತೇಷಾಂ ರಾಕ್ಷಸಾನಾಮ ರಾಕ್ಷಸೀ ॥7.5.32bज्येष्ठक्रमेण सा तेषां राक्षसानामराक्षसी ॥ ३२ ॥7.5.28aज्येष्ठक्रमेण सा तेषां राक्षसानामराक्षसी ।7.5.30bज्येष्ठक्रमेण सा तेषां राक्षसानामराक्षसी ॥ ३० ॥7.5.32bज्येष्ठक्रमेण सा तेषां राक्षसानामराक्षसी ॥ 7.5.32 ॥
66#33aಕನ್ಯಾಸ್ತಾಃ ಪ್ರದದೌ ಹೃಷ್ಟಾಃ ಪೂರ್ಣಚಂದ್ರ ನಿಭಾನನಾಃ ।7.5.33aकन्यास्ताः प्रददौ हृष्टाः पूर्णचन्द्रनिभाननाः ।7.5.28bकन्यास्ताः प्रददौ हृष्टा पूर्णचन्द्रनिभाननाः ॥7.5.28॥7.5.31aकन्यास्ताः प्रददौ हृष्टा पूर्णचन्द्रनिभाननाः ।7.5.33aकन्यास्ताः प्रददौ हृष्टा पूर्णचन्द्रनिभाननाः।
67#33bತ್ರಯಾಣಾಂ ರಾಕ್ಷಸೇಂದ್ರಾಣಾಂ ತಿಸ್ರೋ ಗಂಧರ್ವಕನ್ಯಕಾಃ ॥7.5.33bत्रयाणां राक्षसेन्द्राणां तिस्रो गन्धर्वकन्यकाः ॥ ३३ ॥7.5.29aत्रयाणां राक्षसेन्द्राणां तिस्रो गन्धर्वकन्यकाः ।7.5.31bत्रयाणां राक्षसेन्द्राणां तिस्रो गन्धर्वकन्यकाः ॥ ३१ ॥7.5.33bत्रयाणां राक्षसेन्द्राणां तिस्रो गन्धर्वकन्यकाः ॥ 7.5.33 ॥
68#34aದತ್ತಾ ಮಾತ್ರಾ ಮಹಾಭಾಗಾ ನಕ್ಷತ್ರೇ ಭಗದೈವತೇ ।7.5.34aदत्ता मात्रा महाभागा नक्षत्रे भगदैवते ।7.5.29bमात्रा दत्ता महाभागा नक्षत्रे भगदैवते ॥7.5.29॥7.5.32aदत्ता मात्रा महाभागा नक्षत्रे भगदैवते ।7.5.34aदत्ता मात्रा महाभागा नक्षत्रे भगदैवते।
69#34bಕೃತದಾರಾಸ್ತು ತೇ ರಾಮ ಸುಕೇಶತನಯಾಸ್ತದಾ ॥7.5.34bकृतदारास्तु ते राम सुकेशतनयास्तदा ॥ ३४ ॥7.5.30aकृतदारास्तु ते राम सुकेशतनयाः प्रभो ।7.5.32bकृतदारास्तु ते राम सुकेशतनयास्तदा ।7.5.34bकुतदारास्तु ते राम सुकेशतनयास्तदा ॥ 7.5.34 ॥
70#35aಚಿಕ್ರೀಡುಃ ಸಹ ಭಾರ್ಯಾಭಿರಪ್ಸರೋಭಿರಿವಾಮರಾಃ ।7.5.35aचिक्रीडुः सह भार्याभिरप्सरोभिरिवामराः ।7.5.30bभार्याभिः सह चिक्रीडुरप्सरोभिरिवामराः ॥7.5.30॥7.5.32cचिक्रीडुः सह भार्याभिरप्सरोभिरिवामराः ॥ ३२ ॥7.5.35aचिक्रीडुः सह भार्याभिरप्सरोभिरिवामराः।
71#35bತತೋ ಮಾಲ್ಯವತೋ ಭಾರ್ಯಾ ಸುಂದರೀ ನಾಮ ಸುಂದರೀ ॥7.5.35bततो माल्यवतो भार्या सुन्दरी नाम सुन्दरी ॥ ३५ ॥7.5.31aतत्र माल्यवतो भार्या सुन्दरी नाम सुन्दरी ।7.5.33aततो माल्यवतो भार्या सुन्दरी नाम सुन्दरी ।7.5.35bततो माल्यवतो भार्या सुन्दरी नाम सुन्दरी ॥ 7.5.35 ॥
72#36aಸ ತಸ್ಯಾಂ ಜನಯಾಮಾಸ ಯದಪತ್ಯಂ ನಿಬೋಧ ತತ್ ।7.5.36aस तस्यां जनयामास यदपत्यं निबोध तत् ।7.5.31bस तस्यां जनयामास यदपत्यं निबोध तत् ॥7.5.31॥7.5.33bस तस्यां जनयामास यदपत्यं निबोध तत् ॥ ३३ ॥7.5.36aस तस्यां जनयामास यदपत्यं निबोध तत्।
73#36bವಜ್ರಮುಷ್ಟಿರ್ವಿರೂಪಾಕ್ಷೋ ದುರ್ಮುಖಶ್ಚೈವ ರಾಕ್ಷಸಃ ॥7.5.36bवज्रमुष्टिर्विरूपाक्षो दुर्मुखश्चैव राक्षसः ॥ ३६ ॥7.5.32aवज्रमुष्टिर्विरूपाक्षो दुर्मुखश्चैव राक्षसः ।7.5.34aवज्रमुष्टिर्विरूपाक्षो दुर्मुखश्चैव राक्षसः ।7.5.36bवज्रमुष्टिर्विरूपाक्षोदुर्मुखश्चैव राक्षसः ॥ 7.5.36 ॥
74#37aಸುಪ್ತಘ್ನೋ ಯಜ್ಞ ಕೋಪಶ್ಚ ಮತ್ತೋನ್ಮತ್ತೌ ತಥೈವ ಚ ।7.5.37aसुप्तघ्नो यज्ञकोपश्च मत्तोन्मत्तौ तथैव च ।7.5.32bसुप्तघ्नो यज्ञकोपश्च मत्तोन्मत्तौ तथैव च ।7.5.34bसुप्तघ्नो यज्ञकोपश्च मत्तोन्मत्तौ तथैव च ।7.5.37aसुप्तघ्नो यज्ञकोपश्च मत्तोन्मत्तौ तथैव च।
75#37bಅನಲಾ ಚಾಭವತ್ಕನ್ಯಾ ಸುಂದರ್ಯಾಂ ನಾಮ ಸುಂದರೀ ॥7.5.37bअनला चाभवत् कन्या सुन्दर्यां राम सुन्दरी ॥ ३७ ॥7.5.32cअनला चाभवत्कन्या सुन्दर्यां राम सुन्दरी ॥7.5.32॥7.5.34cअनला चाभवत्कन्या सुन्दर्यां राम सुन्दरी ॥ ३४ ॥7.5.37bअनला चाभवत्कन्या सुन्दर्यां राम सुन्दरी ॥ 7.5.37 ॥
76#38aಸುಮಾಲೀನೋಽಪಿ ಭಾರ್ಯಾಽಽಸೀತ್ ಪೂರ್ಣಚಂದ್ರನಿಭಾನನಾ ।7.5.38aसुमालिनोऽपि भार्याऽऽसीत् पूर्णचन्द्रनिभानना ।7.5.33aसुमालिनोऽपि भार्यासीत्पूर्णचन्द्रनिभानना ।7.5.35aसुमालिनोपि भार्याऽऽसीत्पूर्णचन्द्रनिभानना ।7.5.38aसुमालिनोऽपि भार्यासीत्पूर्णचद्रनिभानना।
77#38bನಾಮ್ನಾ ಕೇತುಮತೀ ರಾಮ ಪ್ರಾಣೇಭ್ಯೋಪಿ ಗರೀಯಸೀ ॥7.5.38bनाम्ना केतुमती राम प्राणेभ्योऽपि गरीयसी ॥ ३८ ॥7.5.33bनाम्ना केतुमती नाम प्राणेभ्योऽपि गरीयसी ॥7.5.33॥7.5.35bनाम्ना केतुमती नाम प्राणेभ्योपि गरीयसी ॥ ३५ ॥7.5.38bनाम्ना केतुमती राम प्राणेभ्योऽपि गरीयसी ॥ 7.5.38 ॥
78#39aಸುಮಾಲೀ ಜನಯಾಮಾಸ ಯದಪತ್ಯಂ ನಿಶಾಚರಃ ।7.5.39aसुमाली जनयामास यदपत्यं निशाचरः ।7.5.34aसुमाली जनयामास यदपत्यं निशाचरः ।7.5.36aसुमाली जनयामास यदपत्यं निशाचरः ।7.5.39aसुमाली जनयामास यदपत्यं निशाचरः।
79#39bಕೇತುಮತ್ಯಾಂ ಮಹಾರಾಜ ತನ್ನಿಬೋಧಾನುಪೂರ್ವಶಃ ॥7.5.39bकेतुमत्यां महाराज तन्निबोधानुपूर्वशः ॥ ३९ ॥7.5.34bकेतुमत्यां महाराज तन्निबोधानुपूर्वशः ॥7.5.34॥7.5.36bकेतुमत्यां महाराज तन्निबोधानुपूर्वशः ॥ ३६ ॥7.5.39bकेतुमत्यां महाराज तन्निबोधानुपूर्वशः ॥ 7.5.39 ॥
80#40aಪ್ರಹಸ್ತೋಽಕಂಪನಶ್ಚೈವ ವಿಕಟಃ ಕಾಲಿಕಾಮುಖಃ ।7.5.40aप्रहस्तोऽकम्पनश्चैव विकटः कालिकामुखः ।7.5.35aप्रहस्तोऽकम्पनैश्चैव विकटः कालकार्मुकः ।7.5.37aप्रहस्तोऽकम्पनश्चैव विकटः कलकार्मुकः ।7.5.40aप्रहस्तोऽकम्पनश्चैव विकटः कालकार्मुखः।
81#40bಧೂಮ್ರಾಕ್ಷಶ್ಚೈವ ದಂಡಶ್ಚ ಸುಪಾರ್ಶ್ವಶ್ಚ ಮಹಾಬಲಃ ॥7.5.40bधूम्राक्षश्चैव दण्डश्च सुपार्श्वश्च महाबलः ॥ ४० ॥7.5.35bधूम्राक्शश्चाथ दण्डश्च सुपार्श्वश्च महाबलः ॥7.5.35॥7.5.37bधूम्राक्षश्चैव दण्डथ सुपार्श्वश्च महाबलः ॥ ३७ ॥7.5.40bधूम्राक्षश्चैव दण्डश्च सुपार्श्वश्च महाबलः ॥ 7.5.40 ॥
82#41aಸಂಹ್ರಾದಿಃ ಪ್ರಘಸಶ್ಚೈವ ಭಾಸಕರ್ಣಶ್ಚ ರಾಕ್ಷಸಃ ।7.5.41aसंह्रादिः प्रघसश्चैव भासकर्णश्च राक्षसः ।7.5.36aसंह्रादिः प्रघसश्चैव भासकर्णश्च राक्षसः ।7.5.38aसंह्रादिः प्रघसश्चैव भासकर्णश्च राक्षसः ।
83#41bರಾಕಾ ಪುಷ್ಪೋತ್ಕಟಾ ಚೈವ ಕೈಕಸೀ ಚ ಶುಚಿಸ್ಮಿತಾಃ ॥7.5.41bराका पुष्पोत्कटा चैव कैकसी च शुचिस्मिताः ॥ ४१ ॥7.5.36bराका पुष्पोत्कटा चैव कैकसी च शुचिस्मिता ।7.5.38bराको पुष्पोत्कटा चैव कैकसी च शुचिस्मिता ।7.5.41aराका पुष्पोत्कटा चैव कैकसी च शुचिस्मिता।
84#42ಕಂಭೀನಸೀ ಚ ಇತ್ಯೇಷೇ ಸುಮಾಲೇಃ ಪ್ರಸವಾಃ ಸ್ಮೃತಾಃ ॥7.5.42कुम्भीनसी च इत्येते सुमालेः प्रसवाः स्मृताः ॥ ४२ ॥7.5.36cकुम्भीनसी च इत्येते सुमालेः प्रसवाः स्मृताः ॥7.5.36॥7.5.38cकुम्भीनसी च इत्येते मुमालेः प्रसवाः स्मृताः ॥ ३८ ॥7.5.41bकुम्भीनसी च इत्येते सुमालेः प्रसवाः स्मृताः ॥ 7.5.41 ॥
85#43aಮಾಲೇಸ್ತು ವಸುದಾ ನಾಮ ಗಂಧರ್ವೀ ರೂಪಶಾಲಿನೀ ।7.5.43aमालेस्तु वसुदा नाम गन्धर्वी रूपशालिनी ।7.5.37aमालेस्तु वसुदा नाम गन्धर्वी रूपशालिनी ।7.5.39aमालेस्तु वसुधा नाम गन्धर्वी रूपशालिनी ।7.5.42aमालेस्तु वसुधा नाम गन्धर्वी रूपशालिनी।
86#43bಭಾರ್ಯಾಸೀತ್ಪದ್ಮಪತ್ರಾಕ್ಷೀ ಸ್ವಕ್ಷೀ ಯಕ್ಷೀವರೋಪಮಾ ॥7.5.43bभार्यासीत् पद्मपत्राक्षी स्वक्षी यक्षीवरोपमा ॥ ४३ ॥7.5.37bभार्यासीत्पद्मपत्राक्षी स्वक्षी यक्षीवरोपमा ॥7.5.37॥7.5.39bभार्याऽऽसीत्पद्मपत्राक्षी स्वक्षी यक्षीवरोपमा ॥ ३९ ॥7.5.42bभार्यासीत्पद्मपत्राक्षी स्वक्षी यक्षीवरोपमा ॥ 7.5.42 ॥
87#44aಸುಮಾಲೇರನುಜಸ್ತಸ್ಯಾಂ ಜನಯಾಮಾಸ ಯತ್ ಪ್ರಭೋ ।7.5.44aसुमालेरनुजस्तस्यां जनयामास यत् प्रभो ।7.5.38aसुमालेरनुजस्तस्यां जनयामास यत्प्रभो ।7.5.40aसुमालेरनुजस्तस्यां जनयामास यत्प्रभो ।7.5.43aसुमालेरनुजस्तस्यां जनयामास यत् प्रभो।
88#44bಅಪತ್ಯಂ ಕಥ್ಯಮಾನಂ ತು ಮಯಾ ತ್ವಂ ಶೃಣು ರಾಘವ ॥7.5.44bअपत्यं कथ्यमानं तु मया त्वं शृणु राघव ॥ ४४ ॥7.5.38bअपत्यं कथ्यमानं तन्मया त्वं शृणु राघव ॥7.5.38॥7.5.40bअपत्यं कथ्यमानं तु मया त्वं शृणु राघव ॥ ४० ॥7.5.43bअपत्यं कथ्यमानं तु मया त्वं शृणु राघव ॥ 7.5.43 ॥
89#45aಅನಲಶ್ಚಾನಿಲಶ್ಚೈವ ಹರಃ ಸಂಪಾತೀರೇವ ಚ ।7.5.45aअनलश्चानिलश्चैव हरः सम्पातिरेव च ।7.5.39aअनलश्चानिलश्चैव हरः संपातिरेव च ।7.5.41aअनिलश्चानलश्चैव हरः सम्पातिरेव च ।7.5.44aअनिलश्चानलश्चैव हरः सम्पातिरेव च।
90#45bಏತೇ ವಿಭೀಷಣಾಮಾತ್ಯಾ ಮಾಲೇಯಾಸ್ತೇ ನಿಶಾಚರಾಃ ॥7.5.45bएते विभीषणामात्या मालेयास्ते निशाचराः ॥ ४५ ॥7.5.39bएते विभीषणामात्या मालेयास्ते निशाचराः ॥7.5.39॥7.5.41bएते विभीषणामात्या मालेयास्तु निशाचराः ॥ ४१ ॥7.5.44bएते विभीषणामात्या मालेयास्तु निशाचरः ॥ 7.5.44 ॥
91#46aತತಸ್ತು ತೇ ರಾಕ್ಷಸಪುಂಗವಾಸ್ತ್ರಯೋ
ನಿಶಾಚರೈಃ ಪುತ್ರಶತೈಶ್ಚ ಸಂವೃತಾಃ ।
7.5.46aततस्तु ते राक्षसपुङ्गवास्त्रयो
निशाचरैः पुत्रशतैश्च संवृताः ।
7.5.40aततस्तु ते राक्षसपुंगवास्त्रयो
निशाचरैः पुत्रशतैश्च संवृताः ।
7.5.42aततस्तु ते राक्षसपुङ्गवास्त्रयो निशाचरैः पुत्रशतैश्च संवृताः ।7.5.45aततस्तु ते राक्षसपुङ्गवास्त्रयो निशाचरैः पुत्रशतैश्च संवृताः।
92#46bಸುರಾನ್ಸಹೇಂದ್ರಾನೃಷಿ ನಾಗಯಕ್ಷಾನ್
ಬಬಾಧಿರೇ ತಾನ್ಬಹುವೀರ್ಯದರ್ಪಿತಾಃ ॥
7.5.46bसुरान् सहेन्द्रानृषिनागयक्षान्
बबाधिरे तान् बहुवीर्यदर्पिताः ॥ ४६ ॥
7.5.40bसुरान्सहेन्द्रानृषिनागदानवा
न्बबाधिरे ते बलवीर्यदर्पिताः ॥7.5.40॥
7.5.42bसुरान्सहेन्द्रानृषिनाग यक्षान्बबाधिरे तान्बहुवीर्यदर्पिताः ॥ ४२ ॥7.5.45bसुरान्सहेन्द्रानृषिनागयक्षान्बबाधिरे तान्बहुवीर्यदर्पिताः ॥ 7.5.45 ॥
93#47aಜಗದ್ಭ್ರಮಂತೋಽನಿಲವದ್ದುರಾಸದಾ
ರಣೇಷು ಮೃತ್ಯುಪ್ರತಿಮಾನ ತೇಜಸಃ ।
7.5.47aजगद्भ्रमन्तोऽनिलवद् दुरासदा
रणेषु मृत्युप्रतिमानतेजसः ।
7.5.41aजगद्भ्रमन्तोऽनिलवद्दुरासदा
रणे च मृत्युप्रतिमाः समाहिताः ।
7.5.43aजगद्भमन्तोऽनिलवद्दुरासदा रणेषु मृत्युप्रतिमानतेजसः ।7.5.46aजगद्भ्रमन्तोऽनिलवद्दुरासदा रणेषु मृत्युप्रतिमानतेजसः।
94#47bವರಪ್ರದಾನಾದಪಿ ಗರ್ವಿತಾ ಭೃಶಂ
ಕ್ರತುಕ್ರಿಯಾಣಾಂ ಪ್ರಶಮಂಕರಾಃ ಸದಾ ॥
7.5.47bवरप्रदानादपि गर्विता भृशं
क्रतुक्रियाणां प्रशमङ्कराः सदा ॥ ४७ ॥
7.5.41bवरप्रदानादभिगर्विता भृशं
क्रतुक्रियाणां प्रशमंकराः सदा ॥7.5.41॥
7.5.43bवरप्रदानादतिगर्विता भृशं ऋतुक्रियाणां प्रशमंकराः सदा ॥ ४३ ॥7.5.46bवरप्रदानादतिगर्विता भृशं क्रतुक्रियाणां प्रशमङ्कराः सदा ॥ 7.5.46 ॥
957.5.5इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने पञ्चमः सर्गः ॥ ५ ॥