रावणेन स्वामात्यशुकप्रेषणम्. Built from structured/verses.jsonl. Rows are monotone-aligned half-verse/pāda-like units split at । and ॥, so verse-number boundary differences can appear as inserted or shifted line rows.
78 aligned line rows across 7 source streams.
gor-kn 74 lines
gor-hi 74 lines
gr 73 lines
dr-mula 67 lines
| # | gor-kn | gor-hi | crit | gr | dr-mula | gr-iitk | iitk |
|---|---|---|---|---|---|---|---|
| 1 | #1aತತೋ ನಿವಿಷ್ಟಾಂ ಧ್ವಜಿನೀಂ ಸುಗ್ರೀವೇಣಾಭಿಪಾಲಿತಾಮ್ । | 6.20.1aततो निविष्टां ध्वजिनीं सुग्रीवेणाभिपालिताम् । | 6.20.1aततो निविष्टां ध्वजिनीं सुग्रीवेणाभिपालिताम् । | 6.20.1aततो निविष्टां ध्वजिनीं सुग्रीवेणाभिपालिताम्। | |||
| 2 | #1bದದರ್ಶ ರಾಕ್ಷಸೋಽಭ್ಯೇತ್ಯ ಶಾರ್ದೂಲೋ ನಾಮ ವೀರ್ಯವಾನ್ ॥ | 6.20.1bददर्श राक्षसोऽभ्येत्य शार्दूलो नाम वीर्यवान् ॥ १ ॥ | 6.20.1bददर्श राक्षसोऽभ्येत्य शार्दूलो नाम वीर्यवान् ॥ १ ॥ | 6.20.1bददर्श राक्षसोऽभ्येत्य शार्दूलो नाम वीर्यवान् ॥ 6.20.1 ॥ | |||
| 3 | #2aಚಾರೋ ರಾಕ್ಷಸರಾಜಸ್ಯ ರಾವಣಸ್ಯ ದುರಾತ್ಮನಃ । | 6.20.2aचारो राक्षसराजस्य रावणस्य दुरात्मनः । | 6.20.2aचारो राक्षसराजस्य रावणस्य दुरात्मनः । | ||||
| 4 | #2bತಾಂ ದೃಷ್ಟ್ವಾ ಸರ್ವತೋಽವ್ಯಗ್ರಾಂ ಪ್ರತಿಗಮ್ಯ ಸ ರಾಕ್ಷಸಃ ॥ | 6.20.2bतां दृष्ट्वा सर्वतोऽव्यग्रां प्रतिगम्य स राक्षसः ॥ २ ॥ | 6.20.2bतां दृष्ट्वा सर्वतो व्यग्रं प्रतिगम्य स राक्षसः । | 6.20.2aतां दृष्ट्वा सर्वतो व्यग्रं प्रतिगम्य स राक्षसः। | |||
| 5 | #3ಪ್ರವಿಶ್ಯ ಲಂಕಾಂ ವೇಗೇನ ರಾಜಾನ ಮಿದಮಬ್ರವೀತ್ ॥ | 6.20.3aआविश्य लङ्कां वेगेन राजानमिदमब्रवीत् । | 6.20.2cप्रविश्य लङ्कां वेगेन रावणं वाक्यमब्रवीत् ॥ २ ॥ | 6.20.2bप्रविश्य लङ्कां वेगेन रावणं वाक्यमब्रवीत् ॥ 6.20.2 ॥ | |||
| 6 | #4ಏಷ ವೈವಾನರರ್ಕ್ಷೌಘೋ ಲಂಕಾಂ ಸಮಭಿವರ್ತತೇ ॥ | 6.20.3bएष वै वानरर्क्षौघो लङ्कां समभिवर्तते ॥ ३ ॥ | 6.20.3aएष वानरऋक्षौघो लङ्कां समभिवर्तते । | 6.20.3aएष वानरऋक्षौघो लङ्कां समभिवर्तते। | |||
| 7 | #5aಅಗಾಧಶ್ಚಾಪ್ರಮೇಯಶ್ಚ ದ್ವಿತೀಯ ಇವ ಸಾಗರಃ । | 6.20.4aअगाधश्चाप्रमेयश्च द्वितीय इव सागरः । | 6.20.3bअगाधश्चाप्रमेयश्च द्वितीय इव सागरः ॥ ३ ॥ | 6.20.3bअगाधश्चाप्रमेयश्च द्वितीय इव सागरः ॥ 6.20.3 ॥ | |||
| 8 | #5bಪುತ್ರೌ ದಶರಥಸ್ಯೇಮೌ ಭ್ರಾತರೌ ರಾಮಲಕ್ಷ್ಮಣೌ ॥ | 6.20.4bपुत्रौ दशरथस्येमौ भ्रातरौ रामलक्ष्मणौ ॥ ४ ॥ | 6.20.4aपुत्रौ दशरथस्येमौ भ्रातरौ रामलक्ष्मणौ । | 6.20.4aपुत्रौ दशरथस्येमौ भ्रातरौ रामलक्ष्मणौ। | |||
| 9 | #6aಉತ್ತಮೌ ರೂಪಸಂಪನ್ನೌ ಸೀತಾಯಾಃ ಪದಮಾಗತೌ । | 6.20.5aउत्तमौ रूपसम्पन्नौ सीतायाः पदमागतौ । | 6.20.4bउत्तमायुधसंपन्नौ सीतायाः पदमागतौ ॥ ४ ॥ | 6.20.4bउत्तमायुधसम्पन्नौ सीतायाः पदमागतौ ॥ 6.20.4 ॥ | |||
| 10 | #6bಏತೌ ಸಾಗರಮಾಸಾದ್ಯ ಸಂನಿವಿಷ್ಟೌ ಮಹಾದ್ಯುತೇ ॥ | 6.20.5bएतौ सागरमासाद्य सन्निविष्टौ महाद्युते ॥ ५ ॥ | 6.20.5एतौ सागरमासाद्य सन्निविष्टौ महाद्युती ॥ ५ ॥ | 6.20.5एतौ सागरमासाद्य सन्निविष्टौ महाद्युती ॥ 6.20.5 ॥ | |||
| 11 | #7aಬಲಂ ಚಾಕಾಶಮಾವೃತ್ಯ ಸರ್ವತೋ ದಶಯೋಜನಮ್ । | 6.20.6aबलं चाकाशमावृत्य सर्वतो दशयोजनम् । | 6.20.6aबलमाकाशमावृत्य सर्वतो दशयोजनम् । | 6.20.6बलमाकाशमावृत्य सर्वतो दशयोजनम् ॥ 6.20.6 ॥ | |||
| 12 | #7bತತ್ತ್ವಭೂತಂ ಮಹಾರಾಜ ಕ್ಷಿಪ್ರಂ ವೇದಿತುಮರ್ಹಸಿ ॥ | 6.20.6bतत्त्वभूतं महाराज क्षिप्रं वेदितुमर्हसि ॥ ६ ॥ | 6.20.6bतत्त्वभूतं महाराज क्षिप्रं वेदितुमर्हसि । | 6.20.7aतत्त्वभूतं महाराज क्षिप्रं वेदितुमर्हसि। | |||
| 13 | #8aತವ ದೂತಾ ಮಹಾರಾಜ ಕ್ಷಿಪ್ರಮರ್ಹಂತಿ ವೇದಿತುಮ್ । | 6.20.7aतव दूता महाराज क्षिप्रमर्हन्ति वेदितुम् । | 6.20.6cतव दूता महाराज क्षिप्रमर्हन्त्यवेक्षितुम् ॥ ६ ॥ | 6.20.7bतव दूता महाराज क्षिप्रमर्हन्त्यवेक्षितुम् ॥ 6.20.7 ॥ | |||
| 14 | #8bಉಪಪ್ರದಾನಂ ಸಾಂನ್ತ್ವಂ ವಾ ಭೇದೋ ವಾತ್ರ ಪ್ರಯುಜ್ಯತಾಮ್ ॥ | 6.20.7bउपप्रदानं सान्त्वं वा भेदो वात्र प्रयुज्यताम् ॥ ७ ॥ | 6.20.7उपप्रदानं सान्त्वं वा भेदो वात्र प्रयुज्यताम् ॥ ७॥ | 6.20.8उपप्रदानं सान्त्वं वा भेदो वाऽत्र प्रयुज्यताम् ॥ 6.20.8 ॥ | |||
| 15 | #9aಶಾರ್ದೂಲಸ್ಯ ವಚಃ ಶ್ರುತ್ವಾ ರಾವಣೋ ರಾಕ್ಷಸೇಶ್ವರಃ । | 6.20.8aशार्दूलस्य वचः श्रुत्वा रावणो राक्षसेश्वरः । | 6.20.8aशार्दूलस्य वचः श्रुत्वा रावणो राक्षसेश्वरः । | ||||
| 16 | #9bಉವಾಚ ಸಹಸಾ ವ್ಯಗ್ರಃ ಸಂಪ್ರಧಾರ್ಯಾರ್ಥಮಾತ್ಮನಃ । | 6.20.8bउवाच सहसा व्यग्रः सम्प्रधार्यार्थमात्मनः । | 6.20.8bउवाच सहसा व्यग्रः संप्रधार्यार्थमात्मनः । | 6.20.9aउवाच सहसा व्यग्रः सम्प्रधार्यार्थमात्मनः। | |||
| 17 | #9cಶುಕಂ ಸಾಧು ತದಾ ರಕ್ಷೋ ವಾಕ್ಯಮರ್ಥವಿದಾಂ ವರಮ್ ॥ | 6.20.8cशुकं साधु तदा रक्षो वाक्यमर्थविदां वरम् ॥ ८ ॥ | 6.20.8cशुकं नाम तदा रक्षो वाक्यमर्थविदां वरम् ॥ ८ ॥ | 6.20.9bशुकं नाम तदा रक्षो वाक्यमर्थविदां वरम् ॥ 6.20.9 ॥ | |||
| 18 | #10aಸುಗ್ರೀವಂ ಬ್ರೂಹಿ ಗತ್ವಾಽಽಶು ರಾಜಾನಂ ವಚನಾನ್ಮಮ । | 6.20.9aसुग्रीवं ब्रूहि गत्वाऽऽशु राजानं वचनान्मम । | 6.20.9aसुग्रीवं ब्रूहि गत्वा त्वं राजानं वचनान्मम । | 6.20.10aसुग्रीवं ब्रूहि गत्वा त्वं राजानं वचनान्मम। | |||
| 19 | #10bಯಥಾ ಸಂದೇಶಮಕ್ಲೀಬಂ ಶ್ಲಕ್ಷ್ಣಯಾ ಪರಯಾ ಗಿರಾ ॥ | 6.20.9bयथासन्देशमक्लीबं श्लक्ष्णया परया गिरा ॥ ९ ॥ | 6.20.9bयथासंदेशमक्लीबं श्लक्ष्णया परया गिरा ॥ ९ ॥ | 6.20.10bयथासन्देशमक्लीबं श्लक्ष्णया परया गिरा ॥ 6.20.10 ॥ | |||
| 20 | #11aತ್ವಂ ವೈ ಮಹಾರಾಜ ಕುಲಪ್ರಸೂತೋ ಮಹಾಬಲಶ್ಚರ್ಕ್ಷರಜಃಸುತಶ್ಚ । | 6.20.10aत्वं वै महाराजकुलप्रसूतो महाबलश्चर्क्षरजःसुतश्च । | 6.20.10aत्वं वै महाराज कुलप्रसूतो महाबलश्चर्क्षरजस्सुतश्च । | 6.20.11aत्वं वै महाराजकुलप्रसूतो महाबलश्चर्क्षरजस्सुतश्च। | |||
| 21 | #11bನ ಕಶ್ಚನಾರ್ಥಸ್ತವ ನಾಸ್ತ್ಯನರ್ಥ ಸ್ತಥಾಪಿ ಮೇ ಭ್ರಾತೃಸಮೋ ಹರೀಶ ॥ | 6.20.10bन कश्चनार्थस्तव नास्त्यनर्थ- स्तथापि मे भ्रातृसमो हरीश ॥ १० ॥ | 6.20.10bन कश्चिदर्थस्तव नास्त्यनर्थस्तथा हि मे भ्रातृसमो हरीश ॥ १० ॥ | 6.20.11bन कश्चिदर्थस्तव नास्त्यनर्थस्तथा हि मे भ्रातृसमो हरीश ॥ 6.20.11 ॥ | |||
| 22 | 6.20.11aअहं यद्यहरं भार्यां राजपुत्रस्य धीमतः । | 6.20.11aअहं यद्यहरं भार्या राजपुत्रस्य धीमतः । | 6.20.12aअहं यद्यहरं भार्यां राजपुत्रस्य धीमतः। | ||||
| 23 | 6.20.11bकिं तत्र तव सुग्रीव किष्किन्धां प्रति गम्यताम् ॥ ११ ॥ | 6.20.11bकिं तत्र तव सुग्रीव किष्किन्धां प्रतिगम्यताम् ॥ ११ ॥ | 6.20.12bकिं तत्र तव सुग्रीव किष्किन्धां प्रति गम्यताम् ॥ 6.20.12 ॥ | ||||
| 24 | #12aಅಹಂ ಯದ್ಯಹರಂ ಭರ್ಯಾಂ ರಾಜಪುತ್ರಸ್ಯ ಧೀಮತಃ । | 6.20.12aनहीयं हरिभिर्लङ्का प्राप्तुं शक्या कथञ्चन । | 6.20.12aन हीयं हरिभिर्लङ्का शक्या प्राप्तुं कथंचन । | 6.20.13aन हीयं हरिभिर्लङ्का शक्या प्राप्तुं कथञ्चन। | |||
| 25 | #12bಕಿಂ ತತ್ರ ತವ ಸುಗ್ರೀವ ಕಿಷ್ಕಿಂಧಾಂ ಪ್ರತಿ ಗಮ್ಯತಾಮ್ ॥ | 6.20.12bदेवैरपि सगन्धर्वैः किं पुनर्नरवानरैः ॥ १२ ॥ | 6.20.12bदेवैरपि सगन्धर्वैः किं पुनर्नरवानरैः ॥ १२ ॥ | 6.20.13bदेवैरपि सगन्धर्वैः किं पुनर्नरवानरैः ॥ 6.20.13 ॥ | |||
| 26 | #13aನಹೀಯಂ ಹರಿಭಿರ್ಲಂಕಾಂ ಪ್ರಾಪ್ತುಂ ಶಕ್ಯಾ ಕಥಂಚನ । | 6.20.13aस तदा राक्षसेन्द्रेण सन्दिष्टो रजनीचरः । | 6.20.13aस तथा राक्षसेन्द्रेण संदिष्टो रजनीचरः । | 6.20.14aस तथा राक्षसेन्द्रेण सन्दिष्टो रजनीचरः। | |||
| 27 | #13bದೈವೇರಪಿ ಸಗಂಧರ್ವೈಃ ಕಿಂ ಪುನರ್ನರವಾನರೈಃ ॥ | 6.20.13bशुको विहङ्गमो भूत्वा तूर्णमाप्लुत्य चाम्बरम् ॥ १३ ॥ | 6.20.13bशुको विहङ्गमो भूत्वा तूर्णमाप्लुत्य चाम्बरम् ॥ १३ ॥ | 6.20.14bशुको विहङ्गमो भूत्वा तूर्णमाप्लुत्य चाम्बरम् ॥ 6.20.14 ॥ | |||
| 28 | #14aಸ ತದಾ ರಾಕ್ಷಸೇಂದ್ರೇಣ ಸಂದಿಷ್ಟೋ ರಜನೀಚರಃ । | 6.20.14aस गत्वा दूरमध्वानमुपर्युपरि सागरम् । | 6.20.14aस गत्वा दूरमध्वानमुपर्युपरिसागरम् । | ||||
| 29 | #14bಶುಕೋ ವಿಹಂಗಮೋ ಭೂತ್ವಾ ತೂರ್ಣಮಾಪ್ಲುತ್ಯ ಚಾಂಬರಮ್ ॥ | 6.20.14bसंस्थितो ह्यम्बरे वाक्यं सुग्रीवमिदमब्रवीत् ॥ १४ ॥ | 6.20.14bसंस्थितो ह्यम्बरे वाक्यं सुग्रीवमिदमब्रवीत् । | 6.20.15aसंस्थितो ह्यम्बरे वाक्यं सुग्रीवमिदमब्रवीत्। | |||
| 30 | #15aಸ ಗತ್ವಾ ದೂರಮಧ್ವಾನಮುಪರ್ಯುಪರಿ ಸಾಗರಮ್ । | 6.20.15aसर्वमुक्तं यथाऽऽदिष्टं रावणेन दुरात्मना । | 6.20.14cसर्वमुक्तं यथादिष्टं रावणेन दुरात्मना ॥ १४ ॥ | 6.20.15bसर्वमुक्तं यथादिष्टं रावणेन दुरात्मना ॥ 6.20.15 ॥ | |||
| 31 | #15bಸಂಸ್ಥಿತೋ ಹ್ಯಂಬರೇ ವಾಕ್ಯಂ ಸುಗ್ರೀವಮಿದಮಬ್ರವೀತ್ ॥ | 6.20.15bतत् प्रापयन्तं वचनं तूर्णमाप्लुत्य वानराः ॥ १५ ॥ | 6.20.15aतं प्रापयन्तं वचनं तूर्णमाप्लुत्य वानराः । | 6.20.16aतं प्रापयन्तं वचनं तूर्णमाप्लुत्य वानराः। | |||
| 32 | #16aಸರ್ವಮುಕ್ತಂ ಯಥಾಽಽದಿಷ್ಟಂ ರಾವಣೇನ ದುರಾತ್ಮನಾ । | 6.20.16aप्रापद्यन्त तदा क्षिप्रं लोप्तुं हन्तुं च मुष्टिभिः । | 6.20.15bप्रापद्यन्त दिवं क्षिप्रं लोप्तुं हन्तुं च मुष्टिभिः ॥ १५ ॥ | 6.20.16bप्रापद्यन्त दिवं क्षिप्रं लोप्तुं हन्तुं च मुष्टिभिः ॥ 6.20.16 ॥ | |||
| 33 | #16bತತ್ ಪ್ರಾಪಯಂತಂ ವಚನಂ ತೂರ್ಣಮಾಪ್ಲುತ್ಯ ವಾನರಾಃ ॥ | 6.20.16bसर्वैः प्लवङ्गैः प्रसभं निगृहीतो निशाचरः ॥ १६ ॥ | 6.20.17aस तैः प्लवङ्गैः प्रसभं निगृहीतो निशाचरः । | 6.20.17aस तैः प्लवङ्गैः प्रसभं निगृहीतो निशाचरः। | |||
| 34 | #17ಪ್ರಾಪದ್ಯಂತ ತದಾ ಕ್ಷಿಪ್ರಂ ಲೋಪ್ತುಂ ಹಂತುಂ ಚ ಮುಷ್ಟಿಭಿಃ ॥ | 6.20.17aगगनाद् भूतले चाशु प्रतिगृह्यावतारितः । | 6.20.17bगगनाद्भूतले चाशु परिगृह्य निपातितः ॥ १६ ॥ | 6.20.17bगगनाद्भूतले चाशु परिगृह्य निपातितः ॥ 6.20.17 ॥ | |||
| 35 | #18ಸವೈಃ ಪ್ಲವಂಗೈಃ ಪ್ರಸಭಂ ನಿಗೃಹೀತೋ ನಿಶಾಚರಃ ॥ | ||||||
| 36 | #19aಗಗನಾದ್ಭೂತಲೇ ಚಾಶು ಪರಿಗೃಹ್ಯಾವತಾರಿತಃ । | ||||||
| 37 | #19bವಾನರೈಃ ಪೀಡ್ಯಮಾನಸ್ತು ಶುಕೋ ವಚನಮಬ್ರವೀತ್ ॥ | 6.20.17bवानरैः पीड्यमानस्तु शुको वचनमब्रवीत् ॥ १७ ॥ | 6.20.17cवानरैः पीड्यमानस्तु शुको वचनमब्रवीत् । | 6.20.18aवानरैः पीड्यमानस्तु शुको वचनमब्रवीत्। | |||
| 38 | #20aನ ದೂತಾನ್ ಘ್ನಂತಿ ಕಾಕುತ್ಸ್ಥ ವಾರ್ಯಂತಾಂ ಸಾಧು ವಾನರಾಃ । | 6.20.18aन दूतान् घ्नन्ति काकुत्स्थ वार्यन्तां साधु वानराः । | 6.20.17dन दूतान्घ्नन्ति काकुत्स्थ वार्यन्तां साधु वानराः ॥ १७ ॥ | 6.20.18bन दूतान् घ्रन्ति काकुत्स्थ वार्यन्तां साधु वानराः ॥ 6.20.18 ॥ | |||
| 39 | #20bಯಸ್ತು ಹಿತ್ವಾ ಮತಂ ಭರ್ತುಃ ಸ್ವಮತಂ ಸಂಪ್ರಧಾರಯೇತ್ । | 6.20.18bयस्तु हित्वा मतं भर्तुः स्वमतं सम्प्रधारयेत् । | 6.20.18aयस्तु हित्वा मतं भर्तुः स्वमतं संप्रभाषते । | 6.20.19aयस्तु हित्वा मतं भर्तुः स्वमतं सम्प्रभाषते। | |||
| 40 | #20cಅನುಕ್ತವಾದೀ ದೂತಃ ಸನ್ಸ ದೂತೋವಧರ್ಮಹತಿ ॥ | 6.20.18cअनुक्तवादी दूतः सन् स दूतो वधमर्हति ॥ १८ ॥ | 6.20.18bअनुक्तवादी दूतः सन्स दूतो वधमर्हति ॥ १८ ॥ | 6.20.19bअनुक्तवादी दूतः सन् स दूतो वधमर्हति ॥ 6.20.19 ॥ | |||
| 41 | #21aಶುಕಸ್ಯ ವಚನಂ ಶ್ರತ್ವಾ ರಾಮಸ್ತು ಪರಿದೇವಿತಮ್ । | 6.20.19aशुकस्य वचनं रामः श्रुत्वा तु परिदेवितम् । | 6.20.19aशुकस्य वचनं श्रुत्वा रामस्तु परिदेवितम् । | 6.20.20aशुकस्य वचनं श्रुत्वा रामस्तु परिदेवितम्। | |||
| 42 | #21bಉವಾಚ ಮಾವಧಿಷ್ಟೇತಿ ಘ್ನತಃ ಶಾಖಾಮೃಗರ್ಷಭಾನ್ ॥ | 6.20.19bउवाच मावधिष्टेति घ्नतः शाखामृगर्षभान् ॥ १९ ॥ | 6.20.19bउवाच मा वधिष्ठेति घ्नतः शाखामृगर्षमान् ॥ १९ ॥ | 6.20.20bउवाच मा वधिष्ठेति घ्नतः शाखामृगर्षभान् ॥ 6.20.20 ॥ | |||
| 43 | #22aಸ ಚ ಪತ್ರಲಘುರ್ಭೂತ್ವಾ ಹರಿಭಿರ್ದರ್ಶಿತೇಽಭಯೇ । | 6.20.20aस च पत्रलघुर्भूत्वा हरिभिर्दर्शितेऽभये । | 6.20.20aस च पत्रलघुर्भूत्वा हरिभिर्दर्शिते भये । | 6.20.21aस च पत्रलघुर्भूत्वा हरिभिर्दर्शिते भये। | |||
| 44 | #22bಅಂತರಿಕ್ಷೇ ಸ್ಥಿತೋ ಭೂತ್ವಾ ಪುನರ್ವಚನಮಬ್ರವೀತ್ ॥ | 6.20.20bअन्तरिक्षे स्थितो भूत्वा पुनर्वचनमब्रवीत् ॥ २० ॥ | 6.20.20bअन्तरिक्षस्थितो भूत्वा पुनर्वचनमब्रवीत् ॥ २० ॥ | 6.20.21bअन्तरिक्षस्थितो भूत्वा पुनर्वचनमब्रवीत् ॥ 6.20.21 ॥ | |||
| 45 | #23aಸುಗ್ರೀವ ಸತ್ತ್ವಸಂಪನ್ನ ಮಹಾಬಲಪರಾಕ್ರಮ । | 6.20.21aसुग्रीव सत्त्वसम्पन्न महाबलपराक्रम । | 6.20.21aसुग्रीव सत्त्वसंपन्न महाबलपराक्रम । | 6.20.22aसुग्रीव सत्त्वसम्पन्न महाबलपराक्रम। | |||
| 46 | #23bಕಿಂ ಮಯಾ ಖಲು ವಕ್ತವ್ಯೋ ರಾವಣೋ ಲೋಕರಾವಣಃ ॥ | 6.20.21bकिं मया खलु वक्तव्यो रावणो लोकरावणः ॥ २१ ॥ | 6.20.21bकिं मया खलु वक्तव्यो रावणो लोकरावणः ॥ २१ ॥ | 6.20.22bकिं मया खलु वक्तव्यो रावणो लोकरावणः ॥ 6.20.22 ॥ | |||
| 47 | #24aಸ ಏವಮುಕ್ತಃ ಪ್ಲವಗಾಧಿಪಸ್ತದಾ ಪ್ಲವಂಗಮಾನಾಮೃಷಭೋ ಮಹಾಬಲಃ । | 6.20.22aस एवमुक्तः प्लवगाधिपस्तदा प्लवङ्गमानामृषभो महाबलः । | 6.20.22aस एवमुक्तः प्लवगाधिपस्तदा प्लवङ्गमानामृषभो महाबलः । | 6.20.23aस एवमुक्तः प्लवगाधिपस्तदा प्लवङ्गमानामृषभो महाबलः। | |||
| 48 | #24bಉವಾಚ ವಾಕ್ಯಂ ರಜನೀಚರಸ್ಯ ಚಾರಂ ಶುಕಂ ದೀನಮದೀನಸತ್ತ್ವಃ ॥ | 6.20.22bउवाच वाक्यं रजनीचरस्य चारं शुकं शुद्धमदीनसत्त्वः ॥ २२ ॥ | 6.20.22bउवाच वाक्यं रजनीचरस्य चारं शुकं तूर्णमदीनसत्त्वः ॥ २२ ॥ | 6.20.23bउवाच वाक्यं रजनीचरस्य चारं शुकं तूर्णमदीनसत्त्वः ॥ 6.20.23 ॥ | |||
| 49 | #25aನ ಮೇಽಸಿ ಮಿತ್ರಂ ನ ತಥಾನುಕಂಪ್ಯೋ ನ ಚೋಪಕರ್ತಾಸಿನ ಮೇ ಪ್ರಿಯೋಽಸಿ । | 6.20.23aन मेऽसि मित्रं न तथानुकम्प्यो न चोपकर्तासि न मे प्रियोऽसि । | 6.20.23aन मेऽसि मित्रं न तथाऽनुकम्प्यो न चोपकर्ताऽसि न मे प्रियोसि । | 6.20.24aन मेऽसि मित्रं न तथाऽनुकम्प्यो न चोपकर्ताऽसि न मे प्रियोऽसि। | |||
| 50 | #25bಅರಿಶ್ಚ ರಾಮಸ್ಯ ಸಹಾನುಬಂಧ- ಸ್ತತೋಽಸಿವಾಲೀವ ವಧಾರ್ಹ ವಧ್ಯಃ ॥ | 6.20.23bअरिश्च रामस्य सहानुबन्ध- स्ततोऽसि वालीव वधार्ह वध्यः ॥ २३ ॥ | 6.20.23bअरिश्व रामस्य सहानुबन्धः से मेसि वालीव वधार्ह वध्यः ॥ २३ ॥ | 6.20.24bअरिश्च रामस्य सहानुबन्धः स मेऽसि वालीव वधार्ह वध्यः ॥ 6.20.24 ॥ | |||
| 51 | #26aನಿಹನ್ಮ್ಯಹಂ ತ್ವಾಂ ಸಸುತಂ ಸಬಂಧುಂ ಸಜ್ಞಾತಿವರ್ಗಂ ರಜನೀಚರೇಶ । | 6.20.24aनिहन्म्यहं त्वां ससुतं सबन्धुं सज्ञातिवर्गं रजनीचरेश । | 6.20.24aनिहन्म्यहं त्वां ससुतं सबन्धुं सज्ञातिवर्गं रजनीचरेश । | 6.20.25aनिहन्म्यहं त्वां ससुतं सबन्धुं सज्ञातिवर्गं रजनीचरेश। | |||
| 52 | #26bಲಂಕಾಂ ಚ ಸರ್ವಾಂ ಮಹತಾ ಬಲೇನ ಸರ್ವೈಃ ಕರಿಷ್ಯಾಮಿ ಸಮೇತ್ಯ ಭಸ್ಮ॥ | 6.20.24bलङ्कां च सर्वां महता बलेन सर्वैः करिष्यामि समेत्य भस्म ॥ २४ ॥ | 6.20.24bलङ्कां च सर्वां महता बलेन क्षिप्रं करिष्यामि समेत्य भस्म ॥ २४ ॥ | 6.20.25bलङ्कां च सर्वां महता बलेन क्षिप्रं करिष्यामि समेत्य भस्म ॥ 6.20.25 ॥ | |||
| 53 | #27aನ ಮೋಕ್ಷ್ಯಸೇ ರಾವಣ ರಾಘವಸ್ಯ ಸುರೈಃ ಸಹೇಂದ್ರೈರಪಿ ಮೂಢ ಗುಪ್ತಃ । | 6.20.25aन मोक्ष्यसे रावण राघवस्य सुरैः सहेन्द्रैरपि मूढ गुप्तः । | 6.20.25aन मोक्ष्यसे रावण राघवस्य सुरैः सहेन्द्रैरपि मूढ गुप्तः । | ||||
| 54 | #27bಅಂತರ್ಹಿತಃ ಸೂರ್ಯಪಥಂ ಗತೋಽಪಿ ತಥೈವ ಪಾತಾಲಮನುಪ್ರವಿಷ್ಟಃ । | 6.20.25bअन्तर्हितः सूर्यपथं गतोऽपि तथैव पातालमनुप्रविष्टः । | 6.20.25bअन्तर्हितः सूर्यपथं गतो वा तथैव पातालमनुप्रविष्टः । | 6.20.26aअन्तर्हितः सूर्यपथं गतो वा तथैव पातालमनुप्रविष्टः। | |||
| 55 | #27cಗಿರೀಶ ಪದಾಂಬು ಜಸಂಗತೋ ವಾ ಹತೋಽಸ್ಮಿ ರಾಮೇಣ ಸಹಾನುಜಸ್ತ್ವಮ್ ॥ | 6.20.25cगिरीशपादाम्बुजसङ्गतो वा हतोऽसि रामेण सहानुजस्त्वम् ॥ २५ ॥ | 6.20.25c[गिरीशपादांबुजसंगतो वा हतोसि रामेण सहानुजस्त्वम्] ॥ २५ ॥ | 6.20.26b[ गिरीशपादाम्बुजसङ्गतो वा हतोऽसि रामेण सहानुजस्त्वम् ] ॥ 6.20.26 ॥ | |||
| 56 | #28aತಸ್ಯ ತೇ ತ್ರಿಷು ಲೋಕೇಷು ನ ಪಿಶಾಚಂ ನ ರಾಕ್ಷಸಮ್ । | 6.20.26aतस्य ते त्रिषु लोकेषु न पिशाचं न राक्षसम् । | 6.20.26aतस्य ते त्रिषु लोकेषु न पिशाचं न राक्षसम् । | 6.20.27aतस्य ते त्रिष्टु लोकेषु न पिशाचं न राक्षसम्। | |||
| 57 | #28bತ್ರಾತಾರಂ ನಾನುಪಶ್ಯಾಮಿ ನ ಗಂಧರ್ವಂ ನ ಚಾಸುರಮ್ ॥ | 6.20.26bत्रातारं नानुपश्यामि न गन्धर्वं न चासुरम् ॥ २६ ॥ | 6.20.26bत्रातारमनुपश्यामि न गन्धर्वे न चासुरम् ॥ २६ ॥ | 6.20.27bत्रातारमनुपश्यामि न गन्धर्वं न चासुरम् ॥ 6.20.27 ॥ | |||
| 58 | 6.20.27अवधीर्यज्जरावृद्धमक्षमं किं जटायुषम् ॥ २७ ॥ | 6.20.28अवधीर्यज्जरावृद्धमक्षम किं जटायुषम् ॥ 6.20.28 ॥ | |||||
| 59 | #29aಅವಧೀಸ್ತ್ವಂ ಜರಾವೃದ್ಧಂ ಗೃದ್ಧರಾಜಂ ಜಟಾಯುಷಮ್ । | 6.20.27aअवधीस्त्वं जरावृद्धं गृध्रराजं जटायुषम् । | |||||
| 60 | #29bಕಿಂ ನು ತೇ ರಾಮಸಾನ್ನಿಧ್ಯೇ ಸಕಾಶೇ ಲಕ್ಷ್ಮಣಸ್ಯ ಚ । | 6.20.27bकिं नु ते रामसान्निध्ये सकाशे लक्ष्मणस्य च । | 6.20.29aकिं नु ते रामसान्निध्ये सकाशे लक्ष्मणस्य वा। | ||||
| 61 | #29cಹೃತಾ ಸೀತಾ ವಿಶಾಲಾಕ್ಷೀ ಯಾಂ ತ್ವಂ ಗೃಹ್ಯ ನ ಬುಧ್ಯಸೇ ॥ | 6.20.27cहृता सीता विशालाक्षी यां त्वं गृह्य न बुध्यसे ॥ २७ ॥ | 6.20.29bहृता सीता विशालाक्षी यां त्वं गृह्य न बुद्ध्यसे ॥ 6.20.29 ॥ | ||||
| 62 | #30aಮಹಾಬಲಂ ಮಹಾತ್ಮಾನಂ ದುರಾರ್ಧುರ್ಷಂ ಸುರೈರಪಿ । | 6.20.28aमहाबलं महात्मानं दुराधर्षं सुरैरपि । | 6.20.29aमहाबलं महात्मानं दुर्घर्षममरैरपि । | 6.20.30aमहाबलं महात्मानं दुर्द्धर्षममरैरपि। | |||
| 63 | #30bನ ಬುಧ್ಯಸೇ ರಘುಶ್ರೇಷ್ಠಂ ಯಸ್ತೇ ಪ್ರಾಣಾನ್ ಹರಿಷ್ಯತಿ ॥ | 6.20.28bन बुध्यसे रघुश्रेष्ठं यस्ते प्राणान् हरिष्यति ॥ २८ ॥ | 6.20.29bन बुध्यसे रघुश्रेष्ठं यस्ते प्राणान्हरिष्यति ॥ २९ ॥ | 6.20.30bन बुद्ध्यसे रघुश्रेष्ठं यस्ते प्राणान् हरिष्यति ॥ 6.20.30 ॥ | |||
| 64 | #31aತತೋಽಬ್ರವೀದ್ವಾಲಿಸುತೋಽಪ್ಯಂಗದೋ ಹರಿಸತ್ತಮಃ । | 6.20.29aततोऽब्रवीद् वालिसुतोऽप्यङ्गदो हरिसत्तमः । | 6.20.30aततोऽब्रवीद्वालिसुतस्त्वङ्गदो हरिसत्तमः । | 6.20.31ततोऽब्रवीद्वालिसुतस्त्वङ्गदो हरिसत्तमः ॥ 6.20.31 ॥ | |||
| 65 | #31bನಾಯಂ ದೂತೋ ಮಹಾರಾಜ ಚಾರಿಕಃ ಪ್ರತಿಭಾತಿ ಮೇ ॥ | 6.20.29bनायं दूतो महाराज चारकः प्रतिभाति मे ॥ २९ ॥ | 6.20.30bनायं दूतो महाराज चारिकः प्रतिभाति मे ॥ ३० ॥ | ||||
| 66 | #32aತುಲಿತಂ ಹಿ ಬಲಂ ಸರ್ವಮನೇನತವ ತಿಷ್ಠತಾ । | 6.20.30aतुलितं हि बलं सर्वमनेन तव तिष्ठता । | 6.20.31aतुलितं हि बलं सर्वमैनेनात्रैव तिष्ठता । | 6.20.32aतुलितं हि बलं सर्वमनेनात्रैव तिष्ठता। | |||
| 67 | #32bಗೃಹ್ಯತಾಂ ಮಾಗಮಲ್ಲಂಕಾಮೇತದ್ಧಿ ಮಮ ರೋಚತೇ ॥ | 6.20.30bगृह्यतां मागमल्लङ्कामेतद्धि मम रोचते ॥ ३० ॥ | 6.20.31bगृह्यतां मा गमल्लङ्कामेतद्धि मम रोचते ॥ ३१ ॥ | 6.20.32bगृह्यतां मा गमल्लङ्कामेतद्धि मम रोचते ॥ 6.20.32 ॥ | |||
| 68 | #33aತತೋ ರಾಜ್ಞಾ ಸಮಾದಿಷ್ಟಾಃ ಸಮುತ್ಪತ್ಯ ವಲೀಮುಖಾಃ । | 6.20.31aततो राज्ञा समादिष्टाः समुत्पत्य वलीमुखाः । | 6.20.32aततो राज्ञा समादिष्टाः समुत्प्लुत्य वलीमुखाः । | 6.20.33aततो राज्ञा समादिष्टाः समुत्प्लुत्य वलीमुखाः। | |||
| 69 | #33bಜಗೃಹುಶ್ಚ ಬಬಂಧುಶ್ಚ ವಿಲಪಂತಮನಾಥವತ್ ॥ | 6.20.31bजगृहुश्च बबन्धुश्च विलपन्तमनाथवत् ॥ ३१ ॥ | 6.20.32bजगृहुच बबन्धुश्च विलपन्तमनाथवत् ॥ ३२ ॥ | 6.20.33bजगृहुश्च बबन्धुश्च विलपन्तमनाथवत् ॥ 6.20.33 ॥ | |||
| 70 | #34aಶುಕಸ್ತು ವಾನರೈಶ್ಚಂಡೈಸ್ತತ್ರ ತೈಃ ಸಂಪ್ರಪೀಡಿತಃ । | 6.20.32aशुकस्तु वानरैश्चण्डैस्तत्र तैः सम्प्रपीडितः । | 6.20.33aशुकस्तु वानरैश्चण्डैस्तत्र तैः संप्रपीडितः । | ||||
| 71 | #34bವ್ಯಾಚುಕ್ರೋಶ ಮಹಾತ್ಮಾನಂ ರಾಮಂ ದಶರಥಾತ್ಮಜಮ್ । | 6.20.32bव्याचुक्रोश महात्मानं रामं दशरथात्मजम् । | 6.20.33bव्याक्रोशत महात्मानं रामं दशरथात्मजम् । | 6.20.34aव्याक्रोशत महात्मानं रामं दशरथात्मजम्। | |||
| 72 | #34cಲುಪ್ಯೇತೇ ಮೇ ಬಲಾತ್ಪಕ್ಷೌ ಭಿದ್ಯೇತೇ ಮೇ ತಥಾಕ್ಷಿಣೀ ॥ | 6.20.32cलुप्येते मे बलात् पक्षौ भिद्येते मे तथाक्षिणी ॥ ३२ ॥ | 6.20.33cलुप्येते मे बलात्पक्षौ भिद्येते च तथाऽक्षिणी ॥ ३३ ॥ | 6.20.34bलुप्येते मे बलात्पक्षौ भिद्येते च तथाऽक्षिणी ॥ 6.20.34 ॥ | |||
| 73 | #35aಯಾಂ ಚ ರಾತ್ರಿಂ ಮರಿಷ್ಯಾಮಿ ಜಾಯೇ ರಾತ್ರಿಂ ಚ ಯಾಮಹಮ್ । | 6.20.33aयां च रात्रिं मरिष्यामि जाये रात्रिं च यामहम् । | 6.20.34aयां च रात्रि मरिष्यामि जाये रात्रिं च यामहम् । | ||||
| 74 | #35bಏತಸ್ಮಿನ್ನಂತರೇ ಕಾಲೇ ಯನ್ಮಯಾ ಹ್ಯಶುಭಂ ಕೃತಮ್ । | 6.20.33bएतस्मिन्नन्तरे काले यन्मया ह्यशुभं कृतम् । | 6.20.34bएतस्मिन्नन्तरे काले यन्मया ह्यशुभं कृतम् । | 6.20.35aएतस्मिन्नन्तरे काले यन्मया ह्यशुभं कृतम्। | |||
| 75 | #35cಸರ್ವಂ ತದುಪಪದ್ಯೇಥಾ ಜಹ್ಯಾಂ ಚೇದ್ಯದಿ ಜೀವಿತಮ್ ॥ | 6.20.33cसर्वं तदुपपद्येथा जह्यां चेद् यदि जीवितम् ॥ ३३ ॥ | 6.20.34cसर्वे तदुपपद्येथा जह्यां चेद्यदि जीवितम् ॥ ३४ ॥ | 6.20.35bसर्वं तदुपपद्येथा जह्यां चेद्यदि जीवितम् ॥ 6.20.35 ॥ | |||
| 76 | #36aನಾಘಾತಯತ್ತದಾ ರಾಮಃ ಶ್ರುತ್ವಾ ತತ್ಪರಿದೇವಿತಮ್ । | 6.20.34aनाघातयत् तदा रामः श्रुत्वा तत्परिदेवितम् । | 6.20.35aनाघातयत्तदा रामः श्रुत्वा तत्परिदेवनम् । | 6.20.36aनाघातयत्तदा रामः श्रुत्वा तत्परिदेवनम्। | |||
| 77 | #36bವಾನರಾನಬ್ರವೀದ್ರಾಮೋ ಮುಚ್ಯತಾಂ ದೂತ ಆಗತಃ ॥ | 6.20.34bवानरानब्रवीद् रामो मुच्यतां दूत आगतः ॥ ३४ ॥ | 6.20.35bवानरानब्रवीद्रामो मुच्यतां दूत आगतः ॥ ३५ ॥ | 6.20.36bवानरानब्रवीद्रामो मुच्यतां दूत आगतः ॥ 6.20.36 ॥ | |||
| 78 | 6.20.20इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने विंशः सर्गः ॥२०॥ |