इन्द्रजिद्धननाय लक्ष्मणप्रेषणम्. Built from structured/verses.jsonl. Rows are monotone-aligned half-verse/pāda-like units split at । and ॥, so verse-number boundary differences can appear as inserted or shifted line rows.
76 aligned line rows across 7 source streams.
gor-kn 73 lines
gor-hi 73 lines
crit 68 lines
gr 74 lines
dr-mula 70 lines
| # | gor-kn | gor-hi | crit | gr | dr-mula | gr-iitk | iitk |
|---|---|---|---|---|---|---|---|
| 1 | #1aತಸ್ಯ ತದ್ವಚನಂ ಶ್ರುತ್ವಾ ರಾಘವಃ ಶೋಕಕರ್ಶಿತಃ । | 6.85.1aतस्य तद् वचनं श्रुत्वा राघवः शोककर्शितः । | 6.72.1aतस्य तद्वचनं श्रुत्वा राघवः शोककर्शितः । | 6.85.1aतस्य तद्वचनं श्रुत्वा राघवः शोककर्शितः । | 6.85.1aतस्य तद्वचनं श्रुत्वा राघवः शोककर्शितः। | ||
| 2 | #1bನೋಪಧಾರಯತೇ ವ್ಯಕ್ತಂ ಯದುಕ್ತಂ ತೇನ ರಕ್ಷಸಾ ॥ | 6.85.1bनोपधारयते व्यक्तं यदुक्तं तेन रक्षसा ॥ १ ॥ | 6.72.1bनोपधारयते व्यक्तं यदुक्तं तेन रक्षसा ॥6.72.1॥ | 6.85.1bनोपधारयते व्यक्तं यदुक्तं तेन रक्षसा ॥ १ ॥ | 6.85.1bनोपधारयते व्यक्तं यदुक्तं तेन रक्षसा ॥ 6.85.1 ॥ | ||
| 3 | #2aತತೋ ಧೈರ್ಯಮವಷ್ಟಭ್ಯ ರಾಮಃ ಪರಪುರಂಜಯಃ । | 6.85.2aततो धैर्यमवष्टभ्य रामः परपुरञ्जयः । | 6.72.2aततो धैर्यमवष्टभ्य रामः परपुरंजयः । | 6.85.2aततो धैर्यमवष्टभ्य रामः परपुरञ्जयः । | 6.85.2aततो धैर्यमवष्टभ्य रामः परपुरञ्जयः। | ||
| 4 | #2bವಿಭೀಷಣಮುಪಾಸೀನಮುವಾಚ ಕಪಿಸಂನಿಧೌ ॥ | 6.85.2bविभीषणमुपासीनमुवाच कपिसन्निधौ ॥ २ ॥ | 6.72.2bविभीषणमुपासीनमुवाच कपिसंनिधौ ॥6.72.2॥ | 6.85.2bविभीषणमुपासीनमुवाच कपिसन्निधौ ॥ २ ॥ | 6.85.2bविभीषणमुपासीनमुवाच कपिसन्निधौ ॥ 6.85.2 ॥ | ||
| 5 | #3aನೈರ್ಋತಾಧಿಪತೇ ವಾಕ್ಯಂ ಯದುಕ್ತಂ ತೇ ವಿಭೀಷಣ । | 6.85.3aनैर्ऋताधिपते वाक्यं यदुक्तं ते विभीषण । | 6.72.3aनैरृताधिपते वाक्यं यदुक्तं ते विभीषण । | 6.85.3aनैर्ऋताधिपते वाक्यं यदुक्तं ते विभीषण । | 6.85.3aनैर्ऋताधिपते वाक्यं यदुक्तं ते विभीषण। | ||
| 6 | #3bಭೂಯಸ್ತಚ್ಛ್ರೋತುಮಿಚ್ಛಾಮಿ ಬ್ರೂಹಿ ಯತ್ತೇ ವಿವಕ್ಷಿತಮ್ ॥ | 6.85.3bभूयस्तच्छ्रोतुमिच्छामि ब्रूहि यत्ते विवक्षितम् ॥ ३ ॥ | 6.72.3bभूयस्तच्छ्रोतुमिच्छामि ब्रूहि यत्ते विवक्षितम् ॥6.72.3॥ | 6.85.3bभूयस्तच्छ्रोतुमिच्छामि ब्रूहि यत्ते विवक्षितम् ॥ ३ ॥ | 6.85.3bभूयस्तच्छ्रोतुमिच्छामि ब्रूहि यत्ते विवक्षितम् ॥ 6.85.3 ॥ | ||
| 7 | #4aರಾಘವಸ್ಯ ವಚಃ ಶ್ರುತ್ವಾ ವಾಕ್ಯಂ ವಾಕ್ಯವಿಶಾರದಃ । | 6.85.4aराघवस्य वचः श्रुत्वा वाक्यं वाक्यविशारदः । | 6.72.4aराघवस्य वचः श्रुत्वा वाक्यं वाक्यविशारदः । | 6.85.4aराघवस्य वचः श्रुत्वा वाक्यं वाक्यविशारदः । | 6.85.4aराघवस्य वचः श्रुत्वा वाक्यं वाक्यविशारदः। | ||
| 8 | #4bಯತ್ ತತ್ಪುನರಿದಂ ವಾಕ್ಯಂ ಬಭಾಷೇಽಥ ವಿಭೀಷಣಃ ॥ | 6.85.4bयत् तत् पुनरिदं वाक्यं बभाषेऽथ विभीषणः ॥ ४ ॥ | 6.72.4bयत्तत्पुनरिदं वाक्यं बभाषे स विभीषणः ॥6.72.4॥ | 6.85.4bयत्तत्पुनरिदं वाक्यं बभाषे स विभीषणः ॥ ४ ॥ | 6.85.4bयत्तत्पुनरिदं वाक्यं बभाषे स विभीषणः ॥ 6.85.4 ॥ | ||
| 9 | #5aಯಥಾಽಽಜ್ಞಪ್ತಂ ಮಹಾಬಾಹೋ ತ್ವಯಾ ಗುಲ್ಮನಿವೇಶನಮ್ । | 6.85.5aयथाऽऽज्ञप्तं महाबाहो त्वया गुल्मनिवेशनम् । | 6.72.5aयथाज्ञप्तं महाबाहो त्वया गुल्मनिवेशनम् । | 6.85.5aयथाज्ञप्तं महाबाहो त्वया गुल्मनिवेशनम् । | 6.85.5aयथाज्ञप्तं महाबाहो त्वया गुल्मनिवेशनम्। | ||
| 10 | #5bತತ್ತಥಾನುಷ್ಠಿತಂ ವೀರ ತ್ವದ್ವಾಕ್ಯಸಮನಂತರಮ್ ॥ | 6.85.5bतत् तथानुष्ठितं वीर त्वद्वाक्यसमनन्तरम् ॥ ५ ॥ | 6.72.5bतत्तथानुष्ठितं वीर त्वद्वाक्यसमनन्तरम् ॥6.72.5॥ | 6.85.5bतत्तथाऽनुष्ठितं वीर त्वद्वाक्यसमनन्तरम् ॥ ५ ॥ | 6.85.5bतत्तथाऽनुष्ठितं वीर त्वद्वाक्यसमनन्तरम् ॥ 6.85.5 ॥ | ||
| 11 | #6aತಾನ್ಯನೀಕಾನಿ ಸರ್ವಾಣಿ ವಿಭಕ್ತಾನಿ ಸಮಂತತಃ । | 6.85.6aतान्यनीकानि सर्वाणि विभक्तानि समन्ततः । | 6.72.6aतान्यनीकानि सर्वाणि विभक्तानि समन्ततः । | 6.85.6aतान्यनीकानि सर्वाणि विभक्तानि समन्ततः । | 6.85.6aतान्यनीकानि सर्वाणि विभक्तानि समन्ततः। | ||
| 12 | #6bವಿನ್ಯಸ್ತಾ ಯೂಥಪಾಶ್ಚೈವ ಯಥಾನ್ಯಾಯಂ ವಿಭಾಗಶಃ ॥ | 6.85.6bविन्यस्ता यूथपाश्चैव यथान्यायं विभागशः ॥ ६ ॥ | 6.72.6bविन्यस्ता यूथपाश्चैव यथान्यायं विभागशः ॥6.72.6॥ | 6.85.6bविन्यस्ता यूथपाश्चैव यथान्यायं विभागशः ॥ ६ ॥ | 6.85.6bविन्यस्ता यूथपाश्चैव यथान्यायं विभागशः ॥ 6.85.6 ॥ | ||
| 13 | #7aಭೂಯಸ್ತು ಮಮ ವಿಜ್ಞಾಪ್ಯಂ ತಚ್ಛೃಣುಷ್ವ ಮಹಾಪ್ರಭೋ । | 6.85.7aभूयस्तु मम विज्ञाप्यं तच्छृणुष्व महाप्रभो । | 6.72.7aभूयस्तु मम विजाप्यं तच्छृणुष्व महायशः । | 6.85.7भूयस्तु मम विज्ञाप्यं तच्छृणुष्व महायशः ॥ ७ ॥ | 6.85.7भूयस्तु मम विज्ञाप्यं तच्छृणुष्व महायशः ॥ 6.85.7 ॥ | ||
| 14 | #7bತ್ವಯ್ಯಕಾರಣ ಸಂತಪ್ತೇ ಸಂತಪ್ತಹೃದಯಾ ವಯಮ್ ॥ | 6.85.7bत्वय्यकारणसन्तप्ते सन्तप्तहृदया वयम् ॥ ७ ॥ | 6.72.7bत्वय्यकारणसंतप्ते संतप्तहृदया वयम् ॥6.72.7॥ | 6.85.8aत्वय्यकारणसन्तप्ते सन्तप्तहृदया वयम् । | 6.85.8aत्वय्यकारणसन्तप्ते सन्तप्तहृदया वयम्। | ||
| 15 | #8aತ್ಯಜ ರಾಜನ್ನಿಮಂ ಶೋಕಂ ಮಿಥ್ಯಾ ಸಂತಾಪಮಾಗತಮ್ । | 6.85.8aत्यज राजन्निमं शोकं मिथ्या सन्तापमागतम् । | 6.72.8aत्यज राजन्निमं शोकं मिथ्या संतापमागतम् । | 6.85.8bत्यज राजन्निमं शोकं मिथ्या सन्तापमागतम् ॥ ८ ॥ | 6.85.8bत्यज राजन्निमं शोकं मिथ्या सन्तापमागतम् ॥ 6.85.8 ॥ | ||
| 16 | #8bಯದಿಯಂ ತ್ಯಜ್ಯತಾಂ ಚಿಂತಾ ಶತ್ರುಹರ್ಷವಿವರ್ಧಿನೀ ॥ | 6.85.8bयदियं त्यज्यतां चिन्ता शत्रुहर्षविवर्धिनी ॥ ८ ॥ | 6.72.8bतदियं त्यज्यतां चिन्ता शत्रुहर्षविवर्धनी ॥6.72.8॥ | 6.85.9aतदियं त्यज्यतां चिन्ता शत्रुहर्षविवर्धनी । | 6.85.9aतदियं त्यज्यतां चिन्ता शत्रुहर्षविवर्धनी। | ||
| 17 | #9aಉದ್ಯಮಃ ಕ್ರಿಯತಾಂ ವೀರ ಹರ್ಷಃ ಸಮುಪ ಸೇವ್ಯತಾಮ್ । | 6.85.9aउद्यमः क्रियतां वीर हर्षः समुपसेव्यताम् । | 6.72.9aउद्यमः क्रियतां वीर हर्षः समुपसेव्यताम् । | 6.85.9bउद्यमः क्रियतां वीर हर्षः समुपसेव्यताम् ॥ ९ ॥ | 6.85.9bउद्यमः क्रियतां वीर हर्षः समुपसेव्यताम् ॥ 6.85.9 ॥ | ||
| 18 | #9bಪ್ರಾಪ್ತವ್ಯಾ ಯದಿ ತೇ ಸೀತಾ ಹಂತವ್ಯಾಶ್ಚ ನಿಶಾಚರಾಃ ॥ | 6.85.9bप्राप्तव्या यदि ते सीता हन्तव्याश्च निशाचराः ॥ ९ ॥ | 6.72.9bप्राप्तव्या यदि ते सीता हन्तव्यश्च निशाचराः ॥6.72.9॥ | 6.85.10aप्राप्तव्या यदि ते सीता हन्तव्याश्च निशाचराः । | 6.85.10aप्राप्तव्या वदि ते सीता हन्तव्याश्च निशाचराः। | ||
| 19 | #10aರಘುನಂದನ ವಕ್ಷ್ಯಾಮಿ ಶ್ರೂಯತಾಂ ಮೇ ಹಿತಂ ವಚಃ । | 6.85.10aरघुनन्दन वक्ष्यामि श्रूयतां मे हितं वचः । | 6.72.10aरघुनन्दन वक्ष्यामि श्रूयतां मे हितं वचः । | 6.85.10bरघुनन्दन वक्ष्यामि श्रूयतां मे हितं वचः ॥ १० ॥ | 6.85.10bरघुनन्दन वक्ष्यामि श्रूयतां मे हितं वचः ॥ 6.85.10 ॥ | ||
| 20 | #10bಸಾಧ್ವಯಂ ಯಾತು ಸೌಮಿತ್ರಿರ್ಬಲೇನ ಮಹತಾ ವೃತಃ ॥ | 6.85.10bसाध्वयं यातु सौमित्रिर्बलेन महता वृतः ॥ १० ॥ | 6.72.10bसाध्वयं यातु सौमित्रिर्बलेन महता वृतः । | 6.85.11aसाध्वयं यातु सौमित्रिर्बलेन महता वृतः । | 6.85.11aसाध्वयं यातु सौमित्रिर्बलेन महता वृतः। | ||
| 21 | #11aನಿಕುಂಭಿಲಾಯಾಂ ಸಂಪ್ರಾಪ್ತಂ ಹಂತುಂ ರಾವಣಿಮಾಹವೇ । | 6.85.11aनिकुम्भिलायां सम्प्राप्तं हन्तुं रावणिमाहवे । | 6.72.10cनिकुम्भिलायां संप्राप्य हन्तुं रावणिमाहवे ॥6.72.10॥ | 6.85.11bनिकुम्भिलायां संप्राप्य हन्तुं रावणिमाहवे ॥ ११ ॥ | 6.85.11bनिकुम्भिलायां सम्प्राप्य हन्तुं रावणिमाहवे ॥ 6.85.11 ॥ | ||
| 22 | #11bಧನುರ್ಮಂಡಲ ನಿರ್ಮುಕ್ತೈರಾಶೀವಿಷವಿಷೋಪಮೈಃ ॥ | 6.85.11bधनुर्मण्डलनिर्मुक्तैराशीविषविषोपमैः ॥ ११ ॥ | 6.72.11aधनुर्मण्डलनिर्मुक्तैराशीविषविषोपमैः । | 6.85.12aधनुर्मण्डलनिर्मुक्तैराशीविषविषोपमैः । | 6.85.12aधनुर्मण्डलनिर्मुक्तैराशीविषविषोपमैः। | ||
| 23 | #12aಶರೈರ್ಹಂತುಂ ಮಹೇಷ್ವಾಸೋ ರಾವಣಿಂ ಸಮಿತಿಂಜಯಃ । | 6.85.12aशरैर्हन्तुं महेष्वासो रावणिं समितिञ्जयः । | 6.72.11bशरैर्हन्तुं महेष्वासो रावणिं समितिंजयः ॥6.72.11॥ | 6.85.12bशरैर्हन्तुं महेष्वासो रावणिं समितिंजयः ॥ १२ ॥ | 6.85.12bशरैर्हन्तुं महेष्वासो रावणिं समितिञ्जयः ॥ 6.85.12 ॥ | ||
| 24 | #12bತೇನ ವೀರೇಣ ತಪಸಾ ವರದಾನಾತ್ ಸ್ವಯಂಭುವಃ । | 6.85.12bतेन वीरेण तपसा वरदानात् स्वयम्भुवः । | 6.72.12aतेन वीरेण तपसा वरदानात्स्वयम्भुतः । | 6.85.13aतेन वीर्येण तपसा वरदानात्स्वयंभुवः । | 6.85.13aतेन वीर्येण तपसा वरदानात् स्वयम्भुवः। | ||
| 25 | #12cಅಸ್ತ್ರಂ ಬ್ರಹ್ಮಶಿರಃ ಪ್ರಾಪ್ತಂ ಕಾಮಗಾಶ್ಚ ತುರಂಗಮಾಃ ॥ | 6.85.12cअस्त्रं ब्रह्मशिरः प्राप्तं कामगाश्च तुरङ्गमाः ॥ १२ ॥ | 6.72.12bअस्त्रं ब्रह्मशिरः प्राप्तं कामगाश्च तुरंगमाः ॥6.72.12॥ | 6.85.13bअस्त्रं ब्रह्मशिरः प्राप्तं कामगाश्च तुरङ्गमाः ॥ १३ ॥ | 6.85.13bअस्त्रं ब्रह्मशिरः प्राप्तं कामगाश्च तुरङ्गमाः ॥ 6.85.13 ॥ | ||
| 26 | 6.72.13aनिकुम्भिलामसंप्राप्तमहुताग्निं च यो रिपुः । | ||||||
| 27 | #13aಸ ಏಷ ಕಿಲ ಸೈನ್ಯೇನ ಪ್ರಾಪ್ತಃ ಕಿಲ ನಿಕುಂಭಿಲಾಮ್ । | 6.85.13aस एष किल सैन्येन प्राप्तः किल निकुम्भिलाम् । | 6.85.14aस एष सह सैन्येन प्राप्तः किल निकुम्भिलाम् । | 6.85.14aस एष सह सैन्येन प्राप्तः किल निकुम्भिलाम्। | |||
| 28 | #13bಯದ್ಯುತ್ತಿಷ್ಠೇತ್ಕೃತಂ ಕರ್ಮ ಹತಾನ್ಸರ್ವಾಂಶ್ಚ ವಿದ್ಧಿ ನಃ ॥ | 6.85.13bयद्युत्तिष्ठेत् कृतं कर्म हतान् सर्वांश्च विद्धि नः ॥ १३ ॥ | 6.85.14bयद्युत्तिष्ठेत्कृतं कर्म हतान्सर्वांश्च विद्धि नः ॥ १४ ॥ | 6.85.14bयद्युत्तिष्ठेत् कृतं कर्म हतान् सर्वांश्च विद्धि नः ॥ 6.85.14 ॥ | |||
| 29 | #14aನಿಕುಂಭಿಲಾಮ ಸಂಪ್ರಾಪ್ತಮಕೃತಾಗ್ನಿಂ ಚ ಯೋ ರಿಪುಃ । | 6.85.14aनिकुम्भिलामसम्प्राप्तमकृताग्निं च यो रिपुः । | #15aनिक्कुम्भिलामसंप्राप्तमहुताग्निं च यो रिपुः । | ||||
| 30 | #14bತ್ವಾಮಾತತಾಯಿನಂ ಹನ್ಯಾದಿಂದ್ರಿಶತ್ರೋಃ ಸ ತೇ ವಧಃ ॥ | 6.85.14bत्वामाततायिनं हन्यादिन्द्रशत्रो स ते वधः ॥ १४ ॥ | 6.72.13bत्वामाततायिनं हन्यादिन्द्रशत्रो स ते वधः । | #15bत्वामाततायिनं हन्यादिन्द्रशत्रोः स ते बघः ॥ | 6.85.15aत्वामाततायिनं हन्यादिन्द्रशत्रोः स ते वधः। | ||
| 31 | 6.72.13cइत्येवं विहितो राजन्वधस्तस्यैव धीमतः ॥6.72.13॥ | ||||||
| 32 | #15aವರೋ ದತ್ತೋ ಮಹಾಬಾಹೋ ಸರ್ವಲೋಕೇಶ್ವರೇಣ ವೈ । | 6.85.15aवरो दत्तो महाबाहो सर्वलोकेश्वरेण वै । | 6.85.15वरो दत्तो महाबाहो सर्वलोकेश्वरेण वै ॥ १५ ॥ | 6.85.15bवरो दत्तो महाबाहो सर्वलोकेश्वरेण वै ॥ 6.85.15 ॥ | |||
| 33 | #15bಇತ್ಯೇವಂ ವಿಹಿತೋ ರಾಜನ್ ವಧಸ್ತಸ್ಯೈಷ ಧೀಮತಃ ॥ | 6.85.15bइत्येवं विहितो राजन् वधस्तस्यैष धीमतः ॥ १५ ॥ | 6.85.16aइत्येवं विहितो राजन्वधस्तस्यैष धीमतः । | ||||
| 34 | #16aವಧಾಯೇಂದ್ರಜಿತೋ ರಾಮಸಂದಿಶಸ್ವ ಮಹಾಬಲಮ್ । | 6.85.16aवधायेन्द्रजितो राम सन्दिशस्व महाबलम् । | 6.72.14aवधायेन्द्रजितो राम तं दिशस्व महाबलम् । | 6.85.16bवधायेन्द्रजितो राम संदिशस्व महाबल । | 6.85.16aवधायेन्द्रजितो राम सन्दिशस्व महाबल। | ||
| 35 | #16bಹತೇ ತಸ್ಮಿನ್ ಹತಂ ವಿದ್ಧಿ ರಾವಣಂ ಸಸುಹೃದ್ಗಣಮ್ ॥ | 6.85.16bहते तस्मिन् हतं विद्धि रावणं ससुहृद्गणम् ॥ १६ ॥ | 6.72.14bहते तस्मिन्हतं विद्धि रावणं ससुहृज्जनम् ॥6.72.14॥ | 6.85.16cहते तस्मिन्हतं विद्धि रावणं ससुहृज्जनम् ॥ १६ ॥ | 6.85.16bहते तस्मिन् हतं विद्धि रावणं ससुहृज्जनम् ॥ 6.85.16 ॥ | ||
| 36 | #17aವಿಭೀಷಣವಚಃ ಶ್ರುತ್ವಾ ರಾಮೋ ವಾಕ್ಯಮಥಾಬ್ರವೀತ್ । | 6.85.17aविभीषणवचः श्रुत्वा रामो वाक्यमथाब्रवीत् । | 6.72.15aविभीषणवचः श्रुत्व रामो वाक्यमथाब्रवीत् । | 6.85.17विभीषणवचः श्रुत्वा राघवो वाक्यमब्रवीत् ॥ १७ ॥ | 6.85.17विभीषणवचः श्रुत्वा राघवो वाक्यमब्रवीत् ॥ 6.85.17 ॥ | ||
| 37 | #17bಜಾನಾಮಿ ತಸ್ಯ ರೌದ್ರಸ್ಯ ಮಾಯಾಂ ಸತ್ಯಪರಾಕ್ರಮ ॥ | 6.85.17bजानामि तस्य रौद्रस्य मायां सत्यपराक्रम ॥ १७ ॥ | 6.72.15bजानामि तस्य रौद्रस्य मायां सत्यपराक्रम ॥6.72.15॥ | 6.85.18aजानामि तस्य रौद्रस्य मायां सत्यपराक्रम । | |||
| 38 | #18aಸ ಹಿ ಬ್ರಹ್ಮಾಸ್ತ್ರವಿತ್ ಪ್ರಾಜ್ಞೋ ಮಹಾಮಾಯೋ ಮಹಾಬಲಃ । | 6.85.18aस हि ब्रह्मास्त्रवित् प्राज्ञो महामायो महाबलः । | 6.72.16aस हि ब्रह्मास्त्रवित्प्राज्ञो महामायो महाबलः । | 6.85.18bस हि ब्रह्मास्त्रवित्प्राज्ञो महामायो महाबलः । | 6.85.18aस हि ब्रह्मास्त्रवित् प्राज्ञो महामायो महाबलः। | ||
| 39 | #18bಕರೋತ್ಯ ಸಂಜ್ಞಾನ್ ಸಂಗ್ರಾಮೇ ದೇವಾನ್ಸವರುಣಾನಪಿ ॥ | 6.85.18bकरोत्यसञ्ज्ञान् सङ्ग्रामे देवान् सवरुणानपि ॥ १८ ॥ | 6.72.16bकरोत्यसंज्ञान्संग्रामे देवान्सवरुणानपि ॥6.72.16॥ | 6.85.18cकरोत्यसंज्ञान्सङ्ग्रामे देवान्सवरुणानपि ॥ १८ ॥ | 6.85.18bकरोत्यसञ्ज्ञान् सङ्ग्रामे देवान् सवरुणानपि ॥ 6.85.18 ॥ | ||
| 40 | #19aತಸ್ಯಾಂತರಿಕ್ಷೇ ಚರತಃ ರಥಸ್ಥಸ್ಯ ಮಹಾಯಶಃ । | 6.85.19aतस्यान्तरिक्षे चरतः सरथस्य महायशः । | 6.72.17aतस्यान्तरिक्षे चरतो रथस्थस्य महायशः । | 6.85.19aतस्यान्तरिक्षे चरतो रथस्थस्य महायशः । | 6.85.19aतस्यान्तरिक्षे चरतो रथस्थस्य महायशः। | ||
| 41 | #19bನ ಗತಿರ್ಜ್ಞಾಯತೇ ವೀರ ಸೂರ್ಯಸ್ಯೇವಾಭ್ರಸಂಪ್ಲವೇ ॥ | 6.85.19bन गतिर्ज्ञायते वीर सूर्यस्येवाभ्रसम्प्लवे ॥ १९ ॥ | 6.72.17bन गतिर्ज्ञायते वीरसूर्यस्येवाभ्रसंप्लवे ॥6.72.17॥ | 6.85.19bन गतिर्ज्ञायते तस्य सूर्यस्येवाभ्रसंप्लवे ॥ १९ ॥ | 6.85.19bन गतिर्ज्ञायते तस्य सूर्यस्येवाभ्रसम्प्लवे ॥ 6.85.19 ॥ | ||
| 42 | #20aರಾಘವಸ್ತು ರಿಪೋರ್ಜ್ಞಾತ್ವಾ ಮಾಯಾವೀರ್ಯ ದುರಾತ್ಮನಃ । | 6.85.20aराघवस्तु रिपोर्ज्ञात्वा मायावीर्यं दुरात्मनः । | 6.72.18aराघवस्तु रिपोर्ज्ञात्वा मायावीर्यं दुरात्मनः । | 6.85.20aराघवस्तु रिपोर्ज्ञात्वा मायावीर्यं दुरात्मनः । | 6.85.20aराघवस्तु रिपोर्ज्ञात्वामायावीर्यं दुरात्मनः। | ||
| 43 | #20bಲಕ್ಷ್ಮಣಂ ಕೀರ್ತಿಸಂಪನ್ನಮಿದಂ ವಚನಮಬ್ರವೀತ್ ॥ | 6.85.20bलक्ष्मणं कीर्तिसम्पन्नमिदं वचनमब्रवीत् ॥ २० ॥ | 6.72.18bलक्ष्मणं कीर्तिसंपन्नमिदं वचनमब्रवीत् ॥6.72.18॥ | 6.85.20bलक्ष्मणं कीर्तिसंपन्नमिदं वचनमब्रवीत् ॥ २० ॥ | 6.85.20bलक्ष्मणं कीर्तिसम्पन्नमिदं वचनमब्रवीत् ॥ 6.85.20 ॥ | ||
| 44 | #21aಯದ್ವಾ ನರೇಂದ್ರಸ್ಯ ಬಲಂ ತೇನ ಸರ್ವೇಣ ಸಂವೃತಃ । | 6.85.21aयद् वानरेन्द्रस्य बलं तेन सर्वेण संवृतः । | 6.72.19aयद्वानरेन्द्रस्य बलं तेन सर्वेण संवृतः । | 6.85.21aयद्वानरेन्द्रस्य बलं तेन सर्वेण संवृतः । | 6.85.21aयद्वानरेन्द्रस्य बलं तेन सर्वेण संवृतः। | ||
| 45 | #21bಹನೂಮತ್ಪ್ರ ಮುಖೈಶ್ಚೈವ ಯೂಥಪೈಃ ಸಹ ಲಕ್ಷ್ಮಣ ॥ | 6.85.21bहनूमत्प्रमुखैश्चैव यूथपैः सह लक्ष्मण ॥ २१ ॥ | 6.72.19bहनूमत्प्रमुखैश्चैव यूथपैः सहलक्ष्मण ॥6.72.19॥ | 6.85.21bहनुमत्प्रमुखैश्चैव यूथपैः सह लक्ष्मण ॥ २१ ॥ | 6.85.21bहनुमत्प्रमुखैश्चैव यूथपैः सह लक्ष्मण ॥ 6.85.21 ॥ | ||
| 46 | #22aಜಾಂಬವೇನರ್ಕ್ಷಪತಿನಾ ಸಹ ಸೈನ್ಯೇನ ಸಂವೃತಃ । | 6.85.22aजाम्बवेनर्क्षपतिना सह सैन्येन संवृतः । | 6.72.20aजाम्बवेनर्क्षपतिना सह सैन्येन संवृतः । | 6.85.22aजाम्बवेनर्क्षपतिना सहसैन्येन संवृतः । | 6.85.22aजाम्बवेनर्क्षपतिना सहसैन्येन संवृतः। | ||
| 47 | #22bಜಹಿ ತಂ ರಾಕ್ಷಸಸುತಂ ಮಾಯಾಬಲಸಮನ್ವಿತಮ್ ॥ | 6.85.22bजहि तं राक्षससुतं मायाबलसमन्वितम् ॥ २२ ॥ | 6.72.20bजहि तं राक्षससुतं मायाबलविशारदम् ॥6.72.20॥ | 6.85.22bजहि तं राक्षससुतं मायाबलविशारदम् ॥ २२ ॥ | 6.85.22bजहि तं राक्षससुतं मायाबलविशारदम् ॥ 6.85.22 ॥ | ||
| 48 | #23aಅಯಂ ತ್ವಾಂ ಸಚಿವೈಃ ಸಾರ್ಧಂ ಮಹಾತ್ಮಾ ರಜನೀಚರಃ । | 6.85.23aअयं त्वां सचिवैः सार्धं महात्मा रजनीचरः । | 6.72.21aअयं त्वां सचिवैः सार्धं महात्मा रजनीचरः । | 6.85.23aअयं त्वां सचिवैः सार्धं महात्मा रजनीचरः । | 6.85.23aअयं त्वां सचिवैः सार्द्धं महात्मा रजनीचरः। | ||
| 49 | #23bಅಭಿಜ್ಞಸ್ತಸ್ಯ ಮಾಯಾನಾಂ ಪೃಷ್ಠತೋಽನುಗಮಿಷ್ಯತಿ ॥ | 6.85.23bअभिज्ञस्तस्य मायानां पृष्ठतोऽनुगमिष्यति ॥ २३ ॥ | 6.72.21bअभिज्ञस्तस्य देशस्य पृष्ठतोऽनुगमिष्यति ॥6.72.21॥ | 6.85.23bअभिज्ञस्तस्य देशस्य पृष्ठतोऽनुगमिष्यति ॥ २३ ॥ | 6.85.23bअभिज्ञस्तस्य देशस्य पृष्ठतोऽनुगमिष्यति ॥ 6.85.23 ॥ | ||
| 50 | #24aರಾಘವಸ್ಯ ವಚಃ ಶ್ರುತ್ವಾ ಲಕ್ಷ್ಮಣಃ ಸವಿಭೀಷಣಃ । | 6.85.24aराघवस्य वचः श्रुत्वा लक्ष्मणः सविभीषणः । | 6.72.22aराघवस्य वचः श्रुत्वा लक्ष्मणः सविभीषणः । | 6.85.24aराघवस्य वचः श्रुत्वा लक्ष्मणः सविभीषणः । | 6.85.24aराघवस्य वचः श्रुत्वा लक्ष्मणः सविभीषणः। | ||
| 51 | #24bಜಗ್ರಾಹ ಕಾರ್ಮುಕ ಶ್ರೇಷ್ಠಮನ್ಯದ್ ಭೀಮಪರಾಕ್ರಮಃ ॥ | 6.85.24bजग्राह कार्मुकश्रेष्ठमन्यद् भीमपराक्रमः ॥ २४ ॥ | 6.72.22bजग्राह कार्मुकं श्रेष्ठमन्यद्भीमपराक्रमः ॥6.72.22॥ | 6.85.24bजग्राह कार्मुकश्रेष्ठमत्यद्भुतपराक्रमः ॥ २४ ॥ | 6.85.24bजाग्राह कार्मुकश्रेष्ठमत्यद्भुतपराक्रमः ॥ 6.85.24 ॥ | ||
| 52 | #25aಸಂನದ್ಧಃ ಕವಚೀ ಖಡ್ಗೀ ಸಶರೀ ವಾಮಚಾಪಭೃತ್ । | 6.85.25aसन्नद्धः कवची खड्गी सशरी वामचापभृत् । | 6.72.23aसंनद्धः कवची खड्गी स शरी हेमचापधृक् । | 6.85.25aसन्नद्धः कवची खड्गी सशरो हेमचापधृत् । | 6.85.25aसन्नद्धः कवची खड्गी सशरो हेमचापधृत्। | ||
| 53 | #25bರಾಮಪಾದಾವುಪಸ್ಪೃಶ್ಯ ಹೃಷ್ಟಃ ಸೌಮಿತ್ರಿರಬ್ರವೀತ್ ॥ | 6.85.25bरामपादावुपस्पृश्य हृष्टः सौमित्रिरब्रवीत् ॥ २५ ॥ | 6.72.23bरामपादावुपस्पृश्य हृष्टः सौमित्रिरब्रवीत् ॥6.72.23॥ | 6.85.25bरामपादावुपस्पृश्य हृष्टः सौमित्रिरब्रवीत् ॥ २५ ॥ | 6.85.25bरामपादावुपस्पृश्य हृष्टः सौमित्रिरब्रवीत् ॥ 6.85.25 ॥ | ||
| 54 | #26aಅದ್ಯ ಮತ್ಕಾರ್ಮುಕೋನ್ಮುಕ್ತಾಃ ಶರಾ ನಿರ್ಭಿದ್ಯ ರಾವಣಿಮ್ । | 6.85.26aअद्य मत्कार्मुकोन्मुक्ताः शरा निर्भिद्य रावणिम् । | 6.72.24aअद्य मत्कार्मुकोन्मुखाः शरा निर्भिद्य रावणिम् । | 6.85.26aअद्य मत्कार्मुकोन्मुक्ताः शरा निर्भिद्य रावणिम् । | 6.85.26aअद्य मत्कार्मुकोन्मुक्ताः शरा निर्भिद्य रावणिम्। | ||
| 55 | #26bಲಂಕಾಮಭಿಪತಿಷ್ಯಂತಿ ಹಂಸಾಃ ಪುಷ್ಕರಿಣೀಮಿವ ॥ | 6.85.26bलङ्कामभिपतिष्यन्ति हंसाः पुष्करिणीमिव ॥ २६ ॥ | 6.72.24bलङ्कामभिपतिष्यन्ति हंसाः पुष्करिणीमिव ॥6.72.24॥ | 6.85.26bलङ्कामभिपतिष्यन्ति हंसाः पुष्करिणीमिव ॥ २६ ॥ | 6.85.26bलङ्कामभिपतिष्यन्ति हंसाः पुष्करिणीमिव ॥ 6.85.26 ॥ | ||
| 56 | #27aಅದ್ಯೈವ ತಸ್ಯ ರೌದ್ರಸ್ಯಶರೀರಂ ಮಾಮಕಾಃ ಶರಾಃ । | 6.85.27aअद्यैव तस्य रौद्रस्य शरीरं मामकाः शराः । | 6.72.25aअद्यैव तस्य रौद्रस्य शरीरं मामकाः शराः । | 6.85.27aअद्यैव तस्य रौद्रस्य शरीरं मामकाः शराः । | 6.85.27aअद्यैव तस्य रौद्रस्य शरीरं मामकाः शराः। | ||
| 57 | #27bವಿಧಮಿಷ್ಯಂತಿ ಭಿತ್ತ್ವಾ ತಂ ಮಹಾಚಾಪ ಗುಣಚ್ಚ್ಯುತಾಃ ॥ | 6.85.27bविधमिष्यन्ति भित्त्वा तं महाचापगुणच्युताः ॥ २७ ॥ | 6.72.25bविधमिष्यन्ति हत्वा तं महाचापगुणच्युताः ॥6.72.25॥ | 6.85.27bविधमिष्यन्ति भित्वा तं महाचापगुणच्युताः ॥ २७ ॥ | 6.85.27bविधमिष्यन्ति भित्त्वा तं महाचापगुणच्युताः ॥ 6.85.27 ॥ | ||
| 58 | #28aಏವಮುಕ್ತ್ವಾ ತುವಚನಂ ದ್ಯುತಿಮಾನ್ ಭ್ರಾತುರಗ್ರತಃ । | 6.85.28aएवमुक्त्वा तु वचनं द्युतिमान् भ्रातुरग्रतः । | 6.72.26aस एवमुक्त्वा द्युतिमान्वचनं भ्रातुरग्रतः । | 6.85.28aस एवमुक्त्वा द्युतिमान्वचनं भ्रातुरग्रतः । | 6.85.28aस एवमुक्त्वा द्युतिमान् वचनं भ्रातुरग्रतः। | ||
| 59 | #28bಸ ರಾವಣಿವಧಾಕಾಂಕ್ಷೀ ಲಕ್ಷ್ಮಣಸ್ತ್ವರಿತಂ ಯಯೌ ॥ | 6.85.28bस रावणिवधाकाङ्क्षी लक्ष्मणस्त्वरितं ययौ ॥ २८ ॥ | 6.72.26bस रावणिवधाकाङ्क्षी लक्ष्मणस्त्वरितो ययौ ॥6.72.26॥ | 6.85.28bस रावणिवधाकाङ्क्षी लक्ष्मणस्त्वरितो ययौ ॥ २८ ॥ | 6.85.28bस रावणिवधाकाङ्क्षी लक्ष्मणस्त्वरितो ययौ ॥ 6.85.28 ॥ | ||
| 60 | #29aಸೋಽಭಿವಾದ್ಯ ಗುರೋಃ ಪಾದೌ ಕೃತ್ವಾ ಚಾಪಿ ಪ್ರದಕ್ಷಿಣಮ್ । | 6.85.29aसोऽभिवाद्य गुरोः पादौ कृत्वा चापि प्रदक्षिणम् । | 6.72.27aसोऽभिवाद्य गुरोः पादौ कृत्वा चापि प्रदक्षिणम् । | 6.85.29aसोभिवाद्य गुरोः पादौ कृत्वा चापि प्रदक्षिणम् । | 6.85.29aसोऽभिवाद्य गुरोः पादौ कृत्वा चापि प्रदक्षिणम्। | ||
| 61 | #29bನಿಕುಂಭಿಲಾಮಭಿಯಯೌ ಚೈತ್ಯಂ ರಾವಣಿಪಾಲಿತಮ್ ॥ | 6.85.29bनिकुम्भिलामभिययौ चैत्यं रावणिपालितम् ॥ २९ ॥ | 6.72.27bनिकुम्भिलामभिययौ चैत्यं रावणिपालितम् ॥6.72.27॥ | 6.85.29bनिकुम्भिलामभिययौ चैत्यं रावणिपालितम् ॥ २९ ॥ | 6.85.29bनिकुम्भिलामभिययौ चैत्यं रावणिपालितम् ॥ 6.85.29 ॥ | ||
| 62 | #30aವಿಭೀಷಣೇನ ಸಹಿತೋ ರಾಜಪುತ್ರಃ ಪ್ರತಾಪವಾನ್ । | 6.85.30aविभीषणेन सहितो राजपुत्रः प्रतापवान् । | 6.72.28aविभीषणेन सहितो राजपुत्रः प्रतापवान् । | 6.85.30aविभीषणेन सहितो राजपुत्रः प्रतापवान् । | 6.85.30aविभीषणेन सहितो राजपुत्रः प्रतापवान्। | ||
| 63 | #30bಕೃತಸ್ವಸ್ತ್ಯಯನೋ ಭ್ರಾತ್ರಾ ಲಕ್ಷ್ಮಣಸ್ತ್ವರಿತೋ ಯಯೌ ॥ | 6.85.30bकृतस्वस्त्ययनो भ्रात्रा लक्ष्मणस्त्वरितो ययौ ॥ ३० ॥ | 6.72.28bकृतस्वस्त्ययनो भ्रात्रा लक्ष्मणस्त्वरितो ययौ ॥6.72.28॥ | 6.85.30bकृतस्वस्त्ययनो भ्रात्रा लक्ष्मणस्त्वरितो ययौ ॥ ३० ॥ | 6.85.30bकृतस्वस्त्ययनो भ्रात्रा लक्ष्मणस्त्वरितो ययौ ॥ 6.85.30 ॥ | ||
| 64 | #31aವಾನರಾಣಾಂ ಸಹಸ್ರೈಸ್ತು ಹನೂಮಾನ್ ಬಹುಭಿರ್ವೃತಃ । | 6.85.31aवानराणां सहस्रैस्तु हनूमान् बहुभिर्वृतः । | 6.72.29aवानराणां सहस्रैस्तु हनूमान्बहुभिर्वृतः । | 6.85.31aवानराणां सहस्रैस्तु हनुमान्बहुभिर्वृतः । | 6.85.31aवानराणां सहस्रैस्तु हनुमान् बहुभिर्वृतः। | ||
| 65 | #31bವಿಭೀಷಣಶ್ಚ ಸಾಮಾತ್ಯೋ ಲಕ್ಷ್ಮಣಂ ತ್ವರಿತಂ ಯಯೌ ॥ | 6.85.31bविभीषणश्च सामात्यो लक्ष्मणं त्वरितं ययौ ॥ ३१ ॥ | 6.72.29bविभीषणः सहामात्यस्तदा लक्ष्मणमन्वगात् ॥6.72.29॥ | 6.85.31bविभीषणश्च सामात्यस्तदा लक्ष्मणमन्वगात् ॥ ३१ ॥ | 6.85.31bविभीषणश्च सामात्यस्तदा लक्ष्मणमन्वगात् ॥ 6.85.31 ॥ | ||
| 66 | #32aಮಹತಾ ಹರಿಸೈನ್ಯೇನ ಸ ವೇಗಮಭಿಸಂವೃತಃ । | 6.85.32aमहता हरिसैन्येन सवेगमभिसंवृतः । | 6.72.30aमहता हरिसैन्येन सवेगमभिसंवृतः । | 6.85.32aमहता हरिसैन्येन सवेगमभिसंवृतः । | 6.85.32aमहता हरिसैन्येन सवेगमभिसंवृतः। | ||
| 67 | #32bಋಕ್ಷರಾಜಬಲಂ ಚೈವ ದದರ್ಶ ಪಥಿ ವಿಷ್ಠಿತಮ್ ॥ | 6.85.32bऋक्षराजबलं चैव ददर्श पथि विष्ठितम् ॥ ३२ ॥ | 6.72.30bऋक्षराजबलं चैव ददर्श पथि विष्ठितम् ॥6.72.30॥ | 6.85.32bऋक्षराजबलं चैव ददर्श पथि विष्ठितम् ॥ ३२ ॥ | 6.85.32bऋक्षराजबलं चैव ददर्श पथि विष्ठितम् ॥ 6.85.32 ॥ | ||
| 68 | #33aಸ ಗತ್ವಾ ದೂರಮಧ್ವಾನಂ ಸೌಮಿತ್ರಿರ್ಮಿತ್ರನಂದನಃ । | 6.85.33aस गत्वा दूरमध्वानं सौमित्रिर्मित्रनन्दनः । | 6.72.31aस गत्वा दूरमध्वानं सौमित्रिर्मित्रनन्दनः । | 6.85.33aस गत्वा दूरमध्वानं सौमित्रिर्मित्रनन्दनः । | 6.85.33aस गत्वा दूरमध्वानं सौमित्रिर्मित्रनन्दनः। | ||
| 69 | #33bರಾಕ್ಷಸೇಂದ್ರ ಬಲಂ ದೂರಾದಪಶ್ಯದ್ ವ್ಯೂಹಮಾಸ್ಥಿತಮ್ ॥ | 6.85.33bराक्षसेन्द्रबलं दूरादपश्यद् व्यूहमाश्रितम् ॥ ३३ ॥ | 6.72.31bराक्षसेन्द्रबलं दूरादपश्यद्व्यूहमास्थितम् ॥6.72.31॥ | 6.85.33bराक्षसेन्द्रबलं दूरादपश्यद्व्यूहमास्थितम् ॥ ३३ ॥ | 6.85.33bराक्षसेन्द्रबलं दूरादपश्यद् व्यूहमास्थितम् ॥ 6.85.33 ॥ | ||
| 70 | #34aಸ ಸಂ ಪ್ರಾಪ್ಯ ಧನುಷ್ಪಾಣಿರ್ಮಾಯಾಯೋಗಮರಿಂದಮಃ । | 6.85.34aस सम्प्राप्य धनुष्पाणिर्मायायोगमरिन्दमः । | 6.72.32aस संप्राप्य धनुष्पाणिर्मायायोगमरिंदम । | 6.85.34aस तं प्राप्य धनुष्पाणिर्मायायोगमरिन्दमः । | 6.85.34aस तं प्राप्य धनुष्पाणिर्मायायोगमरिन्दमः। | ||
| 71 | #34bತಸ್ಥೌ ಬ್ರಹ್ಮವಿಧಾನೇನ ವಿಜೇತುಂ ರಘುನಂದನಃ ॥ | 6.85.34bतस्थौ ब्रह्मविधानेन विजेतुं रघुनन्दनः ॥ ३४ ॥ | 6.72.32bतस्थौ ब्रह्मविधानेन विजेतुं रघुनन्दनः ॥6.72.32॥ | 6.85.34bतस्थौ ब्रह्मविधानेन विजेतुं रघुनन्दनः ॥ ३४ ॥ | 6.85.34bतस्थौ ब्रह्मविधानेन विजेतुं रघुनन्दनः ॥ 6.85.34 ॥ | ||
| 72 | #35aವಿಭೀಷಣೇನ ಸಹಿತೋ ರಾಜಪುತ್ರಃ ಪ್ರತಾಪವಾನ್ । | 6.85.35aविभीषणेन सहितो राजपुत्रः प्रतापवान् । | 6.85.35aविभीषणेन सहितो राजपुत्रः प्रतापवान् । | 6.85.35aविभीषणेन सहितो राजपुत्रः प्रतापवान्। | |||
| 73 | #35bಅಂಗದೇನ ಚ ವೀರೇಣ ತಥಾನಿಲಸುತೇನ ಚ ॥ | 6.85.35bअङ्गदेन च वीरेण तथानिलसुतेन च ॥ ३५ ॥ | 6.85.35bअङ्गदेन च वीरेण तथाऽनिलसुतेन च ॥ ३५ ॥ | 6.85.35bअङ्गदेन च वीरेण तथाऽनिलसुतेन च ॥ 6.85.35 ॥ | |||
| 74 | #36aವಿವಿಧಮಮಲಶಸ್ತ್ರ ಭಾಸ್ವರಂ ತದ್ ಧ್ವಜಗಹನಂ ಗಹನಂ ಮಹಾರಥೈಶ್ಚ । | 6.85.36aविविधममलशस्त्रभास्वरं तद् ध्वजगहनं गहनं महारथैश्च । | 6.72.33aविविधममलशस्त्रभास्वरं त द्ध्वजगहनं विपुलं महारथैश्च । | 6.85.36aविविधममलशस्त्रभास्वरं तद्ध्वजगहनं विपुलं महारथैश्च । | 6.85.36aविविधममलशस्त्रभास्वरं तद् ध्वजगहनं विपुलं महारथैश्च। | ||
| 75 | #36bಪ್ರತಿಭಯತಮಮಪ್ರಮೇಯವೇಗಂ ತಿಮಿರಮಿವ ದ್ವಿಷತಾಂ ಬಲಂ ವಿವೇಶ ॥ | 6.85.36bप्रतिभयतममप्रमेयवेगं तिमिरमिव द्विषतां बलं विवेश ॥ ३६ ॥ | 6.72.33bप्रतिभयतममप्रमेयवेगं तिमिरमिव द्विषतां बलं विवेश ॥6.72.33॥ | 6.85.36bप्रतिभयतममप्रमेयवेगं तिमिरमिव द्विषतां बलं विवेश ॥ ३६ ॥ | 6.85.36bप्रतिभयतममप्रमेयवेगं तिमिरमिव द्विषतां बलं विवेश ॥ 6.85.36 ॥ | ||
| 76 | 6.85.85इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने पञ्चाशीतितमः सर्गः ॥ ८५ ॥ |