रामेण सुवेलपर्वतप्रवेशः. Built from structured/verses.jsonl. Rows are monotone-aligned half-verse/pāda-like units split at । and ॥, so verse-number boundary differences can appear as inserted or shifted line rows.
98 aligned line rows across 7 source streams.
gor-kn 91 lines
gor-hi 91 lines
crit 87 lines
gr 82 lines
dr-mula 89 lines
| # | gor-kn | gor-hi | crit | gr | dr-mula | gr-iitk | iitk |
|---|---|---|---|---|---|---|---|
| 1 | #1aತತಸ್ತಮಕ್ಷೋಭ್ಯಬಲಂ ಲಂಕಾಯಾಂ ನೃಪತೇಶ್ವರಾಃ । | 6.31.1aततस्तमक्षोभ्यबलं लङ्कायां नृपतेश्चराः । | 6.22.1aततस्तमक्षोभ्यबलं लङ्कायां नृपतेश्चरः । | 6.31.1aततस्तमक्षोभ्यबलं लङ्काधिपतये चराः । | 6.31.1aततस्तमक्षोभ्यबलं लङ्काधिपतये चराः। | ||
| 2 | #1bಸುವೇಲೇ ರಾಘವಂ ಶೈಲೇ ನಿವಿಷ್ಟಂ ಪ್ರತ್ಯವೇದಯನ್ ॥ | 6.31.1bसुवेले राघवं शैले निविष्टं प्रत्यवेदयन् ॥ १ ॥ | 6.22.1bसुवेले राघवं शैले निविष्टं प्रत्यवेदयन् ॥6.22.1॥ | 6.31.1bसुवेले राघवं शैले निविष्टं प्रत्यवेदयन् ॥ १ ॥ | 6.31.1bसुवेले राघवं शैले निविष्टं प्रत्यवेदयन् ॥ 6.31.1 ॥ | ||
| 3 | #2aಚಾರಾಣಾಂ ರಾವಣಃ ಶ್ರುತ್ವಾ ಪ್ರಾಪ್ತಂ ರಾಮಂ ಮಹಾಬಲಮ್ । | 6.31.2aचाराणां रावणः श्रुत्वा प्राप्तं रामं महाबलम् । | 6.22.2aचाराणां रावणः श्रुत्वा प्राप्तं रामं महाबलम् । | 6.31.2aचाराणां रावणः श्रुत्वा प्राप्तं रामं महाबलम् । | 6.31.2aचाराणां रावणः श्रुत्वा प्राप्तं रामं महाबलम्। | ||
| 4 | #2bಜಾತೋದ್ವೇಗೋಽಭವತ್ ಕಿಂಚಿತ್ ಸಚಿವಾನಿದಮಬ್ರವೀತ್ ॥ | 6.31.2bजातोद्वेगोऽभवत् किञ्चित् सचिवानिदमब्रवीत् ॥ २ ॥ | 6.22.2bजातोद्वेगोऽभवत्किंचित्सचिवांश्चेदमब्रवीत् ॥6.22.2॥ | 6.31.2bजातोद्वेगोऽभवत्किंचित्सचिवानिदमब्रवीत् ॥ २ ॥ | 6.31.2bजातोद्वेगोऽभवत् किञ्चित् सचिवानिदमब्रवीत् ॥ 6.31.2 ॥ | ||
| 5 | #3aಮಂತ್ರಿಣಃ ಶೀಘ್ರಮಾಯಾಂತು ಸರ್ವೇ ವೈ ಸುಸಮಾಹಿತಾಃ । | 6.31.3aमन्त्रिणः शीघ्रमायान्तु सर्वे वै सुसमाहिताः । | 6.22.3aमन्त्रिणः शीघ्रमायान्तु सर्वे वै सुसमाहिताः । | 6.31.3aमन्त्रिणः शीघ्रमायान्तु सर्वे वै सुसमाहिताः । | 6.31.3aमन्त्रिणः शीघ्रमायान्तु सर्वे वै सुसमाहिताः। | ||
| 6 | #3bಅಯಂ ನೋ ಮಂತ್ರಕಾಲೋ ಹಿ ಸಂಪ್ರಾಪ್ತ ಇತಿ ರಾಕ್ಷಸಾಃ ॥ | 6.31.3bअयं नो मन्त्रकालो हि सम्प्राप्त इति राक्षसाः ॥ ३ ॥ | 6.22.3bअयं नो मन्त्रकालो हि संप्राप्त इव राक्षसाः ॥6.22.3॥ | 6.31.3bअयं नो मन्त्रकालो हि सम्प्राप्त इव राक्षसाः ॥ ३ ॥ | 6.31.3bअयं नो मन्त्रकालो हि सम्प्राप्त इति राक्षसाः ॥ 6.31.3 ॥ | ||
| 7 | #4aತಸ್ಯ ತಚ್ಛಾಸನಂ ಶ್ರುತ್ವಾ ಮಂತ್ರಿಣೋಽಭ್ಯಾಗಮನ್ ದ್ರುತಮ್ । | 6.31.4aतस्य तच्छासनं श्रुत्वा मन्त्रिणोऽभ्यागमन् द्रुतम् । | 6.22.4aतस्य तच्छासनं श्रुत्वा मन्त्रिणोऽभ्यागमन्द्रुतम् । | 6.31.4aतस्य तच्छासनं श्रुत्वा मन्त्रिणोऽभ्यागमन्द्रुतम् । | 6.31.4aतस्य तच्छासनं श्रुत्वा मन्त्रिणोऽभ्यागमन् द्रुतम्। | ||
| 8 | #4bತತಃ ಸ ಮಂತ್ರಯಾಮಾಸ ರಾಕ್ಷಸೈಃ ಸಚಿವೈಃ ಸಹ ॥ | 6.31.4bततः स मन्त्रयामास राक्षसैः सचिवैः सह ॥ ४ ॥ | 6.22.4bततः संमन्त्रयामास सचिवै राक्षसैः सह ॥6.22.4॥ | 6.31.4bततः स मन्त्रयामास सचिवै राक्षसैः सह ॥ ४ ॥ | 6.31.4bततः स मन्त्रयामास सचिवै राक्षसैः सह ॥ 6.31.4 ॥ | ||
| 9 | #5aಮಂತ್ರಯಿತ್ವಾ ತು ದುರ್ಧರ್ಷಃ ಕ್ಷಮಂ ಯತ್ ತದನಂತರಮ್ । | 6.31.5aमन्त्रयित्वा तु दुर्धर्षः क्षमं यत् तदनन्तरम् । | 6.22.5aमन्त्रयित्वा स दुर्धर्षः क्षमं यत्समनन्तरम् । | 6.31.5aमन्त्रयित्वा स दुर्धर्षः क्षमं यत्समनन्तरम् । | 6.31.5aमन्त्रयित्वा स दुर्धर्षः क्षमं यत् समनन्तरम्। | ||
| 10 | #5bವಿಸರ್ಜಯಿತ್ವಾ ಸಚಿವಾನ್ಪ್ರವಿವೇಶ ಸ್ವಮಾಲಯಮ್ ॥ | 6.31.5bविसर्जयित्वा सचिवान् प्रविवेश स्वमालयम् ॥ ५ ॥ | 6.22.5bविसर्जयित्वा सचिवान्प्रविवेश स्वमालयम् ॥6.22.5॥ | 6.31.5bविसर्जयित्वा सचिवान्प्रविवेश स्वमालयम् ॥ ५ ॥ | 6.31.5bविसर्जयित्वा सचिवान् प्रविवेश स्वमालयम् ॥ 6.31.5 ॥ | ||
| 11 | #6aತತೋ ರಾಕ್ಷಸಮಾದಾಯ ವಿದ್ಯುಜ್ಜಿಹ್ವಂ ಮಹಾಬಲಮ್ । | 6.31.6aततो राक्षसमादाय विद्युज्जिह्वं महाबलम् । | 6.22.6aततो राक्षसमाहूय विद्युज्जिह्वं महाबलम् । | 6.31.6aततो राक्षसमाहूय विद्युज्जिह्वं महाबलम् । | 6.31.6aततो राक्षसमाहूय विद्युज्जिह्वं महाबलम्। | ||
| 12 | #6bಮಾಯಾವಿನಂ ಮಹಾಮಾಯಂ ಪ್ರಾವಿಶದ್ ಯತ್ರ ಮೈಥಿಲೀ ॥ | 6.31.6bमायाविनं महामायं प्राविशद् यत्र मैथिली ॥ ६ ॥ | 6.22.6bमायाविदं महामायः प्राविशद्यत्र मैथिली ॥6.22.6॥ | 6.31.6bमायाविदं महामायः प्राविशद्यत्र मैथिली ॥ ६ ॥ | 6.31.6bमायाविदं महामायः प्राविशद्यत्र मैथिली ॥ 6.31.6 ॥ | ||
| 13 | #7aವಿದ್ಯುಜ್ಜಿಹ್ವಂ ಚ ಮಾಯಾಜ್ಞಮಬ್ರವೀದ್ ರಾಕ್ಷಸಾಧಿಪಃ । | 6.31.7aविद्युज्जिह्वं च मायाज्ञमब्रवीद् राक्षसाधिपः । | 6.22.7aविद्युज्जिह्वं च मायाज्ञमब्रवीद्राक्षसाधिपः । | 6.31.7aविद्युज्जिह्वं च मायाज्ञमब्रवीद्राक्षसाधिपः । | 6.31.7aविद्युज्जिह्वं च मायाज्ञमब्रवीद्राक्षसाधिपः। | ||
| 14 | #7bಮೋಹಯಿಷ್ಯಾವಹೇ ಸೀತಾಂ ಮಾಯಯಾ ಜನಕಾತ್ಮಜಾಮ್ ॥ | 6.31.7bमोहयिष्यावहे सीतां मायया जनकात्मजाम् ॥ ७ ॥ | 6.22.7bमोहयिष्यामहे सीतां मायया जनकात्मजाम् ॥6.22.7॥ | 6.31.7bमोहयिष्यामहे सीतां मायया जनकात्मजाम् ॥ ७ ॥ | 6.31.7bमोहयिष्यावहे सीतां मायया जनकात्मजाम् ॥ 6.31.7 ॥ | ||
| 15 | #8aಶಿರೋ ಮಾಯಾಮಯಂ ಗೃಹ್ಯರಾಘವಸ್ಯ ನಿಶಾಚರ । | 6.31.8aशिरो मायामयं गृह्य राघवस्य निशाचर । | 6.22.8aशिरो मायामयं गृह्य राघवस्य निशाचर । | 6.31.8aशिरो मायामयं गृह्य राघवस्य निशाचर । | 6.31.8aशिरो मायामयं गृह्य राघवस्य निशाचर। | ||
| 16 | #8bಮಾಂ ತ್ವಂ ಸಮುಪತಿಷ್ಠಸ್ವ ಮಹಚ್ಚ ಸಶರಂ ಧನುಃ ॥ | 6.31.8bमां त्वं समुपतिष्ठस्व महच्च सशरं धनुः ॥ ८ ॥ | 6.22.8bमां त्वं समुपतिष्ठस्व महच्च सशरं धनुः ॥6.22.8॥ | 6.31.8bत्वं मां समुपतिष्ठस्व महच्च सशरं धनुः ॥ ८ ॥ | 6.31.8bत्वं मां समुपतिष्ठस्व महच्च सशरं धनुः ॥ 6.31.8 ॥ | ||
| 17 | #9aಏವಮುಕ್ತ ಸ್ತ ಥೇತ್ಯಾಹ ವಿದ್ಯುಜ್ಜಿಹ್ವೋ ನಿಶಾಚರಃ । | 6.31.9aएवमुक्तस्तथेत्याह विद्युज्जिह्वो निशाचरः । | 6.22.9aएवमुक्तस्तथेत्याह विद्युज्जिह्वो निशाचरः । | 6.31.9aएवमुक्तस्तथेत्याह विद्युज्जिह्वो निशाचरः । | |||
| 18 | #9bದರ್ಶಯಾಮಾಸ ತಾಂ ಮಾಯಾಂ ಸುಪ್ರಯುಕ್ತಾಂ ಸ ರಾವಣೇ ॥ | 6.31.9bदर्शयामास तां मायां सुप्रयुक्तां स रावणे ॥ ९ ॥ | 6.31.9b[दर्शयामास तां मायां सुप्रयुक्तां स रावणे । | 6.31.9a[दर्शयामास तां मायां सुप्रयुक्तां स रावणे। | |||
| 19 | #10aತಸ್ಯ ತುಷ್ಟೋಽಭವದ್ ರಾಜಾ ಪ್ರದದೌ ಚ ವಿಭೂಷಣಮ್ । | 6.31.10aतस्य तुष्टोऽभवद् राजा प्रददौ च विभूषणम् । | 6.22.9bतस्य तुष्टोऽभवद्राजा प्रददौ च विभूषणम् ॥6.22.9॥ | 6.31.9c] तस्य तुष्टोऽभवद्राजा प्रददौ च विभूषणम् ॥ ९ ॥ | 6.31.9b] तस्य तुष्टोऽभवद्राजा प्रददौ च विभूषणम् ॥ 6.31.9 ॥ | ||
| 20 | #10bಅಶೋಕವನಿಕಾಯಾಂ ಚ ಸೀತಾದರ್ಶನಲಾಲಸಃ ॥ | 6.31.10bअशोकवनिकायां च सीतादर्शनलालसः ॥ १० ॥ | 6.22.10aअशोकवनिकायां तु प्रविवेश महाबलः । | 6.31.10aअशोकवनिकायां तु सीतादर्शनलालसः । | 6.31.10aअशोकवनिकायां तु सीतादर्शनलालसः। | ||
| 21 | #11aನೈರ್ಋತಾನಾಮಧಿಪತಿಃ ಸಂವಿವೇಶ ಮಹಾಬಲಃ । | 6.31.11aनैर्ऋतानामधिपतिः संविवेश महाबलः । | 6.31.10bनैर्ऋतानामधिपतिः संविवेश महाबलः ॥ १० ॥ | 6.31.10bनैर्ऋतानामधिपतिः संविवेश महाबलः ॥ 6.31.10 ॥ | |||
| 22 | #11bತತೋ ದೀನಾಮದೈನ್ಯಾರ್ಹಾಂ ದದರ್ಶ ಧನದಾನುಜಃ ॥ | 6.31.11bततो दीनामदैन्यार्हां ददर्श धनदानुजः ॥ ११ ॥ | 6.22.10bततो दीनामदैन्यार्हां ददर्श धनदानुजः । | 6.31.11aततो दीनामदैन्यार्हां ददर्श धनदानुजः । | 6.31.11aततो दीनामदैन्यार्हां ददर्श धनदानुजः। | ||
| 23 | #12aಅಧೋಮುಖೀಂ ಶೋಕ ಪರಾಮುಪವಿಷ್ಟಾಂ ಮಹೀತಲೇ । | 6.31.12aअधोमुखीं शोकपरामुपविष्टां महीतले । | 6.22.10cअधोमुखीं शोकपरामुपविष्टां महीतले ॥6.22.10॥ | 6.31.11bअधोमुखीं शोकपरामुपविष्टां महीतले ॥ ११ ॥ | 6.31.11bअधोमुखीं शोकपरामुपविष्टां महीतले ॥ 6.31.11 ॥ | ||
| 24 | #12bಭರ್ತಾರಂ ಸಮನುಧ್ಯಾಂತೀಮಶೋಕವನಿಕಾಂ ಗತಾಮ್ ॥ | 6.31.12bभर्तारं समनुध्यान्तीमशोकवनिकां गताम् ॥ १२ ॥ | 6.22.11aभर्तारमेव ध्यायन्तीमशोकवनिकां गताम् । | 6.31.12aभर्तारमेव ध्यायन्तीमशोकवनिकां गताम् । | 6.31.12aभर्तारमेव ध्यायन्तीमशोकवनिकां गताम्। | ||
| 25 | #13aಉಪಾಸ್ಯಮಾನಾಂ ಘೋರಾಭೀ ರಾಕ್ಷಸೀಭಿರದೂರತಃ । | 6.31.13aउपास्यमानां घोराभी राक्षसीभिरदूरतः । | 6.22.11bउपास्यमानां घोराभी राक्षसीभिरदूरतः ॥6.22.11॥ | 6.31.12bउपास्यमानां घोराभी राक्षसीभिरितस्तः ॥ १२ ॥ | 6.31.12bउपास्यामानां घोराभी राक्षसीभिरितस्ततः * ॥ 6.31.12 ॥ | ||
| 26 | 6.31.13aराक्षसीभिर्वृतां सीतां पूर्णचन्द्रनिभाननाम् । | ||||||
| 27 | 6.31.13bउत्पातमेघजालाभिश्चन्द्ररेखामिवावृताम् ॥ १३ ॥ | ||||||
| 28 | 6.31.14aभूशणैरुत्तमैः कैश्चिन्मङ्गलार्थमलंकृताम् । | ||||||
| 29 | 6.31.14bचरन्तीं मारुतोद्धूतां क्षिप्तां पुष्पलतामिव ॥ १४ ॥ | ||||||
| 30 | 6.31.15aहर्षशोकान्तरे मग्नां विषादस्य विलक्षणाम् । | ||||||
| 31 | 6.31.15bस्तिमितामिव गाम्भीर्यान्नदीं भागीरथीमिव ॥ १५ ॥ | ||||||
| 32 | #13bಉಪಸೃತ್ಯ ತತಃ ಸೀತಾಂ ಪ್ರಹರ್ಷಂ ನಾಮ ಕೀರ್ತಯನ್ ॥ | 6.31.13bउपसृत्य ततः सीतां प्रहर्षं नाम कीर्तयन् ॥ १३ ॥ | 6.22.12aउपसृत्य ततः सीतां प्रहर्षन्नाम कीर्तयन् । | 6.31.16aउपसृत्य ततः सीतां प्रहर्षन्नाम कीर्तयन् । | 6.31.13aउपसृत्य ततः सीतां प्रहर्षं नाम कीर्तयन्। | ||
| 33 | #14aಇದಂ ಚ ವಚನಂ ಧೃಷ್ಟಮುವಾಚ ಜನಕಾತ್ಮಜಾಮ್ । | 6.31.14aइदं च वचनं धृष्टमुवाच जनकात्मजाम् । | 6.22.12bइदं च वचनं धृष्टमुवाच जनकात्मजाम् ॥6.22.12॥ | 6.31.16bइदं च वचनं धृष्टमुवाच जनकात्मजाम् ॥ १६ ॥ | 6.31.13bइदं च वचनं धृष्टमुवाच जनकात्मजाम् ॥ 6.31.13 ॥ | ||
| 34 | #14bಸಾಂತ್ವ್ಯಮಾನಾ ಮಯಾ ಭದ್ರೇ ಯಮಾಶ್ರಿತ್ಯ ವಿಮನ್ಯಸೇ ॥ | 6.31.14bसान्त्व्यमाना मया भद्रे यमाश्रित्य विमन्यसे ॥ १४ ॥ | 6.22.13aसान्त्व्यमाना मया भद्रे यमुपाश्रित्य वल्गसे । | 6.31.17aसान्त्व्यमाना मया भद्रे यमुपाश्रित्य वल्गसे । | 6.31.14aसान्त्व्यमाना मया भद्रे यमुपाश्रित्य वल्गसे। | ||
| 35 | #15aಖರಹಂತಾ ಸ ತೇ ಭರ್ತಾ ರಾಘವಃ ಸಮರೇ ಹತಃ । | 6.31.15aखरहन्ता स ते भर्ता राघवः समरे हतः । | 6.22.13bखर हन्ता स ते भर्ता राघवः समरे हतः ॥6.22.13॥ | 6.31.17bखरहन्ता स ते भर्ता राघवः समरे हतः ॥ १७ ॥ | 6.31.14bखरहन्ता स ते भर्ता राघवः समरे हतः ॥ 6.31.14 ॥ | ||
| 36 | #15bಛಿನ್ನಂ ತೇ ಸರ್ವಥಾ ಮೂಲಂ ದರ್ಪಶ್ಚ ನಿಹತೋ ಮಯಾ ॥ | 6.31.15bछिन्नं ते सर्वथा मूलं दर्पश्च निहतो मया ॥ १५ ॥ | 6.22.14aछिन्नं ते सर्वतो मूलं दर्पस्ते निहतो मया । | 6.31.18aछिन्नं ते सर्वतो मूलं दर्पस्ते निहतो मया । | 6.31.15aछिन्नं ते सर्वतो मूलं दर्पस्ते विहतो मया। | ||
| 37 | #16aವ್ಯಸನೇನಾತ್ಮನಃ ಸೀತೇ ಮಮ ಭಾರ್ಯಾ ಭವಿಷ್ಯಸಿ । | 6.31.16aव्यसनेनात्मनः सीते मम भार्या भविष्यसि । | 6.22.14bव्यसनेनात्मनः सीते मम भार्या भविष्यसि ॥6.22.14॥ | 6.31.18bव्यसनेनात्मनः सीते मम भार्या भविष्यसि ॥ १८ ॥ | 6.31.15bव्यसनेनात्मनः सीते मम भार्या भविष्यसि ॥ 6.31.15 ॥ | ||
| 38 | #16bವಿಸೃಜೈಮಾಂ ಮತಿಂ ಮೂಢೇ ಕಿಂ ಮೃತೇನ ಕರಿಷ್ಯಸಿ ॥ | 6.31.16bविसृजैतां मतिं मूढे किं मृतेन करिष्यसि ॥ १६ ॥ | 6.31.19aविसृजेमां मतिं मूढे किं मृतेन करिष्यसि । | 6.31.16aविसृजेमां मतिं मूढे किं मृतेन करिष्यसि। | |||
| 39 | #17aಭವಸ್ವ ಭದ್ರೇ ಭಾರ್ಯಾಣಾಂ ಸರ್ವಾಸಾಮೀಶ್ವರೀ ಮಮ । | 6.31.17aभवस्व भद्रे भार्याणां सर्वासामीश्वरी मम । | 6.31.19bभवस्व भद्रे भार्याणां सर्वासामीश्वरी मम ॥ १९ ॥ | 6.31.16bभवस्व भद्रे भार्याणां सर्वासामीश्वरी मम ॥ 6.31.16 ॥ | |||
| 40 | #17bಅಲ್ಪಪುಣ್ಯೇ ನಿವೃತ್ತಾರ್ಥೇಮೂಢೇ ಪಂಡಿತಮಾನಿನಿ । | 6.31.17bअल्पपुण्ये निवृत्तार्थे मूढे पण्डितमानिनि । | 6.22.15aअल्पपुण्ये निवृत्तार्थे मूढे पण्डितमानिनि । | 6.31.20अल्पपुण्ये निवृत्तार्थे मूढे पण्डितमानिनि शृणु भर्तृबधं सीते घोरं वृत्रवधं यथा ॥ २० ॥ | 6.31.17aअल्पपुण्ये निवृत्तार्थे मूढे पण्डितमानिनि। | ||
| 41 | #17cಶೃಣು ಭರ್ತೃವಧಂ ಸೀತೇ ಘೋರಂ ವೃತ್ರವಧಂ ಯಥಾ ॥ | 6.31.17cशृणु भर्तृवधं सीते घोरं वृत्रवधं यथा ॥ १७ ॥ | 6.22.15bशृणु भर्तृबधं सीते घोरं वृत्रवधं यथा ॥6.22.15॥ | 6.31.17bशृणु भर्तृवधं सीते घोरं वृत्रवधं यथा ॥ 6.31.17 ॥ | |||
| 42 | #18aಸಮಾಯಾತಃ ಸಮುದ್ರಾಂತಂ ಹಂತುಂ ಮಾಂ ಕಿಲ ರಾಘವಃ । | 6.31.18aसमायातः समुद्रान्तं हन्तुं मां किल राघवः । | 6.22.16aसमायातः समुद्रान्तं मां हन्तुं किल राघवः । | 6.31.21aसमायातः समुद्रान्तं मां हन्तुं किल राघवः । | 6.31.18aसमायातः समुद्रान्तं मां हन्तुं किल राघवः। | ||
| 43 | #18bವಾನರೇಂದ್ರ ಪ್ರಣೀತೇನ ಬಲೇನ ಮಹತಾ ವೃತಃ ॥ | 6.31.18bवानरेन्द्रप्रणीतेन बलेन महता वृतः ॥ १८ ॥ | 6.22.16bवानरेन्द्रप्रणीतेन बलेन महता वृतः ॥6.22.16॥ | 6.31.21bवानरेन्द्रप्रणीतेन बलेन महता वृतः ॥ २१ ॥ | 6.31.18bवानरेन्द्रप्रणीतेन बलेन महता वृतः ॥ 6.31.18 ॥ | ||
| 44 | #19aಸಂನಿವಿಷ್ಟಃ ಸಮುದ್ರಸ್ಯ ಪೀಡ್ಯ ತೀರಮಥೋತ್ತರಮ್ । | 6.31.19aसन्निविष्टः समुद्रस्य पीड्य तीरमथोत्तरम् । | 6.22.17aसंनिविष्टः समुद्रस्य तीरमासाद्य दक्षिणम् । | 6.31.22aस निविष्टः समुद्रस्य पीड्य तीरमथोत्तरम् । | 6.31.19aस निविष्टः समुद्रस्य पीड्य तीरमथोत्तरम्। | ||
| 45 | #19bಬಲೇನ ಮಹತಾ ರಾಮೋ ವ್ರಜತ್ಯಸ್ತಂ ದಿವಾಕರೇ ॥ | 6.31.19bबलेन महता रामो व्रजत्यस्तं दिवाकरे ॥ १९ ॥ | 6.22.17bबलेन महता रामो व्रजत्यस्तं दिवाकरे ॥6.22.17॥ | 6.31.22bबलेन महता रामो व्रजत्यस्तं दिवाकरे ॥ २२ ॥ | 6.31.19bबलेन महता रामो व्रजत्यस्तं दिवाकरे ॥ 6.31.19 ॥ | ||
| 46 | #20aಅಥಾಧ್ವನಿ ಪರಿಶ್ರಾಂತಮರ್ಧರಾತ್ರೇ ಸ್ಥಿತಂ ಬಲಮ್ । | 6.31.20aअथाध्वनि परिश्रान्तमर्धरात्रे स्थितं बलम् । | 6.22.18aअथाध्वनि परिश्रान्तमर्धरात्रे स्थितं बलम् । | 6.31.23aअथाध्वनि परिश्रान्तमर्धरात्रे स्थितं बलम् । | 6.31.20aअथाध्वनि परिश्रान्तमर्धरात्रे स्थितं बलम्। | ||
| 47 | #20bಸುಖಸುಪ್ತಂ ಸಮಾಸಾದ್ಯ ಚರಿತಂ ಪ್ರಥಮಂ ಚರೈಃ ॥ | 6.31.20bसुखसुप्तं समासाद्य चरितं प्रथमं चरैः ॥ २० ॥ | 6.22.18bसुखसुप्तं समासाद्य चारितं प्रथमं चरैः ॥6.22.18॥ | 6.31.23bसुखसंसुप्तमासाद्य चारितं प्रथमं चरैः ॥ २३ ॥ | 6.31.20bसुखसंसुप्तमासाद्य चारितं प्रथमं चरैः ॥ 6.31.20 ॥ | ||
| 48 | #21aತತ್ಪ್ರಹಸ್ತಪ್ರಣೀತೇನ ಬಲೇನ ಮಹತಾ ಮಮ । | 6.31.21aतत्प्रहस्तप्रणीतेन बलेन महता मम । | 6.22.19aतत्प्रहस्तप्रणीतेन बलेन महता मम । | 6.31.24aतत्प्रहस्तप्रणीतेन बलेन महता मम । | 6.31.21aतत्प्रहस्तप्रणीतेन बलेन महता मम। | ||
| 49 | #21bಬಲಮಸ್ಯ ಹತಂ ರಾತ್ರೌ ಯತ್ರ ರಾಮಃ ಸಲಕ್ಷ್ಮಣಃ ॥ | 6.31.21bबलमस्य हतं रात्रौ यत्र रामः सलक्ष्मणः ॥ २१ ॥ | 6.22.19bबलमस्य हतं रात्रौ यत्र रामः सुलक्ष्मणः ॥6.22.19॥ | 6.31.24bबलमस्य हतं रात्रौ यत्र रामः सुलक्ष्मणः ॥ २४ ॥ | 6.31.21bबलमस्य हतं रात्रौ यत्र रामः सलक्ष्मणः ॥ 6.31.21 ॥ | ||
| 50 | #22aಪಟ್ಟಿಶಾನ್ ಪರಿಘಾಂಶ್ಚಕ್ರಾನೃಷ್ಟೀನ್ ದಂಡಾನ್ ಮಹಾಯುಧಾನ್ । | 6.31.22aपट्टिशान् परिघांश्चक्रानृष्टीन् दण्डान् महायुधान् । | 6.22.20aपट्टसान्परिघान्खड्गांश्चक्रान्दण्डान्महायसान् । | 6.31.25aपट्टिशान्परिघांश्चक्रान्दण्डान्खड्गांन्महायसान् । | 6.31.22aपट्टिशान् परिघांश्चक्रान् दण्डान् खड्गान् महायसान्। | ||
| 51 | #22bಬಾಣಜಾಲಾನಿ ಶೂಲಾನಿ ಭಾಸ್ವರಾನ್ಕೂಟಮುದ್ಗರಾನ್ ॥ | 6.31.22bबाणजालानि शूलानि भास्वरान् कूटमुद्गरान् ॥ २२ ॥ | 6.22.20bबाणजालानि शूलानि भास्वरान्कूटमुद्गरान् ॥6.22.20॥ | 6.31.25bबाणजालानि शूलानि भास्वरान्कूटमुद्गरान् ॥ २५ ॥ | 6.31.22bबाणजालानि शूलानि भास्वरान् कूटमुद्गरान् ॥ 6.31.22 ॥ | ||
| 52 | #23aಯಷ್ಟೀಶ್ಚ ತೋಮರಾನ್ ಪ್ರಾಸಾಂಶ್ಚಕ್ರಾಣಿ ಮುಸಲಾನಿ ಚ । | 6.31.23aयष्टीश्च तोमरान् प्रासांश्चक्राणि मुसलानि च । | 6.22.21aयष्टीश्च तोमरान्प्रासंश्चक्राणि मुसलानि च । | 6.31.26aयष्टीश्च तोमराञ्शक्तीश्चक्राणि मुसलानि च । | 6.31.23aयष्टिश्च तोमरान् शक्तीश्चक्राणि मुसलानि च। | ||
| 53 | #23bಉದ್ಯಮ್ಯೋದ್ಯಮ್ಯ ರಕ್ಷೋಭಿರ್ವಾನರೇಷು ನಿಪಾತಿತಾಃ ॥ | 6.31.23bउद्यम्योद्यम्य रक्षोभिर्वानरेषु निपातिताः ॥ २३ ॥ | 6.22.21bउद्यम्योद्यम्य रक्षोभिर्वानरेषु निपातिताः ॥6.22.21॥ | 6.31.26bउद्यम्योद्यम्य रक्षोभिर्वानरेषु निपातिताः ॥ २६ ॥ | 6.31.23bउद्यम्योद्यम्य रक्षोभिर्वानरेषु निपातिताः ॥ 6.31.23 ॥ | ||
| 54 | #24aಅಥ ಸುಪ್ತಸ್ಯ ರಾಮಸ್ಯ ಪ್ರಹಸ್ತೇನ ಪ್ರಮಾಥಿನಾ । | 6.31.24aअथ सुप्तस्य रामस्य प्रहस्तेन प्रमाथिना । | 6.22.22aअथ सुप्तस्य रामस्य प्रहस्तेन प्रमाथिना । | 6.31.27aअथ सुप्तस्य रामस्य प्रहस्तेन प्रमाथिना । | 6.31.24aअथ सुप्तस्य रामस्य प्रहस्तेन प्रमाथिना। | ||
| 55 | #24bಅಸಕ್ತಂ ಕೃತಹಸ್ತೇನ ಶಿರಶ್ಛಿನ್ನಂ ಮಹಾಸಿನಾ ॥ | 6.31.24bअसक्तं कृतहस्तेन शिरश्छिन्नं महासिना ॥ २४ ॥ | 6.22.22bअसक्तं कृतहस्तेन शिरश्छिन्नं महासिना ॥6.22.22॥ | 6.31.27bअसक्तं कृतहस्तेन शिरश्छिन्नं महासिना ॥ २७ ॥ | 6.31.24bअसक्तं कृतहस्तेन शिरश्छिन्नं महासिना ॥ 6.31.24 ॥ | ||
| 56 | #25aವಿಭೀಷಣಃ ಸಮುತ್ಪತ್ಯ ನಿಗೃಹೀತೋ ಯದೃಚ್ಛಯಾ । | 6.31.25aविभीषणः समुत्पत्य निगृहीतो यदृच्छया । | 6.22.23aविभीषणः समुत्पत्य निगृहीतो यदृच्छया । | 6.31.28aविभीषणः समुत्पत्य निगृहीतो यदृच्छया । | 6.31.25aविभीषणः समुत्पत्य निगृहीतो यदृच्छया। | ||
| 57 | #25bದಿಶಃ ಪ್ರವ್ರಾಜಿತಃ ಸೈನ್ಯೇರ್ಲಕ್ಷ್ಮಣಃ ಪ್ಲವಗೈಃ ಸಹ ॥ | 6.31.25bदिशः प्रव्राजितः सैन्यैर्लक्ष्मणः प्लवगैः सह ॥ २५ ॥ | 6.22.23bदिशः प्रव्राजितः सर्वैर्लक्ष्मणः प्लवगैः सह ॥6.22.23॥ | 6.31.28bदिशः प्रव्राजितः सर्वैर्लक्ष्मणः प्लवगैः सह ॥ २८ ॥ | 6.31.25bदिशः प्रव्राजितः सर्वैर्लक्ष्मणः प्लवगैः सह ॥ 6.31.25 ॥ | ||
| 58 | #26aಸುಗ್ರೀವೋ ಗ್ರೀವಯಾ ಸೀತೇ ಭಗ್ನಯಾ ಪ್ಲವಗಾಧಿಪಃ । | 6.31.26aसुग्रीवो ग्रीवया सीते भग्नया प्लवगाधिपः । | 6.22.24aसुग्रीवो ग्रीवया शेते भग्नया प्लवगाधिपः । | 6.31.29aसुग्रीवो ग्रीवया सीते भग्नया प्लवगाधिपः । | 6.31.26aसुग्रीवो ग्रीवया सीते भग्नया प्लवगाधिपः। | ||
| 59 | #26bನಿರಸ್ತಹನುಕಃ ಸೀತೇ ಹನುಮಾನ್ ರಾಕ್ಷಸೈರ್ಹತಃ ॥ | 6.31.26bनिरस्तहनुकः सीते हनूमान् राक्षसैर्हतः ॥ २६ ॥ | 6.22.24bनिरस्तहनुकः शेते हनूमान्राक्षसैर्हतः ॥6.22.24॥ | 6.31.29bनिरस्तहनुकः शेते हनूमान्राक्षसैर्हतः ॥ २९ ॥ | 6.31.26bनिरस्तहनुकः शेते हनुमान् राक्षसैर्हतः ॥ 6.31.26 ॥ | ||
| 60 | #27aಜಾಂಬವಾನಥ ಜಾನುಭ್ಯಾಮುತ್ಪತನ್ನಿಹತೋ ಯುಧಿ । | 6.31.27aजाम्बवानथ जानुभ्यामुत्पतन् निहतो युधि । | 6.22.25aजाम्बवानथ जानुभ्यामुत्पतन्निहतो युधि । | 6.31.30aजाम्बवानथ जानुभ्यामुत्पतन्निहतो युधि । | 6.31.27aजाम्बवानथ जानुभ्यामुत्पतन्निहतो युधि। | ||
| 61 | #27bಪಟ್ಟಿಶೈರ್ಬಹುಭಿಶ್ಛಿನ್ನೋ ನಿಕೃತ್ತಃ ಪಾದಪೋ ಯಥಾ ॥ | 6.31.27bपट्टिशैर्बहुभिश्छिन्नो निकृत्तः पादपो यथा ॥ २७ ॥ | 6.22.25bपट्टसैर्बहुभिश्छिन्नो निकृत्तः पादपो यथा ॥6.22.25॥ | 6.31.30bपट्टिसैर्बहुभिश्छिन्नो निकृत्तः पादपो यथा ॥ ३० ॥ | 6.31.27bपट्टिशैर्बहुभिश्छिन्नो निकृत्तः पादपो यथा ॥ 6.31.27 ॥ | ||
| 62 | #28aಮೈಂದಶ್ಚ ದ್ವಿವಿದಶ್ಚೋಭೌ ತೌ ವಾನರವರರ್ಷಭೌ । | 6.31.28aमैन्दश्च द्विविदश्चोभौ तौ वानरवरर्षभौ । | 6.22.26aमैन्दश्च द्विविदश्चोभौ निहतौ वानरर्षभौ । | 6.31.31aमैन्दश्च द्विविदश्चोभौ निहतौ वानरर्षभौ । | |||
| 63 | #28bನಿಃಶ್ವಸಂತೌ ರುದಂತೌ ಚ ರುಧಿರೇಣ ಪರಿಪ್ಲುತೌ ॥ | 6.31.28bनिःश्वसन्तौ रुदन्तौ च रुधिरेण परिप्लुतौ ॥ २८ ॥ | 6.22.26bनिःश्वसन्तौ रुदन्तौ च रुधिरेण समुक्षितौ ॥6.22.26॥ | 6.31.31bनिश्वसन्तौ रुदन्तौ च रुधिरेण परिप्लुतौ । | 6.31.28aनिश्वसन्तौ रुदन्तौ च रुधिरेण परिप्लुतौ। | ||
| 64 | 6.22.27aअसिनाभ्याहतश्छिन्नो मध्ये रिपुनिषूदनः । | ||||||
| 65 | #29aಅಸಿನಾ ವ್ಯಾಯತೌ ಛಿನ್ನೌ ಮಧ್ಯೇ ಹ್ಯರಿನಿಷೂದನೌ । | 6.31.29aअसिना व्यायतौ छिन्नौ मध्ये ह्यरिनिषूदनौ । | 6.31.31cअसिना व्यायतौ छिन्नौ मध्ये ह्यरिनिषूदनौ ॥ ३१ ॥ | 6.31.28bअसिना व्यायतौ छिन्नौ मध्ये ह्यरिनिषूदनौ ॥ 6.31.28 ॥ | |||
| 66 | #29bಅನುಶ್ವಸಿತಿ ಮೇದಿನ್ಯಾಂ ಪನಸಃ ಪನಸೋ ಯಥಾ ॥ | 6.31.29bअनुश्वसिति मेदिन्यां पनसः पनसो यथा ॥ २९ ॥ | 6.22.27bअभिष्टनति मेदिन्यां पनसः पनसो यथा ॥6.22.27॥ | 6.31.32अनुतिष्ठति मेदिन्यां पनसः पनसो यथा ॥ ३२ ॥ | 6.31.29अनुतिष्ठति मेदिन्यां पनसः पनसो यथा ॥ 6.31.29 ॥ | ||
| 67 | #30aನಾರಾಚೈರ್ಬಹುಭಿಶ್ಛಿನ್ನಃ ಶೇತೇ ದರ್ಯಾಂ ದರೀಮುಖಃ । | 6.31.30aनाराचैर्बहुभिश्छिन्नः शेते दर्यां दरीमुखः । | 6.22.28aनाराचैर्बहुभिश्छिन्नः शेते दर्यां दरीमुखः । | 6.31.33aनाराचैर्बहुभिश्छिन्नः शेते दर्यां दरीमुखः । | 6.31.30aनाराचैर्बहुभिश्छिन्नः शेते दर्यां दरीमुखः। | ||
| 68 | #30bಕುಮುದಸ್ತು ಮಹಾತೇಜಾ ನಿಷ್ಕೂಜನ್ ಸಾಯಕೈರ್ಹತಃ ॥ | 6.31.30bकुमुदस्तु महातेजा निष्कूजन् सायकैर्हतः ॥ ३० ॥ | 6.22.28bकुमुदस्तु महातेजा निष्कूजन्सायकैर्हतः ॥6.22.28॥ | 6.31.33bकुमुदस्तु महातेजा निष्कूजः सायकैः कृतः ॥ ३३ ॥ | 6.31.30bकुमुदस्तु महातेजा निष्कूजः सायकैः कृतः ॥ 6.31.30 ॥ | ||
| 69 | #31aಅಂಗದೋ ಬಹುಭಿಶ್ಛಿನ್ನಃ ಶರೈರಾಸಾದ್ಯ ರಾಕ್ಷಸೈಃ । | 6.31.31aअङ्गदो बहुभिश्छिन्नः शरैरासाद्य राक्षसैः । | 6.22.29aअङ्गदो बहुभिश्छिन्नः शरैरासाद्य राक्षसैः । | 6.31.34aअङ्गदो बहुभिश्छिन्नः शरैरासाद्य राक्षसैः । | 6.31.31aअङ्गदो बहुभिश्छिन्नः शरैरासाद्य राक्षसैः। | ||
| 70 | #31bಪರಿತೋ ರುಧಿರೋದ್ಗಾರೀ ಕ್ಷಿತೌ ನಿಪತಿತೋಂಽಗದಃ ॥ | 6.31.31bपरितो रुधिरोद्गारी क्षितौ निपतितोऽङ्गदः ॥ ३१ ॥ | 6.22.29bपातितो रुधिरोद्गारी क्षितौ निपतितोऽङ्गदः ॥6.22.29॥ | 6.31.34bपातितो रुधिरोद्गारी क्षितौ निपतिताऽङ्गदः ॥ ३४ ॥ | 6.31.31bपतितो रुधिरोद्गारी क्षितौ निपतिताङ्गदः ॥ 6.31.31 ॥ | ||
| 71 | #32aಹರಯೋ ಮಥಿತಾ ನಾಗೈ ರಥಜಾಲೈಸ್ತಥಾಪರೇ । | 6.31.32aहरयो मथिता नागै रथजालैस्तथापरे । | 6.22.30aहरयो मथिता नागै रथजालैस्तथापरे । | 6.31.35aहरयो मथिता नागै रथजातैस्तथापरे । | 6.31.32aहरयो मथिता नागै रथजातैस्तथाऽपरे। | ||
| 72 | #32bಶಯಾನಾ ಮೃದಿತಾಸ್ತತ್ರ ವಾಯುವೇಗೈರಿವಾಂಬುದಾಃ ॥ | 6.31.32bशयाना मृदितास्तत्र वायुवेगैरिवाम्बुदाः ॥ ३२ ॥ | 6.22.30bशायिता मृदितास्तत्र वायुवेगैरिवाम्बुदाः ॥6.22.30॥ | 6.31.35bशायिता मृदिताश्चाश्वैर्वायुवेगैरिवाम्बुदाः ॥ ३५ ॥ | 6.31.32bशायिता मृदिताश्चाश्वैर्वायुवेगैरिवाम्बुदाः ॥ 6.31.32 ॥ | ||
| 73 | #33aಪ್ರಸೃತಾಶ್ಚ ಪರೇ ತ್ರಸ್ತಾ ಹನ್ಯಮಾನಾ ಜಘನ್ಯತಃ । | 6.31.33aप्रसृताश्च परे त्रस्ता हन्यमाना जघन्यतः । | 6.22.31aप्रद्रुताश्च परे त्रस्ता हन्यमाना जघन्यतः । | 6.31.36aप्रहृताश्चापरे त्रस्ता हन्यमाना जघन्यतः । | 6.31.33aप्रहृताश्चापरे त्रस्ता हन्यमाना जघन्यतः। | ||
| 74 | #33bಅಭಿದ್ರುತಾಸ್ತು ರಕ್ಷೋಭಿಃ ಸಿಂಹೈರಿವ ಮಹಾದ್ವಿಪಾಃ ॥ | 6.31.33bअनुद्रुतास्तु रक्षोभिः सिंहैरिव महाद्विपाः ॥ ३३ ॥ | 6.22.31bअभिद्रुतास्तु रक्षोभिः सिंहैरिव महाद्विपाः ॥6.22.31॥ | 6.31.36bअभिद्रुतास्तु रक्षोभिः सिंहैरिव महाद्विपाः ॥ ३६ ॥ | 6.31.33bअभिद्रुतास्तु रक्षोभिः सिंहैरिव महाद्विपाः ॥ 6.31.33 ॥ | ||
| 75 | #34aಸಾಗರೇ ಪತಿತಾಃ ಕೇಚಿತ್ ಕೇಚಿದ್ ಗಗನಮಾಶ್ರಿತಾಃ । | 6.31.34aसागरे पतिताः केचित् केचिद् गगनमाश्रिताः । | 6.22.32aसागरे पतिताः केचित्केचिद्गगनमाश्रिताः । | 6.31.37aसागरे पतिताः केचित्केचिद्गगनमाश्रिताः । | 6.31.34aसागरे पतिताः केचित् केचिद्गगनमाश्रिताः। | ||
| 76 | #34bಋಕ್ಷಾ ವೃಕ್ಷಾನುಪಾರೂಢಾ ವಾನರೀಂ ವೃತ್ತಿಮಾಶ್ರಿತಾಃ ॥ | 6.31.34bऋक्षा वृक्षानुपारूढा वानरीं वृत्तिमाश्रिताः ॥ ३४ ॥ | 6.22.32bऋक्षा वृक्षानुपारूढा वानरैस्तु विमिश्रिताः ॥6.22.32॥ | 6.31.37bऋक्षा वृक्षानुपारूढा वानरीं वृत्तिमाश्रिताः ॥ ३७ ॥ | 6.31.34bऋक्षा वृक्षानुपारूढा वानरीं वृत्तिमाश्रिताः ॥ 6.31.34 ॥ | ||
| 77 | #35aಸಾಗರಸ್ಯ ಚ ತೀರೇಷು ಶೈಲೇಷು ಚ ವನೇಷು ಚ । | 6.31.35aसागरस्य च तीरेषु शैलेषु च वनेषु च । | 6.22.33aसागरस्य च तीरेषु शैलेषु च वनेषु च । | 6.31.38aसागरस्य च तीरेषु शैलेषु जवनेषु च । | 6.31.35aसागरस्य च तीरेषु शैलेषु च वनेषु च। | ||
| 78 | #35bಪಿಂಗಲಾಸ್ತೇ ವಿರೂಪಾಕ್ಷೈ ರಾಕ್ಷಸೈರ್ಬಹವೋ ಹತಾಃ ॥ | 6.31.35bपिङ्गलास्ते विरूपाक्षै राक्षसैर्बहवो हताः ॥ ३५ ॥ | 6.22.33bपिङ्गाक्षास्ते विरूपाक्षैर्बहुभिर्बहवो हताः ॥6.22.33॥ | 6.31.38bपिङ्गलास्ते विरूपाक्षैर्बहुभिर्बहवो हताः ॥ ३८ ॥ | 6.31.35bपिङ्गलास्ते विरूपाक्षैर्बहुभिर्बहवो हताः ॥ 6.31.35 ॥ | ||
| 79 | #36aಏವಂ ತವ ಹತೋ ಭರ್ತಾ ಸಸೈನ್ಯೋ ಮಮ ಸೇನಯಾ । | 6.31.36aएवं तव हतो भर्ता ससैन्यो मम सेनया । | 6.22.34aएवं तव हतो भर्ता ससैन्यो मम सेनया । | 6.31.39aएवं तव हतो भर्ता ससैन्यो मम सेनया । | 6.31.36aएवं तव हतो भर्ता ससैन्यो मम सेनया। | ||
| 80 | #36bಕ್ಷತಜಾರ್ದ್ರಂ ರಜೋಧ್ವಸ್ತಮಿದಂ ಚಾಸ್ಯಾಹೃತಂ ಶಿರಃ ॥ | 6.31.36bक्षतजार्द्रं रजोध्वस्तमिदं चास्याहृतं शिरः ॥ ३६ ॥ | 6.22.34bक्षतजार्द्रं रजोध्वस्तमिदं चास्याहृतं शिरः ॥6.22.34॥ | 6.31.39bक्षतजार्द्रं रजोध्वस्तमिदं चास्याहृतं शिरः ॥ ३९ ॥ | 6.31.36bक्षतजार्द्रं रजोध्वस्तमिदं चास्याहृतं शिरः ॥ 6.31.36 ॥ | ||
| 81 | #37aತತಃ ಪರಮದುರ್ಧರ್ಷೋ ರಾವಣೋ ರಾಕ್ಷಸೇಶ್ವರಃ । | 6.31.37aततः परमदुर्धर्षो रावणो राक्षसेश्वरः । | 6.22.35aततः परमदुर्धर्षो रावणो राक्षसेश्वरः । | 6.31.40aततः परमदुर्धर्षो रावणो राक्षसाधिपः । | 6.31.37aततः परमदुर्धर्षो रावणो राक्षसाधिपः। | ||
| 82 | #37bಸೀತಾಯಾಮಪಶೃಣ್ವತ್ಯಾಂ ರಾಕ್ಷಸೀಮಿದಮಬ್ರವೀತ್ ॥ | 6.31.37bसीतायामुपशृण्वन्त्यां राक्षसीमिदमब्रवीत् ॥ ३७ ॥ | 6.22.35bसीतायामुपशृण्वन्त्यां राक्षसीमिदमब्रवीत् ॥6.22.35॥ | 6.31.40bसीतायामुपशृण्वन्त्यां राक्षसीमिदमब्रवीत् ॥ ४० ॥ | 6.31.37bसीतायामुपशृण्वन्त्यां राक्षसीमिदमब्रवीत् ॥ 6.31.37 ॥ | ||
| 83 | #38aರಾಕ್ಷಸಂ ಕ್ರೂರಕರ್ಮಾಣಂ ವಿದ್ಯುಜ್ಜಿಹ್ವಂ ಸಮಾನಯ । | 6.31.38aराक्षसं क्रूरकर्माणं विद्युज्जिह्वं समानय । | 6.22.36aराक्षसं क्रूरकर्माणं विद्युज्जिह्वं त्वमानय । | 6.31.41aराक्षसं क्रूरकर्माणं विद्युज्जिह्वं त्वमानय । | 6.31.38aराक्षसं क्रूरकर्माणं विद्युज्जिह्वं त्वमानय। | ||
| 84 | #38bಯೇನ ತದ್ರಾಘವಶಿರಃ ಸಂಗ್ರಾಮಾತ್ ಸ್ವಯಮಾಹೃತಮ್ ॥ | 6.31.38bयेन तद्राघवशिरः सङ्ग्रामात् स्वयमाहृतम् ॥ ३८ ॥ | 6.22.36bयेन तद्राघवशिरः संग्रामात्स्वयमाहृतम् ॥6.22.36॥ | 6.31.41bयेन तद्राघवशिरः सङ्ग्रामात्स्वयमाहृतम् ॥ ४१ ॥ | 6.31.38bयेन तद्राघवशिरः सङ्ग्रामात् स्वयमाहृतम् ॥ 6.31.38 ॥ | ||
| 85 | #39aವಿದ್ಯುಜ್ಜಿಹ್ವಸ್ತದಾ ಗೃಹ್ಯ ಶಿರಸ್ತತ್ಸ ಶರಾಸನಮ್ । | 6.31.39aविद्युज्जिह्वस्तदा गृह्य शिरस्तत्सशरासनम् । | 6.22.37aविद्युज्जिह्वस्ततो गृह्य शिरस्तत्सशरासनम् । | 6.31.39aविद्युज्जिह्वस्ततो गृह्य शिरस्तत् सशरासनम्। | |||
| 86 | #39bಪ್ರಮಾಣಂ ಶಿರಸಾ ಕೃತ್ವಾ ರಾವಣಸ್ಯಾಗ್ರತಃ ಸ್ಥಿತಃ ॥ | 6.31.39bप्रणामं शिरसा कृत्वा रावणस्याग्रतः स्थितः ॥ ३९ ॥ | 6.22.37bप्रणामं शिरसा कृत्वा रावणस्याग्रतः स्थितः ॥6.22.37॥ | 6.31.39bप्रणामं शिरसा कृत्वा रावणस्याग्रतः स्थितः ॥ 6.31.39 ॥ | |||
| 87 | #40aತಮಬ್ರವೀತ್ತತೋ ರಾಜಾ ರಾವಣೋ ರಾಕ್ಷಸಂ ಸ್ಥಿತಮ್ । | 6.31.40aतमब्रवीत् ततो राजा रावणो राक्षसं स्थितम् । | 6.22.38aतमब्रवीत्ततो राजा रावणो राक्षसं स्थितम् । | 6.31.40aतमब्रवीत्ततो राजा रावणो राक्षसं स्थितम्। | |||
| 88 | #40bವಿದ್ಯುಜ್ಜಿಹ್ವಂ ಮಹಾಜಿಹ್ವಂ ಸಮೀಪ ಪರಿವರ್ತಿನಮ್ ॥ | 6.31.40bविद्युज्जिह्वं महाजिह्वं समीपपरिवर्तिनम् ॥ ४० ॥ | 6.22.38bविद्युज्जिह्वं महाजिह्वं समीपपरिवर्तिनम् ॥6.22.38॥ | 6.31.40bविद्युज्जिह्वं महाजिह्वं समीपपरिवर्त्तिनम् ॥ 6.31.40 ॥ | |||
| 89 | #41aಅಗ್ರತಃ ಕುರು ಸೀತಾಯಾಃ ಶೀಘ್ರಂ ದಾಶರಥೇಃ ಶಿರಃ । | 6.31.41aअग्रतः कुरु सीतायाः शीघ्रं दाशरथेः शिरः । | 6.22.39aअग्रतः कुरु सीतायाः शीघ्रं दाशरथेः शिरः । | 6.31.41aअग्रतः कुरु सीतायाः शीघ्रं दाशरथेः शिरः। | |||
| 90 | #41bಅವಸ್ಥಾಂ ಪಶ್ಚಿಮಾಂ ಭರ್ತುಃ ಕೃಪಣಾ ಸಾಧು ಪಶ್ಯತು ॥ | 6.31.41bअवस्थां पश्चिमां भर्तुः कृपणा साधु पश्यतु ॥ ४१ ॥ | 6.22.39bअवस्थां पश्चिमां भर्तुः कृपणा साधु पश्यतु ॥6.22.39॥ | 6.31.41bअवस्थां पश्चिमां भर्तुः कृपणा साधु पश्यतु ॥ 6.31.41 ॥ | |||
| 91 | #42aಏವಮುಕ್ತಂ ತು ತದ್ರಕ್ಷಃ ಶಿರಸ್ತತ್ ಪ್ರಿಯದರ್ಶನಮ್ । | 6.31.42aएवमुक्तं तु तद् रक्षः शिरस्तत् प्रियदर्शनम् । | 6.22.40aएवमुक्तं तु तद्रक्षः शिरस्तत्प्रियदर्शनम् । | 6.31.42aएवमुक्तं तु तद्रक्षः शिरस्तत् प्रियदर्शनम्। | |||
| 92 | #42bಉಪನಿಕ್ಷಿಪ್ಯ ಸೀತಾಯಾಃ ಕ್ಷಿಪ್ರಮಂತರಧೀಯತ ॥ | 6.31.42bउपनिक्षिप्य सीतायाः क्षिप्रमन्तरधीयत ॥ ४२ ॥ | 6.22.40bउपनिक्षिप्य सीतायाः क्षिप्रमन्तरधीयत ॥6.22.40॥ | 6.31.42bउपनिक्षिप्य सीतायाः क्षिप्रमन्तरधीयत ॥ 6.31.42 ॥ | |||
| 93 | #43aರಾವಣಶ್ಚಾಪಿ ಚಿಕ್ಷೇಪ ಭಾಸ್ವರಂ ಕಾರ್ಮುಕಂ ಮಹತ್ । | 6.31.43aरावणश्चापि चिक्षेप भास्वरं कार्मुकं महत् । | 6.22.41aरावणश्चापि चिक्षेप भास्वरं कार्मुकं महत् । | 6.31.43aरावणश्चापि चिक्षेप भास्वरं कार्मुकं महत्। | |||
| 94 | #43bತ್ರಿಷು ಲೋಕೇಷು ವಿಖ್ಯಾತಂ ರಾಮಸ್ಯೈತದಿತಿ ಬ್ರುವನ್ ॥ | 6.31.43bत्रिषु लोकेषु विख्यातं रामस्यैतदिति ब्रुवन् ॥ ४३ ॥ | 6.22.41bत्रिषु लोकेषु विख्यातं सीतामिदमुवाच ह ॥6.22.41॥ | 6.31.43bत्रिषु लोकेषु विख्यातं सीतामिदमुवाच च ॥ 6.31.43 ॥ | |||
| 95 | #44aಇದಂ ತತ್ತವ ರಾಮಸ್ಯ ಕಾರ್ಮುಕಂ ಜ್ಯಾಸಮಾವೃತಮ್ । | 6.31.44aइदं तत् तव रामस्य कार्मुकं ज्यासमावृतम् । | 6.22.42aइदं तत्तव रामस्य कार्मुकं ज्यासमन्वितम् । | 6.31.44aइदं तत्तव रामस्य कार्मुकं ज्यासमायुतम्। | |||
| 96 | #44bಇಹ ಪ್ರಹಸ್ತೇನಾನೀತಂ ತಂ ಹತ್ವಾ ನಿಶಿ ಮಾನುಷಮ್ ॥ | 6.31.44bइह प्रहस्तेनानीतं तं हत्वा निशि मानुषम् ॥ ४४ ॥ | 6.22.42bइह प्रहस्तेनानीतं हत्वा तं निशि मानुषम् ॥6.22.42॥ | 6.31.44bइह प्रहस्तेनानीतं हत्वा तं निशि मानुषम् ॥ 6.31.44 ॥ | |||
| 97 | #45aಸ ವಿದ್ಯುಜ್ಜಿಹ್ವೇನ ಸಹೈವ ತಚ್ಛಿರೋ ಧನುಶ್ಚ ಭೂಮೌ ವಿನಿಕೀರ್ಯಮಾಣಃ । | 6.31.45aस विद्युज्जिह्वेन सहैव तच्छिरो धनुश्च भूमौ विनिकीर्यमाणः । | 6.22.43aस विद्युज्जिह्वेन सहैव तच्छिरो धनुश्च भूमौ विनिकीर्य रावणः । | 6.31.45aस विद्युजिह्वेन सहैव तच्छिरो धनुश्च भूमौ विनीकीर्य रावणः। | |||
| 98 | #45bವಿದೇಹರಾಜಸ್ಯ ಸುತಾಂ ಯಶಸ್ವಿನೀಂ ತತೋಽಬ್ರವೀತ್ತಾಂ ಭವ ಮೇ ವಶಾನುಗಾ ॥ | 6.31.45bविदेहराजस्य सुतां यशस्विनीं ततोऽब्रवीत् तां भव मे वशानुगा ॥ ४५ ॥ | 6.22.43bविदेहराजस्य सुतां यशस्विनीं ततोऽब्रवीत्तां भव मे वशानुगा ॥6.22.43॥ | 6.31.45bविदेहराजस्य सुतां यशस्विनीं ततोऽब्रवीत्तां भव मे वशानुगा ॥ 6.31.45 ॥ |