Ramayana Half-Verse Concordance 6.58p.58

प्रक्षिप्तसर्गः. Built from structured/verses.jsonl. Rows are monotone-aligned half-verse/pāda-like units split at । and ॥, so verse-number boundary differences can appear as inserted or shifted line rows.

164 aligned line rows across 7 source streams.

Columns:
gr 164 lines
#gor-kngor-hicritgrdr-mulagr-iitkiitk
16.58p.58.1प्रक्षिप्तसर्गः ॥ १ ॥
26.58p.58.1a[ प्रहस्तस्य वधं श्रुत्वा रावणो भ्रान्तमानसः ।
36.58p.58.1bराक्षसानादिदेशाथ राक्षसेन्द्रो महाबलः ॥ १ ॥
46.58p.58.2aकार्या शत्रुषु नावज्ञा यैरिन्द्रबलसूदनः ।
56.58p.58.2bसूदितः सैन्यपालो मे सानुयात्रः सकुञ्जरः ॥ २ ॥
66.58p.58.3aसोहं रिपुविनाशाय विजयस्याभिवृद्धये ।
76.58p.58.3bस्वयमेवाभियास्यामि रणशीर्षमभित्वरन् ॥ ३ ॥
86.58p.58.4aअद्य तद्वानरानीकं सरामं सहलक्ष्मणम् ।
96.58p.58.4bप्रधक्ष्याम्येव बाणौघैः शुष्केन्धनमिवानलः ॥ ४ ॥
106.58p.58.5aअद्य संतर्पयिष्यामि पृथिवीं कपिशोणितैः ।
116.58p.58.5bरामं च लक्ष्मणं चैव प्रेषयिष्ये यमक्षयम् ॥ ५ ॥
126.58p.58.6aएवमुक्त्वा महातेजा रावणो लोकरावणः ।
136.58p.58.6bआगच्छत्सहसा क्रुद्धः सर्वसैन्येन संवृतः ॥ ६ ॥
146.58p.58.7aसंग्राममभिकाङ्क्षन्तं रावणं श्रुत्य भामिनी ।
156.58p.58.7bतदोत्थाय ययौ देवी नाम्ना मन्दोदरीति सा ॥ ७ ॥
166.58p.58.8aमाल्यवन्तं करे धृत्वा यूपाक्षसहिता तु सा ।
176.58p.58.8bमन्त्रिभिर्मन्त्रतत्वज्ञैस्तथान्यैर्मन्त्रिसत्तमैः ॥ ८ ॥
186.58p.58.9aराक्षसैरावृता सर्वैर्वेत्रजर्झरपाणिभिः ।
196.58p.58.9bयोषिद्भिश्चैव वृद्धाभिस्तथा कन्याभिरावृता ॥ ९ ॥
206.58p.58.10aआयुधव्यग्रहस्तैश्च राक्षसैश्च समन्ततः ।
216.58p.58.10bसभां तु प्रस्थिता देवी यत्रास्ते राक्षसाधिपः ॥ १० ॥
226.58p.58.11aछत्रेण ध्रियमाणेन अतिकायपुरस्सरा ।
236.58p.58.11bचामरैर्वररामाभिर्वीज्यमाना स्वलङ्कृता ॥ ११ ॥
246.58p.58.12aशतार्धमार्गं विपुलं ध्वजमालोपशोभितम् ।
256.58p.58.12bउत्सारणं प्रकुर्वद्भिर्वेत्रजर्झरपाणिभिः ॥ १२ ॥
266.58p.58.13aप्रविवेश सभां दिव्यां प्रभया द्योतमानया ।
276.58p.58.13bद्रष्टुं वै रावणं सा तु मयस्य दुहिता तु सा ॥ १३ ॥
286.58p.58.14aप्राप्तां देवीं तदा राजा प्रियां मन्दोदरीं तदा ।
296.58p.58.14bदृष्ट्वा स संभ्रमात्तूर्णं परिष्वज्य दशाननः ॥ १४ ॥
306.58p.58.15aमन्त्रिणां तु ततस्तेषामासनान्यादिदेश ह ।
316.58p.58.15bसौवर्णसुविचित्राणि सोपधानानि सर्वशः ॥ १५ ॥
326.58p.58.16aतष्वासनोपविष्टेषु सुखासीनेषु मन्त्रिषु ।
336.58p.58.16bपर्यङ्के चोपविष्टा तु देवी मन्दोदरी सुखम् ॥ १६ ॥
346.58p.58.17aअतिकायो महाबाहुः पितरं चाभिवाद्य तम् ।
356.58p.58.17bमातरं चाभिवाद्याथ तदाऽऽसनगतोऽभवत् ॥ १७ ॥
366.58p.58.18aप्रहस्तवधसंतप्तो महाकायवधार्दितः ।
376.58p.58.18bलङ्कायाश्चाभिमर्देन कषायीकृतलोचनः ॥ १८ ॥
386.58p.58.19aसंग्राममभिकाङ्क्षन्स आकुलेनान्तरात्मना ।
396.58p.58.19bअब्रवीद्वचनं सोथ महागंभीरनिस्वनम् ॥ १९ ॥
406.58p.58.20aकिमागमनकार्यं ते देवि शीघ्रं तदुच्यताम् ।
416.58p.58.20bतूर्णं मम समीपं वै किमर्थं त्वमिहाऽऽगता ।
426.58p.58.20cमन्त्रिभिः सहिता चैव ब्रूहि सर्वं यथातथम् ॥ २० ॥
436.58p.58.21aएवमुक्ते तु वचने देवी रावणमब्रवीत् ।
446.58p.58.21bविज्ञाप्यं शृणु राजेन्द्र याचे यत्त्वां कृताञ्जलिः ॥ २१ ॥
456.58p.58.22aन हि रोषश्च कर्तव्यो बदन्त्या मम मानद ।
466.58p.58.22bशृणुष्वैकमना मह्यं वचनं वाक्यकोविद ॥ २२ ॥
476.58p.58.23aश्रुता मे नगरी रुद्धा श्रुता मे राक्षसा हताः ।
486.58p.58.23bधूम्राक्षप्रमुखा वीराः प्रहस्तेन सहैव तु ॥ २३ ॥
496.58p.58.24aभवन्तं युद्धकामं च गमने कृतनिश्रयम् ।
506.58p.58.24bइति संचिन्त्य राजेन्द्र ममागमनकारणम् ॥ २४ ॥
516.58p.58.25aन युक्तं प्रमुखे स्थातुं युद्धे तस्य महात्मनः ।
526.58p.58.25bरामस्य च महेन्द्रेण यस्य भार्या त्वया हृता ।
536.58p.58.25cलक्ष्मणस्य च राजेन्द्र यस्य नास्ति समो युधि ॥ २५ ॥
54#27aन च मानुषमात्रोसौ रामो दशरथात्मजः ।
55#27bएकेन येन वै पूर्वं बहवो राक्षसा हताः ॥
566.58p.58.26चतुर्दशसहस्राणि जनस्थाननिवासिनाम् ॥ २६ ॥
576.58p.58.27aखरश्च निहतः सङ्ख्ये दूषणश्च महाबलः ।
586.58p.58.27bत्रिशिराश्च महाबाहुर्हतो राक्षसपुङ्गवः ॥ २७ ॥
59#30aकबन्धश्च महातेजा विराघो दण्डके तथा ।
60#30bशरेणैकेन वाली च वानरेन्द्रो निपातितः ॥
616.58p.58.28शङ्के चैवं महाराज मारीचस्य वधादहम् ॥ २८ ॥
626.58p.58.29aपितुश्च बचनाद्रामो दण्डकारण्यमाश्रितः ।
636.58p.58.29bब्रह्मचर्यव्रते युक्तः सह भ्रात्रा वनेचरः ॥ २९ ॥
646.58p.58.30aतस्य भार्या जनस्थानात्वयाऽऽनीताऽविजानता ।
656.58p.58.30bअकारणं कृतं तत्ते दोषाय समुपस्थितम् ॥ ३० ॥
666.58p.58.31aपतिव्रतावरोधस्तु दोषमावहते सदा ।
676.58p.58.31bन मह्यं रोचते बुद्ध्या एतेषां मन्त्रिणां तथा ॥ ३१ ॥
686.58p.58.32aरामभार्या सती सा तु रामाय प्रतिदीयताम् ।
696.58p.58.32bविभीषणेन चैवोक्तं पूर्वमेव महात्मना ॥ ३२ ॥
706.58p.58.33aस गतस्तत्र वै राजन्नस्मत्कार्यं करिष्यति ।
716.58p.58.33bवस्त्राणि चैव रत्नानि प्रेषयाद्य रघूत्तमे ॥ ३३ ॥
726.58p.58.34aसीतां चैव महाराज सुवर्ण वाहनानि च ।
736.58p.58.34bमणिमुक्ताप्रवालं च तथा रजतमेव च ॥ ३४ ॥
746.58p.58.35aमाल्यवान्गृह्य संयात यूपाक्षश्च तथैवच ।
756.58p.58.35bअतिकायस्तथा चायं कार्याकार्यविशारदः ॥ ३५ ॥
766.58p.58.36aविभीषणो गतः पूर्वमेभिस्तत्र गतैर्ध्रुवम् ।
776.58p.58.36bसंधिं करिष्यति व्यक्तं राघवं प्रणिपत्य ह ।
786.58p.58.36cसंमान्य मैथिलीं चास्मै प्रदास्यति विभीषणः ॥ ३६॥
796.58p.58.37aमाल्यवांश्च महामायो राक्षसानां हिते रतः ।
806.58p.58.37bराघवं याच्य शिरसा संधिं कुर्वन्तु रावण ॥ ३७ ॥
81#41aसान्त्वं भेदं तथा दानं राज्ञामेतत्त्रयं शुभम् ।
82#41bअशुभं तु स वै युद्धं तस्माद्युद्धं विसर्जयेत् ॥
836.58p.58.38त्रिभिर्नयैर्जितं मन्ये सहितं विक्रमेण तु ॥ ३८ ॥
846.58p.58.39aस्वजनस्य वधं कृत्वा पुत्रभ्रातृवधं तथा ।
856.58p.58.39bसंशयं चात्मनः कृत्वा किं जयेन करिष्यसि ॥ ३९ ॥
866.58p.58.40aचञ्चला युद्धसिद्धिस्तु हन्यते तेजसापि वा ।
876.58p.58.40bतस्माद्युद्धं न रोचेत संधिं कुरु दशानन ॥ ४० ॥
88#45aप्रणिपत्य महाबाहो राघवं प्रतिनन्दनम् ।
89#45bदीयतामद्य सा सीता संधिस्ते तेन रोचताम् ॥
90#45c-४१ ॥
916.58p.58.42aसांप्रतं संशयो राजन्पुरस्य सह बान्धवैः ।
926.58p.58.42bआत्मनो राक्षसश्रेष्ठ वर्तते नात्र संशयः ॥ ४२ ॥
936.58p.58.13aतस्माद्राजन्ब्रवीम्येवं पुरस्याथ कुलस्य च ।
946.58p.58.13bरक्षणीयस्तवात्मा च सर्वमात्मन्यधिष्टितम् ॥ १३ ॥
956.58p.58.44aक्षमाशीलस्तथा रामः सत्यवादी च राघवः ।
966.58p.58.44bधर्मनित्यो महाराजः शरणागतवत्सलः ॥ ४४ ॥
976.58p.58.45aकुरु तेनादितः सन्धिं रामे दशरथात्मजे ।
986.58p.58.45bलक्ष्मणश्च महाबाहो नित्यं भ्रातृहिते रतः ॥ ४५ ॥
996.58p.58.46aप्रहस्तेन कृतं किं नु युध्यता रक्षसा बले ।
1006.58p.58.46bधूम्राक्षेण च राजेन्द्रे नित्यं समरगृद्धिना ॥ ४६ ॥
1016.58p.58.47aमहाकायेन च तथा महामायेन रक्षसा ।
1026.58p.58.47bअकंपनेन वीरेण युध्यता राक्षसेश्वर ॥ ४७ ॥
1036.58p.58.48aतथान्यैर्युध्यमानैश्च किं कृतं राक्षसे बले ।
1046.58p.58.48bन हतो यूथपः कश्चिद्बलोद्देशोपि रावण ॥ ४८ ॥
1056.58p.58.49aतेषां वीर्याद्धिभेतीन्द्रः कुबेरवरुणावपि ।
1066.58p.58.49bयमो वैवस्वतो येषां तथाऽन्ये देवदानवाः ॥ ४९ ॥
1076.58p.58.50aयेषां नास्ति समो वीर्ये ते हता वानरैर्युधि ।
1086.58p.58.50bन चापि वानराः शक्या हन्तुं पादपयोधिनः ॥ ५०॥
1096.58p.58.51aरक्ष्यमाणास्तु रामेण सुग्रीवेण च पालिताः ।
1106.58p.58.51bतत्र ते रोचतां सन्धिः सह रामेण रावण ॥ ५१ ॥
1116.58p.58.52aयोग्यश्च राघवो मित्रं कार्तवीर्यार्जुनो यथा ।
1126.58p.58.52bमा कृथा मोघमानित्वं मा कृथाः कुलसंक्षयम् ॥५२॥
1136.58p.58.53aमा कृथाः पुरनाशं तु मा कृथाः पुत्रसंक्षयम् ।
1146.58p.58.53bहितं सर्व ब्रवीम्येषां कुरुष्व वचनं मम ॥ ५३ ॥
1156.58p.58.2अथ प्रक्षिप्तसर्गः ॥ २ ॥
1166.58p.58.2aरावणेनमन्दोदरींप्रति स्वपराक्रमप्रशंसनपूर्वकं रामादिवधप्रतिज्ञानेनस परिश्वङ्गंतस्या अन्तः पुरंप्रतिप्रेषणम् ॥ १ ॥
1176.58p.58.2bतथाभटाम्प्रतियुद्धायरथादिसज्जीकरणचोदना ॥ २ ॥
1186.58p.58.1aतस्यास्तद्वचनं श्रुत्वा प्रियाया राक्षसेश्वरः ।
1196.58p.58.1bउष्णं दीर्घं विनिश्वस्य निरीक्ष्य च सभासदः ।
1206.58p.58.1cहस्ते मन्दोदरीं गृह्य वाक्यमेतदुवाच ह ॥ १ ॥
1216.58p.58.2aत्वया न युद्धकाङ्क्षिण्या वचो यद्बहु भाषितम् ।
1226.58p.58.2bन तन्मनसि मे देवि प्रविवेशाप्रियं प्रिये ॥ २ ॥
1236.58p.58.3aदेवाञ्जित्वा रणे पूर्वं ससुरासुरमानुषान् ।
1246.58p.58.3bप्रणमे मानुषं रामं वानराम्यः समाश्रितः ॥ ३ ॥
1256.58p.58.4aप्रणम्य रामं काकुत्स्थं किं वक्ष्ये सर्वदेवताः ।
1266.58p.58.4bकीदृशं वा भवेन्मह्यं जीवितं हततेजसः ॥ ४ ॥
127#64aहत्वा तस्य पुरा भार्यां मानं कृत्वा सुदारुणम् ।
128#64bराक्षसान्मारयित्वा तु लङ्कां संपीड्य सर्वतः ॥
1296.58p.58.5राघवं प्रणमे कस्माद्धीनवीर्य इवापरः ॥ ५ ॥
1306.58p.58.6aराघवं प्रणिपत्याहं कथं जीवितुमुत्सहे ।
1316.58p.58.6bएष मे सहजो भावो नित्यं मनसि वर्तते ॥ ६ ॥
1326.58p.58.7aअविभज्य तदा देवि न नमेयं तु कस्यचित् ।
1336.58p.58.7bत्रैलोक्ये स पुमान्नास्ति यो मया न जितो रणे ॥७॥
1346.58p.58.9aदेवतानां बलं हत्वा देवराजो मया जितः ।
1356.58p.58.9bराघवं प्रणमे कस्मान्मूर्ध्नि स्थित्वा च देहिनाम् ८
मा कृथा हृदि संतापं शमयिष्ये शुचिस्मिते ।
1366.58p.58.9cहनिष्ये राघवं चैव लक्ष्मणं वानरांश्च तान् ॥ ९ ॥
1376.58p.58.10aसुग्रीवं च हनिष्यामि हनूमन्तं च वानरम् ।
1386.58p.58.10bन तु संधिं करिष्यामि राघवेण सहैव तु ॥ १० ॥
1396.58p.58.11aवैदेहीं नार्पयिष्यामि राघवस्य भयादहम् ।
1406.58p.58.11bसांप्रतं न च संधि तु करिष्यति स राघवः ॥ ११ ॥
1416.58p.58.12aसागरं सुमहद्बध्वा लङ्कामेत्य सकाननाम् ।
1426.58p.58.12bराक्षसप्रवरान्हत्वा संधिं कुर्यात्कथं प्रिये ॥ १२ ॥
1436.58p.58.13aन त्वहं संघिमिच्छामि कदाचिदपि भामिनि ।
1446.58p.58.13bगच्छ त्वं भव विस्रब्धा सर्वमेतत्सुखोदयम् ॥१३॥
1456.58p.58.14aमा कृथा हृदि संतापमहं यास्ये रणाजिरम् ।
1466.58p.58.14bअद्य सर्वान्वधिष्यामि शत्रून्समरमूर्धनि ॥ १४ ॥
1476.58p.58.15aपुत्राश्च ते महावीर्या मेघनादपुरस्सराः ।
1486.58p.58.15bन तेषां मुच्यते कश्चिदपि मृत्युर्वरानने ॥ १५ ॥
149#75aअन्तःपुराय गच्छ त्वं सुखिनी भव सस्नुषा ।
150#75bएवमुक्त्वा परिष्वज्य भार्यां प्रियमना इव ॥
151#75c१६ ।
1526.58p.58.17aप्रविवेश तदा देवी स्वयं च भवनं शुभम् ।
1536.58p.58.17bचिन्तयामास तं घोरं विग्रहं समुपस्थितम् ॥ १७ ॥
1546.58p.58.18रावणस्तु तदा वाक्यं राक्षसानिदमत्रवीत् ॥ १८ ॥
1556.58p.58.19aकल्प्यतां मे रथः शीघ्रं क्षिप्रमानीयतां धनुः ।
1566.58p.58.19bअद्य क्रोधं विमोक्ष्यामि गूढं सुहृदयेशयम् ॥ १९ ॥
1576.58p.58.20aदेवाहवे यथा पूर्वं रुद्रेण निहतोऽन्धकः ।
1586.58p.58.20bचिरकालेप्सितं ह्येतद्युद्धं मे राघवेण ह ॥ २० ॥
1596.58p.58.21aअद्य तूणीशया बाणा विमुक्ता इव पन्नगाः ।
1606.58p.58.21bरामं समभिधावन्तु विषाग्निप्रतिमाः शिताः ॥ २१ ॥
1616.58p.58.22aसुतेजसै रुक्मपुङ्खैर्जलधौतैर्हिरण्मयैः ।
1626.58p.58.22bशरैरादीपयाम्येनमुल्काभिरिव कुञ्जरम् ॥ २२ ॥
1636.58p.58.23aवानरान्सुबहून्गृह्य राघवात्संप्रचोदितान् ।
1646.58p.58.23bयमं नयामि विक्रान्तान्मम पार्श्वमुपागतान् ॥ २३ ॥