सरमया सीताश्वासनम्. Built from structured/verses.jsonl. Rows are monotone-aligned half-verse/pāda-like units split at । and ॥, so verse-number boundary differences can appear as inserted or shifted line rows.
58 aligned line rows across 7 source streams.
gor-kn 57 lines
gor-hi 57 lines
crit 57 lines
gr 58 lines
dr-mula 56 lines
| # | gor-kn | gor-hi | crit | gr | dr-mula | gr-iitk | iitk |
|---|---|---|---|---|---|---|---|
| 1 | #1aಅಥ ತಾಂ ಜಾತಸಂತಾಪಾಂ ತೇನ ವಾಕ್ಯೇನ ಮೋಹಿತಾಮ್ । | 6.34.1aअथ तां जातसन्तापां तेन वाक्येन मोहिताम् । | 6.25.1aअथ तां जातसंतापां तेन वाक्येन मोहिताम् । | 6.34.1aअथ तां जातसन्तापां तेन वाक्येन मोहिताम् । | 6.34.1aअथ तां जातसन्तापां तेन वाक्येन मोहिताम्। | ||
| 2 | #1bಸರಮಾ ಹ್ಲಾದಯಾಮಾಸ ಮಹೀಂ ದಗ್ಧಾಮಿವಾಂಭಸಾ ॥ | 6.34.1bसरमा ह्लादयामास महीं दग्धामिवाम्भसा ॥ १ ॥ | 6.25.1bसरमा ह्लादयामास पृतिवीं द्यौरिवाम्भसा ॥6.25.1॥ | 6.34.1bसरमा ह्लादयामास पृतिवीं द्यौरिवाम्भसा ॥ १ ॥ | 6.34.1bसरमा ह्लादयामास पृथिवीं द्यौरिवाम्भसा ॥ 6.34.1 ॥ | ||
| 3 | #2aತತಸ್ತಸ್ಯಾ ಹಿತಂ ಸಖ್ಯಾಶ್ಚಿಕೀರ್ಷಂತೀ ಸಖೀ ವಚಃ । | 6.34.2aततस्तस्या हितं सख्याश्चिकीर्षन्ती सखी वचः । | 6.25.2aततस्तस्या हितं सख्याश्चिकीर्षन्ती सखी वचः । | 6.34.2aततस्तस्या हितं सख्याश्चिकीर्षन्ती सखीवचः । | 6.34.2aततस्तस्या हितं सख्याश्चिकीर्षन्ती सखी वचः। | ||
| 4 | #2bಉವಾಚ ಕಾಲೇ ಕಾಲಜ್ಞಾ ಸ್ಮಿತಪೂರ್ವಾಭಿ ಭಾಷಿಣೀ ॥ | 6.34.2bउवाच काले कालज्ञा स्मितपूर्वाभिभाषिणी ॥ २ ॥ | 6.25.2bउवाच काले कालज्ञा स्मितपूर्वाभिभाषिणी ॥6.25.2॥ | 6.34.2bउवाच काले कालज्ञा स्मितपूर्वाभिभाषिणी ॥ २ ॥ | 6.34.2bउवाच काले कालज्ञा स्मितपूर्वाभिभाषिणी ॥ 6.34.2 ॥ | ||
| 5 | #3aಉತ್ಸಹೇಯಮಹಂ ಗತ್ವಾ ತ್ವದ್ವಾಕ್ಯಮಸಿತೇಕ್ಷಣೇ । | 6.34.3aउत्सहेयमहं गत्वा त्वद्वाक्यमसितेक्षणे । | 6.25.3aउत्सहेयमहं गत्वा त्वद्वाक्यमसितेक्षणे । | 6.34.3aउत्सहेयमहं गत्वा त्वद्वाक्यमसितेक्षणे । | 6.34.3aउत्सहेयमहं गत्वा त्वद्वाक्यमसितेक्षणे। | ||
| 6 | #3bನಿವೇದ್ಯ ಕುಶಲಂ ರಾಮೇ ಪ್ರತಿಚ್ಛನ್ನಾ ನಿವರ್ತಿತುಮ್ ॥ | 6.34.3bनिवेद्य कुशलं रामे प्रतिच्छन्ना निवर्तितुम् ॥ ३ ॥ | 6.25.3bनिवेद्य कुशलं रामे प्रतिच्छन्ना निवर्तितुम् ॥6.25.3॥ | 6.34.3bनिवेद्य कुशलं रामे प्रतिच्छन्ना निवर्तितुम् ॥ ३ ॥ | 6.34.3bनिवेद्य कुशलं रामे प्रतिच्छन्ना निवर्तितुम् ॥ 6.34.3 ॥ | ||
| 7 | #4aನಹಿ ಮೇ ಕ್ರಮಮಾಣಾಯಾ ನಿರಾಲಂಬೇ ವಿಹಾಯಸಿ । | 6.34.4aनहि मे क्रममाणाया निरालम्बे विहायसि । | 6.25.4aन हि मे क्रममाणाया निरालम्बे विहायसि । | 6.34.4aन हि मे क्रममाणाया निरालम्बे विहायसि । | 6.34.4aन हि मे क्रममाणाया निरालम्बे विहायसि। | ||
| 8 | #4bಸಮರ್ಥೋ ಗತಿಮನ್ವೇತುಂ ಪವನೋ ಗರುಡೋಽಪಿ ವಾ ॥ | 6.34.4bसमर्थो गतिमन्वेतुं पवनो गरुडोऽपि वा ॥ ४ ॥ | 6.25.4bसमर्थो गतिमन्वेतुं पवनो गरुडोऽपि वा ॥6.25.4॥ | 6.34.4bसमर्थो गतिमन्वेतुं पवनो गरुडोऽपि वा ॥ ४ ॥ | 6.34.4bसमर्थो गतिमन्वेतुं पवनो गरुडोऽपि वा ॥ 6.34.4 ॥ | ||
| 9 | #5aಏವಂ ಬ್ರುವಾಣಾಂ ತಾಂ ಸೀತಾ ಸರಮಾಮಿದನುಬ್ರವೀತ್ । | 6.34.5aएवं ब्रुवाणां तां सीता सरमामिदमब्रवीत् । | 6.25.5aएवं ब्रुवाणां तां सीता सरमां पुनरब्रवीत् । | 6.34.5aएवं ब्रुवाणां तां सीता सरमां पुनरब्रवीत् । | 6.34.5aएवं ब्रुवाणां तां सीता सरमां पुनरब्रवीत्। | ||
| 10 | #5bಮಧುರಂ ಶ್ಲಕ್ಷ್ಣಯಾ ವಾಚಾ ಪೂರ್ವಶೋಕಾಭಿಪನ್ನಯಾ ॥ | 6.34.5bमधुरं श्लक्ष्णया वाचा पूर्वशोकाभिपन्नया ॥ ५ ॥ | 6.25.5bमधुरं श्लक्ष्णया वाचा पूर्वशोकाभिपन्नया ॥6.25.5॥ | 6.34.5bमधुरं श्लक्ष्णया वाचा पूर्वं शोकाभिपन्नया ॥ ५ ॥ | 6.34.5bमधुरं श्लक्ष्णया वाचा पूर्वं शोकाभिपन्नया ॥ 6.34.5 ॥ | ||
| 11 | #6aಸಮರ್ಥಾ ಗಗನಂ ಗಂತುಮಪಿ ಚ ತ್ವಂ ರಸಾತಲಮ್ । | 6.34.6aसमर्था गगनं गन्तुमपि च त्वं रसातलम् । | 6.25.6aसमर्था गगनं गन्तुमपि वा त्वं रसातलम् । | 6.34.6aसमर्था गगनं गन्तुमपि वा त्वं रसातलम् । | 6.34.6aसमर्था गगनं गन्तुमपि वा त्वं रसातलम्। | ||
| 12 | #6bಅವಗಚ್ಛಾದ್ಯ ಕರ್ತವ್ಯಂ ಕರ್ತವ್ಯಂ ತೇ ಮದಂತರೇ ॥ | 6.34.6bअवगच्छाद्य कर्तव्यं कर्तव्यं ते मदन्तरे ॥ ६ ॥ | 6.25.6bअवगच्छाम्यकर्तव्यं कर्तव्यं ते मदन्तरे ॥6.25.6॥ | 6.34.6bअवगच्छाम्यकर्तव्यं कर्तव्यं ते मदन्तरे ॥ ६ ॥ | 6.34.6bअवगच्छाम्यकर्तव्यं कर्तव्यं ते मदन्तरे ॥ 6.34.6 ॥ | ||
| 13 | #7aಮತ್ಪ್ರಿಯಂ ಯದಿ ಕರ್ತವ್ಯಂ ಯದಿ ಬುದ್ಧಿಃ ಸ್ಥಿರಾ ತವ । | 6.34.7aमत्प्रियं यदि कर्तव्यं यदि बुद्धिः स्थिरा तव । | 6.25.7aमत्प्रियं यदि कर्तव्यं यदि बुद्धिः स्थिरा तव । | 6.34.7aमत्प्रियं यदि कर्तव्यं यदि बुद्धिः स्थिरा तव । | 6.34.7aमत्प्रियं यदि कर्तव्यं यदि बुद्धिः स्थिरा तव। | ||
| 14 | #7bಜ್ಞಾತುಮಿಚ್ಛಾಮಿ ತಂ ಗತ್ವಾ ಕಿಂ ಕರೋತೀತಿ ರಾವಣಃ ॥ | 6.34.7bज्ञातुमिच्छामि तं गत्वा किं करोतीति रावणः ॥ ७ ॥ | 6.25.7bज्ञातुमिच्छामि तं गत्वा किं करोतीति रावणः ॥6.25.7॥ | 6.34.7bज्ञातुमिच्छामि तं गत्वा किं करोतीति रावणः ॥ ७ ॥ | 6.34.7bज्ञातुमिच्छामि तं गत्वा किं करोतीति रावणः ॥ 6.34.7 ॥ | ||
| 15 | #8aಸ ಹಿ ಮಾಯಾಬಲಃ ಕ್ರೂರೋ ರಾವಣಃ ಶತ್ರುರಾವಣಃ । | 6.34.8aस हि मायाबलः क्रूरो रावणः शत्रुरावणः । | 6.25.8aस हि मायाबलः क्रूरो रावणः शत्रुरावणः । | 6.34.8aस हि मायाबलः क्रूरो रावणः शत्रुरावणः । | 6.34.8aस हि मायाबलः क्रूरो रावणः शत्रुरावणः। | ||
| 16 | #8bಮಾಂ ಮೋಹಯತಿ ದುಷ್ಟಾತ್ಮಾ ಪೀತಮಾತ್ರೇವ ವಾರುಣೀ ॥ | 6.34.8bमां मोहयति दुष्टात्मा पीतमात्रेव वारुणी ॥ ८ ॥ | 6.25.8bमां मोहयति दुष्टात्मा पीतमात्रेव वारुणी ॥6.25.8॥ | 6.34.8bमां मोहयति दुष्टात्मा पीतमात्रेव वारुणी ॥ ८ ॥ | 6.34.8bमां मोहयति दुष्टात्मा पीतमात्रेव वारुणी ॥ 6.34.8 ॥ | ||
| 17 | #9aತರ್ಜಾಪಯತಿ ಮಾಂ ನಿತ್ಯಂ ಭರ್ತ್ಸಾಪಯತಿ ಚಾಸಕೃತ್ । | 6.34.9aतर्जापयति मां नित्यं भर्त्सापयति चासकृत् । | 6.25.9aतर्जापयति मां नित्यं भर्त्सापयति चासकृत् । | 6.34.9aतर्जापयति मां नित्यं भर्त्सापयति चासकृत् । | 6.34.9aतर्जापयति मां नित्यं भर्त्सापयति चासकृत्। | ||
| 18 | #9bರಾಕ್ಷಸೀಭಿಃ ಸುಘೋರಾಭಿರ್ಯೋ ಮಾಂ ರಕ್ಷತಿ ನಿತ್ಯಶಃ ॥ | 6.34.9bराक्षसीभिः सुघोराभिर्यो मां रक्षति नित्यशः ॥ ९ ॥ | 6.25.9bराक्षसीभिः सुघोराभिर्या मां रक्षन्ति नित्यशः ॥6.25.9॥ | 6.34.9bराक्षसीभिः सुघोराभिर्या मां रक्षन्ति नित्यशः ॥ ९ ॥ | 6.34.9bराक्षसीभिः सुघोराभिर्या मां रक्षन्ति नित्यशः ॥ 6.34.9 ॥ | ||
| 19 | #10aಉದ್ವಿಗ್ನಾ ಶಂಕಿತಾ ಚಾಸ್ಮಿ ನ ಸ್ವಸ್ಥಂ ಚ ಮನೋಮಮ । | 6.34.10aउद्विग्ना शङ्किता चास्मि न स्वस्थं च मनो मम । | 6.25.10aउद्विग्ना शङ्किता चास्मि न च स्वस्थं मनो मम । | 6.34.10aउद्विग्ना शङ्किता चास्मि न स्वस्थं च मनो मम । | 6.34.10aउद्विग्ना शङ्किता चास्मि न स्वस्थं च मनो मम। | ||
| 20 | #10bತದ್ಭಯಾಚ್ಚಾಹಮುದ್ವಿಗ್ನಾ ಅಶೋಕವನಿಕಾಂ ಗತಾ ॥ | 6.34.10bतद्भयाच्चाहमुद्विग्ना अशोकवनिकां गता ॥ १० ॥ | 6.25.10bतद्भयाच्चाहमुद्विग्ना अशोकवनिकां गताः ॥6.25.10॥ | 6.34.10bतद्भयाच्चाहमुद्विग्ना अशोकवनिकां गता ॥ १० ॥ | 6.34.10bतद्भयाच्छाहमुद्विग्ना अशोकवनिकां गता ॥ 6.34.10 ॥ | ||
| 21 | #11aಯದಿ ನಾಮ ಕಥಾ ತಸ್ಯ ನಿಶ್ಚಿತಂ ವಾಪಿ ಯದ್ ಭವೇತ್ । | 6.34.11aयदि नाम कथा तस्य निश्चितं वापि यद्भवेत् । | 6.25.11aयदि नाम कथा तस्य निश्चितं वापि यद्भवेत् । | #11यदि नाम कथा तस्य निश्चितं वापि यद्भवेत् ॥ | 6.34.11aयदि नाम कथा तस्य निश्चितं वापि यद्भवेत्। | ||
| 22 | #11bನಿವೇದಯೇಥಾಃ ಸರ್ವಂ ತದ್ ವರೋ ಮೇ ಸ್ಯಾದನುಗ್ರಹಃ ॥ | 6.34.11bनिवेदयेथाः सर्वं तद् वरो मे स्यादनुग्रहः ॥ ११ ॥ | 6.25.11bनिवेदयेथाः सर्वं तत्परो मे स्यादनुग्रहः ॥6.25.11॥ | 6.34.11निवेदयेथाः सर्वं तत्परो मे स्यादनुग्रहः ॥ ११ ॥ | 6.34.11bनिवेदयेथाः सर्वं तत् परो मे स्यादनुग्रहः ॥ 6.34.11 ॥ | ||
| 23 | #12aಸಾಷ್ಯೇನಂ ಬ್ರುವತೀಂ ಸೀತಾಂ ಸರಮಾ ಮೃದುಭಾಷಿಣೀ । | 6.34.12aसाप्येवं ब्रुवतीं सीतां सरमा मृदुभाषिणी । | 6.25.12aसा त्वेवं ब्रुवतीं सीतां सरमा वल्गुभाषिणी । | 6.34.12aसा त्वेवं ब्रुवतीं सीतां सरमा वल्गुभाषिणी । | 6.34.12aसा त्वेवं ब्रुवतीं सीतां सरमा वल्गुभाषिणी। | ||
| 24 | #12bಉವಾಚ ವದನಂ ತಸ್ಯಾಃ ಸ್ಪೃಶಂತೀ ಭಾಷ್ಪವಿಕ್ಲವಮ್ ॥ | 6.34.12bउवाच वदनं तस्याः स्पृशन्ती बाष्पविक्लवम् ॥ १२ ॥ | 6.25.12bउवाच वचनं तस्याः स्पृशन्ती बाष्पविक्लवम् ॥6.25.12॥ | 6.34.12bउवाच वचनं तस्याः स्पृशन्ती बाष्पविक्लबम् ॥ १२ ॥ | 6.34.12bउवाच वदनं तस्याः स्पृशन्ती बाष्पविक्लवम् ॥ 6.34.12 ॥ | ||
| 25 | #13aಏಷ ತೇಯದ್ಯಭಿಪ್ರಾಯಸ್ತಸ್ಮಾದ್ ಗಚ್ಛಾಮಿ ಜಾನಕಿ । | 6.34.13aएष ते यद्यभिप्रायस्तस्माद् गच्छामि जानकि । | 6.25.13aएष ते यद्यभिप्रायस्तस्माद्गच्छामि जानकि । | 6.34.13aएष ते यद्यभिप्रायस्तदा गच्छामि जानकि । | 6.34.13aएष ते यद्यभिप्रायस्तदा गच्छामि जानकि। | ||
| 26 | #13bಗೃಹ್ಯ ಶತ್ರೋರಭಿಪ್ರಾಯಮುಪಾವರ್ತಾಮಿ ಮೈಥಿಲಿ ॥ | 6.34.13bगृह्य शत्रोरभिप्रायमुपावर्तामि मैथिलि ॥ १३ ॥ | 6.25.13bगृह्य शत्रोरभिप्रायमुपावृत्तां च पश्य माम् ॥6.25.13॥ | 6.34.13bगृह्य शत्रोरभिप्रायमुपावृत्तां च पश्य माम् ॥ १३ ॥ | 6.34.13bगृह्य शत्रोरभिप्रायमुपावृत्तां च पश्य माम् ॥ 6.34.13 ॥ | ||
| 27 | #14aಏವಮುಕ್ತ್ವಾ ತತೋಗತ್ವಾ ಸಮೀಪಂ ತಸ್ಯ ರಾಕ್ಷಸಃ । | 6.34.14aएवमुक्त्वा ततो गत्वा समीपं तस्य रक्षसः । | 6.25.14aएवमुक्त्वा ततो गत्वा समीपं तस्य रक्षसः । | 6.34.14aएवमुक्त्वा ततो गत्वा समीपं तस्य रक्षसः । | 6.34.14aएवमुक्त्वा ततो गत्वा समीपं तस्य रक्षसः। | ||
| 28 | #14bಶುಶ್ರಾವ ಕಥಿತಂ ತಸ್ಯ ರಾವಣಸ್ಯ ಸಮಂತ್ರಿಣಃ ॥ | 6.34.14bशुश्राव कथितं तस्य रावणस्य समन्त्रिणः ॥ १४ ॥ | 6.25.14bशुश्राव कथितं तस्य रावणस्य समन्त्रिणः ॥6.25.14॥ | 6.34.14bशुश्राव कथितं तस्य रावणस्य समन्त्रिणः ॥ १४ ॥ | 6.34.14bशुश्राव कथितं तस्य रावणस्य समन्त्रिणः ॥ 6.34.14 ॥ | ||
| 29 | #15aಸಾ ಶ್ರುತ್ವಾ ನಿಶ್ಚಯಂ ತಸ್ಯ ನಿಶ್ಚಯಜ್ಞಾ ದುರಾತ್ಮನಃ । | 6.34.15aसा श्रुत्वा निश्चयं तस्य निश्चयज्ञा दुरात्मनः । | 6.25.15aसा श्रुत्वा निश्चयं तस्य निश्चयज्ञा दुरात्मनः । | 6.34.15aसा श्रुत्वा निश्चयं तस्य निश्चयज्ञा दुरात्मनः । | 6.34.15aसा श्रुत्वा निश्चयं तस्य निश्चयज्ञा दुरात्मनः। | ||
| 30 | #15bಪುನರೇವಾಗಮತ್ ಕ್ಷಿಪ್ರಮಶೋಕವನಿಕಾಂ ಶುಭಾಮ್ ॥ | 6.34.15bपुनरेवागमत् क्षिप्रमशोकवनिकां शुभाम् ॥ १५ ॥ | 6.25.15bपुनरेवागमत्क्षिप्रमशोकवनिकां तदा ॥6.25.15॥ | 6.34.15bपुनरेवागमत्क्षिप्रमशोकवनिकां तदा ॥ १५ ॥ | 6.34.15bपुनरेवागमत् क्षिप्रमशोकवनिकां तदा ॥ 6.34.15 ॥ | ||
| 31 | #16aಸಾ ಪ್ರವಿಷ್ಟಾ ತತಸ್ತತ್ರ ದದರ್ಶ ಜನಕಾತ್ಮಜಮ್ । | 6.34.16aसा प्रविष्टा ततस्तत्र ददर्श जनकात्मजाम् । | 6.25.16aसा प्रविष्टा पुनस्तत्र ददर्श जनकात्मजाम् । | 6.34.16aसा प्रविष्टा पुनस्तत्र ददर्श जनकात्मजाम् । | 6.34.16aसा प्रविष्टा पुनस्तत्र ददर्श जनकात्मजाम्। | ||
| 32 | #16bಪ್ರತೀಕ್ಷಮಾಣಾಂ ಸ್ವಾಮೇವ ಭ್ರಷ್ಟಪದ್ಮಾಮಿವ ಶ್ರೀಯಮ್ ॥ | 6.34.16bप्रतीक्षमाणां स्वामेव भ्रष्टपद्मामिव श्रियम् ॥ १६ ॥ | 6.25.16bप्रतीक्षमाणां स्वामेव भ्रष्टपद्मामिव श्रियम् ॥6.25.16॥ | 6.34.16bप्रतीक्षमाणां स्वामेव भ्रष्टपद्मामिव श्रियम् ॥ १६ ॥ | 6.34.16bप्रतीक्षमाणां स्वामेव भ्रष्टपद्मामिव श्रियम् ॥ 6.34.16 ॥ | ||
| 33 | #17aತಾಂ ತು ಸೀತಾ ಪುನಃ ಪ್ರಾಪ್ತಾಂ ಸರಮಾಂ ಪ್ರಿಯಭಾಷಿಣೀಮ್ । | 6.34.17aतां तु सीता पुनः प्राप्तां सरमां प्रियभाषिणीम् । | 6.25.17aतां तु सीता पुनः प्राप्तां सरमां वल्गुभाषिणीम् । | 6.34.17aतां तु सीता पुनः प्राप्तां सरमां वल्गुभाषिणीम् । | 6.34.17aतां तु सीता पुनः प्राप्तां सरमां वल्गुभाषिणीम्। | ||
| 34 | #17bಪರಿಷ್ವಜ್ಯ ಚ ಸುಸ್ರಿಗ್ಧಂ ದದೌ ಚ ಸ್ವಯಮಾಸನಮ್ ॥ | 6.34.17bपरिष्वज्य च सुस्निग्धं ददौ च स्वयमासनम् ॥ १७ ॥ | 6.25.17bपरिष्वज्य च सुस्निग्धं ददौ च स्वयमासनम् ॥6.25.17॥ | 6.34.17bपरिष्वज्य च सुस्निग्धं ददौ च स्वयमासनम् ॥ १७ ॥ | 6.34.17bपरिष्वज्य च सुस्निग्धं ददौ च स्वयमासनम् ॥ 6.34.17 ॥ | ||
| 35 | #18aಇಹಾಸೀನಾ ಸುಖಂ ಸರ್ವಮಾಖ್ಯಾಹಿ ಮಮ ತತ್ತ್ವತಃ । | 6.34.18aइहासीना सुखं सर्वमाख्याहि मम तत्त्वतः । | 6.25.18aइहासीना सुखं सर्वमाख्याहि मम तत्त्वतः । | 6.34.18aइहासीना सुखं सर्वमाख्याहि मम तत्त्वतः । | 6.34.18aइहासीना सुखं सर्वमाख्याहि मम तत्त्वतः। | ||
| 36 | #18bಕ್ರೂರಸ್ಯ ನಿಶ್ಚಯಂ ತಸ್ಯ ರಾವಣಸ್ಯ ದುರಾತ್ಮನಃ ॥ | 6.34.18bक्रूरस्य निश्चयं तस्य रावणस्य दुरात्मनः ॥ १८ ॥ | 6.25.18bक्रूरस्य निश्चयं तस्य रावणस्य दुरात्मनः ॥6.25.18॥ | 6.34.18bक्रूरस्य निश्चयं तस्य रावणस्य दुरात्मनः ॥ १८ ॥ | 6.34.18bक्रूरस्य निश्चयं तस्य रावणस्य दुरात्मनः ॥ 6.34.18 ॥ | ||
| 37 | #19aಏವಮುಕ್ತಾ ತು ಸರಮಾ ಸೀತಯಾ ವೇಪಮಾನಯಾ । | 6.34.19aएवमुक्ता तु सरमा सीतया वेपमानया । | 6.25.19aएवमुक्ता तु सरमा सीतया वेपमानया । | 6.34.19aएवमुक्ता तु सरमा सीतया वेपमानया । | 6.34.19aएवमुक्ता तु सरमा सीतया वेपमानया। | ||
| 38 | #19bಕಥಿತಂ ಸರ್ವಮಾಚಷ್ಟ ರಾವಣಸ್ಯ ಸಮಂತ್ರಿಣಃ ॥ | 6.34.19bकथितं सर्वमाचष्ट रावणस्य समन्त्रिणः ॥ १९ ॥ | 6.25.19bकथितं सर्वमाचष्ट रावणस्य समन्त्रिणः ॥6.25.19॥ | 6.34.19bकथितं सर्वमाचष्ट रावणस्य समन्त्रिणः ॥ १९ ॥ | 6.34.19bकथितं सर्वमाचष्ट रावणस्य समन्त्रिणः ॥ 6.34.19 ॥ | ||
| 39 | #20aಜನನ್ಯಾ ರಾಕ್ಷಸೇಂದ್ರೋ ವೈ ತ್ವನ್ಮೋಕ್ಷಾರ್ಥಂ ಬೃಹದ್ವಚಃ । | 6.34.20aजनन्या राक्षसेन्द्रो वै त्वन्मोक्षार्थं बृहद्वचः । | 6.25.20aजनन्या राक्षसेन्द्रो वै त्वन्मोक्षार्थं बृहद्वचः । | 6.34.20aजनन्या राक्षसेन्द्रो वै त्वन्मोक्षार्थं बृहद्वचः । | 6.34.20aजनन्या राक्षसेन्द्रो वै त्वन्मोक्षार्थं बृहद्वचः। | ||
| 40 | #20bಅತಿ ಸ್ನಿಗ್ಧೇನ ವೈದೇಹಿ ಮಂತ್ರಿವೃದ್ಧೇನ ಚೋದಿತಃ ॥ | 6.34.20bअतिस्निग्धेन वैदेहि मन्त्रिवृद्धेन चोदितः ॥ २० ॥ | 6.25.20bअविद्धेन च वैदेहि मन्त्रिवृद्धेन बोधितः ॥6.25.20॥ | 6.34.20bअविद्धेन च वैदेहि मन्त्रिवृद्धेन बोधितः ॥ २० ॥ | 6.34.20bअविद्धेन च वैदेहि मन्त्रिवृद्धेन बोधितः ॥ 6.34.20 ॥ | ||
| 41 | #21aದೀಯತಾಮಭಿಸತ್ಕೃತ್ಯ ಮನುಜೇಂದ್ರಾಯ ಮೈಥಿಲೀ । | 6.34.21aदीयतामभिसत्कृत्य मनुजेन्द्राय मैथिली । | 6.25.21aदीयतामभिसत्कृत्य मनुजेन्द्राय मैथिली । | 6.34.22aदीयतामभिसत्कृत्य मनुजेन्द्राय मैथिली । | 6.34.21aदीयतामभिसत्कृत्य मनुजेन्द्राय मैथिली। | ||
| 42 | #21bನಿದರ್ಶನಂ ತೇ ಪರ್ಯಾಪ್ತಂ ಜನಸ್ಥಾನೇ ಯದದ್ಭುತಮ್ ॥ | 6.34.21bनिदर्शनं ते पर्याप्तं जनस्थाने यदद्भुतम् ॥ २१ ॥ | 6.25.21bनिदर्शनं ते पर्याप्तं जनस्थाने यदद्भुतम् ॥6.25.21॥ | 6.34.22bनिदर्शनं ते पर्याप्तं जनस्थाने यदद्भुतम् ॥ २२ ॥ | 6.34.21bनिदर्शनं ते पर्याप्तं जनस्थाने यदद्भुतम् ॥ 6.34.21 ॥ | ||
| 43 | #22aಲಂಘನಂ ಚ ಸಮುದ್ರಸ್ಯ ದರ್ಶನಂ ಚ ಹನೂಮತಃ । | 6.34.22aलङ्घनं च समुद्रस्य दर्शनं च हनूमतः । | 6.25.22aलङ्घनं च समुद्रस्य दर्शनं च हनूमतः । | 6.34.22aलङ्घनं च समुद्रस्य दर्शनं च हनूमतः । | 6.34.22aलङ्घनं च समुद्रस्य दर्शनं च हनूमतः। | ||
| 44 | #22bವಧಂ ಚ ರಕ್ಷಸಾಂ ಯುದ್ಧೇ ಕಃ ಕುರ್ಯಾನ್ಮಾನುಷೋ ಯುಧಿ ॥ | 6.34.22bवधं च रक्षसां युद्धे कः कुर्यान्मानुषो युधि ॥ २२ ॥ | 6.25.22bवधं च रक्षसां युद्धे कः कुर्यान्मानुषो भुवि ॥6.25.22॥ | 6.34.22bवधं च रक्षसां युद्धे कः कुर्यान्मानुषो भुवि ॥ २२ ॥ | 6.34.22bवधं च रक्षसां युद्धे कः कुर्यान्मानुषो भुवि ॥ 6.34.22 ॥ | ||
| 45 | #23aಏವಂ ಸ ಮಂತ್ರಿವೃದ್ಧೈಶ್ಚ ಮಾತ್ರಾ ಚ ಬಹುಬೋಧಿತಃ । | 6.34.23aएवं स मन्त्रवृद्धैश्च मात्रा च बहुबोधितः । | 6.25.23aएवं स मन्त्रिवृद्धैश्च मात्रा च बहु भाषितः । | 6.34.23aएवं स मन्त्रिवृद्धैश्चाविद्धेन बहु भाषितः । | 6.34.23aएवं स मन्त्रिवृद्धैश्चाविद्धेन बहु भाषितः। | ||
| 46 | #23bನ ತ್ವಾಮುತ್ಸಹತೇ ಮೋಕ್ತುಮರ್ಥಮರ್ಥಪರೋ ಯಥಾ ॥ | 6.34.23bन त्वामुत्सहते मोक्तुमर्थमर्थपरो यथा ॥ २३ ॥ | 6.25.23bन त्वामुत्सहते मोक्तुमर्तह्मर्थपरो यथा ॥6.25.23॥ | 6.34.23bन त्वामुत्सहते मोक्तुमर्थमर्थपरो यथा ॥ २३ ॥ | 6.34.23bन त्वामुत्सहते मोक्तुमर्थमर्थपरो यथा ॥ 6.34.23 ॥ | ||
| 47 | #24aನೋತ್ಸಹತ್ಯಮೃತೋ ಮೋಕ್ತುಂ ಯುದ್ಧೇ ತ್ವಾಮಿತಿ ಮೈಥಿಲಿ । | 6.34.24aनोत्सहत्यमृतो मोक्तुं युद्धे त्वामिति मैथिलि । | 6.25.24aनोत्सहत्यमृतो मोक्तुं युद्धे त्वामिति मैथिलि । | 6.34.24aनोत्सहत्यमृतो मोक्तुं युद्धे त्वामिति मैथिलि । | 6.34.24aनोत्सहत्यमृतो मोक्तुं युद्धे त्वामिति मैथिलि। | ||
| 48 | #24bಸಾಮಾತ್ಯಸ್ಯ ನೃಶಂಸಸ್ಯ ನಿಶ್ಚಯೋ ಹ್ಯೇಷ ವರ್ತತೇ ॥ | 6.34.24bसामात्यस्य नृशंसस्य निश्चयो ह्येष वर्तते ॥ २४ ॥ | 6.25.24bसामात्यस्य नृशंसस्य निश्चयो ह्येष वर्तते ॥6.25.24॥ | 6.34.24bसामात्यस्य नृशंसस्य निश्चयो ह्येष वर्तते ॥ २४ ॥ | 6.34.24bसामात्यस्य नृशंसस्य निश्चयो ह्येष वर्तते ॥ 6.34.24 ॥ | ||
| 49 | #25aತದೇಷಾ ಸುಸ್ಥಿರಾ ಬುದ್ಧಿರ್ಮೃತ್ಯುಲೋಭಾದುಪಸ್ಥಿತಾ । | 6.34.25aतदेषा सुस्थिरा बुद्धिर्मृत्युलोभादुपस्थिता । | 6.25.25aतदेषा सुस्थिरा बुद्धिर्मृत्युलोभादुपस्थिता । | 6.34.25aतदेषा सुस्थिरा बुद्धिर्मृत्युलोभादुपस्थिता । | |||
| 50 | #25bಭಯಾನ್ನ ಶಕ್ತಸ್ತ್ವಾಂ ಮೋಕ್ತುಮನಿರಸ್ತಃ ಸ ಸಂಯುಗೆ ॥ | 6.34.25bभयान्न शक्तस्त्वां मोक्तुमनिरस्तः स संयुगे ॥ २५ ॥ | 6.25.25bभयान्न शक्तस्त्वां मोक्तुमनिरस्तस्तु संयुगे । | 6.34.25bभयान्न शक्तस्त्वां मोक्तुमनिरस्तस्तु संयुगे । | 6.34.25aभयान्न शक्तस्त्वां मोक्तुमनिरस्तस्तु संयुगे। | ||
| 51 | #26aರಾಕ್ಷಸಾನಾಂ ಚ ಸರ್ವೇಷಾಮಾತ್ಮನಶ್ಚ ವಧೇನ ಹಿ । | 6.34.26aराक्षसानां च सर्वेषामात्मनश्च वधेन हि । | 6.25.25cराक्षसानां च सर्वेषामात्मनश्च वधेन हि ॥6.25.25॥ | 6.34.25cराक्षसानां च सर्वेषामात्मनश्च वधेन हि ॥ २५ ॥ | 6.34.25bराक्षसानां च सर्वेषामात्मनश्च वधेन हि ॥ 6.34.25 ॥ | ||
| 52 | #26bನಿಹತ್ಯ ರಾವಣಂ ಸಂಖ್ಯೇ ಸರ್ವಥಾ ನಿಶಿತೈಃ ಶರೈಃ । | 6.34.26bनिहत्य रावणं सङ्ख्ये सर्वथा निशितैः शरैः । | 6.25.26aनिहत्य रावणं संख्ये सर्वथा निशितैः शरैः । | 6.34.26aनिहत्य रावणं सङ्ख्ये सर्वथा निशितैः शरैः । | 6.34.26aनिहत्य रावणं सङ्ख्ये सर्वथा निशितैः शरैः। | ||
| 53 | #26cಪ್ರತಿನೇಷ್ಯತಿ ರಾಮಸ್ತ್ವಾಮಯೋಧ್ಯಾಮಸಿತೇಕ್ಷಣೇ ॥ | 6.34.26cप्रतिनेष्यति रामस्त्वामयोध्यामसितेक्षणे ॥ २६ ॥ | 6.25.26bप्रतिनेष्यति रामस्त्वामयोध्यामसितेक्षणे ॥6.25.26॥ | 6.34.26bप्रतिनेष्यति रामस्त्वामयोध्यामसितेक्षणे ॥ २६ ॥ | 6.34.26bप्रतिनेष्यति रामस्त्वामयोध्यामसितेक्षणे ॥ 6.34.26 ॥ | ||
| 54 | #27aಏತಸ್ಮಿನ್ನಂತರೇ ಶಬ್ದೋ ಭೇರೀಶಂಖ ಸಮಾಕುಲಃ । | 6.34.27aएतस्मिन्नन्तरे शब्दो भेरीशङ्खसमाकुलः । | 6.25.27aएतस्मिन्नन्तरे शब्दो भेरीशङ्खसमाकुलः । | #28एतस्मिन्नन्तरे शब्दो भेरीशङ्खसमाकुलः ॥ | 6.34.27aएतस्मिन्नन्तरे शब्दो भेरीशङ्खसमाकुलः। | ||
| 55 | #27bಶ್ರುತೋ ವೈ ಸರ್ವ ಸೈನ್ಯಾನಾಂ ಕಂಪಯನ್ ಧರಣೀತಲಮ್ ॥ | 6.34.27bश्रुतो वै सर्वसैन्यानां कम्पयन् धरणीतलम् ॥ २७ ॥ | 6.25.27bश्रुतो वै सर्वसैन्यानां कम्पयन्धरणीतलम् ॥6.25.27॥ | 6.34.27श्रुतो वै सर्वसैन्यानां कम्पयन्धरणीतलम् ॥ २७ ॥ | 6.34.27bश्रुतो वानरसैन्यानां कम्पयन् धरणीतलम् ॥ 6.34.27 ॥ | ||
| 56 | #28aಶ್ರುತ್ವಾ ತು ತಂ ವಾನರ ಸೈನ್ಯನಾದಂ ಲಂಕಾಗತಾ ರಾಕ್ಷಸ ರಾಜಭೃತ್ಯಾಃ । | 6.34.28aश्रुत्वा तु तं वानरसैन्यनादं लङ्कागता राक्षसराजभृत्याः । | 6.25.28aश्रुत्वा तु तं वानरसैन्यशब्दं लङ्कागता राक्षसराजभृत्याः । | 6.34.28aश्रुत्वा तु तद्वानरसैन्यशब्दं लङ्कागता राक्षसराजभृत्याः । | 6.34.28aश्रुत्वा तु तद्वानरसैन्यशब्दं लङ्कागता राक्षसराजभृत्याः। | ||
| 57 | #28bಹತೌಜಸೋ ದೈನ್ಯಪರೀತಚೇಷ್ಟಾಃ ಶ್ರೇಯೋ ನ ಪಶ್ಯಂತಿ ನೃಪಸ್ಯ ದೋಷಾತ್ ॥ | 6.34.28bहतौजसो दैन्यपरीतचेष्टाः श्रेयो न पश्यन्ति नृपस्य दोषात् ॥ २८ ॥ | 6.25.28bनष्टौजसो दैन्यपरीतचेष्टाः श्रेयो न पश्यन्ति नृपस्य दोषैः ॥6.25.28॥ | 6.34.28bनष्टौजसो दैन्यपरीतचेष्टाः श्रेयो न पश्यन्ति नृपस्य दोषे ॥ २८ ॥ | 6.34.28bनष्टौजसो दैन्यपरीतचेष्टाः श्रेयो न पश्यन्ति नृपस्य दोषे ॥ 6.34.28 ॥ | ||
| 58 | 6.34.34इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने चतुस्त्रिंशः सर्गः ॥ ३४ ॥ |