हनुमता हिमालयप्रयाणम्. Built from structured/verses.jsonl. Rows are monotone-aligned half-verse/pāda-like units split at । and ॥, so verse-number boundary differences can appear as inserted or shifted line rows.
165 aligned line rows across 7 source streams.
gor-kn 155 lines
gor-hi 155 lines
crit 136 lines
gr 161 lines
dr-mula 153 lines
| # | gor-kn | gor-hi | crit | gr | dr-mula | gr-iitk | iitk |
|---|---|---|---|---|---|---|---|
| 1 | #1aತಯೋಸ್ತದಾಸಾದಿತಯೋ ರಣಾಗ್ರೇ ಮುಮೋಹ ಸೈನ್ಯಂಹರಿಯೂಥಪಾನಾಮ್ । | 6.74.1aतयोस्तदासादितयो रणाग्रे मुमोह सैन्यं हरियूथपानाम् । | 6.61.1aतयोस्तदा सादितयो रणाग्रे मुमोह सैन्यं हरियूथपानाम् । | 6.74.1aतयोस्तदा सादितयो रणाग्रे मुमोह सैन्यं हरिपुङ्गवानाम् । | 6.74.1aतयोस्तदा सादितयो रणाग्रे मुमोह सैन्यं हरिपुङ्गवानाम्। | ||
| 2 | #1bಸುಗ್ರೀವನೀಲಾಂಗದ ಜಾಂಬವಂತೋ ನ ಚಾಪಿ ಕಿಂಚಿತ್ಪ್ರತಿಪೇದಿರೇ ತೇ ॥ | 6.74.1bसुग्रीवनीलाङ्गदजाम्बवन्तो न चापि किञ्चित् प्रतिपेदिरे ते ॥ १ ॥ | 6.61.1bसुग्रीवनीलाङ्गदजाम्बवन्तो न चापि किंचित्प्रतिपेदिरे ते ॥6.61.1॥ | 6.74.1bसुग्रीवनीलाङ्गदजाम्बवन्तो न चापि किंचित्प्रतिपेदिरे ते ॥ १ ॥ | 6.74.1bसुग्रीवनीलाङ्गदजाम्बवन्तो न चापि किञ्चित् प्रतिपेदिरे ते ॥ 6.74.1 ॥ | ||
| 3 | #2aತತೋ ವಿಷಣ್ಣಂ ಸಮವೇಕ್ಷ್ಯ ಸರ್ವಂ ವಿಭೀಷಣೋ ಬುದ್ಧಿಮತಾಂ ವರಿಷ್ಠಃ । | 6.74.2aततो विषण्णं समवेक्ष्य सर्वं विभीषणो बुद्धिमतां वरिष्ठः । | 6.61.2aततो विषण्णं समवेक्ष्य सैन्यं विभीषणो बुद्धिमतां वरिष्ठः । | 6.74.2aततो विषण्णं समवेक्ष्य सैन्यं विभीषणो बुद्धिमतां वरिष्ठः । | 6.74.2aततो विषण्णं समवेक्ष्य सैन्यं विभीषणो बुद्धिमतां वरिष्ठः। | ||
| 4 | #2bಉವಾಚ ಶಾಖಾಮೃಗರಾಜವೀರಾ ನಾಶ್ವಾಸಯನ್ನಪ್ರತಿಮೈರ್ವಚೋಭಿಃ ॥ | 6.74.2bउवाच शाखामृगराजवीरा- नाश्वासयन्नप्रतिमैर्वचोभिः ॥ २ ॥ | 6.61.2bउवाच शाखामृगराजवीरा नाश्वासयन्नप्रतिमैर्वचोभिः ॥6.61.2॥ | 6.74.2bउवाच शाखामृगराजवीरानाश्वासयन्न प्रतिमैर्वचोभिः ॥ २ ॥ | 6.74.2bउवाच शाखामृगराजवीरानाश्वासयन्नप्रतिमैर्वचोभिः ॥ 6.74.2 ॥ | ||
| 5 | #3aಮಾ ಭೈಷ್ಟ ನಾಸ್ತ್ಯತ್ರ ವಿಷಾದಕಾಲೋ ಯದಾರ್ಯಪುತ್ರೌ ಹ್ಯವಶೌ ವಿಷಣ್ಣೌ । | 6.74.3aमा भैष्ट नास्त्यत्र विषादकालो यदार्यपुत्रौ ह्यवशौ विषण्णौ । | 6.61.3aमा भैष्ट नास्त्यत्र विषादकालो यदार्यपुत्राववशौ विषण्णौ । | 6.74.3aमा भैष्ट नास्त्यत्र विषादकालो यदार्यपुत्रौ ह्यवशौ विषण्णौ । | 6.74.3aमा भैष्ट नास्त्यत्र विषादकालो यदार्यपुत्रौ ह्यवशौ विषण्णौ। | ||
| 6 | #3bಸ್ವಯಂಭುವೋ ವಾಕ್ಯಮಥೋದ್ವಹಂತೌ ಯತ್ಸಾದಿತಾವಿಂದ್ರಜಿತಾಸ್ತ್ರ ಜಾಲೈಃ ॥ | 6.74.3bस्वयम्भुवो वाक्यमथोद्वहन्तौ यत्सादिताविन्द्रजितास्त्रजालैः ॥ ३ ॥ | 6.61.3bस्वयम्भुवो वाक्यमथोद्वहन्तौ यत्सादिताविन्द्रजिदस्त्रजालैः ॥6.61.3॥ | 6.74.3bस्वयम्भुवो वाक्यमथोद्वहन्तौ यत्सादिताविन्द्रजिदस्त्रजालैः ॥ ३ ॥ | 6.74.3bस्वयम्भुवो वाक्यमथोद्वहन्तौ यत् सादिताविन्द्रजिदस्त्रजालैः ॥ 6.74.3 ॥ | ||
| 7 | 6.74.4a[ विभीषणस्तत्र वराद्विधातुरसादितोस्त्रेण निरीक्षमाणः । | ||||||
| 8 | 6.74.4bसेनां हरीणां द्रुहिणास्रदूनां स्वस्थं हनूमन्तमुवाच दृष्ट्वा ] ॥ ४ ॥ | ||||||
| 9 | #4aತಸ್ಮೈ ತು ದತ್ತಂ ಪರಮಾಸ್ತ್ರಮೇತತ್ ಸ್ವಯಂಭುವಾ ಬ್ರಾಹ್ಮಮಮೋಘವೀರ್ಯಮ್ । | 6.74.4aतस्मै तु दत्तं परमास्त्रमेतत् स्वयम्भुवा ब्राह्मममोघवीर्यम् । | 6.61.4aतस्मै तु दत्तं परमास्त्रमेतत् स्वयम्भुवा ब्राह्मममोघवेगम् । | 6.74.5aतस्मै तु दत्तं परमास्त्रमेतत्स्वयम्भुवा ब्राह्मममोघवेगम् । | 6.74.4aतस्मै तु दत्तं परमास्त्रमेतत् स्वयम्भुवा ब्राह्मममोघवेगम्। | ||
| 10 | #4bತನ್ಮಾನಯಂತೌ ಯುಧಿ ರಾಜಪುತ್ರೌ ನಿಪಾತಿತೌ ಕೋಽತ್ರ ವಿಷಾದಕಾಲಃ ॥ | 6.74.4bतन्मानयन्तौ युधि राजपुत्रौ निपातितौ कोऽत्र विषादकालः ॥ ४ ॥ | 6.61.4bतन्मानयन्तौ यदि राजपुत्रौ निपातितौ कोऽत्र विषादकालः ॥6.61.4॥ | 6.74.5bतन्मानयन्तौ युधि राजपुत्रौ निपातितौ कोत्र विषादकालः ॥ ५ ॥ | 6.74.4bतन्मानयन्तौ युधि राजपुत्रौ निपातितौ कोऽत्र विषादकालः ॥ 6.74.4 ॥ | ||
| 11 | #5aಬ್ರಾಹ್ಮಮಸ್ತ್ರಂ ತತೋ ಧೀಮಾನ್ಮಾನಯಿತ್ವಾ ತು ಮಾರುತಿಃ । | 6.74.5aब्राह्ममस्त्रं ततो धीमान् मानयित्वा तु मारुतिः । | 6.61.5aब्राह्ममस्त्रं तदा धीमान्मानयित्वा तु मारुतिः । | 6.74.6aब्राह्ममस्त्रं ततो धीमान्मानयित्वा तु मारुतिः । | 6.74.5aब्राह्ममस्त्रं ततो धीमान् मानयित्वा तु मारुतिः। | ||
| 12 | #5bವಿಭೀಷಣ ವಚಃ ಶ್ರುತ್ವಾ ಹನೂಮಾನಿದಮಬ್ರವೀತ್ ॥ | 6.74.5bविभीषणवचः श्रुत्वा हनूमानिदमब्रवीत् ॥ ५ ॥ | 6.61.5bविभीषणवचः श्रुत्वा हनूमांस्तमथाब्रवीत् ॥6.61.5॥ | 6.74.6bविभीषणवचः श्रुत्वा हनुमांस्तमथाब्रवीत् ॥ ६ ॥ | 6.74.5bविभीषणवचः श्रुत्वा हनुमांस्तमथाब्रवीत् ॥ 6.74.5 ॥ | ||
| 13 | #6aಅಸ್ಮಿನ್ನಸ್ತ್ರೇಹತೇ ಸೈನ್ಯೇ ವಾನರಾಣಾಂ ತರಸ್ವಿನಾಮ್ । | 6.74.6aअस्मिन्नस्त्रहते सैन्ये वानराणां तरस्विनाम् । | 6.61.6aएतस्मिन्निहते सैन्ये वानराणां तरस्विनाम् । | 6.74.7aएतस्मिन्निहते सैन्ये वानराणां तरस्विनाम् । | 6.74.6aएतस्मिन्निहते सैन्ये वानराणां तरस्विनाम्। | ||
| 14 | #6bಯೋ ಯೋ ಧಾರಯತೇ ಪ್ರಾಣಾಂಸ್ತಂ ತಮಾಶ್ವಾಸಯಾವಹೇ ॥ | 6.74.6bयो यो धारयते प्राणांस्तं तमाश्वासयावहे ॥ ६ ॥ | 6.61.6bयो यो धारयते प्राणांस्तं तमाश्वासयावहे ॥6.61.6॥ | 6.74.7bयो यो धारयते प्राणांस्तं तमाश्वासयावहै ॥ ७ ॥ | 6.74.6bयो यो धारयते प्राणांस्तन्तमाश्वासयावहै ॥ 6.74.6 ॥ | ||
| 15 | #7aತಾವುಭೌ ಯುಗಪದ್ವೀರೌ ಹನೂಮದ್ರಾಕ್ಷಸೋತ್ತಮೌ । | 6.74.7aतावुभौ युगपद् वीरौ हनूमद्राक्षसोत्तमौ । | 6.61.7aतावुभौ युगपद्वीरौ हनूमद्राक्षसोत्तमौ । | 6.74.8aतावुभौ युगपद्वीरौ हनुमद्राक्षसोत्तमौ । | 6.74.7aतावुभौ युगपद्वीरौ हनुमद्राक्षसोत्तमौ। | ||
| 16 | #7bಉಲ್ಕಾಹಸ್ತೌ ತದಾ ರಾತ್ರೌ ರಣಶೀರ್ಷೇ ವಿಚೇರತುಃ ॥ | 6.74.7bउल्काहस्तौ तदा रात्रौ रणशीर्षे विचेरतुः ॥ ७ ॥ | 6.61.7bउल्काहस्तौ तदा रात्रौ रणशीर्षे विचेरतुः ॥6.61.7॥ | 6.74.8bउल्काहस्तौ तदा रात्रौ रणशीर्षे विचेरतुः ॥ ८ ॥ | 6.74.7bउल्काहस्तौ तदा रात्रौ रणशीर्षे विचेरतुः ॥ 6.74.7 ॥ | ||
| 17 | #8aಭಿನ್ನಲಾಂಗೂಲಹಸ್ತೋರುಪಾದಾಂಗುಲಿ ಶಿರೋಧರೈಃ । | 6.74.8aभिन्नलाङ्गूलहस्तोरुपादाङ्गुलिशिरोधरैः । | 6.61.8aछिन्नलाङ्गूलहस्तोरुपादाङ्गुलि शिरो धरैः । | 6.74.9aभिन्नलाङ्गूलहस्तोरुपादाङ्गुलिशिरोधरैः । | 6.74.8aभिन्नलाङ्गूलहस्तोरुपादाङ्गुलिशिरोधरैः। | ||
| 18 | #8bಸ್ರವದ್ಭಿಃ ಕ್ಷತಜಂ ಗಾತ್ರೈಃ ಪ್ರಸ್ರವದ್ಭಿಃ ಸಮಂತತಃ ॥ | 6.74.8bस्रवद्भिः क्षतजं गात्रैः प्रस्रवद्भिः समन्ततः ॥ ८ ॥ | 6.61.8bस्रवद्भिः क्षतजं गात्रैः प्रस्रवद्भिः समन्ततः ॥6.61.8॥ | 6.74.9bस्रवद्भिः क्षतजं गात्रैः प्रस्रवद्भिस्ततस्ततः ॥ ९ ॥ | 6.74.8bस्रवद्भिः क्षतजं गात्रैः प्रस्रवद्भिस्ततस्ततः ॥ 6.74.8 ॥ | ||
| 19 | #9aಪತಿತೈಃ ಪರ್ವತಾಕಾರೈರ್ವಾನರೈರಭಿ ಸಂವೃತಾಮ್ । | 6.74.9aपतितैः पर्वताकारैर्वानरैरभिसंवृताम् । | 6.61.9aपतितैः पर्वताकारैर्वानरैरभिसंकुलाम् । | 6.74.10aपतितैः पर्वताकारैर्वानरैरभिसङ्कुलाम् । | 6.74.9aपतितैः पर्वताकारैर्वानरैरभिसङ्कुलाम्। | ||
| 20 | #9bಶಸ್ತ್ರೈಶ್ಚ ಪತಿತೈರ್ದಿಪ್ತೈರ್ದದೃಶಾತೇ ವಸುಂಧರಾಮ್ ॥ | 6.74.9bशस्त्रैश्च पतितैर्दीप्तैर्ददृशाते वसुन्धराम् ॥ ९ ॥ | 6.61.9bशस्त्रैश्च पतितैर्दीप्तैर्ददृशाते वसुंधराम् ॥6.61.9॥ | 6.74.10bशस्त्रैश्च पतितैर्दीप्तैर्ददृशाते वसुन्धराम् ॥ १० ॥ | 6.74.9bशस्त्रैश्च पतितैर्दीप्तैर्ददृशाते वसुन्धराम् ॥ 6.74.9 ॥ | ||
| 21 | #10aಸುಗ್ರೀವಮಂಗದಂ ನೀಲಂ ಶರಭಂ ಗಂಧಮಾದನಮ್ । | 6.74.10aसुग्रीवमङ्गदं नीलं शरभं गन्धमादनम् । | 6.61.10aसुग्रीवमङ्गदं नीलं शरभं गन्धमादनम् । | 6.74.11aसुग्रीवमङ्गदं नीलं शरभं गन्धमादनम् । | 6.74.10aसुग्रीवमङ्गदं नीलं शरभं गन्धमादनम्। | ||
| 22 | #10bಜಾಂಬವಂತಂ ಸುಷೇಣಂ ಚ ವೇಗದರ್ಶಿನಮೇವ ಚ ॥ | 6.74.10bजाम्बवन्तं सुषेणं च वेगदर्शिनमेव च ॥ १० ॥ | 6.61.10bजाम्बवन्तं सुषेणं च वेगदर्शनमाहुकम् ॥6.61.10॥ | 6.74.11bगवाक्षं च सुषेणं च वेगदर्शिनमाहुकम् ॥ ११ ॥ | 6.74.10bगवाक्षं च सुषेणं च वेगदर्शिनमाहुकम् ॥ 6.74.10 ॥ | ||
| 23 | #11aಮೈಂದಂ ನಲಂ ಜ್ಯೋತಿಮುಖಂ ದ್ವಿವಿದಂ ಚಾಪಿ ವಾನರಮ್ । | 6.74.11aमैन्दं नलं ज्योतिर्मुखं द्विविदं चापि वानरम् । | 6.61.11aमैन्दं नलं ज्योतिमुखं द्विविदं पनसं तथा । | 6.74.12aमैन्दं नलं ज्योतिमुखं द्विविदं पनसं तथा । | 6.74.11aमैन्दं नलं ज्योतिमुखं द्विविदं पनसं तथा। | ||
| 24 | #11bವಿಭೀಷಣೋ ಹನೂಮಾಂಶ್ಚ ದದೃಶಾತೇ ಹತಾನ್ರಣೇ ॥ | 6.74.11bविभीषणो हनूमांश्च ददृशाते हतान् रणे ॥ ११ ॥ | 6.61.11bविभीषणो हनूमांश्च ददृशाते हतान्रणे ॥6.61.11॥ | ||||
| 25 | 6.74.12bएतांश्चान्यस्ततो वीरौ ददृशाते हतान्रणे ॥ १२ ॥ | 6.74.11bएतांश्चान्यांस्ततो वीरौ ददृशाते हतान् रणे ॥ 6.74.11 ॥ | |||||
| 26 | #12aಸಪ್ತಷಷ್ಟಿರ್ಹತಾಃ ಕೋಟ್ಯೋ ವಾನರಾಣಾಂ ತರಸ್ವಿನಾಮ್ । | 6.74.12aसप्तषष्टिर्हताः कोट्यो वानराणां तरस्विनाम् । | 6.61.12aसप्तषष्टिर्हताः कोट्यो वानराणां तरस्विनाम् । | 6.74.13aसप्तषष्टिर्हताः कोट्यो वानराणां तरस्विनाम् । | 6.74.12aसप्तषष्टिर्हताः कोट्यो वानराणां तरस्विनाम्। | ||
| 27 | #12bಅಹ್ನಃ ಪಂಚಮಶೇಷೇಣ ವಲ್ಲಭೇನ ಸ್ವಯಂಭುವಃ ॥ | 6.74.12bअह्नः पञ्चमशेषेण वल्लभेन स्वयम्भुवः ॥ १२ ॥ | 6.61.12bअह्नः पञ्चमशेषेण वल्लभेन स्वयम्भुवः ॥6.61.12॥ | 6.74.13bअह्नः पञ्चमशेषेण वल्लमेन स्वयम्भुवः ॥ १३ ॥ | 6.74.12bअह्नः पञ्चमशेषेणः वल्लभेन स्वयम्भुवः ॥ 6.74.12 ॥ | ||
| 28 | #13aಸಾಗರೌಘನಿಭಂ ಭೀಮಂ ದೃಷ್ಟ್ವಾ ಬಾಣಾರ್ದಿತಂ ಬಲಮ್ । | 6.74.13aसागरौघनिभं भीमं दृष्ट्वा बाणार्दितं बलम् । | 6.61.13aसागरौघनिभं भीमं दृष्ट्वा बाणार्दितं बलम् । | 6.74.14aसागरौघनिभं भीमं दृष्ट्वा बाणार्दितं बलम् । | 6.74.13aसागरौघनिभं भीमं दृष्ट्वा बाणार्दितं बलम्। | ||
| 29 | #13bಮಾರ್ಗತೇ ಜಾಂಬವಂತಂ ಚ ಹನುಮಾನ್ಸ ವಿಭೀಷಣಃ ॥ | 6.74.13bमार्गते जाम्बवन्तं च हनूमान् सविभीषणः ॥ १३ ॥ | 6.61.13bमार्गते जाम्बवन्तं स्म हनूमान्सविभीषणः ॥6.61.13॥ | 6.74.14bमार्गते जाम्बवन्तं स हनुमान्सविभीषणः ॥ १४ ॥ | 6.74.13bमार्गते जाम्बवन्तं स हनुमान् सविभीषणः ॥ 6.74.13 ॥ | ||
| 30 | #14aಸ್ವಭಾವಜರಯಾ ಯುಕ್ತಂ ವೃದ್ಧಂ ಶರಶತೈಶ್ಚಿತಮ್ । | 6.74.14aस्वभावजरया युक्तं वृद्धं शरशतैश्चितम् । | 6.61.14aस्वभावजरया युक्तं वृद्धं शरशतैश्चितम् । | 6.74.15aस्वभावजरया युक्तं वृद्धं शरशतैश्चितम् । | 6.74.14aस्वभावजरया युक्तं वृद्धं शरशतैश्चितम्। | ||
| 31 | #14bಪ್ರಜಾಪತಿಸುತಂ ವೀರಂ ಶಾಮ್ಯಂತಮಿವ ಪಾವಕಮ್ ॥ | 6.74.14bप्रजापतिसुतं वीरं शाम्यन्तमिव पावकम् ॥ १४ ॥ | 6.61.14bप्रजापतिसुतं वीरं शाम्यन्तमिव पावकम् ॥6.61.14॥ | 6.74.15bप्रजापतिसुतं वीरं शाम्यन्तमिव पावकम् ॥ १५ ॥ | 6.74.14bप्रजापतिसुतं वीरं शाम्यन्तमिव पावकम् ॥ 6.74.14 ॥ | ||
| 32 | #15aದೃಷ್ಟ್ವಾ ಸಮಭಿಸಂಕ್ರಮ್ಯ ಪೌಲಸ್ತ್ಯೋ ವಾಕ್ಯಮಬ್ರವೀತ್ । | 6.74.15aदृष्ट्वा समभिसङ्क्रम्य पौलस्त्यो वाक्यमब्रवीत् । | 6.61.15aदृष्ट्वा तमुपसंगम्य पौलस्त्यो वाक्यमब्रवीत् । | 6.74.16aदृष्ट्वा तमुपसंगम्य पौलस्त्यो वाक्यमब्रवीत् । | 6.74.15aदृष्ट्वा तमुपसङ्गम्य पौलस्त्यो वाक्यमब्रवीत्। | ||
| 33 | #15bಕಚ್ಚಿದಾರ್ಯ ಶರೈಸ್ತೀಕ್ಷ್ಣೈರ್ನ ಪ್ರಾಣಾ ಧ್ವಂಸಿತಾಸ್ತವ ॥ | 6.74.15bकच्चिदार्य शरैस्तीक्ष्णैर्न प्राणा ध्वंसितास्तव ॥ १५ ॥ | 6.61.15bकच्चिदार्यशरैस्तीर्ष्णैर्न प्राणा ध्वंसितास्तव ॥6.61.15॥ | 6.74.16bकच्चिदार्य शरैस्तीक्ष्णैः प्राणा न ध्वंसितास्तव ॥ १६ ॥ | 6.74.15bकच्चिदार्य शरैस्तीक्ष्णैः प्राणा न ध्वंसितास्तव ॥ 6.74.15 ॥ | ||
| 34 | #16aವಿಭೀಷಣವಚಃ ಶ್ರುತ್ವಾ ಜಾಂಬವಾನೃಕ್ಷಪುಂಗವಃ । | 6.74.16aविभीषणवचः श्रुत्वा जाम्बवानृक्षपुङ्गवः । | 6.61.16aविभीषणवचः श्रुत्वा जाम्बवानृक्षपुंगवः । | 6.74.17aविभीषणवचः श्रुत्वा जाम्बवानृक्षपुङ्गवः । | 6.74.16aविभीषणवचः श्रुत्वा जाम्बवानृक्षपुङ्गवः। | ||
| 35 | #16bಕೃಚ್ಛ್ರಾದಭ್ಯುದ್ಗಿರನ್ ವಾಕ್ಯಮಿದಂ ವಚನಮಬ್ರವೀತ್ ॥ | 6.74.16bकृच्छ्रादभ्युद्गिरन् वाक्यमिदं वचनमब्रवीत् ॥ १६ ॥ | 6.61.16bकृच्छ्रादभ्युद्गिरन्वाक्यमिदं वचनमब्रवीत् ॥6.61.16॥ | 6.74.17bकृच्छ्रादभ्युद्गिरन्वाक्यमिदं वचनमब्रवीत् ॥ १७ ॥ | 6.74.16bकृच्छ्रादभ्युद्गिरन् वाक्यमिदं वचनमब्रवीत् ॥ 6.74.16 ॥ | ||
| 36 | #17aನೈರ್ಋತೇಂದ್ರ ಮಹಾವೀರ್ಯ ಸ್ವರೇಣ ತ್ವಾಭಿಲಕ್ಷಯೇ । | 6.74.17aनैर्ऋतेन्द्र महावीर्य स्वरेण त्वाभिलक्षये । | 6.61.17aनैरृतेन्द्रमहावीर्यस्वरेण त्वाभिलक्षये । | 6.74.18aनैर्ऋतेन्द्र महावीर्य स्वरेण त्वाऽभिलक्षये । | 6.74.17aनैर्ऋतेन्द्र महावीर्य स्वरेण त्वाऽभिलक्षये। | ||
| 37 | #17bವಿದ್ಧಗಾತ್ರಃ ಶಿತೈರ್ಬಾಣೈರ್ನ ತ್ವಾಂ ಪಶ್ಯಾಮಿ ಚಕ್ಷುಷಾ ॥ | 6.74.17bविद्धगात्रः शितैर्बाणैर्न त्वां पश्यामि चक्षुषा ॥ १७ ॥ | 6.61.17bपीड्यमानः शितैर्बाणैर्न त्वां पश्यामि चक्षुषा ॥6.61.17॥ | 6.74.18bपीड्यमानः शितैर्बाणैर्न त्वां पश्यामि चक्षुषा ॥ १८ ॥ | 6.74.17bपीड्यमानः शितैर्बाणैर्न त्वां पश्यामि चक्षुषा ॥ 6.74.17 ॥ | ||
| 38 | #18aಅಂದನಾ ಸುಪ್ರಜಾ ಯೇನ ಮಾತರಿಶ್ವಾ ಚ ಸುವೃತ । | 6.74.18aअञ्जना सुप्रजा येन मातरिश्वा च सुव्रत । | 6.61.18aअञ्जना सुप्रजा येन मातरिश्वा च नैरृत । | 6.74.19aअञ्जना सुप्रजा येन मातरिश्वा च नैर्ऋते । | 6.74.18aअञ्जना सुप्रजा येन मातरिश्वा च नैर्ॠत। | ||
| 39 | #18bಹನುಮಾನ್ವಾನರ ಶ್ರೇಷ್ಠಃ ಪ್ರಾಣಾನ್ ಧಾರಯತೇ ಕ್ವಚಿತ್ ॥ | 6.74.18bहनूमान् वानरश्रेष्ठः प्राणान् धारयते क्वचित् ॥ १८ ॥ | 6.61.18bहनूमान्वानरश्रेष्ठः प्राणान्धारयते क्वचित् ॥6.61.18॥ | 6.74.19bहनुमान्वानरश्रेष्ठः प्राणान्धारयते क्वचित् ॥ १९ ॥ | 6.74.18bहनुमान् वानरश्रेष्ठः प्राणान् धारयते क्वचित् ॥ 6.74.18 ॥ | ||
| 40 | #19aಶ್ರುತ್ವಾ ಜಾಂಬವತೋ ವಾಕ್ಯಮುವಾಚೇದಂ ವಿಭೀಷಣಃ । | 6.74.19aश्रुत्वा जाम्बवतो वाक्यमुवाचेदं विभीषणः । | 6.61.19aश्रुत्वा जाम्बवतो वाक्यमुवाचेदं विभीषणः । | 6.74.20aश्रुत्वा जाम्बवतो वाक्यमुवाचेदं विभीषणः । | 6.74.19aश्रुत्वा जाम्बवतो वाक्यमुवाचेदं विभीषणः। | ||
| 41 | #19bಆರ್ಯಪುತ್ರಾವತಿಕ್ರಮ್ಯ ಕಸ್ಮಾತ್ಪೃಚ್ಛಸಿ ಮಾರುತಿಮ್ ॥ | 6.74.19bआर्यपुत्रावतिक्रम्य कस्मात् पृच्छसि मारुतिम् ॥ १९ ॥ | 6.61.19bआर्यपुत्रावतिक्रम्य कस्मात्पृच्छसि मारुतिम् ॥6.61.19॥ | 6.74.20bआर्यपुत्रावतिक्रम्य कस्मात्पृच्छसि मारुतिम् ॥ २० ॥ | 6.74.19bआर्यपुत्रावतिक्रम्य कस्मात् पृच्छसि मारुतिम् ॥ 6.74.19 ॥ | ||
| 42 | #20aನೈವ ರಾಜನಿ ಸುಗ್ರೀವೇ ನಾಂಗದೇ ನಾಪಿ ರಾಘವೇ । | 6.74.20aनैव राजनि सुग्रीवे नाङ्गदे नापि राघवे । | 6.61.20aनैव राजनि सुग्रीवे नाङ्गदे नापि राघवे । | 6.74.21aनैव राजनि सुग्रीवे नाङ्गदे नापि राघवे । | 6.74.20aनैव राजनि सुग्रीवे नाङ्गदे नापि राघवे। | ||
| 43 | #20bಆರ್ಯ ಸಂದರ್ಶಿತಃ ಸ್ನೇಹೋ ಯಥಾ ವಾಯುಸುತೇ ಪರಃ ॥ | 6.74.20bआर्य सन्दर्शितः स्नेहो यथा वायुसुते परः ॥ २० ॥ | 6.61.20bआर्य संदर्शितः स्नेहो यथा वायुसुते परः ॥6.61.20॥ | 6.74.21bआर्य संदर्शितः स्नेहो यथा वायुसुते परः ॥ २१ ॥ | 6.74.20bआर्य सन्दर्शितः स्नेहो यथा वायुसुते परः ॥ 6.74.20 ॥ | ||
| 44 | #21aವಿಭೀಷಣವಚಃ ಶ್ರುತ್ವಾ ಜಾಂಬವಾನ್ ವಾಕ್ಯಮಬ್ರವೀತ್ । | 6.74.21aविभीषणवचः श्रुत्वा जाम्बवान् वाक्यमब्रवीत् । | 6.61.21aविभीषणवचः श्रुत्वा जाम्बवान्वाक्यमब्रवीत् । | 6.74.22aविभीषणवचः श्रुत्वा जाम्बवान्वाक्यमब्रवीत् । | 6.74.21aविभीषणवचः श्रुत्वा जाम्बवान् वाक्यमब्रवीत्। | ||
| 45 | #21bಶೃಣು ನೈರ್ಋತಶಾರ್ದೂಲ ಯಸ್ಮಾತ್ಪೃಚ್ಛಾಮಿ ಮಾರುತಿಮ್ ॥ | 6.74.21bशृणु नैर्ऋतशार्दूल यस्मात् पृच्छामि मारुतिम् ॥ २१ ॥ | 6.61.21bशृणु नैरृतशार्दूल यस्मात्पृच्छामि मारुतिम् ॥6.61.21॥ | 6.74.22bशृणु नैर्ऋतशार्दूल यस्मात्पृच्छामि मारुतिम् ॥ २२ ॥ | 6.74.21bशृणु नैर्ऋतशार्दूल यस्मात् पृच्छामि मारुतिम् ॥ 6.74.21 ॥ | ||
| 46 | #22aಅಸ್ಮಿನ್ಜೀವತಿ ವೀರೇ ತು ಹತಮಪ್ಯಹತಂ ಬಲಮ್ । | 6.74.22aअस्मिञ्जीवति वीरे तु हतमप्यहतं बलम् । | 6.61.22aतस्मिञ्जीवति वीरे तु हतमप्यहतं बलम् । | 6.74.23aतस्मिञ्जीवति वीरे तु हतमप्यहतं बलम् । | 6.74.22aतस्मिन् जीवति वीरे तु हतमप्यहतं बलम्। | ||
| 47 | #22bಹನೂಮತ್ಯುಜ್ಝಿತ ಪ್ರಾಣೇ ಜೀವಂತೋಽಪಿ ಮೃತಾ ವಯಮ್ ॥ | 6.74.22bहनूमत्युज्झितप्राणे जीवन्तोऽपि मृता वयम् ॥ २२ ॥ | 6.61.22bहनूमत्युज्झितप्राणे जीवन्तोऽपि वयं हताः ॥6.61.22॥ | 6.74.23bहनुमत्युज्झितप्राणे जीवन्तोपि वयं हताः ॥ २३ ॥ | 6.74.22bहनुमत्युज्झितप्राणे जीवन्तोऽपि वयं हताः ॥ 6.74.22 ॥ | ||
| 48 | #23aಧರತೇ ಮಾರುತಿಸ್ತಾತ ಮಾರುತ ಪ್ರತಿಮೋ ಯದಿ । | 6.74.23aधरते मारुतिस्तात मारुतप्रतिमो यदि । | 6.61.23aध्रियते मारुतिस्तात मारुतप्रतिमो यदि । | 6.74.24aधरते मारुतिस्तात मारुतप्रतिमो यदि । | 6.74.23aधरते मारुतिस्तात मारुतप्रतिमो यदि। | ||
| 49 | #23bವೈಶ್ವಾನರಸಮೋ ವೀರ್ಯೇ ಜೀವಿಶಾತಾ ತತೋ ಭವೇತ್ ॥ | 6.74.23bवैश्वानरसमो वीर्ये जीविताशा ततो भवेत् ॥ २३ ॥ | 6.61.23bवैश्वानरसमो वीर्ये जीविताशा ततो भवेत् ॥6.61.23॥ | 6.74.24bवैश्वानरसमो वीर्ये जीविताशा ततो भवेत् ॥ २४ ॥ | 6.74.23bवैश्वानरसमो वीर्ये जीविताशा ततो भवेत् ॥ 6.74.23 ॥ | ||
| 50 | #24aತತೋ ವೃದ್ಧಮುಪಾಗಮ್ಯ ನಿಯಮೇನಾಭ್ಯವಾದಯತ್ । | 6.74.24aततो वृद्धमुपागम्य विनयेनाभ्यवादयत् । | 6.61.24aततो वृद्धमुपागम्य नियमेनाभ्यवादयत् । | 6.74.25aततो वृद्धसुपागम्य नियमेनाभ्यवादयत् । | 6.74.24aततो वृद्धमुपागम्य नियमेनाभ्यवादयत्। | ||
| 51 | #24bಗೃಹ್ಯ ಜಾಂಬವತಃ ಪಾದೌ ಹನೂಮಾನ್ಮಾರುತಾತ್ಮಜಃ ॥ | 6.74.24bगृह्य जाम्बवतः पादौ हनूमान् मारुतात्मजः ॥ २४ ॥ | 6.61.24bगृह्य जाम्बवतः पादौ हनूमान्मारुतात्मजः ॥6.61.24॥ | 6.74.25bगृह्य जाम्बवतः पादौ हनुमान्मारुतात्मजः । | 6.74.24bगृह्य जाम्बवतः पादौ हनुमान् मारुतात्मजः ॥ 6.74.24 ॥ | ||
| 52 | 6.74.25c[ अहमस्मि हरिश्रेष्ठः शाधि मां यच्चिकीर्षितम् ] ॥ २५ ॥ | ||||||
| 53 | #25aಶ್ರುತ್ವಾ ಹನೂಮತೋ ವಾಕ್ಯಂ ತದಾ ವಿವ್ಯಥಿತೇಂದ್ರಿಯಃ । | 6.74.25aश्रुत्वा हनूमतो वाक्यं तदा विव्यथितेन्द्रियः । | 6.61.25aश्रुत्वा हनुमतो वाक्यं तथापि व्यथितेन्द्रियः । | 6.74.26aश्रुत्वा हनुमतो वाक्यं तथापि व्यथितेन्द्रियः । | 6.74.25aश्रुत्वा हनुमतो वाक्यं तथापि व्यथितेन्द्रियः। | ||
| 54 | #25bಪುನರ್ಜಾತಮಿವಾತ್ಮಾನಂ ಮನ್ಯತೇ ಸ್ಮರ್ಕ್ಷಪುಂಗವಃ ॥ | 6.74.25bपुनर्जातमिवात्मानं मन्यते स्मर्क्षपुङ्गवः ॥ २५ ॥ | 6.61.25bपुनर्जातमिवात्मानं स मेने ऋक्षपुंगवः ॥6.61.25॥ | 6.74.26bपुनर्जातमिवात्मानं मन्यते स्मर्क्षपुङ्गवः ॥ २६ ॥ | 6.74.25bपुनर्जातमिवात्मानं मन्यते स्मर्क्षपुङ्गवः ॥ 6.74.25 ॥ | ||
| 55 | #26aತತೋಽಬ್ರವೀನ್ಮಹಾತೇಜಾ ಹನುಮಂತಂ ಸ ಜಾಂಬವಾನ್ । | 6.74.26aततोऽब्रवीन्महातेजा हनूमन्तं स जाम्बवान् । | 6.61.26aततोऽब्रवीन्महातेजा हनूमन्तं स जाम्बवान् । | 6.74.27aततोऽब्रवीन्महातेजा हनुमन्तं स जाम्बवान् । | 6.74.26ततोऽब्रवीन्महातेजा हनुमन्तं स जाम्बवान् ॥ 6.74.26 ॥ | ||
| 56 | #26bಆಗಚ್ಛ ಹರಿಶಾರ್ದೂಲ ವಾನರಾಂಸ್ತ್ರಾತುಮರ್ಹಸಿ ॥ | 6.74.26bआगच्छ हरिशार्दूल वानरांस्त्रातुमर्हसि ॥ २६ ॥ | 6.61.26bआगच्छ हरिशार्दूलवानरांस्त्रातुमर्हसि ॥6.61.26॥ | 6.74.27bआगच्छ हरिशार्दूल वानरांस्त्रातुमर्हसि ॥ २७ ॥ | 6.74.27aआगच्छ हरिशार्दूल वानरांस्त्रातुमर्हसि। | ||
| 57 | #27aನಾನ್ಯೋ ವಿಕ್ರಮಪರ್ಯಾಪ್ತಸ್ತ್ವಮೇಷಾಂ ಪರಮಃ ಸಖಾ । | 6.74.27aनान्यो विक्रमपर्याप्तस्त्वमेषां परमः सखा । | 6.61.27aनान्यो विक्रमपर्याप्तस्त्वमेषां परमः सखा । | 6.74.28aनान्यो विक्रमपर्याप्तस्त्वमेषां परमः सखा । | 6.74.27bनान्यो विक्रमपर्याप्तस्त्वमेषां परमः सखा ॥ 6.74.27 ॥ | ||
| 58 | #27bತ್ವತ್ಪರಾಕ್ರಮಕಾಲೋಽಯಂ ನಾನ್ಯಂ ಪಶ್ಯಾಮಿ ಕಂಚನ ॥ | 6.74.27bत्वत्पराक्रमकालोऽयं नान्यं पश्यामि कञ्चन ॥ २७ ॥ | 6.61.27bत्वत्पराक्रमकालोऽयं नान्यं पश्यामि कञ्चन ॥6.61.27॥ | 6.74.28bत्वत्पराक्रमकालोयं नान्यं पश्यामि कंचन ॥ २८ ॥ | |||
| 59 | #28aಋಕ್ಷವಾನರ ವೀರಾಣಾಮನೀಕಾನಿ ಪ್ರಹರ್ಷಯ । | 6.74.28aऋक्षवानरवीराणामनीकानि प्रहर्षय । | 6.61.28aऋक्षवानरवीराणामनीकानि प्रहर्षय । | 6.74.29aऋक्षवानरवीराणामनीकानि प्रहर्षय । | 6.74.28aऋक्षवानरवीराणामनीकानि प्रहर्षय। | ||
| 60 | #28bವಿಶಲ್ಯೌ ಕುರು ಚಾಪ್ಯೇತೌ ಸಾದಿತೌ ರಾಮಲಕ್ಷ್ಮಣೌ ॥ | 6.74.28bविशल्यौ कुरु चाप्येतौ सादितौ रामलक्ष्मणौ ॥ २८ ॥ | 6.61.28bविशल्यौ कुरु चाप्येतौ सादितौ रामलक्ष्मणौ ॥6.61.28॥ | 6.74.29bविशल्यौ कुरु चाप्येतौ सादितौ रामलक्ष्मणौ ॥ २९ ॥ | 6.74.28bविशल्यौ कुरु चाप्येतौ सादितौ रामलक्ष्मणौ ॥ 6.74.28 ॥ | ||
| 61 | #29aಗತ್ವಾ ಪರಮಮಧ್ವಾನಮುಪರ್ಯುಪರಿ ಸಾಗರಮ್ । | 6.74.29aगत्वा परममध्वानमुपर्युपरि सागरम् । | 6.61.29aगत्वा परममध्वानमुपर्युपरि सागरम् । | 6.74.30aगत्वा परममध्वानमुपर्युपरि सागरम् । | 6.74.29aगत्वा परममध्वानमुपर्युपरि सागरम्। | ||
| 62 | #29bಹಿಮವಂತಂ ನಗಶ್ರೇಷ್ಠಂ ಹನೂಮನ್ ಗಂತುಮರ್ಹಸಿ ॥ | 6.74.29bहिमवन्तं नगश्रेष्ठं हनूमन् गन्तुमर्हसि ॥ २९ ॥ | 6.61.29bहिमवन्तं नगश्रेष्ठं हनूमन्गन्तुमर्हसि ॥6.61.29॥ | 6.74.30bहिमवन्तं नगश्रेष्ठं हनुमन्गन्तुमर्हसि ॥ ३० ॥ | 6.74.29bहिमवन्तं नगश्रेष्ठं हनुमन् गन्तुमर्हसि ॥ 6.74.29 ॥ | ||
| 63 | #30aತತಃ ಕಾಂಚನ ಮತ್ಯುಚ್ಚಮೃಷಭಂ ಪರ್ವತೋತ್ತಮಮ್ । | 6.74.30aततः काञ्चनमत्युच्चमृषभं पर्वतोत्तमम् । | 6.61.30aततः काञ्चनमत्युग्रमृषभं पर्वतोत्तमम् । | 6.74.31aततः काञ्चनमत्युच्चमृषभं पर्वतोत्तमम् । | 6.74.30aततः काञ्चनमत्युच्चमृषभं पर्वतोत्तमम्। | ||
| 64 | #30bಕೈಲಾಸಶಿಖರಂ ಚಾತ್ರ ದ್ರಕ್ಷ್ಯಸ್ಯರಿನಿಷೂದನ ॥ | 6.74.30bकैलासशिखरं चात्र द्रक्ष्यस्यरिनिषूदन ॥ ३० ॥ | 6.61.30bकैलासशिखरं चापि द्रक्ष्यस्यरिनिषूदन ॥6.61.30॥ | 6.74.31bकैलासशिखरं चापि द्रक्ष्यस्यरिनिषूदन ॥ ३१ ॥ | 6.74.30bकैलासशिखरं चापि द्रक्ष्यस्यरिनिषूदन ॥ 6.74.30 ॥ | ||
| 65 | #31aತಯೋಃ ಶಿಖರಯೋರ್ಮಧ್ಯೇ ಪ್ರದೀಪ್ತಮತುಲಪ್ರಭಮ್ । | 6.74.31aतयोः शिखरयोर्मध्ये प्रदीप्तमतुलप्रभम् । | 6.61.31aतयोः शिखरयोर्मध्ये प्रदीप्तमतुलप्रभम् । | 6.74.32aतयोः शिखरयोर्मध्ये प्रदीप्तमतुलप्रभम् । | 6.74.31aतयोः शिखरयोर्मध्ये प्रदीप्तमतुलप्रभम्। | ||
| 66 | #31bಸರ್ವೌಷಧಿಯುತಂ ವೀರ ದ್ರಕ್ಷ್ಯಸ್ಯೋಷಧಿಪರ್ವತಮ್ ॥ | 6.74.31bसर्वौषधियुतं वीर द्रक्ष्यस्योषधिपर्वतम् ॥ ३१ ॥ | 6.61.31bसर्वौषधियुतं वीर द्रक्ष्यस्यौषधिपर्वतम् ॥6.61.31॥ | 6.74.32bसर्वौषधियुतं वीर द्रक्ष्यस्योपधिपर्वतम् ॥ ३२ ॥ | 6.74.31bसर्वौषधियुतं वीर द्रक्ष्यस्योषधिपर्वतम् ॥ 6.74.31 ॥ | ||
| 67 | #32aತಸ್ಯ ವಾನರಶಾರ್ದೂಲ ಚತಸ್ರೋ ಮೂರ್ಧ್ನಿ ಸಂಭವಾಃ । | 6.74.32aतस्य वानरशार्दूल चतस्रो मूर्ध्नि सम्भवाः । | 6.61.32aतस्य वानरशार्दूलचतस्रो मूर्ध्नि संभवाः । | 6.74.33aतस्य वानरशार्दूल चतस्रो मूर्ध्नि संभवाः । | 6.74.32aतस्य वानरशार्दूल चतस्रो मूर्ध्निसम्भवाः। | ||
| 68 | #32bದ್ರಕ್ಷ್ಯಸ್ಯೋಷಧಯೋ ದೀಪ್ತಾ ದೀಪಯಂತಿರ್ದಿಶೋ ದಶ ॥ | 6.74.32bद्रक्ष्यस्योषधयो दीप्ता दीपयन्तीर्दिशो दश ॥ ३२ ॥ | 6.61.32bद्रक्ष्यस्योषधयो दीप्ता दीपयन्त्यो दिशो दश ॥6.61.32॥ | 6.74.33bद्रक्ष्यस्योषधयो दीप्ता दीपयन्त्यो दिशो दश ॥ ३३ ॥ | 6.74.32bद्रक्ष्यस्योषधयो दीप्ता दीपयन्त्यो दिशो दश ॥ 6.74.32 ॥ | ||
| 69 | #33aಮೃತಸಂಜೀವಿನೀಂ ಚೈವ ವಿಶಲ್ಯಕರಣೀಮಪಿ । | 6.74.33aमृतसञ्जीवनीं चैव विशल्यकरणीमपि । | 6.61.33aमृतसंजीवनीं चैव विशल्यकरणीमपि । | 6.74.34aमृतसञ्जीवनीं चैव विशल्यकरणीमपि । | 6.74.33aमृतसञ्जीवनीं चैव विशल्यकरणीमपि। | ||
| 70 | #33bಸುವರ್ಣ್ಯಕರಣೀಂ ಚೈವ ಸಂಧಾನೀಂ ಚ ಮಹೌಷಧೀಮ್ ॥ | 6.74.33bसुवर्णकरणीं चैव सन्धानीं च महौषधीम् ॥ ३३ ॥ | 6.61.33bसौवर्णकरणीं चैव संधानीं च महौषधीम् ॥6.61.33॥ | ||||
| 71 | 6.74.34bसावर्ण्यकरणीं चैव सन्धानकरणीं तथा ॥ ३४ ॥ | 6.74.33bसावर्ण्यकरणीं चैव सन्धानकरणीं तथा ॥ 6.74.33 ॥ | |||||
| 72 | #34aತಾಃ ಸರ್ವಾ ಹನುಮನ್ಗೃಹ್ಯ ಕ್ಷಿಪ್ರಮಾಗಂತುಮರ್ಹಸಿ । | 6.74.34aताः सर्वा हनुमन् गृह्य क्षिप्रमागन्तुमर्हसि । | 6.61.34aताः सर्वा हनुमन्गृह्य क्षिप्रमागन्तुमर्हसि । | 6.74.35aताः सर्वा हनुमन्गृह्य क्षिप्रमागन्तुमर्हसि । | 6.74.34aताः सर्वा हनुमन् गृह्य क्षिप्रमागन्तुमर्हसि। | ||
| 73 | #34bಆಶ್ವಾಸಯ ಹರೀನ್ಪ್ರಾಣೈರ್ಯೋಜ್ಯ ಗಂಧವಹಾತ್ಮಜ ॥ | 6.74.34bआश्वासय हरीन् प्राणैर्योज्य गन्धवहात्मज ॥ ३४ ॥ | 6.61.34bआश्वासय हरीन्प्राणैर्योज्य गन्धवहात्मजः ॥6.61.34॥ | 6.74.35bआश्वासय हरीन्प्राणैर्योज्य गन्धवहात्मज ॥ ३५ ॥ | 6.74.34bआश्वासय हरीन् प्राणैर्योज्य गन्धवहात्मज ॥ 6.74.34 ॥ | ||
| 74 | #35aಶ್ರುತ್ವಾ ಜಾಂಬವತೋ ವಾಕ್ಯಂ ಹನೂಮಾನ್ ಮಾರುತಾತ್ಮಜಃ । | 6.74.35aश्रुत्वा जाम्बवतो वाक्यं हनूमान् मारुतात्मजः । | 6.61.35aश्रुत्वा जाम्बवतो वाक्यं हनूमान्हरिपुंगवः । | 6.74.36aश्रुत्वा जाम्बवतो वाक्यं हनुमान्हरिपुङ्गवः । | 6.74.35aश्रुत्वा जाम्बवतो वाक्यं हनुमान् हरिपुङ्गवः। | ||
| 75 | #35bಆಪೂರ್ಯತ ಬಲೋದ್ಧರ್ಷೈರ್ವಾಯುವೇಗೈರಿವಾರ್ಣವಃ ॥ | 6.74.35bआपूर्यत बलोद्धर्षैर्वायुवेगैरिवार्णवः ॥ ३५ ॥ | 6.61.35bआपूर्यत बलोद्धर्षैस्तोयवेगैरिवार्णवः ॥6.61.35॥ | 6.74.36bआपूर्यत बलोद्धर्षैस्तोयवेगैरिवार्णवः ॥ ३६ ॥ | 6.74.35bआपूर्यत बलोद्धर्षैस्तोयवेगैरिवार्णवः ॥ 6.74.35 ॥ | ||
| 76 | #36aಸ ಪರ್ವತ ತಟಾಗ್ರಸ್ಥಃ ಪೀಡಯನ್ ಪರ್ವತೋತ್ತಮಮ್ । | 6.74.36aस पर्वततटाग्रस्थः पीडयन् पर्वतोत्तमम् । | 6.61.36aस पर्वततटाग्रस्थः पीडयन्पर्वतोत्तरम् । | 6.74.37aस पर्वततटाग्रस्थः पीडयन्पर्वतोत्तमम् । | 6.74.36aस पर्वततटाग्रस्थः पीडयन् पर्वतोत्तमम्। | ||
| 77 | #36bಹನೂಮಾನ್ ದೃಶ್ಯತೇ ವೀರೋ ದ್ವಿತೀಯ ಇವ ಪರ್ವತಃ ॥ | 6.74.36bहनूमान् दृश्यते वीरो द्वितीय इव पर्वतः ॥ ३६ ॥ | 6.61.36bहनूमान्दृश्यते वीरो द्वितीय इव पर्वतः ॥6.61.36॥ | 6.74.37bहनुमान्दृश्यते वीरो द्वितीय इव पर्वतः ॥ ३७ ॥ | 6.74.36bहनुमान् दृश्यते वीरो द्वितीय इव पर्वतः ॥ 6.74.36 ॥ | ||
| 78 | #37aಹರಿಪಾದವಿನಿರ್ಭಗ್ನೋ ನಿಷಸಾದ ಸ ಪರ್ವತಃ । | 6.74.37aहरिपादविनिर्भग्नो निषसाद स पर्वतः । | 6.61.37aहरिपादविनिर्भिन्नो निषसाद स पर्वतः । | 6.74.38aहरिपादविनिर्भग्नो निषसाद स पर्वतः । | 6.74.37aहरिपादविनिर्भग्नो निषसाद स पर्वतः। | ||
| 79 | #37bನ ಶಶಾಕ ತದಾತ್ಮಾನಂ ಸೋಢುಂ ಭೃಶನಿಪೀಡಿತಃ ॥ | 6.74.37bन शशाक तदात्मानं वोढुं भृशनिपीडितः ॥ ३७ ॥ | 6.61.37bन शशाक तदात्मानं सोढुं भृशनिपीडितः ॥6.61.37॥ | 6.74.38bन शशाक तदाऽऽत्मानं सोडुं भृशनिपीडितः ॥ ३८ ॥ | 6.74.37bन शशाक तदाऽऽत्मानं सोढुं भृशनिपीडितः ॥ 6.74.37 ॥ | ||
| 80 | #38aತಸ್ಯ ಪೇತುರ್ನಗಾಭೂಮೌ ಹರಿವೇಗಾಚ್ಚ ಜಜ್ವಲುಃ । | 6.74.38aतस्य पेतुर्नगा भूमौ हरिवेगाच्च जज्वलुः । | 6.61.38aतस्य पेतुर्नगा भूमौ हरिवेगाच्च जज्वलुः । | 6.74.39aतस्य पेतुर्नगा भूमौ हरिवेगाच्च जज्वलुः । | 6.74.38aतस्य पेतुर्नगा भूमौ हरिवेगाच्च जज्वलुः। | ||
| 81 | #38bಶೃಂಗಾಣಿ ಚ ವ್ಯಕೀರ್ಯಂತ ಪೀಡಿತಸ್ಯ ಹನೂಮತಾ ॥ | 6.74.38bशृङ्गाणि च व्यकीर्यन्त पीडितस्य हनूमता ॥ ३८ ॥ | 6.61.38bशृङ्गाणि च व्यकीर्यन्त पीडितस्य हनूमता ॥6.61.38॥ | 6.74.39bशृङ्गाणि च व्यशीर्यन्त पीडितय हनूमता ॥ ३९ ॥ | 6.74.38bशृङ्गाणि च व्यशीर्यन्त पीडितस्य हनूमता ॥ 6.74.38 ॥ | ||
| 82 | #39aತಸ್ಮಿನ್ ಸಂಪೀಡ್ಯಮಾನೇ ತು ಭಗ್ನದ್ರುಮಶಿಲಾತಲೇ । | 6.74.39aतस्मिन् सम्पीड्यमाने तु भग्नद्रुमशिलातले । | 6.61.39aतस्मिन्संपीड्यमाने तु भग्नद्रुमशिलातले । | 6.74.40aतस्मिन्संपीड्यमाने तु मग्नद्रुमशिलातले । | 6.74.39aतस्मिन् सम्पीड्यमाने तु भग्नद्रुमाशिलातले। | ||
| 83 | #39bನ ಶೇಕುರ್ವಾನರಾಃ ಸ್ಥಾತುಂ ಘೂರ್ಣಮಾನೇ ನಗೋತ್ತಮೇ ॥ | 6.74.39bन शेकुर्वानराः स्थातुं घूर्णमाने नगोत्तमे ॥ ३९ ॥ | 6.61.39bन शेकुर्वानराः स्थातुं घूर्णमाने नगोत्तमे ॥6.61.39॥ | 6.74.40bन शेकुर्वानराः स्थातुं घूर्णमाने नगोत्तमे ॥ ४० ॥ | 6.74.39bन शेकुर्वानराः स्थातुं घूर्णमाने नगोत्तमे ॥ 6.74.39 ॥ | ||
| 84 | #40aಸಾ ಘೂರ್ಣಿತ ಮಹಾದ್ವಾರಾ ಪ್ರಭಗ್ನ ಗೃಹಗೋಪುರಾ । | 6.74.40aसा घूर्णितमहाद्वारा प्रभग्नगृहगोपुरा । | 6.61.40aस घूर्णितमहाद्वारा प्रभग्नगृहगोपुरा । | 6.74.41aसा घूर्णितमहाद्वारा प्रभग्नगृहगोपुरा । | 6.74.40aसा घूर्णितमहाद्वारा प्रभग्नगृहगोपुरा। | ||
| 85 | #40bಲಂಕಾ ತ್ರಾಸಾಕುಲಾ ರಾತ್ರೌ ಪ್ರನೃತ್ತೇವಾಭವತ್ತದಾ ॥ | 6.74.40bलङ्का त्रासाकुला रात्रौ प्रनृत्तेवाभवत् तदा ॥ ४० ॥ | 6.61.40bलङ्का त्रासाकुला रात्रौ प्रनृत्तेवाभवत्तदा ॥6.61.40॥ | 6.74.41bलङ्का त्रासाकुला रात्रौ प्रनृत्तेवाभवत्तदा ॥ ४१ ॥ | 6.74.40bलङ्का त्रासाकुला रात्रौ प्रवृत्तेवाभवत्तदा ॥ 6.74.40 ॥ | ||
| 86 | #41aಪೃಥಿವೀಧರ ಸಂಕಾಶೋ ನಿಪೀಡ್ಯ ಪೃಥಿವೀಧರಮ್ । | 6.74.41aपृथिवीधरसङ्काशो निपीड्य पृथिवीधरम् । | 6.61.41aपृथिवीधरसंकाशो निपीड्य धरणीधरम् । | 6.74.42aपृथिवीधरसंकाशो निपीड्य धरणीधरम् । | 6.74.41aपृथिवीधरसङ्काशो विपीड्य धरणीधरम्। | ||
| 87 | #41bಪೃಥಿವೀಂ ಕ್ಷೋಭಯಾಮಾಸ ಸಾರ್ಣವಾಂ ಮಾರುತಾತ್ಮಜಃ ॥ | 6.74.41bपृथिवीं क्षोभयामास सार्णवां मारुतात्मजः ॥ ४१ ॥ | 6.61.41bपृथिवीं क्षोभयामास सार्णवां मारुतात्मजः ॥6.61.41॥ | 6.74.42bपृथिवीं क्षोभयामास सार्णवां मारुतात्मजः ॥ ४२ ॥ | 6.74.41bपृथिवीं क्षोभयामास सार्णवां मारुतत्मजः ॥ 6.74.41 ॥ | ||
| 88 | #42aಆರುರೋಹ ತದಾ ತಸ್ಮಾದ್ಧರಿರ್ಮಲಯ ಪರ್ವತಮ್ । | 6.74.42aआरुरोह तदा तस्माद्धरिर्मलयपर्वतम् । | 6.74.43aआरुरोह तदा तस्माद्धरिर्मलयपर्वतम् । | 6.74.42aआरुरोह तदा तस्माद्धरिर्मलयपर्वतम्। | |||
| 89 | #42bಮೇರುಮಂದರ ಸಂಕಾಶಂ ನಾನಾ ಪ್ರಸ್ರವಣಾಕುಲಮ್ ॥ | 6.74.42bमेरुमन्दरसङ्काशं नानाप्रस्रवणाकुलम् ॥ ४२ ॥ | 6.74.43bमेरुमन्दरसंकाशं नानाप्रस्रवणाकुलम् ॥ ४३ ॥ | 6.74.42bमेरुमन्दरसङ्काशं नानाप्रस्रवणाकुलम् ॥ 6.74.42 ॥ | |||
| 90 | #43aನಾನಾ ದ್ರುಮಲತಾಕೀರ್ಣಂ ವಿಕಾಸಿಕಮಲೋತ್ಪಲಮ್ । | 6.74.43aनानाद्रुमलताकीर्णं विकासिकमलोत्पलम् । | 6.74.44aनानाद्रुमलताकीर्णं विकासिकमलोत्पलज् । | 6.74.43aनानाद्रुमलताकीर्णं विकासिकमलोत्पलम्। | |||
| 91 | #43bಸೇವಿತಂ ದೇವಗಂಧರ್ವೈಃ ಷಷ್ಟಿಯೋಜನಮುಚ್ಛ್ರಿತಮ್ ॥ | 6.74.43bसेवितं देवगन्धर्वैः षष्टियोजनमुच्छ्रितम् ॥ ४३ ॥ | 6.74.44bसेवितं देवगन्धर्वैः पष्टियोजनमुच्छ्रितम् ॥ ४४ ॥ | 6.74.43bसेवितं देवगन्धर्वैः षष्टियोजनमुच्छ्रितम् ॥ 6.74.43 ॥ | |||
| 92 | #44aವಿದ್ಯಾಧರೈರ್ಮುನಿಗಣೈರಪ್ಸರೋಭಿರ್ನಿಷೇವಿತಮ್ । | 6.74.44aविद्याधरैर्मुनिगणैरप्सरोभिर्निषेवितम् । | 6.74.45aविद्याधरैर्मुनिगणैरप्सरोभिर्निषेवितम् । | 6.74.44aविद्याधरैर्मुनिगणैरप्सरोभिर्निषेवितम्। | |||
| 93 | #44bನಾನಾಮೃಗ ಗಣಾಕೀರ್ಣಂ ಬಹುಕಂದರ ಶೋಭಿತಮ್ ॥ | 6.74.44bनानामृगगणाकीर्णं बहुकन्दरशोभितम् ॥ ४४ ॥ | 6.74.45bनानामृगगणाकीर्णं बहुकन्दरशोभितम् ॥ ४५ ॥ | 6.74.44bनानामृगगणाकीर्णं बहुकन्दरशोभितम् ॥ 6.74.44 ॥ | |||
| 94 | #45aಸರ್ವಾನಾಕುಲಯಂ ಸ್ತತ್ರ ಯಕ್ಷಗಂಧರ್ವ ಕಿನ್ನರಾನ್ । | 6.74.45aसर्वानाकुलयंस्तत्र यक्षगन्धर्वकिन्नरान् । | 6.74.46aसर्वानाकुलयंस्तत्र यक्षगन्धर्वकिन्नरान् । | 6.74.45aसर्वानाकुलयंस्तत्र यक्षगन्धर्वकिन्नरान्। | |||
| 95 | #45bಹನೂಮಾನ್ಮೇಘ ಸಂಕಾಶೋ ವವೃಧೇ ಮಾರುತಾತ್ಮಜಃ ॥ | 6.74.45bहनूमान् मेघसङ्काशो ववृधे मारुतात्मजः ॥ ४५ ॥ | 6.74.46bहनुमान्मेघसंकाशो ववृधे मारुतात्मजः ॥ ४६ ॥ | 6.74.45bहनुमान् मेघसङ्काशो ववृधे मारुतात्मजः ॥ 6.74.45 ॥ | |||
| 96 | #46aಪದ್ಬ್ಯಾಂ ತು ಶೈಲಮಾಪೀಡ್ಯ ಬಡವಾಮುಖವನ್ಮುಖಮ್ । | 6.74.46aपद्भ्यां तु शैलमापीड्य वडवामुखवन्मुखम् । | 6.61.42aपद्भ्यां तु शैलमापीड्य वडवामुखवन्मुखम् । | 6.74.47aपद्भ्यां तु शैलमापीड्य बडबामुखवन्मुखम् । | 6.74.46aपद्भ्यां तु शैलमापीड्य वडवामुखवन्मुखम्। | ||
| 97 | #46bವಿವೃತ್ಯೋಗ್ರಂ ನನಾದೋಚ್ಛೈಸ್ತ್ರಾಸಯನ್ ರಜನೀಚರಾನ್ ॥ | 6.74.46bविवृत्योग्रं ननादोच्चैस्त्रासयन् रजनीचरान् ॥ ४६ ॥ | 6.61.42bविवृत्योग्रं ननादोच्चैस्त्रासयन्निव राक्षसान् ॥6.61.42॥ | 6.74.47bविवृत्योग्रं ननादोच्चैस्त्रासयन्निव राक्षसान् ॥ ४७ ॥ | 6.74.46bविवृत्योग्रं ननादोच्चैस्त्रासयन्निव राक्षसान् ॥ 6.74.46 ॥ | ||
| 98 | #47aತಸ್ಯ ನಾನದ್ಯಮಾನಸ್ಯ ಶ್ರುತ್ವಾ ನಿನದಮುತ್ತಮಮ್ । | 6.74.47aतस्य नानद्यमानस्य श्रुत्वा निनदमुत्तमम् । | 6.61.43aतस्य नानद्यमानस्य श्रुत्वा निनदमद्भुतम् । | 6.74.48aतस्य नानद्यमानस्य श्रुत्वा निनदमद्भुतम् । | 6.74.47aतस्य नानद्यमानस्य श्रुत्वा निनदमद्भुतम्। | ||
| 99 | #47bಲಂಕಾಸ್ಥಾ ರಾಕ್ಷಸವ್ಯಾಘ್ರಾ ನ ಶೇಕುಃ ಸ್ಪಂದಿತುಂ ಕ್ವಚಿತ್ ॥ | 6.74.47bलङ्कास्था राक्षसव्याघ्रा न शेकुः स्पन्दितुं क्वचित् ॥ ४७ ॥ | 6.61.43bलङ्कास्था राक्षसाः सर्वे न शेकुः स्पन्दितुं भयात् ॥6.61.43॥ | 6.74.48bलङ्कास्था राक्षसाः सर्वे न शेकुः स्पन्दितुं भयात् ॥ ४८ ॥ | 6.74.47bलङ्कास्था राक्षसाः सर्वे न शेकुः स्पन्दितुं भयात् ॥ 6.74.47 ॥ | ||
| 100 | #48aನಮಸ್ಕೃತ್ವಾಥ ಸಮುದ್ರಾಯ ಮಾರುತಿರ್ಭೀಮವಿಕ್ರಮಃ । | 6.74.48aनमस्कृत्वा समुद्राय मारुतिर्भीमविक्रमः । | 6.61.44aनमस्कृत्वाथ रामाय मारुतिर्भीमविक्रमः । | 6.74.49aनमस्कृत्वाऽथ रामाय मारुतिर्भीमविक्रमः । | 6.74.48aनमस्कृत्वाऽथ रामाय मारुतिर्भीमविक्रमः। | ||
| 101 | #48bರಾಘವಾರ್ಥೇ ಪರಂ ಕರ್ಮ ಸಮೀಹತ ಪರಂತಪಃ ॥ | 6.74.48bराघवार्थे परं कर्म समीहत परन्तपः ॥ ४८ ॥ | 6.61.44bराघवार्थे परं कर्म समैहत परंतपः ॥6.61.44॥ | 6.74.49bराघवार्थे परं कर्म समीहत परन्तपः ॥ ४९ ॥ | 6.74.48bराघवार्थे परं कर्म समीहतपरन्तपः ॥ 6.74.48 ॥ | ||
| 102 | #49aಸ ಪುಚ್ಛಮುದ್ಯಮ್ಯ ಭುಜಂಗಕಲ್ಪಂ ವಿನಮ್ಯ ಪೃಷ್ಠಂ ಶ್ರವಣೇ ನಿಕುಚ್ಚ । | 6.74.49aस पुच्छमुद्यम्य भुजङ्गकल्पं विनम्य पृष्ठं श्रवणे निकुच्य । | 6.61.45aस पुच्छमुद्यम्य भुजंगकल्पं विनम्य पृष्ठं श्रवणे निकुञ्च्य । | 6.74.50aस पुच्छमुद्यम्य भुजङ्गकल्पं विनम्य पृष्ठं श्रवणे निकुञ्च्य । | 6.74.49aस पुच्छमुद्यम्य भुजङ्गकल्पं विनम्य पृष्ठं श्रवणे निकुञ्ज्य। | ||
| 103 | #49bವಿವೃತ್ಯ ವಕ್ತ್ರಂ ವಡವಾಮುಖಾಭ- ಮಾಪುಪ್ಲುವೆ ವ್ಯೋಮ್ನಿ ಸ ಚಂಡವೇಗಃ ॥ | 6.74.49bविवृत्य वक्त्रं वडवामुखाभ- मापुप्लुवे व्योम्नि स चण्डवेगः ॥ ४९ ॥ | 6.61.45bविवृत्य वक्त्रं वडवामुखाभ मापुप्लुवे व्योम्नि स चण्डवेगः ॥6.61.45॥ | 6.74.50bविवृत्य वक्रं बडवामुखाभमापुप्लुवे व्योमनि चण्डवेगः ॥ ५० ॥ | 6.74.49bविवृत्य वक्त्रं वडवामुखाभमापुप्लुवे व्योमनि चण्डवेगः ॥ 6.74.49 ॥ | ||
| 104 | #50aಸ ವೃಕ್ಷಖಣ್ಡಾಂಸ್ತರಸಾ ಜಹಾರ ಶೈಲಾನ್ಶಿಲಾಃ ಪ್ರಾಕೃತ ವಾನರಾಂಶ್ಚ । | 6.74.50aस वृक्षखण्डांस्तरसा जहार शैलान् शिलाः प्राकृतवानरांश्च । | 6.61.46aस वृक्षषण्डांस्तरसा जहार शैलाञ्शिलाः प्राकृतवानरांश्च । | 6.74.51aस वृक्षपण्डांस्तरसाऽऽजहार शैलाञ्शिलाः प्राकृतवानरांश्च । | 6.74.50aस वृक्षषण्डांस्तरसा जहार शैलान् शिलाः प्राकृतवानरांश्च। | ||
| 105 | #50bಬಾಹೂರು ವೇಗೋದ್ಗತಸಂಪ್ರಣುನ್ನಾ- ಸ್ತೇ ತೀಕ್ಷ್ಣವೇಗಾಃ ಸಲಿಲೇ ನಿಪೇತುಃ ॥ | 6.74.50bबाहूरुवेगोद्गतसम्प्रणुन्ना- स्ते क्षीणवेगाः सलिले निपेतुः ॥ ५० ॥ | 6.61.46bबाहूरुवेगोद्धतसंप्रणुन्ना स्ते क्षीणवेगाः सलिले निपेतुः ॥6.61.46॥ | 6.74.51bबाहूरुवेगोद्धतसंप्रणुन्नास्ते क्षीणवेगाः सलिले निपेतुः ॥ ५१ ॥ | 6.74.50bबाहूरुवेगोद्धतसम्प्रणुन्नास्ते क्षीणवेगाः सलिले निपेतुः ॥ 6.74.50 ॥ | ||
| 106 | #51aಸ ತೌ ಪ್ರಸಾರ್ಯೋರಗ ಭೋಗಕಲ್ಪೌ ಭುಜೌ ಭುಜಂಗಾರಿನಿಕಾಶವೀರ್ಯಃ । | 6.74.51aस तौ प्रसार्योरगभोगकल्पौ भुजौ भुजङ्गारिनिकाशवीर्यः । | 6.61.47aस तौ प्रसार्योरगभोगकल्पौ भुजौ भुजंगारिनिकाशवीर्यः । | 6.74.52aस तौ प्रसार्योरगभोगकल्पौ भुजौ भुजङ्गारिनिकाशवीर्यः । | 6.74.51aस तौ प्रसार्योरगभोगकल्पौ भूजौ भुजङ्गारिनिकाशवीर्यः। | ||
| 107 | #51bಜಗಾಮ ಶೈಲಂ ನಗರಾಜಮಗ್ರ್ಯಂ ದಿಶಃ ಪ್ರಕರ್ಷನ್ನಿವ ವಾಯುಸೂನುಃ ॥ | 6.74.51bजगाम शैलं नगराजमग्र्यं दिशः प्रकर्षन्निव वायुसूनुः ॥ ५१ ॥ | 6.61.47bजगाम मेरुं नगराजमग्र्यं दिशः प्रकर्षन्निव वायुसूनुः ॥6.61.47॥ | 6.74.52bजगाम मेरुं नगराजमग्र्यं दिशः प्रकर्षन्निव वायुसूनुः ॥ ५२ ॥ | 6.74.51bजगाम मेरुं नगराजमग्र्यं दिशः प्रकर्षन्निव वायुसूनुः ॥ 6.74.51 ॥ | ||
| 108 | #52aಸ ಸಾಗರಂ ಘೂರ್ಣಿತವೀಚಿಮಾಲಂ ತದಂಭಸಾ ಭ್ರಾಮಿತ ಸರ್ವಸತ್ತ್ವಮ್ । | 6.74.52aस सागरं घूर्णितवीचिमालं तदम्भसा भ्रामितसर्वसत्त्वम् । | 6.61.48aस सागरं घूर्णितवीचिमालं तदा भृशं भ्रामितसर्वसत्त्वम् । | 6.74.53aस सागरं घूर्णितवीचिमालं तदा भृशं भ्रामितसर्वसत्त्वम् । | 6.74.52aस सागरं घूर्णितवीचिमालं तदा भृशं भ्रामितसर्वसत्त्वम्। | ||
| 109 | #52bಸಮೀಕ್ಷಮಾಣಃ ಸಹಸಾ ಜಗಾಮ ಚಕ್ರಂ ಯಥಾವಿಷ್ಣು ಕರಾಗ್ರಮುಕ್ತಮ್ ॥ | 6.74.52bसमीक्षमाणः सहसा जगाम चक्रं यथा विष्णुकराग्रमुक्तम् ॥ ५२ ॥ | 6.61.48bसमीक्षमाणः सहसा जगाम चक्रं यथा विष्णुकराग्रमुक्तम् ॥6.61.48॥ | 6.74.53bसमीक्षमाणः सहसा जगाम चक्रं यथा विष्णुकराग्रमुक्तम् ॥ ५३ ॥ | 6.74.52bसमीक्षमाणः सहसा जगाम चक्रं यथा विष्णुकराग्रमुक्तम् ॥ 6.74.52 ॥ | ||
| 110 | #53aಸ ಪರ್ವತಾನ್ ಪಕ್ಷಿಗಣಾನ್ಸರಾಂಸಿ ನದೀಸ್ತಟಾಕಾನಿ ಪುರೋತ್ತಮಾನಿ । | 6.74.53aस पर्वतान् पक्षिगणान् सरांसि नदीस्तटाकानि पुरोत्तमानि । | 6.61.49aस पर्वतान्वृक्षगणान्सरांसि नदीस्तटाकानि पुरोत्तमानि । | 6.74.54aस पर्वतान्वृक्षगणान्सरांसि नदीस्तटाकानि पुरोत्तमानि । | 6.74.53aस पर्वतान् वृक्षगणान् सरांसि नदीस्तटाकानि पुरोत्तमानि। | ||
| 111 | #53bಸ್ಫೀತಾಂಜನಾಂಸ್ತಾನಪಿ ಸಂಪ್ರವೀಕ್ಷ್ಯ ಜಗಾಮ ವೇಗಾತ್ ಪಿತೃತುಲ್ಯವೇಗಃ ॥ | 6.74.53bस्फीताञ्जनांस्तानपि सम्प्रवीक्ष्य जगाम वेगात् पितृतुल्यवेगः ॥ ५३ ॥ | 6.61.49bस्फीताञ्जनांस्तानपि संप्रपश्य ञ्जगाम वेगात्पितृतुल्यवेगः ॥6.61.49॥ | 6.74.54bस्फीताञ्जनान्तानपि संप्रवीक्ष्य जगाम वेगात्पितृतुल्यवेगः ॥ ५४ ॥ | 6.74.53bस्फीतान् जनान्तानपि सम्प्रवीक्ष्य जगाम वेगात् पितृतुल्यवेगः ॥ 6.74.53 ॥ | ||
| 112 | #54aಆದಿತ್ಯಪಥಮಾಶ್ರಿತ್ಯ ಜಗಾಮ ಸ ಗತಶ್ರಮಃ । | 6.74.54aआदित्यपथमाश्रित्य जगाम स गतश्रमः । | 6.61.50aआदित्यपथमाश्रित्य जगाम स गतश्रमः । | 6.74.55aआदित्यपथमाश्रित्य जगाम स गतक्लमः । | 6.74.54aआदित्यपथमाश्रित्य जगाम स गतक्लमः। | ||
| 113 | 6.61.50bस ददर्श हरिश्रेष्ठो हिमवन्तं नगोत्तमम् ॥6.61.50॥ | ||||||
| 114 | 6.61.51aनानाप्रस्रवणोपेतं बहुकंदरनिर्झरम् । | ||||||
| 115 | #54bಹನುಮಾಂಸ್ತ್ವರಿತೋ ವೀರಃ ಪಿತುಸ್ತುಲ್ಯಪರಾಕ್ರಮಃ ॥ | 6.74.54bहनूमांस्त्वरितो वीरः पितुस्तुल्यपराक्रमः ॥ ५४ ॥ | 6.74.55bहनुमांस्त्वरितो वीरः पितृतुल्यपराक्रमः ॥ ५५ ॥ | 6.74.54bहनुमांस्त्वरितो वीरः पितृतुल्यपराक्रमः ॥ 6.74.54 ॥ | |||
| 116 | #55aಜವೇನ ಮಹತಾ ಯುಕ್ತೋ ಮಾರುತಿರ್ವಾತರಂಹಸಾ । | 6.74.55aजवेन महता युक्तो मारुतिर्वातरंहसा । | 6.74.56aजवेन महता युक्तो मारुतिर्मारुतो यथा । | 6.74.55aजवेन महता युक्तो मारुतिर्मारुतो यथा। | |||
| 117 | #55bಜಗಾಮ ಹರಿಶಾರ್ದೂಲೋ ದಿಶಃ ಶಬ್ದೇನ ನಾದಯನ್ ॥ | 6.74.55bजगाम हरिशार्दूलो दिशः शब्देन नादयन् ॥ ५५ ॥ | 6.74.56bजगाम हरिशार्दूलो दिशः शब्देन पूरयन् ॥ ५६ ॥ | 6.74.55bजगाम हरिशार्दूलो दिशः शब्देन पूरयन् ॥ 6.74.55 ॥ | |||
| 118 | #56aಸ್ಮರನ್ ಜಾಂಬವತೋ ವಾಕ್ಯಂ ಮಾರುತಿರ್ಭೀಮವಿಕ್ರಮಃ । | 6.74.56aस्मरञ्जाम्बवतो वाक्यं मारुतिर्भीमविक्रमः । | 6.74.57aस्मरञ्जाम्बवतो वाक्यं मारुतिर्वातरंहसा । | 6.74.56aस्मरन् जाम्बवतो वाक्यं मारुतिर्वातरंहसा। | |||
| 119 | #56bದದರ್ಶ ಸಹಸಾ ಚಾಪಿ ಹಿಮವಂತಂ ಮಹಾಕಪಿಃ ॥ | 6.74.56bददर्श सहसा चापि हिमवन्तं महाकपिः ॥ ५६ ॥ | 6.74.57bददर्श सहसा चापि हिमवन्तं महाकपिः ॥ ५७ ॥ | 6.74.56bददर्श सहसा चापि हिमवन्तं महाकपिः ॥ 6.74.56 ॥ | |||
| 120 | #57aನಾನಾ ಪ್ರಸ್ರವಣೋಪೇತಂ ಬಹುಕಂದರ ನಿರ್ಝರಮ್ । | 6.74.57aनानाप्रस्रवणोपेतं बहुकन्दरनिर्झरम् । | #58aनानाप्रस्रवणोपेतं बहुकन्दरनिर्झरम् । | ||||
| 121 | #57bಶ್ವೇತಾಭ್ರಚಯ ಸಂಕಾಶೈಃ ಶಿಖರೈಶ್ಚಾರುದರ್ಶನೈಃ । | 6.74.57bश्वेताभ्रचयसङ्काशैः शिखरैश्चारुदर्शनैः । | 6.61.51bश्वेताभ्रचयसंकाशैः शिखरैश्चारुदर्शनैः ॥6.61.51॥ | #58bश्वेताभ्रचयसंकाशैः शिखरैश्चारुदर्शनैः ॥ | 6.74.57aश्वेताभ्रचयसङ्काशैः शिखरैश्चारुदर्शनैः। | ||
| 122 | #57cಶೋಭಿತಂ ವಿವಿಧೈರ್ವೃಕ್ಷೈರಗಮತ್ ಪರ್ವತೋತ್ತಮಮ್ ॥ | 6.74.57cशोभितं विविधैर्वृक्षैरगमत् पर्वतोत्तमम् ॥ ५७ ॥ | 6.74.58शोभितं विविधैर्वृक्षैरगमत्पर्वतोत्तमम् ॥ ५८ ॥ | 6.74.57bशोभितं विविधैर्वृक्षैरगमत् पर्वतोत्तमम् ॥ 6.74.57 ॥ | |||
| 123 | #58aಸ ತಂಸಮಾಸಾದ್ಯ ಮಹಾ ನಗೇಂದ್ರ- ಮತಿಪ್ರವೃದ್ಧೋತ್ತಮ ಹೇಮಶೃಂಗಮ್ । | 6.74.58aस तं समासाद्य महानगेन्द्र- मतिप्रवृद्धोत्तमहेमशृङ्गम् । | 6.61.52aस तं समासाद्य महानगेन्द्र मतिप्रवृद्धोत्तमघोरशृङ्गम् । | 6.74.59aस तं समासाद्य महानगेन्द्रमतिप्रवृद्धोत्तमघोरशृङ्गम् । | 6.74.58aस तं समासाद्य महानगेन्द्रमतिप्रवृद्धोत्तमघोरशृङ्गम्। | ||
| 124 | #58bದದರ್ಶ ಪುಣ್ಯಾನಿ ಮಹಾಶ್ರಮಾಣಿ ಸುರರ್ಷಿ ಸಂಘೋತ್ತಮ ಸೇವಿತಾನಿ ॥ | 6.74.58bददर्श पुण्यानि महाश्रमाणि सुरर्षिसङ्घोत्तमसेवितानि ॥ ५८ ॥ | 6.61.52bददर्श पुण्यानि महाश्रमाणि सुरर्षिसंघोत्तमसेवितानि ॥6.61.52॥ | 6.74.59bददर्श पुण्यानि महाश्रमाणि सुरर्षिसङ्घोत्तमसेवितानि ॥ ५९ ॥ | 6.74.58bददर्श पुण्यानि महाश्रमाणि सुरर्षिसङ्घोत्तमसेवितानि ॥ 6.74.58 ॥ | ||
| 125 | #59aಸ ಬ್ರಹ್ಮಕೋಶಂ ರಜತಾಲಯಂ ಚ ಶಕ್ರಾಲಯಂ ರುದ್ರಶರಪ್ರಮೋಕ್ಷಮ್ । | 6.74.59aस ब्रह्मकोशं रजतालयं च शक्रालयं रुद्रशरप्रमोक्षम् । | 6.61.53aस ब्रह्मकोशं रजतालयं च शक्रालयं रुद्रशरप्रमोक्षम् । | 6.74.60aस ब्रह्मकोशं रजतालयं च शक्रालयं रुद्रशरप्रमोक्षम् । | 6.74.59aस ब्रह्मकोशं रजतालयं च शक्रालयं रुद्रशरप्रमोक्षम्। | ||
| 126 | #59bಹಯಾನನಂ ಬ್ರಹ್ಮಶಿರಶ್ಚ ದೀಪ್ತಂ ದದರ್ಶ ವೈವಸ್ವತ ಕಿಂಕರಾಂಶ್ಚ ॥ | 6.74.59bहयाननं ब्रह्मशिरश्च दीप्तं ददर्श वैवस्वतकिङ्करांश्च ॥ ५९ ॥ | 6.61.53bहयाननं ब्रह्मशिरश्च दीप्तं ददर्श वैवस्वत किंकरांश्च ॥6.61.53॥ | 6.74.60bहयाननं ब्रह्मशिरश्च दीप्तं ददर्श वैवस्वतकिङ्करांश्च ॥ ६० ॥ | 6.74.59bहयाननं ब्रह्मशिरश्च दीप्तं ददर्श वैवस्वतकिङ्करांश्च ॥ 6.74.59 ॥ | ||
| 127 | #60aವಹ್ನ್ಯಾಲಯಂ ವೈಶ್ರವಣಾಲಯಂ ಚ ಸೂರ್ಯಪ್ರಭಂ ಸೂರ್ಯ ನಿಬಂಧನಂ ಚ । | 6.74.60aवह्न्यालयं वैश्रवणालयं च सूर्यप्रभं सूर्यनिबन्धनं च । | 6.61.54aवज्रालयं वैश्वरणालयं च सूर्यप्रभं सूर्यनिबन्धनं च । | 6.74.61aवज्रालयं वैश्रवणालयं च सूर्यप्रभं सूर्यनिबन्धनं च । | 6.74.60aवज्रालयं वैश्रवणालयं च सूर्यप्रभं सूर्यनिबन्धनं च। | ||
| 128 | #60bಬ್ರಹ್ಮಾಲಯಂ ಶಂಕರ ಕಾರ್ಮುಕಂ ಚ ದದರ್ಶ ನಾಭಿಂ ಚ ವಸುಂಧರಾಯಾಃ ॥ | 6.74.60bब्रह्मालयं शङ्करकार्मुकं च ददर्श नाभिं च वसुन्धरायाः ॥ ६० ॥ | 6.61.54bब्रह्मासनं शंकरकार्मुकं च ददर्श नाभिं च वसुंधरायाः ॥6.61.54॥ | 6.74.61bब्रह्मासनं शङ्करकार्मुकं च ददर्श नाभि च वसुन्धरायाः ॥ ६१ ॥ | 6.74.60bब्रह्मासनं शङ्करकार्मुकं च ददर्श नाभिं च वसुन्धरायाः ॥ 6.74.60 ॥ | ||
| 129 | 6.74.62a[ विघ्नेश्वरं तत्र सनन्दिकेशं स्कन्दं वृतं देवगणैर्ददर्श । | ||||||
| 130 | 6.74.62bउमां सुदुर्गामथ कन्यकाभिर्विलासयन्तीं ददृशेऽग्र्यवीर्यः ] ॥ ६२ ॥ | ||||||
| 131 | #61aಕೈಲಾಸಮಗ್ರ್ಯಂ ಹಿಮವಚ್ಛಿಲಾಂ ಚ ತಂ ವೈ ವೃಷಂ ಕಾಂತನ ಶೈಲಮಗ್ರ್ಯಮ್ । | 6.74.61aकैलासमग्र्यं हिमवच्छिलां च तं वै वृषं काञ्चनशैलमग्र्यम् । | 6.61.55aकैलासमग्र्यं हिमवच्छिलां च तथर्षभं काञ्चनशैलमग्र्यम् । | 6.74.63aकैलासमग्र्यं हिमवच्छिलां च तथर्षभं काञ्चनशैलमग्र्यम् । | 6.74.61aकैलासमग्र्यं हिमवच्छिलां च तथर्षभं काञ्चनशैलमग्र्यम्। | ||
| 132 | #61bಪ್ರದೀಪ್ತ ಸರ್ವೌಷಧಿ ಸಂಪ್ರದೀಪ್ತಂ ದದರ್ಶ ಸರ್ವೌಷಧಿ ಪರ್ವತೇಂದ್ರಮ್ ॥ | 6.74.61bप्रदीप्तसर्वौषधिसम्प्रदीप्तं ददर्श सर्वौषधिपर्वतेन्द्रम् ॥ ६१ ॥ | 6.61.55bस दीप्तसर्वौषधिसंप्रदीप्तं ददर्श सर्वौषधिपर्वतेन्द्रम् ॥6.61.55॥ | 6.74.63bसंदीप्तसर्वौषधिसंप्रदीप्तं ददर्श सर्वौषधिपर्वतेन्द्रम् ॥ ६३ ॥ | 6.74.61bसन्दीप्तसर्वौषधिसम्प्रदीप्तं ददर्श सर्वौषधिपर्वतेन्द्रम् ॥ 6.74.61 ॥ | ||
| 133 | #62aಸ ತಂ ಸಮೀಕ್ಷ್ಯಾನಲರಾಶಿದೀಪ್ತಂ ವಿಸಿಸ್ಮಿಯೇ ವಾಸವ ದೂತಸೂನುಃ । | 6.74.62aस तं समीक्ष्यानलराशिदीप्तं विसिस्मिये वासवदूतसूनुः । | 6.61.56aस तं समीक्ष्यानलरश्मिदीप्तं विसिष्मिये वासवदूतसूनुः । | 6.74.64aस तं समीक्ष्यानलरश्मिदीप्तं विसिष्मिये वासवदूतसूनुः । | 6.74.62aस तं समीक्ष्यानलरश्मिदीप्तं विसिष्मिये वासवदूतसूनुः। | ||
| 134 | #62bಆಪ್ಲುತ್ಯ ತಂ ಚೌಷಧಿ ಪರ್ವತೇಂದ್ರಂ ತತ್ರೌಷಧೀನಾಂ ವಿಚಯಂ ಚಕಾರ ॥ | 6.74.62bआप्लुत्य तं चौषधिपर्वतेन्द्रं तत्रौषधीनां विचयं चकार ॥ ६२ ॥ | 6.61.56bआप्लुत्य तं चौषधिपर्वतेन्द्रं तत्रौषधीनां विचयं चकार ॥6.61.56॥ | 6.74.64bआवृत्य तं चौषधिपर्वतेन्द्रं तत्रौषधीनां विचयं चकार ॥ ६४ ॥ | 6.74.62bआवृत्य तं चौषधिपर्वतेन्द्रं तत्रौषधीनां विचयञ्चकार ॥ 6.74.62 ॥ | ||
| 135 | #63aಸ ಯೋಜನ ಸಹಸ್ರಾಣಿ ಸಮತೀತ್ಯ ಮಹಾಕಪಿಃ । | 6.74.63aस योजनसहस्राणि समतीत्य महाकपिः । | 6.61.57aस योजनसहस्राणि समतीत्य महाकपिः । | 6.74.65aस योजनसहस्राणि समतीत्य महाकपिः । | 6.74.63aस योजनसहस्राणि समतीत्य महाकपिः। | ||
| 136 | #63bದಿವ್ಯೌಷಧಿಧರಂ ಶೈಲಂ ವ್ಯಚರನ್ಮಾರುತಾತ್ಮಜಃ ॥ | 6.74.63bदिव्यौषधिधरं शैलं व्यचरन्मारुतात्मजः ॥ ६३ ॥ | 6.61.57bदिव्यौषधिधरं शैलं व्यचरन्मारुतात्मजः ॥6.61.57॥ | 6.74.65bदिव्यौषधिधरं शैलं व्यचरन्मारुतात्मजः ॥ ६५ ॥ | 6.74.63bदिव्यौषधिधरं शैलं व्यचरन्मारुतात्मजः ॥ 6.74.63 ॥ | ||
| 137 | #64aಮಹೌಷಧ್ಯಸ್ತತಃ ಸರ್ವಾಸ್ತಸ್ಮಿನ್ ಪರ್ವತಸತ್ತಮೇ । | 6.74.64aमहौषध्यस्ततः सर्वास्तस्मिन् पर्वतसत्तमे । | 6.61.58aमहौषध्यस्तु ताः सर्वास्तस्मिन्पर्वतसत्तमे । | 6.74.66aमहौषध्यस्ततः सर्वास्तस्मिन्पर्वतसत्तमे । | 6.74.64aमहौषध्यस्ततः सर्वास्तस्मिन् पर्वतसत्तमे। | ||
| 138 | #64bವಿಜ್ಞಾಯಾರ್ಥಿನಮಾಯಾಂತಂ ತತೋ ಜಗ್ಮುರದರ್ಶನಮ್ ॥ | 6.74.64bविज्ञायार्थिनमायान्तं ततो जग्मुरदर्शनम् ॥ ६४ ॥ | 6.61.58bविज्ञायार्थिनमायान्तं ततो जग्मुरदर्शनम् ॥6.61.58॥ | 6.74.66bविज्ञायार्थिनमायान्तं ततो जग्मुरदर्शनम् ॥ ६६ ॥ | 6.74.64bविज्ञायार्थिनमायान्तं ततो जग्मुरदर्शनम् ॥ 6.74.64 ॥ | ||
| 139 | #65aಸ ತಾ ಮಹಾತ್ಮಾ ಹನುಮಾನಪಶ್ಯಂ- ಶ್ಚುಕೋಪ ರೋಷಾಚ್ಛ ಭೃಶಂ ನನಾದ । | 6.74.65aस ता महात्मा हनुमानपश्यं- श्चुकोप रोषाच्च भृशं ननाद । | 6.61.59aस ता महात्मा हनुमानपश्यं श्चुकोप कोपाच्च भृशं ननाद । | 6.74.67aस ता महात्मा हनुमानपश्यंश्चुकोप कोपाच्च भृशं ननाद । | 6.74.65aस ता महात्मा हनुमानपश्यन् चुकोप कोपाच्च भृशं ननाद। | ||
| 140 | #65bಅಮೃಷ್ಯಮಾಣೋಽಗ್ನಿ ಸಮಾನಚಕ್ಷು- ರ್ಮಹೀಧರೇಂದ್ರಂ ತಮುವಾಚ ವಾಕ್ಯಮ್ ॥ | 6.74.65bअमृष्यमाणोऽग्निसमानचक्षु- र्महीधरेन्द्रं तमुवाच वाक्यम् ॥ ६५ ॥ | 6.61.59bअमृष्यमाणोऽग्निनिकाशचक्षु र्महीधरेन्द्रं तमुवाच वाक्यम् ॥6.61.59॥ | 6.74.67bअमृष्यमाणोऽग्निनिकाशचक्षुर्महीधरेन्द्रं तमुवाच वाक्यम् ॥ ६७ ॥ | 6.74.65bअमृष्यमाणोऽग्निनिकाशचक्षुर्महीधरेन्द्रं तमुवाच वाक्यम् ॥ 6.74.65 ॥ | ||
| 141 | #66aಕಿಮೇತದೇವಂ ಸುವಿನಿಶ್ಚಿತಂ ತೇ ಯದ್ರಾಘವೇ ನಾಸಿ ಕೃತಾನುಕಂಪಃ । | 6.74.66aकिमेतदेवं सुविनिश्चितं ते यद् राघवे नासि कृतानुकम्पः । | 6.61.60aकिमेतदेवं सुविनिश्चितं ते यद्राघवे नासि कृतानुकम्पः । | 6.74.68aकिमेतदेवं सुविनिश्चितं ते यद्राघवे नासि कृतानुकम्पः । | 6.74.66aकिमेतदेवं सुविनिश्चितं ते यद्राघवे नासि कृतानुकम्पः। | ||
| 142 | #66bಪಶ್ಯಾದ್ಯ ಮದ್ಬಾಹುಬಲಾಭಿಭೂತೋ ವಿಕೀರ್ಣಮಾತ್ಮಾನಮಥೋ ನಗೇಂದ್ರ ॥ | 6.74.66bपश्याद्य मद्बाहुबलाभिभूतो विकीर्णमात्मानमथो नगेन्द्र ॥ ६६ ॥ | 6.61.60bपश्याद्य मद्बाहुबलाभिभूतो विकीर्णमात्मानमथो नगेन्द्र ॥6.61.60॥ | 6.74.68bपश्याद्य मद्बाहुबलाभिभूतो विकीर्णमात्मानमथो नगेन्द्र ॥ ६८ ॥ | 6.74.66bपश्याद्य मद्बाहुबलाभिभूतो विकीर्णमात्मानमथो नगेन्द्र ॥ 6.74.66 ॥ | ||
| 143 | #67aಸ ತಸ್ಯ ಶೃಂಗಂ ಸನಗಂ ಸನಾಗಂ ಸಕಾಂಚನಂ ಧಾತುಸಹಸ್ರಜುಷ್ಟಮ್ । | 6.74.67aस तस्य शृङ्गं सनगं सनागं सकाञ्चनं धातुसहस्रजुष्टम् । | 6.61.61aस तस्य शृङ्गं सनगं सनागं सकाञ्चनं धातुसहस्रजुष्टम् । | 6.74.69aस तस्य शृङ्गं सनगं सनागं सकाञ्चनं धातुसहस्रजुष्टम् । | 6.74.67aस तस्य शृङ्गं सनगं सनागं सकाञ्चनं धातुसहस्रजुष्टम्। | ||
| 144 | #67bವಿಕೀರ್ಣ ಕೂಟಂ ಜ್ವಲಿತಾಗ್ರಸಾನುಂ ಪ್ರಗೃಹ್ಯ ವೇಗಾತ್ ಸಹಸೋನ್ಮಮಾಥ ॥ | 6.74.67bविकीर्णकूटं ज्वलिताग्रसानुं प्रगृह्य वेगात् सहसोन्ममाथ ॥ ६७ ॥ | 6.61.61bविकीर्णकूटं चलिताग्रसानुं प्रगृह्य वेगात्सहसोन्ममाथ ॥6.61.61॥ | 6.74.69bविकीर्णकूटज्वलिताग्रसानुं प्रगृह्य वेगात्सहसोन्ममाथ ॥ ६९ ॥ | 6.74.67bविकीर्णकूटज्वलिताग्रसानुं प्रगृह्य वेगात् सहसोन्ममाथ ॥ 6.74.67 ॥ | ||
| 145 | #68aಸ ತಂ ಸಮುತ್ಪಾಟ್ಯ ಖಮುತ್ಪಪಾತ ವಿತ್ರಾಸ್ಯಲೋಕಾನ್ ಸಸುರಾಸುರೇಂದ್ರಾನ್ । | 6.74.68aस तं समुत्पाट्य खमुत्पपात वित्रास्य लोकान् ससुरासुरेन्द्रान् । | 6.61.62aस तं समुत्पाट्य खमुत्पपात वित्रास्य लोकान्ससुरान्सुरेन्द्रान् । | 6.74.70aस तं समुत्पाट्य खमुत्पपात वित्रास्य लोकान्ससुरासुरेन्द्रान् । | 6.74.68aस तं समुत्पाट्य खमुत्पपात वित्रास्य लोकान् ससुरासुरेन्द्रान्। | ||
| 146 | #68bಸಂಸ್ತೂಯಮಾನಃ ಖಚರೈರನೇಕೈ- ರ್ಜಗಾಮ ವೇಗಾದ್ಗರುಡೋಗ್ರವೇಗಃ ॥ | 6.74.68bसंस्तूयमानः खचरैरनेकै- र्जगाम वेगाद् गरुडोग्रवेगः ॥ ६८ ॥ | 6.61.62bसंस्तूयमानः खचरैरनेकै र्जगाम वेगाद्गरुडोग्रवीर्यः ॥6.61.62॥ | 6.74.70bसंस्तूयमानः खचरैरनेकैर्जगाम वेगाद्गरुडोग्रवेगः ॥ ७० ॥ | 6.74.68bसंस्तूयमानः खचरैरनेकैर्जगाम वैगाद् गरुडोग्रवेगः ॥ 6.74.68 ॥ | ||
| 147 | #69aಸ ಭಾಸ್ಕರಾಧ್ವಾನಮನುಪ್ರಪನ್ನ- ಸ್ತಂ ಭಾಸ್ಕರಾಭಂ ಶಿಖರಂ ಪ್ರಗೃಹ್ಯ । | 6.74.69aस भास्कराध्वानमनुप्रपन्न- स्तं भास्कराभं शिखरं प्रगृह्य । | 6.61.63aस भास्कराध्वानमनुप्रपन्न स्तद्भास्कराभं शिखरं प्रगृह्य । | 6.74.71aस भास्कराध्वानमनुप्रपन्नस्तं भास्कराभं शिखरं प्रगृह्य । | 6.74.69aस भास्कराध्वानमनुप्रपन्नस्तं भास्कराभं शिखरं प्रगृह्य। | ||
| 148 | #69bಬಭೌ ತದಾ ಭಾಸ್ಕರಸಂನಿಕಾಶೋ ರವೇಃ ಸಮೀಪೇ ಪ್ರತಿಭಾಸ್ಕರಾಭಃ ॥ | 6.74.69bबभौ तदा भास्करसन्निकाशो रवेः समीपे प्रतिभास्कराभः ॥ ६९ ॥ | 6.61.63bबभौ तदा भास्करसंनिकाशो रवेः समीपे प्रतिभास्कराभः ॥6.61.63॥ | 6.74.71bबभौ तदा भास्करसन्निकाशो रवेः समीपे प्रतिभास्कराभः ॥ ७१ ॥ | 6.74.69bबभौ तदा भास्करसन्निकाशो रवेः समीपे प्रतिभास्कराभः ॥ 6.74.69 ॥ | ||
| 149 | #70aಸ ತೇನ ಶೈಲೇನ ಭೃಶಂ ರರಾಜ ಶೈಲೋಪಮೋ ಗಂಧವಹಾತ್ಮಜಸ್ತು । | 6.74.70aस तेन शैलेन भृशं रराज शैलोपमो गन्धवहात्मजस्तु । | 6.61.64aस तेन शैलेन भृशं रराज शैलोपमो गन्धवहात्मजस्तु । | 6.74.72aस तेन शैलेन भृशं रराज शैलोपमो गन्धवहात्मजस्तु । | 6.74.70aस तेन शैलेन भृशं रराज शैलोपमो गन्धवहात्मजस्तु। | ||
| 150 | #70bಸಹಸ್ರಧಾರೇಣ ಸಪಾವಕೇನ ಚಕ್ರೇಣ ಖೇ ವಿಷ್ಣು ರಿವಾರ್ಪಿತೇನ ॥ | 6.74.70bसहस्रधारेण सपावकेन चक्रेण खे विष्णुरिवार्पितेन ॥ ७० ॥ | 6.61.64bसहस्रधारेण सपावकेन चक्रेण खे विष्णुरिवोद्धृतेन ॥6.61.64॥ | 6.74.72bसहस्रधारेण सपावकेन चक्रेण खे विष्णुरिवार्पितेन ॥ ७२ ॥ | 6.74.70bसहस्रधारेण सपावकेन चक्रेण खे विष्णुरिवार्पितेन ॥ 6.74.70 ॥ | ||
| 151 | #71aತಂ ವಾನರಾಃ ಪ್ರೇಕ್ಷ್ಯತದಾವಿನೇದುಃ ಸ ತಾನಪಿ ಪ್ರೇಕ್ಷ್ಯಮುದಾ ನನಾದ । | 6.74.71aतं वानराः प्रेक्ष्य तदा विनेदुः स तानपि प्रेक्ष्य मुदा ननाद । | 6.61.65aतं वानराः प्रेक्ष्य तदा विनेदुः स तानपि प्रेक्ष्य मुदा ननाद । | 6.74.73aतं वानराः प्रेक्ष्य विनेदुरुच्चैः स तानपि प्रेक्ष्य मुदा ननाद । | 6.74.71aतं वानराः प्रेक्ष्य विनेदुरुच्चैः स तानपि प्रेक्ष्य मुदा ननाद। | ||
| 152 | #71bತೇಷಾಂ ಸಮುತ್ಕೃಷ್ಟರವಂ ನಿಶಮ್ಯ ಲಂಕಾಲಯಾ ಭೀಮತರಂ ವಿನೇದುಃ ॥ | 6.74.71bतेषां समुत्कृष्टरवं निशम्य लङ्कालया भीमतरं विनेदुः ॥ ७१ ॥ | 6.61.65bतेषां समुद्घुष्टरवं निशम्य लङ्कालया भीमतरं विनेदुः ॥6.61.65॥ | 6.74.73bतेषां समुद्धुष्टरवं निशम्य लङ्कालया भीमतरं विनेदुः ॥ ७३ ॥ | 6.74.71bतेषां समुद्घुष्टरवं निशम्य लङ्कालया भीमतरं विनेदुः ॥ 6.74.71 ॥ | ||
| 153 | #72aತತೋ ಮಹಾತ್ಮಾ ನಿಪಪಾತ ತಸ್ಮಿನ್ ಶೈಲೋತ್ತಮೇ ವಾನರಸೈನ್ಯಮಧ್ಯೇ । | 6.74.72aततो महात्मा निपपात तस्मिन् शैलोत्तमे वानरसैन्यमध्ये । | 6.61.66aततो महात्मा निपपात तस्मि ञ्शैलोत्तमे वानरसैन्यमध्ये । | 6.74.74aततो महात्मा निपपात तस्मिञ्शैलोत्तमे वानरसैन्यमध्ये । | 6.74.72aततो महात्मा निपपात तस्मिन् शैलोत्तमे वानरसैन्यमध्ये। | ||
| 154 | #72bಹರ್ಯುತ್ತಮೇಭ್ಯಃ ಶಿರಸಾಭಿವಾದ್ಯ ವಿಭೀಷಣಂ ತತ್ರ ಚ ಸಸ್ವಜೇ ಸಃ ॥ | 6.74.72bहर्युत्तमेभ्यः शिरसाभिवाद्य विभीषणं तत्र च सस्वजे सः ॥ ७२ ॥ | 6.61.66bहर्युत्तमेभ्यः शिरसाभिवाद्य विभीषणं तत्र च सस्वजे सः ॥6.61.66॥ | 6.74.74bहर्युत्तमेभ्यः शिरसाऽभिवाद्य विभीषणं तत्र स सस्वजे च ॥ ७४ ॥ | 6.74.72bहर्युत्तमेभ्यः शिरसाऽभिवाद्य विभीषणं तत्र स सस्वजे च ॥ 6.74.72 ॥ | ||
| 155 | #73aತವಾಪ್ಯುಭೌ ಮಾನುಷರಾಜಪುತ್ರೌ ತಂ ಗಂಧಮಾಘ್ರಾಯ ಮಹೌಷಧೀನಾಮ್ । | 6.74.73aतावप्युभौ मानुषराजपुत्रौ तं गन्धमाघ्राय महौषधीनाम् । | 6.61.67aतावप्युभौ मानुषराजपुत्रौ तं गन्धमाघ्राय महौषधीनाम् । | 6.74.75aतावप्युभौ मानुषराजपुत्रौ तं गन्धमाघ्राय महौषधीनाम् । | 6.74.73aतावप्युभौ मानुषराजपुत्रौ तं गन्धमाघ्राय महौषधीनाम्। | ||
| 156 | #73bಬಭೂವತುಸ್ತತ್ರ ತದಾ ವಿಶಲ್ಯಾ- ವುತ್ತಸ್ಥುರನ್ಯೇ ಚ ಹರಿಪ್ರವೀರಾಃ ॥ | 6.74.73bबभूवतुस्तत्र तदा विशल्या- वुत्तस्थुरन्ये च हरिप्रवीराः ॥ ७३ ॥ | 6.61.67bबभूवतुस्तत्र तदा विशल्या वुत्तस्थुरन्ये च हरिप्रवीराः ॥6.61.67॥ | 6.74.75bबभूवतुस्तत्र तदा विशल्यावुत्तस्थुरन्ये च हरिप्रवीराः ॥ ७५ ॥ | 6.74.73bबभूवतुस्तत्र तदा विशल्यावुत्तस्थुरन्ये च हरिप्रवीराः ॥ 6.74.73 ॥ | ||
| 157 | #74aಸರ್ವೇ ವಿಶಲ್ಯಾ ವಿರುಜಾಃ ಕ್ಷಣೇನ ಹರಿಪ್ರವೀರಾಶ್ಚ ಹತಾಶ್ಚ ಯೇ ಸ್ಯುಃ । | 6.74.74aसर्वे विशल्या विरुजाः क्षणेन हरिप्रवीराश्च हताश्च ये स्युः । | 6.74.76aसर्वे विशल्या विरुजः क्षणेन हरिप्रवीरा निहताश्च ये स्युः । | 6.74.74aसर्वे विशल्या विरुजः क्षणेन हरिप्रवीरा निहताश्च ये स्युः। | |||
| 158 | #74bಗಂಧೇನ ತಾಸಾಂ ಪ್ರವರೌಷಧೀನಾಂ ಸುಪ್ತಾ ನಿಶಾಂತೇಷ್ಟಿ ವ ಸಂಪ್ರಬುದ್ಧಾಃ ॥ | 6.74.74bगन्धेन तासां प्रवरौषधीनां सुप्ता निशान्तेष्विव सम्प्रबुद्धाः ॥ ७४ ॥ | 6.74.76bगन्धेन तासां प्रवरौषधीनां सुप्ता निशान्तेष्विव संप्रबुद्धाः ॥ ७६ ॥ | 6.74.74bगन्धेन तासां प्रवरौषधीनां सुप्ता निशान्तेष्विव सम्प्रबुद्धाः ॥ 6.74.74 ॥ | |||
| 159 | #75aಯದಾ ಪ್ರಭೃತಿ ಲಂಕಾಯಾಂ ಯುಧ್ಯಂತೇ ಹರಿರಾಕ್ಷಸಾಃ । | 6.74.75aयदाप्रभृति लङ्कायां युध्यन्ते हरिराक्षसाः । | 6.74.77aयदाप्रभृति लङ्कायां युध्यन्ते कपिराक्षसाः । | 6.74.75aयदाप्रभृति लङ्कायां युद्ध्यन्ते कपिराक्षसाः। | |||
| 160 | #75bತದಾ ಪ್ರಭೃತಿ ಮಾನಾರ್ಥಮಾಜ್ಞಯಾ ರಾವಣಸ್ಯ ಚ ॥ | 6.74.75bतदाप्रभृति मानार्थमाज्ञया रावणस्य च ॥ ७५ ॥ | 6.74.77bतदाप्रभृति मानार्थमाज्ञया रावणस्य च ॥ ७७ ॥ | 6.74.75bतदाप्रभृति मानार्थमाज्ञया रावणस्य च ॥ 6.74.75 ॥ | |||
| 161 | #76aಯೇಹನ್ಯಂತೇ ರಣೇ ತತ್ರ ರಾಕ್ಷಸಾಃ ಕಪಿಕುಂಜರೈಃ । | 6.74.76aये हन्यन्ते रणे तत्र राक्षसाः कपिकुञ्जरैः । | 6.74.78aये हन्यन्ते रणे तत्र राक्षसाः कपिकुञ्जरैः । | 6.74.76aये हन्यन्ते रणे तत्र राक्षसाः कपिकुञ्जरैः। | |||
| 162 | #76bಹತಾ ಹತಾಸ್ತು ಕ್ಷಿಪ್ಯಂತೇ ಸರ್ವ ಏವ ತು ಸಾಗರೇ ॥ | 6.74.76bहता हतास्तु क्षिप्यन्ते सर्व एव तु सागरे ॥ ७६ ॥ | 6.74.78bहताहतास्तु क्षिप्यन्ते सर्व एव तु सागरे ॥ ७८ ॥ | 6.74.76bहता हतास्तु क्षिप्यन्ते सर्व एव तु सागरे ॥ 6.74.76 ॥ | |||
| 163 | #77aತತೋ ಹರಿರ್ಗಂಧವಹಾತ್ಮಜಸ್ತು ತಮೋಷಧೀ ಶೈಲಮುದಗ್ರವೇಗಃ । | 6.74.77aततो हरिर्गन्धवहात्मजस्तु तमोषधीशैलमुदग्रवेगः । | 6.61.68aततो हरिर्गन्धवहात्मजस्तु तमोषधीशैलमुदग्रवीर्यः । | 6.74.79aततो हरिर्गन्धवहात्मजस्तु तमोषधीशैलमुदग्रवीर्यः । | 6.74.77aततो हरिर्गन्धवहात्मजस्तु तमोषधीशैलमुदग्रवीर्यः। | ||
| 164 | #77bನಿನಾಯ ವೇಗಾದ್ಧಿ ಮವಂತಮೇವ ಪುನಶ್ಚ ರಾಮೇಣ ಸಮಾಜಗಾಮ ॥ | 6.74.77bनिनाय वेगाद्धिमवन्तमेव पुनश्च रामेण समाजगाम ॥ ७७ ॥ | 6.61.68bनिनाय वेगाद्धिमवन्तमेव पुनश्च रामेण समाजगाम ॥6.61.68॥ | 6.74.79bनिनाय वेगाद्धिमवन्तमेव पुनश्च रामेण समाजगाम ॥ ७९ ॥ | 6.74.77bनिनाय वेगाद्धिमवन्तमेव पुनश्च रामेण समाजगाम ॥ 6.74.77 ॥ | ||
| 165 | 6.74.74इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने चतुःसप्ततितमः सर्गः ॥ ७४ ॥ |