रावणेन प्रहस्तप्रेषणम्. Built from structured/verses.jsonl. Rows are monotone-aligned half-verse/pāda-like units split at । and ॥, so verse-number boundary differences can appear as inserted or shifted line rows.
84 aligned line rows across 7 source streams.
gor-kn 81 lines
gor-hi 81 lines
gr 61 lines
dr-mula 79 lines
| # | gor-kn | gor-hi | crit | gr | dr-mula | gr-iitk | iitk |
|---|---|---|---|---|---|---|---|
| 1 | #1aಸ ತಾಂ ಪರಿಷದಂ ಕೃತ್ನಾಂ ಸಮೀಕ್ಷ್ಯಸಮಿತಿಂಜಯಃ । | 6.12.1aस तां परिषदं कृत्स्नां समीक्ष्य समितिञ्जयः । | 6.12.1aस तां परिषदं कृत्स्नाम् समीक्ष्य समितिञ्जयः । | 6.12.1aस तां परिषदं कृत्स्नां समीक्ष्य समितिञ्जयः। | |||
| 2 | #1bಪ್ರಚೋದಯಾಮಾಸ ತದಾ ಪ್ರಹಸ್ತಂ ವಾಹಿನೀಪತಿಮ್ ॥ | 6.12.1bप्रचोदयामास तदा प्रहस्तं वाहिनीपतिम् ॥ १ ॥ | 6.12.1bप्रचोदयामास तदा प्रहस्तम् वाहिनीपतिम् ॥ १ ॥ | 6.12.1bप्रचोदयामास तदा प्रहस्तं वाहिनीपतिम् ॥ 6.12.1 ॥ | |||
| 3 | #2aಸೇನಾಪತೇ ಯಥಾ ತೇ ಸ್ಯುಃ ಕೃತವಿದ್ಯಾಶ್ಚತುರ್ವಿಧಾಃ । | 6.12.2aसेनापते यथा ते स्युः कृतविद्याश्चतुर्विधाः । | 6.12.2aसेनापते यथा ते स्युः कृतविद्याश्चतुर्विधाः । | 6.12.2aसेनापते यथा ते स्युः कृतविद्याश्चतुर्विधाः। | |||
| 4 | #2bಯೋಧಾ ನಗರರಕ್ಷಾಯಾಂ ತಥಾ ವ್ಯಾದೇಷ್ಟುಮರ್ಹಸಿ ॥ | 6.12.2bयोधा नगररक्षायां तथा व्यादेष्टुमर्हसि ॥ २ ॥ | 6.12.2bयोधा नधिकरक्षायाम् तथा व्यादेष्टुमर्हसि ॥ २ ॥ | 6.12.2bयोधानधिकरक्षायां तथा व्यादेष्टुमर्हसि ॥ 6.12.2 ॥ | |||
| 5 | #3aಸ ಪ್ರಹಸ್ತಃ ಪ್ರಣೀತಾತ್ಮಾ ಚಕೀರ್ಷನ್ ರಾಜಶಾಸನಮ್ । | 6.12.3aस प्रहस्तः प्रणीतात्मा चिकीर्षन् राजशासनम् । | 6.12.3aस प्रहस्तः प्रतीतात्मा चिकीर्षन्राजशासनम् । | 6.12.3aस प्रहस्तः प्रणीतात्मा चिकीर्षन् राजशासनम्। | |||
| 6 | #3bವಿನಿಕ್ಷಿಪದ್ ಬಲಂ ಸರ್ವಂ ಬಹಿರಂತಶ್ಚ ಮಂದಿರೇ ॥ | 6.12.3bविनिक्षिपद् बलं सर्वं बहिरन्तश्च मन्दिरे ॥ ३ ॥ | 6.12.3bविनिक्षिपद्बलम् सर्वम् बहिरन्तश्च मन्दिरे ॥ ३ ॥ | 6.12.3bविनिक्षिपद्बलं सर्वं बहिरन्तश्च मन्दिरे ॥ 6.12.3 ॥ | |||
| 7 | #4aತತೋ ವಿನಿಕ್ಷಿಪ್ಯ ಬಲಂ ಸರ್ವಂ ನಗರಗುಪ್ತಯೇ । | 6.12.4aततो विनिक्षिप्य बलं सर्वं नगरगुप्तये । | 6.12.4aततो विनिक्षिप्य बलम् पृथङ्नगरगुप्तये । | 6.12.4aततो विनिक्षिप्य बलं पृथङ्नगरगुप्तये। | |||
| 8 | #4bಪ್ರಹಸ್ತಃ ಪ್ರಮುಖೇ ರಾಜ್ಞೋ ನಿಷಸಾದ ಜಗಾದ ಚ ॥ | 6.12.4bप्रहस्तः प्रमुखे राज्ञो निषसाद जगाद च ॥ ४ ॥ | 6.12.4bप्रहस्तः प्रमुखे राज्ञो निषसाद जगाद च ॥ ४ ॥ | 6.12.4bप्रहस्तः प्रमुखे राज्ञो निषसाद जगाद च ॥ 6.12.4 ॥ | |||
| 9 | #5aನಿಹಿತಂ ಬಹಿರಂತಶ್ಚ ಬಲಂ ಬಲವತಸ್ತವ । | 6.12.5aविहितं बहिरन्तश्च बलं बलवतस्तव । | 6.12.5aनिहितम् बहिरन्तश्च बलम् बलवतस्तव । | 6.12.5aनिहितं बहिरन्तश्च बलं बलवतस्तव। | |||
| 10 | #5bಕುರಷ್ವಾವಿಮನಾಃ ಕ್ಷಿಪ್ರಂ ಯದಭಿಪ್ರೇತಮಸ್ತಿ ತೇ ॥ | 6.12.5bकुरुष्वाविमनाः क्षिप्रं यदभिप्रेतमस्ति ते ॥ ५ ॥ | 6.12.5bकुरुष्वाविमनाः क्षिप्रम् यदभिप्रेतमस्ति ते ॥ ५ ॥ | 6.12.5bकुरुष्वाविमनाः क्षिप्रं यदभिप्रेतमस्तु ते ॥ 6.12.5 ॥ | |||
| 11 | #6aಪ್ರಹಸ್ತಸ್ಯ ವಚಃ ಶ್ರುತ್ವಾ ರಾಜಾ ರಾಜ್ಯಹಿತೈಷಿಣಃ । | 6.12.6aप्रहस्तस्य वचः श्रुत्वा राजा राज्यहितैषिणः । | 6.12.6aप्रहस्तस्य वचः श्रुत्वा राजा राज्यहिते रतः । | 6.12.6aप्रहस्तस्य वचः श्रुत्वा राजा राज्यहिते रतः। | |||
| 12 | #6bಸುಖೇಪ್ಸುಃ ಸುಹೃದಾಂ ಮಧ್ಯೇ ವ್ಯಾಜಹಾರ ಸ ರಾವಣಃ ॥ | 6.12.6bसुखेप्सुः सुहृदां मध्ये व्याजहार स रावणः ॥ ६ ॥ | 6.12.6bसुखेप्सुः सुहृदां मध्ये व्याजहार स रावणः ॥ ६ ॥ | 6.12.6bसुखेप्सुः सुहृदां मध्ये व्याजहार स रावणः ॥ 6.12.6 ॥ | |||
| 13 | #7aಪ್ರಿಯಾಪ್ರಿಯೇ ಸುಖೇ ದುಃಖೇ ಲಾಭಾಲಾಭೇ ಹಿತಾಹಿತೇ । | 6.12.7aप्रियाप्रिये सुखे दुःखे लाभालाभे हिताहिते । | 6.12.7aप्रियाप्रिये सुखं दुःखं लाभालाभौ हिताहिते । | 6.12.7aप्रियाप्रिये सुखं दुःखं लाभालाभौ हिताहिते। | |||
| 14 | #7bಧರ್ಮಕಾಮಾರ್ಥಕೃಚ್ಛ್ರೇಷು ಯೂಯಮರ್ಹಥ ವೇದಿತುಮ್ ॥ | 6.12.7bधर्मकामार्थकृच्छ्रेषु यूयमर्हथ वेदितुम् ॥ ७ ॥ | 6.12.7bधर्मकामार्थकृच्छ्रेषु यूयमर्हथ वेदितुम् ॥ ७ ॥ | 6.12.7bधर्मकामार्थकृच्छ्रेषु यूयमर्हथ वेदितुम् ॥ 6.12.7 ॥ | |||
| 15 | #8aಸರ್ವಕೃತ್ಯಾನಿ ಯುಷ್ಮಾಭಿಃ ಸಮಾರಬ್ಧಾನಿ ಸರ್ವದಾ । | 6.12.8aसर्वकृत्यानि युष्माभिः समारब्धानि सर्वदा । | 6.12.8aसर्वकृत्यानि युष्माभिः समारब्धनि सर्वदा । | 6.12.8aसर्वकृत्यानि युष्माभिः समारब्धानि सर्वदा। | |||
| 16 | #8bಮಂತ್ರಕರ್ಮನಿಯುಕ್ತಾನಿ ನ ಜಾತು ವಿಲಾನಿ ಮೇ ॥ | 6.12.8bमन्त्रकर्मनियुक्तानि न जातु विफलानि मे ॥ ८ ॥ | 6.12.8bमन्त्रकर्मनियुक्तानि न जातु विफलानि मे ॥ ८ ॥ | 6.12.8bमन्त्रकर्मनियुक्तानि न जातु विफलानि मे ॥ 6.12.8 ॥ | |||
| 17 | #9aಸಸೋಮಗ್ರಹನಕ್ಷತ್ರೈರ್ಮರುದ್ಭಿರಿವ ವಾಸವಃ । | 6.12.9aससोमग्रहनक्षत्रैर्मरुद्भिरिव वासवः । | 6.12.9aस सोमग्रहनक्षत्रैर्मरुद्भिरिव वासवः । | 6.12.9aस सोमग्रहनक्षत्रैर्मरुद्भिरिव वासवः। | |||
| 18 | #9bಭವದ್ಭಿರಹಮತ್ಯರ್ಥಂ ವೃತ್ತಃ ಶ್ರಿಯಮವಾಪ್ನುಯಾಮ್ ॥ | 6.12.9bभवद्भिरहमत्यर्थं वृतः श्रियमवाप्नुयाम् ॥ ९ ॥ | 6.12.9bभवद्भिरहमत्यर्थम् वृतः श्रियमवाप्नुयाम् ॥ ९ ॥ | 6.12.9bभवद्भिरहमत्यर्थं वृतः श्रियमवाप्नुयाम् ॥ 6.12.9 ॥ | |||
| 19 | #10aಅಹಂ ತು ಖಲು ಸರ್ವಾನ್ವಃ ಸಮರ್ಥಯಿತುಮುದ್ಯತಃ । | 6.12.10aअहं तु खलु सर्वान् वः समर्थयितुमुद्यतः । | 6.12.10aअहम् तु खलु सर्वान्वः समर्थयितुमुद्यतः । | 6.12.10aअहं तु खलु सर्वान् वः समर्थयितुमुद्यतः। | |||
| 20 | #10bಕುಂಭಕರ್ಣಸ್ಯ ತು ಸ್ವಪ್ನಾನ್ನೇಮಮರ್ಥಮಚೋದಯಮ್ ॥ | 6.12.10bकुम्भकर्णस्य तु स्वप्नान् नेममर्थमचोदयम् ॥ १० ॥ | 6.12.10bकुमभकर्णस्य तु स्वप्नान्नेममर्थमचोदयम् ॥ १० ॥ | 6.12.10bकुम्भकर्णस्य तु स्वप्नान्नेममर्थमचोदयम् ॥ 6.12.10 ॥ | |||
| 21 | #11aಅಯಂ ಹಿ ಸುಪ್ತಃ ಷಣ್ಮಾಸಾನ್ ಕುಂಭಕರ್ಣೋ ಮಹಾಬಲಃ । | 6.12.11aअयं हि सुप्तः षण्मासान् कुम्भकर्णो महाबलः । | 6.12.11aअयम् हि सुप्तः षण्मासान्कुम्भकर्णो महाबलः । | 6.12.11aअयं हि सुप्तः षण्मासान् कुम्भकर्णो महाबलः। | |||
| 22 | #11bಸರ್ವಶಸ್ತ್ರಭೃತಾಂ ಮುಖ್ಯಃ ಸ ಇದಾನೀಂ ಸಮುತ್ಥಿತಃ ॥ | 6.12.11bसर्वशस्त्रभृतां मुख्यः स इदानीं समुत्थितः ॥ ११ ॥ | 6.12.11bसर्वशस्त्रभृतां मुख्यः स इदानीम् समुत्थितः ॥ ११ ॥ | 6.12.11bसर्वशस्त्रभृतां मुख्यः स इदानीं समुत्थितः ॥ 6.12.11 ॥ | |||
| 23 | #12aಇಯಂ ಚ ದಂಡಕಾರಣ್ಯಾದ್ ರಾಮಸ್ಯ ಮಹಿಷೀ ಪ್ರಿಯಾ । | 6.12.12aइयं च दण्डकारण्याद् रामस्य महिषी प्रिया । | 6.12.12aइयं च दण्डकारण्याद्रामस्य महिषी प्रिया । | 6.12.12aइयं च दण्डकारण्याद्रामस्य महीषी प्रिया। | |||
| 24 | #12bರಕ್ಷೋಭಿಶ್ಚರಿತಾದ್ದೇಶಾದಾನೀತಾ ಜನಕಾತ್ಮಜಾ ॥ | 6.12.12bरक्षोभिश्चरितोद्देशादानीता जनकात्मजा ॥ १२ ॥ | 6.12.12bरक्षोभिश्चरितोद्देशादानीता जनकात्मजा ॥ १२ ॥ | 6.12.12bरक्षोभिश्चरिताद्देशादानीता जनकात्मजा ॥ 6.12.12 ॥ | |||
| 25 | #13aಸಾ ಮೇ ನ ಶಯ್ಯಾಮಾರೋಢುಮಿಚ್ಛತ್ಯಲಸಗಾಮಿನೀ । | 6.12.13aसा मे न शय्यामारोढुमिच्छत्यलसगामिनी । | 6.12.13aसा मे न शय्यामारोढुमिच्छत्यलसगामिनी । | 6.12.13aसा मे न शय्यामारोढुमिच्छत्यलसगामिनी। | |||
| 26 | #13bತ್ರಿಷು ಲೋಕೇಷು ಚಾನ್ಯಾ ಮೇ ನ ಸೀತಾಸದೃಶೀ ತಥಾ ॥ | 6.12.13bत्रिषु लोकेषु चान्या मे न सीतासदृशी तथा ॥ १३ ॥ | 6.12.13bत्रिषु लोकेषु चान्या मे न सीतासदृशी मता ॥ १३ ॥ | 6.12.13bत्रिषु लोकेषु चान्या मे न सीतासदृशी मता ॥ 6.12.13 ॥ | |||
| 27 | #14aತನುಮಧ್ಯಾ ಪೃಥುಶ್ರೋಣೀ ಶರದಿಂದುನಿಭಾನನಾ । | 6.12.14aतनुमध्या पृथुश्रोणी शरदिन्दुनिभानना । | 6.12.14aतनुमध्या पृथुश्रोणी शरदिन्दुनिभानना । | 6.12.14aतनुमध्या पृथुश्रोणी शारदेन्दुनिभानना। | |||
| 28 | #14bಹೇಮಬಿಂಬನಿಭಾ ಸೌಮ್ಯಾ ಮಾಯೇವ ಮಯನಿರ್ಮಿತಾ ॥ | 6.12.14bहेमबिम्बनिभा सौम्या मायेव मयनिर्मिता ॥ १४ ॥ | 6.12.14bहेमबिम्बनिभा सौम्यामायेव मयनिर्मिता ॥ १४ ॥ | 6.12.14bहेमबिम्बनिभा सौम्या मायेव मयनिर्मिता ॥ 6.12.14 ॥ | |||
| 29 | #15aಸುಲೋಹಿತತಲೌ ಶ್ಲಕ್ಷ್ಣೌ ಚರಣೌ ಸುಪ್ರತಿಷ್ಠಿತೌ । | 6.12.15aसुलोहिततलौ श्लक्ष्णौ चरणौ सुप्रतिष्ठितौ । | 6.12.15aसुलोहिततलौ श्लक्क्षणौ चरणौ सुप्रतिष्ठतौ । | 6.12.15aसुलोहिततलौ श्लक्ष्णौ चरणौ सुप्रतिष्ठितौ। | |||
| 30 | #15bದೃಷ್ಟ್ವಾ ತಾಮ್ರನಖೌ ತಸ್ಯಾ ದೀಪ್ಯತೇ ಮೇ ಶರೀರಜಃ ॥ | 6.12.15bदृष्ट्वा ताम्रनखौ तस्या दीप्यते मे शरीरजः ॥ १५ ॥ | 6.12.15bदृष्ट्वा ताम्रनखौ तस्या दीप्यते मे शरीरजः ॥ १५ ॥ | 6.12.15bदृष्ट्वा ताम्रनखौ तस्या दीप्यते मे शरीरजः ॥ 6.12.15 ॥ | |||
| 31 | #16aಹುತಾಗ್ನೇರರ್ಚಿಸಂಕಾಶಾಮೇನಾಂ ಸೌರೀಮಿವ ಪ್ರಭಾಮ್ । | 6.12.16aहुताग्नेरर्चिसङ्काशामेनां सौरीमिव प्रभाम् । | 6.12.16aहुताग्नेरर्चि संकाशामेनाम् सौरीमिव प्रभाम् । | 6.12.16हुताग्रेरर्चिसङ्काशामेनां सौरीमिव प्रभाम् ॥ 6.12.16 ॥ | |||
| 32 | 6.12.16b[दृष्ट्वां सीतां विशालाक्षीं कामस्य वशमेयिवान्] ॥ १६ ॥ | ||||||
| 33 | #16bಉನ್ನಸಂ ವಿಮಲಂ ವಲ್ಗು ವದನಂ ಚಾರುಲೋಚನಮ್ ॥ | 6.12.16bउन्नसं विमलं वल्गु वदनं चारुलोचनम् ॥ १६ ॥ | 6.12.17aउन्नसम् विमलम् वल्गु विपुलं चारु लोचनम् । | 6.12.17aउन्नसं वदनं वल्गु विपुलं चारुलोचनम्। | |||
| 34 | #17aಪಶ್ಯಂಸ್ತದವಶಸ್ತಸ್ಯಾಃ ಕಾಮಸ್ಯ ವಶಮೇಯಿವಾನ್ । | 6.12.17aपश्यंस्तदवशस्तस्याः कामस्य वशमेयिवान् । | 6.12.17bपश्यंस्तदावशस्तस्याः कामस्य वशमेयिवान् ॥ १७ ॥ | 6.12.17bपश्यंस्तदा वशस्तस्याः कामस्य वशमेयिवान् ॥ 6.12.17 ॥ | |||
| 35 | #17bಕ್ರೋಧಹರ್ಷ ಸಮಾನೇನ ದುರ್ವರ್ಣಕರಣೇನ ಚ ॥ | 6.12.17bक्रोधहर्षसमानेन दुर्वर्णकरणेन च ॥ १७ ॥ | 6.12.18aक्रोधहर्षसमानेन दुर्वर्णकरणेन च । | 6.12.18aक्रोधहर्षसमानेन दुर्वर्णकरणेन च। | |||
| 36 | #18aಶೋಕಸಂತಾಪನಿತ್ಯೇನ ಕಾಮೇನ ಕಲುಷೀಕೃತಃ । | 6.12.18aशोकसन्तापनित्येन कामेन कलुषीकृतः । | 6.12.18bशोकसंतापनित्येन कामेन कलुषीकृतः ॥ १८ ॥ | 6.12.18bशोकसन्तापनित्येन कामेन कलुषीकृतः ॥ 6.12.18 ॥ | |||
| 37 | #18bಸಾ ತು ಸಂವತ್ಸರಂ ಕಾಲಂ ಮಾಮಯಾಚತ ಭಾಮಿನೀ ॥ | 6.12.18bसा तु संवत्सरं कालं मामयाचत भामिनी ॥ १८ ॥ | 6.12.19aसा तु सम्वत्सरं कालं मामयाचत भामिनी । | 6.12.19aसा तु संवत्सरं कालं मामयाचत् भामिनी। | |||
| 38 | #19aಪ್ರತೀಕ್ಷಮಾಣಾ ಭರ್ತಾರಂ ರಾಮಮಾಯತಲೋಚನಾ । | 6.12.19aप्रतीक्षमाणा भर्तारं राममायतलोचना । | 6.12.19bप्रतीक्षमाणा भर्तारं राममायतलोचना ॥ १९ ॥ | 6.12.19bप्रतीक्षमाणा भर्तारं राममायतलोचना ॥ 6.12.19 ॥ | |||
| 39 | #19bತನ್ಮಯಾ ಚಾರು ನೇತ್ರಾಯಾಃ ಪ್ರತಿಜ್ಞಾತಂ ವಚಃ ಶುಭಮ್ ॥ | 6.12.19bतन्मया चारुनेत्रायाः प्रतिज्ञातं वचः शुभम् ॥ १९ ॥ | 6.12.20aतन्मया चारुनेत्रायाः प्रतिज्ञातं वचः शुभम् । | 6.12.20aतन्मया चारुनेत्रायाः प्रतिज्ञातं वचः शुभम्। | |||
| 40 | #20aಭ್ರಾಂತೋಽಹಂ ಸತತಂ ಕಾಮಾದ್ಯಾತೋ ಹಯ ಇವಾಧ್ವನಿ । | 6.12.20aश्रान्तोऽहं सततं कामाद् यातो हय इवाध्वनि । | 6.12.20bश्रान्तोऽहं सततं कामाद्यातो हय इवाध्वनि ॥ २० ॥ | 6.12.20bश्रान्तोऽहं सततं कामाद्यातो हय इवाध्वनि ॥ 6.12.20 ॥ | |||
| 41 | #20bಕಥಂ ಸಾಗರಮಕ್ಷೋಭ್ಯಂ ತರಿಷ್ಯಂತಿ ವನೌಕಸಃ ॥ | 6.12.20bकथं सागरमक्षोभ्यं तरिष्यन्ति वनौकसः ॥ २० ॥ | 6.12.21aकथं सागरमक्षोभ्यमुत्तरिष्यन्ति वनौकसः । | 6.12.21aकथं सागरमक्षोभ्यमुत्तरन्ति वनौकसः। | |||
| 42 | #21aಬಹುಸತ್ತ್ವಝುಷಾಕೀರ್ಣಂ ತೌ ವಾ ದಶರಥಾತ್ಮಜೌ । | 6.12.21aबहुसत्त्वझषाकीर्णं तौ वा दशरथात्मजौ । | 6.12.21bबहुसत्त्वझषाकीर्णम् तौ वा दशरथात्मजौ ॥ २१ ॥ | 6.12.21bबहुसत्त्वझषाकीर्णं तौ वा दशरथात्मजौ ॥ 6.12.21 ॥ | |||
| 43 | #21bಅಥವಾ ಕಪಿನೈಕೇನ ಕೃತಂ ನಃ ಕದನಂ ಮಹತ್ ॥ | 6.12.21bअथवा कपिनैकेन कृतं नः कदनं महत् ॥ २१ ॥ | 6.12.22aअथवा कपिनैकेन कृतं नः कदनं महत् । | 6.12.22aअथवा कपिनैकेन कृतं नः कदनं महत्। | |||
| 44 | #22aದುರ್ಜ್ಞೇಯಾಃ ಕಾರ್ಯಗತಯೋ ಬ್ರೂತ ಯಸ್ಯ ಯಥಾಮತಿ । | 6.12.22aदुर्ज्ञेयाः कार्यगतयो ब्रूत यस्य यथामति । | 6.12.22bदुर्ज्ञेयाः कार्यगतयो ब्रूत यस्य यथामतिः ॥ २२ ॥ | 6.12.22bदुर्ज्ञेयाः कार्यगतयो ब्रूत यस्य यथा मतिः ॥ 6.12.22 ॥ | |||
| 45 | #22bಮಾನುಷಾನ್ನೋ ಭಯಂ ನಾಸ್ತಿ ತಥಾಪಿ ತು ವಿಮೃಶ್ಯತಾಮ್ ॥ | 6.12.22bमानुषान्नो भयं नास्ति तथापि तु विमृश्यताम् ॥ २२ ॥ | 6.12.23aमानुषान्मे भयं नास्ति तथापि तु विमृश्यताम् । | ||||
| 46 | #23aತದಾ ದೇವಾಸುರೇ ಯುದ್ಧೇ ಯುಷ್ಮಾಭಿಃ ಸಹಿತೋಽಜಯಮ್ । | 6.12.23aतदा देवासुरे युद्धे युष्माभिः सहितोऽजयम् । | 6.12.23bतदा देवासुरे युद्दे युष्माभिः सहितोऽजयम् । | 6.12.23aतदा देवासुरे युद्धे युष्माभिः सहितोऽजयम्। | |||
| 47 | #23bತೇ ಮೇ ಭವಂತಶ್ಚ ತಥಾ ಸುಗ್ರೀವಪ್ರಮುಖಾನ್ಹರೀನ್ ॥ | 6.12.23bते मे भवन्तश्च तथा सुग्रीवप्रमुखान् हरीन् ॥ २३ ॥ | 6.12.23cते मे भवन्तश्च तथा सुग्रीवप्रमुखान्हरीन् ॥ २३ ॥ | 6.12.23bते मे भवन्तश्च तथा सुग्रीवप्रमुखान् हरीन् ॥ 6.12.23 ॥ | |||
| 48 | #24aಪರೇ ಪಾರೇ ಸಮುದ್ರಸ್ಯ ಪುರಸ್ಕೃತ್ಯ ನೃಪಾತ್ಮಜೌ । | 6.12.24aपरे पारे समुद्रस्य पुरस्कृत्य नृपात्मजौ । | 6.12.24aपरे पारे समुद्रस्य पुरस्कृत्य नृपात्मजौ । | 6.12.24aपरे पारे समुद्रस्य पुरस्कृत्य नृपात्मजौ। | |||
| 49 | #24bಸೀತಾಯಾಃ ಪದವೀಂ ಪ್ರಾಪ್ಯ ಸಂಪ್ರಾಪ್ತೌ ವರುಣಾಲಯಮ್ ॥ | 6.12.24bसीतायाः पदवीं प्राप्य सम्प्राप्तौ वरुणालयम् ॥ २४ ॥ | 6.12.24bसीतायाः पदवीं प्राप्तौ सम्प्राप्तौ वरुणालयम् ॥ २४ ॥ | 6.12.24bसीतायाः पदवीं प्राप्तौ सम्प्राप्तौ वरुणालयम् ॥ 6.12.24 ॥ | |||
| 50 | #25aಅದೇಯಾ ಚ ಯಥಾ ಸೀತಾ ವಧ್ಯೌ ದಶರಥಾತ್ಮಜೌ । | 6.12.25aअदेया च यथा सीता वध्यौ दशरथात्मजौ । | 6.12.25aअदेया च यथा सीता वध्यौ दशरथात्मजौ । | 6.12.25aअदेया च यथा सीता वध्यौ दशरथात्मजौ। | |||
| 51 | #25bಭವದ್ಭ್ರಿರ್ಮಂತ್ರ್ಯತಾಂ ಮಂತ್ರಃ ಸುನೀತಂಚಾಭಿಧೀಯತಾಮ್ ॥ | 6.12.25bभवद्भिर्मन्त्र्यतां मन्त्रः सुनीतं चाभिधीयताम् ॥ २५ ॥ | 6.12.25bभवद्भिर्मन्त्र्यतां मन्त्रः सुनीतं चाभिधीयताम् ॥ २५ ॥ | 6.12.25bभवद्भिर्मन्त्र्यतां मन्त्रः सुनीतं चाभिधीयताम् ॥ 6.12.25 ॥ | |||
| 52 | #26aನಹಿ ಶಕ್ತಿಂ ಪ್ರಪಶ್ಯಾಮಿ ಜಗತ್ಯನ್ಯಸ್ಯ ಕಸ್ಯಚಿತ್ । | 6.12.26aनहि शक्तिं प्रपश्यामि जगत्यन्यस्य कस्यचित् । | 6.12.26aन हि शक्तिं प्रपश्यामि जगत्यन्यस्य कस्यचित् । | 6.12.26aन हि शक्तिं प्रपश्यामि जगत्यन्यस्य कस्यचित्। | |||
| 53 | #26bಸಾಗರಂ ವಾರರೈಸ್ತೀರ್ತ್ವಾ ನಿಶ್ಚಯೇನ ಜಯೋ ಮಮ ॥ | 6.12.26bसागरं वानरैस्तीर्त्वा निश्चयेन जयो मम ॥ २६ ॥ | 6.12.26bसागरं वानरैस्तीर्त्वा विश्चयेन जयो मम ॥ २६ ॥ | 6.12.26bसागरं वानरैस्तीर्त्वा निश्चयेन जयो मम ॥ 6.12.26 ॥ | |||
| 54 | #27aತಸ್ಯ ಕಾಮಪರೀತಸ್ಯ ನಿಶಮ್ಯ ಪರಿದೇವಿತಮ್ । | 6.12.27aतस्य कामपरीतस्य निशम्य परिदेवितम् । | 6.12.27aतस्य कामपरीतस्य निशम्य परिदेवितम् । | 6.12.27aतस्य कामपरीतस्य निशम्य परिदेवितम्। | |||
| 55 | #27bಕುಂಭಕರ್ಣಃ ಪ್ರಚುಕ್ರೋಧ ವಚನಂ ಚೇದಮಬ್ರವೀತ್ ॥ | 6.12.27bकुम्भकर्णः प्रचुक्रोध वचनं चेदमब्रवीत् ॥ २७ ॥ | 6.12.27bकुम्भकर्णः प्रचुक्रोध वचनं चेदमब्रवीत् ॥ २७ ॥ | 6.12.27bकुम्भकर्णः प्रचुक्रोध वचनं चेदमब्रवीत् ॥ 6.12.27 ॥ | |||
| 56 | 6.12.28a[संप्रधार्यैव तत्कार्यं करणीयं त्वया विभो । | ||||||
| 57 | 6.12.28bसंप्रधार्य सहामात्यैः पूर्वमेव यथातथम्] ॥ २८ ॥ | ||||||
| 58 | #28aಯದಾ ತು ರಾಮಸ್ಯ ಸಲಕ್ಷ್ಮಣಸ್ಯ ಪ್ರಸಹ್ಯ ಸೀತಾ ಖಲು ಸಾ ಇಹಾಹೃತಾ । | 6.12.28aयदा तु रामस्य सलक्ष्मणस्य प्रसह्य सीता खलु सा इहाहृता । | 6.12.29aयदा तु रामस्य सलक्ष्मणस्य प्रसह्य सीता खलु पा इहाऽहृता । | 6.12.28aयदा तु रामस्य सलक्ष्मणस्य प्रसह्य सीता खलु सा इहाहृता। | |||
| 59 | #28bಸಕೃತ್ಸಮೀಕ್ಷೈವ ಸುನಿಶ್ಚಿತಂ ತದಾ ಭಜೇತ ಚಿತ್ತಂ ಯಮುನೇವ ಯಾಮುನಮ್ ॥ | 6.12.28bसकृत् समीक्ष्यैव सुनिश्चितं तदा भजेत चित्तं यमुनेव यामुनम् ॥ २८ ॥ | 6.12.29bसकृत्समीक्षैव सुनिश्चितं तदा भजेत चित्तम् यमुनेव यामुनम् ॥ २९ ॥ | 6.12.28bसकृत् समीक्ष्यैव सुनिश्चितं तदा भजेत चित्तं यमुनेव यामुनम् ॥ 6.12.28 ॥ | |||
| 60 | #29aಸರ್ವಮೇತನ್ಮಹಾರಾಜ ಕೃತಮಪ್ರತಿಮಂ ತವ । | 6.12.29aसर्वमेतन्महाराज कृतमप्रतिमं तव । | 6.12.30aसर्वमेतन्महाराज कृतमप्रतिमं तव । | 6.12.29aसर्वमेतन्महाराज कृतमप्रतिमं तव। | |||
| 61 | #29bವಿಧೀಯೇತ ಸಹಾಸ್ಮಾಭಿರಾದಾವೇವಾಸ್ಯ ಕರ್ಮಣಃ ॥ | 6.12.29bविधीयेत सहास्माभिरादावेवास्य कर्मणः ॥ २९ ॥ | 6.12.30bविधीयेत सहास्माभिरादावेवास्य कर्मणः ॥ ३० ॥ | 6.12.29bविधीयेत सहास्माभिरादावेवास्य कर्मणः ॥ 6.12.29 ॥ | |||
| 62 | #30aನ್ಯಾಯೇನ ರಾಜಕಾರ್ಯಾಣಿಯಃ ಕರೋತಿ ದಶಾನನ । | 6.12.30aन्यायेन राजकार्याणि यः करोति दशानन । | 6.12.30aन्यायेन राजकार्याणि यः करोति दशानन। | ||||
| 63 | #30bನ ಸ ಸಂತಪ್ಯತೇ ಪಶ್ಚಾನ್ನಿಶ್ಚಿತಾರ್ಥಮತಿರ್ನೃಪಃ ॥ | 6.12.30bन स सन्तप्यते पश्चान्निश्चितार्थमतिर्नृपः ॥ ३० ॥ | 6.12.30bन स सन्तप्यते पश्चान्निश्चितार्थमतिर्नृपः ॥ 6.12.30 ॥ | ||||
| 64 | #31aಅನುಪಾಯೇನ ಕರ್ಮಾಣಿ ವಿಪರೀತಾನಿ ಯಾನಿ ಚ । | 6.12.31aअनुपायेन कर्माणि विपरीतानि यानि च । | 6.12.31aअनुपायेन कर्माणि विपरीतानि यानि च। | ||||
| 65 | #31bಕ್ರಿಯಮಾಣಾನಿ ದುಷ್ಯಂತಿ ಹವೀಂಷ್ಯ ಪ್ರಯತೇಷ್ವಿವ ॥ | 6.12.31bक्रियमाणानि दुष्यन्ति हवींष्यप्रयतेष्विव ॥ ३१ ॥ | 6.12.31bक्रियमाणानि दुष्यन्ति हवींष्यप्रयतेष्विव ॥ 6.12.31 ॥ | ||||
| 66 | #32aಯಃ ಪಶ್ಚಾತ್ಪೂರ್ವ ಕಾರ್ಯಾಣಿ ಕರ್ಮಾಣ್ಯಭಿಚಿಕೀರ್ಷತಿ । | 6.12.32aयः पश्चात् पूर्वकार्याणि कर्माण्यभिचिकीर्षति । | 6.12.32aयः पश्चात् पूर्वकार्याणि कर्माण्यभिचिकीर्षति। | ||||
| 67 | #32bಪೂರ್ವಂ ಚಾಪರಕಾರ್ಯಾಣಿ ಸ ನ ವೇದ ನಯಾನಯೌ ॥ | 6.12.32bपूर्वं चापरकार्याणि स न वेद नयानयौ ॥ ३२ ॥ | 6.12.32bपूर्वं चापरकार्याणि न स वेद नयानयौ ॥ 6.12.32 ॥ | ||||
| 68 | #33aಚಪಲಸ್ಯ ತು ಕೃತ್ಯೇಷು ಪ್ರಸಮೀಕ್ಷ್ಯಾಧಿಕಂ ಬಲಮ್ । | 6.12.33aचपलस्य तु कृत्येषु प्रसमीक्ष्याधिकं बलम् । | 6.12.33aचपलस्य तु कृत्येषु प्रसमीक्ष्याधिकं बलम्। | ||||
| 69 | #33bಛಿದ್ರ್ರಮನ್ಯೇ ಪ್ರಪದ್ಯಂತೇ ಕ್ರೌಂಚಸ್ಯ ಖಮಿವ ದ್ವಿಜಾಃ ॥ | 6.12.33bछिद्रमन्ये प्रपद्यन्ते क्रौञ्चस्य खमिव द्विजाः ॥ ३३ ॥ | 6.12.33bक्षिप्रमन्ये प्रपद्यन्ते क्रौञ्चस्य खमिव द्विजाः ॥ 6.12.33 ॥ | ||||
| 70 | #34aತ್ವಯೇದಂ ಮಹದಾರಬ್ಧಂ ಕಾರ್ಯಮಪ್ರತಿಚಿಂತಿತಮ್ । | 6.12.34aत्वयेदं महदारब्धं कार्यमप्रतिचिन्तितम् । | 6.12.34aत्वयेदं महदारब्धं कार्यमप्रतिचिन्तितम्। | ||||
| 71 | #34bದಿಷ್ಟ್ಯಾ ತ್ವಾಂ ನಾವಧೀದ್ ರಾಮೋ ವಿಷಮಿಶ್ರಮಿವಾಮಿಷಮ್ ॥ | 6.12.34bदिष्ट्या त्वां नावधीद् रामो विषमिश्रमिवामिषम् ॥ ३४ ॥ | 6.12.34bदिष्ट्या त्वां नावधीद्रामो विषमिश्रमिवामिषम् ॥ 6.12.34 ॥ | ||||
| 72 | #35aತಸ್ಮತ್ತ್ವಯಾ ಸಮಾರಬ್ಧಂ ಕರ್ಮ ಹ್ಯಪ್ರತಿಮಂ ಪರೈಃ । | 6.12.35aतस्मात् त्वया समारब्धं कर्म ह्यप्रतिमं परैः । | 6.12.35aतस्मात्त्वया समारब्धं कर्म ह्यप्रतिमं परैः। | ||||
| 73 | #35bಅಹಂ ಸಮೀಕರಿಷ್ಯಾಮಿ ಹತ್ವಾ ಶತ್ರೂಂಸ್ತವಾನಘ ॥ | 6.12.35bअहं समीकरिष्यामि हत्वा शत्रूंस्तवानघ ॥ ३५ ॥ | 6.12.35bअहं समीकरिष्यामि हत्वा शत्रूंस्तवानघ ॥ 6.12.35 ॥ | ||||
| 74 | #36aಅಹಮುತ್ಸಾದಯಿಷ್ಯಾಮಿ ಶತ್ರೂಂಸ್ತವ ನಿಶಾಚರ । | 6.12.36aअहमुत्सादयिष्यामि शत्रूंस्तव निशाचर । | |||||
| 75 | #36bಯದಿ ಶಕ್ರವಿವಸ್ವಂತೌ ಯದಿ ಪಾವಕಮಾರುತೌ । | 6.12.36bयदि शक्रविवस्वन्तौ यदि पावकमारुतौ । | 6.12.36aयदि शक्रविवस्वन्तौ यदि पावकमारुतौ। | ||||
| 76 | #36cತಾವಹಂ ಯೋಧಯಿಷ್ಯಾಮಿ ಕುಬೇರ ವರುಣಾವಪಿ ॥ | 6.12.36cतावहं योधयिष्यामि कुबेरवरुणावपि ॥ ३६ ॥ | 6.12.36bतावहं योधयिष्यामि कुबेरवरुणावपि ॥ 6.12.36 ॥ | ||||
| 77 | #37aಗಿರಿಮಾತ್ರಶರೀರಸ್ಯ ಮಹಾಪರಿಘಯೋಧಿನಃ । | 6.12.37aगिरिमात्रशरीरस्य महापरिघयोधिनः । | 6.12.37aगिरिमात्रशरीरस्य महापरिघयोधिनः। | ||||
| 78 | #37bನರ್ದತಸ್ತೀಕ್ಷ್ಣದಂಷ್ಟ್ರಸ್ಯ ಬಿಭೀಯಾದ್ವೈ ಪುರಂದರಃ ॥ | 6.12.37bनर्दतस्तीक्ष्णदंष्ट्रस्य बिभीयाद् वै पुरन्दरः ॥ ३७ ॥ | 6.12.37bनर्दतस्तीक्ष्णदंष्ट्रस्य बिभियाद्वै पुरन्दरः ॥ 6.12.37 ॥ | ||||
| 79 | #38aಪುನರ್ಮಾಂ ಸ ದ್ವಿತೀಯೇನ ಶರೇಣ ನಿಹನಿಷ್ಯತಿ । | 6.12.38aपुनर्मां स द्वितीयेन शरेण निहनिष्यति । | 6.12.38aपुनर्मां स द्वितीयेन शरेण निहनिष्यति। | ||||
| 80 | #38bತತೋಽಹಂ ತಸ್ಯ ಪಾಸ್ಯಾಮಿ ರುಧಿರಂಕಾಮಮಾಶ್ವಸ ॥ | 6.12.38bततोऽहं तस्य पास्यामि रुधिरं काममाश्वस ॥ ३८ ॥ | 6.12.38bततोऽहं तस्य पास्यामि रुधिरं काममाश्वस ॥ 6.12.38 ॥ | ||||
| 81 | #39aವಧೇನ ವೈ ದಾಶರಥೇಃ ಸುಖಾವಹಂ ಜಯಂ ತವಾಹರ್ತುಮಹಂ ಯತಿಷ್ಯೇ । | 6.12.39aवधेन वै दाशरथेः सुखावहं जयं तवाहर्तुमहं यतिष्ये । | 6.12.39aवधेन वै दाशरथेः सुखावहं जयं तवाहर्तुमहं यतिष्ये। | ||||
| 82 | #39bಹತ್ವಾ ಚ ರಾಮಂ ಸಹ ಲಕ್ಷ್ಮಣೇನ ಖಾದಾಮಿ ಸರ್ವಾನ್ ಹರಿಯೂಥಮುಖ್ಯಾನ್ ॥ | 6.12.39bहत्वा च रामं सह लक्ष्मणेन खादामि सर्वान् हरियूथमुख्यान् ॥ ३९ ॥ | 6.12.39bहत्वा च रामं सह लक्ष्मणेन खादामि सर्वान् हरियूथमुख्यान् ॥ 6.12.39 ॥ | ||||
| 83 | #40aರಮಸ್ವ ಕಾಮಂ ಪಿಬ ಚಾಗ್ರ್ಯವಾರುಣೀಂ ಕುರುಷ್ವ ಕಾರ್ಯಾಣಿ ಹಿತಾನಿ ವಿಜ್ವರಃ । | 6.12.40aरमस्व कामं पिब चाग्र्यवारुणीं कुरुष्व कार्याणि हितानि विज्वरः । | 6.12.40aरमस्व कामं पिब चाग्र्यवारुणीं कुरुष्व कार्याणि हितानि विज्वरः। | ||||
| 84 | #40bಮಯಾ ತು ರಾಮೇ ಗಮಿತೇ ಯಮಕ್ಷಯಂ ಚಿರಾಯ ಸೀತಾ ವಶಗಾ ಭವಿಷ್ಯತಿ ॥ | 6.12.40bमया तु रामे गमिते यमक्षयं चिराय सीता वशगा भविष्यति ॥ ४० ॥ | 6.12.40bमया तु रामे गमिते यमक्षयं चिराय सीता वशगा भविष्यति ॥ 6.12.40 ॥ |