हनुमता लङ्कावर्णनम्. Built from structured/verses.jsonl. Rows are monotone-aligned half-verse/pāda-like units split at । and ॥, so verse-number boundary differences can appear as inserted or shifted line rows.
73 aligned line rows across 7 source streams.
gor-kn 68 lines
gor-hi 68 lines
crit 64 lines
gr 71 lines
dr-mula 66 lines
| # | gor-kn | gor-hi | crit | gr | dr-mula | gr-iitk | iitk |
|---|---|---|---|---|---|---|---|
| 1 | #1aಸುಗ್ರೀವಸ್ಯ ವಚಃ ಶ್ರುತ್ವಾ ಹೇತುಮತ್ ಪರಮಾರ್ಥವತ್ । | 6.3.1aसुग्रीवस्य वचः श्रुत्वा हेतुमत् परमार्थवत् । | 6.3.1aसुग्रीवस्य वचः श्रुत्वा हेतुमत्परमार्थवित् । | 6.3.1aसुग्रीवस्य वचः श्रुत्वा हेतुमत्परमार्थवित् । | 6.3.1aसुग्रीवस्य वचः श्रुत्वा हेतुमत् परमार्थवित्। | ||
| 2 | #1bಪ್ರತಿಜಗ್ರಾಹ ಕಾಕುತ್ಸ್ಥೋ ಹನೂಮಂತಮಥಾಬ್ರವೀತ್ ॥ | 6.3.1bप्रतिजग्राह काकुत्स्थो हनूमन्तमथाब्रवीत् ॥ १ ॥ | 6.3.1bप्रतिजग्राह काकुत्स्थो हनूमन्तमथाब्रवीत् ॥6.3.1॥ | 6.3.1bप्रतिजग्राह काकुत्स्थो हनुमन्तमथाब्रवीत् ॥ १ ॥ | 6.3.1bप्रतिजग्राह काकुत्स्थो हनुमन्तमथाब्रवीत् ॥ 6.3.1 ॥ | ||
| 3 | #2aತಪಸಾ ಸೇತುಬಂಧೇನ ಸಾಗರೋಚ್ಛೋಷಣೇನ ಚ । | 6.3.2aतपसा सेतुबन्धेन सागरोच्छोषणेन च । | 6.3.2aतरसा सेतुबन्धेन सागरोच्छोषणेन वा । | 6.3.2aतपसा सेतु बन्धेन सागरोच्छोषणेन वा । | 6.3.2aतपसा सेतुबन्धेन सागरोच्छोषणेन वा। | ||
| 4 | #2bಸರ್ವಥಾಪಿ ಸಮರ್ಥೋಽಸ್ಮಿ ಸಾಗರಸ್ಯಾಸ್ಯ ಲಂಘನೇ ॥ | 6.3.2bसर्वथापि समर्थोऽस्मि सागरस्यास्य लङ्घने ॥ २ ॥ | 6.3.2bसर्वथा सुसमर्थोऽस्मि सागरस्यास्य लङ्घने ॥6.3.2॥ | 6.3.2bसर्वथा सुसमर्थोस्मि सागरस्यास्य लङ्घने ॥ २ ॥ | 6.3.2bसर्वथा सुसमर्थोऽस्मि सागरस्यास्य लङ्घने ॥ 6.3.2 ॥ | ||
| 5 | #3aಕತಿ ದುರ್ಗಾಣಿ ದುರ್ಗಾಯಾ ಲಂಕಾಯಾಸ್ತದ್ ಬ್ರವೀಷ್ವ ಮೇ । | 6.3.3aकति दुर्गाणि दुर्गाया लङ्कायास्तद् ब्रवीष्व मे । | 6.3.3aकति दुर्गाणि दुर्गाया लङ्कायास्तद्ब्रवीहि मे । | 6.3.4aकति दुर्गाणि दुर्गाया लंकाया ब्रूहि तानि मे । | 6.3.3aकति दुर्गाणि दुर्गाया लङ्काया ब्रूहि तानि मे। | ||
| 6 | #3bಜ್ಞಾತುಮಿಚ್ಛಾಮಿ ತತ್ ಸರ್ವಂ ದರ್ಶನಾದಿವ ವಾನರ ॥ | 6.3.3bज्ञातुमिच्छामि तत् सर्वं दर्शनादिव वानर ॥ ३ ॥ | 6.3.3bज्ञातुमिच्छामि तत्सर्वं दर्शनादिव वानर ॥6.3.3॥ | 6.3.4bज्ञातुमिच्चामि तत् सर्वम् दर्शनादिव वानर ॥ ३ ॥ | 6.3.3bज्ञातुमिच्छामि तत्सर्वं दर्शनादिव वानर ॥ 6.3.3 ॥ | ||
| 7 | #4aಬಲಸ್ಯ ಪರಿಮಾಣಂ ಚ ದ್ವಾರದುರ್ಗಕ್ರಿಯಾಮಪಿ । | 6.3.4aबलस्य परिमाणं च द्वारदुर्गक्रियामपि । | 6.3.4aबलस्य परिमाणं च द्वारदुर्गक्रियामपि । | 6.3.4cबलस्य परिमाणम् च द्वार दुर्ग क्रियामपि । | 6.3.4aबलस्य परिमाणं च द्वारदुर्गक्रियामपि। | ||
| 8 | #4bಗುಪ್ತಿಕರ್ಮ ಚ ಲಂಕಾಯಾ ರಕ್ಷಸಾಂ ಸದನಾನಿ ಚ ॥ | 6.3.4bगुप्तिकर्म च लङ्काया रक्षसां सदनानि च ॥ ४ ॥ | 6.3.4bगुप्ति कर्म च लङ्काया रक्षसां सदनानि च ॥6.3.4॥ | 6.3.4dगुप्ति कर्म च लंकाया रक्षसाम् सदनानि च ॥ ४ ॥ | 6.3.4bगुप्तिकर्म च लङ्कायां रक्षसां सदनानि च ॥ 6.3.4 ॥ | ||
| 9 | #5aಯಥಾಸುಖಂ ಯಥಾವಚ್ಚ ಲಂಕಾಯಾಮಸಿದೃಷ್ಟವಾನ್ । | 6.3.5aयथासुखं यथावच्च लङ्कायामसि दृष्टवान् । | 6.3.5aयथासुखं यथावच्च लङ्कायामसि दृष्टवान् । | 6.3.5aयथा सुखम् यथावच्च लंकायामसि दृष्टवान् । | 6.3.5aयथासुखं यथावच्च लङ्कायामसि दृष्टवान्। | ||
| 10 | #5bಸರ್ವಮಾಚಕ್ಷ್ವ ತತ್ವೇನ ಸರ್ವಥಾ ಕುಶಲೇ ಹ್ಯಸಿ ॥ | 6.3.5bसर्वमाचक्ष्व तत्त्वेन सर्वथा कुशलो ह्यसि ॥ ५ ॥ | 6.3.5bसरमाचक्ष्व तत्त्वेन सर्वथा कुशलो ह्यसि ॥6.3.5॥ | 6.3.5bसरमाचक्ष्व तत्त्वेन सर्वथा कुशलो ह्यसि ॥ ५ ॥ | 6.3.5bसर्वमाचक्ष्व तत्त्वेन सर्वथा कुशलो ह्यसि ॥ 6.3.5 ॥ | ||
| 11 | #6aಶೃತ್ವಾ ರಾಮಸ್ಯ ವಚನಂ ಹನೂಮಾನ್ ಮಾರುತಾತ್ಮಜಃ । | 6.3.6aश्रुत्वा रामस्य वचनं हनूमान् मारुतात्मजः । | 6.3.6aश्रुत्वा रामस्य वचनं हनूमान्मारुतात्मजः । | 6.3.6aश्रुत्वा रामस्य वचनं हनूमान् मारुतात्मजः । | 6.3.6aश्रुत्वा रामस्य वचनं हनूमान् मारुतात्मजः। | ||
| 12 | 6.3.6b[प्रणम्य शिरसा रामं प्राञ्जलिः सुसमाहितः] । | ||||||
| 13 | #6bವಾಕ್ಯಂ ವಾಕ್ಯವಿದಾಂ ಶ್ರೇಷ್ಠೋ ರಾಮಂ ಪುನರಥಾಬ್ರವೀತ್ ॥ | 6.3.6bवाक्यं वाक्यविदां श्रेष्ठो रामं पुनरथाब्रवीत् ॥ ६ ॥ | 6.3.6bवाक्यं वाक्यविदां श्रेष्ठो रामं पुनरथाब्रवीत् ॥6.3.6॥ | 6.3.6cवाक्यम् वाक्यविदाम् श्रेष्ठो रामम् पुनरथाब्रवीत् ॥ ६ ॥ | 6.3.6bवाक्यं वाक्यविदां श्रेष्ठो रामं पुनरथाब्रवीत् ॥ 6.3.6 ॥ | ||
| 14 | #7aಶ್ರೂಯತಾಂ ಸರ್ವಮಾಖ್ಯಾಸ್ಯೇ ದುರ್ಗಕರ್ಮ ವಿಧಾನತಃ । | 6.3.7aश्रूयतां सर्वमाख्यास्ये दुर्गकर्म विधानतः । | 6.3.7aश्रूयतां सर्वमाख्यास्ये दुर्गकर्मविधानतः । | 6.3.8aश्रूयताम् सर्वमाख्यास्ये दुर्ग कर्म विधानतः । | 6.3.7aश्रूयतां सर्वमाख्यास्ये दुर्गकर्मविधानतः। | ||
| 15 | #7bಗುಪ್ತಾ ಪುರೀ ಯಥಾ ಲಂಕಾ ರಕ್ಷಿತಾ ಚ ಯಥಾ ಬಲೈಃ ॥ | 6.3.7bगुप्ता पुरी यथा लङ्का रक्षिता च यथा बलैः ॥ ७ ॥ | 6.3.7bगुप्ता पुरी यथा लङ्का रक्षिता च यथा बलैः ॥6.3.7॥ | 6.3.8bगुप्ता पुरी यथा लंका रक्षिता च यथा बलैः ॥ ७ ॥ | 6.3.7bगुप्ता पुरी यथा लङ्का रक्षिता च यथा बलैः ॥ 6.3.7 ॥ | ||
| 16 | #8aರಾಕ್ಷಸಾಶ್ಚ ಯಥಾ ಸ್ನಿಗ್ಧಾ ರಾವಣಸ್ಯ ಚ ತೇಜಸಾ । | 6.3.8aराक्षसाश्च यथा स्निग्धा रावणस्य च तेजसा । | 6.3.8cराक्षसाश्च यथा स्निग्धा रावणस्य च तेजसा । | ||||
| 17 | #8bಪರಾಂ ಸಮೃದ್ಧಿಂ ಲಂಕಾಯಾಃ ಸಾಗರಸ್ಯ ಚ ಭೀಮತಾಮ್ ॥ | 6.3.8bपरां समृद्धिं लङ्कायाः सागरस्य च भीमताम् ॥ ८ ॥ | 6.3.8aपरां समृद्धिं लङ्कायाः सागरस्य च भीमताम् । | 6.3.8dपराम् समृद्धिम् लंकायाः सागरस्य च भीमताम् ॥ | 6.3.8aपरां समृद्धिं लङ्कायाः सागरस्य च भीमताम्। | ||
| 18 | #9aವಿಭಾಗಂ ಚ ಬಲೌಘಸ್ಯ ನಿರ್ದೇಶಂ ವಿಹನಸ್ಯ ಚ । | 6.3.9aविभागं च बलौघस्य निर्देशं वाहनस्य च । | 6.3.8bविभागं च बलौघस्य निर्देशं वाहनस्य च ॥6.3.8॥ | 6.3.8eविभागमं च बलौघस्य निर्देशं वाहनस्य च ॥ ८ ॥ | 6.3.8bविभागं च बलौघस्य निर्देशं वाहनस्य च ॥ 6.3.8 ॥ | ||
| 19 | 6.3.9aप्रहृष्टा मुदिता लङ्का मत्तद्विपसमाकुला । | ||||||
| 20 | #9bಏವಮುಕ್ತ್ವಾ ಕಪಿಶ್ರೇಷ್ಠಃ ಕಥಯಾಮಾಸ ತತ್ವತಃ ॥ | 6.3.9bएवमुक्त्वा कपिश्रेष्ठः कथयामास तत्त्वतः ॥ ९ ॥ | 6.3.9एवमुक्त्वा कपिश्रेष्ठः कथयामास तत्वतः ॥ ९ ॥ | 6.3.9एवमुक्त्वा कपिश्रेष्ठः कथयामास तत्त्वतः ॥ 6.3.9 ॥ | |||
| 21 | #10aಹೃಷ್ಟಪ್ರಮುದಿತಾ ಲಂಕಾ ಸತ್ತದ್ವಿಪಸಮಾಕುಲಾ । | 6.3.10aहृष्टप्रमुदिता लङ्का मत्तद्विपसमाकुला । | 6.3.10aहृष्टप्रमुदिता लङ्का मत्तद्विपसमाकुला । | ||||
| 22 | #10bಮಹತೀ ರಥಸಂಪೂರ್ಣಾ ರಕ್ಷೋಗಣನಿಷೇವಿತಾ ॥ | 6.3.10bमहती रथसम्पूर्णा रक्षोगणनिषेविता ॥ १० ॥ | 6.3.9bमहती रथसंपूर्णा रक्षोगणसमाकुला ॥6.3.9॥ | 6.3.10bमहती रथसम्पूर्णा रक्षोगणसमाकुला । | 6.3.10aमहती रथसम्पूर्णा रक्षोगणसमाकुला। | ||
| 23 | 6.3.10cवाजिभिश्च सुसंपूर्णा सा पुरी दुर्गमा परैः ॥ १०॥ | 6.3.10bवाजिभिश्च सुसम्पूर्णा सा पुरी दुर्गमा परैः ॥ 6.3.10 ॥ | |||||
| 24 | #11aದೃಢಬದ್ಧಕಪಾಟಾನಿ ಮಹಾಪರಿಘವಂತಿ ಚ । | 6.3.11aदृढबद्धकपाटानि महापरिघवन्ति च । | 6.3.10aदृढबद्धकवाटानि महापरिघवन्ति च । | 6.3.11aदृढबद्धकवाटानि महापरिघवन्ति च । | 6.3.11aदृढबद्धकवाटानि महापरिधवन्ति च। | ||
| 25 | #11bಚತ್ವಾರಿ ವಿಪುಲಾನ್ಯಸ್ಯಾ ದ್ವಾರಾಣಿ ಸುಮಹಾಂತಿ ಚ ॥ | 6.3.11bचत्वारि विपुलान्यस्या द्वाराणि सुमहान्ति च ॥ ११ ॥ | 6.3.10bद्वाराणि विपुलान्यस्याश्चत्वारि सुमहान्ति च ॥6.3.10॥ | 6.3.11bद्वाराणि विपुलान्यस्याश्चत्वारि सुमहान्ति च ॥ ११ ॥ | 6.3.11bद्वाराणि विपुलान्यस्याश्चत्वारि सुमहान्ति च ॥ 6.3.11 ॥ | ||
| 26 | #12aತತ್ರೇಷೂಪಲಯಂತ್ರಾಣಿ ಬಲವಂತಿ ಮಹಾಂತಿ ಚ । | 6.3.12aतत्रेषूपलयन्त्राणि बलवन्ति महान्ति च । | 6.3.11aवप्रेषूपलयन्त्राणि बलवन्ति महान्ति च । | 6.3.12aवप्रेषूपलयन्त्राणि बलवन्ति महान्ति च । | 6.3.12aतत्रेषूपलयन्त्राणि बलवन्ति महान्ति च। | ||
| 27 | #12bಅಗತಂ ಪ್ರತಿಸೈನ್ಯಂ ತೈಸ್ತತ್ರ ಪ್ರತಿನಿವಾರ್ಯತೇ ॥ | 6.3.12bआगतं प्रतिसैन्यं तैस्तत्र प्रतिनिवार्यते ॥ १२ ॥ | 6.3.11bआगतं परसैन्यं तैस्तत्र प्रतिनिवार्यते ॥6.3.11॥ | 6.3.12bआगतं परसैन्यं तत्र तैः प्रतिहन्यते ॥ १२ ॥ | 6.3.12bआगतं परसैन्यं तु तत्र तैः प्रतिहन्यते ॥ 6.3.12 ॥ | ||
| 28 | #13aದ್ವಾರೇಷು ಸಂಸ್ಕೃತಾ ಭೀಮಾಃ ಕಾಲಾಯಸಮಯಾಃ ಶಿತಾಃ । | 6.3.13aद्वारेषु संस्कृता भीमाः कालायसमयाः शिताः । | 6.3.12aद्वारेषु संस्कृता भीमाः कालायसमयाः शिताः । | 6.3.13aद्वारेषु संस्कृता भीमाः कालायसमयाः शिताः । | 6.3.13aद्वारेषु संस्कृता भीमाः कालायसमयाः शिताः। | ||
| 29 | #13bಶತಶೋ ರಚಿತಾ ವೀರೈಃ ಶತಘ್ನ್ಯೋ ರಕ್ಷಸಾಂ ಗಣೈಃ ॥ | 6.3.13bशतशो रचिता वीरैः शतघ्न्यो रक्षसां गणैः ॥ १३ ॥ | 6.3.12bशतशो रोचिता वीरैः शतघ्न्यो रक्षसां गणैः ॥6.3.12॥ | 6.3.13bशतशो रोचिता वीरैः शतघ्न्यो रक्षसां गणैः ॥ १३ ॥ | 6.3.13bशतशो रचिता वीरैः शतघ्न्यो रक्षसां गणैः ॥ 6.3.13 ॥ | ||
| 30 | #14aಸೌವರ್ಣಸ್ತು ಮಹಾಂಸ್ತಸ್ಯಾಃ ಪ್ರಾಕಾರೋ ದುಷ್ಪ್ರಧರ್ಷಣಃ । | 6.3.14aसौवर्णस्तु महांस्तस्याः प्राकारो दुष्प्रधर्षणः । | 6.3.13aसौवर्णश्च महांस्तस्याः प्राकारो दुष्प्रधर्षणः । | 6.3.14aसौवर्णश्च महांस्तस्याः प्राकारो दुष्प्रधर्षणः । | 6.3.14aसौवर्णश्च महांस्तस्याः प्राकारो दुष्प्रधर्षणः। | ||
| 31 | #14bಮಣಿವಿದ್ರುಮವೈದೂರ್ಯ ಮುಕ್ತಾವಿರಚಿತಾಂತರಃ ॥ | 6.3.14bमणिविद्रुमवैदूर्यमुक्ताविरचितान्तरः ॥ १४ ॥ | 6.3.13bमणिविद्रुमवैदूर्यमुक्ताविचरितान्तरः ॥6.3.13॥ | 6.3.14bमणिविद्रुमवैडूर्यमुक्ताविचरितान्तरः ॥ १४ ॥ | 6.3.14bमणिविद्रुमवैडूर्यमुक्ताविरचितान्तरः ॥ 6.3.14 ॥ | ||
| 32 | #15aಸರ್ವತಶ್ಚ ಮಹಾಭೀಮಾಃ ಶೀತತೋಯಾ ಮಹಾಶುಭಾಃ । | 6.3.15aसर्वतश्च महाभीमाः शीततोया महाशुभाः । | 6.3.14aसर्वतश्च महाभीमाः शीततोया महाशुभाः । | 6.3.15aसर्वतश्च महाभीमाः शीततोय वहाशुभाः । | 6.3.15aसर्वतश्च महाभीमाः शीततोयवहाः शुभाः। | ||
| 33 | #15bಅಗಾಧಾ ಗ್ರಾಹವತ್ಯಶ್ಚ ಪರಿಖಾ ಮೀನಸೇವಿತಾಃ ॥ | 6.3.15bअगाधा ग्राहवत्यश्च परिखा मीनसेविताः ॥ १५ ॥ | 6.3.14bअगाधा ग्राहवत्यश्च परिखा मीनसेविताः ॥6.3.14॥ | 6.3.15bअगाधा ग्राहवत्यश्च परिखा मीनसेविताः ॥ १५ ॥ | 6.3.15bअगाधा ग्राहवत्यश्च परिखा मीनसेविताः ॥ 6.3.15 ॥ | ||
| 34 | #16aದ್ವಾರೇಷು ತಾಸಾಂ ಚತ್ವಾರಃ ಸಂಕ್ರಮಾಃ ಪರಮಾಯಾತಾಃ । | 6.3.16aद्वारेषु तासां चत्वारः सङ्क्रमाः परमायताः । | 6.3.15aद्वारेषु तासां चत्वारः संक्रमाः परमायताः । | 6.3.16aद्वारेषु तासां चत्वारः सङ्क्रमाः परमायताः । | 6.3.16aद्वारेषु तासां चत्वारः सङ्क्रमाः परमायताः। | ||
| 35 | #16bಯಂತ್ರೈರೂಪೇತಾ ಬಹುಭಿರ್ಮಹದ್ಭಿರ್ಗೃಹಪಂಕ್ತಿಭಿಃ ॥ | 6.3.16bयन्त्रैरुपेता बहुभिर्महद्भिर्गृहपङ्क्तिभिः ॥ १६ ॥ | 6.3.15bयन्त्रैरुपेता बहुभिर्महद्भिर्दृढसंधिभिः ॥6.3.15॥ | 6.3.16bयन्त्रैरुपेता बहुभिर्महद्भिर्गृहपङ्तिभिः ॥ १६ ॥ | 6.3.16bयन्त्रैरुपेता बहुभिर्महद्भिर्गृहपङ्क्तिभिः ॥ 6.3.16 ॥ | ||
| 36 | #17aತ್ರಾಯಂತೇ ಸಂಕ್ರಮಾಸ್ತತ್ರ ಪರಸೈನ್ಯಾಗತೇ ಸತಿ । | 6.3.17aत्रायन्ते सङ्क्रमास्तत्र परसैन्यागते सति । | 6.3.16aत्रायन्ते संक्रमास्तत्र परसैन्यागमे सति । | 6.3.17aत्रायन्ते सङ्क्रमास्तत्र परसैन्यागमे सति । | 6.3.17aत्रायन्ते सङ्क्रमास्तत्र परसैन्यागमे सति। | ||
| 37 | #17bಯಂತ್ರೈಸ್ತೈರವಕೀರ್ಯಂತೇ ಪರಿಖಾಸು ಸಮಂತತಃ ॥ | 6.3.17bयन्त्रैस्तैरवकीर्यन्ते परिखासु समन्ततः ॥ १७ ॥ | 6.3.16bयन्त्रैस्तैरवकीर्यन्ते परिखासु समन्ततः ॥6.3.16॥ | 6.3.17bयन्त्रैस्तैरवकीर्यन्ते परिखासु समन्ततः ॥ १७ ॥ | 6.3.17bयन्त्रैस्तैरवकीर्यन्ते परिखासु समन्ततः ॥ 6.3.17 ॥ | ||
| 38 | #18aಏಕಸ್ತ್ವಕಂಪ್ಯೋ ಬಲವಾನ್ ಸಂಕ್ರಮಃ ಸುಮಹಾದೃಢಃ । | 6.3.18aएकस्त्वकम्प्यो बलवान् सङ्क्रमः सुमहादृढः । | 6.3.17aएकस्त्वकम्प्यो बलवान्संक्रमः सुमहादृढः । | 6.3.18aएकस्त्वकम्प्यो बलवान्सङ्क्रमः सुमहादृढः । | 6.3.18aएकस्त्वकम्प्यो बलवान् सङ्क्रमः सुमहादृढः। | ||
| 39 | #18bಕಾಂಚನೈರ್ಬಹುಭಿಃ ಸ್ತಂಭೈರ್ವೇದಿಕಾಭಿಶ್ಚ ಶೋಭಿತಃ॥ | 6.3.18bकाञ्चनैर्बहुभिः स्तम्भैर्वेदिकाभिश्च शोभितः ॥ १८ ॥ | 6.3.17bकाञ्चनैर्बहुभिः स्तम्भैर्वेदिकाभिश्च शोभितः ॥6.3.17॥ | 6.3.18bकाञ्चनैर्बहुभिः स्तम्भैर्वेदिकाभिश्च शोभितः ॥ १८ ॥ | 6.3.18bकाञ्चनैर्बहुभिस्स्तम्भैर्वेदिकाभिश्च शोभितः ॥ 6.3.18 ॥ | ||
| 40 | #19aಸ್ವಯಂ ಪ್ರಕೃತಿಮಾಪನ್ನೋಯುಯುತ್ಸೂ ರಾಮ ರಾವಣಃ । | 6.3.19aस्वयं प्रकृतिमापन्नो युयुत्सू राम रावणः । | 6.3.18aस्वयं प्रकृतिसंपन्नो युयुत्सू राम रावणः । | 6.3.19aस्वयं प्रकृतिसम्पन्नो युयुत्सू राम रावणः । | 6.3.19aस्वयं प्रकृतिसम्पन्नो युयुत्सू राम रावणः। | ||
| 41 | #19bಉತ್ಥ್ಥಿತಶ್ಚಾಪ್ರಮತ್ತಶ್ಚ ಬಲಾನಾಮನುದರ್ಶನೇ ॥ | 6.3.19bउत्थितश्चाप्रमत्तश्च बलानामनुदर्शने ॥ १९ ॥ | 6.3.18bउत्थितश्चाप्रमत्तश्च बलानामनुदर्शने ॥6.3.18॥ | 6.3.19bउत्थितश्चाप्रमत्तश्च बलानामनुदर्शने ॥ १९ ॥ | 6.3.19bउत्थितश्चाप्रमत्तश्च बलानामनुदर्शने ॥ 6.3.19 ॥ | ||
| 42 | #20aಲಂಕಾ ಪುನರ್ನಿರಾಲಂಬಾ ದೇವದುರ್ಗಾ ಭಾಯಾವಹಾ । | 6.3.20aलङ्का पुनर्निरालम्बा देवदुर्गा भयावहा । | 6.3.19aलङ्का पुरी निरालम्बा देवदुर्गा भयावहा । | 6.3.20aलङ्का पुनर्निरालम्बा देवदुर्गा भयावहा । | 6.3.20aलङ्का पुनर्निरालम्बा देवदुर्गा भयावहा। | ||
| 43 | #20bನಾದೇಯಂ ಪಾರ್ವತಂ ವಾನ್ಯಂ ಕೃತ್ರಿಮಂ ಚ ಚತುರ್ವಿಧಮ್ ॥ | 6.3.20bनादेयं पार्वतं वान्यं कृत्रिमं च चतुर्विधम् ॥ २० ॥ | 6.3.19bनादेयं पार्वतं वन्यं कृत्रिमं च चतुर्विधम् ॥6.3.19॥ | 6.3.20bनादेयं पार्वतं वान्यं कृत्रिमं च चतुर्विधम् ॥ २० ॥ | 6.3.20bनादेयं पार्वतं वान्यं कृत्रिमं च चतुर्विधम् ॥ 6.3.20 ॥ | ||
| 44 | #21aಸ್ಥಿತಾ ಪಾರೇ ಸಮುದ್ರಸ್ಯ ದೂರಪಾರಸ್ಯ ರಾಘವ । | 6.3.21aस्थिता पारे समुद्रस्य दूरपारस्य राघव । | 6.3.20aस्थिता पारे समुद्रस्य दूरपारस्य राघव । | 6.3.21aस्थिता पारे समुद्रस्य दूरपारस्य राघव । | 6.3.21aस्थिता पारे समुद्रस्य दूरपारस्य राघव। | ||
| 45 | #21bನೌಪಥಶ್ಚಾಪಿ ನಾಸ್ತ್ಯತ್ರ ನಿರುದ್ದೇಶಶ್ಚ ಸರ್ವತಃ ॥ | 6.3.21bनौपथश्चापि नास्त्यत्र निरुद्देशश्च सर्वतः ॥ २१ ॥ | 6.3.20bनौपथश्चापि नास्त्यत्र निरादेशश्च सर्वतः ॥6.3.20॥ | 6.3.21bनौपथोपि च नास्त्यत्र निरादेशश्च सर्वतः ॥ २१ ॥ | 6.3.21bनौपथोऽपि च नास्त्यत्र निरादेशश्च सर्वतः ॥ 6.3.21 ॥ | ||
| 46 | #22aಶೈಲಾಗ್ರೇ ರಚಿತಾ ದುರ್ಗಾ ಸಾ ಪೂರ್ದೇವಪುರೋಪಮಾ । | 6.3.22aशैलाग्रे रचिता दुर्गा सा पूर्देवपुरोपमा । | 6.3.21aशैलाग्रे रचिता दुर्गा सा पूर्देवपुरोपमा । | 6.3.22aशैलाग्रे रचिता दुर्गा सा पूर्देवपुरोपमा । | 6.3.22aशैलाग्रे रचिता दुर्गा सा पूर्देवपुरोपमा। | ||
| 47 | #22bವಾಜಿವಾರಣಸಂಪೂರ್ಣಾ ಲಂಕಾ ಪರಮದುರ್ಜಯಾ ॥ | 6.3.22bवाजिवारणसम्पूर्णा लङ्का परमदुर्जया ॥ २२ ॥ | 6.3.21bवाजिवारणसंपूर्णा लङ्का परमदुर्जया ॥6.3.21॥ | 6.3.22bवाजिवारणसम्पूर्णा लङ्का परमदुर्जया ॥ २२ ॥ | 6.3.22bवाजिवारणसम्पूर्णा लङ्का परमदुर्जया ॥ 6.3.22 ॥ | ||
| 48 | #23aಪರಿಖಾಶ್ಚ ಶತಘ್ನ್ಯಶ್ಚ ಯಂತ್ರಾಣಿ ವಿವಿಧಾನಿ ಚ । | 6.3.23aपरिखाश्च शतघ्न्यश्च यन्त्राणि विविधानि च । | 6.3.22aपरिघाश्च शतघ्न्यश्च यन्त्राणि विविधानि च । | 6.3.23aपरिघाश्च शतघ्न्यश्च यन्त्राणि विविधानि च । | 6.3.23aपरिखाश्च शतघ्न्यश्च यन्त्राणि विविधानि च। | ||
| 49 | #23bಶೋಭಯಂತಿ ಪುರೀಂ ಲಂಕಾಂ ರಾವಣಸ್ಯ ದುರಾತ್ಮನಃ ॥ | 6.3.23bशोभयन्ति पुरीं लङ्कां रावणस्य दुरात्मनः ॥ २३ ॥ | 6.3.22bशोभयन्ति पुरीं लङ्कां रावणस्य दुरात्मनः ॥6.3.22॥ | 6.3.23bशोभयन्ति पुरीं लङ्कां रावणस्य दुरात्मनः ॥ २३ ॥ | 6.3.23bशोभयन्ति पुरीं लङ्कां रावणस्य दुरात्मनः ॥ 6.3.23 ॥ | ||
| 50 | #24aಅಯುತಂ ರಕ್ಷಸಾಮತ್ರ ಪೂರ್ವದ್ವಾರಂ ಸಮಾಶ್ರಿತಮ್ । | 6.3.24aअयुतं रक्षसामत्र पूर्वद्वारं समाश्रितम् । | 6.3.23aअयुतं रक्षसामत्र पश्चिमद्वारमाश्रितम् । | 6.3.24aअयुतं रक्षसामत्र पूर्वद्वारं समाश्रितम् । | 6.3.24aअयुतं रक्षसामत्र पूर्वद्वारं समाश्रितम्। | ||
| 51 | #24bಶೂಲಹಸ್ತಾ ದೂರಾಧರ್ಷಾಃ ಸರ್ವೇ ಖಡ್ಗಾಗ್ರಯೋಧಿನಃ ॥ | 6.3.24bशूलहस्ता दुराधर्षाः सर्वे खड्गाग्रयोधिनः ॥ २४ ॥ | 6.3.23bशूलहस्ता दुराधर्षाः सर्वे खड्गाग्रयोधिनः ॥6.3.23॥ | 6.3.24bशूलहस्ता दुराधर्षाः सर्वे खड्गाग्रयोधिनः ॥ २४ ॥ | 6.3.24bशूलहस्ता दुराधर्षा सर्वे खड्गाग्रयोधिनः ॥ 6.3.24 ॥ | ||
| 52 | #25aನಿಯುತಂ ರಕ್ಷಸಾಮತ್ರ ದಕ್ಷಿಣದ್ವಾರಮಾಶ್ರಿತಮ್ । | 6.3.25aनियुतं रक्षसामत्र दक्षिणद्वारमाश्रितम् । | 6.3.24aनियुतं रक्षसामत्र दक्षिणद्वारमाश्रितम् । | 6.3.25aनियुतं रक्षसामत्र दक्षिणद्वारमाश्रितम् । | 6.3.25aनियुतं रक्षसामत्र दक्षिणद्वारमाश्रितम्। | ||
| 53 | #25bಚತುರಂಗೇಣ ಸೈನ್ಯೇನ ಯೋಧಾಸ್ತತ್ರಾಪ್ಯನುತ್ತಮಾಃ ॥ | 6.3.25bचतुरङ्गेण सैन्येन योधास्तत्राप्यनुत्तमाः ॥ २५ ॥ | 6.3.24bचतुरङ्गेण सैन्येन योधास्तत्राप्यनुत्तमाः ॥6.3.24॥ | 6.3.25bचतुरङ्गेण सैन्येन योधास्तत्राप्यनुत्तमाः ॥ २५ ॥ | 6.3.25bचतुरङ्गेण सैन्येन योधास्तत्राप्यनुत्तमाः ॥ 6.3.25 ॥ | ||
| 54 | #26aಪ್ರಯುತಂ ರಕ್ಷಸಾಮಾತ್ರ ಪಶ್ಚಿಮದ್ವಾರಮಾಶ್ರಿತಮ್ । | 6.3.26aप्रयुतं रक्षसामत्र पश्चिमद्वारमाश्रितम् । | 6.3.25aप्रयुतं रक्षसामत्र पूर्वद्वारं समाश्रितम् । | 6.3.26aप्रयुतं रक्षसामत्र पश्चिमद्वारमाश्रितम् । | 6.3.26aप्रयुतं रक्षसामत्र पश्चिमद्वारमाश्रितम्। | ||
| 55 | #26bಚರ್ಮಖಡ್ಗಧರಾಃ ಸರ್ವೇ ತಥಾ ಸರ್ವಾಸ್ತ್ರಕೋವಿದಾಃ ॥ | 6.3.26bचर्मखड्गधराः सर्वे तथा सर्वास्त्रकोविदाः ॥ २६ ॥ | 6.3.25bचर्मखड्गधराः सर्वे तथा सर्वास्त्रकोविदाः ॥6.3.25॥ | 6.3.26bचर्मखड्गधराः सर्वे तथा सर्वास्त्रकोविदाः ॥ २६ ॥ | 6.3.26bचर्मखड्गधराः सर्वे तथा सर्वास्त्रकोविदाः ॥ 6.3.26 ॥ | ||
| 56 | #27aನ್ಯರ್ಬುದಂ ರಕ್ಷಸಾಮತ್ರ ಉತ್ತರ ದ್ವಾರಮಾಶ್ರಿತಮ್ । | 6.3.27aन्यर्बुदं रक्षसामत्र उत्तरद्वारमाश्रितम् । | 6.3.26aअर्बुदं रक्षसामत्र उत्तरद्वारमाश्रितम् । | 6.3.27aअर्बुदं रक्षसामत्र उत्तरद्वारमाश्रितम् । | 6.3.27aन्यर्बुदं रक्षसामत्र उत्तरद्वारमाश्रितम्। | ||
| 57 | #27bರಥಿನಶ್ಚಾಶ್ವವಾಹಾಶ್ಚ ಕುಲಪುತ್ರಾಃ ಸುಪೂಜಿತಾಃ ॥ | 6.3.27bरथिनश्चाश्ववाहाश्च कुलपुत्राः सुपूजिताः ॥ २७ ॥ | 6.3.26bरथिनश्चाश्ववाहाश्च कुलपुत्राः सुपूजिताः ॥6.3.26॥ | 6.3.27bरथिनश्चाश्ववाहाश्च कुलपुत्राः सुपूजिताः ॥ २७ ॥ | 6.3.27bरथिनश्चाश्ववाहाश्च कुलपुत्राः सुपूजिताः ॥ 6.3.27 ॥ | ||
| 58 | 6.3.27aशतं शतसहस्राणां मध्यमं गुल्ममाश्रितम् । | ||||||
| 59 | #28aಶತಶೋಽಥ ಸಹಸ್ರಾಣಿ ಮಧ್ಯಮಂ ಸ್ಕಂಧಮಾಶ್ರಿತಾಃ । | 6.3.28aशतशोऽथ सहस्राणि मध्यमं स्कन्धमाश्रिताः । | 6.3.28aशतशोथ सहस्राणि मध्यमं स्कन्धमाश्रिताः । | 6.3.28aशतशोऽथ सहस्राणि मध्यमं स्कन्धमाश्रिताः। | |||
| 60 | #28bಯಾತುಧಾನಾ ದುರಾಧರ್ಷಾಃ ಸಾಗ್ರಕೋಟಿಶ್ಚ ರಕ್ಷಸಾಮ್ ॥ | 6.3.28bयातुधाना दुराधर्षाः साग्रकोटिश्च रक्षसाम् ॥ २८ ॥ | 6.3.27bयातुधाना दुराधर्षाः साग्रकोटिश्च रक्षसाम् ॥6.3.27॥ | 6.3.28bयातुधाना दुराधर्षाः साग्रकोटिश्च रक्षसाम् ॥ २८ ॥ | 6.3.28bयातुधाना दुराधर्षाः साग्रकोटिश्च रक्षसाम् ॥ 6.3.28 ॥ | ||
| 61 | #29aತೇ ಮಯಾ ಸಂಕ್ರಮಾ ಭಗ್ನಾಃ ಪರಿಖಾಶ್ಚಾವಪೂರಿತಾಃ । | 6.3.29aते मया सङ्क्रमा भग्नाः परिखाश्चावपूरिताः । | 6.3.28aते मया संक्रमा भग्नाः परिखाश्चावपूरिताः । | 6.3.29aते मया सङ्क्रमा भग्नाः परिखाश्चावपूरिताः । | 6.3.29aते मया सङ्क्रमा भग्राः परिखाश्चावपूरिताः। | ||
| 62 | #29bದಗ್ಧಾ ಚ ನಗರೀ ಲಂಕಾ ಪ್ರಾಕಾರಾಶ್ಚಾವಸಾದಿತಾಃ । | 6.3.29bदग्धा च नगरी लङ्का प्राकाराश्चावसादिताः । | 6.3.28bदग्धा च नगरी लङ्का प्राकाराश्चावसादिताः ॥6.3.28॥ | 6.3.29bदग्धा च नगरी लङ्का प्राकाराश्चावसादिताः ॥ २९ ॥ | 6.3.29bदग्धा च नगरी लङ्का प्राकाराश्चावसादिताः ॥ 6.3.29 ॥ | ||
| 63 | #29cಬಲೈಕದೇಶಃ ಕ್ಷಪಿತೋ ರಾಕ್ಷಸಾನಾಂ ಮಹಾತ್ಮನಾಮ್ ॥ | 6.3.29cबलैकदेशः क्षपितो राक्षसानां महात्मनाम् ॥ २९ ॥ | 6.3.30बलैकदेशः क्षपितो राक्षसानां महात्मनाम् ॥ ३० ॥ | 6.3.30बलैकदेशः क्षपितो राक्षसानां महात्मनाम् ॥ 6.3.30 ॥ | |||
| 64 | #30aಯೇನ ಕೇನ ತು ಮಾರ್ಗೇಣ ತರಾಮ ವರುಣಾಲಯಮ್ । | 6.3.30aयेन केन तु मार्गेण तराम वरुणालयम् । | 6.3.29aयेन केन तु मार्गेण तराम वरुणालयम् । | 6.3.31aयेन केन तु मार्गेण तराम वरुणालयम् । | 6.3.31aयेन केन च मार्गेण तराम वरुणालयम्। | ||
| 65 | #30bಹತೇತಿ ನಗರೀ ಲಂಕಾ ವಾನರೈರುಪಧಾರ್ಯತಾಮ್ ॥ | 6.3.30bहतेति नगरी लङ्का वानरैरुपधार्यताम् ॥ ३० ॥ | 6.3.29bहतेति नगरी लङ्कां वानरैरवधार्यताम् ॥6.3.29॥ | 6.3.31bहतेति नगरी लङ्कां वानरैरवधार्यताम् ॥ ३१ ॥ | 6.3.31bहतेति नगरी लङ्का वानरैरवधार्यताम् ॥ 6.3.31 ॥ | ||
| 66 | #31aಅಂಗದೋ ದ್ವಿವಿದೋ ಮೈಂದೋ ಜಾಂಬವಾನ್ ಪನಸೋ ನಲಃ । | 6.3.31aअङ्गदो द्विविदो मैन्दो जाम्बवान् पनसो नलः । | 6.3.30aअङ्गदो द्विविदो मैन्दो जाम्बवान्पनसो नलः । | 6.3.32aअङ्गदो द्विविदो मैन्दो जाम्बवान्पनसो नलः । | 6.3.32aअङ्गदो द्विविदो मैन्दो जाम्बवान् पनसो नलः। | ||
| 67 | #31bನೀಲಃ ಸೇನಾಪತಿಶ್ಚೈವ ಬಲಶೇಷೇಣ ಕಿಂ ತವ ॥ | 6.3.31bनीलः सेनापतिश्चैव बलशेषेण किं तव ॥ ३१ ॥ | 6.3.30bनीलः सेनापतिश्चैव बलशेषेण किं तव ॥6.3.30॥ | 6.3.32bनीलः सेनापतिश्चैव बलशेषेण किं तव ॥ ३२ ॥ | 6.3.32bनीलः सेनापतिश्चैव बलशेषेण किं तव ॥ 6.3.32 ॥ | ||
| 68 | #32aಪ್ಲವಮಾನಾ ಹಿ ಗತ್ವಾ ತ್ವಾಂ ರಾವಣಸ್ಯ ಮಹಾಪುರೀಮ್ । | 6.3.32aप्लवमाना हि गत्वा त्वां रावणस्य महापुरीम् । | 6.3.31aप्लवमाना हि गत्वा तां रावणस्य महापुरीम् । | 6.3.33aप्लवमाना हि गत्वा तां रावणस्य महापुरीम् । | |||
| 69 | #32bಸಪರ್ವತವಾನಾಂ ಭಿತ್ತ್ವಾ ಸಖಾತಾಂ ಚ ಸತೋರಣಾಮ್ । | 6.3.32bसपर्वतवनां भित्त्वा सखातां च सतोरणाम् । | 6.3.33bसपर्वतवनां भित्वा सखातां सप्रतोरणाम् । | 6.3.33aसपर्वतवनां भित्त्वा सखातां सप्रतोरणाम्। | |||
| 70 | #32cಸಪ್ರಾಕಾರಾಂ ಸಭವನಾಮಾನಯಿಷ್ಯಂತಿ ರಾಘವ ॥ | 6.3.32cसप्राकारां सभवनामानयिष्यन्ति राघव ॥ ३२ ॥ | 6.3.31bसप्रकारां सभवनामानयिष्यन्ति मैथिलीम् ॥6.3.31॥ | 6.3.33cसप्रकारां सभवनामानयिष्यन्ति राघव ॥ ३३ ॥ | 6.3.33bसप्राकारां सभवनामानयिष्यन्ति राघव ॥ 6.3.33 ॥ | ||
| 71 | #33aಏವಮಾಜ್ಞಾಪಯ ಕ್ಷಿಪ್ರಂ ಬಲಾನಾಂ ಸರ್ವಸಂಗ್ರಹಮ್ । | 6.3.33aएवमाज्ञापय क्षिप्रं बलानां सर्वसङ्ग्रहम् । | 6.3.32aएवमाज्ञापय क्षिप्रं बलानां सर्वसंग्रहम् । | 6.3.34aएवमाज्ञापय क्षिप्रं बलानां सर्वसङ्ग्रहम् । | 6.3.34aएवमाज्ञापय क्षिप्रं बलानां सर्वसङ्ग्रहम्। | ||
| 72 | #33bಮುಹೂರ್ತೇನ ತು ಯುಕ್ತೇನ ಪ್ರಸ್ಥಾನಮಭಿರೋಚಯ ॥ | 6.3.33bमुहूर्तेन तु युक्तेन प्रस्थानमभिरोचय ॥ ३३ ॥ | 6.3.32bमुहूर्तेन तु युक्तेन प्रस्थानमभिरोचय ॥6.3.32॥ | 6.3.34bमुहूर्तेन तु युक्तेन प्रस्थानमभिरोचय ॥ ३४ ॥ | 6.3.34bमुहूर्तेन तु युक्तेन प्रस्थानमभिरोचय ॥ 6.3.34 ॥ | ||
| 73 | 6.3.3इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने तृतीयः सर्गः ॥ ३ ॥ |