अशोकवाटिकायां रावणागमनम्. Built from structured/verses.jsonl. Rows are monotone-aligned half-verse/pāda-like units split at । and ॥, so verse-number boundary differences can appear as inserted or shifted line rows.
100 aligned line rows across 7 source streams.
gor-kn 65 lines
gor-hi 65 lines
crit 56 lines
gr 96 lines
dr-mula 64 lines
gr-iitk 92 lines
iitk 64 lines
| # | gor-kn | gor-hi | crit | gr | dr-mula | gr-iitk | iitk |
|---|---|---|---|---|---|---|---|
| 1 | #1aತಥಾ ವಿಪ್ರೇಕ್ಷಮಾಣಸ್ಯ ವನಂ ಪುಷ್ಪಿತಪಾದಪಮ್ । | 5.18.1aतथा विप्रेक्षमाणस्य वनं पुष्पितपादपम् । | 5.16.1aतथा विप्रेक्षमाणस्य वनं पुष्पितपादपम् । | 5.18.1aतथा विप्रेक्षमाणस्य वनं पुष्पितपादपम् । | 5.18.1aतथा विप्रेक्षमाणस्य वनं पुष्पितपादपम्। | 5.18.1aतथा विप्रेक्षमाणस्य वनं पुष्पितपादपम् । | 5.18.1aतथा विप्रेक्ष्यमाणस्य वनं पुष्पितपादपम्। |
| 2 | #1bವಿಚಿನ್ವತಶ್ಚ ವೈದೇಹೀಂ ಕಿಂಚಿಚ್ಛೇಷಾ ನಿಶಾಭವತ್ ॥ | 5.18.1bविचिन्वतश्च वैदेहीं किञ्चिच्छेषा निशाभवत् ॥ १ ॥ | 5.16.1bविचिन्वतश्च वैदेहीं किंचिच्छेषा निशाभवत् ॥5.16.1॥ | 5.18.1bविचिन्वतश्च वैदेहीं किंचिच्छेषा निशा ऽभवत् ॥ 5.18.1॥ | 5.18.1bविचिन्वतश्च वैदेहीं किञ्चिच्छेषा निशाऽभवत् ॥ 5.18.1 ॥ | 5.18.1bविचिन्वतश्च वैदेहीं किंचिच्छेषा निशा ऽभवत् ॥ ५।१८।१ ॥ | 5.18.1bविचिन्वतश्च वैदेहीं किंचिच्छेषा निशाऽभवत्॥5.18.1॥ |
| 3 | #2aಷಡಂಗವೇದವಿದುಷಾಂ ಕ್ರತುಪ್ರವರಯಾಜಿನಾಮ್ । | 5.18.2aषडङ्गवेदविदुषां क्रतुप्रवरयाजिनाम् । | 5.16.2aषडङ्गवेदविदुषां क्रतुप्रवरयाजिनाम् । | 5.18.2aषडङ्गवेदविदुषां क्रतुप्रवरयाजिनाम् । | 5.18.2aषडङ्गवेदविदुषां क्रतुप्रवरयाजिनाम्। | 5.18.2aषडङ्गवेदविदुषां क्रतुप्रवरयाजिनाम् । | 5.18.2aषडङ्गवेदविदुषां क्रतुप्रवरयाजिनाम्। |
| 4 | #2bಶುಶ್ರಾವ ಬ್ರಹ್ಮಘೋಷಾಂಶ್ಚ ವಿರಾತ್ರೇ ಬ್ರಹ್ಮರಕ್ಷಸಾಮ್ ॥ | 5.18.2bशुश्राव ब्रह्मघोषान् स विरात्रे ब्रह्मरक्षसाम् ॥ २ ॥ | 5.16.2bशुश्राव ब्रह्मघोषांश्च विरात्रे ब्रह्मरक्षसाम् ॥5.16.2॥ | 5.18.2bशुश्राव ब्रह्मघोषांश्च विरात्रे ब्रह्मरक्षसाम् ॥ 5.18.2॥ | 5.18.2bशुश्राव ब्रह्मघोषांश्च विरात्रे ब्रह्मरक्षसाम् ॥ 5.18.2 ॥ | 5.18.2bशुश्राव ब्रह्मघोषांश्च विरात्रे ब्रह्मरक्षसाम् ॥ ५।१८।२ ॥ | 5.18.2bशुश्राव ब्रह्मघोषांश्च स विरात्रे ब्रह्मरक्षसाम्॥5.18.2॥ |
| 5 | #3aಅಥ ಮಂಗಲವಾದಿತ್ರೈಃ ಶಬ್ದೈಃ ಶ್ರೋತ್ರಮನೋಹರೈಃ । | 5.18.3aअथ मङ्गलवादित्रैः शब्दैः श्रोत्रमनोहरैः । | 5.16.3aअथ मङ्गलवादित्रैः शब्दैः श्रोत्रमनोहरैः । | 5.18.3aअथ मङ्गलवादित्रैः शब्दैः श्रोत्रमनोहरैः । | 5.18.3aअथ मङ्गलवादित्रैः शब्दैः श्रोत्रमनोहरैः। | 5.18.3aअथ मङ्गलवादित्रैः शब्दैः श्रोत्रमनोहरैः । | 5.18.3aअथ मङ्गलवादित्रशब्दैः श्रुतिमनोहरैः। |
| 6 | #3bಪ್ರಾಬುಧ್ಯತ ಮಹಾಬಾಹುರ್ದಶಗ್ರೀವೋ ಮಹಾಬಲಃ ॥ | 5.18.3bप्राबोध्यत महाबाहुर्दशग्रीवो महाबलः ॥ ३ ॥ | 5.16.3bप्राबोध्यत महाबाहुर्दशग्रीवो महाबलः ॥5.16.3॥ | 5.18.3bप्राबुध्यत महाबाहुर्दशग्रीवो महाबलः ॥ 5.18.3॥ | 5.18.3bप्राबुध्यत महाबाहुर्दशग्रीवो महाबलः ॥ 5.18.3 ॥ | 5.18.3bप्राबुध्यत महाबाहुर्दशग्रीवो महाबलः ॥ ५।१८।३ ॥ | 5.18.3bप्राबुध्यत महाबाहुर्दशग्रीवो महाबलः॥5.18.3॥ |
| 7 | #4aವಿಬುಧ್ಯ ತು ಯಥಾಕಾಲಂ ರಾಕ್ಷಸೇಂದ್ರಃ ಪ್ರತಾಪವಾನ್ । | 5.18.4aविबुध्य तु महाभागो राक्षसेन्द्रः प्रतापवान् । | 5.16.4aविबुध्य तु यथाकालं राक्षसेन्द्रः प्रतावपान् । | 5.18.4aविबुध्य तु यथाकाले राक्षसेन्द्रः प्रतापवान् । | 5.18.4aविबुध्य तु यथाकाले राक्षसेन्द्रः प्रतापवान्। | 5.18.4aविबुध्य तु यथाकाले राक्षसेन्द्रः प्रतापवान् । | 5.18.4aविबुध्यतु यथाकालं राक्षसेन्द्रः प्रतापवान्। |
| 8 | #4bಸ್ರಸ್ತಮಾಲ್ಯಾಂಬರಧರೋ ವೈದೇಹೀಮನ್ವಚಿಂತಯತ್ ॥ | 5.18.4bस्रस्तमाल्याम्बरधरो वैदेहीमन्वचिन्तयत् ॥ ४ ॥ | 5.16.4bस्रस्तमाल्याम्बरधरो वैदेहीमन्वचिन्तयत् ॥5.16.4॥ | 5.18.4bस्रस्तमाल्याम्बरधरो वैदेहीमन्वचिन्तयत् ॥ 5.18.4॥ | 5.18.4bस्रस्तमाल्याम्बरधरो वैदेहीमन्वचिन्तयत् ॥ 5.18.4 ॥ | 5.18.4bस्रस्तमाल्याम्बरधरो वैदेहीमन्वचिन्तयत् ॥ ५।१८।४ ॥ | 5.18.4bस्रस्तमाल्याम्बरधरो वैदेहीमन्वचिन्तयत्॥5.18.4॥ |
| 9 | 5.18.24aविरात्रे अपररात्रे । | ||||||
| 10 | 5.18.24b“अहस्सर्वैकदेशसङ्ख्यातपुण्याच्च रात्रेः” इत्यत्र चकारादव्ययादुत्तरस्य रात्रिशब्दस्य समासान्तो ऽच् प्रत्ययः । | ||||||
| 11 | 5.18.24cब्रह्मरक्षसां ब्राह्मणत्वविशिष्टरक्षसाम् । | ||||||
| 12 | 5.18.24dब्रह्मघोषान् वेदघोषान् ॥ 5.18.24॥ | ||||||
| 13 | #5aಭೃಶಂ ನಿಯುಕ್ತಸ್ತಸ್ಯಾಂ ಚ ಮದನೇನ ಮದೋತ್ಕಟಃ । | 5.18.5aभृशं नियुक्तस्तस्यां च मदनेन मदोत्कटः । | 5.16.5aभृशं नियुक्तस्तस्यां च मदनेन मदोत्कटः । | 5.18.5aभृशं नियुक्तस्तस्यां च मदनेन मदोत्कटः । | 5.18.5aभृशं नियुक्तस्तस्यां च मदनेन मदोत्कटः। | 5.18.5aभृशं नियुक्तस्तस्यां च मदनेन मदोत्कटः । | 5.18.5aभृशं नियुक्तस्तस्यां च मदनेन मदोत्कटः। |
| 14 | #5bನ ಸ ತಂ ರಾಕ್ಷಸಃ ಕಾಮಂ ಶಶಾಕಾತ್ಮನಿ ಗೂಹಿತುಮ್ ॥ | 5.18.5bन तु तं राक्षसः कामं शशाकात्मनि गूहितुम् ॥ ५ ॥ | 5.16.5bन स तं राक्षसः कामं शशाकात्मनि गूहितुम् ॥5.16.5॥ | 5.18.5bन स तं राक्षसः कामं शशाकात्मनि गूहितुम् ॥ 5.18.5॥ | 5.18.5bन स तं राक्षसः कामं शशाकात्मनि गूहितुम् ॥ 5.18.5 ॥ | 5.18.5bन स तं राक्षसः कामं शशाकात्मनि गूहितुम् ॥ ५।१८।५ ॥ | 5.18.5bन स तं राक्षसः कामं शशाकात्मनि गूहितुम्॥5.18.5॥ |
| 15 | #6aಸ ಸರ್ವಾಭರಣೈರ್ಯುಕ್ತೋ ಬಿಭ್ರಚ್ಛ್ರಿಯಮನುತ್ತಮಾಮ್ । | 5.18.6aस सर्वाभरणैर्युक्तो बिभ्रच्छ्रियमनुत्तमाम् । | 5.16.6aस सर्वाभरणैर्युक्तो बिभ्रच्छ्रियमनुत्तमाम् । | 5.18.6aस सर्वाभरणैर्युक्तो बिभ्रच्छ्रियमनुत्तमाम् । | 5.18.6aस सर्वाभरणैर्युक्तो बिभ्रच्छ्रियमनुत्तमाम्। | 5.18.6aस सर्वाभरणैर्युक्तो बिभ्रच्छ्रियमनुत्तमाम् । | 5.18.6aस सर्वाभरणैर्युक्तो बिभ्रच्छ्रियमनुत्तमाम्। |
| 16 | #6bತಾಂ ನಗೈರ್ಬಹುಭಿರ್ಜುಷ್ಟಾಂ ಸರ್ವಪುಷ್ಪಫಲೋಪಗೈಃ ॥ | 5.18.6bतां नगैर्विविधैर्जुष्टां सर्वपुष्पफलोपगैः ॥ ६ ॥ | 5.16.6bतां नगैर्विविधैर्जुष्टां सर्वपुष्पफलोपगैः ॥5.16.6॥ | 5.18.6bतां नगैर्बहुभिर्जुष्टां सर्वपुष्पफलोपगैः ॥ 5.18.6॥ | 5.18.6bतां नगैर्बहुभिर्जुष्टां सर्वपुष्पफलोपगैः ॥ 5.18.6 ॥ | 5.18.6bतां नगैर्बहुभिर्जुष्टां सर्वपुष्पफलोपगैः ॥ ५।१८।६ ॥ | 5.18.6bतां नगैर्बहुभिर्जुष्टां सर्वपुष्पफलोपगैः॥5.18.6॥ |
| 17 | #7aವೃತಾಂ ಪುಷ್ಕರಣೀಭಿಶ್ಚ ನಾನಾ ಪುಷ್ಪೋಪಶೋಭಿತಾಮ್ । | 5.18.7aवृतां पुष्करिणीभिश्च नानापुष्पोपशोभिताम् । | 5.16.7aवृतां पुष्करिणीभिश्च नानापुष्पोपशोभिताम् । | 5.18.7aवृतां पुष्करिणीभिश्च नानापुष्पोपशोभिताम् । | 5.18.7aवृतां पुष्करिणीभिश्च नानापुष्पोपशोभिताम्। | 5.18.7aवृतां पुष्करिणीभिश्च नानापुष्पोपशोभिताम् । | 5.18.7aवृतां पुष्करिणीभिश्च नानापुष्पोपशोभिताम्। |
| 18 | #7bಸದಾಮದೈಶ್ಚ ವಿಹಗೈರ್ವಿಚಿತ್ರಾಂ ಪರಮಾದ್ಭುತೈಃ ॥ | 5.18.7bसदा मत्तैश्च विहगैर्विचित्रां परमाद्भुतैः ॥ ७ ॥ | 5.16.7bसदामदैश्च विहगैर्विचित्रां परमाद्भुताम् ॥5.16.7॥ | 5.18.7bसदामदैश्च विहगैर्विचित्रां परमाद्भुताम् ॥ 5.18.7॥ | 5.18.7bसदामदैश्च विहगैर्विचित्रां परमाद्भुताम् ॥ 5.18.7 ॥ | 5.18.7bसदामदैश्च विहगैर्विचित्रां परमाद्भुताम् ॥ ५।१८।७ ॥ | 5.18.7bसदा मदैश्च विहगैर्विचित्रां परमाद्भुताम्॥5.18.7॥ |
| 19 | 5.18.57नियुक्तः प्रेरितः ॥ 5.18.57॥ | 5.18.57नियुक्तः प्रेरितः ॥ ५।१८।५७ ॥ | |||||
| 20 | #8aಈಹಾಮೃಗೈಶ್ಚ ವಿವಿಧೈರ್ಜುಷ್ಟಾಂ ದೃಷ್ಟಿಮನೋಹರೈಃ । | 5.18.8aईहामृगैश्च विविधैर्वृतां दृष्टिमनोहरैः । | 5.16.8aईहामृगैश्च विविधैश्वृतां दृष्टिमनोहरैः । | 5.18.8aईहामृगैश्च विविधैर्जुष्टां दृष्टिमनोहरैः । | 5.18.8aईहामृगैश्च विविधैर्जुष्टां दृष्टिमनोहरैः। | 5.18.8aईहामृगैश्च विविधैर्जुष्टां दृष्टिमनोहरैः । | 5.18.8aईहामृगैश्च विविधैर्जुष्टां दृष्टिमनोहरैः। |
| 21 | #8bವೀಥೀಃ ಸಂಪ್ರೇಕ್ಷಮಾಣಶ್ಚ ಮಣಿಕಾಂಚನ ತೋರಣಾಃ ॥ | 5.18.8bवीथीः सम्प्रेक्षमाणश्च मणिकाञ्चनतोरणाम् ॥ ८ ॥ | 5.16.8bवीथीः संप्रेक्षमाणश्च मणिकाञ्चनतोरणाः ॥5.16.8॥ | 5.18.8bवीथीः संप्रेक्षमाणश्च मणिकाञ्चनतोरणाः ॥ 5.18.8॥ | 5.18.8bवीथीः सम्प्रेक्षमाणश्च मणिकाञ्चनतोरणाः ॥ 5.18.8 ॥ | 5.18.8bवीथीः संप्रेक्षमाणश्च मणिकाञ्चनतोरणाः ॥ ५।१८।८ ॥ | 5.18.8bवीधीः संप्रेक्षमाणश्च मणिकाञ्चनतोरणाः॥5.18.8॥ |
| 22 | #9aನಾನಾಮೃಗಗಣಾಕೀರ್ಣಾಂ ಫಲೈಃ ಪ್ರಪತಿತೈರ್ವೃತಾಮ್ । | 5.18.9aनानामृगगणाकीर्णां फलैः प्रपतितैर्वृताम् । | 5.16.9aनानामृगगणाकीर्णां फलैः प्रपतितैर्वृताम् । | 5.18.9aनानामृगगणाकीर्णां फलैः प्रपतितैर्वृताम् । | 5.18.9aनानामृगगणाकीर्णां फलैः प्रपतितैर्वृताम्। | 5.18.9aनानामृगगणाकीर्णां फलैः प्रपतितैर्वृताम् । | 5.18.9aनानामृगगणाकीर्णां फलैः प्रपतितैर्वृताम्। |
| 23 | #9bಅಶೋಕವನಿಕಾಮೇವ ಪ್ರಾವಿಶತ್ ಸಂತತದ್ರುಮಾಮ್ ॥ | 5.18.9bअशोकवनिकामेव प्राविशत् सन्ततद्रुमाम् ॥ ९ ॥ | 5.16.9bअशोकवनिकामेव प्राविशत्संततद्रुमाम् ॥5.16.9॥ | 5.18.9bअशोकवनिकामेव प्राविशत् सन्ततद्रुमाम् ॥ 5.18.9॥ | 5.18.9bअशोकवनिकामेव प्राविशत् सन्ततद्रुमाम् ॥ 5.18.9 ॥ | 5.18.9bअशोकवनिकामेव प्राविशत् सन्ततद्रुमाम् ॥ ५।१८।९ ॥ | 5.18.9bअशोकवनिकामेव प्राविशत्संततद्रुमाम्॥5.18.9॥ |
| 24 | 5.18.89वीथीः उद्यानवीथीः ॥ 5.18.89॥ | 5.18.89वीथीः उद्यानवीथीः ॥ ५।१८।८९ ॥ | |||||
| 25 | #10aಅಂಗನಾಃ ಶತಮಾತ್ರಂ ತು ತಂ ವ್ರಜಂತಮನುವ್ರಜನ್ । | 5.18.10aअङ्गनाः शतमात्रं तु तं व्रजन्तमनुव्रजन् । | 5.16.10aअङ्गनाशतमात्रं तु तं व्रजन्तमनुव्रजत् । | 5.18.10aअङ्गनाशतमात्रं तु तं व्रजन्तामनुव्रजत् । | 5.18.10aअङ्गनाशतमात्रं तु तं व्रजन्तामनुव्रजत्। | 5.18.10aअङ्गनाशतमात्रं तु तं व्रजन्तामनुव्रजत् । | 5.18.10aअङ्गनाशतमात्रं तु तं व्रजन्तमनुव्रजत्। |
| 26 | #10bಮಹೇಂದ್ರಮಿವ ಪೌಲಸ್ತ್ಯಂ ದೇವಗಂಧರ್ವಯೋಷಿತಃ ॥ | 5.18.10bमहेन्द्रमिव पौलस्त्यं देवगन्धर्वयोषितः ॥ १० ॥ | 5.16.10bमहेन्द्रमिव पौलस्त्यं देवगन्धर्वयोषितः ॥5.16.10॥ | 5.18.10bमहेन्द्रमिव पौलस्त्यं देवगन्धर्वयोषितः ॥ 5.18.10॥ | 5.18.10bमहेन्द्रमिव पौलस्त्यं देवगन्धर्वयोषितः ॥ 5.18.10 ॥ | 5.18.10bमहेन्द्रमिव पौलस्त्यं देवगन्धर्वयोषितः ॥ ५।१८।१० ॥ | 5.18.10bमहेन्द्रमिव पौलस्त्यं देवगन्धर्वयोषितः॥5.18.10॥ |
| 27 | #11aದೀಪಿಕಾಃ ಕಾಂಚನೀಃ ಕಾಶ್ಚಿಜ್ಜಗೃಹುಸ್ತತ್ರ ಯೋಷಿತಃ । | 5.18.11aदीपिकाः काञ्चनीः काश्चिज्जगृहुस्तत्र योषितः । | 5.16.11aदीपिकाः काञ्चनीः काश्चिज्जगृहुस्तत्र योषितः । | 5.18.11aदीपिकाः काञ्चनीः काश्चिज्जगृहृस्तत्र योषितः । | 5.18.11aदीपिकाः काञ्चनीः काश्चिज्जगृहृस्तत्र योषितः। | 5.18.11aदीपिकाः काञ्चनीः काश्चिज्जगृहृस्तत्र योषितः । | 5.18.11aदीपिकाः काञ्चनीः काश्चिज्जगृहुस्तत्र योषितः। |
| 28 | #11bವಾಲವ್ಯಜನಹಸ್ತಾಶ್ಚ ತಾಲವೃಂತಾನಿ ಚಾಪರಾಃ ॥ | 5.18.11bवालव्यजनहस्ताश्च तालवृन्तानि चापराः ॥ ११ ॥ | 5.16.11bबालव्यजनहस्ताश्च तालवृन्तानि चापराः ॥5.16.11॥ | 5.18.11bवालव्यजनहस्ताश्च तालवृन्तानि चापराः ॥ 5.18.11॥ | 5.18.11bवालव्यजनहस्ताश्च तालवृन्तानि चापराः ॥ 5.18.11 ॥ | 5.18.11bवालव्यजनहस्ताश्च तालवृन्तानि चापराः ॥ ५।१८।११ ॥ | 5.18.11bवालव्यजनहस्ताश्च तालवृन्तानि चापराः॥5.18.11॥ |
| 29 | #12aಕಾಂಚನೈರಪಿ ಭೃಂಗಾರೈರ್ಜಹ್ರುಃ ಸಲಿಲಮಗ್ರತಃ । | 5.18.12aकाञ्चनैश्चैव भृङ्गारैर्जह्रुः सलिलमग्रतः । | 5.16.12aकाञ्चनैरपि भृङ्गारैर्जह्रुः सलिलमग्रतः । | 5.18.12aकाञ्चनैरपि भृङ्गारैर्जहुः सलिलमग्रतः । | 5.18.12aकाञ्चनैरपि भृङ्गारैर्जहुः सलिलमग्रतः। | 5.18.12aकाञ्चनैरपि भृङ्गारैर्जहुः सलिलमग्रतः । | 5.18.12aकाञ्चनैरपि भृङ्गारैर्जह्रुः सलिलमग्रतः। |
| 30 | #12bಮಂಡಲಾಗ್ರಾ ಬೃಸೀಶ್ಚೈವ ಗೃಹ್ಯಾನ್ಯಾಃ ಪೃಷ್ಠತೋ ಯಯುಃ ॥ | 5.18.12bमण्डलाग्रा बृसीश्चैव गृह्यान्याः पृष्ठतो ययुः ॥ १२ ॥ | 5.16.12bमण्डलाग्रानसींश्चैव गृह्यान्याः पृष्ठतो ययुः ॥5.16.12॥ | 5.18.12bमण्डलाग्रान् बृसीं चैव गृह्यान्याः पृष्ठतो ययुः ॥ 5.18.12॥ | 5.18.12bमण्डलाग्रान् बृसीं चैव गृह्यान्याः पृष्ठतो ययुः ॥ 5.18.12 ॥ | 5.18.12bमण्डलाग्रान् बृसीं चैव गृह्यान्याः पृष्ठतो ययुः ॥ ५।१८।१२ ॥ | 5.18.12bमण्डलाग्रान् बृसीश्चापि गृह्यान्याः पृष्ठतो ययुः॥5.18.12॥ |
| 31 | #13aಕಾಚಿದ್ರತ್ನಮಯಾಂ ಸ್ಥಾಲೀಂ ಪೂರ್ಣಾಂ ಪಾನಸ್ಯ ಭಾಮಿನೀ । | 5.18.13aकाचिद् रत्नमयीं पात्रीं पूर्णां पानस्य भ्राजतीम् । | 5.16.13aकाचिद्रत्नमयीं पात्रीं पूर्णां पानस्य भामिनी । | 5.18.13aकाचिद्रत्नमयीं स्थालीं पूर्णां पानस्य भामिना । | 5.18.13aकाचिद्रत्नमयीं स्थालीं पूर्णां पानस्य भामिना। | 5.18.13aकाचिद्रत्नमयीं स्थालीं पूर्णां पानस्य भामिना । | 5.18.13aकाचिद्रत्नमयीं स्थालीं पूर्णां पानस्य भामिनी। |
| 32 | #13bದಕ್ಷಿಣಾ ದಕ್ಷಿಣೇನೈವ ತದಾ ಜಗ್ರಾಹ ಪಾಣಿನಾ ॥ | 5.18.13bदक्षिणा दक्षिणेनैव तदा जग्राह पाणिना ॥ १३ ॥ | 5.16.13bदक्षिणा दक्षिणेनैव तदा जग्राह पाणिना ॥5.16.13॥ | 5.18.13bदक्षिणा दक्षिणेनैव तदा जग्राह पाणिना ॥ 5.18.13॥ | 5.18.13bदक्षिणा दक्षिणेनैव तदा जग्राह पाणिना ॥ 5.18.13 ॥ | 5.18.13bदक्षिणा दक्षिणेनैव तदा जग्राह पाणिना ॥ ५।१८।१३ ॥ | 5.18.13bदक्षिणा दक्षिणेनैव तदा जग्राह पाणिना॥5.18.13॥ |
| 33 | #14aರಾಜಹಂಸಪ್ರತೀಕಾಶಂ ಛತ್ರಂ ಪೂರ್ಣಶಶಿಪ್ರಭಮ್ । | 5.18.14aराजहंसप्रतीकाशं छत्रं पूर्णशशिप्रभम् । | 5.16.14aराजहंसप्रतीकाशं छत्रं पूर्णशशिप्रभम् । | 5.18.14aराजहंसप्रतीकाशं छत्रं पूर्णशशिप्रभम् । | 5.18.14aराजहंसप्रतीकाशं छत्रं पूर्णशशिप्रभम्। | 5.18.14aराजहंसप्रतीकाशं छत्रं पूर्णशशिप्रभम् । | 5.18.14aराजहंसप्रतीकाशं छत्रं पूर्णशशिप्रभम्। |
| 34 | #14bಸೌವರ್ಣದಂಡಮಪರಾ ಗೃಹೀತ್ವಾ ಪೃಷ್ಠ ತೋ ಯಯೌ ॥ | 5.18.14bसौवर्णदण्डमपरा गृहीत्वा पृष्ठतो ययौ ॥ १४ ॥ | 5.16.14bसौवर्णदण्डमपरा गृहीत्वा पृष्ठतो ययौ ॥5.16.14॥ | 5.18.14bसौवर्णदण्डमपरा गृहीत्वा पृष्ठतो ययौ ॥ 5.18.14॥ | 5.18.14bसौवर्णदण्डमपरा गृहीत्वा पृष्ठतो ययौ ॥ 5.18.14 ॥ | 5.18.14bसौवर्णदण्डमपरा गृहीत्वा पृष्ठतो ययौ ॥ ५।१८।१४ ॥ | 5.18.14bसौवर्णदण्डमपरा गृहीत्वा पृष्ठतो ययौ॥5.18.14॥ |
| 35 | #15aನಿದ್ರಾಮದಪರೀತಾಕ್ಷೋ ರಾವಣಸ್ಯೋತ್ತಮಾಃ ಸ್ತ್ರಿಯಃ । | 5.18.15aनिद्रामदपरीताक्ष्यो रावणस्योत्तमस्त्रियः । | 5.16.15aनिद्रामदपरीताक्ष्यो रावणस्योत्तमस्त्रियः । | 5.18.15aनिद्रामदपरीताक्ष्यो रावणस्योत्तमाः स्त्रियः । | 5.18.15aनिद्रामदपरीताक्ष्यो रावणस्योत्तमाः स्त्रियः। | 5.18.15aनिद्रामदपरीताक्ष्यो रावणस्योत्तमाः स्त्रियः । | 5.18.15aनिद्रामदपरीताक्ष्यो रावणस्योत्तमाः स्त्रियः। |
| 36 | #15bಅನುಜಗ್ಮುಃ ಪತಿಂ ವೀರಂ ಘನಂ ವಿದ್ಯುಲ್ಲತಾ ಇವ ॥ | 5.18.15bअनुजग्मुः पतिं वीरं घनं विद्युल्लता इव ॥ १५ ॥ | 5.16.15bअनुजग्मुः पतिं वीरं घनं विद्युल्लता इव ॥5.16.15॥ | 5.18.15bअनुजग्मुः पतिं वीरं धनं विद्युल्लता इव ॥ 5.18.15॥ | 5.18.15bअनुजग्मुः पतिं वीरं धनं विद्युल्लता इव ॥ 5.18.15 ॥ | 5.18.15bअनुजग्मुः पतिं वीरं धनं विद्युल्लता इव ॥ ५।१८।१५ ॥ | 5.18.15bअनुजग्मुः पतिं वीरं घनं विद्युल्लता इव॥5.18.15॥ |
| 37 | 5.18.1315aकाचिदिति । | 5.18.1315aकाचिदिति । | |||||
| 38 | 5.18.1315bपानस्य पूर्णां पीयत इति पानं मधु तस्य पूर्णां तेन पूर्णाम् । | 5.18.1315bपानस्य पूर्णां पीयत इति पानं मधु तस्य पूर्णां तेन पूर्णाम् । | |||||
| 39 | 5.18.1315c“पूरणगुण0” इत्यादिना सुहितार्थयोगे षष्ठीसमासनिषेधज्ञापकादत्र षष्ठी । | 5.18.1315c"पूरणगुण०" इत्यादिना सुहितार्थयोगे षष्ठीसमासनिषेधज्ञापकादत्र षष्ठी । | |||||
| 40 | 5.18.1315dस्थालीं पात्रीम् ॥ 5.18.1315॥ | 5.18.1315dस्थालीं पात्रीम् ॥ ५।१८।१३१५ ॥ | |||||
| 41 | #16aವ್ಯಾವಿದ್ಧಹಾರಕೇಯೂರಾಃ ಸಮಾಮೃದಿತವರ್ಣಕಾಃ । | 5.18.16aव्याविद्धहारकेयूराः समामृदितवर्णकाः । | 5.18.16aव्याविद्धहारकेयूराः समामृदितवर्णकाः । | 5.18.16aव्याविद्धहारकेयूराः समामृदितवर्णकाः। | 5.18.16aव्याविद्धहारकेयूराः समामृदितवर्णकाः । | 5.18.16aव्याविद्धहारकेयूराः समामृदितवर्णकाः। | |
| 42 | #16bಸಮಾಗಲಿತಕೇಶಾಂತಾಃ ಸಸ್ವೇದವದನಾಸ್ತಥಾ ॥ | 5.18.16bसमागलितकेशान्ताः सस्वेदवदनास्तथा ॥ १६ ॥ | 5.18.16bसमागलितकेशान्ताः सस्वेदवदनास्तथा ॥ 5.18.16॥ | 5.18.16bसमागलितकेशान्ताः सस्वेदवदनास्तथा ॥ 5.18.16 ॥ | 5.18.16bसमागलितकेशान्ताः सस्वेदवदनास्तथा ॥ ५।१८।१६ ॥ | 5.18.16bसमागलितकेशान्तास्सस्वेदवदनास्तथा॥5.18.16॥ | |
| 43 | #17aಘೂರ್ಣಂತ್ಯೋ ಮದಶೇಷೇಣ ನಿದ್ರಯಾ ಚ ಶುಭಾನನಾಃ । | 5.18.17aघूर्णन्त्यो मदशेषेण निद्रया च शुभाननाः । | 5.18.17aघूर्णन्त्यो मदशेषेण निद्र्या च शुभाननाः । | 5.18.17aघूर्णन्त्यो मदशेषेण निद्र्या च शुभाननाः। | 5.18.17aघूर्णन्त्यो मदशेषेण निद्र्या च शुभाननाः । | 5.18.17aघूर्णन्त्यो मदशेषेण निद्रया च शुभाननाः। | |
| 44 | #17bಸ್ವೇದಕ್ಲಿಷ್ಟಾಂಗಕುಸುಮಾಃ ಸುಮಾಲ್ಯಾಕುಲಮೂರ್ಧಜಾಃ ॥ | 5.18.17bस्वेदक्लिष्टाङ्गकुसुमाः समाल्याकुलमूर्धजाः ॥ १७ ॥ | 5.18.17bस्वेदक्लिष्टाङ्गकुसुमाः सुमाल्याकुलमूर्धजाः ॥ 5.18.17॥ | 5.18.17bस्वेदक्लिष्टाङ्गकुसुमाः सुमाल्याकुलमूर्धजाः ॥ 5.18.17 ॥ | 5.18.17bस्वेदक्लिष्टाङ्गकुसुमाः सुमाल्याकुलमूर्धजाः ॥ ५।१८।१७ ॥ | 5.18.17bस्वेदक्लिष्टाङ्गकुसुमास्सुमाल्याकुलमूर्धजाः॥5.18.17॥ | |
| 45 | #18aಪ್ರಯಾಂತಂ ನೈರ್ಋತಪತಿಂ ನಾರ್ಯೋ ಮದಿರಲೋಚನಾಃ । | 5.18.18aप्रयान्तं नैर्ऋतपतिं नार्यो मदिरलोचनाः । | 5.18.18aप्रयान्तं नैर्ऋतपतिं नार्यो मदिरलोचनाः । | 5.18.18aप्रयान्तं नैर्ऋतपतिं नार्यो मदिरलोचनाः। | 5.18.18aप्रयान्तं नैर्ऋतपतिं नार्यो मदिरलोचनाः । | 5.18.18aप्रयान्तं नैऋतपतिं नार्यो मदिरलोचनाः। | |
| 46 | #18bಬಹುಮಾನಾಚ್ಚ ಕಾಮಾಚ್ಚ ಪ್ರಿಯಾ ಭಾರ್ಯಾಸ್ತಮನ್ವಯುಃ ॥ | 5.18.18bबहुमानाच्च कामाच्च प्रियभार्यास्तमन्वयुः ॥ १८ ॥ | 5.18.18bबहुमानाच्च कामाच्च प्रिया भार्यास्तमन्वयुः ॥ 5.18.18॥ | 5.18.18bबहुमानाच्च कामाच्च प्रिया भार्यास्तमन्वयुः ॥ 5.18.18 ॥ | 5.18.18bबहुमानाच्च कामाच्च प्रिया भार्यास्तमन्वयुः ॥ ५।१८।१८ ॥ | 5.18.18bबहुमानाच्च कामाच्च प्रिया भार्यास्तमन्वयुः॥5.18.18॥ | |
| 47 | 5.18.1618aव्याविद्धेति । | 5.18.1618aव्याविद्धेति । | |||||
| 48 | 5.18.1618bव्याविद्धाः व्यत्यस्ततया न्यस्ताः । | 5.18.1618bव्याविद्धाः व्यत्यस्ततया न्यस्ताः । | |||||
| 49 | 5.18.1618cसमामृदितवर्णकाः सम्मृष्टानुलेपनाः । | 5.18.1618cसमामृदितवर्णकाः सम्मृष्टानुलेपनाः । | |||||
| 50 | 5.18.1618d“अङ्गरागः समालम्भो वर्णकश्च विलेपनम् । | 5.18.1618d"अङ्गरागः समालम्भो वर्णकश्च विलेपनम् । | |||||
| 51 | 5.18.1618e” इति निघण्टुः ॥ 5.18.1618॥ | 5.18.1618e" इति निघण्टुः ॥ ५।१८।१६१८ ॥ | |||||
| 52 | #19aಸ ಚ ಕಾಮಪರಾಧೀನಃ ಪತಿಸ್ತಾಸಾಂ ಮಹಾಬಲಃ । | 5.18.19aस च कामपराधीनः पतिस्तासां महाबलः । | 5.18.19aस च कामपराधीनाः पतिस्तासां महाबलः । | 5.18.19aस च कामपराधीनाः पतिस्तासां महाबलः। | 5.18.19aस च कामपराधीनाः पतिस्तासां महाबलः । | 5.18.19aस च कामपराधीनः पतिस्तासां महाबलः। | |
| 53 | #19bಸೀತಾಸಕ್ತಮನಾ ಮಂದೋ ಮದಾಂಚಿತಗತಿರ್ಬಭೌ ॥ | 5.18.19bसीतासक्तमना मन्दो मन्दाञ्चितगतिर्बभौ ॥ १९ ॥ | 5.18.19bसीतासक्तमना मन्दो मदाञ्चितगतिर्बभौ ॥ 5.18.19॥ | 5.18.19bसीतासक्तमना मन्दो मदाञ्चितगतिर्बभौ ॥ 5.18.19 ॥ | 5.18.19bसीतासक्तमना मन्दो मदाञ्चितगतिर्बभौ ॥ ५।१८।१९ ॥ | 5.18.19bसीतासक्तमना मन्दो मन्दाञ्चितगतिर्बभौ॥5.18.19॥ | |
| 54 | #20aತತಃ ಕಾಂಚೀನಿನಾದಂ ಚ ನೂಪುರಾಣಾಂ ಚ ನಿಃಸ್ವನಮ್ । | 5.18.20aततः काञ्चीनिनादं च नूपुराणां च निःस्वनम् । | 5.16.16aततः काञ्चीनिनादं च नूपुराणां च निःस्वनम् । | 5.18.20aततः काञ्चीनिनादं च नूपुराणां च निःस्वनम् । | 5.18.20aततः काञ्चीनिनादं च नूपुराणां च निःस्वनम्। | 5.18.20aततः काञ्चीनिनादं च नूपुराणां च निःस्वनम् । | 5.18.20aततः काञ्चीनिनादं च नूपुराणां च निस्वनम्। |
| 55 | #20bಶುಶ್ರಾವ ಪರಮಸ್ತ್ರೀಣಾಂ ಸ ಕಪಿರ್ಮಾರುತಾತ್ಮಜಃ ॥ | 5.18.20bशुश्राव परमस्त्रीणां कपिर्मारुतनन्दनः ॥ २० ॥ | 5.16.16bशुश्राव परमस्त्रीणां स कपिर्मारुतात्मजः ॥5.16.16॥ | 5.18.20bशुश्राव परमस्त्रीणां स कपिर्मारुतात्मजः ॥ 5.18.20॥ | 5.18.20bशुश्राव परमस्त्रीणां स कपिर्मारुतात्मजः ॥ 5.18.20 ॥ | 5.18.20bशुश्राव परमस्त्रीणां स कपिर्मारुतात्मजः ॥ ५।१८।२० ॥ | 5.18.20bशुश्राव परमस्त्रीणां स कपिर्मारुतात्मजः॥5.18.20॥ |
| 56 | 5.18.1920मदेनाञ्चिता गतिर्यस्य स मदाञ्चितगतिः ॥ 5.18.1920॥ | 5.18.1920मदेनाञ्चिता गतिर्यस्य स मदाञ्चितगतिः ॥ ५।१८।१९२० ॥ | |||||
| 57 | #21aತಂ ಚಾಪ್ರತಿಮಕರ್ಮಾಣಮಚಿಂತ್ಯಬಲಪೌರುಷಮ್ । | 5.18.21aतं चाप्रतिमकर्माणमचिन्त्यबलपौरुषम् । | 5.16.17aतं चाप्रतिमकर्माणमचिन्त्यबलपौरुषम् । | 5.18.21aतं चाप्रतिमकर्माणमचिन्त्यबलपौरुषम् । | 5.18.21aतं चाप्रतिमकर्माणमचिन्त्यबलपौरुषम्। | 5.18.21aतं चाप्रतिमकर्माणमचिन्त्यबलपौरुषम् । | 5.18.21aतं चाप्रतिमकर्माणमचिन्त्यबलपौरुषम्। |
| 58 | #21bದ್ವಾರದೇಶಮನುಪ್ರಾಪ್ತಂ ದದರ್ಶ ಹನುಮಾನ್ ಕಪಿಃ ॥ | 5.18.21bद्वारदेशमनुप्राप्तं ददर्श हनुमान् कपिः ॥ २१ ॥ | 5.16.17bद्वारदेशमनुप्राप्तं ददर्श हनुमान्कपिः ॥5.16.17॥ | 5.18.21bद्वारदेशमनुप्राप्तं ददर्श हनुमान् कपिः ॥ 5.18.21॥ | 5.18.21bद्वारदेशमनुप्राप्तं ददर्श हनुमान् कपिः ॥ 5.18.21 ॥ | 5.18.21bद्वारदेशमनुप्राप्तं ददर्श हनुमान् कपिः ॥ ५।१८।२१ ॥ | 5.18.21bद्वारदेशमनुप्राप्तं ददर्श हनुमान् कपिः॥5.18.21॥ |
| 59 | #22aದೀಪಿಕಾಭಿರನೇಕಾಭಿಃ ಸಮಂತಾದವಭಾಸಿತಮ್ । | 5.18.22aदीपिकाभिरनेकाभिः समन्तादवभासितम् । | 5.16.18aदीपिकाभिरनेकाभिः समन्तादवभासितम् । | 5.18.22aदीपिकाभिरनेकाभिः समन्तादवभासितम् । | 5.18.22aदीपिकाभिरनेकाभिः समन्तादवभासितम्। | 5.18.22aदीपिकाभिरनेकाभिः समन्तादवभासितम् । | 5.18.22aदीपिकाभिरनेकाभिः समन्तादवभासितम्। |
| 60 | #22bಗಂಧತೈಲಾವಸಿಕ್ತಾಭಿರ್ಧ್ರಿಯಮಾಣಾಭಿರಗ್ರತಃ ॥ | 5.18.22bगन्धतैलावसिक्ताभिर्ध्रियमाणाभिरग्रतः ॥ २२ ॥ | 5.16.18bगन्धतैलावसिक्ताभिर्ध्रियमाणाभिरग्रतः ॥5.16.18॥ | 5.18.22bगन्धतैलावसिक्ताभिर्ध्रियमाणाभिरग्रतः ॥ 5.18.22॥ | 5.18.22bगन्धतैलावसिक्ताभिर्ध्रियमाणाभिरग्रतः ॥ 5.18.22 ॥ | 5.18.22bगन्धतैलावसिक्ताभिर्ध्रियमाणाभिरग्रतः ॥ ५।१८।२२ ॥ | 5.18.22bगन्धतैलावसिक्ताभिर्ध्रियमाणाभिरग्रतः॥5.18.22॥ |
| 61 | #23aಕಾಮದರ್ಪಮದೈರ್ಯುಕ್ತಂ ಜಿಹ್ಮತಾಮ್ರಾಯತೇಕ್ಷಣಮ್ । | 5.18.23aकामदर्पमदैर्युक्तं जिह्मताम्रायतेक्षणम् । | 5.16.19aकामदर्पमदैर्युक्तं जिह्मताम्रायतेक्षणम् । | 5.18.23aकामदर्पमदैर्युक्तं जिह्मताम्रायतेक्षणम् । | 5.18.23aकामदर्पमदैर्युक्तं जिह्मताम्रायतेक्षणम्। | 5.18.23aकामदर्पमदैर्युक्तं जिह्मताम्रायतेक्षणम् । | 5.18.23aकामदर्पमदैर्युक्तं जिह्मताम्रायतेक्षणम्। |
| 62 | #23bಸಮಕ್ಷಮಿವ ಕಂದರ್ಪಮಪವಿದ್ಧಶರಾಸನಮ್ ॥ | 5.18.23bसमक्षमिव कन्दर्पमपविद्धशरासनम् ॥ २३ ॥ | 5.16.19bसमक्षमिव कन्दर्पमपविद्ध शरासनम् ॥5.16.19॥ | 5.18.23bसमक्षमिव कन्दर्पमपविद्धशरासनम् ॥ 5.18.23॥ | 5.18.23bसमक्षमिव कन्दर्पमपविद्धशरासनम् ॥ 5.18.23 ॥ | 5.18.23bसमक्षमिव कन्दर्पमपविद्धशरासनम् ॥ ५।१८।२३ ॥ | 5.18.23bसमक्षमिव कन्दर्पमपविद्धशरासनम्॥5.18.23॥ |
| 63 | #24aಮಥಿತಾಮೃತೇನಾಭಮರಜೋವಸ್ತ್ರಮುತ್ತಮಮ್ । | 5.18.24aमथितामृतफेनाभमरजोवस्त्रमुत्तमम् । | 5.16.20aमथितामृतफेनाभमरजो वस्त्रमुत्तमम् । | 5.18.24aमथितामृतफेनाभमरजो वस्त्रमुत्तमम्। | 5.18.24aमथितामृतफेनाभमरजो वस्त्रमुत्तमम् । | 5.18.24aमथितामृतफेनाभमरजोवस्त्रमुत्तमम्। | |
| 64 | #24bಸಲೀಲಮನುಕರ್ಷಂತಂ ವಿಮುಕ್ತಂ ಸಕ್ತಮಂಗದೇ ॥ | 5.18.24bसपुष्पमवकर्षन्तं विमुक्तं सक्तमङ्गदे ॥ २४ ॥ | 5.16.20bसलीलमनुकर्षन्तं विमुक्तं सक्तमङ्गदे ॥5.16.20॥ | 5.18.24bसलीलमनुकर्षन्तं विमुक्तं सक्तमङ्गदे ॥ 5.18.24 ॥ | 5.18.24bसलीलमनुकर्षन्तं विमुक्तं सक्तमङ्गदे ॥ ५।१८।२४ ॥ | 5.18.24bसलीलमनुकर्षन्तं विमुक्तं सक्तमङ्गदे॥5.18.24॥ | |
| 65 | #25aತಂ ಪತ್ರವಿಟಪೇ ಲೀನಃ ಪತ್ರಪುಷ್ಪಘನಾವೃತಃ । | 5.18.25aतं पत्रविटपे लीनः पत्रपुष्पशतावृतः । | 5.16.21aतं पत्रविटपे लीनः पत्रपुष्पघनावृतः । | 5.18.25aतं पत्रविटपे लीनः पत्रपुष्पघनावृतः । | 5.18.25aतं पत्रविटपे लीनः पत्रपुष्पघनावृतः। | 5.18.25aतं पत्रविटपे लीनः पत्रपुष्पघनावृतः । | 5.18.25aतं पत्रविटपे लीनः पत्रपुष्पघनावृतः। |
| 66 | #25bಸಮೀಪಮುಪಸಂಕ್ರಾಂತಂ ನಿಧ್ಯಾತುಮುಪಚಕ್ರಮೇ ॥ | 5.18.25bसमीपमुपसङ्क्रान्तं विज्ञातुमुपचक्रमे ॥ २५ ॥ | 5.16.21bसमीपमुपसंक्रान्तं निध्यातुमुपचक्रमे ॥5.16.21॥ | 5.18.25bसमीपमिव संक्रान्तं निध्यातुमुपचक्रमे ॥ 5.18.25॥ | 5.18.25bसमीपमिव सङ्क्रान्तं निध्यातुमुपचक्रमे ॥ 5.18.25 ॥ | 5.18.25bसमीपमिव संक्रान्तं निध्यातुमुपचक्रमे ॥ ५।१८।२५ ॥ | 5.18.25bसमीपमिव संक्रान्तं निध्यातुमुपचक्रमे॥5.18.25॥ |
| 67 | #26aಅವೇಕ್ಷಮಾಣಸ್ತು ತತೋ ದದರ್ಶ ಕಪಿಕುಂಜರಃ । | 5.18.26aअवेक्षमाणस्तु तदा ददर्श कपिकुञ्जरः । | 5.16.22aअवेक्षमाणश्च ततो ददर्श कपिकुञ्जरः । | 5.18.26aअवेक्षमाणस्तु ततो ददर्श कपिकुञ्जरः । | 5.18.26aअवेक्षमाणस्तु ततो ददर्श कपिकुञ्जरः। | 5.18.26aअवेक्षमाणस्तु ततो ददर्श कपिकुञ्जरः । | 5.18.26aअवेक्षमाणस्तु ततो ददर्श कपिकुञ्जरः। |
| 68 | #26bರೂಪಯೌವನಸಂಪನ್ನಾ ರಾವಣಸ್ಯ ವರಸ್ತ್ರಿಯಃ ॥ | 5.18.26bरूपयौवनसम्पन्ना रावणस्य वरस्त्रियः ॥ २६ ॥ | 5.16.22bरूपयौवनसंपन्ना रावणस्य वरस्त्रियः ॥5.16.22॥ | 5.18.26bरूपयौवनसम्पन्ना रावणस्य वरस्त्रियः ॥ 5.18.26॥ | 5.18.26bरूपयौवनसम्पन्ना रावणस्य वरस्त्रियः ॥ 5.18.26 ॥ | 5.18.26bरूपयौवनसम्पन्ना रावणस्य वरस्त्रियः ॥ ५।१८।२६ ॥ | 5.18.26bरूपयौवनसम्पन्ना रावणस्य वरस्त्रियः॥5.18.26॥ |
| 69 | 5.18.2526aतमिति । | 5.18.2526aतमिति । | |||||
| 70 | 5.18.2526bपत्रविटपे पत्रवति विटपे । | 5.18.2526bपत्रविटपे पत्रवति विटपे । | |||||
| 71 | 5.18.2526cलीनः छन्नः । | 5.18.2526cलीनः छन्नः । | |||||
| 72 | 5.18.2526dपत्रपुष्पघनावृतः पत्रपुष्पसमूहावृतः । | 5.18.2526dपत्रपुष्पघनावृतः पत्रपुष्पसमूहावृतः । | |||||
| 73 | 5.18.2526eइवशब्दो वाक्यालङ्कारे । | 5.18.2526eइवशब्दो वाक्यालङ्कारे । | |||||
| 74 | 5.18.2526fयद्वा दूरे समागतमपि तेजसा समीपे संक्रान्तमिव स्थितम् । | 5.18.2526fयद्वा दूरे समागतमपि तेजसा समीपे संक्रान्तमिव स्थितम् । | |||||
| 75 | 5.18.2526gतं निध्यातुं द्रष्टुमुपचक्रमे । | 5.18.2526gतं निध्यातुं द्रष्टुमुपचक्रमे । | |||||
| 76 | 5.18.2526h“निर्वर्णनं तु निध्यानं दर्शनालोकनेक्षणम्” इत्यमरः ॥ 4.18.2526॥ | 5.18.2526h"निर्वर्णनं तु निध्यानं दर्शनालोकनेक्षणम्" इत्यमरः ॥ ४।१८।२५२६ ॥ | |||||
| 77 | #27aತಾಭಿಃ ಪರಿವೃತೋ ರಾಜಾ ಸುರೂಪಾಭಿರ್ಮಹಾಯಶಾಃ । | 5.18.27aताभिः परिवृतो राजा सुरूपाभिर्महायशाः । | 5.16.23aताभिः परिवृतो राजा सुरूपाभिर्महायशाः । | 5.18.27aताभिः परिवृतो राजा सुरूपाभिर्महायशाः । | 5.18.27aताभिः परिवृतो राजा सुरूपाभिर्महायशाः। | 5.18.27aताभिः परिवृतो राजा सुरूपाभिर्महायशाः । | 5.18.27aताभिः परिवृतो राजा सुरूपाभिर्महायशाः। |
| 78 | #27bತನ್ಮೃಗದ್ವಿಜಸಂಘುಷ್ಟಂ ಪ್ರವಿಷ್ಟಃ ಪ್ರಮದಾವನಮ್ ॥ | 5.18.27bतन्मृगद्विजसङ्घुष्टं प्रविष्टः प्रमदावनम् ॥ २७ ॥ | 5.16.23bतन्मृगद्विजसंघुष्टं प्रविष्टः प्रमदावनम् ॥5.16.23॥ | 5.18.27bतन्मृगद्विजसंवुष्टं प्रविष्टः प्रमदावनम् ॥ 5.18.27॥ | 5.18.27bतन्मृगद्विजसंवुष्टं प्रविष्टः प्रमदावनम् ॥ 5.18.27 ॥ | 5.18.27bतन्मृगद्विजसंवुष्टं प्रविष्टः प्रमदावनम् ॥ ५।१८।२७ ॥ | 5.18.27bतन्मृगद्विजसङ्घुष्टं प्रविष्टः प्रमदावनम्॥5.18.27॥ |
| 79 | #28aಕ್ಷೀಭೋ ವಿಚಿತ್ರಾಭರಣಃ ಶಂಕುಕರ್ಣೋ ಮಹಾಬಲಃ । | 5.18.28aक्षीबो विचित्राभरणः शङ्कुकर्णो महाबलः । | 5.16.24aक्षीबो विचित्राभरणः शङ्कुकर्णो महाबलः । | 5.18.28aक्षीबो विचित्राभरणः शङ्कुकर्णो महाबलः । | 5.18.28aक्षीबो विचित्राभरणः शङ्कुकर्णो महाबलः। | 5.18.28aक्षीबो विचित्राभरणः शङ्कुकर्णो महाबलः । | 5.18.28aक्षीबो विचित्राभरणः शङ्कुकर्णो महाबलः। |
| 80 | #28bತೇನ ವಿಶ್ರವಸಃ ಪುತ್ರಃ ಸ ದೃಷ್ಟೋ ರಾಕ್ಷಸಾಧಿಪಃ ॥ | 5.18.28bतेन विश्रवसः पुत्रः स दृष्टो राक्षसाधिपः ॥ २८ ॥ | 5.16.24bतेन विश्रवसः पुत्रः स दृष्टो राक्षसाधिपः ॥5.16.24॥ | 5.18.28bतेन विश्रवसः पुत्रः स दृष्टो राक्षसाधिपः ॥ 5.18.28॥ | 5.18.28bतेन विश्रवसः पुत्रः स दृष्टो राक्षसाधिपः ॥ 5.18.28 ॥ | 5.18.28bतेन विश्रवसः पुत्रः स दृष्टो राक्षसाधिपः ॥ ५।१८।२८ ॥ | 5.18.28bतेन विश्रवसः पुत्रः स दृष्टो राक्षसाधिपः॥5.18.28॥ |
| 81 | #29aವೃತಃ ಪರಮನಾರೀಭಿಸ್ತಾರಾಭಿರಿವ ಚಂದ್ರಮಾಃ । | 5.18.29aवृतः परमनारीभिस्ताराभिरिव चन्द्रमाः । | 5.16.25aवृतः परमनारीभिस्ताराभिरिव चन्द्रमाः । | 5.18.29aवृतः परमनारीभिस्ताराभिरिव चन्द्रमाः । | 5.18.29aवृतः परमनारीभिस्ताराभिरिव चन्द्रमाः। | 5.18.29aवृतः परमनारीभिस्ताराभिरिव चन्द्रमाः । | 5.18.29aवृतः परमनारीभिस्ताराभिरिव चन्द्रमाः। |
| 82 | #29bತಂ ದದರ್ಶ ಮಹಾತೇಜಾಸ್ತೇಜೋವಂತಂ ಮಹಾಕಪಿಃ ॥ | 5.18.29bतं ददर्श महातेजास्तेजोवन्तं महाकपिः ॥ २९ ॥ | 5.16.25bतं ददर्श महातेजास्तेजोवन्तं महाकपिः ॥5.16.25॥ | 5.18.29bतं ददर्श महातेजास्तेजोवन्तं महाकपिः ॥ 5.18.29॥ | 5.18.29bतं ददर्श महातेजास्तेजोवन्तं महाकपिः ॥ 5.18.29 ॥ | 5.18.29bतं ददर्श महातेजास्तेजोवन्तं महाकपिः ॥ ५।१८।२९ ॥ | 5.18.29bतं ददर्श महातेजास्तेजोवन्तं महाकपिः॥5.18.29॥ |
| 83 | 5.18.2829aक्षीब इति । | ||||||
| 84 | 5.18.2829bक्षीबः मत्तः । | ||||||
| 85 | 5.18.2829cशङ्कुकर्णः गर्वेण स्तब्धकर्ण इत्यर्थः ॥ 5.18.2829॥ | ||||||
| 86 | #30aರಾವಣೋಽಯಂ ಮಹಾಬಾಹುರಿತಿ ಸಂಚಿಂತ್ಯ ವಾನರಃ । | 5.18.30aरावणोऽयं महाबाहुरिति सञ्चिन्त्य वानरः । | 5.16.26aरावणोऽयं महाबाहुरिति संचिन्त्य वानरः । | 5.18.30aरावणो ऽयं महाबाहुरिति संचिन्त्य वानरः । | 5.18.30aरावणोऽयं महाबाहुरिति सञ्चिन्त्य वानरः। | 5.18.30aरावणो ऽयं महाबाहुरिति संचिन्त्य वानरः । | 5.18.30aरावणोऽयं महाबाहुरिति सञ्चिन्त्य वानरः। |
| 87 | #30bಸೋಽಯಮೇವ ಪುರಾ ಶೇತೇ ಪುರಮಧ್ಯೇ ಗೃಹೋತ್ತಮೇ । | 5.18.30bसोऽयमेव पुरा शेते पुरमध्ये गृहोत्तमे । | |||||
| 88 | #30cಅವಪ್ಲುತೋ ಮಹಾತೇಜಾ ಹನುಮಾನ್ ಮಾರುತಾತ್ಮಜಃ ॥ | 5.18.30cअवप्लुतो महातेजा हनूमान् मारुतात्मजः ॥ ३० ॥ | 5.16.26bअवप्लुतो महातेजा हनूमान्मारुतात्मजः ॥5.16.26॥ | 5.18.30bअवप्लुतो महातेजा हनुमान् मारुतात्मजः ॥ 5.18.30॥ | 5.18.30bअवप्लुतो महातेजा हनुमान् मारुतात्मजः ॥ 5.18.30 ॥ | 5.18.30bअवप्लुतो महातेजा हनुमान् मारुतात्मजः ॥ ५।१८।३० ॥ | 5.18.30bअवप्लुतो महातेजा हनुमान्मारुतात्मजः॥5.18.30॥ |
| 89 | #31aಸ ತಥಾಪ್ಯುಗ್ರತೇಜಾಃ ಸನ್ನಿರ್ಧೂತಸ್ತಸ್ಯ ತೇಜಸಾ । | 5.18.31aस तथाप्युग्रतेजाः स निर्धूतस्तस्य तेजसा । | 5.16.27aस तथाप्युग्रतेजाः सन्निर्धूतस्तस्य तेजसा । | 5.18.31aस तथा प्युग्रतेजाः सन् निर्धूतस्तस्य तेजसा । | 5.18.31aस तथा प्युग्रतेजाः सन् निर्धूतस्तस्य तेजसा। | 5.18.31aस तथा प्युग्रतेजाः सन् निर्धूतस्तस्य तेजसा । | 5.18.31aस तथाप्युग्रतेजाः सन्निर्धूतस्तस्य तेजसा। |
| 90 | #31bಪತ್ರಗುಲ್ಮಾಂತರೇ ಸಕ್ತೋ ಹನುಮಾನ್ ಸಂವೃತೋಽಭವತ್ ॥ | 5.18.31bपत्रे गुह्यान्तरे सक्तो मतिमान् संवृतोऽभवत् ॥ ३१ ॥ | 5.16.27bपत्रगुह्यान्तरे सक्तो हनूमान्संवृतोऽभवत् ॥5.16.27॥ | 5.18.31bपत्रगुह्यान्तरे सक्तो हनुमान् संवृतो ऽभवत् ॥ 5.18.31॥ | 5.18.31bपत्रगुह्यान्तरे सक्तो हनुमान् संवृतोऽभवत् ॥ 5.18.31 ॥ | 5.18.31bपत्रगुह्यान्तरे सक्तो हनुमान् संवृतो ऽभवत् ॥ ५।१८।३१ ॥ | 5.18.31bपत्रगुह्यान्तरे सक्तो हनुमान् संवृतोऽभवत्॥5.18.31॥ |
| 91 | #32aಸ ತಾಮಸಿತಕೇಶಾಂತಾಂ ಸುಶ್ರೋಣೀಂ ಸಂಹತಸ್ತನೀಮ್ । | 5.18.32aस तामसितकेशान्तां सुश्रोणीं संहतस्तनीम् । | 5.16.28aस तामसितकेशान्तां सुश्रोणीं संहतस्तनीम् । | 5.18.32aस तामसितकेशान्तां सुश्रोणीं संहतस्तनीम् । | 5.18.32aस तामसितकेशान्तां सुश्रोणीं संहतस्तनीम्। | 5.18.32aस तामसितकेशान्तां सुश्रोणीं संहतस्तनीम् । | 5.18.32aस तामसितकेशान्तां सुश्रोणीं संहतस्त्नीम्। |
| 92 | #32bದಿದೃಕ್ಷುರಸಿತಾಪಾಂಗಾಮುಪಾವರ್ತತ ರಾವಣಃ ॥ | 5.18.32bदिदृक्षुरसितापाङ्गीमुपावर्तत रावणः ॥ ३२ ॥ | 5.16.28bदिदृक्षुरसितापाङ्गीमुपावर्तत रावणः ॥5.16.28॥ | 5.18.32bदुदृक्षुरसितापाङ्गामुपावर्तत रावणः ॥ 5.18.32॥ | 5.18.32bदुदृक्षुरसितापाङ्गामुपावर्तत रावणः ॥ 5.18.32 ॥ | 5.18.32bदुदृक्षुरसितापाङ्गामुपावर्तत रावणः ॥ ५।१८।३२ ॥ | 5.18.32bदिदृक्षुरसितापाङ्गामुपावर्तत रावणः॥5.18.32॥ |
| 93 | #39सर्गः ॥ ५।१८ ॥ | ||||||
| 94 | 5.18.3132aसः हनुमान् । | 5.18.3132aसः हनुमान् । | |||||
| 95 | 5.18.3132bतथा पूर्वोक्तरीत्या । | 5.18.3132bतथा पूर्वोक्तरीत्या । | |||||
| 96 | 5.18.3132cउग्रतेजास्सन्नपि । | 5.18.3132cउग्रतेजास्सन्नपि । | |||||
| 97 | 5.18.3132dतस्य रावणस्य । | 5.18.3132dतस्य रावणस्य । | |||||
| 98 | 5.18.3132eतेजसा निर्धूतः सन् । | 5.18.3132eतेजसा निर्धूतः सन् । | |||||
| 99 | 5.18.3132fपत्रगुह्यान्तरे पत्रगूढप्रदेशे । | 5.18.3132fपत्रगुह्यान्तरे पत्रगूढप्रदेशे । | |||||
| 100 | 5.18.3132gसंवृतो ऽभवत् गूढो ऽभवत् ॥ 5.18.3132॥ | 5.18.3132gसंवृतो ऽभवत् गूढो ऽभवत् ॥ ५।१८।३१३२ ॥ |