रामेण अयोध्यानिर्वर्तनसिद्धता. Built from structured/verses.jsonl. Rows are monotone-aligned half-verse/pāda-like units split at । and ॥, so verse-number boundary differences can appear as inserted or shifted line rows.
67 aligned line rows across 7 source streams.
gor-kn 60 lines
gor-hi 60 lines
crit 54 lines
gr 61 lines
dr-mula 56 lines
| # | gor-kn | gor-hi | crit | gr | dr-mula | gr-iitk | iitk |
|---|---|---|---|---|---|---|---|
| 1 | #1aತಾಂ ರಾತ್ರಿಮುಷಿತಂ ರಾಮಂ ಸುಖೋದಿತಮರಿಂದಮಮ್ । | 6.121.1aतां रात्रिमुषितं रामं सुखोदितमरिन्दमम् । | 6.109.1aतां रात्रिमुषितं रामं सुखोत्थितमरिंदमम् । | 6.124.1aतां रात्रिमुषितं रामं सुखोत्थितमरिन्दमम् । | 6.124.1aतां रात्रिमुषितं रामं सुखोत्थितमरिन्दमम्। | ||
| 2 | #1bಅಬ್ರವೀತ್ಪ್ರಾಂಜಲಿರ್ವಾಕ್ಯಂ ಜಯಂ ಪೃಷ್ಟ್ವಾ ವಿಭೀಷಣಃ ॥ | 6.121.1bअब्रवीत् प्राञ्जलिर्वाक्यं जयं पृष्ट्वा विभीषणः ॥ १ ॥ | 6.109.1bअब्रवीत्प्राञ्जलिर्वाक्यं जयं पृष्ट्वा विभीषणः ॥6.109.1॥ | 6.124.1bअब्रवीत्प्राञ्जलिर्वाक्यं जयं पृष्ट्वा विभीषणः ॥ १ ॥ | 6.124.1bअब्रवीत् प्राञ्जलिर्वाक्यं जयं पृष्ट्वा विभीषणः ॥ 6.124.1 ॥ | ||
| 3 | #2aಸ್ನಾನಾನಿ ಚಾಂಗರಾಗಾಣಿ ವಸ್ತ್ರಾಣ್ಯಾಭರಣಾನಿ ಚ । | 6.121.2aस्नानानि चाङ्गरागाणि वस्त्राण्याभरणानि च । | 6.109.2aस्नानानि चाङ्गरागाणि वस्त्राण्याभरणानि च । | #2aस्नानानि चाङ्गरागाणि वस्त्राण्याभरणानि च । | 6.124.2aस्नानानि चाङ्गरागाणि वस्त्राण्याभरणानि च। | ||
| 4 | #2bಚಂದನಾನಿ ಚ ದಿವ್ಯಾನಿ ಮಾಲ್ಯಾನಿ ವಿವಿಧಾನಿ ಚ ॥ | 6.121.2bचन्दनानि च माल्यानि दिव्यानि विविधानि च ॥ २ ॥ | 6.109.2bचन्दनानि च दिव्यानि माल्यानि विविधानि च ॥6.109.2॥ | #2bचन्दनानि च दिव्यानि माल्यानि विविधानि च २ अलंकारविदश्चेमा नार्यः पद्मनिमेक्षणाः । | 6.124.2bचन्दनानि च दिव्यानि माल्यानि विविधानि च ॥ 6.124.2 ॥ | ||
| 5 | #3aಅಲಂಕಾರವಿದಶ್ಚೈತಾ ನಾರ್ಯಃ ಪದ್ಮನಿಭೇಕ್ಷಣಾಃ । | 6.121.3aअलङ्कारविदश्चैता नार्यः पद्मनिभेक्षणाः । | 6.109.3aअलंकारविदश्चेमा नार्यः पद्मनिभेक्षणाः । | ||||
| 6 | #3bಉಪಸ್ಥಿತಾಸ್ತ್ವಾಂ ವಿಧಿವತ್ಸ್ನಾಪಯಿಷ್ಯಂತಿ ರಾಘವ ॥ | 6.121.3bउपस्थितास्त्वां विधिवत् स्नापयिष्यन्ति राघव ॥ ३ ॥ | 6.109.3bउपस्थितास्त्वां विधिवत्स्नापयिष्यन्ति राघव ॥6.109.3॥ | #2cउपस्थितास्त्वां विधिवत्स्नापयिष्यन्ति राघव ॥ | 6.124.3aउपस्थितास्त्वां विधिवत् स्नापयिष्यन्ति राघव। | ||
| 7 | 6.124.3प्रतिगृह्णीष्व तत्सर्वं मदनुग्रहकाम्यया ॥ ३ ॥ | 6.124.3bप्रतिगृह्णीष्व तत् सर्वं मदनुग्रहकाम्यया ॥ 6.124.3 ॥ | |||||
| 8 | #4aಏವಮುಕ್ತಸ್ತು ಕಾಕುತ್ಥ್ಸಃ ಪ್ರತ್ಯುವಾಚ ವಿಭೀಷಣಮ್ । | 6.121.4aएवमुक्तस्तु काकुत्स्थः प्रत्युवाच विभीषणम् । | 6.109.4aएवमुक्तस्तु काकुत्स्थः प्रत्युवाच विभीषणम् । | 6.124.4aएवमुक्तस्तु काकुत्स्थः प्रत्युवाच विभीषणम् । | 6.124.4एवमुक्तस्तु काकुत्स्थः प्रत्युवाच विभीषमम् ॥ 6.124.4 ॥ | ||
| 9 | #4bಹರೀನ್ಸುಗ್ರೀವಮುಖ್ಯಾಂಸ್ತ್ವಂ ಸ್ನಾನೇನೋಪನಿಮಂತ್ರಯ ॥ | 6.121.4bहरीन् सुग्रीवमुख्यांस्त्वं स्नानेनोपनिमन्त्रय ॥ ४ ॥ | 6.109.4bहरीन्सुग्रीवमुख्यांस्त्वं स्नानेनोपनिमन्त्रय ॥6.109.4॥ | 6.124.4bहरीन्सुग्रीव मुख्यांस्त्वं स्नानेनाभिनिमन्त्रय ॥ ४ ॥ | 6.124.5हरीन् सुग्रीवमुख्यांस्त्वं स्नानेनाभिनिमन्त्रय ॥ 6.124.5 ॥ | ||
| 10 | #5aಸ ತು ತಾಮ್ಯತಿ ಧರ್ಮಾತ್ಮಾ ಮಮ ಹೇತೋಃ ಸುಖೋಚಿತಃ । | 6.121.5aस तु ताम्यति धर्मात्मा मम हेतोः सुखोचितः । | 6.109.5aस तु ताम्यति धर्मात्मा ममहेतोः सुखोचितः । | 6.124.5aस तु ताम्यति धर्मात्मा मम हेतोः सुखोचितः । | 6.124.6aस तु ताम्यति धर्मात्मा मम हेतोः सुखोचितः। | ||
| 11 | #5bಸುಕುಮಾರೋ ಮಹಾಬಾಹುರ್ಭರತಃ ಸತ್ಯಸಂಶ್ರಯಃ ॥ | 6.121.5bसुकुमारो महाबाहुर्भरतः सत्यसंश्रयः ॥ ५ ॥ | 6.109.5bसुकुमारो महाबाहुः कुमारः सत्यसंश्रवः ॥6.109.5॥ | 6.124.5bसुकुमारो महाबाहुः कुमारः सत्यसंश्रवः ॥ ५ ॥ | 6.124.6bसुकुमारो महाबाहुः कुमारः सत्यसंश्रवः ॥ 6.124.6 ॥ | ||
| 12 | #6aತಂ ವಿನಾ ಕೈಕಯೀಪುತ್ರಂ ಭರತಂ ಧರ್ಮಚಾರಿಣಮ್ । | 6.121.6aतं विना कैकयीपुत्रं भरतं धर्मचारिणम् । | 6.109.6aतं विना कैकेयीपुत्रं भरतं धर्मचारिणम् । | 6.124.6aतं विना केकयीपुत्रं भरतं धर्मचारिणम् । | 6.124.7aतं विना केकयीपुत्रं भरतं धर्मचारिणम्। | ||
| 13 | #6bನ ಮೇ ಸ್ನಾನಂ ಬಹುಗತಂ ವಸ್ತ್ರಾಣ್ಯಾಭರಣಾನಿ ಚ ॥ | 6.121.6bन मे स्नानं बहु मतं वस्त्राण्याभरणानि च ॥ ६ ॥ | 6.109.6bन मे स्नानं बहुमतं वस्त्राण्याभरणानि च ॥6.109.6॥ | 6.124.6bन मे स्नानं बहुमतं वस्त्राण्याभरणानि च ॥ ६ ॥ | 6.124.7bन मे स्नानं बहुमतं वस्त्राण्याभरणानि च ॥ 6.124.7 ॥ | ||
| 14 | #7aಏತತ್ಪಶ್ಯ ಯಥಾ ಕ್ಷಿಪ್ರಂ ಪ್ರತಿಗಚ್ಛಾಮ ತಾಂ ಪುರೀಮ್ । | 6.121.7aएतत् पश्य यथा क्षिप्रं प्रतिगच्छाम तां पुरीम् । | 6.109.7aइत एव पथा क्षिप्रं प्रतिगच्छाम तां पुरीम् । | 6.124.7aइत एव पथा क्षिप्रं प्रतिगच्छामि तां पुरीम् । | 6.124.8aइत एव पथा क्षिप्रं प्रतिगच्छामि तां पुरीम्। | ||
| 15 | #7bಅಯೋಧ್ಯಾಂ ಗಚ್ಛತೋ ಹ್ಯೇಷ ಪಂಥಾಃ ಪರಮದುರ್ಗಮಃ ॥ | 6.121.7bअयोध्यां गच्छतो ह्येष पन्थाः परमदुर्गमः ॥ ७ ॥ | 6.109.7bअयोध्यामायतो ह्येष पन्थाः परमदुर्गमः ॥6.109.7॥ | 6.124.7bअयोध्यामागतो ह्येष पन्थाः परमदुर्गमः ॥ ७ ॥ | 6.124.8bअयोध्यामागतो ह्येष पन्थाः परमदुर्गमः ॥ 6.124.8 ॥ | ||
| 16 | #8aಏವಮುಕ್ತಸ್ತು ಕಾಕುತ್ಸ್ಥಂ ಪ್ರತ್ಯುವಾಚ ವಿಭೀಷಣಃ । | 6.121.8aएवमुक्तस्तु काकुत्स्थं प्रत्युवाच विभीषणः । | 6.109.8aएवमुक्तस्तु काकुत्स्थं प्रत्युवाच विभीषणः । | 6.124.8aएवमुक्तस्तु काकुत्स्थं प्रत्युवाच विभीषणः । | 6.124.9एवमुक्तस्तु काकुत्स्थं प्रत्युवाच विभीषणः ॥ 6.124.9 ॥ | ||
| 17 | #8bಅಹ್ನಾ ತ್ವಾಂ ಪ್ರಾಪಯಿಷ್ಯಾಮಿ ತಾಂ ಪುರೀಂ ಪಾರ್ಥಿವಾತ್ಮಜ ॥ | 6.121.8bअह्ना त्वां प्रापयिष्यामि तां पुरीं पार्थिवात्मज ॥ ८ ॥ | 6.109.8bअह्ना त्वां प्रापयिष्यामि तां पुरीं पार्थिवात्मज ॥6.109.8॥ | 6.124.8bअह्ना त्वां प्रापयिष्यामि तां पुरीं पार्थिवात्मज ॥ ८ ॥ | 6.124.10aअह्ना त्वां प्रापयिष्यामि तां पुरीं पार्थिवात्मज। | ||
| 18 | #9aಪುಷ್ಪಕಂ ನಾಮ ಭದ್ರಂ ತೇ ವಿಮಾನಂ ಸೂರ್ಯಸನ್ನಿಭಮ್ । | 6.121.9aपुष्पकं नाम भद्रं ते विमानं सूर्यसन्निभम् । | 6.109.9aपुष्पकं नाम भद्रं ते विमानं सूर्यसंनिभम् । | 6.124.9aपुष्पकं नाम भद्रं ते विमानं सूर्यसन्निभम् । | 6.124.10bपुष्पकं नाम भद्रं ते विमानं सूर्यसन्निभम् ॥ 6.124.10 ॥ | ||
| 19 | #9bಮಮ ಭ್ರಾತುಃ ಕುಬೇರಸ್ಯ ರಾವಣೇನ ಬಲೀಯಸಾ ॥ | 6.121.9bमम भ्रातुः कुबेरस्य रावणेन बलीयसा ॥ ९ ॥ | 6.109.9bमम भ्रातुः कुबेरस्य रावणेनाहृतं बलात् ॥6.109.9॥ | 6.124.9bमम भ्रातुः कुबेरस्य रावणेनाहृतं बलात् ॥ ९ ॥ | 6.124.11aमम भ्रातुः कुबेरस्य रावणेनाहृतं बलात्। | ||
| 20 | #10aಹೃತಂ ನಿರ್ಜಿತ್ಯ ಸಂಗ್ರಾಮೇ ಕಾಮಗಂ ದಿವ್ಯ ಮುತ್ತಮಮ್ । | 6.121.10aहृतं निर्जित्य सङ्ग्रामे कामगं दिव्यमुत्तमम् । | 6.124.10aहृतं निर्जित्य संग्रामे कामगं दिव्यमुत्तमम् । | 6.124.11bहृतं निर्जित्य सङ्ग्रामे कामगं दिव्यमुत्तमम् ॥ 6.124.11 ॥ | |||
| 21 | #10bತ್ವದರ್ಥೇ ಪಾಲಿತಂ ಚೇದಂ ತಿಷ್ಠತ್ಯತುಲವಿಕ್ರಮ ॥ | 6.121.10bत्वदर्थं पालितं चेदं तिष्ठत्यतुलविक्रम ॥ १० ॥ | 6.124.10bत्वदर्थे पालितं चैतत्तिष्ठत्यतुलविक्रम ॥ १० ॥ | 6.124.12aत्वदर्थे पालितं चैतत्तिष्ठत्यतुलविक्रम। | |||
| 22 | #11aತದಿದಂ ಮೇಘಸಂಕಾಶಂ ವಿಮಾನಮಿಹ ತಿಷ್ಠತಿ । | 6.121.11aतदिदं मेघसङ्काशं विमानमिह तिष्ठति । | 6.109.10aतदिदं मेघसंकाशं विमानमिह तिष्ठति । | 6.124.11aतदिदं मेघसंकाशं विमानमिह तिष्ठति । | 6.124.12bतदिदं मेघसङ्काशं विमानमिह तिष्ठति ॥ 6.124.12 ॥ | ||
| 23 | #11bತೇನ ಯಾಸ್ಯಸಿ ಯಾನೇನ ತ್ವಮಯೋಧ್ಯಾಂ ಗತಜ್ವರಃ ॥ | 6.121.11bयेन यास्यसि यानेन त्वमयोध्यां गतज्वरः ॥ ११ ॥ | 6.109.10bतेन यास्यसि यानेन त्वमयोध्यां गजज्वरः ॥6.109.10॥ | 6.124.11bतेन यास्यसि यानेन त्वमयोध्यां गतज्वरः ॥ ११ ॥ | 6.124.13तेन यास्यसि यानेन त्वमयोध्यां गतज्वरः ॥ 6.124.13 ॥ | ||
| 24 | #12aಅಹಂ ತೇ ಯದ್ಯನುಗ್ರಾಹ್ಯೋ ಯದಿ ಸ್ಮರಸಿ ಮೇ ಗುಣಾನ್ । | 6.121.12aअहं ते यद्यनुग्राह्यो यदि स्मरसि मे गुणान् । | 6.109.11aअहं ते यद्यनुग्राह्यो यदि स्मरसि मे गुणान् । | 6.124.12aअहं ते यद्यनुग्राह्यो यदि स्मरसि मे गुणान् । | 6.124.14अहं ते यद्यनुग्राह्यो यदि स्मरसि मे गुणान् ॥ 6.124.14 ॥ | ||
| 25 | #12bವಸ ತಾವದಿಹ ಪ್ರಾಜ್ಞ ಯದ್ಯಸ್ತಿ ಮಯಿ ಸೌಹೃದಮ್ ॥ | 6.121.12bवस तावदिह प्राज्ञ यद्यस्ति मयि सौहृदम् ॥ १२ ॥ | 6.109.11bवस तावदिह प्राज्ञ यद्यस्ति मयि सौहृदम् ॥6.109.11॥ | 6.124.12bवस तावदिह प्राज्ञ यद्यस्ति मयि सौहृदम् ॥ १२ ॥ | 6.124.15aवस तावदिह प्राज्ञ यद्यस्ति मयि सौहृदभ्। | ||
| 26 | #13aಲಕ್ಷ್ಮಣೇನ ಸಹ ಭ್ರಾತ್ರಾ ವೈದೇಹ್ಯಾ ಭಾರ್ಯಯಾ ಸಹ । | 6.121.13aलक्ष्मणेन सह भ्रात्रा वैदेह्या भार्यया सह । | 6.109.12aलक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया । | 6.124.13aलक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया । | 6.124.15bलक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया ॥ 6.124.15 ॥ | ||
| 27 | #13bಅರ್ಚಿತಃ ಸರ್ವಕಾಮೈಸ್ತ್ವಂ ತತೋ ರಾಮ ಗಮಿಷ್ಯಸಿ ॥ | 6.121.13bअर्चितः सर्वकामैस्त्वं ततो राम गमिष्यसि ॥ १३ ॥ | 6.109.12bअर्चितः सर्वकामैस्त्वं ततो राम गमिष्यसि ॥6.109.12॥ | 6.124.13bअर्चितः सर्वकामैस्त्वं ततो राम गमिष्यसि ॥ १३ ॥ | 6.124.16aअर्चितः सर्वकामैस्त्वं ततो राम गमिष्यसि। | ||
| 28 | #14aಪ್ರೀತಿಯುಕ್ತಸ್ಯ ವಿಹಿತಾಂ ಸಸೈನ್ಯಃ ಸಸುಹೃದ್ಗಣಃ । | 6.121.14aप्रीतियुक्तस्य विहितां ससैन्यः ससुहृद्गणः । | 6.109.13aप्रीतियुक्तस्तु मे राम ससैन्यः ससुहृद्गणः । | 6.124.15aप्रीतियुक्तस्य मे राम ससैन्यः ससुहृद्गणः । | 6.124.16bप्रीतियुक्तस्य मे राम ससैन्यः ससुहृद्गणः ॥ 6.124.16 ॥ | ||
| 29 | #14bಸತ್ಕ್ರಿಯಾಂ ರಾಮ ಮೇ ತಾವದ್ ಗೃಹಾಣ ತ್ವಂ ಮಯೋದ್ಯತಾಮ್ ॥ | 6.121.14bसत्क्रियां राम मे तावद् गृहाण त्वं मयोद्यताम् ॥ १४ ॥ | 6.109.13bसत्क्रियां विहितां तावद्गृहाण त्वं मयोद्यताम् ॥6.109.13॥ | 6.124.15bसत्क्रियां विहितां तावद्गृहाण त्वं मयोद्यताम् १४ प्रणयाद्बहुमानाच्च सौहृदेन च राघव । | |||
| 30 | #15aಪ್ರಣಯಾದ್ ಬಹುಮಾನಾಚ್ಚ ಸೌಹೃದೇನ ಚ ರಾಘವ । | 6.121.15aप्रणयाद् बहुमानाच्च सौहार्देन च राघव । | 6.109.14aप्रणयाद्बहुमानाच्च सौहृदेन च राघव । | 6.124.17aप्रणयाद्वहुमानाच्च सौहृदेन च राघव। | |||
| 31 | #15bಪ್ರಸಾದಯಾಮಿ ಪ್ರೇಷ್ಯೋಽಹಂ ನ ಖಲ್ವಾಜ್ಞಾಪಯಾಮಿ ತೇ ॥ | 6.121.15bप्रसादयामि प्रेष्योऽहं न खल्वाज्ञापयामि ते ॥ १५ ॥ | 6.109.14bप्रसादयामि प्रेष्योऽहं न खल्वाज्ञापयामि ते ॥6.109.14॥ | 6.124.15cप्रसादयामि प्रेष्योऽहं न खल्वाज्ञापयामि ते ॥ १५ ॥ | 6.124.17bप्रसादयामि प्रेष्योऽहं न खल्वाज्ञापयामि ते ॥ 6.124.17 ॥ | ||
| 32 | #16aಏವಮುಕ್ತಸ್ತತೋ ರಾಮಃ ಪ್ರತ್ಯುವಾಚ ವಿಭೀಷಣಮ್ । | 6.121.16aएवमुक्तस्ततो रामः प्रत्युवाच विभीषणम् । | 6.109.15aएवमुक्तस्ततो रामः प्रत्युवाच विभीषणम् । | 6.124.16aएवमुक्तस्ततो रामः प्रत्युवाच विभीषणम् । | 6.124.18aएवमुक्तस्ततो रामः प्रत्युवाच विभिषणम्। | ||
| 33 | #16bರಕ್ಷಸಾಂ ವಾನರಾಣಾಂ ಚ ಸರ್ವೇಷಾಮೇವ ಶೃಣ್ವತಾಮ್ ॥ | 6.121.16bरक्षसां वानराणां च सर्वेषामेव शृण्वताम् ॥ १६ ॥ | 6.109.15bरक्षसां वानराणां च सर्वेषां चोपशृण्वताम् ॥6.109.15॥ | 6.124.16bरक्षसां वानराणां च सर्वेषां चोपशृण्वताम् ॥ १६ ॥ | 6.124.18bरक्षसां वानराणां च सर्वेषां चोपशृण्वताम् ॥ 6.124.18 ॥ | ||
| 34 | #17aಪೂಜಿತೋಽಸ್ಮಿ ತ್ವಯಾ ವೀರ ಸಾಚಿವ್ಯೇನ ಪರೇಣ ಚ । | 6.121.17aपूजितोऽस्मि त्वया वीर साचिव्येन परेण च । | 6.109.16aपूजितोऽहं त्वया वीर साचिव्येन परंतप । | 6.124.17aपूजितोऽहं त्वया सौम्य साचिव्येन परन्तप । | 6.124.19aपूजितोऽहं त्वया सौम्य साचिव्येन परन्तप। | ||
| 35 | #17bಸರ್ವಾತ್ಮನಾ ಚ ಚೇಷ್ಟಾಭಿಃಸೌಹೃದೇನ ಪರೇಣ ಚ ॥ | 6.121.17bसर्वात्मना च चेष्टाभिः सौहार्देन परेण च ॥ १७ ॥ | 6.109.16bसर्वात्मना च चेष्टिभिः सौहृदेनोत्तमेन च ॥6.109.16॥ | 6.124.17bसर्वात्मना च चेष्टाभिः सौहृदेनोत्तमेन च ॥ १७ ॥ | 6.124.19bसर्वात्मना च चेष्टाभिः सौहृदेनोत्तमेन च ॥ 6.124.19 ॥ | ||
| 36 | #18aನ ಖಲ್ವೇತನ್ನ ಕುರ್ಯಾಂ ತೇ ವಚನಂ ರಾಕ್ಷಸೇಶ್ವರ । | 6.121.18aन खल्वेतन्न कुर्यां ते वचनं राक्षसेश्वर । | 6.109.17aन खल्वेतन्न कुर्यां ते वचनं राक्षसेश्वर । | 6.124.18aन खल्वेतन्न कुर्यां ते वचनं राक्षसेश्वर । | |||
| 37 | #18bತಂ ತು ಮೇ ಭ್ರಾತರಂ ದ್ರಷ್ಟುಂ ಭರತಂ ತ್ವರತೇ ಮನಃ ॥ | 6.121.18bतं तु मे भ्रातरं द्रष्टुं भरतं त्वरते मनः ॥ १८ ॥ | 6.109.17bतं तु मे भ्रातरं द्रष्टुं भरतं त्वरते मनः ॥6.109.17॥ | 6.124.18bतं तु मे भ्रातरं द्रष्टुं भरतं त्वरते मनः ॥ १८ ॥ | 6.124.20aतं तु मे भ्रातरं द्रष्टुं भरतं त्वरते मनः। | ||
| 38 | #19aಮಾಂ ನಿವರ್ತಯಿತುಂ ಯೋಽಸೌ ಚಿತ್ರಕೂಟಮುಪಾಗತಃ । | 6.121.19aमां निवर्तयितुं योऽसौ चित्रकूटमुपागतः । | 6.109.18aमां निवर्तयितुं योऽसौ चित्रकूटमुपागतः । | 6.124.19aमां निवर्तयितुं योसौ चित्रकूटमुपागतः । | 6.124.20bमां निवर्तयितुं योऽसौ चित्रकूटमुपागतः ॥ 6.124.20 ॥ | ||
| 39 | #19bಶಿರಸಾ ಯಾಚತೋ ಯಸ್ಯ ವಚನಂ ನ ಕೃತಂ ಮಯಾ ॥ | 6.121.19bशिरसा याचतो यस्य वचनं न कृतं मया ॥ १९ ॥ | 6.109.18bशिरसा याचतो यस्य वचनं न कृतं मया ॥6.109.18॥ | 6.124.19bशिरसा याचतो यस्य वचनं न कृतं मया ॥ १९ ॥ | 6.124.21शिरसा याचतो यस्य वचनं न कृतं मया ॥ 6.124.21 ॥ | ||
| 40 | #20aಕೌಸಲ್ಯಾಂ ಚ ಸುಮಿತ್ರಾಂ ಚ ಕೈಕೇಯೀಂ ಚ ಯಶಸ್ವಿನೀಮ್ । | 6.121.20aकौसल्यां च सुमित्रां च कैकेयीं च यशस्विनीम् । | 6.109.19aकौसल्यां च सुमित्रां च कैकेयीं च यशस्विनीम् । | 6.124.20aकौसल्यां च सुमित्रां च कैकेयीं च यशस्विनीम् । | 6.124.22aकौसल्यां च सुमित्रां च कैकेयीं च यशस्विनीम्। | ||
| 41 | 6.109.19bगुरूंश्च सुहृदश्चैव पौरांश्च तनयैः सह ॥6.109.19॥ | 6.124.20bगुरूंश्च सुहृदश्चैव पौरांश्च तनयैः सह ॥ २० ॥ | 6.124.22bगुरूंश्च सुहृदश्चैव पौरांश्च तनयैः सह ॥ 6.124.22 ॥ | ||||
| 42 | #20bಗುಹಂ ಚ ಸುಹೃದಂ ಚೈವ ಪೌರಾಂಜನಪದೈಃ ಸಹ ॥ | 6.121.20bगुहं च सुहृदं चैव पौराञ्जानपदैः सह ॥ २० ॥ | |||||
| 43 | #21aಅನುಜಾನೀಹಿ ಮಾಂ ಸೌಮ್ಯ ಪೂಜಿತೋಽಸ್ಮಿ ವಿಭೀಷಣ । | 6.121.21aअनुजानीहि मां सौम्य पूजितोऽस्मि विभीषण । | |||||
| 44 | #21bಮನ್ಯುರ್ನ ಖಲು ಕರ್ತವ್ಯಃ ಸಖೇ ತ್ವಾಂ ಚಾನುಮಾನಯೇ ॥ | 6.121.21bमन्युर्न खलु कर्तव्यः सखे त्वां चानुमानये ॥ २१ ॥ | |||||
| 45 | #22aಉಪಸ್ಥಾಪಯ ಮೇ ಶೀಘ್ರಂ ವಿಮಾನಂ ರಾಕ್ಷಸೇಶ್ವರ । | 6.121.22aउपस्थापय मे शीघ्रं विमानं राक्षसेश्वर । | 6.109.20aउपस्थापय मे क्षिप्रं विमानं राक्षसेश्वर । | 6.124.21aउपस्थापय मे क्षिप्रं विमानं राक्षसेश्वर । | 6.124.23aउपस्थापय मे क्षिप्रं विमानं राक्षसेश्वर। | ||
| 46 | #22bಕೃತಕಾರ್ಯಸ್ಯ ಮೇ ವಾಸಃ ಕಥಂ ಸ್ಯಾದಿಹ ಸಂಮತಃ ॥ | 6.121.22bकृतकार्यस्य मे वासः कथं स्यादिह सम्मतः ॥ २२ ॥ | 6.109.20bकृतकार्यस्य मे वासः कथंचिदिह संमतः ॥6.109.20॥ | 6.124.21bकृतकार्यस्य मे वासः कथं स्विदिह संमतः ॥ २१ ॥ | 6.124.23bकृतकार्यस्य मे वासः कथं स्यादिह सम्मतः ॥ 6.124.23 ॥ | ||
| 47 | 6.109.21aअनुजानीहि मां सौम्य पूजितोऽस्मि विभीषण । | 6.124.22aअनुजानीहि मां सौम्य पूजितोस्मि विभीषण । | 6.124.24aअनुजानीहि मां सौम्य पूजितोऽस्मि विभीषण। | ||||
| 48 | 6.109.21bमन्युर्न खलु कर्तव्यस्त्वरितस्त्वानुमानये ॥6.109.21॥ | 6.124.22bमन्युर्न खलु कर्तव्यस्त्वरितं त्वाऽनुमानये ॥ २२ ॥ | 6.124.24bमन्युर्न खलु कर्तव्यस्त्वरितं त्वाऽनुमानये ॥ 6.124.24 ॥ | ||||
| 49 | #23aಏವಮುಕ್ತಸ್ತು ರಾಮೇಣ ರಾಕ್ಷಸೇಂದ್ರೋ ವಿಭೀಷಣಃ । | 6.121.23aएवमुक्तस्तु रामेण राक्षसेन्द्रो विभीषणः । | 6.124.23aराघवस्य वचः श्रुत्वा राक्षसेन्द्रो विभीषणः । | 6.124.25aराघवस्य वचः श्रुत्वा राक्षसेन्द्रो विभीषणः। | |||
| 50 | 6.124.23bतं विमानं समादाय तूर्णं प्रतिनिवर्तत ॥ २३ ॥ | 6.124.25bतं विमानं समादाय तूर्णं प्रतिनिवर्तत ॥ 6.124.25 ॥ | |||||
| 51 | #23bವಿಮಾನಂ ಸೂರ್ಯಸಂಕಾಶಮಾಜುಹಾವ ತ್ವರಾನ್ವಿತಃ ॥ | 6.121.23bविमानं सूर्यसङ्काशमाजुहाव त्वरान्वितः ॥ २३ ॥ | |||||
| 52 | #24aತತಃ ಕಾಂಚನಚಿತ್ರಾಂಗಂ ವೈಡೂರ್ಯಮಣಿವೇದಿಕಮ್ । | 6.121.24aततः काञ्चनचित्राङ्गं वैदूर्यमणिवेदिकम् । | 6.109.22aततः काञ्चनचित्राङ्गं वैदूर्यमणिवेदिकम् । | 6.124.24aततः काञ्चनचित्राङ्गं वैडूर्यमयवेदिकम् । | 6.124.26aततः काञ्चनचित्राङ्गं वैडूर्यमयवेदिकम्। | ||
| 53 | #24bಕೂಟಾಗಾರೈಃ ಪರಿಕ್ಷಿಪ್ತಂ ಸರ್ವತೋ ರಜತಪ್ರಭಮ್ ॥ | 6.121.24bकूटागारैः परिक्षिप्तं सर्वतो रजतप्रभम् ॥ २४ ॥ | 6.109.22bकूटागारैः परिक्षिप्तं सर्वतो रजतप्रभम् ॥6.109.22॥ | 6.124.24bकूटागारैः परिक्षिप्तं सर्वतो रजतप्रभम् ॥ २४ ॥ | 6.124.26bकूटागारैः परिक्षिप्तं सर्वतो रजतप्रभम् ॥ 6.124.26 ॥ | ||
| 54 | #25aಪಾಂಡುರಾಭಿಃ ಪತಾಕಾಭಿರ್ಧ್ವಜೈಶ್ಚ ಸಮಲಂಕೃತಮ್ । | 6.121.25aपाण्डुराभिः पताकाभिर्ध्वजैश्च समलङ्कृतम् । | 6.109.23aपाण्डुराभिः पताकाभिर्ध्वजैश्च समलंकृतम् । | 6.124.25aपाण्डुराभिः पताकाभिर्ध्वजैश्च समलंकृतम् । | 6.124.27aपाण्डुराभिः पताकाभिर्ध्वजैश्च समलङ्कृतम्। | ||
| 55 | #25bಶೋಭಿತಂ ಕಾಂಚನೈರ್ಹರ್ಮ್ಯೆರ್ಹೇಮಪದ್ಮವಿಭೂಷಿತೈಃ ॥ | 6.121.25bशोभितं काञ्चनैर्हर्म्यैर्हेमपद्मविभूषितैः ॥ २५ ॥ | 6.109.23bशोभितं काञ्चनैर्हर्म्यैर्हेमपद्मविभूषितम् ॥6.109.23॥ | 6.124.25bशोभितं काञ्चनैर्हम्यैर्हेम पद्मविभूषितम् ॥ २५ ॥ | 6.124.27bशोभितं काञ्चनैर्हर्म्यैर्हेमपद्मविभूषितम् ॥ 6.124.27 ॥ | ||
| 56 | #26aಪ್ರಕೀರ್ಣಂ ಕಿಂಕಿಣೀಜಾಲೈರ್ಮುಕ್ತಾ ಮಣಿಗವಾಕ್ಷಕಮ್ । | 6.121.26aप्रकीर्णं किङ्किणीजालैर्मुक्तामणिगवाक्षकम् । | 6.109.24aप्रकीर्णं किङ्किणीजालैर्मुक्तामणिगवाक्षितम् । | 6.124.26aप्रकीर्ण किङ्किणीजालैर्मुक्तामणिगवाक्षितम् । | 6.124.28aप्रकीर्णं किङ्किणीजालैर्मुक्तामणिगवाक्षितम्। | ||
| 57 | #26bಘಂಟಾಜಾಲೈಃ ಪರಿಕ್ಷಿಪ್ತಂ ಸರ್ವತೋ ಮಧುರಸ್ವನಮ್ ॥ | 6.121.26bघण्टाजालैः परिक्षिप्तं सर्वतो मधुरस्वनम् ॥ २६ ॥ | 6.109.24bघण्टाजालैः परिक्षिप्तं सर्वतो मधुरस्वनम् ॥6.109.24॥ | 6.124.26bघण्टाजालैः परिक्षिप्तं सर्वतो मधुरस्वनम् ॥ २६ ॥ | 6.124.28bघण्टाजालैः परिक्षिप्तं सर्वतो मधुरस्वनम् ॥ 6.124.28 ॥ | ||
| 58 | #27aತಂ ಮೇರುಶಿಖರಾಕಾರಂ ನಿರ್ಮಿತಂ ವಿಶ್ವಕರ್ಮಣಾ । | 6.121.27aतं मेरुशिखराकारं निर्मितं विश्वकर्मणा । | 6.109.25aतन्मेरुशिखराकारं निर्मितं विश्वकर्मणा । | 6.124.27aयन्मेरुशिखराकारं निर्मितं विश्वकर्मणा । | 6.124.29aयन्मेरुशिखराकारं निर्मितं विश्वकर्मणा। | ||
| 59 | #27bಬೃಹದ್ಭಿರ್ಭೂಷಿತಂ ಹರ್ಮ್ಯೈರ್ಮುಕ್ತಾರಜತಶೋಭಿತೈಃ ॥ | 6.121.27bबृहद्भिर्भूषितं हर्म्यैर्मुक्तारजतशोभितैः ॥ २७ ॥ | 6.109.25bबहुभिर्भूषितं हर्म्यैर्मुक्तारजतसंनिभौ ॥6.109.25॥ | 6.124.27bबहुभिर्भूषितं हर्म्यैर्मुक्तारजतसंनिभैः ॥ २७ ॥ | 6.124.29bबहुभिर्भूषितं हर्म्यैर्मुक्तारजतसन्निभैः ॥ 6.124.29 ॥ | ||
| 60 | #28aತಲೈಃ ಸ್ಫಾಟಕಚಿತ್ರಾಂಗೈರ್ವೈಢೂರ್ಯೈಶ್ಚ ವರಾಸನೈಃ । | 6.121.28aतलैः स्फटिकचित्राङ्गैर्वैदूर्यैश्च वरासनैः । | 6.109.26aतलैः स्फटिकचित्राङ्गैर्वैदूर्यैश्च वरासनैः । | 6.124.28aतलैः स्फाटिकचित्राङ्गैर्वैडूर्यैश्च वरासनैः । | 6.124.30aतलैः स्फाटिकचित्राङ्गैर्वैडूर्यैश्च वरासनैः। | ||
| 61 | #28bಮಹಾರ್ಹಾಸ್ತರಣೋಪೇತೈರುಪಪನ್ನಂ ಮಹಾಧನೈಃ ॥ | 6.121.28bमहार्हास्तरणोपेतैरुपपन्नं महाधनैः ॥ २८ ॥ | 6.109.26bमहार्हास्तरणोपेतैरुपपन्नं महाधनैः ॥6.109.26॥ | 6.124.28bमहार्हास्तरणोपेतैरुपपन्नं महाधनैः ॥ २८ ॥ | 6.124.30bमहार्हास्तरणो पेतैरुपपन्नं महाधनैः ॥ 6.124.30 ॥ | ||
| 62 | #29aಉಪಸ್ಥಿತಮನಾಧೃಷ್ಯಂ ತದ್ವಿಮಾನಂ ಮನೋಜವಮ್ । | 6.121.29aउपस्थितमनाधृष्यं तद् विमानं मनोजवम् । | 6.109.27aउपस्थितमनाधृष्यं तद्विमानं मनोजवम् । | 6.124.29aउपस्थितमनावृष्यं तद्विमानं मनोजवम् । | 6.124.31aउपस्थितमनाधृष्यं तद्विमानं मनोजवम्। | ||
| 63 | #29bನಿವೇದಯಿತ್ವಾ ರಾಮಾಯ ತಸ್ಥೌ ತತ್ರ ವಿಭೀಷಣಃ ॥ | 6.121.29bनिवेदयित्वा रामाय तस्थौ तत्र विभीषणः ॥ २९ ॥ | 6.109.27bनिवेदयित्वा रामाय तस्थौ तत्र विभीषणः ॥6.109.27॥ | 6.124.29bनिवेदयित्वा रामाय तस्थौ तत्र विभीषणः ॥ २९ ॥ | 6.124.31bनिवेदयित्वा रामाय तस्थौ तत्र विभीषणः ॥ 6.124.31 ॥ | ||
| 64 | #30aತತ್ಪುಷ್ಪಕಂ ಕಾಮಗಮಂ ವಿಮಾನ- ಮುಪಸ್ಥಿತಂ ಭೂಧರ ಸಂನಿಕಾಶಮ್ । | 6.121.30aतत् पुष्पकं कामगमं विमान- मुपस्थितं भूधरसन्निकाशम् । | #29[ तत्पुष्पकं कामगमं विमानमुपस्थितं भूधरसंनिकाशम् ॥ | ||||
| 65 | #30bದೃಷ್ಟ್ವಾತದಾ ವಿಸ್ಮಯಮಾಜಗಾಮ ರಾಮಃ ಸಸೌಮಿತ್ರಿರುದಾರಸತ್ತ್ವಃ ॥ | 6.121.30bदृष्ट्वा तदा विस्मयमाजगाम रामः ससौमित्रिरुदारसत्त्वः ॥ ३० ॥ | 6.124.30aदृष्ट्वा तदा विस्मयमाजगाम रामस्ससौमित्रिरुदारसत्वः ॥ ३० ॥ | ||||
| 66 | 6.124.30b] | ||||||
| 67 | 6.124.124इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने चतुर्विंशत्युत्तरशततमः सर्गः ॥ १२४ ॥ |