Ramayana Half-Verse Concordance 6.11

रावणस्य आस्थानप्रवेशः. Built from structured/verses.jsonl. Rows are monotone-aligned half-verse/pāda-like units split at । and ॥, so verse-number boundary differences can appear as inserted or shifted line rows.

72 aligned line rows across 7 source streams.

Columns:
gor-kn 65 lines gor-hi 65 lines gr 68 lines dr-mula 63 lines
#gor-kngor-hicritgrdr-mulagr-iitkiitk
1#1aಸ ಬಭೂವ ಕೃಶೋ ರಾಜಾ ಮೈಥಿಲೀ ಕಾಮಮೋಹಿತಃ ।6.11.1aस बभूव कृशो राजा मैथिलीकाममोहितः ।6.11.1aस बभुव कृशो राजा मैथिलीकाममोहितः ।6.11.1aस बभूव कृशो राजा मैथिलीकाममोहितः।
2#1bಅಸನ್ಮಾನಾಚ್ಚ ಸುಹೃದಾಂ ಪಾಪಃ ಪಾಪೇನ ಕರ್ಮಣಾ ॥6.11.1bअसन्मानाच्च सुहृदां पापः पापेन कर्मणा ॥ १ ॥6.11.1bअसंमानाच्च सुहृदां पापः पापेन कर्मणाः ॥ १ ॥6.11.1bअसम्मानाच्च सुहृदां पापः पापेन कर्मणा ॥ 6.11.1 ॥
3#2aಅತೀವ ಕಾಮಸಂಪನ್ನೋ ವೈದೇಹೀಮನುಚಿಂತಯನ್ ।6.11.2aअतीव कामसम्पन्नो वैदेहीमनुचिन्तयन् ।6.11.2a[अतीव कामसंपन्नो वैदेहीमनुचिन्तयन् ।
4#2bಅತೀವಸಮಯೇ ಕಾಲೇ ತಸ್ಮಿನ್ ವೈ ಯುಧಿ ರಾವಣಃ ।6.11.2bअतीतसमये काले तस्मिन् वै युधि रावणः ।6.11.2b]
अतीतसमये काले तस्मिन्वै युधि रावणः ।
6.11.2aअतीतसमये काले तस्मिन् वै युधि रावणः।
5#2cಅಮಾತ್ಯೈಶ್ಚ ಸುಹೃದ್ಭಿಶ್ಚ ಪ್ರಾಪ್ತಕಾಲಮಮನ್ಯತ ॥6.11.2cअमात्यैश्च सुहृद्भिश्च प्राप्तकालममन्यत ॥ २ ॥6.11.2cअमात्यैश्च सुहृद्भिश्च प्राप्तकालममन्यत ॥ २ ॥6.11.2bअमात्यैश्च सुहृद्धिश्च मन्त्रकालममन्यत ॥ 6.11.2 ॥
6#3aಸ ಹೇಮಜಾಲವಿತತಂ ಮಣಿವಿದ್ರುಮಭೂಷಿತಮ್ ।6.11.3aस हेमजालविततं मणिविद्रुमभूषितम् ।6.11.3aस हेमजालविततं मणिविद्रुमभूषितम् ।6.11.3aस हेमजालविततं मणिविद्रुमभूषितम्।
7#3bಉಪಗಮ್ಯ ವಿನೀತಾಶ್ವಮಾರುರೋಹ ಮಹಾರಥಮ್ ॥6.11.3bउपगम्य विनीताश्वमारुरोह महारथम् ॥ ३ ॥6.11.3bउपगम्य विनीताश्वमारुरोह महारथम् ॥ ३ ॥6.11.3bउपगम्य विनीताश्वमारुरोह महारथम् ॥ 6.11.3 ॥
8#4aತಮಾಸ್ಥಾಯ ರಥಶ್ರೇಷ್ಠಂ ಮಹಾಮೇಘಸಮಸ್ವನಮ್ ।6.11.4aतमास्थाय रथश्रेष्ठं महामेघसमस्वनम् ।6.11.4aतमास्थाय रथश्रेष्ठो महामेघसमस्वनम् ।6.11.4aतमास्थाय रथश्रेष्ठं महामेघसमस्वनम्।
9#4bಪ್ರಯಯೌ ರಾಕ್ಷಸಾಂ ಶ್ರೇಷ್ಠೋ ದಶಗ್ರೀವಃ ಸಭಾಂ ಪ್ರತಿ ॥6.11.4bप्रययौ रक्षसां श्रेष्ठो दशग्रीवः सभां प्रति ॥ ४ ॥6.11.4bप्रययौ रक्षसाम् श्रेष्ठो दशग्रीवः सभां प्रति ॥ ४ ॥6.11.4bप्रययौ राक्षसश्रेष्ठो दशग्रीवः सभां प्रति ॥ 6.11.4 ॥
10#5aಅಸಿಚರ್ಮಧರಾ ಯೋಧಾಃ ಸರ್ವಾಯುಧಧರಾಸ್ತಥಾ ।6.11.5aअसिचर्मधरा योधाः सर्वायुधधरास्ततः ।6.11.5aअसिचर्मधरा योधाः सर्वायुधधरास्तथा ।6.11.5aअसिचर्मधरा योधाः सर्वायुधधरास्तथा।
11#5bರಾಕ್ಷಸಾ ರಾಕ್ಷಸೇಂದ್ರಸ್ಯ ಪುರಸ್ತಾತ್ ಸಂಪ್ರತಸ್ಥಿರೇ ॥6.11.5bराक्षसा राक्षसेन्द्रस्य पुरस्तात् सम्प्रतस्थिरे ॥ ५ ॥6.11.5bराक्षसा राक्षसेन्द्रस्य पुरतः सम्प्रतस्थिरे ॥ ५ ॥6.11.5bराक्षसा राक्षसेन्द्रस्य पुरतः सम्प्रतस्थिरे ॥ 6.11.5 ॥
12#6aನಾನಾವಿಕೃತವೇಷಾಶ್ಚ ನಾನಾ ಭೂಷಣಭೂಷಿತಾಃ ।6.11.6aनानाविकृतवेषाश्च नानाभूषणभूषिताः ।6.11.6aनानाविकृतवेषाश्च नानाभूषणभूषिताः ।6.11.6aनानाविकृतवेषाश्च नानाभूषणभूषिताः।
13#6bಪಾರ್ಶ್ವತಃ ಪೃಷ್ಠತಶ್ಚೈನಂ ಪರಿವಾರ್ಯ ಯಯುಸ್ತದಾ ॥6.11.6bपार्श्वतः पृष्ठतश्चैनं परिवार्य ययुस्तदा ॥ ६ ॥6.11.6bपार्श्वतः पृष्ठतश्चैनं परिवार्य ययुस्ततः ॥ ६ ॥6.11.6bपार्श्वतः पृष्ठतश्चैनं परिवार्य ययुस्ततः ॥ 6.11.6 ॥
14#7aರಥೈಶ್ಚಾತಿರಥಾಃ ಶೀಘ್ರಂ ಮತ್ತೈಶ್ಚ ವರವಾರಣೈಃ ।6.11.7aरथैश्चातिरथाः शीघ्रं मत्तैश्च वरवारणैः ।6.11.7aरथैश्चातिरथा शीघ्रं मतैश्च वरवारणैः ।6.11.7aरथैश्चातिरथाः शीघ्रं मत्तैश्च वरवारणैः।
15#7bಅನೂತ್ಪೇತುರ್ದಶಗ್ರೀವಮಾಕ್ರೀಡದ್ಭಿಶ್ಚ ವಾಜಿಭಿಃ ॥6.11.7bअनूत्पेतुर्दशग्रीवमाक्रीडद्भिश्च वाजिभिः ॥ ७ ॥6.11.7bअनूत्पेतुर्दशग्रीवमाक्रीडद्भिश्च वाजिभिः ॥ ७ ॥6.11.7bअनूत्पेतुर्दशग्रीवमाक्रीडद्भिश्च वाजिभिः ॥ 6.11.7 ॥
16#8aಗದಾಪರಿಘಹಸ್ತಾಶ್ಚ ಶಕ್ತಿತೋಮರ ಪಾಣಯಃ ।6.11.8aगदापरिघहस्ताश्च शक्तितोमरपाणयः ।6.11.8aगदापरिघहस्ताश्च शक्तितोमरपाणयः ।6.11.8aगदापरिघहस्ताश्च शक्तितोमरपाणयः।
17#8bಪರಶ್ವಧಧರಾಶ್ಚಾನ್ಯೇ ತಥಾನ್ಯೇ ಶೂಲಪಾಣಯಃ ।6.11.8bपरश्वधधराश्चान्ये तथान्ये शूलपाणयः ।6.11.8bपरश्वधधराश्चान्ये तथान्ये शूलपाणयः ॥ ८ ॥6.11.8bपरश्वधधराश्चान्ये तथाऽन्ये शूलपाणयः ॥ 6.11.8 ॥
18#8cತತಸ್ತೂರ್ಯಸಹಸ್ರಾಣಾಂ ಸಂಜಜ್ಞೇ ನಿಃಸ್ವನೋ ಮಹಾನ್ ॥6.11.8cततस्तूर्यसहस्राणं सञ्जज्ञे निःस्वनो महान् ॥ ८ ॥6.11.9aततस्तूर्यसहस्राणां संजज्ञे निःस्वनो महान् ।6.11.9aततस्तूर्यसहस्राणां सञ्जज्ञे निस्वनो महान्।
19#9aತುಮುಲಃ ಶಂಖ ಶಬ್ದಶ್ಚ ಸಭಾಂ ಗಚ್ಛತಿ ರಾವಣೇ ।6.11.9aतुमुलः शङ्खशब्दश्च सभां गच्छति रावणे ।6.11.9bतुमुलः शङ्खशब्दश्च सभाम् गच्चति रवणे ॥ ९ ॥6.11.9bतुमुलः शङ्खशब्दश्च सभां गच्छति रावणे ॥ 6.11.9 ॥
20#9bಸ ನೇಮಿಘೋಷೇಣ ಮಹಾನ್ ಸಹಸಾಭಿನಿನಾದಯಮ್ ॥6.11.9bस नेमिघोषेण महान् सहसाभिनिनादयन् ॥ ९ ॥6.11.10aस नेमिघोषेण महान्सहसाभिनिनादयन् ।6.11.10aस नेमिघोषेण महान् सहसाऽभिविनादयन्।
21#10aರಾಜಮಾರ್ಗಂ ಶ್ರಿಯಾ ಜುಷ್ಟಂ ಪ್ರತಿಪೇದೇ ಮಹಾರಥಃ ।6.11.10aराजमार्गं श्रिया जुष्टं प्रतिपेदे महारथः ।6.11.10bराजमार्गम् श्रिया जुष्टम् प्रतिपेदे महारथः ॥ १० ॥6.11.10bराजमार्गं श्रिया जुष्टं प्रतिपेदे महारथः ॥ 6.11.10 ॥
22#10bವಿಮಲಂ ಚಾತಪತ್ರಂ ಚ ಪ್ರಗೃಹೀತಾಮಶೋಭತ ।6.11.10bविमलं चातपत्रं च प्रगृहीतमशोभत ॥ १० ॥6.11.11aविमलं चातपत्राणं पगृहीतमशोभत ।6.11.11aविमलं चातपत्राणं प्रगृहीतमशोभत।
23#10cಪಾಂಡುರಂ ರಾಕ್ಷಸೇಂದ್ರಸ್ಯ ಪೂರ್ಣಸ್ತಾರಾಧಿಪೋ ಯಥಾ ।
24#10dಹೇಮಮಂಜರಿ ಗರ್ಭೇ ಚ ಶುದ್ಧಸ್ಫಟಿಕವಿಗ್ರಹೇ ॥
25#11aಚಾಮರವ್ಯಜನೇ ತಸ್ಯ ರೇಜತುಃ ಸವ್ಯದಕ್ಷಿಣೇ ।6.11.11aपाण्डुरं राक्षसेन्द्रस्य पूर्णस्ताराधिपो यथा ।6.11.11bपाण्डरं राक्षसेन्द्रस्य पूर्णस्तारधिपो यथा ॥ ११ ॥6.11.11bपाण्डरं राक्षसेन्द्रस्य पूर्णस्ताराधिपो यथा ॥ 6.11.11 ॥
26#11bತೇ ಕೃತಾಂಜಲಯಃ ಸರ್ವೇ ರಥಸ್ಥಂ ಪೃಥಿವೀಸ್ಥಿತಾಃ ॥6.11.11bहेममञ्जरिगर्भे च शुद्धस्फटिकविग्रहे ॥ ११ ॥6.11.12aहेममञ्जरिगर्भे च शुद्धस्फटिकविग्रहे ।6.11.12aहेममञ्जरिगर्भे च शुद्धस्फटिकविग्रहे।
27#12aರಾಕ್ಷಸಾ ರಾಕ್ಷಸಶ್ರೇಷ್ಠಂ ಶಿರೋಭಿಸ್ತಂ ವವಂದಿರೇ ।6.11.12aचामरव्यजने तस्य रेजतुः सव्यदक्षिणे ।6.11.12bचामरव्यजने तस्य रेजतुः सव्यदक्षिणे ॥ १२ ॥6.11.12bचामरव्यजने चास्य रेजतुः सव्यदक्षिणे ॥ 6.11.12 ॥
28#12bರಾಕ್ಷಸೈ ಸ್ತೂಯಮಾನಃ ಸಂಜಯಾಶೀರ್ಭಿರರಿಂದಮಃ ॥6.11.12bते कृताञ्जलयः सर्वे रथस्थं पृथिवीस्थिताः ॥ १२ ॥6.11.13aते कृताञ्जलयः सर्वे रथस्थम् पृथिवीस्थिताः ।6.11.13aते कृताञ्जलयः सर्वे रथस्थं पृथिवीस्थिताः।
29#13aಆಸಸಾದ ಮಹಾತೇಜಾಃ ಸಭಾಂ ವಿರಚಿತಾಂ ತದಾ ।6.11.13aराक्षसा राक्षसश्रेष्ठं शिरोभिस्तं ववन्दिरे ।6.11.13bराक्ष्सा राक्षसश्रेष्ठम् शिरोभिस्तम् ववन्दिरे ॥ १३ ॥6.11.13bराक्षसा राक्षसश्रेष्ठं शिरोभिस्तं ववन्दिरे ॥ 6.11.13 ॥
30#13bಸುವರ್ಣರಜತಾಸ್ತೀರ್ಣಾಂ ವಿಶುದ್ಧ ಸ್ಫಟಿಕಾಂತರಾಮ್ ॥6.11.13bराक्षसैः स्तूयमानः सञ्जयाशीर्भिररिन्दमः ॥ १३ ॥6.11.14aराक्षसैः स्तूयमानः सञ्जयाशीर्भिररिन्दमः ।6.11.14aराक्षसैः स्तूयमानः सन् जयाशीर्भिररिन्दमः।
31#14aವಿರಾಜಮಾನೋ ವಪುಷಾ ರುಕ್ಮಪಟ್ಟೋತ್ತರಚ್ಛದಾಮ್ ।6.11.14aआससाद महातेजाः सभां विरचितां तदा ।6.11.14bअससाद महातेजाः सभां सुविहितां शुभाम् ॥ १४ ॥6.11.14bआससाद महातेजाः सभां सुविहितां शुभाम् ॥ 6.11.14 ॥
32#14bತಾಂ ಪಿಶಾಚಶತೈಃ ಷಡ್ಭಿರಭಿಗುಪ್ತಾಂ ಸದಾಪ್ರಭಾಮ್ ॥6.11.14bसुवर्णरजतास्तीर्णां विशुद्धस्फटिकान्तराम् ॥ १४ ॥6.11.15aसुवर्णरजतस्थूर्णाम् विशुद्धस्फटिकान्तराम् ।6.11.15aसुवर्णरजतस्थूणां विशुद्धस्फटिकान्तराम्।
33#15aಪ್ರವಿವೇಶ ಮಹಾತೇಜಾಃ ಸುಕೃತಾಂ ವಿಶ್ವಕರ್ಮಣಾ ।6.11.15aविराजमानो वपुषा रुक्मपट्टोत्तरच्छदाम् ।6.11.15bविराजमानो वपुषा रुक्मपट्टोत्तरच्छदाम् ॥ १५ ॥6.11.15bविराजमानो वपुषा रुक्मपट्टोत्तरच्छदाम् ॥ 6.11.15 ॥
34#15bತಸ್ಯಾಂ ತು ವೈದೂರ್ಯಮಯಂ ಪ್ರಿಯಕಾಜಿನ ಸಂವೃತಮ್ ॥6.11.15bतां पिशाचशतैः षड्भिरभिगुप्तां सदाप्रभाम् ॥ १५ ॥6.11.16aताम् पिशाचशतैः षड्भिरभिगुप्ताम् सदाशुभाम् ।6.11.16aतां पिशाचशतैः षड्भिरभिगुप्तां सदा शुभाम्।
35#16aಮಹತ್ಸೋಪಾಶ್ರಯಂ ಭೇಜೇ ರಾವಣಃ ಪರಮಾಸನಮ್ ।6.11.16aप्रविवेश महातेजाः सुकृतां विश्वकर्मणा ।6.11.16bप्रविवेश महातेजाः सुकृताम् विश्वकर्मणा ॥ १६ ॥6.11.16bप्रविवेश महातेजाः सुकृतां विश्वकर्मणा ॥ 6.11.16 ॥
36#16bತತಃ ಶಶಾಸೇಶ್ವರವದ್ದೂತಾಂಲ್ಲಘುಪರಾಕ್ರಮಾನ್ ॥6.11.16bतस्यां तु वैदूर्यमयं प्रियकाजिनसंवृतम् ॥ १६ ॥6.11.17aतस्याम् स वैडूर्यमयं प्रियाकाजिनसम्वृतम् ।6.11.17aतस्यां तु वैडूर्यमयं प्रियकाजिनसंवृतम्।
37#17aಸಮಾನಯತ ಮೇ ಕ್ಷಿಪ್ರಮಿಂ ಹೈತಾನ್ ರಾಕ್ಷಸಾನಿತಿ ।6.11.17aमहत्सोपाश्रयं भेजे रावणः परमासनम् ।6.11.17bमहत्सोपाश्रयम् भेजे रावणः परमासनम् ॥ १७ ॥6.11.17bमहत् सोपाश्रयं भेजे रावणः परमासनम् ॥ 6.11.17 ॥
38#17bಕೃತ್ಯಮಸ್ತಿ ಮಹಾಜ್ಜಾನೇ ಕರ್ತವ್ಯಮಿತಿ ಶತ್ರುಭಿಃ ॥6.11.17bततः शशासेश्वरवद्दूताल्ँ लघुपराक्रमान् ॥ १७ ॥6.11.18aततः शशासेश्वरवद्दूतान् लघुपराक्रमान् ।6.11.18aततः शशासेश्वरवद् दूतान् लघुपराक्रमान्।
39#18aರಾಕ್ಷಸಾಸ್ತದ್ವಚಃ ಶೃತ್ವಾ ಲಂಕಯಾಂ ಪರಿಚಕ್ರಮುಃ ।6.11.18aसमानयत मे क्षिप्रमिहैतान् राक्षसानिति ।6.11.18bसमानयत मे क्षिप्रभिहैतान् राक्षसानिति ॥ १८ ॥6.11.18bसमानयत मे क्षिप्रमिहैतान् राक्षसानिति ॥ 6.11.18 ॥
40#18bಅನುಗೇಹಮವಸ್ಥಾಯ ವಿಹಾರಶಯನೇಷು ಚ ।6.11.18bकृत्यमस्ति महज्जाने कर्तव्यमिति शत्रुभिः ॥ १८ ॥6.11.19कृत्यमस्ति महाज्जातं समर्थ्यमिह नो महत् ॥ १९ ॥6.11.19कृत्यमस्ति महज्जातं समर्थ्यमिह नो महत् ॥ 6.11.19 ॥
41#18cಉದ್ಯಾನೇಷು ಚ ರಕ್ಷಾಂಸಿ ಚೋದಯಂತೋ ಹ್ಯಭೀತವತ್ ॥
42#19aತೇ ರಥಾಂತಚಾರಾ ಏಕೇ ದೃಪ್ತಾನೇಕೇ ದೃಢಾನ್ ಹಯಾನ್ ।6.11.19aराक्षसास्तद्वचः श्रुत्वा लङ्कायां परिचक्रमुः ।6.11.20aराक्षसास्तद्वचः श्रुत्वा लङ्कायाम् परिचक्रमुः ।
43#19bನಾಗಾನೇಕೇಽಧಿರುರುಹುರ್ಜಗ್ಮುಶ್ಚೈಕೇ ಪದಾತಯಃ ॥6.11.19bअनुगेहमवस्थाय विहारशयनेषु च ।6.11.20bअनुगेहमवस्थाय विहारशयनेषु च ।6.11.20aअनुगेहमवस्थाय विहारशयनेषु च।
446.11.19cउद्यानेषु च रक्षांसि चोदयन्तो ह्यभीतवत् ॥ १९ ॥6.11.20cउद्यानेषु च रक्षांसि चोदयन्तो ह्यभीतवत् ॥ २० ॥6.11.20bउद्यानेषु च रक्षांसि चोदयन्तो ह्यभीतवत् ॥ 6.11.20 ॥
456.11.21aते रथान् रुचिरानेके दृप्तानेके पृथग्घयान् ।6.11.21aते रथान् रुचिरानेके दृप्तानेके पृथग्घयान्।
46#20aಸಾ ಪುರೀ ಪರಮಾಕೀರ್ಣಾ ರಥಕುಂಜರವಾಜಿಭಿಃ ।6.11.20aते रथान्तचरा एके दृप्तानेके दृढान् हयान् ।
47#20bಸಂಪತದ್ಭಿರ್ವಿರುರುಚೇ ಗುರುತ್ಮದ್ಭಿರಿವಾಂಬರಮ್ ॥6.11.20bनागानेकेऽधिरुरुहुर्जग्मुश्चैके पदातयः ॥ २० ॥6.11.21bनागनन्येऽधिरुरुहुर्जग्मुश्चैके पदातयः ॥ २१ ॥6.11.21bनागानन्येऽधिरुरुहुर्जग्मुश्चैके पदातयः ॥ 6.11.21 ॥
48#21aತೇ ವಾಹನಾನ್ಯವಸ್ಥಾಯ ಯಾನಾನಿ ವಿವಿಧಾನಿ ಚ ।6.11.21aसा पुरी परमाकीर्णा रथकुञ्जरवाजिभिः ।6.11.22aसा पुरी परमाकीर्णा रथकुञ्जरवाजिभिः ।6.11.22aसा पुरी परमाकीर्णा रथकुञ्जरवाजिभिः।
49#21bಸಭಾಂ ಪದ್ಭಿಃ ಪ್ರವಿವಿಶುಃ ಸಿಂಹಾ ಗಿರಿಗುಹಾಮಿವ ॥6.11.21bसम्पतद्भिर्विरुरुचे गरुत्मद्भिरिवाम्बरम् ॥ २१ ॥6.11.22bसम्पतद्भिर्विरुरुचे गरुत्मद्भिरिवामबरम् ॥ २२ ॥6.11.22bसम्पतद्भिर्विरुरुचे गरुत्मद्भिरिवाम्बरम् ॥ 6.11.22 ॥
50#22aರಾಜ್ಞಃ ಪಾದೌ ಗೃಹೀತ್ವಾ ತು ರಾಜ್ಞಾ ತೇ ಪ್ರತಿಪೂಜಿತಾಃ ।6.11.22aते वाहनान्यवस्थाय यानानि विविधानि च ।6.11.23aते वाहनान्यवस्थाप्य यानानि विविधानि च ।6.11.23aते वाहनान्यवस्थाप्य यानानि विविधानि च।
51#22bಪೀಠೇಷ್ವನ್ಯೇ ಬೃಸೀಷ್ವನ್ಯೇ ಭೂಮೌ ಕೇಚಿದುಪಾವಿಶನ್ ॥6.11.22bसभां पद्भिः प्रविविशुः सिंहा गिरिगुहामिव ॥ २२ ॥6.11.23bसभाम् पद्भिः प्रविविशुः सिम्हा गिरिगुहामिव ॥ २३ ॥6.11.23bसभां पद्भिः प्रविविशुः सिंहा गिरिगुहामिव ॥ 6.11.23 ॥
52#23aತೇ ಸಮೇತ್ಯ ಸಭಾಯಾಂ ವೈ ರಾಕ್ಷಸಾ ರಾಜಶಾಸನಾತ್ ।6.11.23aराज्ञः पादौ गृहीत्वा तु राज्ञा ते प्रतिपूजिताः ।6.11.24aराज्ञः पादौ गृहीत्वा तु राज्ञा ते प्रतिपूजिताः ।6.11.24aराज्ञः पादौ गृहीत्वा तु राज्ञा ते प्रतिपूजिताः।
53#23bಯಥಾರ್ಹಮುಪತಸ್ಥುತ್ವೇ ರಾವಣಂ ರಾಕ್ಷಸಾಧಿಪಮ್ ॥6.11.23bपीठेष्वन्ये बृसीष्वन्ये भूमौ केचिदुपाविशन् ॥ २३ ॥6.11.24bपीठेष्वन्ये वृसीष्वन्ये भूमौ केचिदुपाविशन् ॥ २४ ॥6.11.24bपीठेष्वन्ये बृसीष्वन्ये भूमौ केचिदुपाविशन् ॥ 6.11.24 ॥
54#24aಮಂತ್ರಿಣಶ್ಚ ಯಥಾಮುಖ್ಯಾ ನಿಶ್ಚಿತಾರ್ಥೇಷು ಪಂಡಿತಾಃ ।6.11.24aते समेत्य सभायां वै राक्षसा राजशासनात् ।6.11.25aते समेत्य सभायां वै राक्षसा राजशासनात् ।6.11.25aते समेत्य सभायां वै राक्षसा राजशासनात्।
55#24bಅಮಾತ್ಯಾಶ್ಚ ಗುಣೋಪೇತಾಃ ಸರ್ವಜ್ಞಾ ಬುದ್ಧಿದರ್ಶನಾಃ ॥6.11.24bयथार्हमुपतस्थुस्ते रावणं राक्षसाधिपम् ॥ २४ ॥6.11.25bयथार्हमुपतस्थुस्ते रावणं राक्षसाधिपम् ॥ २५ ॥6.11.25bयथार्हमुपतस्थुस्ते रावणं राक्षसाधिपम् ॥ 6.11.25 ॥
56#25aಸಮೀಯುಸ್ತತ್ರ ಶತತಃ ಶೂರಾಶ್ಚ ಬಹವಸ್ತಥಾ ।6.11.25aमन्त्रिणश्च यथामुख्या निश्चितार्थेषु पण्डिताः ।6.11.26aमन्त्रिणश्च यथा मुख्या निश्चितार्थेषु पण्डिताः ।6.11.26aमन्त्रिणश्च यथा मुख्या निश्चयार्थेषु पण्डिताः।
57#25bಸಭಾಯಾಂ ಹೇಮವರ್ಣಾಯಾಂ ಸರ್ವಾರ್ಥಸ್ಯ ಸುಖಾಯ ವೈ ॥6.11.25bअमात्याश्च गुणोपेताः सर्वज्ञा बुद्धिदर्शनाः ॥ २५ ॥6.11.26bअमात्याश्च गुणोपेताः सर्वज्ञा बुद्धिदर्शनाः ।6.11.26bअमात्याश्च गुणोपेताः सर्वज्ञा बुद्धिदर्शनाः ॥ 6.11.26 ॥
58#26aತತೋ ಮಹಾತ್ಮಾ ವಿಪುಲಂ ಸುಯುಗ್ಯಂ
ರಥಂ ವರಂ ಹೇಮವಿಚಿತ್ರಿತಾಂಗಮ್ ।
6.11.26aसमीयुस्तत्र शतशः शूराश्च बहवस्तथा ।6.11.26cसमीयुस्तत्र शतशः शूराश्च बहवस्तथा ॥ २६ ॥
59#26bಶುಭಂ ಸಮಾಥಾಯ ಯಯೌ ಯಶಸ್ವೀ
ವಿಭೀಷಣಃ ಸಂಸದಮಗ್ರಜಸ್ಯ ॥
6.11.26bसभायां हेमवर्णायां सर्वार्थस्य सुखाय वै ॥ २६ ॥6.11.27aसभायां हेमवर्णायां सर्वार्थस्य सुखाय वै ।
606.11.27bरम्यायां राक्षसेन्द्रस्य सभेयुस्तत्र सङ्घशः ।6.11.27aरम्यायां राक्षसेन्द्रस्य समेयुस्तत्र सङ्घशः।
616.11.27c[राक्षसा राक्षसश्रेष्ठं परिवार्योपतस्थिरे] ॥ २७ ॥6.11.27b[ राक्षसा राक्षसश्रेष्ठं परिवार्योपतस्थिरे ] ॥ 6.11.27 ॥
62#27aಸ ಪೂರ್ವಜಾಯಾವರಜಃ ಶಶಂಸ
ನಾಮಾಥ ಪಶ್ಚಾಚ್ಚರಣೌ ವವಂದೇ ।
6.11.27aततो महात्मा विपुलं सुयुग्यं
रथं वरं हेमविचित्रिताङ्गम् ।
6.11.28aततो महात्मा विपुलम् सुयुग्यम् रथम् वरम् हेमविचित्रिताङ्गम् ।6.11.28aततो महात्मा विपुलं सुयुग्यं वरं रथं हेमविचित्रिताङ्गम्।
63#27bಶುಕಃ ಪ್ರಹಸ್ತಶ್ಚ ತಥೈವ ತೇಭ್ಯೋ
ದದೌ ಯಥಾರ್ಹಂ ಪೃಥಗಾಸನಾನಿ ॥
6.11.27bशुभं समास्थाय ययौ यशस्वी
विभीषणः संसदमग्रजस्य ॥ २७ ॥
6.11.28bशुभम् समास्थाय ययौ यशस्वी विभीषणः सम्सदमग्रजस्य ॥ २८ ॥6.11.28bशुभं समास्थाय ययौ यशस्वी विभीषणः संसदमग्रजस्य ॥ 6.11.28 ॥
64#28aಸುವರ್ಣನಾನಾಮಣಿಭೂಷಣಾನಾಂ
ಸುವಾಸಸಾಂ ಸಂಸದಿ ರಾಕ್ಷಸಾನಾಮ್ ।
6.11.28aस पूर्वजायावरजः शशंस
नामाथ पश्चाच्चरणौ ववन्दे ।
6.11.29aस पूर्वजायावरजः शशम्स नामाथ पश्चाच्चरणौ ववन्दे ।6.11.29aस पूर्वजायावरजः शशंस नामाथ पश्चाच्चरणौ ववन्दे।
65#28bತೇಷಾಂ ಪರಾರ್ಧ್ಯಾಗುರುಚಂದನಾನಾಂ
ಸ್ರಜಾಂ ಚ ಗಂಧಾಃ ಪ್ರವವುಃ ಸಮಂತಾತ್ ॥
6.11.28bशुकः प्रहस्तश्च तथैव तेभ्यो
ददौ यथार्हं पृथगासनानि ॥ २८ ॥
6.11.29bशुकः प्रहस्तश्च तथैव तेभ्यो ददौ यथार्हम् पृथगासनानि ॥ २९ ॥6.11.29bशुकः प्रहस्तश्च तथैव तेभ्यो ददौ यथार्हं पृथगासनानि ॥ 6.11.29 ॥
666.11.29aसुवर्णनानामणिभूषणानां
सुवाससां संसदि राक्षसानाम् ।
6.11.30aसुवर्णनानामणिभुषणानाम् सुवाससाम् सम्सदि राक्षसानाम् ।6.11.30aसुवर्णनानामणिभूषणानां सुवाससां संसदि राक्षसानाम्।
676.11.29bतेषां परार्घ्यागुरुचन्दनानां
स्रजां च गन्धाः प्रववुः समन्तात् ॥ २९ ॥
6.11.30bतेषाम् परार्ध्यागुरुचन्दनानाम् स्रजश्च गन्धाश्च ववुः समन्तात् ॥ ३० ॥6.11.30bतेषां परार्ध्यागरुचन्दनानां स्रजश्च गन्धाश्च ववुः समन्तात् ॥ 6.11.30 ॥
68#29aನ ಚುಕ್ರುಶುರ್ನಾನೃತಮಾಹ ಕಶ್ಚಿತ್
ಸಭಾಸದೋ ನಾಪಿ ಜಜಲ್ಪುರುಚ್ಚೈಃ ।
6.11.30aन चुक्रुशुर्नानृतमाह कश्चित्
सभासदो नापि जजल्पुरुच्चैः ।
6.11.31aन चुक्रुशुर्नानृतमाह कश्चित्सभासदो नैव जजल्पुरुच्चैः ।6.11.31aन चुक्रुशुर्नानृतमाह कश्चित् सभासदो नैव जजल्पुरुच्चैः।
69#29bಸಂಸಿದ್ಧಾರ್ಥಾಃ ಸರ್ವ ಏವೋಗ್ರವೀರ್ಯಾ
ಭರ್ತುಃ ಸರ್ವೇ ದದೃಶುಶ್ಚಾನನಂ ತೇ ॥
6.11.30bसंसिद्धार्थाः सर्व एवोग्रवीर्या
भर्तुः सर्वे ददृशुश्चाननं ते ॥ ३० ॥
6.11.31bसम्सिद्धार्थः सर्व एवोग्रवीर्या भर्तुः सर्वे ददृशुश्चाननं ते ॥ ३१ ॥6.11.31bसंसिद्धार्थाः सर्व एवोग्रवीर्या भर्तुः सर्वे ददृशुश्चाननं ते ॥ 6.11.31 ॥
70#30aಸ ರಾವಣಃ ಶಸ್ತ್ರಭೃತಾಂ ಮನಸ್ವಿನಾಂ
ಮಹಾಬಲಾನಾಂ ಸಮಿತೌ ಮನಸ್ವೀ ।
6.11.31aस रावणः शस्त्रभृतां मनस्विनां
महाबलानां समितौ मनस्वी ।
6.11.32aस रावणः शस्त्रभृतां मनस्विनां महाबलानां समितौ मनस्वी ।6.11.32aसरावणः शस्त्रभृतां मनस्विनां महाबलानां समितौ मनस्वी।
71#30bತಸ್ಯಾಂ ಸಭಾಯಾಂ ಪ್ರಭಯಾ ಚಕಾಶೇ
ಮಧ್ಯೇವಸೂನಾಮಿವ ವಜ್ರಹಸ್ತಃ ॥
6.11.31bतस्यां सभायां प्रभया चकाशे
मध्ये वसूनामिव वज्रहस्तः ॥ ३१ ॥
6.11.32bतप्याम् सभायां प्रभया चकाशे मध्ये वसूनामिव वज्रहस्तः ॥ ३२ ॥6.11.32bतस्यां सभायां प्रभया चकाशे मध्ये वसूनामिव वज्रहस्तः ॥ 6.11.32 ॥
726.11.11इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने एकादशः सर्गः ॥ ११ ॥