Ramayana Half-Verse Concordance 7.3p.3

रामावतार-सूचना. Built from structured/verses.jsonl. Rows are monotone-aligned half-verse/pāda-like units split at । and ॥, so verse-number boundary differences can appear as inserted or shifted line rows.

64 aligned line rows across 7 source streams.

Columns:
gr 64 lines
#gor-kngor-hicritgrdr-mulagr-iitkiitk
17.3p.3.3प्रक्षिप्तेषु तृतीयः सर्गः ॥ ३ ॥
27.3p.3.1aएवं चिन्तयतस्तस्य रावणस्य दुरात्मनः ।
37.3p.3.1bपुनरेवापरं वाक्यं व्याजहार महामुनिः ॥ १ ॥
47.3p.3.2aमनसश्चेप्सितं यत्ते भविष्यति महाहवे ।
57.3p.3.2bसुखी भव महाबाहो कंचित्कालमुदीक्षय ॥ २ ॥
67.3p.3.3aएवं श्रुत्वा महाबाहुस्तमृषिं प्रत्युवाच सः ।
77.3p.3.3bकीदृशं लक्षणं तस्य ब्रूहि सर्वमशेषतः ॥ ३ ॥
87.3p.3.4aराक्षसस्य वचः श्रुत्वा स मुनिः प्रत्यभाषत ।
97.3p.3.4bश्रूयतां सर्वमाख्यास्ये तव राक्षसपुङ्गव ॥ ४ ॥
107.3p.3.5aस हि सर्वगतो देवः सूक्ष्मोऽव्यक्तः सनातनः ।
117.3p.3.5bतेन सर्वमिदं प्रोतं त्रैलोक्यं सचराचरम् ॥ ५ ॥
127.3p.3.6aस भूमौ दिवि पाताले पर्वतेषु वनेषु च ।
137.3p.3.6bस्थावरेषु च सर्वेषु वनेषु नगरीषु च ॥ ६ ॥
147.3p.3.7aओंकारश्चैव सत्यं च सावित्री पृथिवी च सः ।
157.3p.3.7bधराधरधरो देवो ह्यनन्त इति विश्रुतः ॥ ७ ॥
167.3p.3.8aअहश्च रात्रिश्च उभे च सन्ध्ये दिवाकश्चैव यमश्च सोमः ।
177.3p.3.8bस एव कालो ह्यनलश्च वायुः स ब्रह्मरुद्रौ च स एव बालः ॥ ८ ॥
187.3p.3.9aविद्योतति ज्वलति भाति च पाति लोकान्सृजत्ययं संहरति प्रशास्ति ।
197.3p.3.9bक्रीडां करोत्यव्ययलोकनाथो विष्णु पुराणो भवनाशहेतुः ॥ ९ ॥
207.3p.3.10aअथवा बहुना तेन किमुक्तेन दशानन ।
217.3p.3.10bतेन सर्वमिदं व्याप्तं त्रैलोक्यं सचराचरम् ॥ १० ॥
227.3p.3.11aनीलोत्पलदलश्यामः किञ्जल्कारुणवस्त्रकः ।
237.3p.3.11bप्रावृट्काले यथा व्योम्नि सतडित्तोयदस्तथा ॥ ११ ॥
247.3p.3.12aश्रीमान्मेघवपुःश्यामः पङ्कजारुणलोचनः ।
257.3p.3.12bश्रीवत्सेनोरसा युक्तः शशाङ्ककृतलक्षणः ॥ १२ ॥
267.3p.3.13aतस्य नित्यं शरीरस्था मेघस्येव शतह्रदाः ।
277.3p.3.13bसंग्रामरूपिणी लक्ष्मीर्देहमावृत्य तिष्ठति ॥ १३ ॥
287.3p.3.14aन स शक्यः सुरैर्द्रष्टुं नासुरैर्न च पन्नगैः ।
297.3p.3.14bयस्य प्रसादं कुरुते स वै तं द्रष्टुमर्हति ॥ १४ ॥
307.3p.3.15aन हि यज्ञफलैस्तात न तपोभिस्तु संचितैः ।
317.3p.3.15bशक्यते भगवान्द्रष्टुं न दानेन न चेज्यया ॥ १५ ॥
327.3p.3.16aतद्भक्तैस्तद्गतप्राणैस्तच्चित्तैस्तत्परायणैः ।
337.3p.3.16bशक्यते भगवान्द्रष्टुं ज्ञाननिर्दग्धकिल्बिषैः ॥ १६ ॥
347.3p.3.17aअथवा राक्षसेन्द्र त्वं यदि तं द्रष्टुमिच्छसि ।
357.3p.3.17bकथयिष्यामि ते सर्वं श्रूयतां यदि रोचते ॥ १७ ॥
367.3p.3.18aकृते युगे व्यतीते वै मुखे त्रेतायुगस्य तु ।
377.3p.3.18bहितार्थं देवमर्त्यानां भविता नृपविग्रहः ॥ १८ ॥
387.3p.3.19aइक्ष्वाकूणां च यो राजा भाव्यो दशरथो भुवि ।
397.3p.3.19bतस्य सूनुर्महातेजा रामो नाम भविष्यति ॥ १९ ॥
407.3p.3.20aमहातेजा महाबुद्धिर्महाबलपराक्रमः ।
417.3p.3.20bमहाबाहुर्महासत्त्वः क्षमया पृथिवीसमः ॥ २० ॥
427.3p.3.21aआदित्य इव दुष्प्रेक्ष्यः समरे शत्रुभिः सदा ।
437.3p.3.21bभविता हि तदा रामो नरो नारायणः प्रभुः ॥ २१ ॥
447.3p.3.22aपितुर्नियोगात्स विभुर्दण्डके विविधे वने ।
457.3p.3.22bविचरिष्यति धर्मात्मा सह भ्रात्रा महात्मना ॥ २२ ॥
467.3p.3.23aतस्य पत्नी महाभागा लक्ष्मीः सीतेति विश्रुता ।
477.3p.3.23bदुहिता जनकस्यैषा उत्थिता वसुधातलात् ॥ २३ ॥
487.3p.3.24aरूपेणाप्रतिमा लोके सर्वलक्षणलक्षिता ।
497.3p.3.24bछायेवानुगता रामं निशाकरमिव प्रभा ॥ २४ ॥
507.3p.3.25aशीलाचारगुणोपेता साध्वी धैर्यसमन्विता ।
517.3p.3.25bसहस्रांशो रश्मिरिव ह्येकमूर्तिरिव स्थिता ॥ २५ ॥
527.3p.3.26aएवं ते सर्वमाख्यातं मया रावण विस्तरात् ।
537.3p.3.26bमहतो देवदेवस्य शाश्वतस्याव्ययस्य च ॥ २६ ॥
547.3p.3.27aएवं श्रुत्वा महाबाहू राक्षसेन्द्र प्रतापवान् ।
557.3p.3.27bत्वया सह विरोधेच्छुश्चिन्तयामास राघव ॥ २७ ॥
567.3p.3.28a[ संनत्कुमारात्तद्वाक्यं श्रुत्वा राक्षसपुङ्गवः ।
577.3p.3.28bअनुज्ञातं रिपुं प्रायात्प्रणिपत्य महामुनिम् ॥ २८ ॥
587.3p.3.28c]
597.3p.3.29aवाक्यं सनत्कुमारस्य चिन्तयानो मुहुर्मुहुः ।
607.3p.3.29bरावणो मुमुदे श्रीमान्युद्धार्थी विचचार ह ॥ २९ ॥
617.3p.3.30aश्रुत्वा च तां कथां रामो विस्मयोत्फुल्ललोचनः ।
627.3p.3.30bशिरसश्चालनं कृत्वा तमर्थं परिचिन्तयन् ॥ ३० ॥
637.3p.3.31aश्रुत्वा तु वाक्यं च नरेश्वरस्तदा मुदा युतो विस्मयमानचक्षुः ।
647.3p.3.31bपुनश्च तं ज्ञानवतां प्रधानमुवाच वाक्यं वद मे पुरातनम् ॥ ३१ ॥