Ramayana Half-Verse Concordance 7.3p.4

मुमूर्षा. Built from structured/verses.jsonl. Rows are monotone-aligned half-verse/pāda-like units split at । and ॥, so verse-number boundary differences can appear as inserted or shifted line rows.

19 aligned line rows across 7 source streams.

Columns:
gr 19 lines
#gor-kngor-hicritgrdr-mulagr-iitkiitk
17.3p.4.4प्रक्षिप्तेषु चतुर्थः सर्गः ॥ ४ ॥
27.3p.4.1aततः पुनर्महातेजाः कुम्भयोनिर्महायशाः ।
37.3p.4.1bउवाच रामं प्रणतं पितामह इवेश्वरम् ॥ १ ॥
47.3p.4.2aश्रूयतामिति चामन्त्र्य रामं सत्यपराक्रमम् ।
57.3p.4.2bकथाशेषं महातेजाः कथयामास स प्रभुः ॥ २ ॥
67.3p.4.3aयथाख्यानं श्रुतं चैव यथावृत्तं च तत्तथा ।
77.3p.4.3bप्रीतात्मा कथयामास राघवाय महामतिः ॥ ३ ॥
87.3p.4.4aएतदर्थं महाबाहो रावणेन दुरात्मना ।
97.3p.4.4bसुता जनकराजस्य हृता राम महामते ॥ ४ ॥
107.3p.4.5aएतां कथां महाबाहो नारदः सुमहायशाः ।
117.3p.4.5bकथयामास मह्यं वै मेरौ गिरिवरोत्तमे ॥ ५ ॥
127.3p.4.6aदेवगन्धर्वसिद्धानामृषीणां च महात्मनाम् ।
137.3p.4.6bकथाशेषं पुनः सोथ कथयामास राघव ।
147.3p.4.6cनारदः सुमहातेजाः प्रहसन्निव मानद ॥ ६ ॥
157.3p.4.7aतां कथां शृणु राजेन्द्र महापापप्रणाशिनीम् ।
167.3p.4.7bयां तु श्रुत्वा महाबाहो ऋषयो दैवतैः सह ।
177.3p.4.7cऊचुस्तं नारदं सर्वे हर्षपर्याकुलेक्षणाः ॥ ७ ॥
187.3p.4.8aयश्चेमां श्रावयेन्नित्यं शृणुयाद्वापि भक्तितः ।
197.3p.4.8bस पुत्रपौत्रवान्राम स्वर्गलोके महीयते ॥ ८ ॥