Ramayana Half-Verse Concordance 6.85, 6.97, 6.98

सुग्रीवेण महोदरवधः. Built from structured/verses.jsonl. Rows are monotone-aligned half-verse/pāda-like units split at । and ॥, so verse-number boundary differences can appear as inserted or shifted line rows.

78 aligned line rows across 7 source streams.

Columns:
gor-kn 76 lines gor-hi 77 lines crit 60 lines gr 78 lines dr-mula 74 lines
#gor-kngor-hicritgrdr-mulagr-iitkiitk
1#1aಹನ್ಯಮಾನೇ ಬಲೇ ತೂರ್ಣಮನ್ಯೋನ್ಯಂ ತೇ ಮಹಾಮೃಧೇ ।6.97.1aहन्यमाने बले तूर्णमन्योन्यं ते महामृधे ।6.85.1aहन्यमाने बले तूर्णमन्योन्यं ते महामृधे ।6.98.1aहन्यमाने बले तूर्णमन्योन्यं ते महामृधे ।6.98.1aहन्यमाने बले तूर्णमन्योन्यं ते महामृधे।
2#1bಸರಸೀವ ಮಹಾಘರ್ಮೇ ಸೂಪಕ್ಷೀಣೇ ಬಭೂವತುಃ ॥6.97.1bसरसीव महाघर्मे सूपक्षीणे बभूवतुः ॥ १ ॥6.85.1bसरसीव महाघर्मे सूपक्षीणे बभूवतुः ॥6.85.1॥6.98.1bसरसीव महाघर्मे सोपक्षीणे बभूवतुः ॥ १ ॥6.98.1bसरसीव महाघर्मे सोपक्षीणे बभूवतुः ॥ 6.98.1 ॥
3#2aಸ್ವಬಲಸ್ಯ ತು ಘಾತೇನ ವಿರೂಪಾಕ್ಷ ವಧೇನ ಚ ।6.97.2aस्वबलस्य तु घातेन विरूपाक्षवधेन च ।6.85.2aस्वबलस्य विघातेन विरूपाक्षवधेन च ।6.98.2aस्वबलस्य विघातेन विरूपाक्षवधेन च ।6.98.2aस्वबलस्य विघातेन विरूपाक्षवधेन च।
4#2bಬಭೂವ ದ್ವಿಗುಣಂ ಕ್ರುದ್ಧೋ ರಾವಣೋ ರಾಕ್ಷಸಾಧಿಪಃ ॥6.97.2bबभूव द्विगुणं क्रुद्धो रावणो राक्षसाधिपः ॥ २ ॥6.85.2bबभूव द्विगुणं क्रुद्धो रावणो राक्षसाधिपः ॥6.85.2॥6.98.2bबभूव द्विगुणं क्रुद्धो रावणो राक्षसाधिपः ॥ २ ॥6.98.2bबभूव द्विगुणं क्रुद्धो रावणो राक्षसाधिपः ॥ 6.98.2 ॥
5#3aಪ್ರಕ್ಷೀಣಂ ಸ್ವಬಲಂ ದೃಷ್ಟ್ವಾ ವಧ್ಯಮಾನಂ ವಲೀಮುಖೈಃ ।6.97.3aप्रक्षीणं स्वबलं दृष्ट्वा वध्यमानं वलीमुखैः ।6.85.3aप्रक्षीणं तु बलं दृष्ट्वा वध्यमानं वलीमुखैः ।6.98.3aप्रक्षीणं तु बलं दृष्ट्वा वध्यमानं वलीमुखैः ।
6#3bಬಭೂವಾಸ್ಯ ವ್ಯಥಾ ಯುದ್ಧೇ ದೃಷ್ಟ್ವಾ ದೈವವಿಪರ್ಯಯಮ್ ॥6.97.3bबभूवास्य व्यथा युद्धे दृष्ट्वा दैवविपर्ययम् ॥ ३ ॥6.85.3bबभूवास्य व्यथा युद्धे प्रेक्ष्य दैवविपर्ययम् ॥6.85.3॥6.98.3bबभूवास्य व्यथा युद्धे प्रेक्ष्य दैवविपर्ययम् ।6.98.3aबभूवास्य व्यथा युद्धे प्रेक्ष्य दैवविपर्ययम्।
7#4aಉವಾಚ ಚ ಸಮೀಪಸ್ಥಂ ಮಹೋದರಮನಂತರಮ್ ।6.97.4aउवाच च समीपस्थं महोदरमनन्तरम् ।6.85.4aउवाच च समीपस्थं महोदरमरिंदमम् ।6.98.3cउवाच च समीपस्थं महोदरमरिंदमम् ॥ ३ ॥6.98.3bउवाच च समीपस्थं महोदरमरिन्दमम् ॥ 6.98.3 ॥
8#4bಅಸ್ಮಿನ್ಕಾಲೇ ಮಹಾಬಾಹೋಜಯಾಶಾ ತ್ವಯಿ ಮೇ ಸ್ಥಿತಾ ॥6.97.4bअस्मिन् काले महाबाहो जयाशा त्वयि मे स्थिता ॥ ४ ॥6.85.4bअस्मिन्काले महाबाहो जयाशा त्वयि मे स्थिता ॥6.85.4॥6.98.4aअस्मिन्काले महाबाहो जयाशा त्वयि मे स्थिता ।6.98.4aअस्मिन् काले महाबाहो जयाशा त्वयि मे स्थिता।
9#5ಜಹಿ ಶತ್ರುಚಮೂಂ ವೀರ ದರ್ಶಯಾದ್ಯಪರಾಕ್ರಮಮ್
ಭರ್ತೃಪಿಂಡಸ್ಯ ಕಾಲೋಽಯಂ ನಿರ್ದೇಷ್ಟುಂ ಸಾಧು ಯುಧ್ಯತಾಮ್ ॥
6.97.5aजहि शत्रुचमूं वीर दर्शयाद्य पराक्रमम् ।6.85.5aजहि शत्रुचमूं वीर दर्शयाद्य पराक्रमम् ।6.98.4bजहि शत्रुचमूं वीर दर्शयाद्य पराक्रमम् ।6.98.4bजहि शत्रुचमूं वीर दर्शयाद्य पराक्रमम् ॥ 6.98.4 ॥
106.97.5bभर्तृपिण्डस्य कालोऽयं निर्वेष्टुं साधु युध्यताम् ॥ ५ ॥6.85.5bभर्तृपिण्डस्य कालोऽयं निर्वेष्टुं साधु युध्यताम् ॥6.85.5॥6.98.4cभर्तृपिण्डस्य कालोऽयं निर्देष्टुं साधु युध्यताम् ॥ ४ ॥6.98.5भर्तृपिण्डस्य कालोऽयं निर्देष्टुं साधु युध्यताम् ॥ 6.98.5 ॥
11#6aಏವಮುಕ್ತಸ್ತಥೇತ್ಯುಕ್ತ್ವಾ ರಾಕ್ಷಸೇಂದ್ರೋ ಮಹೋದರಃ ।6.97.6aएवमुक्तस्तथेत्युक्त्वा राक्षसेन्द्रो महोदरः ।6.85.6aएवमुक्तस्तथेत्युक्त्वा राक्षसेन्द्रं महोदरः ।6.98.5aएवमुक्तस्तथेत्युक्त्वा राक्षसेन्द्रो महोदरः ।6.98.6aएवमुक्तस्तथेत्युक्त्वा राक्षसेन्द्रो महोदरः।
12#6bಪ್ರವಿವೇಶಾರಿಸೇನಾಂ ಸ ಪತಂಗ ಇವ ಪಾವಕಮ್ ॥6.97.6bप्रविवेशारिसेनां स पतङ्ग इव पावकम् ॥ ६ ॥6.85.6bप्रविवेशारिसेनां स पतंग इव पावकम् ॥6.85.6॥6.98.5bप्रविवेशारिसेनां तां पतङ्ग इव पावकम् ॥ ५ ॥6.98.6bप्रविवेशारिसेनां तां पतङ्ग इव पावकम् ॥ 6.98.6 ॥
13#7aತತಃ ಸ ಕದನಂ ಚಕ್ರೇ ವಾನರಾಣಾಂ ಮಹಾಬಲಃ ।6.97.7aततः स कदनं चक्रे वानराणां महाबलः ।6.85.7aततः स कदनं चक्रे वानराणां महाबलः ।6.98.6aततः स कदनं चक्रे वानराणां महाबलः ।6.98.7aततः स कदनं चक्रे वानराणां महाबलः।
14#7bಭರ್ತೃವಾಕ್ಯೇನ ತೇಜಸ್ವೀ ಸ್ವೇನ ವೀರ್ಯೇಣ ಚೋದಿತಃ ॥6.97.7bभर्तृवाक्येन तेजस्वी स्वेन वीर्येण चोदितः ॥ ७ ॥6.85.7bभर्तृवाक्येन तेजस्वी स्वेन वीर्येण चोदितः ॥6.85.7॥6.98.6bभर्तृवाक्येन तेजस्वी स्वेन वीर्येण चोदितः ॥ ६ ॥6.98.7bभर्तृवाक्येन तेजस्वी स्वेन वीर्येण चोदितः ॥ 6.98.7 ॥
15#8aವಾನರಾಶ್ಚ ಮಹಾಸತ್ತ್ವಾಃ ಪ್ರಗೃಹ್ಯ ವಿಪುಲಾಃ ಶಿಲಾಃ ।6.97.8aवानराश्च महासत्त्वाः प्रगृह्य विपुलाः शिलाः ।6.98.7aवानराश्च महासत्वाः प्रगृह्य विपुलाः शिलाः ।6.98.8aवानराश्च महासत्त्वाः प्रगृह्य विपुलाः शिलाः।
16#8bಪ್ರವಿಶ್ಯಾರಿಬಲಂ ಭೀಮಂ ಜಘ್ನುಸ್ತೇ ಸರ್ವರಾಕ್ಷಸಾನ್ ॥6.97.8bप्रविश्यारिबलं भीमं जघ्नुस्ते सर्वराक्षसान् ॥ ८ ॥6.98.7bप्रविश्यारिबलं भीमं जघ्नुस्ते रजनीचरान् ॥ ७ ॥6.98.8bप्रविश्यारिबलं भीमं जघ्नुस्ते रजनीचरान् ॥ 6.98.8 ॥
17#9aಮಹೋದರಃ ಸುಸಂಕ್ರುದ್ಧಃ ಶರೈಃ ಕಾಂಚನಭೂಷಣೈಃ ।6.97.9aमहोदरः सुसङ्क्रुद्धः शरैः काञ्चनभूषणैः ।6.98.8aमहोदरस्तु संक्रुद्धः शरैः काञ्चनभूषणैः ।6.98.9aमहोदरस्तु सङ्क्रुद्धः शरैः काञ्चनभूषणैः।
18#9bಚಚ್ಛೇದ ಪಾಣಿಪಾದೋರು ವಾನರಾಣಾಂ ಮಹಾಹವೇ ॥6.97.9bचिच्छेद पाणिपादोरु वानराणां महाहवे ॥ ९ ॥6.98.8bचिच्छेद पाणिपादोरून्वानराणां महाहवे ॥ ८ ॥6.98.9bचिच्छेद पाणिपादोरून् वानराणां महाहवे ॥ 6.98.9 ॥
19#10aತತಸ್ತೇ ವಾನರಾಃ ಸರ್ವೇ ರಾಕ್ಷಸೈರರ್ದಿತಾ ಭೃಶಮ್ ।6.97.10aततस्ते वानराः सर्वे राक्षसैरर्दिता भृशम् ।6.98.9aततस्ते वानराः सर्वे राक्षसैरर्दिता भृशम् ।6.98.10aततस्ते वानराः सर्वे राक्षसैरर्दिता भृशम्।
20#10bದಿಶೋ ದಶ ದ್ರುತಾಃ ಕೇಚಿತ್ಕೇಚಿತ್ಸುಗ್ರೀವಮಾಶ್ರಿತಾಃ ॥6.97.10bदिशो दश द्रुताः केचित् केचित् सुग्रीवमाश्रिताः ॥ १० ॥6.98.9bदिशो दश द्रुताः केचित्केचित्सुग्रीवमाश्रिताः ॥ ९ ॥6.98.10bदिशो दश द्रुताः केचित् केचित् सुग्रीवमाश्रिताः ॥ 6.98.10 ॥
21#11aಪ್ರಭಗ್ನಂ ಸಮರೇ ದೃಷ್ಟ್ವಾವಾನರಾಣಾಂ ಮಹಾಬಲಮ್ ।6.97.11aप्रभग्नं समरे दृष्ट्वा वानराणां महाबलम् ।6.85.8aप्रभग्नां समरे दृष्ट्वा वानराणां महाचमूम् ।6.98.10aप्रभग्नां समरे दृष्ट्वा वानराणां महाचमूम् ।6.98.11aप्रभग्नां समरे दृष्ट्वा वानराणां महाचमूम्।
22#11bಅಭಿದುದ್ರಾವ ಸುಗ್ರೀವೋ ಮಹೋದರಮನಂತರಮ್ ॥6.97.11bअभिदुद्राव सुग्रीवो महोदरमनन्तरम् ॥ ११ ॥6.85.8bअभिदुद्राव सुग्रीवो महोदरमनन्तरम् ॥6.85.8॥6.98.10bअभिदुद्राव सुग्रीवो महोदरमनन्तरम् ॥ १० ॥6.98.11bअभिदुद्राव सुग्रीवो महोदरमनन्तरम् ॥ 6.98.11 ॥
23#12aಪ್ರಗೃಹ್ಯ ವಿಪುಲಾಂ ಘೋರಾಂ ಮಹೀಧರ ಸಮಾಂ ಶಿಲಾಮ್ ।6.97.12aप्रगृह्य विपुलां घोरां महीधरसमां शिलाम् ।6.85.9aप्रगृह्य विपुलां घोरां महीधरसमां शिलाम् ।6.98.11aप्रगृह्य विपुलां घोरां महीधरसमां शिलाम् ।6.98.12aप्रगृह्य विपुलां घोरां महीधरसमां शिलाम्।
24#12bಚಿಕ್ಷೇಪ ಚ ಮಹಾತೇಜಾಸ್ತದ್ವಧಾಯ ಹರೀಶ್ವರಃ ॥6.97.12bचिक्षेप च महातेजास्तद्वधाय हरीश्वरः ॥ १२ ॥6.85.9bचिक्षेप च महातेजास्तद्वधाय हरीश्वरः ॥6.85.9॥6.98.11bचिक्षेप च महातेजास्तद्वधाय हरीश्वरः ॥ ११ ॥6.98.12bचिक्षेप च महातेजास्तद्वधाय हरीस्वरः ॥ 6.98.12 ॥
25#13aತಾಮಾಪತಂತೀಂ ಸಹಸಾ ಶಿಲಾಂ ದೃಷ್ಟ್ವಾಮಹೋದರಃ ।6.97.13aतामापतन्तीं सहसा शिलां दृष्ट्वा महोदरः ।6.85.10aतामापतन्तीं सहसा शिलां दृष्ट्वा महोदरः ।6.98.12aतामापतन्तीं सहसा शिलां दृष्ट्वा महोदरः ।6.98.13aतामापतन्तीं सहसा शिलां दृष्ट्वा महोदरः।
26#13bಅಸಂಭ್ರಾಂತಸ್ತತೋ ಬಾಣೈರ್ನಿರ್ಬಿಭೇದ ದುರಾಸದಾಮ್ ॥6.97.13bअसम्भ्रान्तस्ततो बाणैर्निर्बिभेद दुरासदाम् ॥ १३ ॥6.85.10bअसंभ्रान्तस्ततो बाणैर्निर्बिभेद दुरासदाम् ॥6.85.10॥6.98.12bअसंभ्रान्तस्ततो बाणैनिर्विभेद दुरासदाम् ॥ १२ ॥6.98.13bअसम्भ्रान्तस्ततो बाणैर्निर्बिभेद दुरासदाम् ॥ 6.98.13 ॥
27#14aರಕ್ಷಸಾ ತೇನ ಬಾಣೌಘೈರ್ನಿಕೃತ್ತಾ ಸಾ ಸಹಸ್ರಧಾ ।6.97.14aरक्षसा तेन बाणौघैर्निकृत्ता सा सहस्रधा ।6.85.11aरक्षसा तेन बाणौघैर्निकृत्ता सा सहस्रधा ।6.98.13aरक्षसा तेन बाणौघैर्निकृत्ता सा सहस्रधा ।6.98.14aरक्षसा तेन बाणौघैर्निकृत्ता सा सहस्रधा।
28#14bನಿಪಪಾತ ತದಾ ಭೂಮೌ ಗೃಧ್ರಚಕ್ರಮಿವಾಕುಲಮ್ ॥6.97.14bनिपपात तदा भूमौ गृध्रचक्रमिवाकुलम् ॥ १४ ॥6.85.11bनिपपात शिला भूमौ गृध्रचक्रमिवाकुलम् ॥6.85.11॥6.98.13bनिपपात शिला भूमौ गृध्रचक्रमिवाकुलम् ॥ १३ ॥6.98.14bनिपपात शिला भूमौ गृध्रचक्रमिवाकुलम् ॥ 6.98.14 ॥
29#15aತಾಂ ತು ಭಿನ್ನಾಂ ಶಿಲಾಂ ದೃಷ್ಟ್ವಾ ಸುಗ್ರೀವಃ ಕ್ರೋಧಮೂರ್ಛಿತಃ ।6.97.15aतां तु भिन्नां शिलां दृष्ट्वा सुग्रीवः क्रोधमूर्च्छितः ।6.85.12aतां तु भिन्नां शिलां दृष्ट्वा सुग्रीवः क्रोधमूर्छितः ।6.98.14aतां तु भिन्नां शिलां दृष्ट्वा सुग्रीवः क्रोधमूर्च्छितः ।6.98.15aतां तु भिन्नां शिलां दृष्ट्वा सुग्रीवः क्रोधमूर्च्छितः।
30#15bಸಾಲಮುತ್ಪಾಟ್ಯ ಚಿಕ್ಷೇಪ ತಂ ಸ ಚಿಚ್ಛೇದ ನೈಕಧಾ ॥6.97.15bसालमुत्पाट्य चिक्षेप तं स चिच्छेद नैकधा ॥ १५ ॥6.85.12bसालमुत्पाट्य चिक्षेप रक्षसे रणमूर्धनि ।6.98.14bसालमुत्पाट्य चिक्षेप राक्षसे रणमूर्धनि ॥ १४ ॥6.98.15bसालमुत्पाट्य चिक्षेप राक्षसे रणमूर्धनि ॥ 6.98.15 ॥
31#16aಶರೈಶ್ಚ ವಿದದಾರೈನಂ ಶೂರಃ ಪರಬಲಾರ್ದನಃ ।6.97.16aशरैश्च विददारैनं शूरः परबलार्दनः ।6.85.12cशरैश्च विददारैनं शूरः परपुरंजयः ॥6.85.12॥6.98.15शरैश्च विददारैनं शूरः परपुरंजयः ॥ १५ ॥6.98.16शरैश्च विददारैनं शूरः परपुरञ्जयः ॥ 6.98.16 ॥
32#16bಸ ದದರ್ಶ ತತಃ ಕ್ರುದ್ಧಃ ಪರಿಘಂ ಪತಿತಂ ಭುವಿ ॥6.97.16bस ददर्श ततः क्रुद्धः परिघं पतितं भुवि ॥ १६ ॥6.85.13aस ददर्श ततः क्रुद्धः परिघं पतितं भुवि ।6.98.16aस ददर्श ततः क्रुद्धः परिघं पतितं भुवि ।6.98.17स ददर्श ततः क्रुद्धः परिघं पतितं भुवि ॥ 6.98.17 ॥
33#17aಆವಿಧ್ಯತು ಸ ತಂ ದೀಪ್ತಂ ಪರಿಘಂ ತಸ್ಯ ದರ್ಶಯನ್ ।6.97.17aआविध्य तु स तं दीप्तं परिघं तस्य दर्शयन् ।6.85.13bआविध्य तु स तं दीप्तं परिघं तस्य दर्शयन् ।6.98.16bआविध्य तु स तं दीप्तं परिघं तस्य दर्शयन् ।6.98.18aआविध्य तु स तं दीप्तं परिघं तस्य दर्शयन्।
34#17bಪರಿಘೇಣೋಗ್ರ ವೇಗೇನ ಜಘಾನಾಸ್ಯ ಹಯೋತ್ತಮಾನ್ ॥6.97.17bपरिघेणोग्रवेगेन जघानास्य हयोत्तमान् ॥ १७ ॥6.85.13cपरिघाग्रेण वेगेन जघानास्य हयोत्तमान् ॥6.85.13॥6.98.16cपरिघाग्रेण वेगेन जघानास्य हयोत्तमान् ॥ १६ ॥6.98.18bपरिघाग्रेण वेगेन जघानास्य हयोत्तमान् ॥ 6.98.18 ॥
35#18aತಸ್ಮಾದ್ಧತಹಯಾದ್ವೀರಃ ಸೋಽವಪ್ಲುತ್ಯ ಮಹಾರಥಾತ್ ।6.97.18aतस्माद्धतहयाद् वीरः सोऽवप्लुत्य महारथात् ।6.85.14aतस्माद्धतहयाद्वीरः सोऽवप्लुत्य महारथात् ।6.98.17aतस्माद्धतहयाद्वीरः सोवप्लुत्य महारथात् ।6.98.19aतस्माद्धतहयाद्वीरः सोऽवप्लुत्य महारथात्।
36#18bಗದಾಂ ಜಗ್ರಾಹ ಸಂಕ್ರುದ್ಧೋ ರಾಕ್ಷಸೋಽಥ ಮಹೋದರಃ ॥6.97.18bगदां जग्राह सङ्क्रुद्धो राक्षसोऽथ महोदरः ॥ १८ ॥6.85.14bगदां जग्राह संक्रुद्धो राक्षसोऽथ महोदरः ॥6.85.14॥6.98.17bगदां जग्राह संक्रुद्धो राक्षसोथ महोदरः ॥ १७ ॥6.98.19bगदां जग्राह सङ्क्रुद्धो राक्षसोऽथ महोदरः ॥ 6.98.19 ॥
37#19aಗದಾಪರಿಘಹಸ್ತೌ ತೌ ಯುಧಿ ವೀರೌ ಸಮೀಯತುಃ ।6.97.19aगदापरिघहस्तौ तौ युधि वीरौ समीयतुः ।6.85.15aगदापरिघहस्तौ तौ युधि वीरौ समीयतुः ।6.98.18aगदापरिघहस्तौ तौ युधि वीरौ समीयतुः ।6.98.20aगदापरिघहस्तौ तौ युधि वीरौ समीयतुः।
38#19bನರ್ದಂತೌ ಗೋವೃಷಪ್ರಖ್ಯೌ ಘನಾವಿವ ಸವಿದ್ಯುತೌ ॥6.97.19bनर्दन्तौ गोवृषप्रख्यौ घनाविव सविद्युतौ ॥ १९ ॥6.85.15bनर्दन्तौ गोवृषप्रख्यौ घनाविव सविद्युतौ ॥6.85.15॥6.98.18bनर्दन्तौ गोवृषप्रख्यौ घनाविव सविद्युतौ ॥ १८ ॥6.98.20bनर्दन्तौ गौवृषप्रख्यौ घनाविव सविद्युतौ ॥ 6.98.20 ॥
39#20aತತಃ ಕ್ರುದ್ಧೋ ಗದಾಂ ತಸ್ಮೈ ಚಿಕ್ಷೇಪ ರಜನೀಚರಃ ।6.97.20aततः क्रुद्धो गदां तस्मै चिक्षेप रजनीचरः ।6.98.19aततः क्रुद्धो गदां तस्मै चिक्षेप रजनीचरः ।6.98.21aततः क्रुद्धो गदां तस्मै चिक्षेप रजनीचरः।
40#20bಜ್ವಲಂತೀಂ ಭಾಸ್ಕರಾಭಾಸಾಂ ಸುಗ್ರೀವಾಯ ಮಹೋದರಃ ॥6.97.20bज्वलन्तीं भास्कराभासां सुग्रीवाय महोदरः ॥ २० ॥6.98.19bज्वलन्तीं भास्कराभासां सुग्रीवाय महोदरः ॥ १९ ॥6.98.21bज्वलन्तीं भास्कराभासां सुग्रीवाय महोदरः ॥ 6.98.21 ॥
41#21aಗದಾಂ ತಾಂ ಸುಮಹಾಘೋರಾಮಾಪತಂತೀಂ ಮಹಾಬಲಃ ।6.97.21aगदां तां सुमहाघोरामापतन्तीं महाबलः ।6.98.20aगदां तां सुमहाघोरामापतन्तीं महाबलः ।
42#21bಸುಗ್ರೀವೋ ರೋಷತಾಮ್ರಾಕ್ಷಃ ಸಮುದ್ಯಮ್ಯ ಮಹಾಹವೇ ॥6.97.21bसुग्रीवो रोषताम्राक्षः समुद्यम्य महाहवे ॥ २१ ॥6.98.20bसुग्रीवो रोषताम्राक्षः समुद्यम्य महाहवे ।6.98.22aसुग्रीवो रोषताम्राक्षः समुद्यम्य महाहवे।
43#22aಆಜಘಾನ ಗದಾಂ ತಸ್ಯ ಪರಿಘೇಣ ಹರೀಶ್ವರಃ ।6.97.22aआजघान गदां तस्य परिघेण हरीश्वरः ।6.85.16aआजघान गदां तस्य परिघेण हरीश्वरः ।6.98.20cआजधान गदां तस्य परिषेण हरीश्वरः ॥ २० ॥6.98.22bआजघान गदां तस्य परिघेण हरीश्वरः ॥ 6.98.22 ॥
44#22bಪಪಾತ ತರಸಾ ಭಿನ್ನಃ ಪರಿಘಸ್ತಸ್ಯ ಭೂತಲೇ ॥6.97.22bपपात तरसा भिन्नः परिघस्तस्य भूतले ॥ २२ ॥6.85.16bपपात स गदोद्भिन्नः परिघस्तस्य भूतले ॥6.85.16॥6.98.21पपात स गदोद्भिन्नः परिघस्तस्य भूतले ॥ २१ ॥6.98.23पपात स गदोद्भिन्नः परिघस्तस्य भूतले ॥ 6.98.23 ॥
45#23aತತೋ ಜಗ್ರಾಹ ತೇಜಸ್ವೀ ಸುಗ್ರೀವೋ ವಸುಧಾತಲಾತ್ ।6.97.23aततो जग्राह तेजस्वी सुग्रीवो वसुधातलात् ।6.85.17aततो जग्राह तेजस्वी सुग्रीवो वसुधातलात् ।6.98.22aततो जग्राह तेजस्वी सुग्रीवो वसुधातलात् ।6.98.24aततो जग्राह तेजस्वी सुग्रीवो वसुधातलात्।
46#23bಆಯಸಂ ಮುಸಲಂ ಘೋರಂ ಸರ್ವತೋ ಹೇಮಭೂಷಿತಮ್ ॥6.97.23bआयसं मुसलं घोरं सर्वतो हेमभूषितम् ॥ २३ ॥6.85.17bआयसं मुसलं घोरं सर्वतो हेमभूषितम् ॥6.85.17॥6.98.22bआयसं मुसलं घोरं सर्वतो हेमभूषितम् ॥ २२ ॥6.98.24bआयसं मुसलं घोरं सर्वतो हेमभूषितम् ॥ 6.98.24 ॥
47#24aಸ ತಮುದ್ಯಮ್ಯ ಚಿಕ್ಷೇಪ ಸೋಽಪ್ಯಸ್ಯ ಪ್ರಕ್ಷಿಪದ್ಗದಾಮ್ ।6.97.24aस तमुद्यम्य चिक्षेप सोऽप्यस्य प्राक्षिपद् गदाम् ।6.85.18aतं समुद्यम्य चिक्षेप सोऽप्यन्यां व्याक्षिपद्गदाम् ।6.98.23aस तमुद्यम्य चिक्षेप सोप्यन्यां व्याक्षिपद्गदाम् ।6.98.25aस तमुद्यम्य चिक्षेप सोऽप्यन्यां व्याक्षिपद्गदाम्।
48#24bಭಿನ್ನಾವನ್ಯೋನ್ಯಮಾಸಾದ್ಯ ಪೇತತುಸ್ತೌ ಮಹೀತಲೇ ॥6.97.24bभिन्नावन्योन्यमासाद्य पेततुस्तौ महीतले ॥ २४ ॥6.85.18bभिन्नावन्योन्यमासाद्य पेततुर्धरणीतले ॥6.85.18॥6.98.23bभिन्नावन्योन्यमासाद्य पेततुर्धरणीतले ॥ २३ ॥6.98.25bभिन्नावन्योन्यमासाद्य पेततुर्धरणीतले ॥ 6.98.25 ॥
49#25aತತೋ ಭಿನ್ನಪ್ರಹರಣೌ ಮುಷ್ಟಿಭ್ಯಾಂ ತೌ ಸಮೀಯತುಃ ।6.97.25aततो भिन्नप्रहरणौ मुष्टिभ्यां तौ समीयतुः ।6.85.19aततो भग्नप्रहरणौ मुष्टिभ्यां तौ समीयतुः ।6.98.24aततो भग्नप्रहरणौ मुष्टिभ्यां तौ समीयतुः ।6.98.26aततो भग्नप्रहरणौ मुष्टिभ्यां तौ समीयतुः।
50#25bತೇಜೋಬಲಸಮಾವಿಷ್ಟೌ ದೀಪ್ತಾವಿವ ಹುತಾಶನೌ ॥6.97.25bतेजोबलसमाविष्टौ दीप्ताविव हुताशनौ ॥ २५ ॥6.85.19bतेजोबलसमाविष्टौ दीप्ताविव हुताशनौ ॥6.85.19॥6.98.24bतेजोबलसमाविष्टौ दीप्ताविव हुताशनौ ॥ २४ ॥6.98.26bतेजोबलसमाविष्टौ दीप्ताविव हुताशनौ ॥ 6.98.26 ॥
51#26aಜಘ್ನತುಸ್ತೌ ತದಾನ್ಯೋನ್ಯಂ ನೇದತುಶ್ಚ ಪುನಃ ಪುನಃ ।6.97.26aजघ्नतुस्तौ तदान्योन्यं नदन्तौ च पुनः पुनः ।6.85.20aजघ्नतुस्तौ तदान्योन्यं नेदतुश्च पुनः पुनः ।6.98.25aजघ्नुतुस्तौ तदाऽन्योन्यं नेदतुश्च पुनः पुनः ।6.98.27aजघ्नतुस्तौ तदाऽन्योन्यं नेदतुश्च पुनःपुनः।
52#26bತಲೈ ಶ್ಚಾನ್ಯೋನ್ಯಮಾಸಾದ್ಯ ಪೇತತುಶ್ಚ ಮಹೀತಲೇ ॥6.97.26bतलैश्चान्योन्यमासाद्य पेततुश्च महीतले ॥ २६ ॥6.85.20bतलैश्चान्योन्यमाहत्य पेततुर्धरणीतले ॥6.85.20॥6.98.25bतलैश्चान्योन्यमाहत्य पेततुर्धरणीतले ॥ २५ ॥6.98.27bतलैश्चान्योन्यमाहत्य पेततुर्धरणीतले ॥ 6.98.27 ॥
53#27aಉತ್ಪೇತತುಸ್ತದಾ ತೂರ್ಣಂ ಜಘ್ನತುಶ್ಚ ಪರಸ್ಪರಮ್ ।6.97.27aउत्पेततुस्तदा तूर्णं जघ्नतुश्च परस्परम् ।6.85.21aउत्पेततुस्ततस्तूर्णं जघ्नतुश्च परस्परम् ।6.98.26aउत्पेततुस्ततस्तूर्णं जघ्नुतुश्च परस्परम् ।
54#27bಭುಜೈಶ್ಚಿಕ್ಷಿಪತುರ್ವೀರಾವನ್ಯೋನ್ಯಮಪರಾಜಿತೌ ॥6.97.27bभुजैश्चिक्षिपतुर्वीरावन्योन्यमपराजितौ ॥ २७ ॥6.85.21bभुजैश्चिक्षेपतुर्वीरावन्योन्यमपराजितौ ॥6.85.21॥6.98.26bभुजैश्चिक्षिपतुर्वीरावन्योन्यमपराजितौ ।6.98.28aभुजैश्चिक्षिपतुर्वीरावन्योन्यमपराजितौ।
55#28aಜಗ್ಮತುಸ್ತೌ ಶ್ರಮಂ ವೀರೌ ಬಾಹುಯುದ್ಧೇ ಪರಂತಪೌ ।6.97.28aजग्मतुस्तौ श्रमं वीरौ बाहुयुद्धे परन्तपौ ।6.98.26cजग्मतुस्तौ श्रमं वीरौ बाहुयुद्धे परंतपौ ॥ २६ ॥6.98.28bजग्मतुस्तौ श्रमं वीरौ बाहुयुद्धे परन्तपौ ॥ 6.98.28 ॥
56#28bಆಜಹಾರ ತದಾ ಖಡ್ಗಮದೂರ ಪರಿವರ್ತಿನಮ್ ॥6.97.28bआजहार तदा खड्गमदूरपरिवर्तिनम् ॥ २८ ॥6.85.22aआजहार तदा खड्गमदूरपरिवर्तिनम् ।6.98.27aआजहार ततः खड्गमदूरपरिवर्तिनम् ।6.98.29aआजहार ततः खड्गमदूरपरिवर्तिनम्।
57#29aರಾಕ್ಷಸಶ್ಚರ್ಮಣಾ ಸಾರ್ಧಂ ಮಹಾವೇಗೋ ಮಹೋದರಃ ।6.97.29aराक्षसश्चर्मणा सार्धं महावेगो महोदरः ।6.85.22bराक्षसश्चर्मणा सार्धं महावेगो महोदरः ॥6.85.22॥6.98.27bराक्षसश्चर्मणा सार्धं महावेगो महोदरः ॥ २७ ॥6.98.29bराक्षसश्चर्मणा सार्धं महावेगो महोदरः ॥ 6.98.29 ॥
58#29bತಥೈವ ಚ ಮಹಾಖಡ್ಗಂ ಚರ್ಮಣಾ ಪತಿತಂ ಸಹ ।6.97.29bतथैव च महाखड्गं चर्मणा पतितं सह ।6.85.23aतथैव च महाखड्गं चर्मणा पतितं सह ।6.98.28aतथैव च महाखङ्गं चर्मणा पतितं सह ।6.98.30aतथैव च महाखड्गं चर्मणा पतितं सह।
59#29cಜಗ್ರಾಹ ವಾನರಶ್ರೇಷ್ಠಃ ಸುಗ್ರೀವೋ ವೇಗವತ್ತರಃ ॥6.97.29cजग्राह वानरश्रेष्ठः सुग्रीवो वेगवत्तरः ॥ २९ ॥6.85.23bजग्राह वानरश्रेष्ठः सुग्रीवो वेगवत्तरः ॥6.85.23॥6.98.28bजग्राह वानरश्रेष्ठः सुग्रीवो वेगवत्तरः ॥ २८ ॥6.98.30bजग्राह वानरश्रेष्ठः सुग्रीवो वेगवत्तरः ॥ 6.98.30 ॥
60#30aತತೋ ರೋಷಪರೀತಾಂಗೌ ನರ್ದಂತಾವಭ್ಯಧಾವತಾಮ್ ।6.97.30aततो रोषपरीताङ्गौ नदन्तावभ्यधावताम् ।6.85.24aतौ तु रोषपरीताङ्गौ नर्दन्तावभ्यधावताम् ।6.98.29aतौ तु रोषपरीताङ्गौ नर्दन्तावभ्यधावताम् ।6.98.31aतौ तु रोषपरीताङ्गौ नर्दन्तावभ्यधावताम्।
61#30bಉದ್ಯತಾಸೀ ರಣೇ ಹೃಷ್ಟೌ ಯುಧಿ ಶಸ್ತ್ರವಿಶಾರದೌ ॥6.97.30bउद्यतासी रणे हृष्टौ युधि शस्त्रविशारदौ ॥ ३० ॥6.85.24bउद्यतासी रणे हृष्टौ युधि शस्त्रविशारदौ ॥6.85.24॥6.98.29bउद्यतासी रण हृष्टौ युधि शस्त्रविशारदौ ॥ २९ ॥6.98.31bउद्यतासी रणे हृष्टौ युधि शस्त्रविशारदौ ॥ 6.98.31 ॥
62#31aದಕ್ಷಿಣಂ ಮಂಡಲಂ ಚೋಭೌ ಸುತೂರ್ಣಂ ಸಂಪರೀಯತುಃ ।6.97.31aदक्षिणं मण्डलं चोभौ सुतूर्णं सम्परीयतुः ।6.85.25aदक्षिणं मण्डलं चोभौ तौ तूर्णं संपरीयतुः ।6.98.30aदक्षिणं मण्डलं चोभौ सुतूर्णं संपरीयतुः ।6.98.32aदक्षिणं मण्डलं चोभौ सुतूर्णं सम्परीयतुः।
63#31bಅನ್ಯೋನ್ಯಮಭಿಸಂಕ್ರುದ್ಧೌ ಜಯೇ ಪ್ರಣಿಹಿತಾವುಭೌ ॥6.97.31bअन्योन्यमभिसङ्क्रुद्धौ जये प्रणिहितावुभौ ॥ ३१ ॥6.85.25bअन्योन्यमभिसंक्रुद्धौ जये प्रणिहितावुभौ ॥6.85.25॥6.98.30bअन्योन्यमभिसंक्रुद्धौ जये प्रणिहितावुभौ ॥ ३० ॥6.98.32bअन्योन्यमभिसङ्क्रुद्धौ जये प्रणिहितावुभौ ॥ 6.98.32 ॥
64#32aಸ ತು ಶೂರೋ ಮಹಾವೇಗೋ ವೀರ್ಯಶ್ಲಾಘೀ ಮಹೋದರಃ ।6.97.32aस तु शूरो महावेगो वीर्यश्लाघी महोदरः ।6.85.26aस तु शूरो महावेगो वीर्यश्लाघी महोदरः ।6.98.31aस तु शूरो महावेगो वीर्यश्लाघी महोदरः ।6.98.33aस तु शूरो महावेगो वीर्यश्लाघी महोदरः।
65#32bಮಹಾವರ್ಮಣಿ ತಂ ಖಡ್ಗಂ ಪಾತಯಾಮಾಸ ದುರ್ಮತಿಃ ॥6.97.32bमहावर्मणि तं खड्गं पातयामास दुर्मतिः ॥ ३२ ॥6.85.26bमहाचर्मणि तं खड्गं पातयामास दुर्मतिः ॥6.85.26॥6.98.31bमहाचर्मणि तं खङ्गं पातयामास दुर्मतिः ॥ ३१ ॥6.98.33bमहाचर्मणि तं खड्गं पातयामास दुर्मतिः ॥ 6.98.33 ॥
66#33aಲಗ್ನ ಮುತ್ಕರ್ಷತಃ ಖಡ್ಗಂ ಖಡ್ಗೇನ ಕಪಿಕುಂಜರಃ ।6.97.33aलग्नमुत्कर्षतः खड्गं खड्गेन कपिकुञ्जरः ।6.85.27aलग्नमुत्कर्षतः खड्गं खड्गेन कपिकुञ्जरः ।6.98.32aलग्नमुत्कर्षतः खङ्गं खड्गेन कपिकुञ्जरः ।6.98.34aलग्नमुत्कर्षतः खड्गं खड्गेन कपिकुञ्जरः।
67#33bಜಹಾರ ಸಶಿರಸ್ತ್ರಾಣಂ ಕುಂಡಲೋಪಗತಂ ಶಿರಃ ॥6.97.33bजहार सशिरस्त्राणं कुण्डलोपगतं शिरः ॥ ३३ ॥6.85.27bजहार सशिरस्त्राणं कुण्डलोपहितं शिरः ॥6.85.27॥6.98.32bजहार सशिरस्त्राणं कुण्डलोपहितं शिरः ॥ ३२ ॥6.98.34bजहार सशिरस्त्राणं कुण्डलोपहितं शिरः ॥ 6.98.34 ॥
68#34aನಿಕೃತ್ತಶಿರಸಸ್ತಸ್ಯ ಪತಿತಸ್ಯ ಮಹೀತಲೇ ।6.97.34aनिकृत्तशिरसस्तस्य पतितस्य महीतले ।6.85.28aनिकृत्तशिरसस्तस्य पतितस्य महीतले ।6.98.33aनिकृत्तशिरसस्तस्य पतितस्य महीतले ।6.98.35aनिकृत्तशिरसस्तस्य पतितस्य महीतले।
69#34bತದ್ಬಲಂ ರಾಕ್ಷಸೇಂದ್ರಸ್ಯ ದೃಷ್ಟ್ವಾತತ್ರ ನ ದೃಶ್ಯತೇ ॥6.97.34bतद् बलं राक्षसेन्द्रस्य दृष्ट्वा तत्र न दृश्यते ॥ ३४ ॥6.85.28bतद्बलं राक्षसेन्द्रस्य दृष्ट्वा तत्र न तिष्ठति ॥6.85.28॥6.98.33bतद्बलं राक्षसेन्द्रस्य दृष्ट्वा तत्र न तिष्ठते ॥ ३३ ॥6.98.35bतद्बलं राक्षसेन्द्रस्य दृष्ट्वा तत्र न तिष्ठते ॥ 6.98.35 ॥
70#35aಹತ್ವಾ ತಂ ವಾನರೈಃ ಸಾರ್ಧಂ ನನಾದ ಮುದಿತೋ ಹರಿಃ ।6.97.35aहत्वा तं वानरैः सार्धं ननाद मुदितो हरिः ।6.85.29aहत्वा तं वानरैः सार्धं ननाद मुदितो हरिः ।6.98.34aहत्वा तं वानरैः सार्धं ननाद मुदितो हरिः ।6.98.36aहत्वा तं वानरैः सार्धं ननाद मुदितो हरिः।
71#35bಚುಕ್ರೋಧ ಚ ದಶಗ್ರೀವೋ ಬಭೌಹೃಷ್ಟಶ್ಚ ರಾಘವಃ ॥6.97.35bचुक्रोध च दशग्रीवो बभौ हृष्टश्च राघवः ॥ ३५ ॥6.85.29bचुक्रोध च दशग्रीवो बभौ हृष्टश्च राघवः ॥6.85.29॥6.98.34bचुक्रोध च दशग्रीवो बभौ हृष्टश्च राघवः ॥ ३४ ॥6.98.36bचुक्रोध च दशग्रीवो बभौ हृष्टश्च राघवः ॥ 6.98.36 ॥
72#36aವಿಷಣ್ಣವದನಾಃ ಸರ್ವೇ ರಾಕ್ಷಸಾ ದೀನಚೇತಸಃ ।6.97.36aविषण्णवदनाः सर्वे राक्षसा दीनचेतसः ।6.98.35aविषण्णवदनाः सर्वे राक्षसा दीनचेतसः ।6.98.37aविषण्णवदनाः सर्वे राक्षसा दीनचेतसः।
73#36bವಿದ್ರವಂತಿ ತತಃ ಸರ್ವೇ ಭಯವಿತ್ರಸ್ತಚೇತಸಃ ॥6.97.36bविद्रवन्ति ततः सर्वे भयवित्रस्तचेतसः ॥ ३६ ॥6.98.35bविद्रवन्ति ततः सर्वे भयवित्रस्तचेतसः ॥ ३५ ॥6.98.37bविद्रवन्ति ततः सर्वे भयवित्रस्तचेतसः ॥ 6.98.37 ॥
74#37aಮಹೋದರಂ ತಂ ವಿನಿಪಾತ್ಯ ಭೂಮೌ
ಮಹಾಗಿರೇಃ ಕೀರ್ಣಮಿವೈಕದೇಶಮ್ ।
6.97.37aमहोदरं तं विनिपात्य भूमौ
महागिरेः कीर्णमिवैकदेशम् ।
6.98.36aमहोदरं तं विनिपात्य भूमौ महागिरेः कीर्णमिवैकदेशम् ।6.98.38aमहोदरं तं विनिपात्य भूमौ महागिरेः कीर्णमिवैकदेशम्।
75#37bಸೂರ್ಯಾತ್ಮಜಸ್ತತ್ರ ರರಾಜ ಲಕ್ಷ್ಮ್ಯಾ
ಸೂರ್ಯಃ ಸ್ವತೇಜೋಭಿರಿವಾಪ್ರಧೃಷ್ಯಃ ॥
6.97.37bसूर्यात्मजस्तत्र रराज लक्ष्म्या
सूर्यः स्वतेजोभिरिवाप्रधृष्यः ॥ ३७ ॥
6.98.36bसूर्यात्मजस्तत्र रराज लक्ष्म्या सूर्यः स्वतेजोभिरिवाप्रधृष्यः ॥ ३६ ॥6.98.38bसूर्यात्मजस्तत्र रराज लक्ष्म्या सूर्यः स्वतेजोभिरिवाप्रधृष्यः ॥ 6.98.38 ॥
76#38aಅಥ ವಿಜಯಮವಾಪ್ಯ ವಾನರೇಂದ್ರಃ
ಸಮರಮುಖೇ ಸುರಸಿದ್ಧ ಯಕ್ಷಸಂಘೈಃ ।
6.97.38aअथ विजयमवाप्य वानरेन्द्रः
समरमुखे सुरसिद्धयक्षसङ्घैः ।
6.98.37aअथ विजयमवाप्य वानरेन्द्रः समरमुखे सुरयक्षसिद्धसङ्घैः ।6.98.39aअथ विजयमवाप्य वानरेन्द्रः समरमुखे सुरयक्षसिद्धसङ्घैः।
77#38bಅವನಿತಲಗತೈಶ್ಚ ಭೂತಸಂಘೈ-
ರ್ಹರುಷಸಮಾಕುಲಿತೈ ನಿರೀಕ್ಷ್ಯಮಾಣಃ ॥
6.97.38bअवनितलगतैश्च भूतसङ्घै-
र्हरुषसमाकुलितैर्निरीक्ष्यमाणः ॥ ३८ ॥
6.98.37bअवनितलगतैश्च भूतसङ्घैर्हरुषसमांकुलितैः स्तुतो महात्मा ॥ ३७ ॥6.98.39bअवनितलगतैश्च भूतसङ्घैर्हरुषसमाकुलितैः स्तुतो महात्मा ॥ 6.98.39 ॥
786.98.98इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने अष्टनवतितमः सर्गः ॥ ९८ ॥