इन्द्रजिता पुनर्युद्धभूमिप्रवेशः. Built from structured/verses.jsonl. Rows are monotone-aligned half-verse/pāda-like units split at । and ॥, so verse-number boundary differences can appear as inserted or shifted line rows.
73 aligned line rows across 7 source streams.
gor-kn 70 lines
gor-hi 70 lines
crit 68 lines
gr 71 lines
dr-mula 69 lines
| # | gor-kn | gor-hi | crit | gr | dr-mula | gr-iitk | iitk |
|---|---|---|---|---|---|---|---|
| 1 | #1aಅಥ ತಸ್ಯಾಮವಸ್ಥಾಯಾಂ ಲಕ್ಷ್ಮಣಂ ರಾವಣಾನುಜಃ । | 6.86.1aअथ तस्यामवस्थायां लक्ष्मणं रावणानुजः । | 6.73.1aअथ तस्यामवस्थायां लक्ष्मणं रावणानुजः । | 6.86.1aअथ तस्यामवस्थायां लक्ष्मणं रावणानुजः । | 6.86.1aअथ तस्यामवस्थायां लक्ष्मणं रावणानुजः। | ||
| 2 | #1bಪರೇಷಾಮಹಿತಂ ವಾಕ್ಯಮರ್ಥಸಾಧಕಮಬ್ರವೀತ್ ॥ | 6.86.1bपरेषामहितं वाक्यमर्थसाधकमब्रवीत् ॥ १ ॥ | 6.73.1bपरेषामहितं वाक्यमर्थसाधकमब्रवीत् ॥6.73.1॥ | 6.86.1bपरेषामहितं वाक्यमर्थसाधकमब्रवीत् ॥ १ ॥ | 6.86.1bपरेषामहितं वाक्यमर्थसाधकमब्रवीत् ॥ 6.86.1 ॥ | ||
| 3 | #2aಯದೇತದ್ರಾಕ್ಷಸಾನೀಕಂ ಮೇಘಶ್ಯಾಮಂ ವಿಲೋಕ್ಯತೇ । | 6.86.2aयदेतद् राक्षसानीकं मेघश्यामं विलोक्यते । | 6.86.2aयदेतद्राक्षसानीकं मेघश्यामं विलोक्यते । | 6.86.2aयदेतद्राक्षसानीकं मेघश्यामं विलोक्यते। | |||
| 4 | #2bಏತದಾಯೋಧ್ಯತಾಂ ಶೀಘ್ರಂ ಕಪಿಭಿಶ್ಚ ಶಿಲಾಯುಧೈಃ ॥ | 6.86.2bएतदायोध्यतां शीघ्रं कपिभिश्च शिलायुधैः ॥ २ ॥ | 6.86.2bएतदायोध्यतां शीघ्रं कपिभिः पादपायुधैः ॥ २ ॥ | 6.86.2bएतदायोध्यतां शीघ्रं कपिभिः पादपायुधैः ॥ 6.86.2 ॥ | |||
| 5 | #3aತಸ್ಯಾನೀಕಸ್ಯ ಮಹತೋ ಭೇದನೇ ಯತ ಲಕ್ಷ್ಮಣ । | 6.86.3aतस्यानीकस्य महतो भेदने यत लक्ष्मण । | 6.73.2aअस्यानीकस्य महतो भेदने यतलक्ष्मण । | 6.86.3aअस्थानीकस्य महतो भेदने यत लक्ष्मण । | 6.86.3aअस्यानीकस्य महतो भेदने यत लक्ष्मण। | ||
| 6 | #3bರಾಕ್ಷಸೇಂದ್ರ ಸುತೋಽಪ್ಯತ್ರ ಭಿನ್ನೇದೃಶ್ಯೋ ಭವಿಷ್ಯತಿ ॥ | 6.86.3bराक्षसेन्द्रसुतोऽप्यत्र भिन्ने दृश्यो भविष्यति ॥ ३ ॥ | 6.73.2bराक्षसेन्द्रसुतोऽप्यत्र भिन्ने दृश्यो भविष्यति ॥6.73.2॥ | 6.86.3bराक्षसेन्द्रसुतोप्यत्र भिन्ने दृश्यो भविष्यति ॥ ३ ॥ | 6.86.3bराक्षसेन्द्रसुतोऽप्यत्र भिन्ने दृश्यो भविष्यति ॥ 6.86.3 ॥ | ||
| 7 | #4aಸ ತ್ವಮಿಂದ್ರಾಶನಿಪ್ರಖ್ಯೈಃ ಶರೈರವಕಿರನ್ಪರಾನ್ । | 6.86.4aस त्वमिन्द्राशनिप्रख्यैः शरैरवकिरन् परान् । | 6.73.3aस त्वमिन्द्राशनिप्रख्यैः शरैरवकिरन्परान् । | 6.86.4aस त्वमिन्द्राशनिप्रख्यैः शरैरवकिरन्परान् । | 6.86.4aस त्वमिन्द्राशनिप्रख्यैः शरैरवकिरन् परान्। | ||
| 8 | #4bಅಭಿದ್ರವಾಶು ಯಾವದ್ವೈ ನೈತತ್ ಕರ್ಮ ಸಮಾಪ್ಯತೇ ॥ | 6.86.4bअभिद्रवाशु यावद् वै नैतत् कर्म समाप्यते ॥ ४ ॥ | 6.73.3bअभिद्रवाशु यावद्वै नैतत्कर्म समाप्यते ॥6.73.3॥ | 6.86.4bअभिद्रवाशु यावद्वै नैतत्कर्म समाप्यते ॥ ४ ॥ | 6.86.4bअभिद्रवाशु यावद्वै नैतत् कर्म समाप्यते ॥ 6.86.4 ॥ | ||
| 9 | #5aಜಹಿ ವೀರ ದುರಾತ್ಮಾನಂ ಮಾಯಾಪರಮಧಾರ್ಮಿಕಮ್ । | 6.86.5aजहि वीर दुरात्मानं मायापरमधार्मिकम् । | 6.73.4aजहि वीरदुरात्मानं मायापरमधार्मिकम् । | 6.86.5aजहि वीर दुरात्मानं मायापरमधार्मिकम् । | 6.86.5aजहि वीर दुरात्मानं मायापरमधार्मिकम्। | ||
| 10 | #5bರಾವಣಿಂ ಕ್ರೂರಕರ್ಮಾಣಂ ಸರ್ವಲೋಕ ಭಯಾವಹಮ್ ॥ | 6.86.5bरावणिं क्रूरकर्माणं सर्वलोकभयावहम् ॥ ५ ॥ | 6.73.4bरावणिं क्रूरकर्माणं सर्वलोकभयावहम् ॥6.73.4॥ | 6.86.5bरावणिं क्रूरकर्माणं सर्वलोकभयावहम् ॥ ५ ॥ | 6.86.5bरावणिं क्रूरकर्माणं सर्वलोकभयावहम् ॥ 6.86.5 ॥ | ||
| 11 | #6aವಿಭೀಷಣ ವಚಃ ಶ್ರುತ್ವಾ ಲಕ್ಷ್ಮಣಃ ಶುಭಲಕ್ಷಣಃ । | 6.86.6aविभीषणवचः श्रुत्वा लक्ष्मणः शुभलक्षणः । | 6.73.5aविभीषणवचः श्रुत्वा लक्ष्मणः शुभलक्षणः । | 6.86.6aविभीषणवचः श्रुत्वा लक्ष्मणः शुभलक्षणः । | 6.86.6aविभीषणवचः श्रुत्वा लक्ष्मणः शुभलक्षणः। | ||
| 12 | #6bವವರ್ಷ ಶರವರ್ಷೇಣ ರಾಕ್ಷಸೇಂದ್ರಸುತಂ ಪ್ರತಿ ॥ | 6.86.6bववर्ष शरवर्षेण राक्षसेन्द्रसुतं प्रति ॥ ६ ॥ | 6.73.5bववर्ष शरवर्षाणि राक्षसेन्द्रसुतं प्रति ॥6.73.5॥ | 6.86.6bववर्ष शरवर्षाणि राक्षसेन्द्रसुतं प्रति ॥ ६ ॥ | 6.86.6bववर्ष शरवर्षाणि राक्षसेन्द्रसुतं प्रति ॥ 6.86.6 ॥ | ||
| 13 | #7aಋಕ್ಷಾಃ ಶಾಖಾಮೃಗಾಶ್ಚೈವ ದ್ರುಮಪ್ರವರಯೋಧಿನಃ । | 6.86.7aऋक्षाः शाखामृगाश्चैव द्रुमप्रवरयोधिनः । | 6.73.6aऋक्षाः शाखामृगाश्चैव द्रुमाद्रिवरयोधिनः । | 6.86.7aऋक्षाः शाखामृगाश्चापि द्रुमाद्रिनखयोधिनः । | 6.86.7aऋक्षाः शाखामृगाश्चापि द्रुमाद्रिनखयोधिनः। | ||
| 14 | #7bಅಭ್ಯಧಾವಂತ ಸಹಿತಾಸ್ತದನೀಕಮವಸ್ಥಿತಮ್ ॥ | 6.86.7bअभ्यधावन्त सहितास्तदनीकमवस्थितम् ॥ ७ ॥ | 6.73.6bअभ्यधावन्त सहितास्तदनीकमवस्थितम् ॥6.73.6॥ | 6.86.7bअभ्यधावन्त सहितास्तदनीकमवस्थितम् ॥ ७ ॥ | 6.86.7bअभ्यधावन्त सहितास्तदनीकमवस्थितम् ॥ 6.86.7 ॥ | ||
| 15 | #8aರಾಕ್ಷಸಾಶ್ಚ ಶಿತೈರ್ಬಾಣೈರಸಿಭಿಃ ಶಕ್ತಿತೋಮರೈಃ । | 6.86.8aराक्षसाश्च शितैर्बाणैरसिभिः शक्तितोमरैः । | 6.73.7aराक्षसाश्च शितैर्बाणैरसिभिः शक्तितोमरैः । | 6.86.8aराक्षसाश्च शितैर्वाणैरसिभिः शक्तितोमरैः । | 6.86.8aराक्षसाश्च शितैर्बाणैरसिभिः शक्तितोमरैः। | ||
| 16 | #8bಅಭ್ಯರ್ವತಂತ ಸಮರೇ ಕಪಿಸೈನ್ಯಜಿಘಾಂಸವಃ ॥ | 6.86.8bअभ्यवर्तन्त समरे कपिसैन्यजिघांसवः ॥ ८ ॥ | 6.73.7bउद्यतैः समवर्तन्त कपिसैन्यजिघांसवः ॥6.73.7॥ | 6.86.8bउद्यतैः समवर्तन्त कपिसैन्यजिघांसवः ॥ ८ ॥ | 6.86.8bउद्यतैः समवर्तन्त कपिसैन्यजिघांसवः ॥ 6.86.8 ॥ | ||
| 17 | #9aಸ ಸಂಪ್ರಹಾರಸ್ತುಮುಲಃ ಸಂಜಜ್ಞೇ ಕಪಿರಕ್ಷಸಾಮ್ । | 6.86.9aस सम्प्रहारस्तुमुलः सञ्जज्ञे कपिरक्षसाम् । | 6.73.8aस संप्रहारस्तुमुलः संजज्ञे कपिरक्षसाम् । | 6.86.9aस संप्रहारस्तुमुलः संजज्ञे कपिरक्षसाम् । | 6.86.9aस सम्प्रहारस्तुमुलः सञ्जज्ञे कपिराक्षसाम्। | ||
| 18 | #9bಶಬ್ದೇನ ಮಹತಾ ಲಂಕಾಂ ನಾದಯನ್ ವೈ ಸಮಂತತಃ ॥ | 6.86.9bशब्देन महता लङ्कां नादयन् वै समन्ततः ॥ ९ ॥ | 6.73.8bशब्देन महता लङ्कां नादयन्वै समन्ततः ॥6.73.8॥ | 6.86.9bशब्देन महता लङ्कां नादयन्वै समन्ततः ॥ ९ ॥ | 6.86.9bशब्देन महता लङ्कां नादयन् वै समन्ततः ॥ 6.86.9 ॥ | ||
| 19 | #10aಶಸ್ತ್ರೈಶ್ಚ ವಿವಿಧಾಕಾರೈಃ ಶಿತೈರ್ಬಾಣೈಶ್ಚ ಪಾದಪೈಃ । | 6.86.10aशस्त्रैश्च विविधाकारैः शितैर्बाणैश्च पादपैः । | 6.73.9aशस्त्रैर्बहुविधाकारैः शितैर्बाणैश्च पादपैः । | 6.86.10aशस्त्रैश्च बहुधाकारैः शितैर्बाणैश्च पादपैः । | 6.86.10aशस्त्रैश्च बहुधाकारैः शितैर्बाणैश्च पादपैः। | ||
| 20 | #10bಉದ್ಯತೈರ್ಗಿರಿಶೃಂಗೈಶ್ಚ ಘೋರೈರಾಕಾಶಮಾವೃತಮ್ ॥ | 6.86.10bउद्यतैर्गिरिशृङ्गैश्च घोरैराकाशमावृतम् ॥ १० ॥ | 6.73.9bउद्यतैर्गिरिशृङ्गैश्च घोरैराकाशमावृतम् ॥6.73.9॥ | 6.86.10bउद्यतैर्गिरिशृङ्गैश्व घोरैराकाशमावृतम् ॥ १० ॥ | 6.86.10bउद्यतैर्गिरिशृङ्गैश्च घोरैराकाशमावृतम् ॥ 6.86.10 ॥ | ||
| 21 | #11aತೇ ರಾಕ್ಷಸಾ ವಾನರೇಂದ್ರೇಷು ವಿಕೃತಾನನಬಾಹವಃ । | 6.86.11aराक्षसा वानरेन्द्रेषु विकृताननबाहवः । | 6.73.10aते राक्षसा वानरेषु विकृताननबाहवः । | 6.86.11aते राक्षसा वानरेषु विकृताननबाहवः । | 6.86.11aते राक्षसा वानरेषु विकृताननबाहवः। | ||
| 22 | #11bನಿವೇಶಯಂತಃ ಶಸ್ತ್ರಾಣಿ ಚಕ್ರುಸ್ತೇ ಸುಮಹದ್ಭಯಮ್ ॥ | 6.86.11bनिवेशयन्तः शस्त्राणि चक्रुस्ते सुमहद्भयम् ॥ ११ ॥ | 6.73.10bनिवेशयन्तः शस्त्राणि चक्रुस्ते सुमहद्भयम् ॥6.73.10॥ | 6.86.11bनिवेशयन्तः शस्त्राणि चक्रुस्ते सुमहद्भयम् ॥ ११ ॥ | 6.86.11bनिवेशयन्तः शस्त्राणि चक्रुस्ते सुमहद्भयम् ॥ 6.86.11 ॥ | ||
| 23 | #12aತಥೈವ ಸಕಲೈರ್ವೃಕ್ಷೈರ್ಗಿರಿಶೃಂಗೈಶ್ಚ ವಾನರಾಃ । | 6.86.12aतथैव सकलैर्वृक्षैर्गिरिशृङ्गैश्च वानराः । | 6.73.11aतथैव सकलैर्वृक्षैर्गिरिशृङ्गैश्च वानराः । | 6.86.12aतथैव सकलैर्वृक्षैगिरिशृङ्गैश्च वानराः । | 6.86.12aतथैव सकलैर्वृक्षैर्गिरिशृङ्गैश्च वानराः। | ||
| 24 | #12bಅಭಿಜಘ್ನುರ್ನಿಜಘ್ನುಶ್ಚ ಸಮರೇ ಸರ್ವರಾಕ್ಷಸಾನ್ ॥ | 6.86.12bअभिजघ्नुर्निजघ्नुश्च समरे सर्वराक्षसान् ॥ १२ ॥ | 6.73.11bअभिजघ्नुर्निजघ्नुश्च समरे राक्षसर्षभान् ॥6.73.11॥ | 6.86.12bअभिजघ्नुर्निजघ्नुश्च समरे राक्षसर्षभान् ॥ १२ ॥ | 6.86.12bअभिजघ्नुर्निजघ्नुश्च समरे राक्षसर्षभान् ॥ 6.86.12 ॥ | ||
| 25 | #13aಋಕ್ಷವಾನರಮುಖ್ಯೈಶ್ಚ ಮಹಾಕಾಯೈರ್ಮಹಾಬಲೈಃ । | 6.86.13aऋक्षवानरमुख्यैश्च महाकायैर्महाबलैः । | 6.73.12aऋक्षवानरमुख्यैश्च महाकायैर्महाबलैः । | 6.86.13aऋक्षवानरमुख्यैश्च महाकायैर्महाबलैः । | 6.86.13aऋक्षवानरमुख्यैश्च महाकायैर्महाबलैः। | ||
| 26 | #13bರಕ್ಷಸಾಂ ವಧ್ಯಮಾನಾನಾಂ ಮಹದ್ಭಯಮಜಾಯತ ॥ | 6.86.13bरक्षसां युध्यमानानां महद्भयमजायत ॥ १३ ॥ | 6.73.12bरक्षसां वध्यमानानां महद्भयमजायत ॥6.73.12॥ | 6.86.13bरक्षसां वध्यमानानां महद्भयमजायत ॥ १३ ॥ | 6.86.13bरक्षसां वध्यमानानां महद्भयमजायत ॥ 6.86.13 ॥ | ||
| 27 | #14aಸ್ವಮನೀಕಂ ವಿಷಣ್ಣಂ ತು ಶ್ರುತ್ವಾ ಶತ್ರುಭಿರರ್ದಿತಮ್ । | 6.86.14aस्वमनीकं विषण्णं तु श्रुत्वा शत्रुभिरर्दितम् । | 6.73.13aस्वमनीकं विषण्णं तु श्रुत्वा शत्रुभिरर्दितम् । | 6.86.14aस्वमनीकं विषण्णं तु श्रुत्वा शत्रुभिरर्दितम् । | 6.86.14aस्वमनीकं विषण्णं तु श्रुत्वा शत्रुभिरार्दितम्। | ||
| 28 | #14bಉದತಿಷ್ಠತ ದುರ್ಧರ್ಷಃ ಸ ಕರ್ಮಣ್ಯನನುಷ್ಠಿತೇ ॥ | 6.86.14bउदतिष्ठत दुर्धर्षः स कर्मण्यननुष्ठिते ॥ १४ ॥ | 6.73.13bउदतिष्ठत दुर्धर्षस्तत्कर्मण्यननुष्ठिते ॥6.73.13॥ | 6.86.14bउदतिष्ठत दुर्धर्षस्तत्कर्मण्यननुष्ठिते ॥ १४ ॥ | 6.86.14bउदतिष्ठत दुर्धर्षस्तत्कर्मण्यननुष्ठिते ॥ 6.86.14 ॥ | ||
| 29 | #15aವೃಕ್ಷಾಂಧಕಾರಾನ್ನಿರ್ಗತ್ಯ ಜಾತಕ್ರೋಧಃ ಸ ರಾವಣಿಃ । | 6.86.15aवृक्षान्धकारान्निर्गत्य जातक्रोधः स रावणिः । | 6.73.14aवृक्षान्धकारान्निष्क्रम्य जातक्रोधः स रावणिः । | 6.86.15aवृक्षान्धकारान्निर्गत्य जातक्रोधः स रावणिः । | 6.86.15aवृक्षान्धकारान्निर्गत्य जातक्रोधः स रावणिः। | ||
| 30 | #15bಆರುರೋಹ ರಥಂ ಸಜ್ಜಂ ಪೂರ್ವಯುಕ್ತಂ ಸುಸಂಯತಮ್ ॥ | 6.86.15bआरुरोह रथं सज्जं पूर्वयुक्तं सुसंयतम् ॥ १५ ॥ | 6.73.14bआरुरोह रथं सज्जं पूर्वयुक्तं स राक्षसः ॥6.73.14॥ | 6.86.15bआरुरोह रथं सज्जं पूर्वयुक्तं स राक्षसः ॥ १५ ॥ | 6.86.15bआरुरोह रथं सज्जं पूर्वयुक्तं सराक्षसः ॥ 6.86.15 ॥ | ||
| 31 | #16aಸ ಭೀಮಕಾರ್ಮುಕಶರಃ ಕೃಷ್ಣಾಂಜನ ಚಯೋಪಮಃ । | 6.86.16aस भीमकार्मुकशरः कृष्णाञ्जनचयोपमः । | 6.73.15aस भीमकार्मुकशरः कृष्णाञ्जनचयोपमः । | 6.86.16aस भीमकार्मुकधरः कालमेघसमप्रभः । | 6.86.16aस भीमकार्मुकधरः कालमेघसमप्रभः। | ||
| 32 | #16bರಕ್ತಾಸ್ಯನಯನೋ ಭೀಮೋ ಬಭೌ ಮೃತ್ಯುರಿವಾಂತಕಃ ॥ | 6.86.16bरक्तास्यनयनो भीमो बभौ मृत्युरिवान्तकः ॥ १६ ॥ | 6.73.15bरक्तास्यनयनः क्रूरो बभौ मृत्युरिवान्तकः ॥6.73.15॥ | 6.86.16bरक्तास्यनयनः क्रुद्धो बभौ मृत्युरिवान्तकः ॥ १६ ॥ | 6.86.16bरक्तास्यनयनः क्रुद्धो बभौ मृत्युरिवान्तकः ॥ 6.86.16 ॥ | ||
| 33 | #17aದೃಷ್ಟ್ವೈವ ತು ರಥಸ್ಥಂ ತಂ ಪರ್ಯವರ್ತತ ತದ್ಬಲಮ್ । | 6.86.17aदृष्ट्वैव तु रथस्थं तं पर्यवर्तत तद् बलम् । | 6.73.16aदृष्ट्वैव तु रथस्थं तं पर्यवर्तत तद्बलम् । | 6.86.17aदृष्ट्वैव तु रथस्यं तं पर्यवर्तत तद्बलम् । | 6.86.17aदृष्ट्वैव तु रथस्थं तं पर्यवर्तत तद्बलम्। | ||
| 34 | #17bರಕ್ಷಸಾಂ ಭೀಮವೇಗಾನಾಂ ಲಕ್ಷ್ಮಣೇನ ಯುಯುತ್ಸತಾಮ್ ॥ | 6.86.17bरक्षसां भीमवेगानां लक्ष्मणेन युयुत्सताम् ॥ १७ ॥ | 6.73.16bरक्षसां भीमवेगानां लक्ष्मणेन युयुत्सताम् ॥6.73.16॥ | 6.86.17bरक्षसां भीमवेगानां लक्ष्मणेन युयुत्सताम् ॥ १७ ॥ | 6.86.17bरक्षसां भीमवेगानां लक्ष्मणेन युयुत्सताम् ॥ 6.86.17 ॥ | ||
| 35 | 6.73.17aतस्मिन्काले तु हनुमानुद्यम्य सुदुरासदम् । | 6.86.18aतस्मिन्काले तु हनुमानुद्यम्य सुदुरासदम् । | 6.86.18aतस्मिन् काले तु हनुमानुद्यम्य सुदुरासदम्। | ||||
| 36 | 6.73.17bधरणीधरसंकाशी महावृक्षमरिंदमः ॥6.73.17॥ | ||||||
| 37 | #18aತಸ್ಮಿಂಸ್ತು ಕಾಲೇ ಹನುಮಾನರುಜತ್ ಸ ದುರಾಸದಮ್ । | 6.86.18aतस्मिंस्तु काले हनुमानरुजत् स दुरासदम् । | |||||
| 38 | #18bಧರಣೀಧರ ಸಂಕಾಶೋ ಮಹಾವೃಕ್ಷಮರಿಂದಮಃ ॥ | 6.86.18bधरणीधरसङ्काशो महावृक्षमरिन्दमः ॥ १८ ॥ | 6.86.18bधरणीधरसंकाशो महावृक्षमरिन्दमः ॥ १८ ॥ | 6.86.18bधरणीधरसङ्काशो महावृक्षमरिन्दमः ॥ 6.86.18 ॥ | |||
| 39 | #19aಸ ರಾಕ್ಷಸಾನಾಂ ತತ್ಸೈನ್ಯಂ ಕಾಲಾಗ್ನಿರಿವ ನಿರ್ದಹನ್ । | 6.86.19aस राक्षसानां तत् सैन्यं कालाग्निरिव निर्दहन् । | 6.73.18aस राक्षसानां तत्सैन्यं कालाग्निरिव निर्दहन् । | 6.86.19aस राक्षसानां तत्सैन्यं कालाग्निरिव निर्दहन् । | 6.86.19aस राक्षसानां तत्सैन्यं कालाग्निरिव निर्दहन्। | ||
| 40 | #19bಚಕಾರ ಬಹುಭಿರ್ವೃಕ್ಷೈರ್ನಿಃ ಸಂಜ್ಞಂ ಯುಧಿ ವಾನರಃ ॥ | 6.86.19bचकार बहुभिर्वृक्षैर्निःसञ्ज्ञं युधि वानरः ॥ १९ ॥ | 6.73.18bचकार बहुभिर्वृक्षैर्निःसंज्ञं युधि वानरः ॥6.73.18॥ | 6.86.19bचकार बहुभिर्वृक्षैर्निस्संज्ञं युधि वानरः ॥ १९ ॥ | 6.86.19bचकार बहुभिर्वृक्षैर्निस्सञ्ज्ञं युधि वानरः ॥ 6.86.19 ॥ | ||
| 41 | #20aವಿಧ್ವಂಸಯಂತಂ ತರಸಾ ದೃಷ್ಟ್ವೈವ ಪವನಾತ್ಮಜಮ್ । | 6.86.20aविध्वंसयन्तं तरसा दृष्ट्वैव पवनात्मजम् । | 6.73.19aविध्वंसयन्तं तरसा दृष्ट्वैव पवनात्मजम् । | 6.86.20aविध्वंसयन्तं तरसा दृष्ट्वैव पवनात्मजम् । | 6.86.20aविध्वंसयन्तं तरसा दृष्ट्वैव पवनात्मजम्। | ||
| 42 | #20bರಾಕ್ಷಸಾನಾಂ ಸಹಸ್ರಾಣಿ ಹನೂಮಂತಮವಾಕಿರನ್ ॥ | 6.86.20bराक्षसानां सहस्राणि हनूमन्तमवाकिरन् ॥ २० ॥ | 6.73.19bराक्षसानां सहस्राणि हनूमन्तमवाकिरन् ॥6.73.19॥ | 6.86.20bराक्षसानां सहस्राणि हनुमन्तमवाकिरन् ॥ २० ॥ | 6.86.20bराक्षसानां सहस्राणि हनुमन्तमवाकिरन् ॥ 6.86.20 ॥ | ||
| 43 | #21aಶಿತಶೂಲಧರಾಃ ಶೂಲೈರಸಿಭಿಶ್ಚಾಸಿಪಾಣಯಃ । | 6.86.21aशितशूलधराः शूलैरसिभिश्चासिपाणयः । | 6.73.20aशितशूलधराः शूलैरसिभिश्चासिपाणयः । | 6.86.21aशितशूलधराः शूलैरसिभिश्चासिपाणयः । | 6.86.21aशितशूलधराः शूलैरसिभिश्चासिपाणयः। | ||
| 44 | #21bಶಕ್ತಿಹಸ್ತಾಶ್ಚ ಶಕ್ತಿಭಿಃ ಪಟ್ಟಿಶೈಃ ಪಟ್ಟಿಶಾಯುಧಾಃ ॥ | 6.86.21bशक्तिहस्ताश्च शक्तीभिः पट्टिशैः पट्टिशायुधाः ॥ २१ ॥ | 6.73.20bशक्तिभिः शक्तिहस्ताश्च पट्टसैः पट्टसायुधाः ॥6.73.20॥ | 6.86.21bशक्तिभिः शक्तिहस्ताश्च पट्टिशैः पट्टिशायुधाः ॥ २१ ॥ | 6.86.21bशक्तिभिः शक्तिहस्ताश्च पट्टिशैः पट्टिशायुधाः ॥ 6.86.21 ॥ | ||
| 45 | #22aಪರಿಘೈಶ್ಚ ಗದಾಭಿಶ್ಚ ಕುಂತೈಶ್ಚ ಶುಭದರ್ಶನೈಃ । | 6.86.22aपरिघैश्च गदाभिश्च कुन्तैश्च शुभदर्शनैः । | 6.73.21aपरिघैश्च गदाभिश्च कुन्तैश्च शुभदर्शनैः । | 6.86.22aपरिघैश्च गदाभिश्च चक्रैश्च शुभदर्शनैः । | 6.86.22aपरिधैश्च गदाभिश्च चक्रैश्च शुभदर्शनैः। | ||
| 46 | #22bಶತಶಶ್ಚ ಶತಘ್ನೀಭಿರಾಯಸೈರಪಿ ಮುದ್ಗರೈಃ ॥ | 6.86.22bशतशश्च शतघ्नीभिरायसैरपि मुद्गरैः ॥ २२ ॥ | 6.73.21bशतशश्च शतघ्नीभिरायसैरपि मुद्गरैः ॥6.73.21॥ | 6.86.22bशतशश्च शतघ्नीभिरायसैरपि मुद्गरैः ॥ २२ ॥ | 6.86.22bशतशश्च शतघ्नीभिरायसैरपि मुद्गरैः ॥ 6.86.22 ॥ | ||
| 47 | #23aಘೋರೈಃ ಪರಶುಭಿಶ್ಚೈವ ಭಿಂದಿಪಾಲೈಶ್ಚ ರಾಕ್ಷಸಾಃ । | 6.86.23aघोरैः परशुभिश्चैव भिन्दिपालैश्च राक्षसाः । | 6.73.22aघोरैः परशुभिश्चैव भिण्डिपालैश्च राक्षसाः । | #23aघोरैः परश्वधैश्चैव भिन्दिपालैश्च राक्षसाः । | |||
| 48 | #23bಮುಷ್ಟಿ ಭಿರ್ವಜ್ರಕಲ್ಪೈಶ್ಚ ತಲೈರಶನಿಸಂನಿಭೈಃ ॥ | 6.86.23bमुष्टिभिर्वज्रकल्पैश्च तलैरशनिसन्निभैः ॥ २३ ॥ | 6.73.22bमुष्टिभिर्वज्रवेगैश्च तलैरशनिसंनिभैः ॥6.73.22॥ | #23bमुष्टिभिर्वज्रकल्पैश्च तलैरशनिसन्निभैः ॥ | 6.86.23aमुष्टिभिर्वज्रकल्पैश्च तलैरशनिसन्निभैः। | ||
| 49 | #24aಅಭಿಜಘ್ನುಃ ಸಮಾಸಾದ್ಯ ಸಮಂತಾತ್ ಪರ್ವತೋಪಮಮ್ । | 6.86.24aअभिजघ्नुः समासाद्य समन्तात् पर्वतोपमम् । | 6.73.23aअभिजघ्नुः समासाद्य समन्तात्पर्वतोपमम् । | 6.86.23अभिजघ्नुः समासाद्य समन्तात्पर्वतोपमम् ॥ २३ ॥ | 6.86.23bअभिजघ्नुः समासाद्य समन्तात् पर्वतोपमम् ॥ 6.86.23 ॥ | ||
| 50 | #24bತೇಷಾಮಪಿ ಚ ಸಂಕ್ರುದ್ಧಶ್ಚಕಾರ ಕದನಂ ಮಹತ್ ॥ | 6.86.24bतेषामपि च सङ्क्रुद्धश्चकार कदनं महत् ॥ २४ ॥ | 6.73.23bतेषामपि च संक्रुद्धश्चकार कदनं महत् ॥6.73.23॥ | 6.86.24तेषामपि च संक्रुद्धश्चकार कदनं महत् ॥ २४ ॥ | 6.86.24तेषामपि च सङ्क्रुद्धश्चकार कदनं महत् ॥ 6.86.24 ॥ | ||
| 51 | #25aಸ ದದರ್ಶ ಕಪಿಶ್ರೇಷ್ಠಮಚಲೋಪಮಮಿಂದ್ರಜಿತ್ । | 6.86.25aस ददर्श कपिश्रेष्ठमचलोपममिन्द्रजित् । | 6.73.24aस ददर्श कपिश्रेष्ठमचलोपममिन्द्रजित् । | 6.86.25aस ददर्श कपिश्रेष्ठमचलोपममिन्द्रजित् । | 6.86.25aस ददर्श कपिश्रेष्ठमचलोपममिन्द्रजित्। | ||
| 52 | #25bಸೂದಮಾನಮಸಂತ್ರಸ್ತಮಮಿತ್ರಾನ್ ಪವನಾತ್ಮಜಮ್ ॥ | 6.86.25bसूदमानमसन्त्रस्तममित्रान् पवनात्मजम् ॥ २५ ॥ | 6.73.24bसूदयानममित्रघ्नममित्रान्पवनात्मजम् ॥6.73.24॥ | 6.86.25bसूदयन्तममित्रघ्नममित्रान्पवनात्मजम् ॥ २५ ॥ | 6.86.25bसूदयन्तमभित्रघ्नममित्रान् पवनात्मजम् ॥ 6.86.25 ॥ | ||
| 53 | #26aಸ ಸಾರಥಿಮುವಾಚೇದಂ ಯಾಹಿ ಯತ್ರೈಷ ವಾನರಃ । | 6.86.26aस सारथिमुवाचेदं याहि यत्रैष वानरः । | 6.73.25aस सारथिमुवाचेदं याहि यत्रैष वानरः । | 6.86.26aस सारथिमुवाचेदं याहि यत्रैष वानरः । | 6.86.26aस सारथिमुवाचेदं याहि यत्रैष वानरः। | ||
| 54 | #26bಕ್ಷಯಮೇವ ಹಿ ನಃ ಕುರ್ಯಾದ್ರಾಕ್ಷಸಾನಾಮುಪೇಕ್ಷಿತಃ ॥ | 6.86.26bक्षयमेव हि नः कुर्याद् राक्षसानामुपेक्षितः ॥ २६ ॥ | 6.73.25bक्षयमेव हि नः कुर्याद्राक्षसानामुपेक्षितः ॥6.73.25॥ | 6.86.26bक्षयमेष हि नः कुर्याद्राक्षसानामुपेक्षितः ॥ २६ ॥ | 6.86.26bक्षयमेष हि नः कुर्याद्राक्षसानामुपेक्षितः ॥ 6.86.26 ॥ | ||
| 55 | #27aಇತ್ಯುಕ್ತಃ ಸಾರಥಿಸ್ತೇನ ಯಯೌ ಯತ್ರ ಸ ಮಾರುತಿಃ । | 6.86.27aइत्युक्तः सारथिस्तेन ययौ यत्र स मारुतिः । | 6.73.26aइत्युक्तः सारथिस्तेन ययौ यत्र स मारुतिः । | 6.86.27aइत्युक्तः सारथिस्तेन ययौ यत्र स मारुतिः । | 6.86.27aइत्युक्तः सारथिस्तेन ययौ यत्र स मारुतिः। | ||
| 56 | #27bವಹನ್ಪರಮದುರ್ಧರ್ಷಂ ಸ್ಥಿತಮಿಂದ್ರಜಿತಂ ರಥೇ ॥ | 6.86.27bवहन् परमदुर्धर्षं स्थितमिन्द्रजितं रथे ॥ २७ ॥ | 6.73.26bवहन्परमदुर्धर्षं स्थितमिन्द्रजितं रथे ॥6.73.26॥ | 6.86.27bवहन्परमदुर्धर्षं स्थितमिन्द्रजितं रथे ॥ २७ ॥ | 6.86.27bवहन् परमदुर्धर्षं स्थितमिन्द्रजितं रथे ॥ 6.86.27 ॥ | ||
| 57 | #28aಸೋಽಭ್ಯುಪೇತ್ಯ ಶರಾನ್ ಖಡ್ಗಾನ್ ಪಟ್ಟಿಶಾಂಶ್ಚ ಪರಶ್ವಧಾನ್ । | 6.86.28aसोऽभ्युपेत्य शरान् खड्गान् पट्टिशांश्च परश्वधान् । | 6.73.27aसोऽभ्युपेत्य शरान्खड्गान्पट्टसासिपरश्वधान् । | 6.86.28aसोभ्युपेत्य शरान्खड्ङ्गान्पट्टिशांश्च परश्वधान् । | 6.86.28aसोऽभ्युपेत्य शरान् खड्गान् पट्टिशांश्च परश्वधान्। | ||
| 58 | #28bಅಭ್ಯವರ್ಷತ ದುರ್ಧರ್ಷಃ ಕಪಿಮೂರ್ಧ್ನನಿ ರಾಕ್ಷಸಃ ॥ | 6.86.28bअभ्यवर्षत दुर्धर्षः कपिमूर्धनि राक्षसः ॥ २८ ॥ | 6.73.27bअभ्यवर्षत दुर्धर्षः कपिमूर्ध्नि स राक्षसः ॥6.73.27॥ | 6.86.28bअभ्यवर्षत दुर्धर्षः कपिमूर्ध्नि स राक्षसः ॥ २८ ॥ | 6.86.28bअभ्यवर्षत दुर्द्धर्षः कपिमूर्ध्नि स राक्षसः ॥ 6.86.28 ॥ | ||
| 59 | #29aತಾನಿ ಶಸ್ತ್ರಾಣಿ ಘೋರಾಣಿ ಪ್ರತಿಗೃಹ್ಯ ಸ ಮಾರುತಿಃ । | 6.86.29aतानि शस्त्राणि घोराणि प्रतिगृह्य स मारुतिः । | 6.73.28aतानि शस्त्राणि घोराणि प्रतिगृह्य स मारुतिः । | 6.86.29aतानि शस्त्राणि घोराणि प्रतिगृह्य स मारुतिः । | 6.86.29aतानि शस्त्राणि घोराणि प्रतिगृह्य स मारुतिः। | ||
| 60 | #29bರೋಷೇಣ ಮಹತಾವಿಷ್ಣೋ ವಾಕ್ಯಂ ಚೇದಮುವಾಚ ಹ ॥ | 6.86.29bरोषेण महताविष्टो वाक्यं चेदमुवाच ह ॥ २९ ॥ | 6.73.28bरोषेण महताविषो वाक्यं चेदमुवाच ह ॥6.73.28॥ | 6.86.29bरोषेण महताऽऽविष्टो वाक्यं चेदमुवाच ह ॥ २९ ॥ | 6.86.29bरोषेण महताऽऽविष्टो वाक्यं चेदमुवाच ह ॥ 6.86.29 ॥ | ||
| 61 | #30aಯುಧ್ಯಸ್ವ ಯದಿ ಶೂರೋಽಸಿ ರಾವಣಾತ್ಮಜ ದುರ್ಮತೇ । | 6.86.30aयुध्यस्व यदि शूरोऽसि रावणात्मज दुर्मते । | 6.73.29aयुध्यस्व यदि शूरोऽसि रावणात्मज दुर्मते । | 6.86.30aयुध्यस्व यदि शूरोसि रावणात्मज दुर्मते । | 6.86.30aयुद्ध्यस्व यदि शूरोऽसि रावणात्मज दुर्मते। | ||
| 62 | #30bವಾಯುಪುತ್ರಂ ಸಮಾಸಾದ್ಯ ನ ಜೀವನ್ ಪ್ರತಿಯಾಸ್ಯಸಿ ॥ | 6.86.30bवायुपुत्रं समासाद्य न जीवन् प्रतियास्यसि ॥ ३० ॥ | 6.73.29bवायुपुत्रं समासाद्य न जीवन्प्रतियास्यसि ॥6.73.29॥ | 6.86.30bवायुपुत्रं समासाद्य जीवन्न प्रतियास्यसि ॥ ३० ॥ | 6.86.30bवायुपुत्रं समासाद्य जीवन्न प्रतियास्यसि ॥ 6.86.30 ॥ | ||
| 63 | #31aಬಾಹುಭ್ಯಾಂ ಸಂಪ್ರಯುಧ್ಯಸ್ವ ಯದಿ ಮೇ ದ್ವಂದ್ವಮಾಹವೇ । | 6.86.31aबाहुभ्यां सम्प्रयुध्यस्व यदि मे द्वन्द्वमाहवे । | 6.73.30aबाहुभ्यां संप्रयुध्यस्व यदि मे द्वन्द्वमाहवे । | 6.86.31aबाहुभ्यां प्रतियुध्यस्व यदि मे द्वन्द्वमाहवे । | 6.86.31aबाहुभ्यां प्रतियुध्यस्व यदि मे द्वन्द्वमाहवे। | ||
| 64 | #31bವೇಗಂ ಸಹಸ್ವ ದುರ್ಬುದ್ಧೇ ತತಸ್ತ್ವಂ ರಕ್ಷಸಾಂ ವರಃ ॥ | 6.86.31bवेगं सहस्व दुर्बुद्धे ततस्त्वं रक्षसां वरः ॥ ३१ ॥ | 6.73.30bवेगं सहस्व दुर्बुद्धे ततस्त्वं रक्षसां वरः ॥6.73.30॥ | 6.86.31bवेगं सहस्व दुर्बुद्धे ततस्त्वं रक्षसां वरः ॥ ३१ ॥ | 6.86.31bवेगं सहस्व दुर्बुद्धे ततस्त्वं रक्षसां वरः ॥ 6.86.31 ॥ | ||
| 65 | #32aಹನೂಮಂತಂ ಜಿಘಾಂಸಂತಂ ಸಮುದ್ಯತ ಶರಾಸನಮ್ । | 6.86.32aहनूमन्तं जिघांसन्तं समुद्यतशरासनम् । | 6.73.31aहनूमन्तं जिघांसन्तं समुद्यतशरासनम् । | 6.86.32aहनुमन्तं जिघांसन्तं समुद्यतशरासनम् । | 6.86.32aहनुमन्तं जिघांसन्तं समुद्यतशरासनम्। | ||
| 66 | #32bರಾವಣಾತ್ಮಜಮಾಚಷ್ಟೇ ಲಕ್ಷ್ಮಣಾಯ ವಿಭೀಷಣಃ ॥ | 6.86.32bरावणात्मजमाचष्टे लक्ष्मणाय विभीषणः ॥ ३२ ॥ | 6.73.31bरावणात्मजमाचष्टे लक्ष्मणाय विभीषणः ॥6.73.31॥ | 6.86.32bरावणात्मजमाचष्टे लक्ष्मणाय विभीषणः ॥ ३२ ॥ | 6.86.32bरावणात्मजमाचष्टे लक्ष्मणाय विभीषणः ॥ 6.86.32 ॥ | ||
| 67 | #33aಯಃ ಸ ವಾಸವನಿರ್ಜೇತಾ ರಾವಣಸ್ಯಾತ್ಮಸಂಭವಃ । | 6.86.33aयः स वासवनिर्जेता रावणस्यात्मसम्भवः । | 6.73.32aयस्तु वासवनिर्जेता रावणस्यात्मसंभवः । | 6.86.33aयः स वासवनिर्जेता रावणस्यात्मसंभवः । | 6.86.33aयः स वासवनिर्जेता रावणस्यात्मसम्भवः। | ||
| 68 | #33bಸ ಏಷ ರಥಮಾಸ್ಥಾಯ ಹನೂಮಂತಂ ಜಿಘಾಂಸತಿ ॥ | 6.86.33bस एष रथमास्थाय हनूमन्तं जिघांसति ॥ ३३ ॥ | 6.73.32bस एष रथमास्थाय हनूमन्तं जिघांसति ॥6.73.32॥ | 6.86.33bस एष रथमास्थाय हनुमन्तं जिघांसति ॥ ३३ ॥ | 6.86.33bस एष रथमास्थाय हनुमन्तं जिघांसति ॥ 6.86.33 ॥ | ||
| 69 | #34aತಮಪ್ರತಿಮಸಂಸ್ಥಾನೈಃ ಶರೈಃ ಶತ್ರುವಿದಾರಣೈಃ । | 6.86.34aतमप्रतिमसंस्थानैः शरैः शत्रुनिवारणैः । | 6.73.33aतमप्रतिमसंस्थानैः शरैः शत्रुविदारणैः । | 6.86.34aतमप्रतिमसंस्थानैः शरैः शत्रुविदारणैः । | 6.86.34aतमप्रतिमसंस्थानैः शरैः शत्रुविदारणैः। | ||
| 70 | #34bಜೀವಿತಾಂತಕರೈರ್ಘೋರೈಃ ಸೌಮಿತ್ರೇ ರಾವಣಿಂ ಜಹಿ ॥ | 6.86.34bजीवितान्तकरैर्घोरैः सौमित्रे रावणिं जहि ॥ ३४ ॥ | 6.73.33bजीवितान्तकरैर्घोरैः सौमित्रे रावणिं जहि ॥6.73.33॥ | 6.86.34bजीवितान्तकरैर्घोरैः सौमित्रे रावणि जहि ॥ ३४ ॥ | 6.86.34bजीवितान्तकरैर्घोरैः सौमित्रे रावणिं जहि ॥ 6.86.34 ॥ | ||
| 71 | #35aಇತ್ಯೇವಮುಕ್ತಸ್ತು ತದಾ ಮಹಾತ್ಮಾ ವಿಭೀಷಣೇನಾರಿ ವಿಭೀಷಣೇನ । | 6.86.35aइत्येवमुक्तस्तु तदा महात्मा विभीषणेनारिविभीषणेन । | 6.73.34aइत्येवमुक्तस्तु तदा महात्मा विभीषणेनारिविभीषणेन । | 6.86.35aइत्येवमुक्तस्तु तदा महात्मा विभीषणेनारिविभीषणेन । | 6.86.35aइत्येवमुक्तस्तु तदा महात्मा विभीषणेनारिविभीषणेन। | ||
| 72 | #35bದದರ್ಶ ತಂ ಪರ್ವತ ಸಂನಿಕಾಶಂ ರಥಸ್ಥಿತಂ ಭೀಮಬಲಂ ದೂರಾಸದಮ್ ॥ | 6.86.35bददर्श तं पर्वतसन्निकाशं रथस्थितं भीमबलं दुरासदम् ॥ ३५ ॥ | 6.73.34bददर्श तं पर्वतसंनिकाशं रथस्थितं भीमबलं दुरासदम् ॥6.73.34॥ | 6.86.35bददर्श तं पर्वतसन्निकाशं रणे स्थितं भीमबलं नदन्तम् ॥ ३५ ॥ | 6.86.35bददर्श तं पर्वतसन्निकाशं रणे स्थितं भीमबलं नदन्तम् ॥ 6.86.35 ॥ | ||
| 73 | 6.86.86इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने षडशीतितमः सर्गः ॥ ८६ ॥ |