Ramayana Half-Verse Concordance 7.3p.1

वालि-सुग्रीव-जन्म. Built from structured/verses.jsonl. Rows are monotone-aligned half-verse/pāda-like units split at । and ॥, so verse-number boundary differences can appear as inserted or shifted line rows.

119 aligned line rows across 7 source streams.

Columns:
gr 119 lines
#gor-kngor-hicritgrdr-mulagr-iitkiitk
17.3p.1.1प्रक्षिप्तेषु प्रथमः सर्गः ॥ १ ॥
27.3p.1.1aएतच्छ्रुत्वा तु निखिलं राघवोऽगस्त्यमब्रवीत् ।
37.3p.1.1bय एषर्क्षरजा नाम वालिसुग्रीवयोः पिता ॥ १ ॥
47.3p.1.2aजननी का च भगवन्न त्वया परिकीर्तिता ।
57.3p.1.2bवालिसुग्रीवयोर्ब्रह्मन्माता मे नामतः कुतः ।
67.3p.1.2cएतद्बह्मन्समाचक्ष्व कौतूहलमिदं हि नः ॥ २ ॥
77.3p.1.3स प्रोक्तो राघवेणैवमगस्त्यो वाक्यमब्रवीत् ॥ ३ ॥
87.3p.1.4aशृणु राम कथामेतां यथापूर्वं समासतः ।
97.3p.1.4bनारदः कथयामास ममाश्रममुपागतः ॥ ४ ॥
107.3p.1.5aकदाचिदटमानोसावतिथित्वमुपागतः ।
117.3p.1.5bअर्चितस्तु यथान्यायं विधिदृष्टेन कर्मणा ॥ ५ ॥
127.3p.1.6aसुखासीनः कथां त्वेनां मया पृष्टः स कौतुकात् ।
137.3p.1.6bकथयामास धर्मात्मा महर्षे श्रूयतामिति ॥ ६ ॥
147.3p.1.7aमेरुर्नगवरः श्रीमाञ्जाम्बूनदमयः शुभः ।
157.3p.1.7bतस्य यन्मध्यमं शङ्गं सर्वदैवतपूजितम् ॥ ७ ॥
167.3p.1.8aतस्मिन्दिव्या सभा रम्या ब्राह्मी या शतयोजना ।
177.3p.1.8bतस्यामास्ते सदा देवः पद्मयोनिश्चतुर्मुखः ॥ ८ ॥
187.3p.1.9aयोगमभ्यसतस्तस्य नेत्राभ्यां यद्रसोस्रवत् ।
197.3p.1.9bतद्गृहीतं भगवता पाणिना चर्चितं तु तत् ॥ ९ ॥
207.3p.1.10aनिक्षिप्तमात्रं तद्भूमौ ब्रह्मणा लोककर्तॄणा ।
217.3p.1.10bतसिन्नश्रुकणे राम वानरः संबभूव ह ॥ १० ॥
227.3p.1.11aउत्पन्नमात्रस्तु तदा वानरश्च नरोत्तम ।
237.3p.1.11bसमाश्वास्य प्रियैर्वाक्यैरुक्तः किल महात्मना ॥ ११ ॥
247.3p.1.12aपश्य शैलं सुविस्तीर्णं सुरैरध्युपितं तदा ।
257.3p.1.12bतस्मिन्रम्ये गिरिवरे बहुमूलफलाशनः ॥ १२ ॥
267.3p.1.13aममान्तिकचरो नित्यं भव वानरपुङ्गव ।
277.3p.1.13bकंचित्कालमिहास्स्व त्वं तव श्रेयो भविष्यति ॥ १३ ॥
287.3p.1.14aएवमुक्तः स चैतेन ब्रह्मणा वानरोत्तमः ।
297.3p.1.14bप्रणम्य शिरसा पादौ देवदेवस्य राघव ।
307.3p.1.14cउक्तवाल्ँलोककर्तारमादिदेवं जगद्गुरुम् ॥ १४ ॥
317.3p.1.15aयथाऽऽज्ञापयसे देव स्थितोऽहं तव शासने ।
327.3p.1.15bएवमुक्त्वा हरिर्देवं ययौ हृष्टमनास्तदा ॥ १५ ॥
337.3p.1.16aस तदा द्रुमषण्डेषु फलपुष्पधनेषु च ।
347.3p.1.16bब्रह्मप्रतिबलः शैध्र्ये बने फलकृताशनः ॥ १६ ॥
357.3p.1.17aक्वचिन्मधूनि मुख्यानि चिन्वन्पुष्पाण्यनेकशः ।
367.3p.1.17bदिनेदिने च सायान्हे ब्रह्मणोन्तिकमागमत् ॥ १७ ॥
377.3p.1.18aगृहीत्वा राम मुख्यानि पुष्पाणि च फलानि च ।
387.3p.1.18bब्रह्मणो देवदेवस्य पादमूले न्यवेदयत् ॥ १८ ॥
397.3p.1.19एवं तस्य गतः कालो बहुः पर्यटतो गिरिम् ॥ १९ ॥
407.3p.1.20aकस्यचित्त्वथ कालस्य समतीतस्य राघव ।
417.3p.1.20bऋक्षराड्वानरश्रेष्ठस्तृष्णया परिपीडितः ॥ २० ॥
427.3p.1.21aउत्तरं मेरुशिखरं गतस्तत्र च दृष्टवान् ।
437.3p.1.21bनानाविहङ्गसंघुष्टं प्रसन्नसलिलं सरः ॥ २१ ॥
447.3p.1.22aचलत्केसरमात्मानं कृत्वा तस्य तटे स्थितः ।
457.3p.1.22bददर्श तस्मिन्त्सरसि वक्त्रच्छायामथात्मनः ॥ २२ ॥
467.3p.1.23aकोऽयमस्मिन्मम रिपुर्वसत्यन्तर्जले महान् ।
477.3p.1.23bरूपं चान्तर्गतं तत्र वीक्ष्य तत्पाथसो हरिः ॥ २३ ॥
487.3p.1.24aक्रोधाविष्टमना ह्येष नियतं माऽवमन्यते ।
497.3p.1.24bतदस्य दुष्टभावस्य कर्तव्यो निग्रहो मया ॥ २४ ॥
507.3p.1.25aएवं संचिन्त्य मनसा स वै वानरचापलात् ।
517.3p.1.25bआप्लुत्य चापतत्तस्मिन्ह्रदे वानरसत्तमः ॥ २५ ॥
527.3p.1.26aउत्प्लुत्य तस्मात्सरस उत्थितः प्लवगः पुनः ।
537.3p.1.26bतस्मिन्नेव क्षणे राम स्त्रीत्वं प्राप स वानरः ॥ २६ ॥
547.3p.1.27aमनोज्ञरूपा सा नारी लावण्यललिता शुभा ।
557.3p.1.27bविस्तीर्णजघना सुभ्रूर्नीलकुञ्चितसूर्धजा ॥ २७ ॥
567.3p.1.28aमुग्धा सस्मितवक्त्रा च पीनस्तनतटा शुभा ।
577.3p.1.28bह्रदतीरस्थिता भाति ऋजुयष्टिर्लता तथा ॥ २८ ॥
587.3p.1.29aत्रैलोक्यसुन्दरी कान्ता सर्वचित्तप्रमाधिनी ।
597.3p.1.29bलक्ष्मीव पद्मरहिता चन्द्रज्योत्स्नेव निर्मला ॥ २९ ॥
607.3p.1.30aरूपेणाप्यभवत्सा तु श्रीर्गीर्देवी उमा यथा ।
617.3p.1.30bद्योतयन्ती दिशः सर्वास्तत्राभूत्सा वराङ्गना ॥ ३० ॥
627.3p.1.31aएतस्मिन्नन्तरे देवो निवृत्तः सुरनायकः ।
637.3p.1.31bपादावुपास्य देवस्य ब्रह्मणस्तेन वै पथा ॥ ३१ ॥
647.3p.1.32aतस्यामेव च वेलायामादित्योपि परिभ्रमन् ।
657.3p.1.32bतस्मिन्नेव वने सोभूद्यस्मिन्त्सा तनुमध्यमा ॥ ३२ ॥
667.3p.1.33aयुगपत्सा तदा दृष्टा देवाभ्यां सुरसुन्दरी ।
677.3p.1.33bकन्दर्पवशगौ तौ तु दृष्ट्वा तां संबभूवतुः ॥ ३३ ॥
687.3p.1.34aततः क्षुभितसर्वाङ्गौ सुरेन्द्रतपनावुभौ ।
697.3p.1.34bतद्रूपमद्भुतं दृष्ट्वा त्याजितौ धैर्यमात्मनः ॥ ३४ ॥
707.3p.1.35aततस्तस्यां सुरेन्द्रेण स्कन्नं शिरसि पातितम् ।
717.3p.1.35bअनासाद्यैव तां नारीं सन्निवृत्तमथोऽभवत् ।
727.3p.1.35cततः सा वानरपतिं प्रासूत बलशालिनम् ॥ ३५ ॥
737.3p.1.36aअमोघरेतस्त्वात्तस्य वासवस्य महात्मनः ।
747.3p.1.36bवालेषु पतितं बीजं वाली नाम बभूव ह ॥ ३६ ॥
757.3p.1.37aभास्करेणापि तस्यां वै कन्दर्पवशवर्तिना ।
767.3p.1.37bबीजं तु सिक्तं ग्रीवायां विधानमनुवर्तिना ।
777.3p.1.37cतेनापि सा वरतनुर्नोक्ता किंचिद्वचः शुभम् ॥ ३७ ॥
787.3p.1.38aनिवृत्तमदनश्चाथ सूर्योपि समपद्यत ।
797.3p.1.38bग्रीवायां पतिते बीजे सुग्रीवः समजायत ॥ ३८ ॥
807.3p.1.39एवमुत्पादितौ वीरौ वानरेन्द्रौ महाबलौ ॥ ३९ ॥
817.3p.1.40aदत्वा तु काञ्चनीं मालां वानरेन्द्रस्य बालिनः ।
827.3p.1.40bअक्षय्यां गुणसंपूर्णां शक्रस्तु त्रिदिवं ययौ ॥ ४० ॥
837.3p.1.41aसूर्योपि स्वसुतस्यैनं निरूप्य पवनात्मजम् ।
847.3p.1.41bकृत्येषु व्यवसायेषु जगाम सविताऽम्बरम् ॥ ४१ ॥
857.3p.1.42aतस्यां निशायां व्युष्टायामुदिते च दिवाकरे ।
867.3p.1.42bस तु वानररूपं तु प्रतिपेदे पुनर्नृप ॥ ४२ ॥
877.3p.1.43aस एव वानरो भूत्वा पुत्रौ स्वस्य प्लवङ्गमौ ।
887.3p.1.43bपिङ्गेक्षणी हरिवरावपश्यत्कामरूपिणौ ॥ ४३ ॥
897.3p.1.44aमधून्यमृतकल्पानि पायितौ तेन तौ तदा ।
907.3p.1.44bगृह्य ऋक्षरजास्तौ तु ब्रह्मणोऽन्तिकमागतः ॥ ४४ ॥
917.3p.1.45aदृष्ट्वार्क्षवरजसं पुत्रं ब्रह्मा लोकपितामहः ।
927.3p.1.45bबहुशः सान्त्वयामास पुत्राभ्यां सहितं हरिम् ॥ ४५ ॥
937.3p.1.46aसान्त्वयित्वा ततः पश्चाद्देवदूतमथादिशत् ।
947.3p.1.46bगच्छ मद्वचनाद्दूत किष्किन्धां नाम वै शुभाम् ॥ ४६ ॥
957.3p.1.47aसा ह्यस्य गुणसंपन्ना महती च पुरी शुभा ।
967.3p.1.47bतत्र वानरयूथानि बहूनि निवसन्ति च ॥ ४७ ॥
977.3p.1.48aबहुरत्नसमाकीर्णा वानरैः कामरूपिभिः ।
987.3p.1.48bपण्यापणवती दुर्गा चातुर्वर्ण्ययुता सदा ।
997.3p.1.48cविश्वकर्मकृता दिव्या मनियोगाच्च शोभना ॥ ४८ ॥
1007.3p.1.49aतत्रर्क्षरजसं पुत्रं सपुत्रं वानरर्षभम् ।
1017.3p.1.49bयूथपालान्समाहूय यांश्चान्यान्प्राकृतान्हरीन् ॥ ४९ ॥
1027.3p.1.50aतेषां संभाव्य सर्वेषां मदीयं जनसंसदि ।
1037.3p.1.50bअभिषेचय राजानमारोप्य महदासने ॥ ५० ॥
1047.3p.1.51aदृष्टमात्राश्च ते सर्वे वानरेण च धीमता ।
1057.3p.1.51bअस्यर्क्षरजसो नित्यं भविष्यन्ति वशानुगाः ॥ ५१ ॥
1067.3p.1.52aइत्येवमुक्ते वचने ब्रह्मणा तु हरीश्वरम् ।
1077.3p.1.52bपुरतःकृत्य दूतोसौ प्रययौ तां पुरीं शुभाम् ॥ ५२ ॥
1087.3p.1.53aस प्रविश्यानिलगतिस्तां गुहां वानरोत्तमम् ।
1097.3p.1.53bस्थापयामास राजानं पितामहनियोगतः ॥ ५३ ॥
1107.3p.1.54aराज्याभिषेकविधिना स्नातोथाभ्यर्चितस्तदा ।
1117.3p.1.54bस बद्धमुकुट श्रीमानभिषिक्तः स्वलंकृतः ॥ ५४ ॥
1127.3p.1.55aआज्ञापयामास हरीन्सर्वान्मुदितमानसः ।
1137.3p.1.55bसप्तद्वीपसमुद्रायां पृथिव्यां ये प्लवङ्गमाः ॥ ५५ ॥
1147.3p.1.56aवालिसुग्रीवयोरेव ह्येष त्वृक्षरजाः पिता ।
1157.3p.1.56bजननी चैव तु हरिरित्येतद्भद्रमस्तु ते ॥ ५६ ॥
1167.3p.1.57aयश्चैतच्छ्रावयेद्विद्वान्यश्चैतच्छृणुयान्नरः ।
1177.3p.1.57bसिद्ध्यन्ति तस कार्यार्था मनसो हर्षवर्धनाः ॥ ५७ ॥
1187.3p.1.58aएतच्च सर्वं कथितं मया विभो प्रविस्तरेणेह यथार्थतस्तव ।
1197.3p.1.58bउत्पत्तिरेषा रजनीचराणामुक्ता तथैवेह हरीश्वराणाम् ॥ ५८ ॥