रावणेन इन्द्रजित्प्रेषणम्. Built from structured/verses.jsonl. Rows are monotone-aligned half-verse/pāda-like units split at । and ॥, so verse-number boundary differences can appear as inserted or shifted line rows.
88 aligned line rows across 7 source streams.
gor-kn 86 lines
gor-hi 86 lines
crit 84 lines
gr 86 lines
dr-mula 85 lines
| # | gor-kn | gor-hi | crit | gr | dr-mula | gr-iitk | iitk |
|---|---|---|---|---|---|---|---|
| 1 | #1aಮಕರಾಕ್ಷಂ ಹತಂ ಶ್ರುತ್ವಾ ರಾವಣಃ ಸಮಿತಿಂಜಯಃ । | 6.80.1aमकराक्षं हतं श्रुत्वा रावणः समितिञ्जयः । | 6.67.1aमकराक्षं हतं श्रुत्वा रावणः समितिंजयः । | 6.80.1aमकराक्षं हतं श्रुत्वा रावणः समितिंजयः । | 6.80.1aमकराक्षं हतं श्रुत्वा रावणः समितिञ्जयः। | ||
| 2 | #1bರೋಷೇಣ ಮಹತಾವಿಷ್ಟೋ ದಂತಾನ್ಕಟಕಟಾಯ್ಯ ಚ ॥ | 6.80.1bरोषेण महताविष्टो दन्तान् कटकटाय्य च ॥ १ ॥ | 6.80.1bक्रोधेन महताऽऽविष्टो दन्तान्कटकटापयन् ॥ १ ॥ | 6.80.1bक्रोधेन महताऽऽविष्टो दन्तान् कटकटापयन् ॥ 6.80.1 ॥ | |||
| 3 | #2aಕುಪಿತಶ್ಚ ತದಾ ತತ್ರ ಕಿಂ ಕಾರ್ಯಮಿತಿ ಚಿಂತಯನ್ । | 6.80.2aकुपितश्च तदा तत्र किं कार्यमिति चिन्तयन् । | 6.80.2aकुपितश्च तदा तत्र किं कार्यमिति चिन्तयन् । | 6.80.2aकुपितश्च तदा तत्र किं कार्यमिति चिन्तयन्। | |||
| 4 | #2bಆದಿದೇಶಾಥ ಸಂಕ್ರುದ್ಧೋ ರಣಾಯೇಂದ್ರಜಿತಂ ಸುತಮ್ ॥ | 6.80.2bआदिदेशाथ सङ्क्रुद्धो रणायेन्द्रजितं सुतम् ॥ २ ॥ | 6.67.1bआदिदेशाथ संक्रुद्धो रणायेन्द्रजितं सुतम् ॥6.67.1॥ | 6.80.2bआदिदेशाथ संक्रुद्धो रणायेन्द्रजितं सुतम् ॥ २ ॥ | 6.80.2bआदिदेशाथ सङ्क्रुद्धो रणायेन्द्रजितं सुतम् ॥ 6.80.2 ॥ | ||
| 5 | #3aಜಹಿ ವೀರ ಮಹಾವೀರ್ಯೌ ಭ್ರಾತರೌ ರಾಮಲಕ್ಷ್ಮಣೌ । | 6.80.3aजहि वीर महावीर्यौ भ्रातरौ रामलक्ष्मणौ । | 6.67.2aजहि वीर महावीर्यौ भ्रातरौ रामलक्ष्मणौ । | 6.80.3aजहि वीर महावीर्यौ भ्रातरौ रामलक्ष्मणौ । | 6.80.3aजहि वीर महावीर्यौ भ्रातरौ रामलक्ष्मणौ। | ||
| 6 | #3bಅದೃಶ್ಯೋ ದೃಶ್ಯಮಾನೋ ವಾ ಸರ್ವಥಾ ತ್ವಂ ಬಲಾಧಿಕಃ ॥ | 6.80.3bअदृश्यो दृश्यमानो वा सर्वथा त्वं बलाधिकः ॥ ३ ॥ | 6.67.2bअदृश्यो दृश्यमानो वा सर्वथा त्वं बलाधिकः ॥6.67.2॥ | 6.80.3bअदृश्यो दृश्यमानो वा सर्वथा त्वं बलाधिकः ॥ ३ ॥ | 6.80.3bअदृश्यो दृश्यमानो वा सर्वथा त्वं बलाधिकः ॥ 6.80.3 ॥ | ||
| 7 | #4aತ್ವಮಪ್ರತಿಮಕರ್ಮಾಣಮಿಂದ್ರಂ ಜಯಸಿ ಸಂಯುಗೇ । | 6.80.4aत्वमप्रतिमकर्माणमिन्द्रं जयसि संयुगे । | 6.67.3aत्वमप्रतिमकर्माणमिन्द्रं जयसि संयुगे । | 6.80.4aत्वमप्रतिमकर्माणमिन्द्रं जयसि संयुगे । | 6.80.4aत्वमप्रतिमकर्माणमिन्द्रं जयसि संयुगे। | ||
| 8 | #4bಕಿಂ ಪುನರ್ಮಾನುಷೌ ದೃಷ್ಟ್ವಾ ನ ವಧಿಷ್ಯಸಿ ಸಂಯುಗೇ ॥ | 6.80.4bकिं पुनर्मानुषौ दृष्ट्वा न वधिष्यसि संयुगे ॥ ४ ॥ | 6.67.3bकिं पुनर्मानुषौ दृष्ट्वा न वधिष्यसि संयुगे ॥6.67.3॥ | 6.80.4bकिं पुनर्मानुषौ दृष्ट्वा न वधिष्यसि संयुगे ॥ ४ ॥ | 6.80.4bकिं पुनर्मानुषौ दृष्ट्वा न वधिष्यसि संयुगे ॥ 6.80.4 ॥ | ||
| 9 | #5aತಥೋಕ್ತೋ ರಾಕ್ಷಸೇಂದ್ರೇಣ ಪ್ರತಿಗೃಹ್ಯ ಪಿತುರ್ವಚಃ । | 6.80.5aतथोक्तो राक्षसेन्द्रेण प्रतिगृह्य पितुर्वचः । | 6.67.4aतथोक्तो राक्षसेन्द्रेण प्रतिगृह्य पितुर्वचः । | 6.80.5aतथोक्तो राक्षसेन्द्रेण प्रतिगृह्य पितुर्वचः । | 6.80.5aतथोक्तो राक्षसेन्द्रेण प्रतिगृह्य पितुर्वचः। | ||
| 10 | #5bಯಜ್ಞಭೂಮೌ ಸ ವಿಧಿವತ್ಪಾವಕಂ ಜುಹುವೇಂದ್ರಜಿತ್ ॥ | 6.80.5bयज्ञभूमौ स विधिवत् पावकं जुहुवेन्द्रजित् ॥ ५ ॥ | 6.67.4bयज्ञभूमौ स विधिवत्पावकं जुहुवे न्द्रजित् ॥6.67.4॥ | 6.80.5bयज्ञभूमौ स विधिवत्पावकं जुहवेन्द्रजित् ॥ ५ ॥ | 6.80.5bयज्ञभूमौ स विधिवत् पावकं जुहवेन्द्रजित् ॥ 6.80.5 ॥ | ||
| 11 | #6aಜುಹ್ವತಶ್ಚಾಪಿ ತತ್ರಾಗ್ನಿಂ ರಕ್ತೋಷ್ಣೀಷಧರಾಃ ಸ್ತ್ರಿಯಃ । | 6.80.6aजुह्वतश्चापि तत्राग्निं रक्तोष्णीषधराः स्त्रियः । | 6.67.5aजुह्वतश्चापि तत्राग्निं रक्तोष्णीषधराः स्त्रियः । | 6.80.6aजुह्वतथापि तत्राग्निं रक्तोष्णीषधराः स्त्रियः । | 6.80.6aजुह्वतश्चापि तत्राग्निं रक्तोष्णीषधराः स्त्रियः। | ||
| 12 | #6bಆಜಗ್ಮುಸ್ತತ್ರ ಸಂಭ್ರಾಂತಾರಾಕ್ಷಸ್ಯೋ ಯತ್ರ ರಾವಣಿಃ ॥ | 6.80.6bआजग्मुस्तत्र सम्भ्रान्ता राक्षस्यो यत्र रावणिः ॥ ६ ॥ | 6.67.5bआजग्मुस्तत्र संभ्रान्ता राक्षस्यो यत्र रावणिः ॥6.67.5॥ | 6.80.6bआजग्मुस्तत्र संभ्रान्ता राक्षस्यो यत्र रावणिः ॥ ६ ॥ | 6.80.6bआजग्मुस्तत्र सम्भ्रान्ता राक्षस्यो यत्र रावणिः ॥ 6.80.6 ॥ | ||
| 13 | #7aಶಸ್ತ್ರಾಣಿ ಶರಪತ್ರಾಣಿ ಸಮಿಧೋಽಥ ವಿಭೀತಕಾಃ । | 6.80.7aशस्त्राणि शरपत्राणि समिधोऽथ बिभीतकाः । | 6.67.6aशस्त्राणि शरपत्राणि समिधोऽथ विभीतकाः । | 6.80.7aशस्त्राणि शरपत्राणि समिधोथ विभीतकाः । | 6.80.7aशस्त्राणि शरपत्राणि समिधोऽथ विभीतकाः। | ||
| 14 | #7bಲೋಹಿತಾನಿ ಚ ವಾಸಾಂಸಿ ಸ್ರುವಂ ಕಾರ್ಷ್ಣಾಯಸಂ ತಥಾ ॥ | 6.80.7bलोहितानि च वासांसि स्रुवं कार्ष्णायसं तथा ॥ ७ ॥ | 6.67.6bलोहितानि च वासांसि स्रुवं कार्ष्णायसं तथा ॥6.67.6॥ | 6.80.7bलोहितानि च वासांसि स्रुवं कार्ष्णायसं तथा ॥ ७ ॥ | 6.80.7bलोहितानि च वासांसि स्रुवं कार्ष्णायसं तथा ॥ 6.80.7 ॥ | ||
| 15 | #8aಸರ್ವತೋಽಗ್ನಿಂ ಸಮಾಸ್ತೀರ್ಯ ಶರಪತ್ರೈಃ ಸತೋಮರೈಃ । | 6.80.8aसर्वतोऽग्निं समास्तीर्य शरपत्रैः सतोमरैः । | 6.67.7aसर्वतोऽग्निं समास्तीर्य शरपत्रैः समन्ततः । | 6.80.8aसर्वतोग्निं समास्तीर्य शरपत्रैः सतोमरैः । | 6.80.8aसर्वतोऽग्निं समास्तीर्य शरपत्रैः सतोमरैः। | ||
| 16 | #8bಛಾಗಸ್ಯಸರ್ವ ಕೃಷ್ಣಸ್ಯ ಗಲಂ ಜಗ್ರಾಹ ಜೀವತಃ ॥ | 6.80.8bछागस्य सर्वकृष्णस्य गलं जग्राह जीवतः ॥ ८ ॥ | 6.67.7bछागस्य सर्वकृष्णस्य गलं जग्राह जीवतः ॥6.67.7॥ | 6.80.8bछागस्य कृष्णवर्णस्य गलं जग्राह जीवतः ॥ ८ ॥ | 6.80.8bछागस्य कृष्णवर्णस्य गलं जग्राह जीवितः ॥ 6.80.8 ॥ | ||
| 17 | #9aಸಕೃದ್ಧೋಮಸಮಿದ್ಧಸ್ಯ ವಿಧೂಮಸ್ಯ ಮಹಾರ್ಚಿಷಃ । | 6.80.9aसकृद्धोमसमिद्धस्य विधूमस्य महार्चिषः । | 6.67.8aचरुहोमसमिद्धस्य विधूमस्य महार्चिषः । | 6.80.9aसकृदेव समिद्धस्य विधूमस्य महार्चिषः । | 6.80.9aसकृदेव समिद्धस्य विधूमस्य महार्चिषः। | ||
| 18 | #9bಬಭೂವುಸ್ತಾನಿ ಲಿಂಗಾನಿ ವಿಜಯಂ ದರ್ಶಯಂತಿ ಚ ॥ | 6.80.9bबभूवुस्तानि लिङ्गानि विजयं दर्शयन्ति च ॥ ९ ॥ | 6.67.8bबभूवुस्तानि लिङ्गानि विजयं दर्शयन्ति च ॥6.67.8॥ | 6.80.9bबभूवुस्तानि लिङ्गानि विजयं दर्शयन्ति च ॥ ९॥ | 6.80.9bबभूवुस्तानि लिङ्गानि विजयं दर्शयन्ति च ॥ 6.80.9 ॥ | ||
| 19 | #10aಪ್ರದಕ್ಷಿಣಾವರ್ತಶಿಖಸ್ತಪ್ತಹಾಟಕದಸಂನಿಭಃ । | 6.80.10aप्रदक्षिणावर्तशिखस्तप्तहाटकसन्निभः । | 6.67.9aप्रदक्षिणावर्तशिखस्तप्तहाटकसंनिभः । | 6.80.10aप्रदक्षिणावर्तशिखस्तप्तहाटकसन्निभः । | 6.80.10aप्रदक्षिणावर्तशिखस्तप्तहाटकसन्निभः। | ||
| 20 | #10bಹವಿಸ್ತತ್ ಪ್ರತಿಜಗ್ರಾಹ ಪಾವಕಃ ಸ್ವಯಮುತ್ಥಿತಃ ॥ | 6.80.10bहविस्तत् प्रतिजग्राह पावकः स्वयमुत्थितः ॥ १० ॥ | 6.67.9bहविस्तत्प्रतिजग्राह पावकः स्वयमुत्थितः ॥6.67.9॥ | 6.80.10bहविस्तत्प्रतिजग्राह पावकः स्वयमुत्थितः ॥ १० ॥ | 6.80.10bहविस्तत् प्रतिजग्राह पावकः स्वयमुत्थितः ॥ 6.80.10 ॥ | ||
| 21 | #11aಹುತ್ವಾಗ್ನಿಂ ತರ್ಪಯಿತ್ವಾಥ ದೇವದಾನವ ರಾಕ್ಷಸಾನ್ । | 6.80.11aहुत्वाग्निं तर्पयित्वाथ देवदानवराक्षसान् । | 6.67.10aहुत्वाग्निं तर्पयित्वाथ देवदानवराक्षसान् । | 6.80.11aहुत्वाऽग्निं तर्पयित्वा च देवदानवराक्षसान् । | 6.80.11aहुत्वाऽग्निं तर्पयित्वा च देवदानवराक्षसान्। | ||
| 22 | #11bಆರುರೋಹ ರಥಶ್ರೇಷ್ಠ ಮಂತರ್ಧಾನಗತಂ ಶುಭಮ್ ॥ | 6.80.11bआरुरोह रथश्रेष्ठमन्तर्धानगतं शुभम् ॥ ११ ॥ | 6.67.10bआरुरोह रथश्रेष्ठमन्तर्धानगतं शुभम् ॥6.67.10॥ | 6.80.11bआरुरोह रथश्रेष्ठमन्तर्धानगतं शुभम् ॥ ११ ॥ | 6.80.11bआरुरोह रथश्रेष्ठमन्तर्धानगतं शुभम् ॥ 6.80.11 ॥ | ||
| 23 | #12aಸ ವಾಜಿಭಿಶ್ಚತುರ್ಭಿಶ್ಚ ಬಾಣೈಸ್ತು ನಿಶಿತೈರ್ಯುತಃ । | 6.80.12aस वाजिभिश्चतुर्भिस्तु बाणैस्तु निशितैर्युतः । | 6.67.11aस वाजिभिश्चतुर्भिस्तु बाणैश्च निशितैर्युतः । | 6.80.12aस वाजिभिश्चतुर्भिश्च बाणैश्च निशितैर्युतः । | 6.80.12aस वाजिभिश्चतुर्भिश्च बाणैश्च निशितैर्युतः। | ||
| 24 | #12bಆರೋಪಿತ ಮಹಾಚಾಪಃ ಶುಶುಭೇ ಸ್ಯಂದನೋತ್ತಮಃ ॥ | 6.80.12bआरोपितमहाचापः शुशुभे स्यन्दनोत्तमः ॥ १२ ॥ | 6.67.11bआरोपितमहाचापः शुशुभे स्यन्दनोत्तमे ॥6.67.11॥ | 6.80.12bआरोपितमहाचापः शुशुभे स्यन्दनोत्तमः ॥ १२ ॥ | 6.80.12bआरोपितमहाचापः शुशुभे स्यन्दनोत्तमः ॥ 6.80.12 ॥ | ||
| 25 | #13aಜಾಜ್ವಲ್ಯಮಾನೋ ವಪುಷಾ ತಪನೀಯ ಪರಿಚ್ಛದಃ । | 6.80.13aजाज्वल्यमानो वपुषा तपनीयपरिच्छदः । | 6.67.12aजाज्वल्यमानो वपुषा तपनीयपरिच्छदः । | 6.80.13aजाज्वल्यमानो वपुषा तपनीयपरिच्छदः । | 6.80.13aजाज्वल्यमानो वपुषा तपनीयपरिच्छदः। | ||
| 26 | #13bಮೃಗೈಶ್ಚಂದ್ರಾರ್ಧಚಂದ್ರೈಶ್ಚ ಸ ರಥಃ ಸಮಲಂಕೃತಃ ॥ | 6.80.13bमृगैश्चन्द्रार्धचन्द्रैश्च स रथः समलङ्कृतः ॥ १३ ॥ | 6.67.12bशरैश्चन्द्रार्धचन्द्रैश्च स रथः समलंकृतः ॥6.67.12॥ | 6.80.13bमृगैश्चन्द्रार्धचन्द्रैश्च सरथः समलङ्कृतः ॥ १३ ॥ | 6.80.13bमृगैश्चन्द्रार्धचन्द्रैश्च स रथः समलङ्कृतः ॥ 6.80.13 ॥ | ||
| 27 | #14aಜಾಂಬೂನದ ಮಹಾಕಂಬುರ್ದೀಪ್ತಪಾವಕ ಸಂನಿಭಃ । | 6.80.14aजाम्बूनदमहाकम्बुर्दीप्तपावकसन्निभः । | 6.67.13aजाम्बूनदमहाकम्बुर्दीप्तपावकसंनिभः । | 6.80.14aजाम्बूनद महाकम्बुर्दीप्तपावकसन्निभः । | 6.80.14aजाम्बूनदमहाकम्बुर्दीप्तपावकसन्निभः। | ||
| 28 | #14bಬಭೂವೇಂದ್ರಜಿತಃ ಕೇತುರ್ವೈಢೂರ್ಯ ಸಮಲಂಕೃತಃ ॥ | 6.80.14bबभूवेन्द्रजितः केतुर्वैदूर्यसमलङ्कृतः ॥ १४ ॥ | 6.67.13bबभूवेन्द्रजितः केतुर्वैदूर्यसमलंकृतः ॥6.67.13॥ | 6.80.14bबभूवेन्द्रजितः केतुर्वैडूर्यसमलङ्कृतः ॥ १४ ॥ | 6.80.14bबभूवेन्द्रजितः केतुर्वैडूर्यसमलङ्कृतः ॥ 6.80.14 ॥ | ||
| 29 | #15aತೇನ ಚಾದಿತ್ಯಕಲ್ಪೇನ ಬ್ರಹ್ಮಾಸ್ತ್ರೇಣ ಚ ಪಾಲಿತಃ । | 6.80.15aतेन चादित्यकल्पेन ब्रह्मास्त्रेण च पालितः । | 6.67.14aतेन चादित्यकल्पेन ब्रह्मास्त्रेण च पालितः । | 6.80.15aतेन चादित्यकल्पेन ब्रह्मास्त्रेण च पालितः । | 6.80.15aतेन चादित्यकल्पेन ब्रह्मास्त्रेण च पालितः। | ||
| 30 | #15bಸ ಬಭೂವ ದುರಾಧರ್ಷೋ ರಾವಣಿಃ ಸುಮಹಾಬಲಃ ॥ | 6.80.15bस बभूव दुराधर्षो रावणिः सुमहाबलः ॥ १५ ॥ | 6.67.14bस बभूव दुराधर्षो रावणिः सुमहाबलः ॥6.67.14॥ | 6.80.15bस बभूव दुराधर्षो रावणिः सुमहाबलः ॥ १५ ॥ | 6.80.15bस बभूव दुराधर्षो रावणिः सुमहाबलः ॥ 6.80.15 ॥ | ||
| 31 | #16aಸೋಽಭಿನಿರ್ಯಾಯ ನಗರಾದಿಂದ್ರಜಿತ್ ಸಮಿತಿಂಜಯಃ । | 6.80.16aसोऽभिनिर्याय नगरादिन्द्रजित् समितिञ्जयः । | 6.67.15aसोऽभिनिर्याय नगरादिन्द्रजित्समितिंजयः । | 6.80.16aसोभिनिर्याय नगरादिन्द्रजित्समितिंजयः । | 6.80.16aसोऽभिनिर्याय नगरादिन्द्रजित् समितिञ्जयः। | ||
| 32 | #16bಹುತ್ವಾಗ್ನಿಂ ರಾಕ್ಷಸೈರ್ಮಂತ್ರೈರಂತರ್ಧಾನಗತೋಽಬ್ರವೀತ್ ॥ | 6.80.16bहुत्वाग्निं राक्षसैर्मन्त्रैरन्तर्धानगतोऽब्रवीत् ॥ १६ ॥ | 6.67.15bहुत्वाग्निं राक्षसैर्मन्त्रैरन्तर्धानगतोऽब्रवीत् ॥6.67.15॥ | 6.80.16bहुत्वाऽग्निं राक्षसैर्मन्त्रैरन्तर्धानगतोऽब्रवीत् ॥ १६ ॥ | 6.80.16bहुत्वाऽग्निं राक्षसैर्मन्त्रैरन्तर्धानगतोऽब्रवीत् ॥ 6.80.16 ॥ | ||
| 33 | #17aಅದ್ಯ ಹತ್ವಾರಣೇ ಯೌ ತೌ ಮಿಥ್ಯಾಪ್ರವ್ರಜಿತೌ ವನೇ । | 6.80.17aअद्य हत्वा रणे यौ तौ मिथ्या प्रव्रजितौ वने । | 6.67.16aअद्य हत्वाहवे यौ तौ मिथ्या प्रव्रजितौ वने । | 6.80.17aअद्य हत्वा रणे यौ तौ मिथ्या प्रव्राजितौ वने । | 6.80.17aअद्य हत्वा रणे यौ तौ मिथ्या प्रव्राजितौ वने। | ||
| 34 | #17bಜಯಂ ಪಿತ್ರೇ ಪ್ರದಾಸ್ಯಾಮಿ ರಾವಣಾಯ ರಣೇಽಧಿಕಮ್ ॥ | 6.80.17bजयं पित्रे प्रदास्यामि रावणाय रणेऽधिकम् ॥ १७ ॥ | 6.67.16bजयं पित्रे प्रदास्यामि रावणाय रणाधिकम् ॥6.67.16॥ | 6.80.17bजयं पित्रे प्रदास्यामि रावणाय रणार्जितम् ॥ १७ ॥ | 6.80.17bजयं पित्रे प्रदास्यामि रावणाय रणार्जितम् ॥ 6.80.17 ॥ | ||
| 35 | #18aಅದ್ಯ ನಿರ್ವಾನರಾಮುರ್ವೀಂ ಹತ್ವಾ ರಾಮಂ ಚ ಲಕ್ಷ್ಮಣಮ್ । | 6.80.18aअद्य निर्वानरामुर्वीं हत्वा रामं च लक्ष्मणम् । | 6.67.17aकृत्वा निर्वानरामुर्वीं हत्वा रामं सलक्ष्मणम् । | 6.80.18aअद्य निर्वानरामुर्वी हत्वा रामं सलक्ष्मणम् । | 6.80.18aअद्य निर्वानरामुर्वीं हत्वा रामं सलक्ष्मणम्। | ||
| 36 | #18bಕರಿಷ್ಯೇ ಪರಮಾಂ ಪ್ರೀತಿಮಿತ್ಯುಕ್ತ್ವಾಂತರಧೀಯತ ॥ | 6.80.18bकरिष्ये परमां प्रीतिमित्युक्त्वान्तरधीयत ॥ १८ ॥ | 6.67.17bकरिष्ये परमां प्रीतिमित्युक्त्वान्तरधीयत ॥6.67.17॥ | 6.80.18bकरिष्ये परमप्रीतिमित्युक्त्वाऽन्तरधीयत ॥ १८ ॥ | 6.80.18bकरिष्ये परमप्रीतिमित्युक्त्वाऽन्तरधीयत ॥ 6.80.18 ॥ | ||
| 37 | #19aಅಪಪಾತಾಥ ಸಂಕ್ರುದ್ಧೋ ದಶಗ್ರೀವೇಣ ಚೋದಿತಃ । | 6.80.19aआपपाताथ सङ्क्रुद्धो दशग्रीवेण चोदितः । | 6.67.18aआपपाताथ संक्रुद्धो दशग्रीवेण चोदितः । | 6.80.19aआपपाताथ संक्रुद्धो दशग्रीवेण चोदितः । | 6.80.19aआपपाताथ सङ्क्रुद्धो दशग्रीवेण चोदितः। | ||
| 38 | #19bತೀಕ್ಷ್ಣ ಕಾರ್ಮುಕ ನಾರಾಚೈಸ್ತೀಕ್ಷ್ಣೈಸ್ತ್ವಿಂದ್ರರಿಪೂ ರಣೇ ॥ | 6.80.19bतीक्ष्णकार्मुकनाराचैस्तीक्ष्णस्त्विन्द्ररिपू रणे ॥ १९ ॥ | 6.67.18bतीक्ष्णकार्मुकनाराचैस्तीक्ष्णस्त्विन्द्ररिपू रणे ॥6.67.18॥ | 6.80.19bतीक्ष्णकार्मुकनाराचैस्तीक्ष्णस्त्विन्द्ररिपू रणे ॥ १९ ॥ | 6.80.19bतीक्ष्णकार्मुकनाराचैस्तीक्ष्णस्त्विन्द्ररिपू रणे ॥ 6.80.19 ॥ | ||
| 39 | #20aಸ ದದರ್ಶ ಮಹಾವೀರ್ಯೌ ನಾಗೌ ತ್ರಿಶಿರಸಾವಿವ । | 6.80.20aस ददर्श महावीर्यौ नागौ त्रिशिरसाविव । | 6.67.19aस ददर्श महावीर्यौ नागौ त्रिशिरसाविव । | 6.80.20aस ददर्श महावीर्यौ नागौ त्रिशिरसाविव । | 6.80.20aस ददर्श महावीर्यो नागौ त्रिशिरसाविव। | ||
| 40 | #20bಸೃಜಂತಾವಿಷುಜಾಲಾನಿ ವೀರೌ ವಾನರಮಧ್ಯಗೌ ॥ | 6.80.20bसृजन्ताविषुजालानि वीरौ वानरमध्यगौ ॥ २० ॥ | 6.67.19bसृजन्ताविषुजालानि वीरौ वानरमध्यगौ ॥6.67.19॥ | 6.80.20bसृजन्ताविषुजालानि वीरौ वानरमध्यगौ ॥ २० ॥ | 6.80.20bसृजन्ताविषुजालानि वीरौ वानरमध्यगौ ॥ 6.80.20 ॥ | ||
| 41 | #21aಇವೌ ತಾವಿತಿ ಸಂಚಿಂತ್ಯ ಸಜ್ಯಂ ಕೃತ್ವಾ ಚ ಕಾರ್ಮುಕಮ್ । | 6.80.21aइमौ ताविति सञ्चिन्त्य सज्यं कृत्वा च कार्मुकम् । | 6.67.20aइमौ ताविति संचिन्त्य सज्यं कृत्वा च कार्मुकम् । | 6.80.21aइमौ ताविति संचिन्त्य सज्यं कृत्वा च कार्मुकम् । | 6.80.21aइमौ ताविति सञ्चिन्त्य सज्यं कृत्वा च कार्मुकम्। | ||
| 42 | #21bಸಂತತಾನೇಷುಧಾರಾಭಿಃ ಪರ್ಜನ್ಯಇವ ವೃಷ್ಟಿಮಾನ್ ॥ | 6.80.21bसन्ततानेषुधाराभिः पर्जन्य इव वृष्टिमान् ॥ २१ ॥ | 6.67.20bसंततानेषुधाराभिः पर्जन्य इव वृष्टिमान् ॥6.67.20॥ | 6.80.21bसन्ततानेषुधाराभिः पर्जन्य इव वृष्टिमान् ॥ २१ ॥ | 6.80.21bसन्ततानेषुधाराभिः पर्जन्य इव वृष्टिमान् ॥ 6.80.21 ॥ | ||
| 43 | #22aಸ ತು ವೈಹಾಯಸ ರಥೋ ಯುಧಿ ತೌ ರಾಮಲಕ್ಷ್ಮಣೌ । | 6.80.22aस तु वैहायसरथो युधि तौ रामलक्ष्मणौ । | 6.67.21aस तु वैहायसं प्राप्य सरथो रामलक्ष्मणौ । | 6.80.22aस तु वैहायसं प्राप्य सरथो रामलक्ष्मणौ । | 6.80.22aस तु वैहायसं प्राप्य सरथो रामलक्ष्मणौ। | ||
| 44 | #22bಅಚಕ್ಷುರ್ವಿಷಯೇ ತಿಷ್ಠನ್ ವಿವ್ಯಾಧ ನಿಶಿತೈಃ ಶರೈಃ ॥ | 6.80.22bअचक्षुर्विषये तिष्ठन् विव्याध निशितैः शरैः ॥ २२ ॥ | 6.67.21bअचक्षुर्विषये तिष्ठन्विव्याध निशितैः शरैः ॥6.67.21॥ | 6.80.22bअचक्षुर्विषये तिष्ठन्विव्याध निशितैः शरैः ॥ २२ ॥ | 6.80.22bअचक्षुर्विषये तिष्ठन् विव्याध निशितैः सऱैः ॥ 6.80.22 ॥ | ||
| 45 | #23aತೌ ತಸ್ಯ ಶರವೇಗೇನ ಪರೀತೌ ರಾಮಲಕ್ಷ್ಮಣೌ । | 6.80.23aतौ तस्य शरवेगेन परीतौ रामलक्ष्मणौ । | 6.67.22aतौ तस्य शरवेगेन परीतौ रामलक्ष्मणौ । | 6.80.23aतौ तस्य शरवेगेन परीतौ रामलक्ष्मणौ । | 6.80.23aतौ तस्य शरवेगेन परीतौ रामलक्ष्मणौ। | ||
| 46 | #23bಧನುಷೀ ಸಶರೇ ಕೃತ್ವಾ ದಿವ್ಯಮಸ್ತ್ರಂ ಪ್ರಚಕ್ರತುಃ ॥ | 6.80.23bधनुषी सशरे कृत्वा दिव्यमस्त्रं प्रचक्रतुः ॥ २३ ॥ | 6.67.22bधनुषी सशरे कृत्वा दिव्यमस्त्रं प्रचक्रतुः ॥6.67.22॥ | 6.80.23bधनुषी सशरे कृत्वा दिव्यमस्त्रं प्रचऋतुः ॥ २३ ॥ | 6.80.23bधनुषी सशरे कृत्वा दिव्यमस्त्रं प्रचक्रतुः ॥ 6.80.23 ॥ | ||
| 47 | #24aಪ್ರಚ್ಛಾದಯಂತೌ ಗಗನಂ ಶರಜಾಲೈರ್ಮಹಾಬಲೌ । | 6.80.24aप्रच्छादयन्तौ गगनं शरजालैर्महाबलौ । | 6.67.23aप्रच्छादयन्तौ गगनं शरजालैर्महाबलौ । | 6.80.24aप्रच्छादयन्तौ गगनं शरजालैर्महाबलौ । | 6.80.24aप्रच्छादयन्तौ गगनं शरजालैर्महाबलौ। | ||
| 48 | #24bತಮಸ್ತ್ರೈಃ ಸೂರ್ಯಸಂಕಾಶೈರ್ನೈವ ಪಸ್ಪರ್ಶತುಃ ಶರೈಃ ॥ | 6.80.24bतमस्त्रैः सूर्यसङ्काशैर्नैव पस्पर्शतुः शरैः ॥ २४ ॥ | 6.67.23bतमस्त्रैः सुरसंकाशौ नैव पस्पर्शतुः शरैः ॥6.67.23॥ | 6.80.24bतमस्त्रैः सूर्यसंकाशैर्नैव पस्पृशतुः शरैः ॥ २४ ॥ | 6.80.24bतमस्त्रैः सूर्यसङ्काशैर्नैव पस्पृशतुः शरैः ॥ 6.80.24 ॥ | ||
| 49 | #25aಸ ಹಿ ಧೂಮಾಂಧಕಾರಂ ಚ ಚಕ್ರೇ ಪ್ರಚ್ಛಾದಯನ್ನಭಃ । | 6.80.25aस हि धूमान्धकारं च चक्रे प्रच्छादयन्नभः । | 6.67.24aस हि धूमान्धकारं च चक्रे प्रच्छादयन्नभः । | 6.80.25aस हि धूमान्धकारं च चक्रे प्रच्छादयन्नभः । | 6.80.25aस हि धूमान्धकारं च चक्रे प्रच्छादयन्नभः। | ||
| 50 | #25bದಿಶಶ್ಚಾಂತರ್ದಧೇ ಶ್ರೀಮಾನ್ ನೀಹಾರತಮಸಾ ವೃತಾಃ ॥ | 6.80.25bदिशश्चान्तर्दधे श्रीमान् नीहारतमसा वृताः ॥ २५ ॥ | 6.67.24bदिशश्चान्तर्दधे श्रीमान्नीहारतमसावृतः ॥6.67.24॥ | 6.80.25bदिशश्चान्तर्दधे श्रीमान्नीहारतमसा वृताः ॥ २५ ॥ | 6.80.25bदिशश्चान्तर्दधे श्रीमान्नीहारतमसावृताः ॥ 6.80.25 ॥ | ||
| 51 | #26aನೈವ ಜ್ಯಾತಲನಿರ್ಘೋಷೋ ನ ಚ ನೇಮಿಖುರಸ್ವನಃ । | 6.80.26aनैव ज्यातलनिर्घोषो न च नेमिखुरस्वनः । | 6.67.25aनैव ज्यातलनिर्घोषो न च नेमिखुरस्वनः । | 6.80.26aनैव ज्यातलनिर्घोषो न च नेमिखुरस्वनः । | 6.80.26aनैव ज्यातलनिर्घोषो न च नेमिखुरस्वनः। | ||
| 52 | #26bಶುಶ್ರುವೇ ಚರತಸ್ತಸ್ಯ ನ ಚ ರೂಪಂ ಪ್ರಕಾಶತೇ ॥ | 6.80.26bशुश्रुवे चरतस्तस्य न च रूपं प्रकाशते ॥ २६ ॥ | 6.67.25bशुश्रुवे चरतस्तस्य न च रूपं प्रकाशते ॥6.67.25॥ | 6.80.26bशुश्रुवे चरतस्तस्य न च रूपं प्रकाशते ॥ २६ ॥ | 6.80.26bशश्रुवे चरतस्तस्य न च रूपं प्रकाशते ॥ 6.80.26 ॥ | ||
| 53 | #27aಘನಾಂಧಕಾರೇ ತಿಮಿರೇ ಶಿಲಾವರ್ಷ ಮಿವಾದ್ಭುತಮ್ । | 6.80.27aघनान्धकारे तिमिरे शिलावर्षमिवाद्भुतम् । | 6.67.26aघनान्धकारे तिमिरे शरवर्षमिवाद्भुतम् । | 6.80.27aघनान्धकारे तिमिरे शरवर्षमिवाद्भुतम् । | 6.80.27aघनान्धकारे तिमिरे शरवर्षमिवाद्भुतम्। | ||
| 54 | #27bಸ ವವರ್ಷ ಮಹಾಬಾಹುರ್ನಾರಾಚ ಶರವೃಷ್ಟಿಭಿಃ ॥ | 6.80.27bस ववर्ष महाबाहुर्नाराचशरवृष्टिभिः ॥ २७ ॥ | 6.67.26bस ववर्ष महाबाहुर्नाराचशरवृष्टिभिः ॥6.67.26॥ | 6.80.27bस ववर्ष महाबाहुर्नाराचशरवृष्टिभिः ॥ २७ ॥ | 6.80.27bस ववर्ष महाबाहुर्नाराचशरवृष्टिभिः ॥ 6.80.27 ॥ | ||
| 55 | #28aಸಾ ರಾಮಂ ಸೂರ್ಯಸಂಕಾಶೈಃ ಶರೈರ್ದತ್ತವರೈರ್ಭೃಶಮ್ । | 6.80.28aस रामं सूर्यसङ्काशैः शरैर्दत्तवरैर्भृशम् । | 6.67.27aस रामं सूर्यसंकाशैः शरैर्दत्तवरो भृशम् । | 6.80.28aस रामं सूर्यसंकाशैः शरैर्दत्तवरो भृशम् । | 6.80.28aस रामं सूर्यसङ्काशैः शरैर्दत्तवरो भृशम्। | ||
| 56 | #28bವಿವ್ಯಾಧ ಸಮರೇ ಕ್ರುದ್ಧಃ ಸರ್ವಗಾತ್ರೇಷು ರಾವಣಿಃ ॥ | 6.80.28bविव्याध समरे क्रुद्धः सर्वगात्रेषु रावणिः ॥ २८ ॥ | 6.67.27bविव्याध समरे क्रुद्धः सर्वगात्रेषु रावणिः ॥6.67.27॥ | 6.80.28bविव्याध समरे क्रुद्धः सर्वगात्रेषु रावणिः ॥ २८ ॥ | 6.80.28bविव्याध समरे क्रुद्धः सर्वगात्रेषु रावणिः ॥ 6.80.28 ॥ | ||
| 57 | #29aತೌ ಹನ್ಯಮಾನೌ ನಾರಾಚೈರ್ಧಾರಾಭಿರಿವ ಪರ್ವತೌ । | 6.80.29aतौ हन्यमानौ नाराचैर्धाराभिरिव पर्वतौ । | 6.67.28aतौ हन्यमानौ नाराचैर्धाराभिरिव पर्वतौ । | 6.80.29aतौ हन्यमानौ नाराचैर्धाराभिरिव पर्वतौ । | 6.80.29aतौ हन्यमानौ नाराचैर्धाराभिरिव पर्वतौ। | ||
| 58 | #29bಹೇಮಪುಂಖಾನ್ ನರವ್ಯಾಘ್ರೌ ತಿಗ್ಮಾನ್ಮುಮುಚತುಃ ಶರಾನ್ ॥ | 6.80.29bहेमपुङ्खान् नरव्याघ्रौ तिग्मान् मुमुचतुः शरान् ॥ २९ ॥ | 6.67.28bहेमपुङ्खान्नरव्याघ्रौ तिग्मान्मुमुचतुः शरान् ॥6.67.28॥ | 6.80.29bहेमपुङ्खाभरव्याघ्रौ तिग्मान्मुमुचतुः शरान् ॥ २९ ॥ | 6.80.29bहेमपुङ्खान्नरव्याघ्रौ तिग्मान् मुमुचतुः शरान् ॥ 6.80.29 ॥ | ||
| 59 | #30aಅಂತರಿಕ್ಷೇ ಸಮಾಸಾದ್ಯ ರಾವಣಿಂ ಕಂಕಪತ್ರಿಣಃ । | 6.80.30aअन्तरिक्षे समासाद्य रावणिं कङ्कपत्रिणः । | 6.67.29aअन्तरिक्षं समासाद्य रावणिं कङ्कपत्रिणः । | 6.80.30aअन्तरिक्षे समासाद्य रावणि कङ्कपत्रिणः । | 6.80.30aअन्तरिक्षे समासाद्य रावणिं कङ्कपत्रिणः। | ||
| 60 | #30bನಿಕೃತ್ಯ ಪತಗಾ ಭೂಮೌ ಪೇತುಸ್ತೇ ಶೋಣಿತಾಪ್ಲುತಾಃ ॥ | 6.80.30bनिकृत्य पतगा भूमौ पेतुस्ते शोणिताप्लुताः ॥ ३० ॥ | 6.67.29bनिकृत्य पतगा भूमौ पेतुस्ते शोणितोक्षिताः ॥6.67.29॥ | 6.80.30bनिकृत्य पतगा भूमौ पेतुस्ते शोणितोक्षिताः ॥ ३० ॥ | 6.80.30bनिकृत्य पतगा भूमौ पेतुस्ते शोणितोक्षिताः ॥ 6.80.30 ॥ | ||
| 61 | #31aಅತಿಮಾತ್ರಂ ಶರೌಘೇಣ ಪೀಡ್ಯಮಾನೌ ನರೋತ್ತಮೌ । | 6.80.31aअतिमात्रं शरौघेण दीप्यमानौ नरोत्तमौ । | 6.67.30aअतिमात्रं शरौघेण पीड्यमानौ नरोत्तमौ । | 6.80.31aअतिमात्रं शरौघेण पीड्यमानौ नरोत्तमौ । | 6.80.31aअतिमात्रं शरौघेण पीड्यमानौ नरोत्तमौ। | ||
| 62 | #31bತಾನಿಷೂನ್ ಪತತೋ ಭಲ್ಲೈರನೇಕೈರ್ವಿಚಕರ್ತತುಃ ॥ | 6.80.31bतानिषून् पततो भल्लैरनेकैर्विचकर्ततुः ॥ ३१ ॥ | 6.67.30bतानिषून्पततो भल्लैरनेकैर्निचकर्ततुः ॥6.67.30॥ | 6.80.31bतानिषून्पततो भल्लैरनेकैर्निचकृन्ततुः ॥ ३१ ॥ | 6.80.31bतानिषून् पततो भल्लेरनेकैर्निचकृन्ततुः ॥ 6.80.31 ॥ | ||
| 63 | #32aಯತೋ ಹಿ ದದೃಶಾತೇ ತೌ ಶರಾನ್ನಿಪತಿತಾನ್ಛ್ರಿತಾನ್ । | 6.80.32aयतो हि ददृशाते तौ शरान् निपतिताञ्छितान् । | 6.67.31aयतो हि ददृशाते तौ शरान्निपतिताञ्शितान् । | 6.80.33aयतो हि ददृशाते तौ शरान्निपततः शितान् । | 6.80.32aयतो हि ददृशाते तौ शरान्निपततः शितान्। | ||
| 64 | #32bತತಸ್ತು ತೌ ದಾಶರಥೀ ಸಸೃಜಾತೇಽಸ್ತ್ರ ಮುತ್ತಮಮ್ ॥ | 6.80.32bततस्तु तौ दाशरथी ससृजातेऽस्त्रमुत्तमम् ॥ ३२ ॥ | 6.67.31bततस्ततो दाशरथी ससृजातेऽस्त्रमुत्तमम् ॥6.67.31॥ | 6.80.33bततस्तु तौ दाशरथी ससृजातेऽस्रमुत्तमम् ३२ रावणिस्तु दिशः सर्वा रथेनातिरथः पतन् । | 6.80.32bततस्तु तौ दाशरथी ससृजातेऽस्त्रमुत्तमम् ॥ 6.80.32 ॥ | ||
| 65 | #33aರಾವಣಿಸ್ತು ದಿಶಃ ಸರ್ವಾ ರಥೇನಾತಿರಥೋಽಪತತ್ । | 6.80.33aरावणिस्तु दिशः सर्वा रथेनातिरथोऽपतत् । | 6.67.32aरावणिस्तु दिशः सर्वा रथेनातिरथः पतन् । | 6.80.33aरावणिस्तु दिशः सर्वा रथेनातिरथः पतन्। | |||
| 66 | #33bವಿವ್ಯಾಧ ತೌ ದಾಶರಥೀ ಲಘ್ವಸ್ತ್ರೋ ನಿಶಿತೈಃ ಶರೈಃ ॥ | 6.80.33bविव्याध तौ दाशरथी लघ्वस्त्रो निशितैः शरैः ॥ ३३ ॥ | 6.67.32bविव्याध तौ दाशरथी लघ्वस्त्रो निशितैः शरैः ॥6.67.32॥ | 6.80.33cविव्याध तौ दाशरथी लध्वस्त्रो निशितैः शरैः ॥ ३३ ॥ | 6.80.33bविव्याध तौ दाशरथी लध्वस्त्रो निशितैः शरैः ॥ 6.80.33 ॥ | ||
| 67 | #34aತೇನಾತಿವಿದ್ಧೌ ತೌ ವೀರೌ ರುಕ್ಮಪುಂಖೈಃ ಸುಸಂಹತೈಃ । | 6.80.34aतेनातिविद्धौ तौ वीरौ रुक्मपुङ्खैः सुसंहतैः । | 6.67.33aतेनातिविद्धौ तौ वीरौ रुक्मपुङ्खैः सुसंहतैः । | 6.80.34aतेनातिविद्धौ तौ वीरौ रुक्मपुङ्खैः सुसंहितैः । | 6.80.34aतेनातिविद्धौ तौ वीरौ रुक्मपुङ्खैः सुसंहितैः। | ||
| 68 | #34bಬಭೂವತುರ್ದಾಶರಥೀ ಪುಷ್ಪಿತಾವಿವ ಕಿಂಶುಕೌ ॥ | 6.80.34bबभूवतुर्दाशरथी पुष्पिताविव किंशुकौ ॥ ३४ ॥ | 6.67.33bबभूवतुर्दाशरथी पुष्पिताविव किंशुकौ ॥6.67.33॥ | 6.80.34bबभूवतुर्दाशरथी पुष्पिताविव किंशुकौ ॥ ३४ ॥ | 6.80.34bबभूवतुर्दाशरथी पुष्पिताविव किंशुकौ ॥ 6.80.34 ॥ | ||
| 69 | #35aನಾಸ್ಯ ವೇಗಗತಿಂ ಕಶ್ಚಿನ್ನ ಚ ರೂಪಂ ಧನುಃ ಶರಾನ್ । | 6.80.35aनास्य वेगगतिं कश्चिन्न च रूपं धनुः शरान् । | 6.67.34aनास्य वेद गतिं कश्चिन्न च रूपं धनुः शरान् । | 6.80.35aनास्य वेद गतिं कश्चिन्न च रूपं धनुः शरान् । | 6.80.35aनास्य वेद गतिं कश्चिन्न च रूपं धनुः शरान्। | ||
| 70 | #35bನ ಚಾಸ್ಯವಿದಿತಂ ಕಿಂಚಿತ್ಸೂರ್ಯಸ್ಯೇವಾಭ್ರಸಂಪ್ಲವೇ ॥ | 6.80.35bन चास्य विदितं किञ्चित् सूर्यस्येवाभ्रसम्प्लवे ॥ ३५ ॥ | 6.67.34bन चान्यद्विदितं किंचित्सूर्यस्येवाभ्रसंप्लवे ॥6.67.34॥ | 6.80.35bन चान्यद्विदितं किंचित्सूर्यस्येवाभ्रसंप्लवे ॥ ३५ ॥ | 6.80.35bन चान्यद्विदितं किञ्चित् सूर्यस्येवाभ्रसम्प्लवे ॥ 6.80.35 ॥ | ||
| 71 | #36aತೇನ ವಿದ್ಧಾಶ್ಚ ಹರಯೋ ನಿಹತಾಶ್ಚ ಗತಾಸವಃ । | 6.80.36aतेन विद्धाश्च हरयो निहताश्च गतासवः । | 6.67.35aतेन विद्धाश्च हरयो निहताश्च गतासवः । | 6.80.36aतेन विद्धाश्च हरयो निहताश्च गतासवः । | 6.80.36aतेन विद्धाश्च हरयो निहताश्च गतासवः। | ||
| 72 | #36bಬಭೂವುಃ ಶತಶಸ್ತತ್ರ ಪತಿತಾ ಧರಣೀತಲೇ ॥ | 6.80.36bबभूवुः शतशस्तत्र पतिता धरणीतले ॥ ३६ ॥ | 6.67.35bबभूवुः शतशस्तत्र पतिता धरणीतले ॥6.67.35॥ | 6.80.36bबभूवुः शतशस्तत्र पतिता धरणीतले ॥ ३६ ॥ | 6.80.36bबभूवुः शतशस्तत्र पतिता धरणीतले ॥ 6.80.36 ॥ | ||
| 73 | #37aಲಕ್ಷ್ಮಣಸ್ತು ತತಃಕ್ರುದ್ಧೋ ಭ್ರಾತರಂ ವಾಕ್ಯಮಬ್ರವೀತ್ । | 6.80.37aलक्ष्मणस्तु ततः क्रुद्धो भ्रातरं वाक्यमब्रवीत् । | 6.67.36aलक्ष्मणस्तु सुसंक्रुद्धो भ्रातरं वाक्यमब्रवीत् । | 6.80.37aलक्ष्मणस्तु सुसंक्रुद्धो भ्रातरं वाक्यमब्रवीत् । | 6.80.37aलक्ष्मणस्तु सुसङ्क्रुद्धो भ्रातरं वाक्यमब्रवीत्। | ||
| 74 | #37bಬ್ರಾಹ್ಮಮಸ್ತ್ರಂ ಪ್ರಯೋಕ್ಷ್ಯಾಮಿ ವಧಾರ್ಥಂ ಸರ್ವರಕ್ಷಸಾಮ್ ॥ | 6.80.37bब्राह्ममस्त्रं प्रयोक्ष्यामि वधार्थं सर्वरक्षसाम् ॥ ३७ ॥ | 6.67.36bब्राह्ममस्त्रं प्रयोक्ष्यामि वधार्थं सर्वरक्षसाम् ॥6.67.36॥ | 6.80.37bब्राह्ममस्त्रं प्रयोक्ष्यामि वधार्थं सर्वरक्षसाम् ॥ ३७ ॥ | 6.80.37bब्राह्ममस्त्रं प्रयोक्ष्यामि वधार्थं सर्वरक्षसाम् ॥ 6.80.37 ॥ | ||
| 75 | #38aತಮುವಾಚ ತತೋ ರಾಮೋ ಲಕ್ಷ್ಮಣಂ ಶುಭಲಕ್ಷಣಮ್ । | 6.80.38aतमुवाच ततो रामो लक्ष्मणं शुभलक्षणम् । | 6.67.37aतमुवाच ततो रामो लक्ष्मणं शुभलक्षणम् । | 6.80.38तमुवाच ततो रामो लक्ष्मणं शुभलक्षणम् ॥ ३८ ॥ | 6.80.38तमुवाच ततो रामो लक्ष्मणं शुभलक्षणम् ॥ 6.80.38 ॥ | ||
| 76 | #38bನೈಕಸ್ಯ ಹೇತೋ ರಕ್ಷಾಂಸಿ ಪೃಥಿವ್ಯಾಂ ಹಂತುಮರ್ಹಸಿ ॥ | 6.80.38bनैकस्य हेतो रक्षांसि पृथिव्यां हन्तुमर्हसि ॥ ३८ ॥ | 6.67.37bनैकस्य हेतो रक्षांसि पृथिव्यां हन्तुमर्हसि ॥6.67.37॥ | 6.80.39aनैकस्य हेतो रक्षांसि पृथिव्यां हन्तुमर्हसि । | |||
| 77 | #39aಅಯುಧ್ಯಮಾನಂ ಪ್ರಚ್ಛನ್ನಂ ಪ್ರಾಂಜಲಿಂ ಶರಣಾಗತಮ್ । | 6.80.39aअयुध्यमानं प्रच्छन्नं प्राञ्जलिं शरणागतम् । | 6.67.38aअयुध्यमानं प्रच्छन्नं प्राञ्जलिं शरणागतम् । | 6.80.39bअयुध्यमानं प्रच्छन्नं प्राञ्जलिं शरणागतम् । | 6.80.39aअयुध्यमानं प्रच्छन्नं प्राञ्जलिं शरणागतम्। | ||
| 78 | 6.67.38bपलायन्तं प्रमत्तं वा न त्वं हन्तुमिहार्हसि ॥6.67.38॥ | 6.80.39cपलायन्तं प्रमत्तं वा न त्वं हन्तुमिहार्हसि ॥ ३९ ॥ | 6.80.39bपलायन्तं प्रमत्तं वा न त्वं हन्तुमिहार्हसि ॥ 6.80.39 ॥ | ||||
| 79 | #39bಪಲಾಯಮಾನಂ ಮತ್ತಂ ವಾ ನ ಹಂತುಂ ತ್ವಮಿಹಾರ್ಹಸಿ ॥ | 6.80.39bपलायमानं मत्तं वा न हन्तुं त्वमिहार्हसि ॥ ३९ ॥ | |||||
| 80 | #40aತಸ್ಯೈವ ತು ವಧೇ ಯತ್ನಂ ಕರಿಷ್ಯಾಮೀ ಮಹಾಭುಜ । | 6.80.40aतस्यैव तु वधे यत्नं करिष्यामि महाभुज । | 6.67.39aअस्यैव तु वधे यत्नं करिष्यावो महाबल । | 6.80.40aअस्यैव तु वधे यत्नं करिष्यावो महाबल । | 6.80.40aअस्यैव तु वधे यत्नं करिष्यावो महाबल। | ||
| 81 | #40bಆದೇಕ್ಷ್ಯಾವೋ ಮಹಾವೇಗಾನಸ್ತ್ರಾನಾಶೀವಿಷೋಪಮಾನ್ ॥ | 6.80.40bआदेक्ष्यावो महावेगानस्त्रानाशीविषोपमान् ॥ ४० ॥ | 6.67.39bआदेक्ष्यावो महावेगानस्त्रानाशीविषोपमान् ॥6.67.39॥ | 6.80.40bआदेक्ष्यावो महावेगानस्त्रानाशीविषोपमान् ॥ ४० ॥ | 6.80.40bआदेक्ष्यावो महावेगानस्त्रानाशीविषोपमान् ॥ 6.80.40 ॥ | ||
| 82 | #41aತಮೇನಂ ಮಾಯಿನಂ ಕ್ಷುದ್ರಮಂತರ್ಹಿತರಥಂ ಬಲಾತ್ । | 6.80.41aतमेनं मायिनं क्षुद्रमन्तर्हितरथं बलात् । | 6.67.40aतमेनं मायिनं क्षुद्रमन्तर्हितरथं बलात् । | 6.80.41aतमेनं मायिनं क्षुद्रमन्तर्हितरथं बलात् । | 6.80.41aतमेनं मायिनं क्षुद्रमन्तर्हितरथं बलात्। | ||
| 83 | #41bರಾಕ್ಷಸಂ ನಿಹನಿಷ್ಯಂತಿ ದೃಷ್ಟ್ವಾ ವಾನರಯೂಥಪಾಃ ॥ | 6.80.41bराक्षसं निहनिष्यन्ति दृष्ट्वा वानरयूथपाः ॥ ४१ ॥ | 6.67.40bराक्षसं निहनिष्यन्ति दृष्ट्वा वानरयूथपाः ॥6.67.40॥ | 6.80.41bराक्षसं निहनिष्यन्ति दृष्ट्वा वानरयूथपाः ॥ ४१ ॥ | 6.80.41bराक्षसं निहनिष्यन्ति दृष्ट्वा वानरयूथपाः ॥ 6.80.41 ॥ | ||
| 84 | #42aಯದ್ಯೇಷ ಭೂಮಿಂ ವಿಶತೇ ದಿವಂ ವಾ ರಸಾತಲಂ ವಾಪಿ ನಭಃಸ್ಥಲಂ ವಾ । | 6.80.42aयद्येष भूमिं विशते दिवं वा रसातलं वापि नभस्तलं वा । | 6.67.41aयद्येष भूमिं विशते दिवं वा रसातलं वापि नभस्तलं वा । | 6.80.42aयद्येष भूमिं विशते दिवं वा रसातलं वाऽपि नभःस्थलं वा । | 6.80.42aयद्येष भूमिं विशते दिवं वा रसातलं वापि नभस्स्थलं वा। | ||
| 85 | #42bಏವಂ ವಿಗೂಢೋಽಪಿ ಮಮಾಸ್ತ್ರದಗ್ಧಃ ಪತಿಷ್ಯತೇ ಭೂಮಿತಲೇ ಗತಾಸುಃ ॥ | 6.80.42bएवं विगूढोऽपि ममास्त्रदग्धः पतिष्यते भूमितले गतासुः ॥ ४२ ॥ | 6.67.41bएवं निगूढोऽपि ममास्त्रदग्धः पतिष्यते भूमितले गतासुः ॥6.67.41॥ | 6.80.42bएवं निगूढोपि ममास्रदग्धः पतिष्यते भूमितले गतासुः ॥ ४२ ॥ | 6.80.42bएवं निगूढोऽपि ममास्त्रदग्धः पतिष्यते भूमितले गतासुः ॥ 6.80.42 ॥ | ||
| 86 | #43aಇತ್ಯೇವಮುಕ್ತ್ವಾ ವಚನಂ ಮಹಾರ್ಥಂ ರಘುಪ್ರವೀರಃ ಪ್ರವಗರ್ಷಭೈರ್ವೃತಃ । | 6.80.43aइत्येवमुक्त्वा वचनं महार्थं रघुप्रवीरः प्लवगर्षभैर्वृतः । | 6.67.42aइत्येवमुक्त्वा वचनं महात्मा रघुप्रवीरः प्लवगर्षभैर्वृतः । | 6.80.43aइत्येवमुक्त्वा वचनं महात्मा रघुप्रवीरः प्लवगर्षभैर्वृतः । | 6.80.43aइत्येवमुक्त्वा वचनं महात्मा रघुप्रवीरः प्लवगर्षभैर्वृतः। | ||
| 87 | #43bವಧಾಯ ರೌದ್ರಸ್ಯ ನೃಶಂಸಕರ್ಮಣ- ಸ್ತದಾ ಮಹಾತ್ಮಾ ತ್ವರಿತಂ ನಿರೀಕ್ಷತೇ ॥ | 6.80.43bवधाय रौद्रस्य नृशंसकर्मण- स्तदा महात्मा त्वरितं निरीक्षते ॥ ४३ ॥ | 6.67.42bवधाय रौद्रस्य नृशंसकर्मण स्तदा महात्मा त्वरितं निरीक्षते ॥6.67.42॥ | 6.80.43bवधाय रौद्रस्य नृशंसकर्मणस्तदा महात्मा त्वरितं निरीक्षते ॥ ४३ ॥ | 6.80.43bवधाय रौद्रस्य नृशंसकर्मणस्तदा महात्मा त्वरितं निरीक्षते ॥ 6.80.43 ॥ | ||
| 88 | 6.80.80इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने अशीतितमः सर्गः ॥ ८० ॥ |