कुम्भकर्णेन रावणान्तःपुरप्रवेशः. Built from structured/verses.jsonl. Rows are monotone-aligned half-verse/pāda-like units split at । and ॥, so verse-number boundary differences can appear as inserted or shifted line rows.
48 aligned line rows across 7 source streams.
gor-kn 47 lines
gor-hi 47 lines
crit 41 lines
gr 48 lines
dr-mula 45 lines
| # | gor-kn | gor-hi | crit | gr | dr-mula | gr-iitk | iitk |
|---|---|---|---|---|---|---|---|
| 1 | #1aಸ ತು ರಾಕ್ಷಸ ಶಾರ್ದೂಲೋ ನಿದ್ರಾಮದಸಮಾಕುಲಃ । | 6.62.1aस तु राक्षसशार्दूलो निद्रामदसमाकुलः । | 6.50.1aस तु राक्षसशार्दूलो निद्रामदसमाकुलः । | 6.62.1aस तु राक्षसशार्दूलो निद्रामदसमाकुलः । | 6.62.1aस तु राक्षसशार्दूलो निद्रामदसमाकुलः। | ||
| 2 | #1bರಾಜಮಾರ್ಗಂ ಶ್ರಿಯಾ ಜುಷ್ಟಂ ಯಯೌ ವಿಪುಲವಿಕ್ರಮಃ ॥ | 6.62.1bराजमार्गं श्रिया जुष्टं ययौ विपुलविक्रमः ॥ १ ॥ | 6.50.1bराजमार्गं श्रिया जुष्टं ययौ विपुलविक्रमः ॥6.50.1॥ | 6.62.1bराजमार्गं श्रिया जुष्टं ययौ विपुलविक्रमः ॥ १ ॥ | 6.62.1bराजमार्गं श्रिया जुष्टं ययौ विपुलविक्रमः ॥ 6.62.1 ॥ | ||
| 3 | #2aರಾಕ್ಷಸಾನಾಂ ಸಹಸ್ರೈಶ್ಚ ವೃತಃ ಪರಮದುರ್ಜಯಃ । | 6.62.2aराक्षसानां सहस्रैश्च वृतः परमदुर्जयः । | 6.50.2aराक्षसानां सहस्रैश्च वृतः परमदुर्जयः । | 6.62.2aराक्षसानां सहस्रैश्च वृतः परमदुर्जयः । | 6.62.2aराक्षसानां सहस्रैश्च वृतः परमदुर्जयः। | ||
| 4 | #2bಗೃಹೇಭ್ಯಃ ಪುಷ್ಪವರ್ಷೇಣ ಕೀರ್ಯಮಾಣಸ್ತದಾ ಯಯೌ ॥ | 6.62.2bगृहेभ्यः पुष्पवर्षेण कीर्यमाणस्तदा ययौ ॥ २ ॥ | 6.50.2bगृहेभ्यः पुष्पवर्षेण कार्यमाणस्तदा ययौ ॥6.50.2॥ | 6.62.2bगृहेभ्यः पुष्पवर्षेण कीर्यमाणस्तदा ययौ ॥ २ ॥ | 6.62.2bगृहेभ्यः पुष्पवर्षेण कीर्यमाणस्तदा ययौ ॥ 6.62.2 ॥ | ||
| 5 | #3aಸ ಹೇಮಜಾಲವಿತತಂ ಭಾನುಭಾಸ್ವರ ದರ್ಶನಮ್ । | 6.62.3aस हेमजालविततं भानुभास्वरदर्शनम् । | 6.50.3aस हेमजालविततं भानुभास्वरदर्शनम् । | 6.62.3aस हेमजालविततं भानुभास्वरदर्शनम् । | 6.62.3aस हेमजालिविततं भानुभास्वरदर्शनम्। | ||
| 6 | #3bದದರ್ಶ ವಿಪುಲಂ ರಮ್ಯಂ ರಾಕ್ಷಸೇಂದ್ರ ನಿವೇಶನಮ್ ॥ | 6.62.3bददर्श विपुलं रम्यं राक्षसेन्द्रनिवेशनम् ॥ ३ ॥ | 6.50.3bददर्श विपुलं रम्यं राक्षसेन्द्रनिवेशनम् ॥6.50.3॥ | 6.62.3bददर्श विपुलं रम्यं राक्षसेन्द्रनिवेशनम् ॥ ३ ॥ | 6.62.3bददर्श विपुलं रम्यं राक्षसेन्द्रनिवेशनम् ॥ 6.62.3 ॥ | ||
| 7 | #4aಸ ತತ್ತದಾ ಸೂರ್ಯ ಇವಾಭ್ರಜಾಲಂ ಪ್ರವಿಶ್ಯ ರಕ್ಷೋಧಿಪತೇರ್ನಿವೇಶನಮ್ । | 6.62.4aस तत्तदा सूर्य इवाभ्रजालं प्रविश्य रक्षोधिपतेर्निवेशनम् । | 6.50.4aस तत्तदा सूर्य इवाभ्रजालं प्रविश्य रक्षोऽधिपतेर्निवेशनम् । | 6.62.4aस तत्तदा सूर्य इवाभ्रजालं प्रविश्य रक्षोऽधिपतेर्निवेशम् । | 6.62.4aस तत्तदा सूर्य इवाभ्रजालं प्रविश्य रक्षोधिपतेर्निवेशम्। | ||
| 8 | #4bದದರ್ಶ ದೂರೇಽಗ್ರಜಮಾಸನಸ್ಥಂ ಸ್ವಯಂಭುವಂ ಶಕ್ರ ಇವಾಸನಸ್ಥಮ್ ॥ | 6.62.4bददर्श दूरेऽग्रजमासनस्थं स्वयम्भुवं शक्र इवासनस्थम् ॥ ४ ॥ | 6.50.4bददर्श दूरेऽग्रजमासनस्थं स्वयम्भुवं शक्र इवासनस्थम् ॥6.50.4॥ | 6.62.4bददर्श दूरेग्रजमासनस्थं स्वयंभुवं शक्र इवासनस्थम् ॥ ४ ॥ | 6.62.4bददर्श दूरेऽग्रजमासनस्थं स्वयम्भुवं शक्र इवासनस्थम् ॥ 6.62.4 ॥ | ||
| 9 | #5aಭ್ರಾತುಃ ಸ ಭವನಂ ಗಚ್ಛನ್ ರಕ್ಷೋಗಣಸಮನ್ವಿತಃ । | 6.62.5aभ्रातुः स भवनं गच्छन् रक्षोगणसमन्वितः । | 6.62.5aभ्रातुः स भवनं गच्छन्रक्षोगणसमन्वितम् । | 6.62.5aभ्रातुः स भवनं गच्छन् रक्षोगणसमन्वितम्। | |||
| 10 | #5bಕುಂಭಕರ್ಣಃ ಪದನ್ಯಾಸೈರ ಕಂಪಯತ ಮೇದಿನೀಮ್ ॥ | 6.62.5bकुम्भकर्णः पदन्यासैरकम्पयत मेदिनीम् ॥ ५ ॥ | 6.62.5bकुंभकर्णः पदन्यासैरकम्पयत मेदिनीम् ॥ ५ ॥ | 6.62.5bकुम्भकर्णः पदन्यासैरकम्पयत मेदिनीम् ॥ 6.62.5 ॥ | |||
| 11 | #6aಸೋಽಭಿಗಮ್ಯ ಗೃಹಂ ಭ್ರಾತುಃ ಕಕ್ಷ್ಯಾಮಭಿವಿಗಾಹ್ಯ ಚ । | 6.62.6aसोऽभिगम्य गृहं भ्रातुः कक्ष्यामभिविगाह्य च । | 6.50.5aसोऽभिगम्य गृहं भ्रातुः कक्ष्यामभिविगाह्य च । | 6.62.6aसोभिगम्य गृहं भ्रातुः कक्ष्यामभिविगाह्य च । | 6.62.6aसोऽभिगम्य गृहं भ्रातुः कक्ष्यामभिविगाह्य च। | ||
| 12 | #6bದದರ್ಶೋದ್ವಿಗ್ನಮಾಸೀನಂ ವಿಮಾನೇ ಪುಷ್ಪಕೇ ಗುರುಮ್ ॥ | 6.62.6bददर्शोद्विग्नमासीनं विमाने पुष्पके गुरुम् ॥ ६ ॥ | 6.50.5bददर्शोद्विग्नमासीनं विमाने पुष्पके गुरुम् ॥6.50.5॥ | 6.62.6bददर्शोद्विग्नमासीनं विमाने पुष्पके गुरुम् ॥ ६ ॥ | 6.62.6bददर्शोद्विग्नमासीनं विमाने पुष्पके गुरुम् ॥ 6.62.6 ॥ | ||
| 13 | #7aಅಥ ದೃಷ್ಟ್ವಾದಶಗ್ರೀವಃ ಕುಂಭಕರ್ಣಮುಪಸ್ಥಿತಮ್ । | 6.62.7aअथ दृष्ट्वा दशग्रीवः कुम्भकर्णमुपस्थितम् । | 6.50.6aअथ दृष्ट्वा दशग्रीवः कुम्भकर्णमुपस्थितम् । | 6.62.7aअथ दृष्ट्वा दशग्रीवः कुंभकर्णमुपस्थितम् । | 6.62.7aअथ दृष्ट्वा दशग्रीवः कुम्भकर्णमुपस्थितम्। | ||
| 14 | #7bತೂರ್ಣಮುತ್ಥಾಯ ಸಂಹೃಷ್ಟಃ ಸಂನಿಕರ್ಷಮುಪಾನಯತ್ ॥ | 6.62.7bतूर्णमुत्थाय संहृष्टः सन्निकर्षमुपानयत् ॥ ७ ॥ | 6.50.6bतूर्णमुत्थाय संहृष्टः संनिकर्षमुपानयत् ॥6.50.6॥ | 6.62.7bतूर्णमुत्थाय संहृष्टः सन्निकर्षमुपानयत् ॥ ७ ॥ | 6.62.7bतूर्णमुत्थाय संहृष्टः सन्निकर्षमुपानयत् ॥ 6.62.7 ॥ | ||
| 15 | #8aಅಥಾಸೀನಸ್ಯ ಪರ್ಯಂಕೇ ಕುಂಭಕರ್ಣೋ ಮಹಾಬಲಃ । | 6.62.8aअथासीनस्य पर्यङ्के कुम्भकर्णो महाबलः । | 6.50.7aअथासीनस्य पर्यङ्के कुम्भकर्णो महाबलः । | 6.62.8aअथासीनस्य पर्यङ्के कुंभकर्णो महाबलः । | 6.62.8aअथासीनस्य पर्यङ्के कुम्भकर्णो महाबलः। | ||
| 16 | #8bಭ್ರಾತುರ್ವವಂದೇ ಚರಣೌ ಕಿಂ ಕೃತ್ಯಮಿತಿಚಾಬ್ರವೀತ್ ॥ | 6.62.8bभ्रातुर्ववन्दे चरणौ किं कृत्यमिति चाब्रवीत् ॥ ८ ॥ | 6.50.7bभ्रातुर्ववन्दे चरणां किं कृत्यमिति चाब्रवीत् । | 6.62.8bभ्रातुर्ववन्दे चरणौ किं कृत्यमिति चाब्रवीत् ॥ ८ ॥ | 6.62.8bभ्रातुर्ववन्दे चरणौ किं कृत्यमिति चाब्रवीत् ॥ 6.62.8 ॥ | ||
| 17 | #9aಉತ್ಪತ್ಯ ಚೈನಂ ಮುದಿತೋ ರಾವಣಃ ಪರಿಷಸ್ವಜೇ । | 6.62.9aउत्पत्य चैनं मुदितो रावणः परिषस्वजे । | 6.50.7cउत्पत्य चैनं मुदितो रावणः परिषस्वजे ॥6.50.7॥ | 6.62.9aउत्पत्य चैनं मुदितो रावणः परिषस्वजे । | 6.62.9aउत्पत्य चैनं मुदितो रावणः परिषस्वजे। | ||
| 18 | #9bಸ ಭ್ರಾತ್ರಾ ಸಂಪರಿಷ್ವಕ್ತೋ ಯಥಾವಚ್ಚಾಭಿನಂದಿತಃ ॥ | 6.62.9bस भ्रात्रा सम्परिष्वक्तो यथावच्चाभिनन्दितः ॥ ९ ॥ | 6.50.8aस भ्रात्रा संपरिष्वक्तो यथावच्चाभिनन्दितः । | 6.62.9bस भ्रात्रा संपरिष्वक्तो यथावच्चाभिनन्दितः ॥ ९ ॥ | 6.62.9bस भ्रात्रा सम्परिष्वक्तो यथावच्छाभिनन्दितः ॥ 6.62.9 ॥ | ||
| 19 | #10aಕುಂಭಕರ್ಣಃ ಶುಭಂ ದಿವ್ಯಂ ಪ್ರತಿಪೇದೇ ವರಾಸನಮ್ । | 6.62.10aकुम्भकर्णः शुभं दिव्यं प्रतिपेदे वरासनम् । | 6.50.8bकुम्भकर्णः शुभं दिव्यं प्रतिपेदे वरासनम् ॥6.50.8॥ | #10aकुंभकर्णः शुभं दिव्यं प्रतिपेदे वरासनम् । | |||
| 20 | #10bಸ ತದಾಸನಮಾಶ್ರಿತ್ಯ ಕುಂಭಕರ್ಣೋ ಮಹಾಬಲಃ ॥ | 6.62.10bस तदासनमाश्रित्य कुम्भकर्णो महाबलः ॥ १० ॥ | 6.50.9aस तदासनमाश्रित्य कुम्भकर्णो महाबलः । | #10bस तदासनमाश्रित्य कुंभकर्णो महाबलः ॥ | 6.62.10aस तदासनमाश्रित्य कुम्भकर्णो महाबलः। | ||
| 21 | #11aಸಂರಕ್ತನಯನಃ ಕ್ರೋಧಾದ್ ರಾವಣಂ ವಾಕ್ಯಮಬ್ರವೀತ್ । | 6.62.11aसंरक्तनयनः क्रोधाद् रावणं वाक्यमब्रवीत् । | 6.50.9bसंरक्तनयनः कोपाद्रावणं वाक्यमब्रवीत् ॥6.50.9॥ | 6.62.10संरक्तनयनः कोपाद्रावणं वाक्यमब्रवीत् ॥ १० ॥ | 6.62.10bसंरक्तनयनः कोपाद्रावणं वाक्यमब्रवीत् ॥ 6.62.10 ॥ | ||
| 22 | #11bಕಿಮರ್ಥಮಹಮಾದೃತ್ಯ ತ್ವಯಾ ರಾಜನ್ ಪ್ರಬೋಧಿತಃ ॥ | 6.62.11bकिमर्थमहमादृत्य त्वया राजन् प्रबोधितः ॥ ११ ॥ | 6.50.10aकिमर्थमहमादृत्य त्वया राजन्प्रबोधितः । | 6.62.11aकिमर्थमहमादृत्य त्वया राजन्विबोधितः । | 6.62.11aकिमर्थमहमादृत्य त्वया राजन् विबोधितः। | ||
| 23 | #12aಶಂಸ ಕಸ್ಮಾದ್ಭಯಂ ತೇಽತ್ರ ಕೋ ವಾ ಪ್ರೇತೋ ಭವಿಷ್ಯತಿ । | 6.62.12aशंस कस्माद् भयं तेऽत्र को वा प्रेतो भविष्यति । | 6.50.10bशंस कस्माद्भयं तेऽस्ति कोऽद्य प्रेतो भविष्यति ॥6.50.10॥ | 6.62.11bशंस कस्माद्भयं तेऽस्ति कोऽद्य प्रेतो भविष्यति ॥ ११ ॥ | 6.62.11bशंस कस्माद्भयं तेऽस्ति कोऽद्य प्रेतो भविष्यति ॥ 6.62.11 ॥ | ||
| 24 | #12bಭ್ರಾತರಂ ರಾವಣಃ ಕ್ರುದ್ಧಂ ಕುಂಭಕರ್ಣಮವಸ್ಥಿತಮ್ ॥ | 6.62.12bभ्रातरं रावणः क्रुद्धं कुम्भकर्णमवस्थितम् ॥ १२ ॥ | 6.50.11aभ्रातरं रावणः क्रुद्धं कुम्भकर्णमवस्थितम् । | 6.62.12aभ्रातरं रावणः क्रुद्धं कुंभकर्णमवस्थितम् । | 6.62.12aभ्रातरं रावणः कुद्धं कुम्भकर्णमवस्थितम्। | ||
| 25 | #13aರೋಷೇಣ ಪರಿವೃತ್ತಾಭ್ಯಾಂನೇತ್ರಾಭ್ಯಾಂ ವಾಕ್ಯಮಬ್ರವೀತ್ । | 6.62.13aरोषेण परिवृत्ताभ्यां नेत्राभ्यां वाक्यमब्रवीत् । | 6.50.11bईषत्तु परिवृत्ताभ्यां नेत्राभ्यां वाक्यमब्रवीत् ॥6.50.11॥ | 6.62.12bईषत्तु परिवृत्ताभ्यां नेत्राभ्यां वाक्यमब्रवीत् ॥ १२ ॥ | 6.62.12bईषत्तु परिवृत्ताभ्यां नेत्राभ्यां वाक्यमब्रवीत् ॥ 6.62.12 ॥ | ||
| 26 | #13bಅದ್ಯ ತೇ ಸುಮಹಾನ್ಕಾಲಃ ಶಯಾನಸ್ಯ ಮಹಾಬಲ ॥ | 6.62.13bअद्य ते सुमहान् कालः शयानस्य महाबल ॥ १३ ॥ | 6.50.12aअद्य ते सुमहान्कालः शयानस्य महाबल । | 6.62.13aअद्य ते सुमहान्कालः शयानस्य महाबल । | 6.62.13aअद्य ते सुमहान् कालः शयानस्य महाबल। | ||
| 27 | #14aಸುಷುಪ್ತಸ್ತ್ವಂ ನ ಜಾನೀಷೇ ಮಮ ರಾಮಕೃತಂ ಭಯಮ್ । | 6.62.14aसुषुप्तस्त्वं न जानीषे मम रामकृतं भयम् । | 6.50.12bसुखितस्त्वं न जानीषे मम रामकृतं भयम् ॥6.50.12॥ | 6.62.13bसुखितस्त्वं न जानीषे मम रामकृतं भयम् ॥ १३ ॥ | 6.62.13bसुखितस्त्वं न जानीषे मम रामकृतं भयम् ॥ 6.62.13 ॥ | ||
| 28 | #14bಏಷ ದಾಶರಥಿಃ ಶ್ರೀಮಾನ್ ಸುಗ್ರೀವಸಹಿತೋ ಬಲೀ ॥ | 6.62.14bएष दाशरथिः श्रीमान् सुग्रीवसहितो बली ॥ १४ ॥ | 6.50.13aएष दाशरथी रामः सुग्रीवसहितो बली । | 6.62.14aएष दाशरथी रामः सुग्रीवसहितो बली । | 6.62.14aएष दाशरथी रामः सुग्रीवसहितो बली। | ||
| 29 | #15aಸಮುದ್ರಂ ಲಂಘಯಿತ್ವಾತು ಮೂಲಂ ನಃ ಪರಿಕೃಂತತಿ । | 6.62.15aसमुद्रं लङ्घयित्वा तु मूलं नः परिकृन्तति । | 6.50.13bसमुद्रं सबलस्तीर्त्वा मूलं नः परिकृन्तति ॥6.50.13॥ | 6.62.14bसमुद्रं सबलस्तीर्त्वा मूलं नः परिकृन्तति ॥ १४ ॥ | 6.62.14bसमुद्रं सबलस्तीर्त्वा मूलं नः परिकृन्तति ॥ 6.62.14 ॥ | ||
| 30 | #15bಹಂತ ಪಶ್ಯಸ್ವ ಲಂಕಾಯಾಂ ವನಾನ್ಯುಪವನಾನಿ ಚ ॥ | 6.62.15bहन्त पश्यस्व लङ्कायां वनान्युपवनानि च ॥ १५ ॥ | 6.50.14aहन्त पश्यस्व लङ्काया वनान्युपवनानि च । | 6.62.15aहन्त पश्यस्व लङ्कायां वनान्युपवनानि च । | 6.62.15aहन्त पश्यस्व लङ्कायां वनान्युपवनानि च। | ||
| 31 | #16aಸೇತುನಾ ಸುಖಮಾಗತ್ಯ ವಾನರೈಕಾರ್ಣವಂ ಕೃತಮ್ । | 6.62.16aसेतुना सुखमागत्य वानरैकार्णवं कृतम् । | 6.50.14bसेतुना सुखमागम्य वानरैकार्णवं कृतम् ॥6.50.14॥ | 6.62.15bसेतुना सुखैमागम्य वानरैकार्णवीकृतम् ॥ १५ ॥ | 6.62.15bसेतुना सुखमागम्य वानरैकार्णवीकृतम् ॥ 6.62.15 ॥ | ||
| 32 | #16bಯೇ ರಾಕ್ಷಸಾ ಮುಖ್ಯತಮಾ ಹತಾಸ್ತೇ ವಾನರೈರ್ಯುಧಿ ॥ | 6.62.16bये राक्षसा मुख्यतमा हतास्ते वानरैर्युधि ॥ १६ ॥ | 6.50.15aये राक्षसा मुख्यतमा हतास्ते वानरैर्युधि । | 6.62.16aये रक्षसां मुख्यतमा हतास्ते वानरैर्युधि । | 6.62.16aये रक्षसां मुख्यतमा हतास्ते वानरैर्युधि। | ||
| 33 | #17aವಾನರಾಣಾಂ ಕ್ಷಯಂ ಯುದ್ಧೇ ನ ಪಶ್ಯಾಮಿ ಕಥಂಚನ । | 6.62.17aवानराणां क्षयं युद्धे न पश्यामि कथञ्चन । | 6.50.15bवानराणां क्षयं युद्धे न पश्यामि कदाचन ॥6.50.15॥ | 6.62.16bवानराणां क्षयं युद्धे न पश्यामि कदाचन ॥ १६ ॥ | 6.62.16bवानराणां क्षयं युद्धे न पश्यामि कदाचन ॥ 6.62.16 ॥ | ||
| 34 | #17bನ ಚಾಪಿ ವಾನರಾ ಯುದ್ಧೇ ಜಿತಪೂರ್ವಾಃ ಕದಾಚನ ॥ | 6.62.17bन चापि वानरा युद्धे जितपूर्वाः कदाचन ॥ १७ ॥ | 6.62.17न चापि वानरा युद्धे जितपूर्वाः कदाचन ॥ १७ ॥ | 6.62.17न चापि वानरा युद्धे जितपूर्वाः कदाचन ॥ 6.62.17 ॥ | |||
| 35 | #18aತದೇತದ್ ಭಯಮುತ್ಪನ್ನಂ ತ್ರಾಯಸ್ವೇಹ ಮಹಾಬಲ । | 6.62.18aतदेतद् भयमुत्पन्नं त्रायस्वेह महाबल । | 6.62.18aतदेतद्भयमुत्पन्नं त्रायस्वेमां महाबल । | 6.62.18aतदेतद्भयमुत्पन्नं त्रायस्वेमां महाबल। | |||
| 36 | #18bನಾಶಯ ತ್ವಮಿಮಾನದ್ಯ ತದರ್ಥಂ ಬೋಧಿತೋ ಭವಾನ್ ॥ | 6.62.18bनाशय त्वमिमानद्य तदर्थं बोधितो भवान् ॥ १८ ॥ | 6.62.18bनाशय त्वमिमानद्य तदर्थं बोधितो भवान् ॥ १८ ॥ | 6.62.18bनाशय त्वमिमानद्य तदर्थं बोधितो भवान् ॥ 6.62.18 ॥ | |||
| 37 | #19aಸರ್ವಕ್ಷಪಿತಕೋಶಂ ಚ ಸ ತ್ವಮಭ್ಯುಪಪದ್ಯ ಮಾಮ್ । | 6.62.19aसर्वक्षपितकोशं च स त्वमभ्युपपद्य माम् । | 6.50.16aसर्वक्षपितकोशं च स त्वमभ्यवपद्य माम् । | 6.62.19aसर्वक्षपितकोशं च स त्वमभ्यवपद्य माम् । | 6.62.19aसर्वक्षपितकोशं च स त्वमभ्यवपद्य माम्। | ||
| 38 | #19bತ್ರಾಯಸ್ವೇಮಾಂ ಪುರೀಂ ಲಂಕಾಂ ಬಾಲವೃದ್ಧಾವಶೇಷಿತಾಮ್ ॥ | 6.62.19bत्रायस्वेमां पुरीं लङ्कां बालवृद्धावशेषिताम् ॥ १९ ॥ | 6.50.16bत्रायस्वेमां पुरीं लङ्कां बालवृद्धावशेषिताम् ॥6.50.16॥ | 6.62.19bत्रायस्वेमां पुरीं लङ्कां बालवृद्धावशेषिताम् ॥ १९ ॥ | 6.62.19bत्रायस्वेमां पुरीं लङ्कां बालवृद्धावशेषिताम् ॥ 6.62.19 ॥ | ||
| 39 | #20aಭ್ರಾತುರರ್ಥೇ ಮಹಾಬಾಹೋ ಕುರು ಕರ್ಮ ಸುದುಷ್ಕರಮ್ । | 6.62.20aभ्रातुरर्थे महाबाहो कुरु कर्म सुदुष्करम् । | 6.50.17aभ्रातुरर्थे महाबाहो कुरु कर्म सुदुष्करम् । | 6.62.20aभ्रातुरर्थे महाबाहो कुरु कर्म सुदुष्करम् । | 6.62.20aभ्रातुरर्थे महाबाहो कुरु कर्म सुदुष्करम्। | ||
| 40 | #20bಮಯೈವಂ ನೋಕ್ತಪೂರ್ವೋ ಹಿ ಭ್ರಾತಾ ಕಶ್ಚಿತ್ ಪರಂತಪ ॥ | 6.62.20bमयैवं नोक्तपूर्वो हि भ्राता कश्चित् परन्तप ॥ २० ॥ | 6.50.17bमयैवं नोक्तपूर्वो हि कश्चिद्भ्रातः परंतप । | 6.62.20bमयैवं नोक्तपूर्वो हि कच्चिद्भातः परंतप ॥ २० ॥ | 6.62.20bमयैवं नोक्तपूर्वो हि कच्चिद् भ्रातः परन्तप ॥ 6.62.20 ॥ | ||
| 41 | #21aತ್ವಯ್ಯಸ್ತಿ ಮಮ ಚ ಸ್ನೇಹಃ ಪರಾ ಸಂಭಾವನಾ ಚ ಮೇ । | 6.62.21aत्वय्यस्ति मम च स्नेहः परा सम्भावना च मे । | 6.50.17cत्वय्यस्ति मम च स्नेहः परा संभावना च मे ॥6.50.17॥ | 6.62.21aत्वय्यस्ति तु मम स्नेहः परा संभावना च मे । | |||
| 42 | #21bದೈವಾಸುರೇಷು ಯುದ್ಧೇಷು ಬಹುಶೋರಾಕ್ಷಸರ್ಷಭ ॥ | 6.62.21bदेवासुरेषु युद्धेषु बहुशो राक्षसर्षभ ॥ २१ ॥ | 6.50.18aदेवासुरविमर्देषु बहुशो राक्षसर्षभ । | 6.62.21bदैवासुरेषु युद्धेषु बहुशो राक्षसर्षभ । | 6.62.21aदैवासुरेषु युद्धेषु बहुशो राक्षसर्षभ। | ||
| 43 | #22ತ್ವಯಾ ದೇವಾಃ ಪ್ರತಿವ್ಯೆಹ್ಯ ನಿರ್ಜಿತಾಶ್ಚಾಸುರಾ ಯುಧಿ ॥ | 6.62.22त्वया देवाः प्रतिव्यूह्य निर्जिताश्चासुरा युधि ॥ २२ ॥ | 6.50.18bत्वया देवाः प्रतिव्यूह्य निर्जिताश्चासुरा युधि । | 6.62.21cत्वया देवाः प्रतिव्यूह्य निर्जितास्चासुरा युधि ॥ २१ ॥ | 6.62.21bत्वया देवाः प्रतिव्यूह्य निर्जिताश्चासुरा युधि ॥ 6.62.21 ॥ | ||
| 44 | #23aತದೇತತ್ಸರ್ವಮಾತಿಷ್ಠ ವೀರ್ಯಂ ಭೀಮಪರಾಕ್ರಮ । | 6.62.23aतदेतत् सर्वमातिष्ठ वीर्यं भीमपराक्रम । | 6.62.22aतदेतत्सर्वमातिष्ठ वीर्यं भीमपराक्रम । | 6.62.22aतदेतत् सर्वमातिष्ठ वीर्यं भीमपराक्रम। | |||
| 45 | #23bನಹಿ ತೇ ಸರ್ವಭೂತೇಷು ದೃಶ್ಯತೇ ಸದೃಶೋ ಬಲೀ ॥ | 6.62.23bनहि ते सर्वभूतेषु दृश्यते सदृशो बली ॥ २३ ॥ | 6.50.18cन हि ते सर्वभूतेषु दृश्यते सदृशो बली ॥6.50.18॥ | 6.62.22bन हि ते सर्वभूतेषु दृश्यते सदृशो बली ॥ २२ ॥ | 6.62.22bन हि ते सर्वभूतेषु दृश्यते सदृशो बली ॥ 6.62.22 ॥ | ||
| 46 | #24aಕುರುಷ್ವ ಮೇ ಪ್ರಿಯಹಿತಮೇತದುತ್ತಮಂ ಯಥಾಪ್ರಿಯಂ ಪ್ರಿಯರಣ ಬಾಂಧವಪ್ರಿಯ । | 6.62.24aकुरुष्व मे प्रियहितमेतदुत्तमं यथाप्रियं प्रियरण बान्धवप्रिय । | 6.50.19aकुरुष्व मे प्रियहितमेतदुत्तमं यथाप्रियं प्रियरणबान्धवप्रिय । | 6.62.23aकुरुष्व मे प्रियहितमेतदुत्तमं यथाप्रियं प्रियरण बान्धवप्रिय । | 6.62.23aकुरुष्व मे प्रियहितमेतदुत्तमं यथाप्रियं प्रियरणबान्धवप्रिय। | ||
| 47 | #24bಸ್ವತೇಜಸಾ ವ್ಯಥಯ ಸಪತ್ನವಾಹಿನೀಂ ಶರದ್ಘನಂ ಪವನ ಇವೋದ್ಯತೋ ಮಹಾನ್ ॥ | 6.62.24bस्वतेजसा व्यथय सपत्नवाहिनीं शरद्घनं पवन इवोद्यतो महान् ॥ २४ ॥ | 6.50.19bस्वतेजसा विधम सपत्नवाहिनीं शरद्घनं पवन इवोद्यतो महान् ॥6.50.19॥ | 6.62.23bस्वतेजसा विधम सपत्नवाहिनीं शरद्धनं पवन इवोद्यतो महान् ॥ २३ ॥ | 6.62.23bस्वतेजसा विधम सपत्नवाहिनीं शरद्घनं पवन इवोद्यतो महान् ॥ 6.62.23 ॥ | ||
| 48 | 6.62.62इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने द्विषष्टितमः सर्गः ॥ ६२ ॥ |