रावण-प्रहस्तसंवादः. Built from structured/verses.jsonl. Rows are monotone-aligned half-verse/pāda-like units split at । and ॥, so verse-number boundary differences can appear as inserted or shifted line rows.
94 aligned line rows across 7 source streams.
gor-kn 92 lines
gor-hi 92 lines
crit 84 lines
gr 92 lines
dr-mula 90 lines
| # | gor-kn | gor-hi | crit | gr | dr-mula | gr-iitk | iitk |
|---|---|---|---|---|---|---|---|
| 1 | #1aಅಕಂಪನವಧಂ ಶ್ರುತ್ವಾ ಕ್ರುದ್ಧೋ ವೈ ರಾಕ್ಷಸೇಶ್ವರಃ । | 6.57.1aअकम्पनवधं श्रुत्वा क्रुद्धो वै राक्षसेश्वरः । | 6.45.1aअकम्पनवधं श्रुत्वा क्रुद्धो वै राक्षसेश्वरः । | 6.57.1aअकम्पनवधं श्रुत्वा क्रुद्धो वै राक्षसेश्वरः । | 6.57.1aअकम्पनवधं श्रुत्वा क्रुद्धो वै राक्षसेश्वरः। | ||
| 2 | #1bಕಿಂಚಿದ್ದೀನಮುಖಶ್ಚಾಪಿ ಸಚಿವಾಂಸ್ತಾನುದೈಕ್ಷತ ॥ | 6.57.1bकिञ्चिद् दीनमुखश्चापि सचिवांस्तानुदैक्षत ॥ १ ॥ | 6.45.1bकिंचिद्दीनमुखश्चापि सचिवांस्तानुदैक्षत ॥6.45.1॥ | 6.57.1bकिंचिद्दीनमुखश्चापि सचिवांस्तानुदैक्षत ॥ १ ॥ | 6.57.1bकिञ्चिद्दीनमुखश्चापि सचिवांस्तानुदैक्षत ॥ 6.57.1 ॥ | ||
| 3 | #2aಸ ತು ಧ್ಯಾತ್ವಾ ಮುಹೂರ್ತಂ ತು ಮಂತ್ರಿಭಿಃ ಸಂವಿಚಾರ್ಯ ಚ । | 6.57.2aस तु ध्यात्वा मुहूर्तं तु मन्त्रिभिः संविचार्य च । | 6.45.2aस तु ध्यात्वा मुहूर्तं तु मन्त्रिभिः संविचार्य च । | 6.57.2aस तु ध्यात्वा मुहूर्तं तु मन्त्रिभिः संविचार्य च । | |||
| 4 | #2bತತಸ್ತು ರಾವಣಃ ಪೂರ್ವದಿವಸೇ ರಾಕ್ಷಸಾಧಿಪಃ । | 6.57.2bततस्तु रावणः पूर्वदिवसे राक्षसाधिपः । | 6.57.2bततस्तु रावणः पूर्वदिवसे राक्षसाधिपः । | 6.57.2aततस्तु रावणः पूर्वदिवसे राक्षसाधिपः। | |||
| 5 | #2cಪುರೀಂ ಪರಿಯಯೌ ಲಂಕಾಂ ಸರ್ವಾನ್ಗುಲ್ಮಾನವೇಕ್ಷಿತುಮ್ ॥ | 6.57.2cपुरीं परिययौ लङ्कां सर्वान् गुल्मानवेक्षितुम् ॥ २ ॥ | 6.45.2bपुरीं परिययौ लङ्कां सर्वान्गुल्मानवेक्षितुम् ॥6.45.2॥ | 6.57.2cपुरीं परिययौ लङ्कां सर्वान्गुल्मानवेक्षितुम् ॥ २ ॥ | 6.57.2bपुरीं परिययौ लङ्कां सर्वान् गुल्मानवेक्षितुम् ॥ 6.57.2 ॥ | ||
| 6 | #3aತಾಂ ರಾಕ್ಷಸಗಣೈರ್ಗುಪ್ತಾಂ ಗುಲ್ಮೈರ್ಬಹುಭಿರಾವೃತಾಮ್ । | 6.57.3aतां राक्षसगणैर्गुप्तां गुल्मैर्बहुभिरावृताम् । | 6.45.3aतां राक्षसगणैर्गुप्तां गुल्मैर्बहुभिरावृताम् । | 6.57.3aतां राक्षसगणैर्गुप्तां गुल्मैर्बहुभिरावृताम् । | 6.57.3aतां राक्षसगणैर्गुप्तां गुल्मैर्बहुभिरावृताम्। | ||
| 7 | #3bದದರ್ಶ ನಗರೀಂ ರಾಜಾ ಪತಾಕಾಧ್ವಜಮಾಲಿನೀಮ್ ॥ | 6.57.3bददर्श नगरीं राजा पताकाध्वजमालिनीम् ॥ ३ ॥ | 6.45.3bददर्श नगरीं लङ्कां पताकाध्वजमालिनीम् ॥6.45.3॥ | 6.57.3bददर्श नगरीं लङ्कां पताकाध्वजमालिनीम् ॥ ३ ॥ | 6.57.3bददर्श नगरीं लङ्कां पताकाध्वजमालिनीम् ॥ 6.57.3 ॥ | ||
| 8 | #4aರುದ್ಧಾಂ ತು ನಗರೀಂ ದೃಷ್ಟ್ವಾ ರಾವಣೋ ರಾಕ್ಷಸೇಶ್ವರಃ । | 6.57.4aरुद्धां तु नगरीं दृष्ट्वा रावणो राक्षसेश्वरः । | 6.45.4aरुद्धां तु नगरीं दृष्ट्वा रावणो राक्षसेश्वरः । | 6.57.4aरुद्धां तु नगरीं दृष्ट्वा रावणो राक्षसेश्वरः । | 6.57.4aरुद्धां तु नगरीं दृष्ट्वा रावणो राक्षसेश्वरः। | ||
| 9 | #4bಉವಾಚಾತ್ಮಹಿತಂ ಕಾಲೇ ಪ್ರಹಸ್ತಂ ಯುದ್ಧ ಕೋವಿದಮ್ ॥ | 6.57.4bउवाचात्महितं काले प्रहस्तं युद्धकोविदम् ॥ ४ ॥ | 6.45.4bउवाचामर्षितः काले प्रहस्तं युद्धकोविदम् ॥6.45.4॥ | 6.57.4bउवाचामर्षतः काले प्रहस्तं युद्धकोविदम् ॥ ४ ॥ | 6.57.4bउवाचामर्षतः काले प्रहस्तं युद्धकोविदम् ॥ 6.57.4 ॥ | ||
| 10 | #5aಪುರಸ್ಯೋಪನಿವಿಷ್ಟಸ್ಯ ಸಹಸಾ ಪೀಡಿತಸ್ಯ ಹ । | 6.57.5aपुरस्योपनिविष्टस्य सहसा पीडितस्य ह । | 6.45.5aपुरस्योपनिविष्टस्य सहसा पीडितस्य च । | 6.57.5aपुरस्योपनिविष्टस्य सहसा पीडितस्य वा । | 6.57.5aपुरस्योपनिविष्टस्य सहसा पीडितस्य वा। | ||
| 11 | #5bನಾನ್ಯಯುದ್ಧಾತ್ ಪ್ರಪಶ್ಯಾಮಿ ಮೋಕ್ಷಂ ಯುದ್ಧವಿಶಾರದ ॥ | 6.57.5bनान्ययुद्धात् प्रपश्यामि मोक्षं युद्धविशारद ॥ ५ ॥ | 6.45.5bनान्यं युद्धात्प्रपश्यामि मोक्षं युद्धविशारद ॥6.45.5॥ | 6.57.5bनान्यं युद्धात्प्रपश्यामि मोक्षं युद्धविशारद ॥ ५ ॥ | 6.57.5bनान्यं युद्धात् प्रपश्यामि मोक्षं युद्धविशारद ॥ 6.57.5 ॥ | ||
| 12 | #6aಅಹಂ ವಾ ಕುಂಭಕರ್ಣೋ ವಾ ತ್ವಂ ವಾ ಸೇನಾಪತಿರ್ಮಮ । | 6.57.6aअहं वा कुम्भकर्णो वा त्वं वा सेनापतिर्मम । | 6.45.6aअहं वा कुम्भकर्णो वा त्वं वा सेनापतिर्मम । | 6.57.6aअहं वा कुम्भकर्णो वा त्वं वा सेनापतिर्मम । | 6.57.6aअहं वा कुम्भकर्णो वा त्वं वा सेनापतिर्मम। | ||
| 13 | #6bಇಂದ್ರಜಿದ್ ವಾ ನಿಕುಂಭೋ ವಾ ವಹೇಯುರ್ಭಾರಮೀದೃಶಮ್ ॥ | 6.57.6bइन्द्रजिद् वा निकुम्भो वा वहेयुर्भारमीदृशम् ॥ ६ ॥ | 6.45.6bइन्द्रजिद्वा निकुम्भो वा वहेयुर्भारमीदृशम् ॥6.45.6॥ | 6.57.6bइन्द्रजिद्वा निकुम्भो वा बहेयुर्भारमीदृशम् ॥ ६ ॥ | 6.57.6bइन्द्रजिद्वा निकुम्भो वा वहेयुर्भारमीदृशम् ॥ 6.57.6 ॥ | ||
| 14 | #7aಸ ತ್ವಂ ಬಲಮತಃ ಶೀಘ್ರಮಾದಾಯ ಪರಿಗೃಹ್ಯ ಚ । | 6.57.7aस त्वं बलमतः शीघ्रमादाय परिगृह्य च । | 6.45.7aस त्वं बलमितः शीघ्रमादाय परिगृह्य च । | 6.57.7aस त्वं बलमतः शीघ्रमादाय परिगृह्य च । | 6.57.7aस त्वं बलमतः शीघ्रमादाय परिगृह्य च। | ||
| 15 | #7bವಿಜಯಾಯಾಭಿನಿರ್ಯಾಹಿ ಯತ್ರ ಸರ್ವೇ ವನೌಕಸಃ ॥ | 6.57.7bविजयायाभिनिर्याहि यत्र सर्वे वनौकसः ॥ ७ ॥ | 6.45.7bविजयायाभिनिर्याहि यत्र सर्वे वनौकसः ॥6.45.7॥ | 6.57.7bविजयायाभिनिर्याहि यत्र सर्वे वनौकसः ॥ ७ ॥ | 6.57.7bविजयायाभिनिर्याहि यत्र सर्वे वनौकसः ॥ 6.57.7 ॥ | ||
| 16 | #8aನಿರ್ಯಾಣಾದೇವ ತೂರ್ಣ ಚಂ ಚಲಿತಾ ಹರಿವಾಹಿನೀ । | 6.57.8aनिर्याणादेव तूर्णं च चलिता हरिवाहिनी । | 6.45.8aनिर्याणादेव ते नूनं चपला हरिवाहिनी । | 6.57.8aनिर्याणादेव ते नूनं चपला हरिवाहिनी । | 6.57.8aनिर्याणादेव ते नूनं चपला हरिवाहिनी। | ||
| 17 | #8bನರ್ದತಾಂ ರಾಕ್ಷಸೇಂದ್ರಾಣಾಂ ಶ್ರುತ್ವಾ ನಾದಂ ದ್ರವಿಷ್ಯತಿ ॥ | 6.57.8bनर्दतां राक्षसेन्द्राणां श्रुत्वा नादं द्रविष्यति ॥ ८ ॥ | 6.45.8bनर्दतां राक्षसेन्द्राणां श्रुत्वा नादं द्रविष्यति ॥6.45.8॥ | 6.57.8bनर्दतां राक्षसेन्द्राणां श्रुत्वा नादं द्रविष्यति ॥ ८ ॥ | 6.57.8bनर्दतां राक्षसेन्द्राणां श्रुत्वा नादं द्रविष्यति ॥ 6.57.8 ॥ | ||
| 18 | #9aಚಪಲಾ ಹ್ಯವಿನೀತಾಶ್ಚ ಚಲಚಿತ್ತಾಶ್ಚ ವಾನರಾಃ । | 6.57.9aचपला ह्यविनीताश्च चलचित्ताश्च वानराः । | 6.45.9aचपला ह्यविनीताश्च चलचित्ताश्च वानराः । | 6.57.9aचपला ह्यविनीताश्च चलचित्ताश्च वानराः । | 6.57.9aचपला ह्यविनीताश्च चलचित्ताश्च वानराः। | ||
| 19 | #9bನ ಸಹಿಷ್ಯಂತಿ ತೇ ನಾದಂ ಸಿಂಹನಾದಮಿವ ದ್ವಿಪಾಃ ॥ | 6.57.9bन सहिष्यन्ति ते नादं सिंहनादमिव द्विपाः ॥ ९ ॥ | 6.45.9bन सहिष्यन्ति ते नादं सिंहनादमिव द्विपाः ॥6.45.9॥ | 6.57.9bन सहिष्यन्ति ते नादं सिंहनादमिव द्विपाः ॥ ९ ॥ | 6.57.9bन सहिष्यन्ति ते नादं सिंहनादमिव द्विपाः ॥ 6.57.9 ॥ | ||
| 20 | #10aವಿದ್ರುತೇ ಚ ಬಲೇ ತಸ್ಮಿನ್ರಾಮಃ ಸೌಮಿತ್ರಿಣಾ ಸಹ । | 6.57.10aविद्रुते च बले तस्मिन् रामः सौमित्रिणा सह । | 6.45.10aविद्रुते च बले तस्मिन्रामः सौमित्रिणा सह । | 6.57.10aविद्रुते च बले तस्मिन्रामः सौमित्रिणा सह । | 6.57.10aविद्रुते च बले तस्मिन् रामः सौमित्रिणा सह। | ||
| 21 | #10bಅವಶಸ್ತೇ ನಿರಾಲಂಬಃ ಪ್ರಹಸ್ತ ವಶಮೇಷ್ಯತಿ ॥ | 6.57.10bअवशस्ते निरालम्बः प्रहस्त वशमेष्यति ॥ १० ॥ | 6.45.10bअवशस्ते निरालम्बः प्रहस्तवशमेष्यति ॥6.45.10॥ | 6.57.10bअवशस्ते निरालम्बः प्रहस्त वशमेष्यांत ॥ १० ॥ | 6.57.10bअवशस्ते निरालम्बः प्रहस्त वशमेष्यति ॥ 6.57.10 ॥ | ||
| 22 | #11aಅಪತ್ಸಂಶಯಿತಾ ಶ್ರೇಯೋ ನಾತ್ರ ನಿಃಸಂಶಯೀಕೃತಾ । | 6.57.11aआपत्संशयिता श्रेयो नात्र निःसंशयीकृता । | 6.45.11aआपत्संशयिता श्रेयो नात्र निःसंशयीकृता । | 6.57.11aआपत्संशयिता श्रेयो न तु निस्संशयीकृता । | 6.57.11aआपत् संशयिता श्रेयो न तु निस्संशयीकृता। | ||
| 23 | #11bಪ್ರತಿಲೋಮಾನುಲೋಮಂ ವಾ ಯತ್ತುನೋ ಮನ್ಯಸೇ ಹಿತಮ್ ॥ | 6.57.11bप्रतिलोमानुलोमं वा यत् तु नो मन्यसे हितम् ॥ ११ ॥ | 6.45.11bप्रतिलोमानुलोमं वा यद्वा नो मन्यसे हितम् ॥6.45.11॥ | 6.57.11bप्रतिलोमानुलोमं वा यद्वा नो मन्यसे हितम् ॥ ११ ॥ | 6.57.11bप्रतिलोमानुलोमं वा यद्वा नो मन्यसे हितम् ॥ 6.57.11 ॥ | ||
| 24 | #12aರಾವಣೇನೈವಮುಕ್ತಸ್ತು ಪ್ರಹಸ್ತೋ ವಾಹಿನೀಪತಿಃ । | 6.57.12aरावणेनैवमुक्तस्तु प्रहस्तो वाहिनीपतिः । | 6.45.12aरावणेनैवमुक्तस्तु प्रहस्तो वाहिनीपतिः । | 6.57.12aरावणेनैवमुक्तस्तु प्रहस्तो वाहिनीपतिः । | 6.57.12aरावणेनैवमुक्तस्तु प्रहस्तो वाहिनीपतिः। | ||
| 25 | #12bರಾಕ್ಷಸೇಂದ್ರಮುವಾಚೇದಮಸುರೇಂದ್ರಮಿವೋಶನಾ ॥ | 6.57.12bराक्षसेन्द्रमुवाचेदमसुरेन्द्रमिवोशना ॥ १२ ॥ | 6.45.12bराक्षसेन्द्रमुवाचेदमसुरेन्द्रमिवोशना ॥6.45.12॥ | 6.57.12bराक्षसेन्द्रमुवाचेदमसुरेन्द्रमिवोशना ॥ १२ ॥ | 6.57.12bराक्षसेन्द्रमुवाचेदमसुरेन्द्रमिवोशना ॥ 6.57.12 ॥ | ||
| 26 | #13aರಾಜನ್ಮಂತ್ರಿತಪೂರ್ವಂ ನಃ ಕುಶಲೈಃ ಸಹ ಮಂತ್ರಿಭಿಃ । | 6.57.13aराजन् मन्त्रितपूर्वं नः कुशलैः सह मन्त्रिभिः । | 6.45.13aराजन्मन्त्रितपूर्वं नः कुशलैः सह मन्त्रिभिः । | 6.57.13aराजन्मत्रितपूर्वं नः कुशलैः सह मन्त्रिभिः । | 6.57.13aराजन् मन्त्रितपूर्वं नः कुशलैः सह मन्त्रिभिः। | ||
| 27 | #13bವಿವಾದಶ್ಚಾಪಿ ನೋ ವೃತ್ತಃ ಸಮವೇಕ್ಷ್ಯ ಪರಸ್ಪರಮ್ ॥ | 6.57.13bविवादश्चापि नो वृत्तः समवेक्ष्य परस्परम् ॥ १३ ॥ | 6.45.13bविवादश्चापि नो वृत्तः समवेक्ष्य परस्परम् ॥6.45.13॥ | 6.57.13bविवादश्चापि नो वृत्तः समवेक्ष्य परस्परम् ॥ १३ ॥ | 6.57.13bविवादश्चापि नो वृत्तः समवेक्ष्य परस्परम् ॥ 6.57.13 ॥ | ||
| 28 | #14aಪ್ರದಾನೇನ ತು ಸೀತಾಯಾಃ ಶ್ರೇಯೋ ವ್ಯವಸಿತಂ ಮಯಾ । | 6.57.14aप्रदानेन तु सीतायाः श्रेयो व्यवसितं मया । | 6.45.14aप्रदानेन तु सीतायाः श्रेयो व्यवसितं मया । | 6.57.14aप्रदानेन तु सीतायाः श्रेयो व्यवसितं मया । | 6.57.14aप्रदानेन तु सीतायाः श्रेयो व्यवसितं मया। | ||
| 29 | #14bಅಪ್ರದಾನೇ ಪುನರ್ಯುದ್ಧಂ ದೃಷ್ಟಮೇವ ತಥೈವ ನಃ ॥ | 6.57.14bअप्रदाने पुनर्युद्धं दृष्टमेव तथैव नः ॥ १४ ॥ | 6.45.14bअप्रदाने पुनर्युद्धं दृष्टमेतत्तथैव नः ॥6.45.14॥ | 6.57.14bअप्रदाने पुनर्युद्धं दृष्टमेतत्तथैव नः ॥ १४ ॥ | 6.57.14bअप्रदाने पुनर्युद्धं दृष्टमेतत्तथैव नः ॥ 6.57.14 ॥ | ||
| 30 | #15aಸೋಽಹಂ ದಾನೈಶ್ಚ ಮಾನೈಶ್ಚ ಸತತಂ ಪೂಜಿತಸ್ತ್ವಯಾ । | 6.57.15aसोऽहं दानैश्च मानैश्च सततं पूजितस्त्वया । | 6.45.15aसोऽहं दानैश्च मानैश्च सततं पूजितस्त्वया । | 6.57.15aसोहं दानैश्च मानैश्च सततं पूजितस्त्वया । | 6.57.15aसोऽहं दानैश्च मानैश्च सततं पूजितस्त्वया। | ||
| 31 | #15bಸಾಂತ್ವೈಶ್ಚ ವಿವಿಧೈಃ ಕಾಲೇ ಕಿಂ ನ ಕುರ್ಯಾಂ ಹಿತಂ ತವ ॥ | 6.57.15bसान्त्वैश्च विविधैः काले किं न कुर्यां हितं तव ॥ १५ ॥ | 6.45.15bसान्त्वैश्च विविधैः काले किं न कुर्यां प्रियं तव ॥6.45.15॥ | 6.57.15bसान्त्वैश्च विविधैः काले किं न कुर्यां प्रियं तव ॥ १५ ॥ | 6.57.15bसान्त्वैश्च विविधैः काले किं न कुर्यां प्रियं तव ॥ 6.57.15 ॥ | ||
| 32 | #16aನಹಿ ಮೇ ಜೀವಿತಂ ರಕ್ಷ್ಯಂ ಪುತ್ರದಾರ ಧನಾನಿ ಚ । | 6.57.16aनहि मे जीवितं रक्ष्यं पुत्रदारधनानि च । | 6.45.16aन हि मे जीवितं रक्ष्यं पुत्रदारधनानि वा । | 6.57.16aन हि मे जीवितं रक्ष्यं पुत्रदारधनानि वा । | 6.57.16aन हि मे जीवितं रक्ष्यं पुत्रदारधनानि वा। | ||
| 33 | #16bತ್ವಂ ಪಶ್ಯ ಮಾಂ ಜುಹೂಷಂತಂ ತ್ವದರ್ಥೇ ಜೀವಿತಂ ಯುಧಿ ॥ | 6.57.16bत्वं पश्य मां जुहूषन्तं त्वदर्थे जीवितं युधि ॥ १६ ॥ | 6.45.16bत्वं पश्य मां जुहूषन्तं त्वदर्थे जीवितं युधि ॥6.45.16॥ | 6.57.16bत्वं पश्य मां जुहूषन्तं त्वदर्थं जीवितं युधि ॥ १६ ॥ | 6.57.16bत्वं पश्य मां जुहूषन्तं त्वदर्थं जीवितं युधि ॥ 6.57.16 ॥ | ||
| 34 | #17aಏವಮುಕ್ತ್ವಾ ತು ಭರ್ತಾರಂ ರಾವಣಂ ವಾಹಿನೀಪತಿಃ । | 6.57.17aएवमुक्त्वा तु भर्तारं रावणं वाहिनीपतिः । | 6.45.17aएवमुक्त्वा तु भर्तारं रावणं वाहिनीपतिः । | 6.57.17aएवमुक्त्वा तु भर्तारं रावणं वाहिनीपतिः । | 6.57.17aएवमुक्त्वा तु भर्तारं रावणं वाहिनीपतिः। | ||
| 35 | #17bಉವಾಚೇದಂ ಬಲಾಧ್ಯಕ್ಷಾನ್ ಪ್ರಹಸ್ತಃ ಪುರತಃ ಸ್ಥಿತಾನ್ ॥ | 6.57.17bउवाचेदं बलाध्यक्षान् प्रहस्तः पुरतः स्थितान् ॥ १७ ॥ | 6.57.17bउवाचेदं बलाध्यक्षान्प्रहस्तः पुरतः स्थितान् ॥ १७ ॥ | 6.57.17bउवाचेदं बलाध्यक्षान् प्रहस्तः पुरतः स्थितान् ॥ 6.57.17 ॥ | |||
| 36 | #18aಸಮಾನಯತ ಮೇ ಶೀಘ್ರಂ ರಾಕ್ಷಸಾನಾಂ ಮಹಾಬಲಮ್ । | 6.57.18aसमानयत मे शीघ्रं राक्षसानां महाबलम् । | 6.45.17bसमानयत मे शीघ्रं राक्षसानां महद्बलम् ॥6.45.17॥ | 6.57.18समानयत मे शीघ्रं राक्षसानां महद्बलम् ॥ १८ ॥ | 6.57.18समानयत मे शीघ्रं राक्षसानां महद्बलम् ॥ 6.57.18 ॥ | ||
| 37 | #18bಮದ್ಬಾಣಾನಾಂ ತು ವೇಗೇನ ಹತಾನಾಂ ಚ ರಣಾಜಿರೇ ॥ | 6.57.18bमद्बाणानां तु वेगेन हतानां च रणाजिरे ॥ १८ ॥ | 6.45.18aमद्बाणाशनिवेगेन हतानां तु रणाजिरे । | 6.57.19aमद्बाणशतवेगेन हतानां च रणाजिरे । | 6.57.19aमद्बाणशतवेगेन हतानां च रणाजिरे। | ||
| 38 | #19aಅದ್ಯ ತೃಪ್ಯಂತು ಮಾಂಸಾದಾಃ ಪಕ್ಷಿಣಃ ಕಾನನೌಕಸಾಮ್ । | 6.57.19aअद्य तृप्यन्तु मांसादाः पक्षिणः काननौकसाम् । | 6.45.18bअद्य तृप्यन्तु मांसेन पक्षिणः काननौकसाम् ॥6.45.18॥ | 6.57.19bअद्य तृप्यन्तु मांसादाः पक्षिणः काननौकसाम् ॥ १९ ॥ | 6.57.19bअद्य तृप्यन्तु मांसादाः पक्षिणः काननौकसाम् ॥ 6.57.19 ॥ | ||
| 39 | 6.45.19aइत्युक्तास्ते प्रहस्तेन बलाध्यक्षाः कृतत्वराः । | 6.57.20aइत्युक्तास्ते ग्रहस्तेन बलाध्यक्षाः कृतत्वराः । | 6.57.20aइत्युक्तास्ते प्रहस्तेन बलाध्यक्षाः कृतत्वराः। | ||||
| 40 | #19bತಸ್ಯ ತದ್ ವಚನಂ ಶ್ರುತ್ವಾ ಬಲಾಧ್ಯಕ್ಷಾಃ ಮಹಾಬಲಾಃ ॥ | 6.57.19bतस्य तद् वचनं श्रुत्वा बलाध्यक्षा महाबलाः ॥ १९ ॥ | |||||
| 41 | #20aಬಲಮುದ್ಯೋಜಯಾಮಾಸುಸ್ತಸ್ಮಿನ್ ರಾಕ್ಷಸಮಂದಿರೇ । | 6.57.20aबलमुद्योजयामासुस्तस्मिन् राक्षसमन्दिरे । | 6.45.19bबलमुद्योजयामासुस्तस्मिन्राक्षसमन्दिरे ॥6.45.19॥ | 6.57.20bबलमुद्योजयामासुस्तस्मिन्राक्षसमन्दिरे ॥ २० ॥ | 6.57.20bबलमुद्योजयामासुस्तस्मिन् राक्षसमन्दिरे ॥ 6.57.20 ॥ | ||
| 42 | #20bಸಾ ಬಭೂವ ಮುಹೂರ್ತೇನ ಭೀಮೈರ್ನಾನಾವಿಧಾಯುಧೈಃ ॥ | 6.57.20bसा बभूव मुहूर्तेन भीमैर्नानाविधायुधैः ॥ २० ॥ | 6.45.20aसा बभूव मुहूर्तेन तिग्मनानाविधायुधैः । | 6.57.21aसा बभूव मुहूर्तेन तिग्मनानाविधायुधैः । | 6.57.21aसा बभूव मुहूर्तेन तिग्मनानाविधायुधैः। | ||
| 43 | #21aಲಂಕಾ ರಾಕ್ಷಸವೀರೈಸ್ತೈರ್ಗಜೈರಿವ ಸಮಾಕುಲಾ । | 6.57.21aलङ्का राक्षसवीरैस्तैर्गजैरिव समाकुला । | 6.45.20bलङ्का राक्षसवीरैस्तैर्गजैरिव समाकुला ॥6.45.20॥ | 6.57.21bलङ्का राक्षसवीरैस्तैर्गजैरिव समाकुला ॥ २१ ॥ | 6.57.21bलङ्का राक्षसवीरैस्तैर्गजैरिव समाकुला ॥ 6.57.21 ॥ | ||
| 44 | #21bಹುತಾಶನಂ ತರ್ಪಯತಾಂ ಬ್ರಾಹ್ಮಣಾಂಶ್ಚ ನಮಸ್ಯತಾಮ್ ॥ | 6.57.21bहुताशनं तर्पयतां ब्राह्मणांश्च नमस्यताम् ॥ २१ ॥ | 6.45.21aहुताशनं तर्पयतां ब्राह्मणांश्च नमस्यताम् । | 6.57.22aहुताशनं तर्पयतां ब्राह्मणांश्च नमस्यताम् । | 6.57.22aहुताशनं तर्पयतां ब्राह्मणांश्च नमस्यताम्। | ||
| 45 | #22aಆಜ್ಯಗಂಧಪ್ರತಿವಹಃ ಸುರಭಿರ್ಮಾರುತೋ ವವೌ । | 6.57.22aआज्यगन्धप्रतिवहः सुरभिर्मारुतो ववौ । | 6.45.21bआज्यगन्धप्रतिवहः सुरभिर्मारुतो ववौ ॥6.45.21॥ | 6.57.22bआज्यगन्धप्रतिवहः सुरभिर्मारुतो ववौ ॥ २२ ॥ | 6.57.22bआज्यगन्धप्रतिवहः सुरभिर्मारुतो ववौ ॥ 6.57.22 ॥ | ||
| 46 | #22bಸ್ರಜಶ್ಚ ವಿವಿಧಾಕಾರಾ ಜಗೃಹುಸ್ತ್ವಭಿಮಂತ್ರಿತಾಃ ॥ | 6.57.22bस्रजश्च विविधाकारा जगृहुस्त्वभिमन्त्रिताः ॥ २२ ॥ | 6.45.22aस्रजश्च विविधाकारा जगृहुस्त्वभिमन्त्रिताः । | 6.57.23aस्रजश्व विविधाकारा जगृहुस्त्वभिमन्त्रिताः । | 6.57.23aस्रजश्च विविधाकारा जगृहुस्त्वभिमन्त्रिताः। | ||
| 47 | #23aಸಂಗ್ರಾಮಸಜ್ಜಾಃ ಸಂಹೃಷ್ಟಾ ಧಾರಯನ್ ರಾಕ್ಷಸಾಸ್ತದಾ । | 6.57.23aसङ्ग्रामसज्जाः संहृष्टा धारयन् राक्षसास्तदा । | 6.45.22bसंग्रामसज्जाः संहृष्टा धारयन्राक्षसास्तदा ॥6.45.22॥ | 6.57.23bसंग्रामसज्जाः संहृष्टा धारयन्राक्षसास्तदा ॥ २३ ॥ | 6.57.23bसङ्ग्रामसज्जाः संहृष्टा धारयन् राक्षसास्तदा ॥ 6.57.23 ॥ | ||
| 48 | #23bಸಧನುಷ್ಕಾಃ ಕವಚಿನೋ ವೇಗಾದಾಪ್ಲುತ್ಯ ರಾಕ್ಷಸಾಃ ॥ | 6.57.23bसधनुष्काः कवचिनो वेगादाप्लुत्य राक्षसाः ॥ २३ ॥ | 6.45.23aसधनुष्काः कवचिनो वेगादाप्लुत्य राक्षसाः । | 6.57.24aसधनुष्काः कवचिनो वेगादाप्लुत्य राक्षसाः । | 6.57.24aसधनुष्काः कवचिनो वेगादाप्लुत्य राक्षसाः। | ||
| 49 | #24aರಾವಣಂ ಪ್ರೇಕ್ಷ್ಯ ರಾಜಾನಂ ಪ್ರಹಸ್ತಂ ಪರ್ಯವಾರಯನ್ । | 6.57.24aरावणं प्रेक्ष्य राजानं प्रहस्तं पर्यवारयन् । | 6.45.23bरावणं प्रेक्ष्य राजानं प्रहस्तं पर्यवारयन् ॥6.45.23॥ | 6.57.24bरावणं प्रेक्ष्य राजानं प्रहस्तं पर्यवारयन् ॥ २४ ॥ | 6.57.24bरावणं प्रेक्ष्य राजानं प्रहस्तं पर्यवारयन् ॥ 6.57.24 ॥ | ||
| 50 | #24bಅಥಾಮಂತ್ರ್ಯ ತು ರಾಜಾನಂ ಭೇರೀಮಾಹತ್ಯ ಭೈರವಾಮ್ ॥ | 6.57.24bअथामन्त्र्य तु राजानं भेरीमाहत्य भैरवाम् ॥ २४ ॥ | 6.45.24aअथामन्त्र्य च राजानं भेरीमाहत्य भैरवाम् । | 6.57.25aअथामन्त्र्य च राजानं भेरीमाहत्य भैरवाम् । | 6.57.25aअथामन्त्र्य च राजानं भेरीमाहत्य भैरवाम्। | ||
| 51 | #25aಆರುರೋಹ ರಥಂ ಯುಕ್ತಃ ಪ್ರಹಸ್ತಃ ಸಜ್ಜ ಕಲ್ಪಿತಮ್ । | 6.57.25aआरुरोह रथं युक्तः प्रहस्तः सज्जकल्पितम् । | 6.45.24bआरुरोह रथं दिव्यं प्रहस्तः सज्जकल्पितम् ॥6.45.24॥ | 6.57.25bआरुरोह रथं दिव्यं प्रहस्तः सज्जकल्पितम् ॥ २५ ॥ | 6.57.25bआरुरोह रथं दिव्यं प्रहस्तः सज्जकल्पितम् ॥ 6.57.25 ॥ | ||
| 52 | #25bಹಯೈರ್ಮಹಾಜವೈರ್ಯುಕ್ತಂ ಸಮ್ಯಕ್ಸೂತಂ ಸುಸಂಯತಮ್ ॥ | 6.57.25bहयैर्महाजवैर्युक्तं सम्यक्सूतं सुसंयतम् ॥ २५ ॥ | 6.45.25aहयैर्महाजवैर्युक्तं सम्यक्सूतसुसंयुतम् । | 6.57.26aहयैर्महाजवैर्युक्तं सम्यक्सूतसुसंयतम् । | 6.57.26aहयैर्महाजवैर्युक्तं सम्यक् सूतसुसंयतम्। | ||
| 53 | #26aಮಹಾಜಲದನಿರ್ಘೋಷಂ ಸಾಕ್ಷಾಚ್ಚಂದ್ರಾರ್ಕಭಾಸ್ಕರಮ್ । | 6.57.26aमहाजलदनिर्घोषं साक्षाच्चन्द्रार्कभास्वरम् । | 6.45.25bमहाजलदनिर्घोषं साक्षाच्चन्द्रार्कभास्वरम् ॥6.45.25॥ | 6.57.26bमहाजलदनिर्घोषं साक्षाच्चन्द्रार्कभास्वरम् ॥ २६ ॥ | 6.57.26bमहाजलदनिर्घोषं साक्षाच्चन्द्रार्कभास्वरम् ॥ 6.57.26 ॥ | ||
| 54 | #26b(ಶ್ಲೋಕ - 26½) ಉರಗಧ್ವಜದುರ್ಧರ್ಷಂ ಸವರೂಥಂ ಸ್ವಪಸ್ಕರಮ್ ॥ | 6.57.26bउरगध्वजदुर्धर्षं सुवरूथं स्वपस्करम् ॥ २६ ॥ | 6.45.26aउरगध्वजदुर्धर्षं सुवरूथं स्वपस्करम् । | 6.57.27aउरगध्वजदुर्धर्षं सुवरूथं स्वपस्करम् । | 6.57.27aउरगध्वजदुर्द्धर्षं सुवरूथं स्वपस्करम्। | ||
| 55 | #27aಸುವರ್ಣಜಾಲಸಂಯುಕ್ತಂ ಪ್ರಹಸಂತಮಿವ ಶ್ರಿಯಾ । | 6.57.27aसुवर्णजालसंयुक्तं प्रहसन्तमिव श्रिया । | 6.45.26bसुवर्णजालसंयुक्तं प्रहसन्तमिव श्रिया ॥6.45.26॥ | 6.57.27bसुवर्णजालसंयुक्तं प्रहसन्तमिव श्रिया ॥ २७ ॥ | 6.57.27bसुवर्णजालसंयुक्तं प्रहसन्तमिव श्रिया ॥ 6.57.27 ॥ | ||
| 56 | #27bತತಸ್ತಂ ರಥಮಾಸ್ಥಾಯ ರಾವಣಾರ್ಪಿತಶಾಸನಃ ॥ | 6.57.27bततस्तं रथमास्थाय रावणार्पितशासनः ॥ २७ ॥ | 6.45.27aततस्तं रथमास्थाय रावणार्पितशासनः । | 6.57.28aततस्तं रथमास्थाय रावणार्पितशासनः । | 6.57.28aततस्तं रथमास्थाय रावणार्पितशासनः। | ||
| 57 | #28aಲಂಕಾಯಾ ನಿರ್ಯಯೌ ತೂರ್ಣಂ ಬಲೇನ ಮಹತಾ ವೃತಃ । | 6.57.28aलङ्काया निर्ययौ तूर्णं बलेन महता वृतः । | 6.45.27bलङ्काया निर्ययौ तूर्णं बलेन महता वृतः ॥6.45.27॥ | 6.57.28bलङ्काया निर्ययौ तूर्णं बलेन महताऽऽवृतः ॥ २८ ॥ | 6.57.28bलङ्काया निर्ययौ तूर्णं बलेन महता वृतः ॥ 6.57.28 ॥ | ||
| 58 | #28bತತೋ ದುಂದುಭಿನಿರ್ಘೋಷಃ ಪರ್ಜನ್ಯ ನಿನದೋಪಮಃ । | 6.57.28bततो दुन्दुभिनिर्घोषः पर्जन्यनिनदोपमः । | 6.45.28aततो दुंदुभिनिर्घोषः पर्जन्यनिनदोपमः । | #29aततो दुन्दुभिनिर्घोषः पर्जन्यनिनदोपमः । | |||
| 59 | #28cವಾದಿತ್ರಾಣಾಂ ಚ ನಿನದಃ ಪೂರಯನ್ನಿವ ಮೇದಿನೀಮ್ ॥ | 6.57.28cवादित्राणां च निनदः पूरयन्निव मेदिनीम् ॥ २८ ॥ | #29bवादित्राणां च निनदः पूरयन्निव सागरम् ॥ | 6.57.29aवादित्राणां च निनदः पूरयन्निव सागरम्। | |||
| 60 | #29aಶುಶ್ರುವೇ ಶಂಖಶಬ್ದಶ್ಚ ಪ್ರಯಾತೇ ವಾಹಿನೀಪತೌ । | 6.57.29aशुश्रुवे शङ्खशब्दश्च प्रयाते वाहिनीपतौ । | 6.45.28bशुश्रुवे शङ्खशब्दश्च प्रयाते वाहिनीपतौ ॥6.45.28॥ | 6.57.29शुश्रुषे शङ्खशब्दश्च प्रयाते वाहिनीपतौ ॥ २९ ॥ | 6.57.29bशुश्रुवे शङ्खशब्दश्च प्रयाते वाहिनीपतौ ॥ 6.57.29 ॥ | ||
| 61 | #29bನಿನದಂತಃ ಸ್ವರಾನ್ಘೋರಾನ್ ರಾಕ್ಷಸಾ ಜಗ್ಮುರಗ್ರತಃ ॥ | 6.57.29bनिनदन्तः स्वरान् घोरान् राक्षसा जग्मुरग्रतः ॥ २९ ॥ | 6.45.29aनिनदन्तः स्वरान्घोरान्राक्षसा जग्मुरग्रतः । | 6.57.30aनिनदन्तः स्वरान्घोरान्राक्षसा जग्मुरग्रतः । | 6.57.30aनिनदन्तः स्वरान् घोरान् राक्षसा जग्मुरग्रतः। | ||
| 62 | #30aಭೀಮರೂಪಾ ಮಹಾಕಾಯಾಃ ಪ್ರಹಸ್ತಸ್ಯ ಪುರಃ ಸರಾಃ । | 6.57.30aभीमरूपा महाकायाः प्रहस्तस्य पुरःसराः । | 6.45.29bभीमरूपा महाकायाः प्रहस्तस्य पुरःसराः ॥6.45.29॥ | 6.57.30bभीमरूपा महाकायाः प्रहस्तस्य पुरस्सराः ॥ ३० ॥ | 6.57.30bभीमरूपा महाकायाः प्रहस्तस्य पुरस्सराः ॥ 6.57.30 ॥ | ||
| 63 | #30bನರಾಂತಕಃ ಕುಂಭಹನುರ್ಮಹಾನಾದಃ ಸಮುನ್ನತಃ । | 6.57.30bनरान्तकः कुम्भहनुर्महानादः समुन्नतः । | 6.57.31aनरान्तकः कुम्भहनुर्महानादः समुन्नतः । | 6.57.31aनरान्तकः कुम्भहनुर्महानादः समुन्नतः। | |||
| 64 | #30cಪ್ರಹಸ್ತಸಚಿವಾ ಹ್ಯೇತೇ ನಿರ್ಯಯುಃ ಪರಿವಾರ್ಯ ತಮ್ ॥ | 6.57.30cप्रहस्तसचिवा ह्येते निर्ययुः परिवार्य तम् ॥ ३० ॥ | 6.57.31bप्रहस्तसचिवा ह्येते निर्ययुः परिवार्य तम् ॥ ३१ ॥ | 6.57.31bप्रहस्तसचिवा ह्येते निर्ययुः परिवार्य तम् ॥ 6.57.31 ॥ | |||
| 65 | #31aವ್ಯೂಢೇನೈವ ಸುಘೋರೇಣ ಪೂರ್ವ ದ್ವಾರಾತ್ ಸ ನಿರ್ಯಯೌ । | 6.57.31aव्यूढेनैव सुघोरेण पूर्वद्वारात् स निर्ययौ । | 6.45.30aव्यूढेनैव सुघोरेण पूर्वद्वारात्स निर्ययौ । | 6.57.32aव्यूढेनैव सुघोरेण पूर्वद्वारात्स निर्ययौ । | 6.57.32aव्यूढेनैव सुघोरेण पूर्वद्वारात् स निर्ययौ। | ||
| 66 | #31bಗಜಯೂಥನಿಕಾಶೇನ ಬಲೇನ ಮಹತಾ ವೃತಃ ॥ | 6.57.31bगजयूथनिकाशेन बलेन महता वृतः ॥ ३१ ॥ | 6.45.30bगजयूथनिकाशेन बलेन महता वृतः ॥6.45.30॥ | 6.57.32bगजयूथनिकाशेन बलेन महता वृतः ॥ ३२ ॥ | 6.57.32bगजयूथनिकाशेन बलेन महता वृतः ॥ 6.57.32 ॥ | ||
| 67 | #32aಸಾಗರಪ್ರತಿಮೌಘೇನ ವೃತಸ್ತೇನ ಬಲೇನ ಸಃ । | 6.57.32aसागरप्रतिमौघेन वृतस्तेन बलेन सः । | 6.45.31aसागरप्रतिमौघेन वृतस्तेन बलेन सः । | 6.57.33aसागरप्रतिमौघेन वृतस्तेन बलेन सः । | 6.57.33aसागरप्रतिमौघेन वृतस्तेन बलेन सः। | ||
| 68 | #32bಪ್ರಹಸ್ತೋ ನಿರ್ಯಯೌ ಕ್ರುದ್ಧಃ ಕಾಲಾಂತಕಯಮೋಪಮಃ ॥ | 6.57.32bप्रहस्तो निर्ययौ क्रुद्धः कालान्तकयमोपमः ॥ ३२ ॥ | 6.45.31bप्रहस्तो निर्ययौ तूर्णं क्रुद्धः कालान्तकोपमः ॥6.45.31॥ | 6.57.33bप्रहस्तो निर्ययौ तूर्णं कालान्तकयमोपमः ॥ ३३ ॥ | 6.57.33bप्रहस्तो निर्ययौ तूर्णं कालान्तकयमोपमः ॥ 6.57.33 ॥ | ||
| 69 | #33aತಸ್ಯ ನಿರ್ಯಾಣಘೋಷೇಣ ರಾಕ್ಷಸಾನಾಂ ಚ ನರ್ದತಾಮ್ । | 6.57.33aतस्य निर्याणघोषेण राक्षसानां च नर्दताम् । | 6.45.32aतस्य निर्याण घोषेण राक्षसानां च नर्दताम् । | 6.57.34aतस्य निर्याणघोषेण राक्षसानां च नर्दताम् । | 6.57.34aतस्य निर्याणघोषेण राक्षसानां च नर्दताम्। | ||
| 70 | #33bಲಂಕಾಯಾಂ ಸರ್ವಭೂತಾನಿ ವಿನೇದುರ್ವಿಕೃತೈಃ ಸ್ವರೈಃ ॥ | 6.57.33bलङ्कायां सर्वभूतानि विनेदुर्विकृतैः स्वरैः ॥ ३३ ॥ | 6.45.32bलङ्कायां सर्वभूतानि विनेदुर्विकृतैः स्वरैः ॥6.45.32॥ | 6.57.34bलङ्कायां सर्वभूतानि विनेदुर्विकृतैः स्वरैः ॥ ३४ ॥ | 6.57.34bलङ्कायां सर्वभूतानि विनेदुर्विकृतैः स्वरैः ॥ 6.57.34 ॥ | ||
| 71 | #34aವ್ಯಭ್ರಮಾಕಾಶಮಾವಿಶ್ಯ ಮಾಂಸಶೋಣಿತ ಭೋಜನಾಃ । | 6.57.34aव्यभ्रमाकाशमाविश्य मांसशोणितभोजनाः । | 6.45.33aव्यभ्रमाकाशमाविश्य मांसशोणितभोजनाः । | 6.57.35aव्यभ्रमाकाशमाविश्य मांसशोणितभोजनाः । | 6.57.35aव्यभ्रमाकाशमाविश्य मांसशोणितभोजनाः। | ||
| 72 | #34bಮಂಡಲಾನ್ಯಪಸವ್ಯಾನಿ ಖಗಾಶ್ಚಕ್ರೂ ರಥಂ ಪ್ರತಿ ॥ | 6.57.34bमण्डलान्यपसव्यानि खगाश्चक्रू रथं प्रति ॥ ३४ ॥ | 6.45.33bमण्डलान्यपसव्यानि खगाश्चक्रू रथं प्रति ॥6.45.33॥ | 6.57.35bमण्डलान्यपसव्यानि स्वगाश्चक्रू रथं प्रति ॥ ३५ ॥ | 6.57.35bमण्डलान्यपसव्यानि खगाश्चक्रू रथं प्रति ॥ 6.57.35 ॥ | ||
| 73 | #35aವಮಂತ್ಯಃ ಪಾವಕಜ್ವಾಲಾಃ ಶಿವಾ ಘೋರಾ ವವಾಶಿರೇ । | 6.57.35aवमन्त्यः पावकज्वालाः शिवा घोरा ववाशिरे । | 6.45.34वमन्त्यः पावकज्वालाः शिवा घोरा ववाशिरे ॥6.45.34॥ | 6.57.37aवमन्त्यः पावकज्वालाः शिवा घोरं ववाशिरे । | 6.57.36aवमन्त्यः पावकज्वालाः शिवा घोरं ववाशिरे। | ||
| 74 | #35bಅಂತರಿಕ್ಷಾತ್ ಪಪಾತೋಲ್ಕಾ ವಾಯುಶ್ಚ ಪರುಷಂ ವವೌ ॥ | 6.57.35bअन्तरिक्षात् पपातोल्का वायुश्च परुषं ववौ ॥ ३५ ॥ | 6.45.35aअन्तरिक्षात्पपातोल्का वायुश्च परुषो ववौ । | 6.57.37bअन्तरिक्षात्पपातोल्का वायुश्च परुषो ववौ ३६ अन्योन्यमभिसंरब्धा ग्रहाश्च न चकाशिरे ॥ ३७ ॥ | 6.57.36bअन्तरिक्षात् पपातोल्का वायुश्च परुषो ववौ ॥ 6.57.36 ॥ | ||
| 75 | #36aಅನ್ಯೋನ್ಯಮಭಿಸಂರಬ್ಧಾ ಗ್ರಹಾಶ್ಚ ನ ಚಕಾಶಿರೇ । | 6.57.36aअन्योन्यमभिसंरब्धा ग्रहाश्च न चकाशिरे । | 6.45.35bअन्योन्यमभिसंरब्धा ग्रहाश्च न चकाशिरे ॥6.45.35॥ | 6.57.37अन्योन्यमभिसंरब्धा ग्रहाश्च न चकाशिरे ॥ 6.57.37 ॥ | |||
| 76 | #36bಮೇಘಾಶ್ಚ ಖರನಿರ್ಘೋಷಾ ರಥಸ್ಯೋಪರಿ ರಕ್ಷಸಃ ॥ | 6.57.36bमेघाश्च खरनिर्घोषा रथस्योपरि रक्षसः ॥ ३६ ॥ | 6.57.38aमेघाश्च खरनिर्घोषा रथस्योपरि रक्षसः । | 6.57.38aमेघाश्च खरनिर्घोषा रथस्योपरि रक्षसः। | |||
| 77 | #37aವವೃರ್ಷೂ ರುಧಿರಂ ಚಾಸ್ಯಸಿಷಿಚುಶ್ಚ ಪುರಃಸರಾನ್ । | 6.57.37aववर्षू रुधिरं चास्य सिषिचुश्च पुरःसरान् । | 6.45.36aववर्षू रुधिरं चास्य सिषिचुश्च पुरःसरान् । | 6.57.38bववृषू रुधिरं चास्य सिषिचुञ्च पुरस्सरान् ॥ ३८ ॥ | 6.57.38bववृषू रुधिरं चास्य सिषिचुश्च पुरस्सरान् ॥ 6.57.38 ॥ | ||
| 78 | #37bಕೇತುಮೂರ್ಧನಿ ಗೃಧ್ರಸ್ತು ವಿಲೀನೋ ದಕ್ಷಿಣಾಮುಖಃ ॥ | 6.57.37bकेतुमूर्धनि गृध्रस्तु विलीनो दक्षिणामुखः ॥ ३७ ॥ | 6.45.36bकेतुमूर्धनि गृध्रोऽस्य विलीनो दक्षिणामुखः ॥6.45.36॥ | 6.57.39aकेतुमूर्धन गृध्रोस्य निलीनो दक्षिणामुखः । | 6.57.39aकेतुमूर्धनि गृध्रोऽस्य निलीनो दक्षिणामुखः। | ||
| 79 | #38aತುದನ್ನುಭಯತಃ ಪಾರ್ಶ್ವಂ ಸಮಗ್ರಾಂಶ್ರಿಯಮಾಹರತ್ । | 6.57.38aनदन्नुभयतः पार्श्वं समग्रां श्रियमाहरत् । | 6.57.39bतुदन्नुभयतः पार्श्वं समग्रामहरत्प्रभाम् ॥ ३९ ॥ | 6.57.39bतुदन्नुभयतः पार्श्वं समग्रामहरत् प्रभाम् ॥ 6.57.39 ॥ | |||
| 80 | #38bಸಾರಥೇರ್ಬಹುಶಶ್ಚಾಸ್ಯ ಸಂಗ್ರಾಮಮವಗಾಹತಃ ॥ | 6.57.38bसारथेर्बहुशश्चास्य सङ्ग्राममवगाहतः ॥ ३८ ॥ | 6.45.37aसारथेर्बहुशश्चास्य संग्राममवगाहतः । | 6.57.40aसारथेर्बहुशश्चास्य संग्राममवगाहतः । | 6.57.40aसारथेर्बहुशश्चास्य सङ्ग्राममवगाहतः। | ||
| 81 | #39aಪ್ರತೋದೋ ನ್ಯಪತದ್ಧಸ್ತಾತ್ಸೂತಸ್ಯ ಹಯಸಾದಿನಃ । | 6.57.39aप्रतोदो न्यपतद्धस्तात् सूतस्य हयसादिनः । | 6.45.37bप्रतोदो न्यपतद्धस्तात्सूतस्य हयसादिनः ॥6.45.37॥ | 6.57.40bप्रतोदो न्यपतद्वस्तात्सूतस्य हयसादिनः ॥ ४० ॥ | 6.57.40bप्रतोदो न्यपतद्धस्तात् सूतस्य हयसादिनः ॥ 6.57.40 ॥ | ||
| 82 | #39bನಿರ್ಯಾಣಶ್ರೀಶ್ಚ ಯಾಚ ಸ್ಯಾದ್ ಭ್ರಾಸ್ವರಾ ಚ ಸುದುರ್ಲಭಾ ॥ | 6.57.39bनिर्याणश्रीश्च या च स्याद् भास्वरा च सुदुर्लभा ॥ ३९ ॥ | 6.45.38aनिर्याण श्रीश्च यास्यासीद्भास्वरा च सुदुर्लभा । | 6.57.41aनिर्याणश्रीश्च यास्यासीद्भास्वरा वसुदुर्लभा । | 6.57.41aनिर्याणश्रीश्च याऽस्यासीद्भास्वरा वसुदुर्लभा। | ||
| 83 | #40aಸಾ ನನಾಶ ಮುಹೂರ್ತೇನ ಸಮೇ ಚ ಸ್ಖಲಿತಾ ಹಯಾಃ । | 6.57.40aसा ननाश मुहूर्तेन समे च स्खलिता हयाः । | 6.45.38bसा ननाश मुहूर्तेन समे च स्खलिता हयाः ॥6.45.38॥ | 6.57.41bसा ननाश मुहूर्तेन समे च स्खलिता हयाः ॥ ४१ ॥ | 6.57.41bसा ननाश मुहूर्तेन समे च स्खलिता हयाः ॥ 6.57.41 ॥ | ||
| 84 | #40bಪ್ರಹಸ್ತಂ ತಂ ಹಿ ನಿರ್ಯಾಂತಂ ಪ್ರಖ್ಯಾತ ಗುಣಪೌರುಷಮ್ । | 6.57.40bप्रहस्तं तं हि निर्यान्तं प्रख्यातगुणपौरुषम् । | 6.45.39aप्रहस्तं त्वभिनिर्यान्तं प्रख्यात बलपौरुषम् । | 6.57.42aग्रहस्तं त्वभिनिर्यान्तं प्रख्यातबलपौरुषम् । | 6.57.42aप्रहस्तं त्वभिनिर्यान्तं प्रख्यातबलपौरुषम्। | ||
| 85 | #40cಯುಧಿ ನಾನಾ ಪ್ರಹರಣಾ ಕಪಿಸೇನಾಭ್ಯವರ್ತತ ॥ | 6.57.40cयुधि नानाप्रहरणा कपिसेनाभ्यवर्तत ॥ ४० ॥ | 6.45.39bयुधि नानाप्रहरणा कपिसेनाभ्यवर्तत ॥6.45.39॥ | 6.57.42bयुधि नानाप्रहरणा कपिसेनाऽभ्यवर्तत ॥ ४२ ॥ | 6.57.42bयुधि नानाप्रहरणा कपिसेनाऽभ्यवर्तत ॥ 6.57.42 ॥ | ||
| 86 | #41aಅಥ ಘೋಷಃ ಸುತುಮುಲೋ ಹರೀಣಾಂ ಸಮಜಾಯತ । | 6.57.41aअथ घोषः सुतुमुलो हरीणां समजायत । | 6.45.40aअथ घोषः सुतुमुलो हरीणां समजायत । | 6.57.43aअथ घोषः सुतुमुलो हरीणां समजायत । | 6.57.43aअथ घोषः सुतुमुलो हरीणां समजायत। | ||
| 87 | #41bವೃಕ್ಷಾನಾರುಜತಾಂ ಚೈವ ಗುರ್ವೀರ್ವೈಗೃಹ್ಣತಾಂ ಶಿಲಾಃ ॥ | 6.57.41bवृक्षानारुजतां चैव गुर्वीर्वै गृह्णतां शिलाः ॥ ४१ ॥ | 6.45.40bवृक्षानारुजतां चैव गुर्वीश्चागृह्णतां शिलाः ॥6.45.40॥ | 6.57.43bवृक्षानारुजतां चैव गुर्वीरागृह्णतां शिलाः ॥ ४३ ॥ | 6.57.43bवृक्षानारुजतां चैव गुर्वीरागृह्णतां शिलाः ॥ 6.57.43 ॥ | ||
| 88 | #42aನದತಾಂ ರಾಕ್ಷಸಾನಾಂ ಚ ವಾನರಾಣಾಂ ಚ ಗರ್ಜತಾಮ್ । | 6.57.42aनदतां राक्षसानां च वानराणां च गर्जताम् । | 6.57.44aनदतां राक्षसानां च वानराणां च गर्जताम् । | 6.57.44aनदतां राक्षसानां च वानराणां च गर्जताम्। | |||
| 89 | #42bಉಭೇ ಪ್ರಮುದಿತೇ ಸೈನ್ಯೇ ರಕ್ಷೋಗಣ ವನೌಕಸಾಮ್ ॥ | 6.57.42bउभे प्रमुदिते सैन्ये रक्षोगणवनौकसाम् ॥ ४२ ॥ | 6.45.41aउभे प्रमुदिते सैन्ये रक्षोगणवनौकसाम् । | 6.57.44bउभे प्रमुदिते सैन्ये रक्षोगणवनौकसाम् ॥ ४४ ॥ | 6.57.44bउभे प्रमुदिते सैन्ये रक्षोगणवनौकसाम् ॥ 6.57.44 ॥ | ||
| 90 | #43aವೇಗಿತಾನಾಂ ಸಮರ್ಥಾನಾಮನ್ಯೋನ್ಯವಧಕಾಂಕ್ಷಿಣಾಮ್ । | 6.57.43aवेगितानां समर्थानामन्योन्यवधकाङ्क्षिणाम् । | 6.45.41bवेगितानां समर्थानामन्योन्यवधकाङ्क्षिणाम् । | 6.57.45aवेगितानां समर्थानामन्योन्यवधकाङ्क्षिणाम् । | 6.57.45aवेगितानां समर्थानामन्योन्यवधकाङ्क्षिणाम्। | ||
| 91 | #43bಪರಸ್ಪರಂ ಚಾಹ್ವಯತಾಂ ನಿನಾದಃ ಶ್ರೂಯತೇ ಮಹಾನ್ ॥ | 6.57.43bपरस्परं चाह्वयतां निनादः श्रूयते महान् ॥ ४३ ॥ | 6.45.41cपरस्परं चाह्वयतां निनादः श्रूयते महान् ॥6.45.41॥ | 6.57.45bपरस्परं चाह्वयतां निनादः श्रूयते महान् ॥ ४५ ॥ | 6.57.45bपरस्परं चाह्वयतां निनादः श्रूयते महान् ॥ 6.57.45 ॥ | ||
| 92 | #44aತತಃ ಪ್ರಹಸ್ತಃ ಕಪಿರಾಜವಾಹಿನೀ ಮಭಿಪ್ರತಸ್ಥೇ ವಿಜಯಾಯ ದುರ್ಮತಿಃ । | 6.57.44aततः प्रहस्तः कपिराजवाहिनी- मभिप्रतस्थे विजयाय दुर्मतिः । | 6.45.42aततः प्रहस्तः कपिराजवाहिनी मभिप्रतस्थे विजयाय दुर्मतिः । | 6.57.46aततः प्रहस्तः कपिराजवाहिनीमभिप्रतस्थे विजयाय दुर्मतिः । | 6.57.46aततः प्रहस्तः कपिराजवाहिनीमभिप्रतस्थे विजयाय दुर्मतिः। | ||
| 93 | #44bವಿವೃದ್ಧವೇಗಾಂ ಚ ವಿವೇಶ ತಾಂ ಚಮೂಂ ಯಥಾ ಮುಮೂರ್ಷುಃ ಶಲಭೋ ವಿಭಾವಸುಮ್ ॥ | 6.57.44bविवृद्धवेगां च विवेश तां चमूं यथा मुमूर्षुः शलभो विभावसुम् ॥ ४४ ॥ | 6.45.42bविवृद्धवेगां च विवेश तां चमूं यथा मुमूर्षुः शलभो विभावसुम् ॥6.45.42॥ | 6.57.46bविवृद्धवेगां च विवेश तां चमूं यथा मुमूर्षुः शलभो विभावसुम् ॥ ४६ ॥ | 6.57.46bविवृद्धवेगां च विवेश तां चमूं यथा मुमूर्षुः शलभो विभावसुम् ॥ 6.57.46 ॥ | ||
| 94 | 6.57.57इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने सप्तपञ्चाशः सर्गः ॥ ५७ ॥ |