रामेण सीतातिरस्कारः. Built from structured/verses.jsonl. Rows are monotone-aligned half-verse/pāda-like units split at । and ॥, so verse-number boundary differences can appear as inserted or shifted line rows.
58 aligned line rows across 7 source streams.
gor-kn 50 lines
gor-hi 50 lines
crit 50 lines
gr 51 lines
dr-mula 50 lines
| # | gor-kn | gor-hi | crit | gr | dr-mula | gr-iitk | iitk |
|---|---|---|---|---|---|---|---|
| 1 | #1aತಾಂ ತು ಪಾರ್ಶ್ವೇ ಸ್ಥಿತಾಂ ಪ್ರಹ್ವಾಂ ರಾಮಃ ಸಂಪ್ರೇಕ್ಷ್ಯ ಮೈಥಿಲೀಮ್ । | 6.115.1aतां तु पार्श्वे स्थितां प्रह्वां रामः सम्प्रेक्ष्य मैथिलीम् । | 6.103.1aतां तु पार्श्वे स्थितां प्रह्वां रामः संप्रेक्ष्य मैथिलीम् । | 6.118.1aतां तु पार्श्वस्थितां प्रह्वां रामः संप्रेक्ष्य मैथिलीम् । | 6.118.1aतां तु पार्श्वस्थितां प्रह्वां रामः सम्प्रेक्ष्य मैथिलीम्। | ||
| 2 | #1bಹೃದಯಾಂತರ್ಗತಂ ಭಾವಂ ವ್ಯಾಹರ್ತುಮುಪಚಕ್ರಮೇ ॥ | 6.115.1bहृदयान्तर्गतं भावं व्याहर्तुमुपचक्रमे ॥ १ ॥ | 6.103.1bहृदयान्तर्गतक्रोधो व्याहर्तुमुपचक्रमे ॥6.103.1॥ | 6.118.1bहृदयान्तर्गतक्रोधो व्याहर्तुमुपचक्रमे ॥ १ ॥ | 6.118.1bहृदयान्तर्गतक्रोधो व्याहर्तुमुपचक्रमे ॥ 6.118.1 ॥ | ||
| 3 | #2aಏಷಾಸಿ ನಿರ್ಜಿತಾ ಭದ್ರೇ ಶತ್ರುಂ ಜಿತ್ವಾ ರಣಾಜಿರೇ । | 6.115.2aएषासि निर्जिता भद्रे शत्रुं जित्वा रणाजिरे । | 6.103.2aएषासि निर्जिता भद्रे शत्रुं जित्वा मया रणे । | 6.118.2aएषाऽसि निर्जिता भद्रे शत्रुं जित्वा मया रणे । | 6.118.2aएषाऽसि निर्जिता भद्रे शत्रुं जित्वा मया रणे। | ||
| 4 | #2bಪೌರುಷಾದ್ಯದನುಷ್ಠೇಯಂ ಮಯೈತದುಪಪಾದಿತಮ್ ॥ | 6.115.2bपौरुषाद् यदनुष्ठेयं मयैतदुपपादितम् ॥ २ ॥ | 6.103.2bपौरुषाद्यदनुष्ठेयं तदेतदुपपादितम् ॥6.103.2॥ | 6.118.2bपौरुषाद्यदनुष्ठेयं तदेतदुपपादितम् ॥ २ ॥ | 6.118.2bपौरुषाद्यदनुष्ठेयं तदेतदुपपादितम् ॥ 6.118.2 ॥ | ||
| 5 | #3aಗತೋಽಸ್ಮ್ಯಂತಮಮರ್ಷಸ್ಯ ಧರ್ಷಣಾ ಸಂಪ್ರಮಾರ್ಜಿತಾ । | 6.115.3aगतोऽस्म्यन्तममर्षस्य धर्षणा सम्प्रमार्जिता । | 6.103.3aगतोऽस्म्यन्तममर्षस्य धर्षणा संप्रमार्जिता । | 6.118.3aगतोस्म्यन्तममर्पस्य धर्षणा संप्रमार्जिता । | 6.118.3aगतोऽस्म्यन्तममर्षस्य धर्षणा सम्प्रमार्जिता। | ||
| 6 | #3bಅವಮಾನಶ್ಚ ಶತ್ರುಶ್ಚ ಯುಗಪನ್ನಿಹತೌ ಮಯಾ ॥ | 6.115.3bअवमानश्च शत्रुश्च युगपन्निहतौ मया ॥ ३ ॥ | 6.103.3bअवमानश्च शत्रुश्च मया युगपदुद्धृतौ ॥6.103.3॥ | 6.118.3bअवमानश्च शत्रुश्च मया युगपदुद्धृतौ ॥ ३ ॥ | 6.118.3bअवमानश्च शत्रुश्च मया युगपदुद्धृतौ ॥ 6.118.3 ॥ | ||
| 7 | #4aಅದ್ಯ ಮೇ ಪೌರುಷಂ ದೃಷ್ಟಮದ್ಯ ಮೇ ಸಫಲಃ ಶ್ರಮಃ । | 6.115.4aअद्य मे पौरुषं दृष्टमद्य मे सफलः श्रमः । | 6.103.4aअद्य मे पौरुषं दृष्टमद्य मे सफलः श्रमः । | 6.118.4aअद्य मे पौरुषं दृष्टमद्य मे सफलः श्रमः । | 6.118.4aअद्य मे पौरुषं दृष्टमद्य मे सफलः श्रमः। | ||
| 8 | #4bಅದ್ಯ ತೀರ್ಣಪ್ರತಿಜ್ಞೋಽಹಂ ಪ್ರಭವಾಮ್ಯದ್ಯಚಾತ್ಮನಃ ॥ | 6.115.4bअद्य तीर्णप्रतिज्ञोऽहं प्रभवाम्यद्य चात्मनः ॥ ४ ॥ | 6.103.4bअद्य तीर्णप्रतिज्ञत्वात्प्रभवामीह चात्मनः ॥6.103.4॥ | 6.118.4bअद्य तीर्ण प्रतिज्ञत्वात्प्रभवामीह चात्मनः ॥ ४ ॥ | 6.118.4bअद्य तीर्णप्रतिज्ञत्वात् प्रभवामीह चात्मनः ॥ 6.118.4 ॥ | ||
| 9 | #5aಯಾ ತ್ವಂ ವಿರಹಿತಾ ನೀತಾ ಚಲಚಿತ್ತೇನ ರಕ್ಷಸಾ । | 6.115.5aया त्वं विरहिता नीता चलचित्तेन रक्षसा । | 6.103.5aया त्वं विरहिता नीता चलचित्तेन रक्षसा । | 6.118.5aया त्वं विरहिता नीता चलचित्तेन रक्षसा । | 6.118.5aया त्वं विरहिता नीता चलचित्तेन रक्षसा। | ||
| 10 | #5bದೈವಸಂಪಾದಿತೋ ದೋಷೋ ಮಾನುಷೇಣ ಮಯಾ ಜಿತಃ ॥ | 6.115.5bदैवसम्पादितो दोषो मानुषेण मया जितः ॥ ५ ॥ | 6.103.5bदैवसंपादितो दोषो मानुषेण मया जितः ॥6.103.5॥ | 6.118.5bदैवसंपादितो दोषो मानुषेण मया जितः ॥ ५ ॥ | 6.118.5bदैवसम्पादितो दोषो मानुषेण मया जितः ॥ 6.118.5 ॥ | ||
| 11 | #6aಸಂಪ್ರಾಪ್ತಮವಮಾನಂ ಯಸ್ತೇಜಸಾ ನ ಪ್ರಮಾರ್ಜತಿ । | 6.115.6aसम्प्राप्तमवमानं यस्तेजसा न प्रमार्जति । | 6.103.6aसंप्राप्तमवमानं यस्तेजसा न प्रमार्जति । | 6.118.6aसंप्राप्तमवमानं यस्तेजसा न प्रमार्जति । | 6.118.6aसम्प्राप्तमवमानं यस्तेजसा न प्रमार्जति। | ||
| 12 | 6.103.6bकस्तस्य पुरुषार्थोऽस्ति पुरुषस्याल्पतेजसः ॥6.103.6॥ | 6.118.6bकस्तस्य पुरुषार्थोस्ति पुरुषस्याल्पतेजसः ॥ ६ ॥ | 6.118.6bकस्तस्य पुरुषार्थोऽस्ति पुरुषस्याल्पतेजसः ॥ 6.118.6 ॥ | ||||
| 13 | #6bಕಸ್ತಸ್ಯ ಪೌರುಷೇಣಾರ್ಥೋ ಮಹತಾಪ್ಯಲ್ಪತೇಜಸಃ ॥ | 6.115.6bकस्तस्य पौरुषेणार्थो महताप्यल्पचेतसः ॥ ६ ॥ | |||||
| 14 | #7aಲಂಘನಂ ಚ ಸಮುದ್ರಸ್ಯ ಲಂಕಾಯಾಶ್ಚಾಪಿ ಮರ್ದನಮ್ । | 6.115.7aलङ्घनं च समुद्रस्य लङ्कायाश्चापि मर्दनम् । | 6.103.7aलङ्घनं च समुद्रस्य लङ्कायाश्चावमर्दनम् । | 6.118.7aलङ्घनं च समुद्रस्य लङ्कायाश्चावमर्दनम् । | 6.118.7aलङ्घनं च समुद्रस्य लङ्कायाश्चावमर्दनम्। | ||
| 15 | #7bಸಫಲಂ ತಸ್ಯ ಚ ಶ್ಲಾಘ್ಯಮದ್ಯ ಕರ್ಮ ಹನೂಮತಃ ॥ | 6.115.7bसफलं तस्य च श्लाघ्यमद्य कर्म हनूमतः ॥ ७ ॥ | 6.103.7bसफलं तस्य तच्छ्लाघ्यमद्य कर्म हनूमतः ॥6.103.7॥ | 6.118.7bसफलं तस्य तच्छ्लाघ्यं महत्कर्म हनूमतः ॥ ७ ॥ | 6.118.7bसफलं तस्य तच्छ्लाध्यं महत् कर्म हनूमतः ॥ 6.118.7 ॥ | ||
| 16 | #8aಯುದ್ಧೇ ವಿಕ್ರಮತಶ್ಚೈವ ಹಿತಂ ಮಂತ್ರಯತಸ್ತಥಾ । | 6.115.8aयुद्धे विक्रमतश्चैव हितं मन्त्रयतस्तथा । | 6.103.8aयुद्धे विक्रमतश्चैव हितं मन्त्रयतश्च मे । | 6.118.8aयुद्धे विक्रमतश्चैव हितं मन्त्रयतश्च मे । | 6.118.8aयुद्धे विक्रमतश्चैव हितं मन्त्रयतश्च मे। | ||
| 17 | #8bಸುಗ್ರೀವಸ್ಯ ಸಸೈನ್ಯಸ್ಯ ಸಫಲೋಽದ್ಯ ಪರಿಶ್ರಮಃ ॥ | 6.115.8bसुग्रीवस्य ससैन्यस्य सफलोऽद्य परिश्रमः ॥ ८ ॥ | 6.103.8bसुग्रीवस्य ससैन्यस्य सफलोऽद्य परिश्रमः ॥6.103.8॥ | 6.118.8bसुग्रीवस्य ससैन्यस्य सफलोऽद्य परिश्रमः ॥ ८ ॥ | 6.118.8bसुग्रीवस्य ससैन्यस्य सफलोऽद्य परिश्रमः ॥ 6.118.8 ॥ | ||
| 18 | #9aವಿಭೀಷಣಸ್ಯ ಚ ತಥಾ ಸಫಲೋಽದ್ಯ ಪರಿಶ್ರಮಃ । | 6.115.9aविभीषणस्य च तथा सफलोऽद्य परिश्रमः । | |||||
| 19 | #9bವಿಗುಣಂ ಭ್ರಾತರಂ ತ್ಯಕ್ತ್ವಾ ಯೋ ಮಾಂ ಸ್ವಯಮುಪಸ್ಥಿತಃ ॥ | 6.115.9bविगुणं भ्रातरं त्यक्त्वा यो मां स्वयमुपस्थितः ॥ ९ ॥ | 6.103.9aनिर्गुणं भ्रातरं त्यक्त्वा यो मां स्वयमुपस्थितः । | 6.118.9aनिर्गुणं भ्रातरं त्यक्त्वा यो मां स्वयमुपस्थितः । | 6.118.9aनिर्गुणं भ्रातरं त्यक्त्वा यो मां स्वयमुपस्थितः। | ||
| 20 | 6.103.9bविभीषणस्य भक्तस्य सफलोऽद्य परिश्रमः ॥6.103.9॥ | 6.118.9bविभीषणस्य भक्तस्य सफलोद्य परिश्रमः ॥ ९ ॥ | 6.118.9bविभीषणस्य भक्तस्य सफलोऽद्य परिश्रमः ॥ 6.118.9 ॥ | ||||
| 21 | #10aಇತ್ಯೇವಂ ವದತಃ ಶ್ರುತ್ವಾ ಸೀತಾರಾಮಸ್ಯ ತದ್ವಚಃ । | 6.115.10aइत्येवं वदतः श्रुत्वा सीता रामस्य तद् वचः । | 6.103.10aइत्येवं ब्रुवतस्तस्य सीता रामस्य तद्वचः । | 6.118.10aइत्येवं ब्रुवतस्तस्य सीता रामस्य तद्वचः । | 6.118.10aइत्येवं ब्रुवतस्तस्य सीता रामस्य तद्वचः। | ||
| 22 | #10bಮೃಗೀವೋತ್ಫುಲ್ಲನಯನಾ ಬಭೂವಾಶ್ರುಪರಿಪ್ಲುತಾ ॥ | 6.115.10bमृगीवोत्फुल्लनयना बभूवाश्रुपरिप्लुता ॥ १० ॥ | 6.103.10bमृगीवोत्फुल्लनयना बभूवाश्रुपरिप्लुता ॥6.103.10॥ | 6.118.10bमृगीवोत्फुल्लनयना बभूवाश्रुपरिप्लुता ॥ १० ॥ | 6.118.10bमृगीवोत्फुल्लनयना बभूवाश्रुपरिप्लुता ॥ 6.118.10 ॥ | ||
| 23 | #11aಪಶ್ಯತಸ್ತಾಂ ತು ರಾಮಸ್ಯ ಸಮೀಪೇಹೃದಯಪ್ರಿಯಾಮ್ । | 6.115.11aपश्यतस्तां तु रामस्य समीपे हृदयप्रियाम् । | 6.103.11aपश्यतस्तां तु रामस्य भूयः क्रोधोऽभ्यवर्तत । | 6.118.11aपश्यतस्तां तु रामस्य भूयः क्रोधो व्यवर्धत । | 6.118.11aपश्यतस्तां तु रामस्य भूयः क्रोधो व्यवर्धत। | ||
| 24 | 6.103.11bप्रभूताज्यावसिक्तस्य पावकस्येव दीप्यतः ॥6.103.11॥ | 6.118.11bप्रभूताज्यावसिक्तस्य पावकस्येव दीप्यतः ॥ ११ ॥ | 6.118.11bप्रभूताज्यावसिक्त्स्य पावकस्येव दीप्यतः ॥ 6.118.11 ॥ | ||||
| 25 | 6.103.12aस बद्ध्वा भ्रुकुटिं वक्त्रे तिर्यक्प्रेक्षितलोचनः । | 6.118.12aस बद्धा भ्रुकुटीं वक्रे तिर्यक्प्रेक्षितलोचनः । | 6.118.12aस बद्ध्वा भ्रुकुटीं वक्त्रे तिर्यक्प्रेक्षितलोचनः। | ||||
| 26 | #11bಜನವಾದಭಯಾದ್ರಾಜ್ಞೋ ಬಭೂವ ಹೃದಯಂ ದ್ವಿಧಾ ॥ | 6.115.11bजनवादभयाद् राज्ञो बभूव हृदयं द्विधा ॥ ११ ॥ | |||||
| 27 | #12aಸೀತಾಮುತ್ಪಲ ಪತ್ರಾಕ್ಷೀಂ ನೀಲಕುಂಚಿತ ಮೂರ್ಧಜಾಮ್ । | 6.115.12aसीतामुत्पलपत्राक्षीं नीलकुञ्चितमूर्धजाम् । | |||||
| 28 | #12bಅವದದ್ವೈ ವರಾರೋಹಾಂ ಮಧ್ಯೇ ವಾನರರಕ್ಷಸಾಮ್ ॥ | 6.115.12bअवदद् वै वरारोहां मध्ये वानररक्षसाम् ॥ १२ ॥ | 6.103.12bअब्रवीत्परुषं सीतां मध्ये वानररक्षसाम् ॥6.103.12॥ | 6.118.12bअब्रवीत्परुषं सीतां मध्ये वानररक्षसाम् ॥ १२ ॥ | 6.118.12bअब्रवीत् परुषं सीतां मध्ये वानररक्षसाम् ॥ 6.118.12 ॥ | ||
| 29 | #13aಯತ್ಕರ್ತವ್ಯಂ ಮನುಷ್ಯೇಣ ಧರ್ಷಣಾಂ ಪ್ರತಿಮಾರ್ಜತಾ । | 6.115.13aयत् कर्तव्यं मनुष्येण धर्षणां प्रतिमार्जता । | 6.103.13aयत्कर्तव्यं मनुष्येण धर्षणां परिमार्जता । | 6.118.13aयत्कर्तव्यं मनुष्येण धर्षणां परिमार्जता । | 6.118.13aयत् कर्तव्यं मनुष्येण धर्षणां परिमार्जता। | ||
| 30 | 6.103.13bतत्कृतं सकलं सीते शत्रुहस्तादमर्षणात् ॥6.103.13॥ | 6.118.13bतत्कृतं सकलं सीते शत्रुहस्तादमर्षणात् ॥ १३ ॥ | 6.118.13bतत् कृतं सकलं सीते शत्रुहस्तादमर्षणात् ॥ 6.118.13 ॥ | ||||
| 31 | #13bತತ್ಕೃತಂ ರಾವಣಂ ಹತ್ವಾ ಮಯೇದಂ ಮಾನಕಾಂಕ್ಷಿಣಾ ॥ | 6.115.13bतत् कृतं रावणं हत्वा मयेदं मानकाङ्क्षिणा ॥ १३ ॥ | |||||
| 32 | #14aನಿರ್ಜಿತಾ ಜೀವಲೋಕಸ್ಯ ತಪಸಾ ಭಾವಿತಾತ್ಮನಾ । | 6.115.14aनिर्जिता जीवलोकस्य तपसा भावितात्मना । | 6.103.14aनिर्जिता जीवलोकस्य तपसा भावितात्मना । | 6.118.14aनिर्जिता जीवलोकस्य तपसा भावितात्मना । | 6.118.14aनिर्जिता जीवलोकस्य तपसा भावितात्मना। | ||
| 33 | #14bಅಗಸ್ತ್ಯೇನ ದುರಾಧರ್ಷಾ ಮುನಿನಾ ದಕ್ಷಿಣೇವ ದಿಕ್ ॥ | 6.115.14bअगस्त्येन दुराधर्षा मुनिना दक्षिणेव दिक् ॥ १४ ॥ | 6.103.14bअगस्त्येन दुराधर्षा मुनिना दक्षिणेव दिक् ॥6.103.14॥ | 6.118.14bअगस्त्येन दुराधर्षा मुनिना दक्षिणेव दिक् ॥ १४ ॥ | 6.118.14bअगस्त्येन दुराधर्षा मुनिना दक्षिणेव दिक् ॥ 6.118.14 ॥ | ||
| 34 | #15aವಿದಿತಶ್ಚಾಸ್ತು ಭದ್ರಂ ತೇ ಯೋಽಯಂ ರಣಪರಿಶ್ರಮಃ । | 6.115.15aविदितश्चास्तु भद्रं ते योऽयं रणपरिश्रमः । | 6.103.15aविदितश्चास्तु भद्रं ते योऽयं रणपरिश्रमः । | 6.118.15aविदितश्चास्तु ते भद्रे योऽयं रणपरिश्रमः । | 6.118.15aविदितश्चास्तु ते भद्रे योऽयं रणपरिश्रमः। | ||
| 35 | #15bಸುತೀರ್ಣಃ ಸುಹೃದಾಂ ವೀರ್ಯಾನ್ನ ತ್ವದರ್ಥಂ ಮಯಾ ಕೃತಃ ॥ | 6.115.15bसुतीर्णः सुहृदां वीर्यान्न त्वदर्थं मया कृतः ॥ १५ ॥ | 6.103.15bस तीर्णः सुहृदां वीर्यान्न त्वदर्थं मया कृतः ॥6.103.15॥ | 6.118.15bस तीर्णः सुहृदां वीर्यान्न त्वदर्थं मया कृतः ॥ १५ ॥ | 6.118.15bस तीर्णः सुहृदां वीर्यान्न त्वदर्थं मया कृतः ॥ 6.118.15 ॥ | ||
| 36 | #16aರಕ್ಷತಾ ತು ಮಯಾ ವೃತ್ತಮಪವಾದಂ ಚ ಸರ್ವತಃ । | 6.115.16aरक्षता तु मया वृत्तमपवादं च सर्वतः । | 6.103.16aरक्षता तु मया वृत्तमपवादं च सर्वशः । | 6.118.16aरक्षता तु मया वृत्तमपवादं च सर्वशः । | 6.118.16aरक्षता तु मया वृत्तमपावदं च सर्वशः। | ||
| 37 | #16bಪ್ರಖ್ಯಾತಸ್ಯಾತ್ಮವಂಶಸ್ಯ ನ್ಯಂಗಂ ಚ ಪರಿಮಾರ್ಜತಾ ॥ | 6.115.16bप्रख्यातस्यात्मवंशस्य न्यङ्गं च परिमार्जता ॥ १६ ॥ | 6.103.16bप्रख्यातस्यात्मवंशस्य न्यङ्गं च परिमार्जता ॥6.103.16॥ | 6.118.16bप्रख्यातस्यात्मवंशस्य न्यङ्गं च परिरक्षता ॥ १६ ॥ | 6.118.16bप्रख्यातस्यात्मवंशस्य न्यङ्गं च परिरक्षता ॥ 6.118.16 ॥ | ||
| 38 | #17aಪ್ರಾಪ್ತಚಾರಿತ್ರ ಸಂದೇಹಾ ಮಮ ಪ್ರತಿಮುಖೇ ಸ್ಥಿತಾ । | 6.115.17aप्राप्तचारित्रसन्देहा मम प्रतिमुखे स्थिता । | 6.103.17aप्राप्तचारित्रसंदेहा मम प्रतिमुखे स्थिता । | 6.118.17aप्राप्तचारित्रसंदेहा मम प्रतिमुखे स्थिता । | 6.118.17aप्राप्तचारित्रसन्देहा मम प्रतिमुखे स्थिता। | ||
| 39 | #17bದೀಪೋ ನೇತ್ರಾತುರಸ್ಯೇವ ಪ್ರತಿಕೂಲಾಸಿ ಮೇ ದೃಢಾ ॥ | 6.115.17bदीपो नेत्रातुरस्येव प्रतिकूलासि मे दृढा ॥ १७ ॥ | 6.103.17bदीपो नेत्रातुरस्येव प्रतिकूलासि मे दृढम् ॥6.103.17॥ | 6.118.17bदीपो नेत्रातुरस्येव प्रतिकूलासि मे दृढम् ॥ १७ ॥ | 6.118.17bदीपो नेत्रातुरस्येव प्रतिकूलाऽसि मे दृढम् ॥ 6.118.17 ॥ | ||
| 40 | #18aತದ್ಗಚ್ಛ ತ್ವಾನುಜಾನೇಽದ್ಯ ಯಥೇಷ್ಟಂ ಜನಕಾತ್ಮಜೇ । | 6.115.18aतद् गच्छ त्वानुजानेऽद्य यथेष्टं जनकात्मजे । | 6.103.18aतद्गच्छ ह्यभ्यनुज्ञाता यतेष्टं जनकात्मजे । | 6.118.18aतद्गच्छ ह्यभ्यनुज्ञाता यथेष्टं जनकात्मजे । | 6.118.18aतद्गच्छ ह्यभ्यनुज्ञाता यथेष्टं जनकात्मजे। | ||
| 41 | #18bಏತಾ ದಶ ದಿಶೋ ಭದ್ರೇ ಕಾರ್ಯಮಸ್ತಿ ನ ಮೇ ತ್ವಯಾ ॥ | 6.115.18bएता दश दिशो भद्रे कार्यमस्ति न मे त्वया ॥ १८ ॥ | 6.103.18bएता दश दिशो भद्रे कार्यमस्ति न मे त्वया ॥6.103.18॥ | 6.118.18bएता दश दिशो भद्रे कार्यमस्ति न मे त्वया ॥ १८ ॥ | 6.118.18bएता दश दिशो भद्रे कार्यमस्ति न मे त्वया ॥ 6.118.18 ॥ | ||
| 42 | #19aಕಃ ಪುಮಾಂಸ್ತು ಕುಲೇ ಜಾತಃ ಸ್ತ್ರಿಯಂ ಪರಗೃಹೋಷಿತಾಮ್ । | 6.115.19aकः पुमांस्तु कुले जातः स्त्रियं परगृहोषिताम् । | 6.103.19aकः पुमान्हि कुले जातः स्त्रियं परगृहोषिताम् । | 6.118.19aकः पुमान्हि कुले जातः स्त्रियं परगृहोषिताम् । | 6.118.19aकः पुमान् हि कुले जातः स्त्रियं परगृहोषिताम्। | ||
| 43 | #19bತೇಜಸ್ವೀ ಪುನರಾದದ್ಯಾತ್ ಸುಹೃಲ್ಲೋಭೇನ ಚೇತಸಾ ॥ | 6.115.19bतेजस्वी पुनरादद्यात् सुहृल्लोभेन चेतसा ॥ १९ ॥ | 6.103.19bतेजस्वि पुनरादद्यात्सुहृल्लेखेन चेतसा ॥6.103.19॥ | 6.118.19bतेजस्वी पुनरादद्यात्सुहृल्लेख्येन चेतसा ॥ १९ ॥ | 6.118.19bतेजस्वी पुनरादद्यात् सुहृल्लेख्येन चेतसा ॥ 6.118.19 ॥ | ||
| 44 | #20aರಾವಣಾಂಕ ಪರಿಕ್ಲಿಷ್ಟಾಂ ದೃಷ್ಟಾಂ ದುಷ್ಟೇನ ಚಕ್ಷುಷಾ । | 6.115.20aरावणाङ्कपरिक्लिष्टां दृष्टां दुष्टेन चक्षुषा । | 6.103.20aरावणाङ्कपरिभ्रष्टां दृष्टां दुष्टेन चक्षुषा । | 6.118.20aरावणाङ्कपरिभ्रष्टां दृष्टां दुष्टेन चक्षुषा । | 6.118.20aरावणाङ्कपरिभ्रष्टां दृष्टां दुष्टेन चक्षुषा। | ||
| 45 | #20bಕಥಂ ತ್ವಾಂ ಪುನರಾದದ್ಯಾಂ ಕುಲಂ ವ್ಯಪದಿಶನ್ಮಹತ್ ॥ | 6.115.20bकथं त्वां पुनरादद्यां कुलं व्यपदिशन्महत् ॥ २० ॥ | 6.103.20bकथं त्वां पुनरादद्यां कुलं व्यपदिशन्महत् ॥6.103.20॥ | 6.118.20bकथं त्वां पुनरादद्यां कुलं व्यपदिशन्महत् ॥ २० ॥ | 6.118.20bकथं त्वां पुनरादद्यां कुलं व्यपदिशन् महत् ॥ 6.118.20 ॥ | ||
| 46 | 6.103.21aतदर्थं निर्जिता मे त्वं यशः प्रत्याहृतं मया । | 6.118.21aतदर्थं निर्जिता मे त्वं यशः प्रत्याहृतं मया । | 6.118.21aतदर्थं निर्जिता मे त्वं यशः प्रत्याहृतं मया। | ||||
| 47 | #21aಯದರ್ಥಂ ನಿರ್ಜಿತಾ ಮೇ ತ್ವಂ ಸೋಽಯಮಾಸಾದಿತೋ ಮಯಾ । | 6.115.21aयदर्थं निर्जिता मे त्वं सोऽयमासादितो मया । | |||||
| 48 | #21bನಾಸ್ತಿ ಮೇ ತ್ವಯ್ಯಭಿಷ್ವಂಗೋ ಯಥೇಷ್ಟಂ ಗಮ್ಯತಾಮಿತಿ ॥ | 6.115.21bनास्ति मे त्वय्यभिष्वङ्गो यथेष्टं गम्यतामिति ॥ २१ ॥ | 6.103.21bनास्ति मे त्वय्यभिष्वङ्गो यथेष्टं गम्यतामितः ॥6.103.21॥ | 6.118.21bनास्ति मे त्वय्यभिष्वङ्गो यथेष्टं गम्यतामितः ॥ २१ ॥ | 6.118.21bनास्ति मे त्वय्यभिष्वङ्गो यथेष्टं गम्यतामितः ॥ 6.118.21 ॥ | ||
| 49 | #22aತದದ್ಯ ವ್ಯಾಹೃತಂ ಭದ್ರೇ ಮಯೈತತ್ ಕೃತಬುದ್ಧಿನಾ । | 6.115.22aतदद्य व्याहृतं भद्रे मयैतत् कृतबुद्धिना । | 6.103.22aइति प्रव्याहृतं भद्रे मयैतत्कृतबुद्धिना । | 6.118.22aइति प्रव्याहृतं भद्रे मयैतत्कृतबुद्धिना । | 6.118.22aइति प्रव्याहृतं भद्रे मयैतत् कृतबुद्धिना। | ||
| 50 | #22bಲಕ್ಷ್ಮಣೇವಾಥ ಭರತೇ ಕುರು ಬುದ್ಧಿಂ ಯಥಾಸುಖಮ್ ॥ | 6.115.22bलक्ष्मणे वाथ भरते कुरु बुद्धिं यथासुखम् ॥ २२ ॥ | 6.103.22bलक्ष्मणे भरते वा त्वं कुरु बुद्धिं यथासुखम् ॥6.103.22॥ | 6.118.22bलक्ष्मणे भरते वा त्वं कुरु बुद्धिं यथासुखम् ॥ २२ ॥ | 6.118.22bलक्ष्मणे भरते वा त्वं कुरु बुद्धिं यथासुखम् ॥ 6.118.22 ॥ | ||
| 51 | 6.103.23aसुग्रीवे वानरेन्द्रे वा राक्षसेन्द्रे विभीषणे । | 6.118.23aसुग्रीवे वानरेन्द्रे वा राक्षसेन्द्रे विभीषणे । | 6.118.23aसुग्रीवे वानरेन्द्रे वा राक्षसेन्द्रे विभीषणे। | ||||
| 52 | #23aಶತ್ರುಘ್ನೇ ವಾಥ ಸುಗ್ರೀವೇ ರಾಕ್ಷಸೇಂದ್ರೇ ವಿಭೀಷಣೇ । | 6.115.23aशत्रुघ्ने वाथ सुग्रीवे राक्षसे वा विभीषणे । | |||||
| 53 | #23bನಿವೇಶಯ ಮನಃ ಸೀತೇ ಯಥಾ ವಾ ಸುಖಮಾತ್ಮನಾ ॥ | 6.115.23bनिवेशय मनः सीते यथा वा सुखमात्मना ॥ २३ ॥ | 6.103.23bनिवेशय मनः सीते यथा वा सुखमात्मनः ॥6.103.23॥ | 6.118.23bनिवेशय मनः सीते यथा वा सुखमात्मनः ॥ २३ ॥ | 6.118.23bनिवेशय मनः सीते यथा वा सुखमात्मनः ॥ 6.118.23 ॥ | ||
| 54 | #24aನಹಿ ತ್ವಾಂ ರಾವಣೋ ದೃಷ್ಟ್ವಾ ದಿವ್ಯರೂಪಾಂ ಮನೋರಮಾಮ್ । | 6.115.24aनहि त्वां रावणो दृष्ट्वा दिव्यरूपां मनोरमाम् । | 6.103.24aन हि त्वां रावणो दृष्ट्वा दिव्यरूपां मनोरमाम् । | 6.118.24aन हि त्वां रावणो दृष्ट्वा दिव्यरूपां मनोरमाम् । | 6.118.24aन हि त्वां रावणो दृष्ट्वा दिव्यरूपां मनोरमाम्। | ||
| 55 | #24bಮರ್ಷಯೇತ ಚಿರಂ ಸೀತೇ ಸ್ವಗೃಹೇ ಪರ್ಯವಸ್ಥಿತಾಮ್ ॥ | 6.115.24bमर्षयेत चिरं सीते स्वगृहे पर्यवस्थिताम् ॥ २४ ॥ | 6.103.24bमर्षयते चिरं सीते स्वगृहे परिवर्तिनीम् ॥6.103.24॥ | 6.118.24bमर्षयेत चिरं सीते स्वगृहे परिवर्तिनीम् ॥ २४ ॥ | 6.118.24bमर्षयेत चिरं सीते स्वगृहे परिवर्तिनीम् ॥ 6.118.24 ॥ | ||
| 56 | #25aತತಃ ಪ್ರಿಯಾರ್ಹಶ್ರವಣಾ ತದಪ್ರಿಯಂ ಪ್ರಿಯಾದುಪಶ್ರುತ್ಯಚಿರಸ್ಯಮಾನಿನೀ । | 6.115.25aततः प्रियार्हश्रवणा तदप्रियं प्रियादुपश्रुत्य चिरस्य मानिनी । | 6.103.25aततः प्रियार्हश्वरणा तदप्रियं प्रियादुपश्रुत्य चिरस्य मैथिली । | #25ततः प्रियार्हश्रवणा तदप्रियं प्रियादुपश्रुत्य चिरस्य मैथिली ॥ | 6.118.25aततः प्रियार्हश्रवणा तदप्रियं प्रियादुपश्रुत्य चिरस्य मैथिली। | ||
| 57 | #25bಮುಮೋಚಭಾಷ್ಪಂ ರುದತೀ ತದಾ ಭೃಶಂ ಗಜೇಂದ್ರಹಸ್ತಾಭಿಹತೇವ ವಲ್ಲರೀ ॥ | 6.115.25bमुमोच बाष्पं रुदती तदा भृशं गजेन्द्रहस्ताभिहतेव वल्लरी ॥ २५ ॥ | 6.103.25bमुमोच बाष्पं सुभृशं प्रवेपिता गजेन्द्रहस्ताभिहतेव वल्लरी ॥6.103.25॥ | 6.118.25मुमोच बाष्पं सुभृशं प्रवेपिता गजेन्द्रहस्ताभिहतेव सल्लकी ॥ २५ ॥ | 6.118.25bमुमोच बाष्पं सुभृशं प्रवेपिता गजेन्द्रहस्ताभिहतेव सल्लकी ॥ 6.118.25 ॥ | ||
| 58 | 6.118.118इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने अष्टादशोत्तरशततमः सर्गः ॥ ११८ ॥ |