रावणेन सीतायाः मायिकरामशिर आदिप्रदर्शनम्. Built from structured/verses.jsonl. Rows are monotone-aligned half-verse/pāda-like units split at । and ॥, so verse-number boundary differences can appear as inserted or shifted line rows.
97 aligned line rows across 7 source streams.
gor-kn 88 lines
gor-hi 88 lines
crit 85 lines
gr 80 lines
dr-mula 88 lines
| # | gor-kn | gor-hi | crit | gr | dr-mula | gr-iitk | iitk |
|---|---|---|---|---|---|---|---|
| 1 | #1aಸಾ ಸೀತಾ ತಚ್ಛಿರೋ ದೃಷ್ಟ್ವಾ ತಚ್ಚ ಕಾರ್ಮುಕಮುತ್ತಮಮ್ । | 6.32.1aसा सीता तच्छिरो दृष्ट्वा तच्च कार्मुकमुत्तमम् । | 6.23.1aसा सीता तच्छिरो दृष्ट्वा तच्च कार्मुकमुत्तमम् । | 6.32.1aसा सीता तच्छिरो दृष्ट्वा तच्च कार्मुकमुत्तमम् । | 6.32.1aसा सीता तच्छिरो दृष्ट्वा तच्च कार्मुकमुत्तमम्। | ||
| 2 | #1bಸುಗ್ರೀವ ಪ್ರತಿಸಂಸರ್ಗಮಾಖ್ಯಾತಂ ಚ ಹನೂಮತಾ ॥ | 6.32.1bसुग्रीवप्रतिसंसर्गमाख्यातं च हनूमता ॥ १ ॥ | 6.23.1bसुग्रीवप्रतिसंसर्गमाख्यातं च हनूमता ॥6.23.1॥ | 6.32.1bसुग्रीवप्रतिसंसर्गमाख्यातं च हनूमता ॥ १ ॥ | 6.32.1bसुग्रीवप्रतिसंसर्गमाख्यातं च हनूमता ॥ 6.32.1 ॥ | ||
| 3 | #2aನಯನೇ ಮುಖವರ್ಣಂ ಚ ಭರ್ತುಸ್ತತ್ಸದೃಶಂ ಮುಖಮ್ । | 6.32.2aनयने मुखवर्णं च भर्तुस्तत्सदृशं मुखम् । | 6.23.2aनयने मुखवर्णं च भर्तुस्तत्सदृशं मुखम् । | 6.32.2aनयने मुखवर्णं च भर्तुस्तत्सदृशं मुखम् । | 6.32.2aनयने मुखवर्णं च भर्तुस्तत्सदृशं मुखम्। | ||
| 4 | #2bಕೇಶಾನ್ಕೇಶಾಂತದೇಶಂ ಚ ತಂ ಚ ಚೂಡಾಮಣಿಂ ಶುಭಮ್ ॥ | 6.32.2bकेशान् केशान्तदेशं च तं च चूडामणिं शुभम् ॥ २ ॥ | 6.23.2bकेशान्केशान्तदेशं च तं च चूडामणिं शुभम् ॥6.23.2॥ | 6.32.2bकेशान्केशान्तदेशं च तं च चूडामणिं शुभम् ॥ २ ॥ | 6.32.2bकेशान् केशान्तदेशं च तं च चूडामणिं शुभम् ॥ 6.32.2 ॥ | ||
| 5 | #3aಏತೈಃ ಸರ್ವೈರಭಿಜ್ಞಾ ನೈರಭಿಜ್ಞಾಯ ಸುದುಃಖಿತಾ । | 6.32.3aएतैः सर्वैरभिज्ञानैरभिज्ञाय सुदुःखिता । | 6.23.3aएतैः सर्वैरभिज्ञानैरभिज्ञाय सुदुःखिता । | 6.32.3aएतैः सर्वैरभिज्ञानैरभिज्ञाय सुदुःखिता । | 6.32.3aएतैः सर्वैरभिज्ञानैरभिज्ञाय सुदुःखिता। | ||
| 6 | #3bವಿಜಗರ್ಹೇಽತ್ರ ಕೈಕೇಯೀಂ ಕ್ರೋಶಂತೀ ಕುರರೀ ಯಥಾ ॥ | 6.32.3bविजगर्हेऽत्र कैकेयीं क्रोशन्ती कुररी यथा ॥ ३ ॥ | 6.23.3bविजगर्हेऽथ कैकेयीं क्रोशन्ती कुररी यथा ॥6.23.3॥ | 6.32.3bविजगर्हेऽथ कैकेयीं क्रोशन्ती कुररी यथा ॥ ३ ॥ | 6.32.3bविजगर्हेऽत्र कैकेयीं कोशन्ती कुररी यथा ॥ 6.32.3 ॥ | ||
| 7 | #4aಸಕಾಮಾ ಭವ ಕೈಕೇಯಿ ಹತೋಽಯಂ ಕುಲನಂದನಃ । | 6.32.4aसकामा भव कैकेयि हतोऽयं कुलनन्दनः । | 6.23.4aसकामा भव कैकेयि हतोऽयं कुलनन्दनः । | 6.32.4aसकामा भव कैकेयि हतोऽयं कुलनन्दनः । | 6.32.4aसकामा भव कैकेयि हतोऽयं कुलनन्दनः। | ||
| 8 | #4bಕುಲಮುತ್ಸಾದಿತಂ ಸರ್ವಂ ತ್ವಯಾ ಕಲಹಶೀಲಯಾ ॥ | 6.32.4bकुलमुत्सादितं सर्वं त्वया कलहशीलया ॥ ४ ॥ | 6.23.4bकुलमुत्सादितं सर्वं त्वया कलहशीलया ॥6.23.4॥ | 6.32.4bकुलमुत्सादितं सर्वं त्वया कलहशीलया ॥ ४ ॥ | 6.32.4bकुलमुत्सादितं सर्वं त्वया कलहशीलया ॥ 6.32.4 ॥ | ||
| 9 | #5aಆರ್ಯೇಣ ಕಿಂ ನು ಕೈಕೇಯ್ಯಾಃ ಕೃತಂ ರಾಮೇಣ ವಿಪ್ರಿಯಮ್ । | 6.32.5aआर्येण किं नु कैकेय्याः कृतं रामेण विप्रियम् । | 6.23.5aआर्येण किं नु कैकेय्याः कृतं रामेण विप्रियम् । | 6.32.5aआर्येण किं ते कैकेयि कृतं रामेण विप्रियम् । | 6.32.5aआर्येण किं ते कैकेयि कृतं रामेण विप्रियम्। | ||
| 10 | #5bಯನ್ಮಯಾ ಚೀರವಸನಂ ದತ್ತ್ವಾ ಪ್ರವ್ರಾಜಿತೋ ವನಮ್ ॥ | 6.32.5bयन्मया चीरवसनं दत्त्वा प्रव्राजितो वनम् ॥ ५ ॥ | 6.23.5bयद्गृहाच्चीरवसनस्तया प्रस्थापितो वनम् ॥6.23.5॥ | 6.32.5bयन्मया चीरवसनस्तया प्रस्थापितो वनम् । | 6.32.5bयन्मया चीरवसनस्त्वया प्रस्थापितो वनम् ॥ 6.32.5 ॥ | ||
| 11 | 6.32.5c[ इदानीं स हि धर्मात्मा राक्षसैश्च कथं हतः ॥ ५ ॥ | ||||||
| 12 | 6.32.5d] | ||||||
| 13 | #6aಏವಮುಕ್ತ್ವಾತು ವೈದೇಹೀ ವೇಪಮಾನಾ ತಪಸ್ವಿನೀ । | 6.32.6aएवमुक्त्वा तु वैदेही वेपमाना तपस्विनी । | 6.23.6aएवमुक्त्वा तु वैदेही वेपमाना तपस्विनी । | 6.32.6aएवमुक्त्वा तु वैदेही वेपमाना तपस्विनी । | 6.32.6aएवमुक्त्वा तु वैदेहीं वेपमाना तपस्विनी। | ||
| 14 | #6bಜಗಾಮ ಜಗತೀಂ ಬಾಲಾ ಛಿನ್ನಾ ತು ಕದಲೀ ಯಥಾ ॥ | 6.32.6bजगाम जगतीं बाला छिन्ना तु कदली यथा ॥ ६ ॥ | 6.23.6bजगाम जगतीं बाला छिन्ना तु कदली यथा ॥6.23.6॥ | 6.32.6bजगाम जगतीं बाला छिन्ना तु कदली यथा ॥ ६ ॥ | 6.32.6bजगाम जगतीं बाला छिन्ना तु कदली यथा ॥ 6.32.6 ॥ | ||
| 15 | #7aಸಾ ಮುಹೂರ್ತಾತ್ ಸಮಾಶ್ವಾಸ್ಯ ಪ್ರರಿಲಭ್ಯಾಥ ಚೇತನಾಮ್ । | 6.32.7aसा मुहूर्तात् समाश्वस्य परिलभ्याथ चेतनाम् । | 6.23.7aसा मुहूर्तात्समाश्वस्य प्रतिलभ्य च चेतनाम् । | 6.32.7aसा मुहूर्तात्समाश्वस्य प्रतिलभ्य च चेतनाम् । | 6.32.7aसा मुहूर्तात् समाश्वस्य प्रतिलभ्य च चेतनाम्। | ||
| 16 | #7bತಚ್ಛಿರಃ ಸಮುಪಾಸ್ಥಾಯ ವಿಲಲಾಪಾಯತೇಕ್ಷಣಾ ॥ | 6.32.7bतच्छिरः समुपास्थाय विललापायतेक्षणा ॥ ७ ॥ | 6.23.7bतच्छिरः समुपाघ्राय विललापायतेक्षणा ॥6.23.7॥ | 6.32.7bतच्छिरः समुपाघ्राय विललापायतेक्षणा ॥ ७ ॥ | 6.32.7bतच्छिरः समुपाघ्राय विललापायतेक्षणा ॥ 6.32.7 ॥ | ||
| 17 | #8aಹಾ ಹತಾಸ್ಮಿ ಮಹಾಬಾಹೋ ವೀರವ್ರತಮನುವ್ರತ । | 6.32.8aहा हतास्मि महाबाहो वीरव्रतमनुव्रत । | 6.23.8aहा हतास्मि महाबाहो वीरव्रतमनुव्रता । | 6.32.8aहा हतास्मि महाबाहो वीरव्रतमनुव्रता । | 6.32.8aहा हतास्मि महाबाहो वीरव्रतमनुव्रत। | ||
| 18 | #8bಇಮಾಂ ತೇ ಪಶ್ಚಿಮಾವಸ್ಥಾಂಗತಾಸ್ಮಿ ವಿಧವಾ ಕೃತಾ ॥ | 6.32.8bइमां ते पश्चिमावस्थां गतास्मि विधवा कृता ॥ ८ ॥ | 6.23.8bइमां ते पश्चिमावस्थां गतास्मि विधवा कृता ॥6.23.8॥ | 6.32.8bइमां ते पश्चिमावस्थां गतास्मि विधवा कृता ॥ ८ ॥ | 6.32.8bइमां ते पश्चिमावस्थां गतास्मि विधवा कृता ॥ 6.32.8 ॥ | ||
| 19 | #9aಪ್ರಥಮಂ ಮರಣಂ ನಾರ್ಯಾ ಭರ್ತುರ್ವೈಗುಣ್ಯಮುಚ್ಯತೇ । | 6.32.9aप्रथमं मरणं नार्या भर्तुर्वैगुण्यमुच्यते । | 6.23.9aप्रथमं मरणं नार्या भर्तुर्वैगुण्यमुच्यते । | 6.32.9aप्रथमं मरणं नार्या भर्तुर्वैगुण्यमुच्यते । | 6.32.9aप्रथमं मरणं नार्या भर्तुर्वैगुण्यमुच्यते। | ||
| 20 | #9bಸುವೃತ್ತಃ ಸಾಧುವೃತ್ತಾಯಾಃ ಸಂವೃತ್ತಸ್ತ್ವಂ ಮಮಾಗ್ರತಃ ॥ | 6.32.9bसुवृत्तः साधुवृत्तायाः संवृत्तस्त्वं ममाग्रतः ॥ ९ ॥ | 6.23.9bसुवृत्तः साधुवृत्तायाः संवृत्तस्त्वं ममाग्रतः ॥6.23.9॥ | 6.32.9bसुवृत्तः साधुवृत्तायाः संवृत्तस्त्वं ममाग्रतः ॥ ९ ॥ | 6.32.9bसुवृत्त साधुवृत्तायाः संवृत्तस्त्वं ममाग्रतः ॥ 6.32.9 ॥ | ||
| 21 | #10aಮಹದ್ದುಃಖಂ ಪ್ರಪನ್ನಾಯಾ ಮಗ್ನಾಯಾಃ ಶೋಕಸಾಗರೇ । | 6.32.10aमहद् दुःखं प्रपन्नाया मग्नायाः शोकसागरे । | 6.23.10aदुःखाद्दुःखं प्रपन्नाया मग्नायाः शोकसागरे । | 6.32.10aदुःखाद्दुःखं प्रपन्नाया मग्नायाः शोकसागरे । | 6.32.10aदुःखाद्दुःखं प्रपन्नाया मग्नायाः शोकसागरे। | ||
| 22 | #10bಯೋ ಹಿ ಮಾಮುದ್ಯತಸ್ತ್ರಾತುಂ ಸೋಽಪಿ ತ್ವಂ ವಿನಿಪಾತಿತಃ ॥ | 6.32.10bयो हि मामुद्यतस्त्रातुं सोऽपि त्वं विनिपातितः ॥ १० ॥ | 6.23.10bयो हि मामुद्यतस्त्रातुं सोऽपि त्वं विनिपातितः ॥6.23.10॥ | 6.32.10bयो हि मामुद्यतस्त्रातुं सोऽपि त्वं विनिपातितः ॥ १० ॥ | 6.32.10bयो हि मामुद्यतस्त्रातुं सोऽपि त्वं विनिपातितः ॥ 6.32.10 ॥ | ||
| 23 | #11aಸಾ ಶ್ವಶ್ರೂರ್ಮಮ ಕೌಸಲ್ಯಾ ತ್ವಯಾ ಪುತ್ರೇಣ ರಾಘವ । | 6.32.11aसा श्वश्रूर्मम कौसल्या त्वया पुत्रेण राघव । | 6.23.11aसा श्वश्रूर्मम कौसल्या त्वया पुत्रेण राघव । | 6.32.11aसा श्वश्रूर्मम कौसल्या त्वया पुत्रेण राघव । | 6.32.11aसा श्वश्रूर्मम कौसल्या त्वया पुत्रेण राघव। | ||
| 24 | #11bವತ್ಸೇನೇವ ಯಥಾ ಧೇನುರ್ವಿವತ್ಸಾ ವತ್ಸಲಾ ಕೃತಾ ॥ | 6.32.11bवत्सेनेव यथा धेनुर्विवत्सा वत्सला कृता ॥ ११ ॥ | 6.23.11bवत्सेनेव यथा धेनुर्विवत्सा वत्सला कृता ॥6.23.11॥ | 6.32.11bवत्सेनेव यथा धेनुर्विवत्सा वत्सला कृता ॥ ११ ॥ | 6.32.11bवत्सेनेव यथा धेनुर्विवत्सा वत्सला कृता ॥ 6.32.11 ॥ | ||
| 25 | 6.23.12aआदिष्टं दीर्घमायुस्ते यैरचिन्त्यपराक्रम । | 6.32.12aआदिष्टं दीर्घमायुस्ते यैरचिन्त्यपराक्रम । | 6.32.12aआदिष्टं दीर्घमायुस्ते यैरचिन्त्यपराक्रम। | ||||
| 26 | #12aಆದಿಷ್ಟಂ ದೀರ್ಘಮಾಯುಸ್ತೇ ದೈವಜ್ಞೈರಪಿ ರಾಘವ । | 6.32.12aउद्दिष्टं दीर्घमायुस्ते दैवज्ञैरपि राघव । | |||||
| 27 | #12bಅನೃತಂ ವಚನಂ ತೇಷಾಮಲ್ಪಾಯುರಸಿ ರಾಘವ ॥ | 6.32.12bअनृतं वचनं तेषामल्पायुरसि राघव ॥ १२ ॥ | 6.23.12bअनृतं वचनं तेषामल्पायुरसि राघव ॥6.23.12॥ | 6.32.12bअनृतं वचनं तेषामल्पायुरसि राघव ॥ १२ ॥ | 6.32.12bअनृतं वचनं तेषामल्पायुरसि राघव ॥ 6.32.12 ॥ | ||
| 28 | #13aಅಥವಾ ನಶ್ಯತಿ ಪ್ರಜ್ಞಾ ಪ್ರಾಜ್ಞಸ್ಯಾಪಿ ಸತಸ್ತವ । | 6.32.13aअथवा नश्यति प्रज्ञा प्राज्ञस्यापि सतस्तव । | 6.23.13aअथ वा नश्यति प्रज्ञा प्राज्ञस्यापि सतस्तव । | 6.32.13aअथवा नश्यति प्रज्ञा प्राज्ञस्यापि सतस्तव । | 6.32.13aअथवा नश्यति प्रज्ञा प्राज्ञस्यापि सतस्तव। | ||
| 29 | #13bಪಚತ್ಯೇನಂ ತಥಾ ಕಾಲೋ ಭೂತಾನಾಂ ಪ್ರಭವೋ ಹ್ಯಯಮ್ ॥ | 6.32.13bपचत्येनं तथा कालो भूतानां प्रभवो ह्ययम् ॥ १३ ॥ | 6.23.13bपचत्येनं तथा कालो भूतानां प्रभवो ह्ययम् ॥6.23.13॥ | 6.32.13bपचत्येनं तथा कालो भूतानां प्रभवो ह्ययम् ॥ १३ ॥ | 6.32.13bपचत्येनं यथा कालो भूतानां प्रभवो ह्ययम् ॥ 6.32.13 ॥ | ||
| 30 | #14aಅದೃಷ್ಟಂ ಮೃತ್ಯುಮಾಪನ್ನಃ ಕಸ್ಮಾತ್ತ್ವಂ ನಯಶಾಸ್ತ್ರವಿತ್ । | 6.32.14aअदृष्टं मृत्युमापन्नः कस्मात् त्वं नयशास्त्रवित् । | 6.23.14aअदृष्टं मृत्युमापन्नः कस्मात्त्वं नयशास्त्रवित् । | 6.32.14aअदृष्टं मृत्युमापन्नः कस्मात्त्वं नयशास्त्रवित् । | 6.32.14aअदृष्टं मृत्युमापन्नः कस्मात्त्वं नयशास्त्रवित्। | ||
| 31 | #14bವ್ಯಸನಾನಾಮುಪಾಯಜ್ಞಃ ಕುಶಲೋ ಹ್ಯಸಿ ವರ್ಜನೇ ॥ | 6.32.14bव्यसनानामुपायज्ञः कुशलो ह्यसि वर्जने ॥ १४ ॥ | 6.23.14bव्यसनानामुपायज्ञः कुशलो ह्यसि वर्जने ॥6.23.14॥ | 6.32.14bव्यसनानामुपायज्ञः कुशलो ह्यसि वर्जने ॥ १४ ॥ | 6.32.14bव्यसनानामुपायज्ञः कुशलो ह्यसि वर्जने ॥ 6.32.14 ॥ | ||
| 32 | #15aತಥಾ ತ್ವಂ ಸಂಷರಿಷ್ವಜ್ಯ ರೌದ್ರಯಾತಿ ನೃಶಂಸಯಾ । | 6.32.15aतथा त्वं सम्परिष्वज्य रौद्रयातिनृशंसया । | 6.23.15aतथा त्वं संपरिष्वज्य रौद्रयातिनृशंसया । | 6.32.15aतथा त्वं सम्परिष्वज्य रौद्रयाऽतिनृशंसया । | 6.32.15aतथा त्वं सम्परिष्वज्य रौद्रयाऽतिनृशंसया। | ||
| 33 | #15bಕಾಲರಾತ್ರ್ಯಾ ಮಯಾಚ್ಛಿದ್ಯ ಹೃತಃ ಕಮಲಲೋಚನ ॥ | 6.32.15bकालरात्र्या ममाच्छिद्य हृतः कमललोचन ॥ १५ ॥ | 6.23.15bकालरात्र्या मयाच्छिद्य हृतः कमललोचनः ॥6.23.15॥ | 6.32.15bकालरात्र्या ममाच्छिद्य हृतः कमललोचनः ॥ १५ ॥ | 6.32.15bकालरात्र्या ममाच्छिद्य हृतः कमललोचन ॥ 6.32.15 ॥ | ||
| 34 | #16aಇಹಶೇಷೇ ಮಹಾಬಾಹೋ ಮಾಂ ವಿಹಾಯ ತಪಸ್ವಿನೀಮ್ । | 6.32.16aइह शेषे महाबाहो मां विहाय तपस्विनीम् । | 6.23.16aउपशेषे महाबाहो मां विहाय तपस्विनीम् । | 6.32.16aउपशेषे महाबाहो मां विहाय तपस्विनीम् । | 6.32.16aउपशेषे महाबाहो मां विहाय तपस्विनीम्। | ||
| 35 | #16bಪ್ರಿಯಾಮಿವ ಯಥಾ ನಾರೀಂ ಪೃಥಿವೀಂ ಪುರುಷರ್ಷಭ ॥ | 6.32.16bप्रियामिव यथा नारीं पृथिवीं पुरुषर्षभ ॥ १६ ॥ | 6.23.16bप्रियामिव शुभां नारीं पृथिवीं पुरुषर्षभ ॥6.23.16॥ | 6.32.16bप्रियामिव समाश्लिष्य पृथिवीं पुरुषर्षभ ॥ १६ ॥ | 6.32.16bप्रियामिव समाश्लिष्य पृथिवीं पुरुषर्षभ ॥ 6.32.16 ॥ | ||
| 36 | #17aಅರ್ಚಿತಂ ಸತತಂ ಯತ್ನಾದ್ಗಂಧಮಾಲ್ಯೈರ್ಮಯಾ ತವ । | 6.32.17aअर्चितं सततं यत्नाद् गन्धमाल्यैर्मया तव । | 6.23.17aअर्चितं सततं यत्नाद्गन्धमाल्यैर्मया तव । | 6.32.17aअर्चितं सततं यत्नाद्गन्धमाल्यैर्मया तव । | 6.32.17aअर्चितं सततं यत्तत् गन्धमाल्यैर्मया तव। | ||
| 37 | #17bಇದಂ ತೇ ಮತ್ಪ್ರಿಯಂ ವೀರ ಧನುಃ ಕಾಂಚನಭೂಷಿತಮ್ ॥ | 6.32.17bइदं ते मत्प्रियं वीर धनुः काञ्चनभूषितम् ॥ १७ ॥ | 6.23.17bइदं ते मत्प्रियं वीर धनुः काञ्चनभूषितम् ॥6.23.17॥ | 6.32.17bइदं ते मत्प्रियं वीर धनुः काञ्चनभूषितम् ॥ १७ ॥ | 6.32.17bइदं ते मत्प्रियं वीर धनु काञ्चनभूषणम् ॥ 6.32.17 ॥ | ||
| 38 | #18aಪಿತ್ರಾ ದಶರಥೇನ ತ್ವಂ ಶ್ವಶುರೇಣ ಮಮಾನಘ । | 6.32.18aपित्रा दशरथेन त्वं श्वशुरेण ममानघ । | 6.23.18aपित्रा दशरथेन त्वं श्वशुरेण ममानघ । | 6.32.18aपित्रा दशरथेन त्वं श्वशुरेण ममानघ । | 6.32.18aपित्रा दशरथेन त्वं श्वशुरेण ममानघ। | ||
| 39 | #18bಸರ್ವೈಶ್ಚ ಪಿತೃಭಿಃ ಸಾರ್ಧಂ ನೂನಂ ಸ್ವರ್ಗೇ ಸಮಾಗತಃ ॥ | 6.32.18bसर्वैश्च पितृभिः सार्धं नूनं स्वर्गे समागतः ॥ १८ ॥ | 6.23.18bपूर्वैश्च पितृभिः सार्धं नूनं स्वर्गे समागतः ॥6.23.18॥ | 6.32.18bसर्वैश्च पितृभिः सार्धं नूनं स्वर्गे समागतः ॥ १८ ॥ | 6.32.18bसर्वैश्च पितृभिः सार्धं नूनं स्वर्गे समागतः ॥ 6.32.18 ॥ | ||
| 40 | #19aದಿವಿ ನಕ್ಷತ್ರಭೂತಂ ಚ ಮಹತ್ಕರ್ಮಕೃತಂ ತಥಾ । | 6.32.19aदिवि नक्षत्रभूतं च महत्कर्मकृतं तथा । | 6.23.19aदिवि नक्षत्रभूतस्त्वं महत्कर्म कृतं प्रियम् । | 6.32.19aदिवि नक्षत्रभूतस्त्वं महत्कर्मकृतां प्रियम् । | 6.32.19aदिवि नक्षत्रभूतस्त्वं महत्कर्मकृतां प्रियम्। | ||
| 41 | #19bಪುಣ್ಯಂ ರಾಜರ್ಷಿವಂಶಂ ತ್ವಮಾತ್ಮನಃ ಸಮುಪೇಕ್ಷಸೇ ॥ | 6.32.19bपुण्यं राजर्षिवंशं त्वमात्मनः समुपेक्षसे ॥ १९ ॥ | 6.23.19bपुण्यं राजर्षिवंशं त्वमात्मनः समुपेक्षसे ॥6.23.19॥ | 6.32.19bपुण्यं राजर्षिवंशं त्वमात्मनः समपेक्षसे ॥ १९ ॥ | 6.32.19bपुण्यं राजर्षिवंशं त्वमात्मनः समवेक्षसे ॥ 6.32.19 ॥ | ||
| 42 | #20aಕಿಂ ಮಾಂ ನ ಪ್ರೇಕ್ಷಸೇ ರಾಜನ್ಕಿಂ ವಾ ನ ಪ್ರತಿಭಾಷಸೇ । | 6.32.20aकिं मां न प्रेक्षसे राजन् किं वा न प्रतिभाषसे । | 6.23.20aकिं मान्न प्रेक्षसे राजन्किं मां न प्रतिभाषसे । | 6.32.20aकिं मान्न प्रेक्षसे राजन्किं मां न प्रतिभाषसे । | 6.32.20aकिं मां न प्रेक्षसे राजन् किं मां न प्रतिभाषसे। | ||
| 43 | #20bಬಾಲಾಂ ಬಾಲ್ಯೇನ ಸಂಪ್ರಾಪ್ತಾಂ ಭಾರ್ಯಾಂ ಮಾಂ ಸಹಚಾರಿಣೀಮ್ ॥ | 6.32.20bबालां बालेन सम्प्राप्तां भार्यां मां सहचारिणीम् ॥ २० ॥ | 6.23.20bबालां बालेन संप्राप्तां भार्यां मां सहचारिणीम् ॥6.23.20॥ | 6.32.20bबालां बालेन सम्प्राप्तां भार्यां मां सहचारिणीम् ॥ २० ॥ | 6.32.20bबालां बाल्येन सम्प्राप्तां भार्यां मां सहचारिणीम् ॥ 6.32.20 ॥ | ||
| 44 | #21aಸಂಶ್ರುತಂ ಗೃಹ್ಣತಾ ಪಾಣಿಂ ಚರಿಷ್ಯಾಮೀತಿ ಯತ್ತ್ವಯಾ । | 6.32.21aसंश्रुतं गृह्णता पाणिं चरिष्यामीति यत् त्वया । | 6.23.21aसंश्रुतं गृह्णता पाणिं चरिष्यामीति यत्त्वया । | 6.32.21aसंश्रुतं गृह्णता पाणिं चरिष्यामीति यत्त्वया । | 6.32.21aसंश्रुतं गृह्णता पाणिं चरिष्यामीति यत्त्वया। | ||
| 45 | #21bಸ್ಮರ ತನ್ನಾಮ ಕಾಕುತ್ಸ್ಥ ನಯ ಮಾಮಪಿ ದುಃಖಿತಾಮ್ ॥ | 6.32.21bस्मर तन्नाम काकुत्स्थ नय मामपि दुःखिताम् ॥ २१ ॥ | 6.23.21bस्मर तन्मम काकुत्स्थ नय मामपि दुःखिताम् ॥6.23.21॥ | 6.32.21bस्मर तन्मम काकुत्स्थ नय मामपि दुःखिताम् ॥ २१ ॥ | 6.32.21bस्मर तन्मम काकुत्स्थ नय मामपि दुःखिताम् ॥ 6.32.21 ॥ | ||
| 46 | #22aಕಸ್ಮಾನ್ಮಾಮಪಹಾಯ ತ್ವಂ ಗತೋ ಗತಿಮತಾಂ ವರ । | 6.32.22aकस्मान्मामपहाय त्वं गतो गतिमतां वर । | 6.23.22aकस्मान्मामपहाय त्वं गतो गतिमतां वर । | 6.32.22aकस्मान्मामपहाय त्वं गतो गतिमतां वर । | 6.32.22aकस्मान्मामपहाय त्वं गतो गतिमतां वर। | ||
| 47 | #22bಅಸ್ಮಾಲ್ಲೋಕಾದಮುಂ ಲೋಕಂ ತ್ಯಕ್ತ್ವಾ ಮಾಮಪಿ ದುಃಖಿತಾಮ್ ॥ | 6.32.22bअस्माल्लोकादमुं लोकं त्यक्त्वा मामपि दुःखिताम् ॥ २२ ॥ | 6.23.22bअस्माल्लोकादमुं लोकं त्यक्त्वा मामिह दुःखिताम् ॥6.23.22॥ | 6.32.22bअस्माल्लोकादमुं लोकं त्यक्त्वा मामिह दुःखिताम् ॥ २२ ॥ | 6.32.22bअस्माल्लोकादमुं लोकं त्यक्त्वा मामपि दुःखिताम् ॥ 6.32.22 ॥ | ||
| 48 | #23aಕಲ್ಯಾಣೈ ರುಚಿರಂ ಗಾತ್ರಂ ಪರಿಷ್ಟಕ್ತಂ ಮಯೈವ ತು । | 6.32.23aकल्याणै रुचिरं गात्रं परिष्वक्तं मयैव तु । | 6.23.23aकल्याणैरुचितं यत्तत्परिष्वक्तं मयैव तु । | 6.32.23aकल्याणैरुचितं यत्तत्परिष्वक्तं मयैव तु । | 6.32.23aकल्याणैरुचितं यत्तत् परिष्वक्तं मयैव तु। | ||
| 49 | #23bಕ್ರವ್ಯಾದೈಸ್ತಚ್ಛರೀರಂ ತೇ ನೂನಂ ವಿಪರಿಕೃಷ್ಯತೇ ॥ | 6.32.23bक्रव्यादैस्तच्छरीरं ते नूनं विपरिकृष्यते ॥ २३ ॥ | 6.23.23bक्रव्यादैस्तच्छरीरं ते नूनं विपरिकृष्यते ॥6.23.23॥ | 6.32.23bक्रव्यादैस्तच्छरीरं ते नूनं विपरिकृष्यते ॥ २३ ॥ | 6.32.23bक्रव्यादैस्तच्छरीरं ते नूनं विपरिकृष्यते ॥ 6.32.23 ॥ | ||
| 50 | #24aಅಗ್ನಿಷ್ಟೋಮಾದಿಭಿರ್ಯಜ್ಞೈರಿಷ್ಟವಾನಾಪ್ತದಕ್ಷಿಣೈಃ । | 6.32.24aअग्निष्टोमादिभिर्यज्ञैरिष्टवानाप्तदक्षिणैः । | 6.23.24aअग्निष्टोमादिभिर्यज्ञैरिष्टवानाप्तदक्षिणैः । | 6.32.24aअग्निष्टोमादिभिर्यज्ञैरिष्टवानाप्तदक्षिणैः । | 6.32.24aअग्निष्टोमादिभिर्यज्ञैरिष्टवानाप्तदक्षिणैः। | ||
| 51 | #24bಅಗ್ನಿಹೋತ್ರೇಣ ಸಂಸ್ಕಾರಂ ಕೇನ ತ್ವಂ ನ ತು ಲಪ್ಸ್ಯಸೇ ॥ | 6.32.24bअग्निहोत्रेण संस्कारं केन त्वं न तु लप्स्यसे ॥ २४ ॥ | 6.23.24bअग्निहोत्रेण संस्कारं केन त्वं तु न लप्स्यसे ॥6.23.24॥ | 6.32.24bअग्निहोत्रेण संस्कारं केन त्वं तु न लप्स्यसे ॥ २४ ॥ | 6.32.24bअग्निहोत्रेण संस्कारं केन त्वं तु न लप्स्यसे ॥ 6.32.24 ॥ | ||
| 52 | #25aಪ್ರವ್ರಜ್ಯಾಮುಪಪನ್ನಾನಾಂ ತ್ರಯಾಣಾಮೇಕಮಾಗತಮ್ । | 6.32.25aप्रव्रज्यामुपपन्नानां त्रयाणामेकमागतम् । | 6.23.25aप्रव्रज्यामुपपन्नानां त्रयाणामेकमागतम् । | 6.32.25aप्रव्रज्यामुपपन्नानां त्रयाणामेकमागतम् । | 6.32.25aप्रव्रज्यामुपपन्नानां त्रयाणामेकमागतम्। | ||
| 53 | #25bಪರಿಪ್ರೇಕ್ಷ್ಯತಿ ಕೌಸಲ್ಯಾ ಲಕ್ಷ್ಮಣಂ ಶೋಕಲಾಲಸಾ ॥ | 6.32.25bपरिप्रेक्ष्यति कौसल्या लक्ष्मणं शोकलालसा ॥ २५ ॥ | 6.23.25bपरिप्रक्ष्यति कौसल्या लक्ष्मणं शोकलालसा ॥6.23.25॥ | 6.32.25bपरिप्रक्ष्यति कौसल्या लक्ष्मणं शोकलालसा ॥ २५ ॥ | 6.32.25bपरिप्रक्ष्यति कौसल्या लक्ष्मणं शोकलालसा ॥ 6.32.25 ॥ | ||
| 54 | #26aಸ ತಸ್ಯಾಃ ಪರಿಪೃಚ್ಛಂತ್ಯಾ ವಧಂ ಮಿತ್ರಬಲಸ್ಯ ತೇ । | 6.32.26aस तस्याः परिपृच्छन्त्या वधं मित्रबलस्य ते । | 6.23.26aस तस्याः परिपृच्छन्त्या वधं मित्रबलस्य ते । | 6.32.26aस तस्याः परिपृच्छन्त्या वधं मित्रबलस्य ते । | 6.32.26aस तस्याः परिपृच्छन्त्या वधं मित्रबलस्य ते। | ||
| 55 | #26bತವ ಚಾಖ್ಯಾಸ್ಯತೇ ನೂನಂ ನಿಶಾಯಾಂ ರಾಕ್ಷಸೈರ್ವಧಮ್ ॥ | 6.32.26bतव चाख्यास्यते नूनं निशायां राक्षसैर्वधम् ॥ २६ ॥ | 6.23.26bतव चाख्यास्यते नूनं निशायां राक्षसैर्वधम् ॥6.23.26॥ | 6.32.26bतव चाख्यास्यते नूनं निशायां राक्षसैर्वधम् ॥ २६ ॥ | 6.32.26bतव चाख्यास्यते नूनं निशायां राक्षसैर्वधम् ॥ 6.32.26 ॥ | ||
| 56 | #27aಸಾ ತ್ವಾಂ ಸುಪ್ತಂ ಹತಂ ಜ್ಞಾತ್ವಾ ಮಾಂ ಚ ರಕ್ಷೋಗೃಹಂ ಗತಾಮ್ । | 6.32.27aसा त्वां सुप्तं हतं ज्ञात्वा मां च रक्षोगृहं गताम् । | 6.23.27aसा त्वां सुप्तं हतं श्रुत्वा मां च रक्षोगृहं गताम् । | 6.32.27aसा त्वां सुप्तं हतं श्रुत्वा मां च रक्षोगृहं गताम् । | 6.32.27aसा त्वां सुप्तं हतं श्रुत्वा मां च रक्षोगृहं गताम्। | ||
| 57 | #27bಹೃದಯೇನಾವದೀರ್ಣೇನ ನ ಭವಿಷ್ಯತಿ ರಾಘವ ॥ | 6.32.27bहृदयेनावदीर्णेन न भविष्यति राघव ॥ २७ ॥ | 6.23.27bहृदयेन विदीर्णेन न भविष्यति राघव ॥6.23.27॥ | 6.32.27bहृदयेनावदीर्णेन न भविष्यति राघव ॥ २७ ॥ | 6.32.27bहृदयेनावदीर्णेन न भविष्यति राघव ॥ 6.32.27 ॥ | ||
| 58 | #28aಮಮ ಹೇತೋರನಾರ್ಯಾಯಾ ಅನಘಃ ಪಾರ್ಥಿವಾತ್ಮಜಃ । | 6.32.28aमम हेतोरनार्याया अनघः पार्थिवात्मजः । | 6.32.28aमम हेतोरनार्याया ह्यनर्हः पार्थिवात्मजः । | 6.32.28aमम हेतोरनार्याया ह्यनर्हः पार्थिवात्मजः। | |||
| 59 | #28bರಾಮಃ ಸಾಗರಮುತ್ತೀರ್ಯ ವೀರ್ಯವಾನ್ ಗೋಷ್ಪದೇ ಹತಃ ॥ | 6.32.28bरामः सागरमुत्तीर्य वीर्यवान् गोष्पदे हतः ॥ २८ ॥ | 6.32.28bरामः सागरमुत्तीर्य सत्ववान्गोष्पदे हतः ॥ २८ ॥ | 6.32.28bरामः सागरमुत्तीर्य सत्त्ववान् गोष्पदे हतः ॥ 6.32.28 ॥ | |||
| 60 | #29aಅಹಂ ದಾಶರಥೇನೋಢಾ ಮೋಹಾತ್ ಸ್ವಕುಲಪಾಂಸನೀ । | 6.32.29aअहं दाशरथेनोढा मोहात् स्वकुलपांसनी । | 6.32.29aअहं दाशरथेनोढा मोहात्स्वकुलपांसनी । | 6.32.29aअहं दाशरथेनोढा मोहात् स्वकुलपांसनी। | |||
| 61 | #29bಆರ್ಯಪುತ್ರಸ್ಯ ರಾಮಸ್ಯ ಭಾರ್ಯಾ ಮೃತ್ಯುರಜಾಯತ ॥ | 6.32.29bआर्यपुत्रस्य रामस्य भार्या मृत्युरजायत ॥ २९ ॥ | 6.32.29bआर्यपुत्रस्य रामस्य भार्या मृत्युरजायत ॥ २९ ॥ | 6.32.29bआर्यपुत्रस्य रामस्य भार्या मृत्युरजायत ॥ 6.32.29 ॥ | |||
| 62 | #30aನೂನಮನ್ಯಾಂ ಮಯಾ ಜಾತಿಂ ವಾರಿತಂ ದಾನಮುತ್ತಮಮ್ । | 6.32.30aनूनमन्यां मया जातिं वारितं दानमुत्तमम् । | 6.32.30aनूनमन्यां मया जातिं वारितं दानमुत्तमम् । | 6.32.30aनूनमन्यां मया जातिं वारितं दानमुत्तमम्। | |||
| 63 | #30bಯಾಹಮದ್ಯೇಹ ಶೋಚಾಮಿ ಭಾರ್ಯಾ ಸರ್ವಾತಿಥೇರಿಹ ॥ | 6.32.30bयाहमद्यैव शोचामि भार्या सर्वातिथेरिह ॥ ३० ॥ | 6.32.30bयाऽहमद्येह शोचामि भार्या सर्वोतिथेरपि ॥ ३० ॥ | 6.32.30bयाऽहमद्येह शोचामि भार्या सर्वातिथेरपि ॥ 6.32.30 ॥ | |||
| 64 | #31aಸಾಧು ಘಾತಯ ಮಾಂ ಕ್ಷಿಪ್ರಂ ರಾಮಸ್ಯೋಪರಿ ರಾವಣ । | 6.32.31aसाधु घातय मां क्षिप्रं रामस्योपरि रावण । | 6.23.28aसाधु पातय मां क्षिप्रं रामस्योपरि रावणः । | 6.32.31aसाधु पातय मां क्षिप्रं रामस्योपरि रावणः । | 6.32.31aसाधु पातय मां क्षिप्रं रामस्योपरि रावण। | ||
| 65 | #31bಸಮಾನಯ ಪತಿಂ ಪತ್ನ್ಯಾ ಕುರು ಕಲ್ಯಾಣಮುತ್ತಮಮ್ ॥ | 6.32.31bसमानय पतिं पत्न्या कुरु कल्याणमुत्तमम् ॥ ३१ ॥ | 6.23.28bसमानय पतिं पत्न्या कुरु कल्याणमुत्तमम् ॥6.23.28॥ | 6.32.31bसमानय पतिं पत्न्या कुरु कल्याणमुत्तमम् ॥ ३१ ॥ | 6.32.31bसमानय पतिं पत्न्या कुरु कल्याणमुत्तमम् ॥ 6.32.31 ॥ | ||
| 66 | #32aಶಿರಸಾ ಮೇ ಶಿರಶ್ಚಾಸ್ಯ ಕಾಯಂ ಕಾಯೇನ ಯೋಜಯ । | 6.32.32aशिरसा मे शिरश्चास्य कायं कायेन योजय । | 6.23.29aशिरसा मे शिरश्चास्य कायं कायेन योजय । | 6.32.32aशिरसा मे शिरश्चास्य कायं कायेन योजय । | 6.32.32aशिरसा मे शिरश्चास्य कायं कायेन योजय। | ||
| 67 | #32bರಾವಣಾನುಗಮಿಷ್ಯಾಮಿ ಗತಿಂ ಭರ್ತುರ್ಮಹಾತ್ಮನಃ ॥ | 6.32.32bरावणानुगमिष्यामि गतिं भर्तुर्महात्मनः ॥ ३२ ॥ | 6.23.29bरावणानुगमिष्यामि गतिं भर्तुर्महात्मनः । | 6.32.32bरावणानुगमिष्यामि गतिं भर्तुर्महात्मनः ॥ ३२ ॥ | 6.32.32bरावणानुगमिष्यामि गतिं भर्तुर्महात्मनः * ॥ 6.32.32 ॥ | ||
| 68 | 6.23.29cमुहूर्तमपि नेच्छामि जीवितुं पापजीविना ॥6.23.29॥ | 6.32.33a[ मुहूर्तमपि नेच्छामि जीवितुं पापजीविना । | |||||
| 69 | 6.23.30aश्रुतं मया वेदविदां ब्राह्मणानां पितुर्गृहे । | 6.32.33bश्रुतं मया वेदविदां ब्राह्मणानां पितुर्गृहे । | |||||
| 70 | 6.23.30bयासां स्त्रीणां प्रियो भर्ता तासां लोका महोदयाः ॥6.23.30॥ | 6.32.33cयासां स्त्रीणां प्रियो भर्ता तासां लोका महोदयाः ॥ ३३ ॥ | |||||
| 71 | 6.23.31aक्षमा यस्मिन्दमस्त्यागः सत्यं धर्मः कृतज्ञता । | 6.32.34aक्षमा यस्मिन्दमस्त्यागः सत्यं धर्मः कृतज्ञता । | |||||
| 72 | 6.23.31bअहिंसा चैव भूतानां तमृते का गतिर्मम ॥6.23.31॥ | 6.32.34bअहिंसा चैव भूतानां तमृते का गतिर्मम ॥ ३४ ॥ | |||||
| 73 | 6.32.34c] | ||||||
| 74 | #33aಇತೀವ ದುಃಖಸಂತಪ್ತಾ ವಿಲಲಾಪಾಯತೇಕ್ಷಣಾ । | 6.32.33aइतीव दुःखसन्तप्ता विललापायतेक्षणा । | 6.23.32aइति सा दुःखसंतप्ता विललापायतेक्षणा । | 6.32.35aइति सा दुःखसन्तप्ता विललापायतेक्षणा । | 6.32.33aइति सा दुःखसन्तप्ता विललापायतेक्षणा। | ||
| 75 | #33bಭರ್ತುಃ ಶಿರೋ ಧನುಶ್ಚೈವ ದದರ್ಶ ಜನಕಾತ್ಮಜಾ ॥ | 6.32.33bभर्तुः शिरो धनुश्चैव ददर्श जनकात्मजा ॥ ३३ ॥ | 6.23.32bभर्तुः शिरो धनुस्तत्र समीक्ष्य जनकात्मजा ॥6.23.32॥ | 6.32.35bभर्तुः शिरो धनुस्तत्र समीक्ष्य त पुनः पुनः ॥ ३५ ॥ | 6.32.33bभर्तुः शिरो धनुस्तत्र समीक्ष्य च पुनःपुनः ॥ 6.32.33 ॥ | ||
| 76 | #34aಏವಂ ಲಾಲಪ್ಯಮಾನಾಯಾಂ ಸೀತಾಯಾಂ ತತ್ರ ರಾಕ್ಷಸಃ । | 6.32.34aएवं लालप्यमानायां सीतायां तत्र राक्षसः । | 6.23.33aएवं लालप्यमानायां सीतायां तत्र राक्षसः । | 6.32.36aएवं लालप्यमानायां सीतायां तत्र राक्षसः । | 6.32.34aएवं लालप्यमानायां सीतायां तत्र राक्षसः। | ||
| 77 | #34bಅಭಿಚಕ್ರಾಮ ಭರ್ತಾರಮನೀಕಸ್ಥಃ ಕೃತಾಂಜಲಿಃ ॥ | 6.32.34bअभिचक्राम भर्तारमनीकस्थः कृताञ्जलिः ॥ ३४ ॥ | 6.23.33bअभिचक्राम भर्तारमनीकस्थः कृताञ्जलिः ॥6.23.33॥ | 6.32.36bअभिचक्राम भर्तारमनीकस्थः कृताञ्जलिः ॥ ३६ ॥ | 6.32.34bअभिचक्राम भर्त्तारमनीकस्थः कृताञ्जलिः ॥ 6.32.34 ॥ | ||
| 78 | #35aವಿಜಯಸ್ವಾರ್ಯಪುತ್ರೇತಿ ಸೋಽಭಿವಾದ್ಯ ಪ್ರಸಾದ್ಯ ಚ । | 6.32.35aविजयस्वार्यपुत्रेति सोऽभिवाद्य प्रसाद्य च । | 6.23.34aविजयस्वार्यपुत्रेति सोऽभिवाद्य प्रसाद्य च । | 6.32.37aविजयस्वार्यपुत्रेति सोऽभिवाद्य प्रसाद्य च । | 6.32.35aविजयस्वार्यपुत्रेति सोऽभिवाद्य प्रसाद्य च। | ||
| 79 | #35bನ್ಯವೇದಯದನುಪ್ರಾಪ್ತಂ ಪ್ರಹಸ್ತಂ ವಾಹಿನೀಪತಿಮ್ ॥ | 6.32.35bन्यवेदयदनुप्राप्तं प्रहस्तं वाहिनीपतिम् ॥ ३५ ॥ | 6.23.34bन्यवेदयदनुप्राप्तं प्रहस्तं वाहिनीपतिम् ॥6.23.34॥ | 6.32.37bन्यवेदयदनुप्राप्तं प्रहस्तं वाहिनीपतिम् ॥ ३७ ॥ | 6.32.35bन्यवेदयदनुप्राप्तं प्रहस्तं वाहिनीपतिम् ॥ 6.32.35 ॥ | ||
| 80 | #36aಅಮಾತ್ಯೈಃ ಸಹಿತೈಃ ಸರ್ವೈಃ ಪ್ರಹಸ್ತಃ ಸ್ತ್ವಾಮುಪಸ್ಥಿತಃ । | 6.32.36aअमात्यैः सहितः सर्वैः प्रहस्तस्त्वामुपस्थितः । | 6.23.35aअमात्यैः सहितः सर्वैः प्रहस्तः समुपस्थितः । | 6.32.38aअमात्यैः सहितः सर्वैः प्रहस्तः समुपस्थितः । | 6.32.36aअमात्यैः सहितैः सर्वैः प्रहस्तः समुपस्थितः। | ||
| 81 | #36bತೇನ ದರ್ಶನಕಾಮೇನ ಅಹಂ ಪ್ರಸ್ಥಾಪಿತಃ ಪ್ರಭೋ ॥ | 6.32.36bतेन दर्शनकामेन अहं प्रस्थापितः प्रभो ॥ ३६ ॥ | 6.32.38bतेन दर्शनकामेन वयं प्रस्थापिताः प्रभो ॥ ३८ ॥ | 6.32.36bतेन दर्शनकामेन वयं प्रस्थापिताः प्रभो ॥ 6.32.36 ॥ | |||
| 82 | #37aನೂನಮಸ್ತಿ ಮಹಾರಾಜ ರಾಜಭಾವಾತ್ ಕ್ಷಮಾನ್ವಿತ । | 6.32.37aनूनमस्ति महाराज राजभावात् क्षमान्वित । | 6.32.37aनूनमस्ति महाराज राजभावात् क्षमान्वितम्। | ||||
| 83 | #37bಕಿಂಚಿದಾತ್ಯಯಿಕಂ ಕಾರ್ಯಂ ತೇಷಾಂ ತ್ವಂ ದರ್ಶನಂ ಕುರು ॥ | 6.32.37bकिञ्चिदात्ययिकं कार्यं तेषां त्वं दर्शनं कुरु ॥ ३७ ॥ | 6.23.35bकिंचिदात्ययिकं कार्यं तेषां त्वं दर्शनं कुरु ॥6.23.35॥ | 6.32.37bकिञ्चिदात्ययिकं कार्यं तेषां त्वं दर्शनं कुरु ॥ 6.32.37 ॥ | |||
| 84 | #38aಏತಚ್ಛ್ರುತ್ವಾ ದಶಗ್ರೀವೋ ರಾಕ್ಷಸ ಪ್ರತಿವೇದಿತಮ್ । | 6.32.38aएतच्छ्रुत्वा दशग्रीवो राक्षसप्रतिवेदितम् । | 6.23.36aएतच्छ्रुत्वा दशग्रीवो राक्षसप्रतिवेदितम् । | 6.32.38aएतच्छुत्वा दशग्रीवो राक्षसप्रतिवेदितम्। | |||
| 85 | #38bಅಶೋಕವನಿಕಾಂ ತ್ಯಕ್ತ್ವಾ ಮಂತ್ರಿಣಾಂ ದರ್ಶನಂ ಯಯೌ ॥ | 6.32.38bअशोकवनिकां त्यक्त्वा मन्त्रिणां दर्शनं ययौ ॥ ३८ ॥ | 6.23.36bअशोकवनिकां त्यक्त्वा मन्त्रिणां दर्शनं ययौ ॥6.23.36॥ | 6.32.38bअशोकवनिकां त्यक्त्वा मन्त्रिणां दर्शनं ययौ ॥ 6.32.38 ॥ | |||
| 86 | #39aಸ ತು ಸರ್ವಂ ಸಮರ್ಥ್ಯೈವ ಮಂತ್ರಿಭಿಃ ಕೃತ್ಯಮಾತ್ಮನಃ । | 6.32.39aस तु सर्वं समर्थ्यैव मन्त्रिभिः कृत्यमात्मनः । | 6.23.37aस तु सर्वं समर्थ्यैव मन्त्रिभिः कृत्यमात्मनः । | 6.32.39aस तु सर्वं समर्थ्यैव मन्त्रिभिः कृत्यमात्मनः। | |||
| 87 | #39bಸಭಾಂ ಪ್ರವಿಶ್ಯವಿದಧೇ ವಿದಿತ್ವಾ ರಾಮವಿಕ್ರಮಮ್ ॥ | 6.32.39bसभां प्रविश्य विदधे विदित्वा रामविक्रमम् ॥ ३९ ॥ | 6.23.37bसभां प्रविश्य विदधे विदित्वा रामविक्रमम् ॥6.23.37॥ | 6.32.39bसभां प्रविश्य विदधे विदित्वा रामविक्रमम् ॥ 6.32.39 ॥ | |||
| 88 | #40aಅಂತರ್ಧಾನಂ ತು ತಚ್ಛೀರ್ಷಂ ತಚ್ಚ ಕಾರ್ಮುಕಮತ್ತಮಮ್ । | 6.32.40aअन्तर्धानं तु तच्छीर्षं तच्च कार्मुकमुत्तमम् । | 6.23.38aअन्तर्धानं तु तच्छीर्षं तच्च कार्मुकमुत्तमम् । | 6.32.40aअन्तर्धानं तु तच्छीर्षं तच्च कार्मुकमुत्तमम्। | |||
| 89 | #40bಜಗಾಮ ರಾವಣಸ್ಯೈವ ನಿರ್ಯಾಣಸಮನಂತರಮ್ ॥ | 6.32.40bजगाम रावणस्यैव निर्याणसमनन्तरम् ॥ ४० ॥ | 6.23.38bजगाम रावणस्यैव निर्याणसमनन्तरम् ॥6.23.38॥ | 6.32.40bजगाम रावणस्यैव निर्याणसमनन्तरम् ॥ 6.32.40 ॥ | |||
| 90 | #41aರಾಕ್ಷಸೇಂದ್ರಸ್ತು ತೈಃ ಸಾರ್ಧಂ ಮಂತ್ರಿಭಿರ್ಭೀಮವಿಕ್ರಮೈಃ । | 6.32.41aराक्षसेन्द्रस्तु तैः सार्धं मन्त्रिभिर्भीमविक्रमैः । | 6.23.39aराक्षसेन्द्रस्तु तैः सार्धं मन्त्रिभिर्भीमविक्रमैः । | 6.32.41aराक्षसेन्द्रस्तु तैः सार्धं मन्त्रिभिर्भीमविक्रमैः। | |||
| 91 | #41bಸಮರ್ಥಯಾಮಾಸ ತದಾ ರಾಮಕಾರ್ಯ ವಿನಿಶ್ಚಯಮ್ ॥ | 6.32.41bसमर्थयामास तदा रामकार्यविनिश्चयम् ॥ ४१ ॥ | 6.23.39bसमर्थयामास तदा रामकार्यविनिश्चयम् ॥6.23.39॥ | 6.32.41bसमर्थयामास तदा रामकार्यविनिश्चयम् ॥ 6.32.41 ॥ | |||
| 92 | #42aಅವಿದೂರಸ್ಥಿತಾನ್ ಸರ್ವಾನ್ ಬಲಾಧ್ಯಕ್ಷಾನ್ ಹಿತೈಷಿಣಃ । | 6.32.42aअविदूरस्थितान् सर्वान् बलाध्यक्षान् हितैषिणः । | 6.23.40aअविदूरस्थितान्सर्वान्बलाध्यक्षान्हितैषिणः । | 6.32.42aअविदूरस्थितान् सर्वान् बलाध्यक्षान् हितैषिणः। | |||
| 93 | #42bಅಬ್ರವೀತ್ ಕಾಲಸದೃಶಂ ರಾವಣೋ ರಾಕ್ಷಸಾಽಧಿಪಃ ॥ | 6.32.42bअब्रवीत् कालसदृशं रावणो राक्षसाधिपः ॥ ४२ ॥ | 6.23.40bअब्रवीत्कालसदृशो रावणो राक्षसाधिपः ॥6.23.40॥ | 6.32.42bअब्रवीत् कालसदृशो रावणो राक्षसाधिपः ॥ 6.32.42 ॥ | |||
| 94 | #43aಶೀಘ್ರಂ ಭೇರೀನಿನಾದೇನ ಸ್ಫುಟಂ ಕೋಣಾಹತೇನ ಮೇ । | 6.32.43aशीघ्रं भेरीनिनादेन स्फुटं कोणाहतेन मे । | 6.23.41aशीघ्रं भेरीनिनादेन स्फुटकोणाहतेन मे । | 6.32.43aशीघ्रं भेरीनिनादेन स्फुटकोणाहतेन मे। | |||
| 95 | #43bಸಮಾನಯಧ್ವಂ ಸೈನ್ಯಾನಿ ವಕ್ತವ್ಯಂ ಚ ನ ಕಾರಣಮ್ ॥ | 6.32.43bसमानयध्वं सैन्यानि वक्तव्यं च न कारणम् ॥ ४३ ॥ | 6.23.41bसमानयध्वं सैन्यानि वक्तव्यं च न कारणम् ॥6.23.41॥ | 6.32.43bसमानयध्वं सैन्यानि वक्तव्यं च न कारणम् ॥ 6.32.43 ॥ | |||
| 96 | #44aತತಸ್ತಥೇತಿ ಪ್ರತಿಗೃಹ್ಯ ತದ್ವಚ ಸ್ತದೈವ ದೂತಾಃ ಸಹಸಾ ಮಹದ್ ಬಲಮ್ । | 6.32.44aततस्तथेति प्रतिगृह्य तद्वच- स्तदैव दूताः सहसा महद् बलम् । | 6.23.42aततस्तथेति प्रतिगृह्य तद्वचो बलाधिपास्ते महदात्मनो बलम् । | 6.32.44aततस्तथेति प्रतिगृह्य तद्वचो बलाधिपास्ते महदात्मनो बलम्। | |||
| 97 | #44bಸಮಾನಯಂಶ್ಚೈವ ಸಮಾಗತಂ ಚ ನ್ಯವೇದಯನ್ಭರ್ತರಿ ಯುದ್ಧಕಾಂಕ್ಷಿಣಿ ॥ | 6.32.44bसमानयंश्चैव समागतं च न्यवेदयन् भर्तरि युद्धकाङ्क्षिणि ॥ ४४ ॥ | 6.23.42bसमानयंश्चैव समागतं च ते न्यवेदयन्भर्तरि युद्धकाङ्क्षिणि ॥6.23.42॥ | 6.32.44bसमानयंश्चैव समागमं च ते न्यवेदयन् भर्तरि युद्धकाङ्क्षिणि ॥ 6.32.44 ॥ |