प्राचीं प्रति वानरप्रेषणम्. Built from structured/verses.jsonl. Rows are monotone-aligned half-verse/pāda-like units split at । and ॥, so verse-number boundary differences can appear as inserted or shifted line rows.
192 aligned line rows across 7 source streams.
gor-kn 143 lines
gor-hi 143 lines
crit 127 lines
gr 186 lines
dr-mula 137 lines
gr-iitk 173 lines
iitk 141 lines
| # | gor-kn | gor-hi | crit | gr | dr-mula | gr-iitk | iitk |
|---|---|---|---|---|---|---|---|
| 1 | #1aಅಥ ರಾಜಾ ಸಮೃದ್ಧಾರ್ಥಃ ಸುಗ್ರೀವಃ ಪ್ಲವಗೇಶ್ವರಃ । | 4.40.1aअथ राजा समृद्धार्थः सुग्रीवः प्लवगेश्वरः । | 4.39.1aअथ राजा समृद्धार्थः सुग्रीवः प्लवगेश्वरः । | 4.40.1aअथ राजा समृद्धार्थः सुग्रीवः प्लवगेश्वरः । | 4.40.1aअथ राजा समृद्धार्थः सुग्रीवः प्लवगेश्वरः। | 4.40.1aअथ राजा समृद्धार्थः सुग्रीवः प्लवगेश्वरः । | 4.40.1aअथ राजा समृद्धार्थस्सुग्रीवः प्लवगेश्वरः। |
| 2 | #1bಉವಾಚ ನರಶಾರ್ದೂಲಂ ರಾಮಂ ಪರಬಲಾರ್ದನಮ್ ॥ | 4.40.1bउवाच नरशार्दूलं रामं परबलार्दनम् ॥ १ ॥ | 4.39.1bउवाच नरशार्दूलं रामं परबलार्दनम् ॥4.39.1॥ | 4.40.1bउवाच नरशार्दूलं रामं परबलार्दनम् ॥ 4.40.1 ॥ | 4.40.1bउवाच नरशार्दूलं रामं परबलार्दनम् ॥ 4.40.1 ॥ | 4.40.1bउवाच नरशार्दूलं रामं परबलार्दनम् ॥ ४।४०।१ ॥ | 4.40.1bउवाच नरशार्दूलं रामं परबलार्दनम्॥4.40.1॥ |
| 3 | #2aಆಗತಾ ವಿನಿವಿಷ್ಟಾಶ್ಚ ಬಲಿನಃ ಕಾಮರೂಪಿಣಃ । | 4.40.2aआगता विनिविष्टाश्च बलिनः कामरूपिणः । | 4.39.2aआगता विनिविष्टाश्च बलिनः कामरूपिणः । | 4.40.2aआगता विनिविष्टाश्च बलिनः कामरूपिणः । | 4.40.2aआगता विनिविष्टाश्च बलिनः कामरूपिणः। | 4.40.2aआगता विनिविष्टाश्च बलिनः कामरूपिणः । | 4.40.2aआगता विनिविष्टाश्च बलिनः कामरूपिणः। |
| 4 | #2bವಾನರೇಂದ್ರ ಮಹೇಂದ್ರಾಭಾ ಯೇ ಮದ್ವಿಷಯವಾಸಿನಃ ॥ | 4.40.2bवानरेन्द्रा महेन्द्राभा ये मद्विषयवासिनः ॥ २ ॥ | 4.39.2bवानरेन्द्रा महेन्द्राभा ये मद्विषयवासिनः ॥4.39.2॥ | 4.40.2bवानरा वारणेन्द्राभा ये मद्विषयवासिनः ॥ 4.40.2 ॥ | 4.40.2bवानरा वारणेन्द्राभा ये मद्विषयवासिनः ॥ 4.40.2 ॥ | 4.40.2bवानरा वारणेन्द्राभा ये मद्विषयवासिनः ॥ ४।४०।२ ॥ | 4.40.2bवानरा वारणेन्द्रभाः ये मद्विषयवासिनः॥4.40.2॥ |
| 5 | #3aತ ಇಮೇ ಬಹುವಿಕ್ರಾಂತೈರ್ಬಲಿಭಿರ್ಭೀಮವಿಕ್ರಮೈಃ । | 4.40.3aत इमे बहुविक्रान्तैर्बलिभिर्भीमविक्रमैः । | 4.39.3aत इमे बहुसाहस्रैर्हरिभिर्भीमविक्रमैः । | 4.40.3aत इमे बहुविक्रान्तैर्हरिभिर्भीमविक्रमैः । | 4.40.3aत इमे बहुविक्रान्तैर्हरिभिर्भीमविक्रमैः। | 4.40.3aत इमे बहुविक्रान्तैर्हरिभिर्भीमविक्रमैः । | 4.40.3aत इमे बहुविक्रान्तैर्हरिभिर्भीमविक्रमैः। |
| 6 | #3bಆಗತಾ ವಾನರಾ ಘೋರಾ ದೈತ್ಯದಾನವಸಂನಿಭಾಃ ॥ | 4.40.3bआगता वानरा घोरा दैत्यदानवसन्निभाः ॥ ३ ॥ | 4.39.3bआगता वानरा घोरा दैत्यदानवसंनिभाः ॥4.39.3॥ | 4.40.3bआगता वानरा घोरा दैत्यदानवसन्ननिभाः ॥ 4.40.3 ॥ | 4.40.3bआगता वानरा घोरा दैत्यदानवसन्ननिभाः ॥ 4.40.3 ॥ | 4.40.3bआगता वानरा घोरा दैत्यदानवसन्ननिभाः ॥ ४।४०।३ ॥ | 4.40.3bआगता वानरा घोरा दैत्यदानवसन्निभाः॥4.40.3॥ |
| 7 | #4aಖ್ಯಾತಕರ್ಮಾಪದಾನಾಶ್ಚ ಬಲವಂತೋ ಜಿತಕ್ಲಮಾಃ । | 4.40.4aख्यातकर्मापदानाश्च बलवन्तो जितक्लमाः । | 4.39.4aख्यातकर्मापदानाश्च बलवन्तो जितक्लमाः । | 4.40.4aख्यातकर्मापदानाश्च बलवन्तो जितक्लमाः । | 4.40.4aख्यातकर्मापदानाश्च बलवन्तो जितक्लमाः। | 4.40.4aख्यातकर्मापदानाश्च बलवन्तो जितक्लमाः । | 4.40.4aख्यातकर्मापदानाश्च बलवन्तो जितक्लमाः। |
| 8 | #4bಪರಾಕ್ರಮೇಷು ವಿಖ್ಯಾತಾ ವ್ಯವಸಾಯೇಷು ಚೋತ್ತಮಾಃ ॥ | 4.40.4bपराक्रमेषु विख्याता व्यवसायेषु चोत्तमाः ॥ ४ ॥ | 4.39.4bपराक्रमेषु विख्याता व्यवसायेषु चोत्तमाः ॥4.39.4॥ | 4.40.4bपराक्रमेषु विख्याता व्यवसायेषु चोत्तमाः ॥ 4.40.4 ॥ | 4.40.4bपराक्रमेषु विख्याता व्यवसायेषु चोत्तमाः ॥ 4.40.4 ॥ | 4.40.4bपराक्रमेषु विख्याता व्यवसायेषु चोत्तमाः ॥ ४।४०।४ ॥ | 4.40.4bपराक्रमेषु विख्याता व्यवसायेषु चोत्तमाः॥4.40.4॥ |
| 9 | #5aಪೃಥಿವಿವ್ಯಂಬುಚರಾ ರಾಮ ನಾನಾನಗನಿವಾಸಿನಃ । | 4.40.5aपृथिव्यम्बुचरा राम नानानगनिवासिनः । | 4.39.5aपृथिव्यम्बुचरा राम नानानगनिवासिनः । | 4.40.5aपृथिव्यम्बुचरा राम नानानगनिवासिनः । | 4.40.5aपृथिव्यम्बुचरा राम नानानगनिवासिनः। | 4.40.5aपृथिव्यम्बुचरा राम नानानगनिवासिनः । | 4.40.5aपृथिव्यम्बुचरा राम नानानगनिवासिनः। |
| 10 | #5bಕೋಟ್ಯೋಘಾಶ್ಚ ಇಮೇ ಪ್ರಾಪ್ತಾ ವಾನರಾಸ್ತವ ಕಿಂಕರಾಃ ॥ | 4.40.5bकोट्योघाश्च इमे प्राप्ता वानरास्तव किङ्कराः ॥ ५ ॥ | 4.39.5bकोट्यग्रश इमे प्राप्ता वानरास्तव किंकराः ॥4.39.5॥ | 4.40.5bकोट्यग्रश इमे प्राप्ता वानरास्तव किङ्कराः ॥ 4.40.5 ॥ | 4.40.5bकोट्यग्रश इमे प्राप्ता वानरास्तव किङ्कराः ॥ 4.40.5 ॥ | 4.40.5bकोट्यग्रश इमे प्राप्ता वानरास्तव किङ्कराः ॥ ४।४०।५ ॥ | 4.40.5bकोट्यग्रश इमे प्राप्ता वानरास्तव किङ्कराः॥4.40.5॥ |
| 11 | #6aನಿದೇಶವರ್ತಿನಃ ಸರ್ವೇ ಸರ್ವೇ ಗುರುಹಿತೇ ಸ್ಥಿತಾಃ । | 4.40.6aनिदेशवर्तिनः सर्वे सर्वे गुरुहिते स्थिताः । | 4.39.6aनिदेशवर्तिनः सर्वे सर्वे गुरुहिते रताः । | 4.40.6aनिदेशवर्तिनः सर्वे सर्वे गुरुहिते रताः । | 4.40.6aनिदेशवर्तिनः सर्वं गुरुहिते रताः। | 4.40.6aनिदेशवर्तिनः सर्वे सर्वे गुरुहिते रताः । | 4.40.6aनिदेशवर्तिनस्सर्वे सर्वे गुरुहिते रताः। |
| 12 | #6bಅಭಿಪ್ರೇತಮನುಷ್ಠಾತುಂ ತವ ಶಕ್ಷ್ಯಂತರಿಂದಮ ॥ | 4.40.6bअभिप्रेतमनुष्ठातुं तव शक्ष्यन्त्यरिन्दम ॥ ६ ॥ | 4.39.6bअभिप्रेतमनुष्ठातुं तव शक्ष्यन्त्यरिंदम ॥4.39.6॥ | 4.40.6bअभिप्रेतमनुष्ठातुं तव शक्ष्यन्त्यरिन्दम ॥ 4.40.6 ॥ | 4.40.6bअभिप्रेतमनुष्ठातुं तव शक्ष्यन्त्यरिन्दम ॥ 4.40.6 ॥ | 4.40.6bअभिप्रेतमनुष्ठातुं तव शक्ष्यन्त्यरिन्दम ॥ ४।४०।६ ॥ | 4.40.6bअभिप्रेतमनुष्ठातुं तव शक्ष्यन्त्यरिन्दम॥4.40.6॥ |
| 13 | #7aತ ಇಮೇ ಬಹುಸಾಹಸ್ರೈರನೀಕೈರ್ಭೀಮವಿಕ್ರಮೈಃ । | 4.40.7aत इमे बहुसाहस्रैरनीकैर्भीमविक्रमैः । | 4.40.7aत इमे बहुसाहस्रैरनीकैर्भीमविक्रमैः । | 4.40.7aत इमे बहुसाहस्रैरनीकैर्भीमविक्रमैः । | 4.40.7aत इमे बहुसाहस्रैरनीकै भीमविक्रमैः। | ||
| 14 | #7bಆಗತಾ ವಾನರಾ ಘೋರಾ ದೈತ್ಯದಾನವ ಸಂನಿಭಾಃ ॥ | 4.40.7bआगता वानरा घोरा दैत्यदानवसन्निभाः ॥ ७ ॥ | 4.40.7bआगता वानरा घोरा दैत्यदानवसन्निभाः॥4.40.7॥ | ||||
| 15 | #8aಯನ್ಮನ್ಯಸೇ ನರವ್ಯಾಘ್ರ ಪ್ರಾಪ್ತಕಾಲಂ ತದುಚ್ಯತಾಮ್ । | 4.40.8aयन्मन्यसे नरव्याघ्र प्राप्तकालं तदुच्यताम् । | 4.39.7aयन्मन्यसे नरव्याघ्र प्राप्तकालं तदुच्यताम् । | 4.40.7bयन्मन्यसे नरव्याघ्र प्राप्तकालं तदुच्यताम् । | 4.40.7aयन्मन्यसे नरव्याघ्र प्राप्तकालं तदुच्यताम्। | 4.40.7bयन्मन्यसे नरव्याघ्र प्राप्तकालं तदुच्यताम् । | 4.40.8aयन्मन्यसे नरव्याघ्र प्राप्तकालं तदुच्यताम्। |
| 16 | #8bತ್ವತಸೈನ್ಯಂ ತ್ವದ್ವಶೇ ಯುಕ್ತಮಾಜ್ಞಾಪಯಿತುಮರ್ಹಸಿ ॥ | 4.40.8bत्वत्सैन्यं त्वद्वशे युक्तमाज्ञापयितुमर्हसि ॥ ८ ॥ | 4.39.7bतत्सैन्यं त्वद्वशे युक्तमाज्ञापयितुमर्हसि ॥4.39.7॥ | 4.40.7cत्वत्सैन्यं त्वद्वशे युक्तमाज्ञापयितुमर्हसि ॥ 4.40.7 ॥ | 4.40.7bत्वत्सैन्यं त्वद्वशे युक्तमाज्ञापयितुमर्हसि ॥ 4.40.7 ॥ | 4.40.7cत्वत्सैन्यं त्वद्वशे युक्तमाज्ञापयितुमर्हसि ॥ ४।४०।७ ॥ | 4.40.8bतत्सैन्यं त्वद्वशे युक्तमाज्ञापयितुमर्हसि॥4.40.8॥ |
| 17 | #9aಕಾಮಮೇಷಾಮಿದಂ ಕಾರ್ಯಂ ವಿದಿತಂ ಮಮ ತತ್ತ್ವತಃ । | 4.40.9aकाममेषामिदं कार्यं विदितं मम तत्त्वतः । | 4.39.8aकाममेषामिदं कार्यं विदितं मम तत्त्वतः । | 4.40.8aकाममेषामिदं कार्यं विदितं मम तत्त्वतः । | 4.40.8aकाममेषामिदं कार्यं विदितं मम तत्त्वतः। | 4.40.8aकाममेषामिदं कार्यं विदितं मम तत्त्वतः । | 4.40.9aकाममेषामिदं कार्यं विदितं मम तत्त्वतः। |
| 18 | #9bತಥಾಪಿ ತು ಯಥಾಯುಕ್ತಮಾಜ್ಞಾಪಯಿತುಮರ್ಹಸಿ ॥ | 4.40.9bतथापि तु यथायुक्तमाज्ञापयितुमर्हसि ॥ ९ ॥ | 4.39.8bतथापि तु यथा तत्त्वमाज्ञापयितुमर्हसि ॥4.39.8॥ | 4.40.8bतथापि तु यथातत्त्वमाज्ञापयितुमर्हसि ॥ 4.40.8 ॥ | 4.40.8bतथापि तु यथातत्त्वमाज्ञापयितुमर्हसि ॥ 4.40.8 ॥ | 4.40.8bतथापि तु यथातत्त्वमाज्ञापयितुमर्हसि ॥ ४।४०।८ ॥ | 4.40.9bतथापि तु यथातत्त्वमाज्ञापयितुमर्हसि॥4.40.9॥ |
| 19 | #10aತಥಾ ಬ್ರುವಾಣಾಂ ಸುಗ್ರೀವಂ ರಾಮೋ ದಶರಥಾತ್ಮಜಃ । | 4.40.10aतथा ब्रुवाणं सुग्रीवं रामो दशरथात्मजः । | 4.39.9aतथा ब्रुवाणं सुग्रीवं रामो दशरथात्मजः । | 4.40.9aइति ब्रुवाणं सुग्रीवं रामो दशरथात्मजः । | 4.40.9aइति ब्रुवाणं सुग्रीवं रामो दशरथात्मजः। | 4.40.9aइति ब्रुवाणं सुग्रीवं रामो दशरथात्मजः । | 4.40.10aइति ब्रुवाणं सुग्रीवं रामो दशरथात्मजः। |
| 20 | #10bಬಾಹುಭ್ಯಾಂ ಸಂಪರಿಷ್ವಜ್ಯ ಇದಂ ವಚನಮಬ್ರವೀತ್ ॥ | 4.40.10bबाहुभ्यां सम्परिष्वज्य इदं वचनमब्रवीत् ॥ १० ॥ | 4.39.9bबाहुभ्यां संपरिष्वज्य इदं वचनमब्रवीत् ॥4.39.9॥ | 4.40.9bबाहुभ्यां सम्परिष्वज्य इदं वचनमब्रवीत् ॥ 4.40.9 ॥ | 4.40.9bबाहुभ्यां सम्परिष्वज्य इदं वचनमब्रवीत् ॥ 4.40.9 ॥ | 4.40.9bबाहुभ्यां सम्परिष्वज्य इदं वचनमब्रवीत् ॥ ४।४०।९ ॥ | 4.40.10bबाहुभ्यां सम्परिष्वज्य इदं वचनमब्रवीत्॥4.40.10॥ |
| 21 | #11aಜ್ಞಾಯತಾಂ ಸೌಮ್ಯ ವೈದೇಹೀ ಯದಿ ಜೀವತಿ ವಾ ನ ವಾ । | 4.40.11aज्ञायतां सौम्य वैदेही यदि जीवति वा न वा । | 4.39.10aज्ञायतां सौम्य वैदेही यदि जीवति वा न वा । | 4.40.10aज्ञायतां मम वैदेही यदि जीवति वा न वा । | 4.40.10aज्ञायतां मम वैदेही यदि जीवति वा न वा। | 4.40.10aज्ञायतां मम वैदेही यदि जीवति वा न वा । | 4.40.11aज्ञायतां मम वैदेही यदि जीवति वा न वा। |
| 22 | #11bಸ ಚ ದೇಶೋ ಮಹಾಪ್ರಾಜ್ಞ ಯಸ್ಮಿನ್ವಸತಿ ರಾವಣಃ ॥ | 4.40.11bस च देशो महाप्राज्ञ यस्मिन् वसति रावणः ॥ ११ ॥ | 4.39.10bस च देशो महाप्राज्ञ यस्मिन्वसति रावणः ॥4.39.10॥ | 4.40.10bस च देशो महाप्राज्ञ यस्मिन् वसति रावणः ॥ 4.40.10 ॥ | 4.40.10bस च देशो महाप्राज्ञ यस्मिन् वसति रावणः ॥ 4.40.10 ॥ | 4.40.10bस च देशो महाप्राज्ञ यस्मिन् वसति रावणः ॥ ४।४०।१० ॥ | 4.40.11bस च देशो महाप्राज्ञ यस्मिन्वसति रावणः॥4.40.11॥ |
| 23 | #12aಅಧಿಗಮ್ಯ ತು ವೈದೇಹೀಂ ನಿಲಯಂ ರಾವಣಸ್ಯ ಚ । | 4.40.12aअधिगम्य तु वैदेहीं निलयं रावणस्य च । | 4.39.11aअधिगम्य च वैदेहीं निलयं रावणस्य च । | 4.40.11aअभिगम्य तु वैदेहीं निलयं रावणस्य च । | 4.40.11aअभिगम्य तु वैदेहीं निलयं रावणस्य च। | 4.40.11aअभिगम्य तु वैदेहीं निलयं रावणस्य च । | 4.40.12aअधिगम्य तु वैदेहीं निलयं रावणस्य च। |
| 24 | #12bಪ್ರಾಪ್ತಕಾಲಂ ವಿಧಾಸ್ಯಾಮಿ ತಸ್ಮಿನ್ಕಾಲೇ ಸಹ ತ್ವಯಾ ॥ | 4.40.12bप्राप्तकालं विधास्यामि तस्मिन् काले सह त्वया ॥ १२ ॥ | 4.39.11bप्राप्तकालं विधास्यामि तस्मिन्काले सह त्वया ॥4.39.11॥ | 4.40.11bप्राप्तकालं विधास्यामि तस्मिन् काले सह त्वया ॥ 4.40.11 ॥ | 4.40.11bप्राप्तकालं विधास्यामि तस्मिन् काले सह त्वया ॥ 4.40.11 ॥ | 4.40.11bप्राप्तकालं विधास्यामि तस्मिन् काले सह त्वया ॥ ४।४०।११ ॥ | 4.40.12bप्राप्तकालं विधास्यामि तस्मिन्काले सह त्वया॥4.40.12॥ |
| 25 | #13aನಾಹಮಸ್ಮಿನ್ಪ್ರಭುಃ ಕಾರ್ಯೇ ವಾನರೇಂದ್ರ ನ ಲಕ್ಷ್ಮಣಃ । | 4.40.13aनाहमस्मिन् प्रभुः कार्ये वानरेन्द्र न लक्ष्मणः । | 4.39.12aनाहमस्मिन्प्रभुः कार्ये वानरेश न लक्ष्मणः । | 4.40.12aनाहमस्मिन् प्रभुः कार्ये वानरेश न लक्ष्मणः । | 4.40.12aनाहमस्मिन् प्रभुः कार्ये वानरेश न लक्ष्मणः। | 4.40.12aनाहमस्मिन् प्रभुः कार्ये वानरेश न लक्ष्मणः । | 4.40.13aनाहमस्मिन् प्रभुः कार्ये वानरेश न लक्ष्मणः। |
| 26 | #13bತ್ವಮಸ್ಯ ಹೇತುಃ ಕಾರ್ಯಸ್ಯ ಪ್ರಭುಶ್ಚ ಪ್ಲವಗೇಶ್ವರ ॥ | 4.40.13bत्वमस्य हेतुः कार्यस्य प्रभुश्च प्लवगेश्वर ॥ १३ ॥ | 4.39.12bत्वमस्य हेतुः कार्यस्य प्रभुश्च प्लवगेश्वर ॥4.39.12॥ | 4.40.12bत्वमस्य हेतुः कार्यस्य प्रभुश्च प्लवगेश्वर ॥ 4.40.12 ॥ | 4.40.12bत्वमस्य हेतुः कार्यस्य प्रभुश्च प्लवगेश्वर ॥ 4.40.12 ॥ | 4.40.12bत्वमस्य हेतुः कार्यस्य प्रभुश्च प्लवगेश्वर ॥ ४।४०।१२ ॥ | 4.40.13bत्वमस्य हेतुः कार्यस्य प्रभुश्च प्लवगेश्वर॥4.40.13॥ |
| 27 | #14aತ್ವಮೇವಾಜ್ಞಾಪಯ ವಿಭೋ ಮಮ ಕಾರ್ಯವಿನಿಶ್ಚಯಮ್ । | 4.40.14aत्वमेवाज्ञापय विभो मम कार्यविनिश्चयम् । | 4.39.13aत्वमेवाज्ञापय विभो मम कार्यविनिश्चयम् । | 4.40.13aत्वमेवाज्ञापय विभो मम कार्यविनिश्चयम् । | 4.40.13aत्वमेवाज्ञापय विभो मम कार्यविनिश्चयम्। | 4.40.13aत्वमेवाज्ञापय विभो मम कार्यविनिश्चयम् । | 4.40.14aत्वमेवाऽज्ञापय विभो मम कार्यविनिश्चयम्। |
| 28 | #14bತ್ವಂ ಹಿ ಜಾನಾಸಿ ಮೇ ಕಾರ್ಯಂ ಮಮ ವೀರ ನ ಸಂಶಯಃ ॥ | 4.40.14bत्वं हि जानासि मे कार्यं मम वीर न संशयः ॥ १४ ॥ | 4.39.13bत्वं हि जानासि यत्कार्यं मम वीर न संशयः ॥4.39.13॥ | 4.40.13bत्वं हि जानासि यत्कार्यं मम वीर न संशयः ॥ 4.40.13 ॥ | 4.40.13bत्वं हि जानासि यत्कार्यं मम वीर न संशयः ॥ 4.40.13 ॥ | 4.40.13bत्वं हि जानासि यत्कार्यं मम वीर न संशयः ॥ ४।४०।१३ ॥ | 4.40.14bत्वं हि जानासि यत्कार्यं मम वीर न संशयः॥4.40.14॥ |
| 29 | 4.40.813aएषां कार्यम् एभिः कर्तव्यम् । | 4.40.813aएषां कार्यम् एभिः कर्तव्यम् । | |||||
| 30 | 4.40.813bमम विदितं मया विदितम् ॥ 4.40.813 ॥ | 4.40.813bमम विदितं मया विदितम् ॥ ४।४०।८१३ ॥ | |||||
| 31 | #15aಸುಹೃದ್ವತೀಯೋ ವಿಕ್ರಾಂತಃ ಪ್ರಾಜ್ಞಃ ಕಾಲವಿಶೇಷವಿತ್ । | 4.40.15aसुहृद्द्वितीयो विक्रान्तः प्राज्ञः कालविशेषवित् । | 4.39.14aसुहृद्द्वितीयो विक्रान्तः प्राज्ञः कालविशेषवित् । | 4.40.14aसुहृद् द्वितीयो विक्रान्तः प्राज्ञः कालविशेषवित् । | 4.40.14aसुहृद् द्वितीयो विक्रान्तः प्राज्ञः कालविशेषवित्। | 4.40.14aसुहृद् द्वितीयो विक्रान्तः प्राज्ञः कालविशेषवित् । | 4.40.15aसुहृद्वितीयो विक्रान्तः प्राज्ञः कालविशेषवित्। |
| 32 | #15bಭವಾನಸ್ಮದ್ಧಿತೇ ಯುಕ್ತಃ ಸುಹೃದಾಪ್ತೋಽರ್ಥವಿತ್ತಮಃ ॥ | 4.40.15bभवानस्मद्धिते युक्तः सुहृदाप्तोऽर्थवित्तमः ॥ १५ ॥ | 4.39.14bभवानस्मद्धिते युक्तः सुकृतार्थोऽर्थवित्तमः ॥4.39.14॥ | 4.40.14bभवानस्मद्धिते युक्तः सुकृतार्थो ऽर्थवित्तमः ॥ 4.40.14 ॥ | 4.40.14bभवानस्मद्धिते युक्तः सुकृतार्थोऽर्थवित्तमः ॥ 4.40.14 ॥ | 4.40.14bभवानस्मद्धिते युक्तः सुकृतार्थो ऽर्थवित्तमः ॥ ४।४०।१४ ॥ | 4.40.15bभवानस्मध्दिते युक्तस् सुकृतार्थोऽर्थवित्तमः॥4.40.15॥ |
| 33 | #16aಏವಮುಕ್ತಸ್ತು ಸುಗ್ರೀವೋ ವಿನತಂ ನಾಮ ಯೂಥಪಮ್ । | 4.40.16aएवमुक्तस्तु सुग्रीवो विनतं नाम यूथपम् । | 4.39.15aएवमुक्तस्तु सुग्रीवो विनतं नाम यूथपम् । | 4.40.15aएवमुक्तस्तु सुग्रीवो विनतं नाम यूथपम् । | 4.40.15aएवमुक्तस्तु सुग्रीवो विनतं नाम यूथपम्। | 4.40.15aएवमुक्तस्तु सुग्रीवो विनतं नाम यूथपम् । | 4.40.16aएवमुक्तस्तु सुग्रीवो विनतं नाम यूथपम्। |
| 34 | #16bಅಬ್ರವೀದ್ರಾಮಸಾಂನಿಧ್ಯೇ ಲಕ್ಷ್ಮಣಸ್ಯ ಚ ಧೀಮತಃ ॥ | 4.40.16bअब्रवीद् रामसान्निध्ये लक्ष्मणस्य च धीमतः ॥ १६ ॥ | 4.39.15bअब्रवीद्राम साम्निध्ये लक्ष्मणस्य च धीमतः । | 4.40.15bअब्रवीद्रामसान्निध्ये लक्ष्मणस्य च धीमतः ॥ 4.40.15 ॥ | 4.40.15bअब्रवीद्रामसान्निध्ये लक्ष्मणस्य च धीमतः ॥ 4.40.15 ॥ | 4.40.15bअब्रवीद्रामसान्निध्ये लक्ष्मणस्य च धीमतः ॥ ४।४०।१५ ॥ | 4.40.16bअब्रवीद्रामसान्निध्ये लक्ष्मणस्य च धीमतः॥4.40.16॥ |
| 35 | #17aಶೈಲಾಭಂ ಮೇಘನಿರ್ಘೋೀಷಮೂರ್ಜಿತಂ ಪ್ಲವಗೇಶ್ವರಮ್ । | 4.40.17aशैलाभं मेघनिर्घोषमूर्जितं प्लवगेश्वरम् । | 4.39.15cशैलाभं मेघनिर्घोषमूर्जितं प्लवगेश्वरम् ॥4.39.15॥ | 4.40.16शैलाभं मेघनिर्घोषमूर्जितं प्लवगेश्वरः ॥ 4.40.16 ॥ | 4.40.16शैलाभं मेघनिर्घोषमूर्जितं प्लवगेश्वरः ॥ 4.40.16 ॥ | 4.40.16शैलाभं मेघनिर्घोषमूर्जितं प्लवगेश्वरः ॥ ४।४०।१६ ॥ | 4.40.17aशैलाभं मेघनिर्घोषमूर्जितं प्लवगेश्वरः। |
| 36 | 4.40.1416सुहृद्विनीय इति च पाठः ॥ 4.40.1416 ॥ | 4.40.1416सुहृद्विनीय इति च पाठः ॥ ४।४०।१४१६ ॥ | |||||
| 37 | #17bಸೋಮಸೂರ್ಯನಿಭೈಃ ಸಾರ್ಧಂ ವಾನರೈರ್ವಾನರೋತ್ತಮ ॥ | 4.40.17bसोमसूर्यनिभैः सार्धं वानरैर्वानरोत्तम ॥ १७ ॥ | 4.39.16aसोमसूर्यात्मजैः सार्धं वानरैर्वानरोत्तम । | 4.40.17aसोमसूर्यात्मजैः सार्धं वानरैर्वानरोत्तम । | 4.40.17aसोमसूर्यात्मजैः सार्धं वानरैर्वानरोत्तम। | 4.40.17aसोमसूर्यात्मजैः सार्धं वानरैर्वानरोत्तम । | 4.40.17bसोमसूर्यात्मजैस् सार्धं वानरैर्वानरोत्तम॥4.40.17॥ |
| 38 | #18aದೇಶಕಾಲನಯೈರ್ಯುಕ್ತೋ ವಿಜ್ಞಃ ಕಾರ್ಯವಿನಿಶ್ಚಯೇ । | 4.40.18aदेशकालनयैर्युक्तो विज्ञः कार्यविनिश्चये । | 4.39.16bदेशकालनयैर्युक्तः कार्याकार्यविनिश्चये ॥4.39.16॥ | 4.40.17bदेशकालनयैर्युक्तः कार्याकार्यविनिश्चये ॥ 4.40.17 ॥ | 4.40.17bदेशकालनयैर्युक्तः कार्याकार्यविनिश्चये ॥ 4.40.17 ॥ | 4.40.17bदेशकालनयैर्युक्तः कार्याकार्यविनिश्चये ॥ ४।४०।१७ ॥ | 4.40.18aदेशकालनयैर्युक्तः कार्या कार्यविनिश्चये। |
| 39 | #18bವೃತಃ ಶತಸಹಸ್ರೇಣ ವಾನರಾಣಾಂ ತರಸ್ವಿನಾಮ್ ॥ | 4.40.18bवृतः शतसहस्रेण वानराणां तरस्विनाम् ॥ १८ ॥ | 4.39.17aवृतः शतसहस्रेण वानराणां तरस्विनाम् । | 4.40.18aवृतः शत सहस्रेण वानराणां तरस्विनाम् । | 4.40.18aवृतः शतसहस्रेण वानराणां तरस्विनाम्। | 4.40.18aवृतः शत सहस्रेण वानराणां तरस्विनाम् । | 4.40.18bवृतश्शतसहश्रेण वानराणां तरस्विनाम्॥4.40.18॥ |
| 40 | #19aಅಧಿಗಚ್ಛ ದಿಶಂ ಪೂರ್ವಾಂ ಸಶೈಲವನಕಾನನಾಮ್ । | 4.40.19aअधिगच्छ दिशं पूर्वां सशैलवनकाननाम् । | 4.39.17bअधिगच्छ दिशं पूर्वां सशैलवनकाननाम् ॥4.39.17॥ | 4.40.18bअधिगच्छ दिशं पूर्वां सशैलवनकाननाम् ॥ 4.40.18 ॥ | 4.40.18bअधिगच्छ दिशं पूर्वां सशैलवनकाननाम् ॥ 4.40.18 ॥ | 4.40.18bअधिगच्छ दिशं पूर्वां सशैलवनकाननाम् ॥ ४।४०।१८ ॥ | 4.40.19aअधिगच्छ दिशं पूर्वां सशैलवनकाननाम्। |
| 41 | #19bತತ್ರ ಸೀತಾಂ ಚ ವೈದೇಹಿಂ ನಿಲಯಂ ರಾವಣಸ್ಯ ಚ ॥ | 4.40.19bतत्र सीतां च वैदेहीं निलयं रावणस्य च ॥ १९ ॥ | 4.39.18aतत्र सीतां च वैदेहीं निलयं रावणस्य च । | 4.40.19aतत्र सीतां च वैदेहीं निलयं रावणस्य च । | 4.40.19aतत्र सीतां च वैदेहीं निलयं रावणस्य च। | 4.40.19aतत्र सीतां च वैदेहीं निलयं रावणस्य च । | 4.40.19bतत्र सीतां च वैदेहीं निलयं रावणस्य च॥4.40.19॥ |
| 42 | #20aಮಾರ್ಗಧ್ವಂ ಗಿರಿದುರ್ಗೇಷು ವನೇಷು ಚ ನದೀಷು ಚ । | 4.40.20aमार्गध्वं गिरिदुर्गेषु वनेषु च नदीषु च । | 4.39.18bमार्गध्वं गिरिदुर्गेषु वनेषु च नदीषु च ॥4.39.18॥ | 4.40.19bमार्गध्वं गिरिशृङ्गेषु वनेषु च नदीषु च ॥ 4.40.19 ॥ | 4.40.19bमार्गध्वं गिरिशृङ्गेषु वनेषु च नदीषु च ॥ 4.40.19 ॥ | 4.40.19bमार्गध्वं गिरिशृङ्गेषु वनेषु च नदीषु च ॥ ४।४०।१९ ॥ | 4.40.20aमार्गध्वं गिरिशृङ्गेषु वनेषु च नदीषु च। |
| 43 | 4.40.1719aसोमेत्यादि । | 4.40.1719aसोमेत्यादि । | |||||
| 44 | 4.40.1719bदेशेति । | 4.40.1719bदेशेति । | |||||
| 45 | 4.40.1719cकार्याकार्यविनिश्चये विषये देशकालनयैः देशोचितनीतिभिः कालोचितनीतिभिश्चेत्यर्थः । | 4.40.1719cकार्याकार्यविनिश्चये विषये देशकालनयैः देशोचितनीतिभिः कालोचितनीतिभिश्चेत्यर्थः । | |||||
| 46 | 4.40.1719dदेशकालानुगुणनयप्रवर्तनं कर्तव्यमित्यर्थः ॥ 4.40.1719 ॥ | 4.40.1719dदेशकालानुगुणनयप्रवर्तनं कर्तव्यमित्यर्थः ॥ ४।४०।१७१९ ॥ | |||||
| 47 | #20bನದೀಂ ಭಾಗೀರಥೀಂ ರಮ್ಯಾಂ ಸರಯೂಂ ಕೌಶಿಕೀಂ ತಥಾ ॥ | 4.40.20bनदीं भागीरथीं रम्यां सरयूं कौशिकीं तथा ॥ २० ॥ | 4.39.19aनदीं भागीरथीं रम्यां सरयूं कौशिकीं तथा । | 4.40.20aनदीं भागीरथीं रम्यां सरयूं कौशिकीं तथा । | 4.40.20aनदीं भागीरथीं रम्यां सरयूं कौशिकीं तथा। | 4.40.20aनदीं भागीरथीं रम्यां सरयूं कौशिकीं तथा । | 4.40.20bनदीं भागीरथीं रम्यां सरयूं कौशिकीं तथा॥4.40.20॥ |
| 48 | #21aಕಾಲಿಂದೀಂ ಯಮುನಾಂ ರಮ್ಯಾಂ ಯಾಮುನಂ ಚ ಮಹಾಗಿರಿಮ್ । | 4.40.21aकालिन्दीं यमुनां रम्यां यामुनं च महागिरिम् । | 4.39.19bकालिन्दीं यमुनां रम्यां यामुनं च महागिरिम् ॥4.39.19॥ | 4.40.20bकालिन्दीं यमुनां रम्यां यामुनं च महागिरिम् ॥ 4.40.20 ॥ | 4.40.20bकालिन्दीं यमुनां रम्यां यामुनं च महागिरिम् ॥ 4.40.20 ॥ | 4.40.20bकालिन्दीं यमुनां रम्यां यामुनं च महागिरिम् ॥ ४।४०।२० ॥ | 4.40.21aकालिन्दीं यमुनां रम्यां यामुनं च महागिरिम्। |
| 49 | #21bಸರಸ್ವತೀಂ ಚ ಸಿಂಧುಂ ಚ ಶೋಣಂ ಮಣಿನಿಭೋದಕಮ್ ॥ | 4.40.21bसरस्वतीं च सिन्धुं च शोणं मणिनिभोदकम् ॥ २१ ॥ | 4.39.20aसरस्वतीं च सिन्धुं च शोणं मणिनिभोदकम् । | 4.40.21aसरस्वतीं च सिन्धुं च शोणं मणिनिभोदकम् । | 4.40.21aसरस्वतीं च सिन्धुं च शोणं मणिनिभोदकम्। | 4.40.21aसरस्वतीं च सिन्धुं च शोणं मणिनिभोदकम् । | 4.40.21bसरस्वतीं च सिन्धुं च शोणं मणिनिभोदकम्॥4.40.21॥ |
| 50 | #22aಮಹೀಂ ಕಾಲಮಹೀಂ ಚಾಪಿ ಶೈಲಕಾನನ ಶೋಭಿತಾಮ್ । | 4.40.22aमहीं कालमहीं चापि शैलकाननशोभिताम् । | 4.39.20bमहीं कालमहीं चैव शैलकाननशोभिताम् ॥4.39.20॥ | 4.40.21bमहीं कालमहीं चैव शैलकाननशोभिताम् ॥ 4.40.21 ॥ | 4.40.21bमहीं कालमहीं चैव शैलकाननशोभिताम् ॥ 4.40.21 ॥ | 4.40.21bमहीं कालमहीं चैव शैलकाननशोभिताम् ॥ ४।४०।२१ ॥ | 4.40.22aमहीं कालमहीं चैव शैलकाननशोभिताम्। |
| 51 | #22bಬ್ರಹ್ಮಮಾಲಾನ್ ವಿದೇಹಾಂಶ್ಚ ಮಾಲವಾನ್ ಕಾಶಿಕೋಸಲಾನ್ ॥ | 4.40.22bब्रह्ममालान् विदेहांश्च मालवान् काशिकोसलान् ॥ २२ ॥ | 4.39.21aब्रह्ममालान्विदेहांश्च मालवान्काशिकोसलान् । | 4.40.22aब्रह्ममालान्विदेहांश्च मालवान् काशिकोसलान् । | 4.40.22aब्रह्ममालान्विदेहांश्च मालवान् काशिकोसलान् । | 4.40.22bब्रह्ममालान्विदेहांश्च मालवान्कालिकोसलान्॥4.40.22॥ | |
| 52 | #23aಮಾಗಧಾಂಶ್ಚ ಮಹಾಗ್ರಾಮಾನ್ ಪುಂಡ್ರಾಂತ್ಸ್ವಂಗಾಂಸ್ತಥೈವ ಚ । | 4.40.23aमागधांश्च महाग्रामान् पुण्ड्रांस्त्वङ्गांस्तथैव च । | 4.39.21bमागधांश्च महाग्रामान्पुण्ड्रान्वङ्गांस्तथैव च ॥4.39.21॥ | 4.40.22bमागधांश्च महाग्रामान् पुण्ड्रान्वङ्गांस्तथैव च । | 4.40.22aमागधांश्च महाग्रामान् पुण्ड्रान्वङ्गांस्तथैव च। | 4.40.22bमागधांश्च महाग्रामान् पुण्ड्रान्वङ्गांस्तथैव च । | 4.40.23aमागधांश्च महाग्रामान्पुण्ड्रांन्वङ्गां स्तथैव च। |
| 53 | #23bಭೂಮಿಂ ಚ ಕೋಶಕಾರಾಣಾಂ ಭೂಮಿಂ ಚ ರಜತಾಕರಾಮ್ ॥ | 4.40.23bभूमिं च कोशकाराणां भूमिं च रजताकराम् ॥ २३ ॥ | 4.39.22aपत्तनं कोशकाराणां भूमिं च रजताकराम् । | 4.40.22cपत्तनं कोशकाराणां भूमिं च रजताकराम् ॥ 4.40.22 ॥ | 4.40.22bपत्तनं कोशकाराणां भूमिं च रजताकराम् ॥ 4.40.22 ॥ | 4.40.22cपत्तनं कोशकाराणां भूमिं च रजताकराम् ॥ ४।४०।२२ ॥ | 4.40.23bपत्तनं कोशकाराणां भूमिं च रजताकराम्॥4.40.23॥ |
| 54 | #24aಸರ್ವಂ ಚ ತದ್ ವಿಚೇತವ್ಯಂ ಮಾರ್ಗಯದ್ಭಿಸ್ತತಸ್ತತಃ । | 4.40.24aसर्वं च तद् विचेतव्यं मार्गयद्भिस्ततस्ततः । | 4.39.22bसर्वमेतद्विचेतव्यं मृगयद्भिर्ततस्ततः ॥4.39.22॥ | 4.40.23aसर्वमेतद्विचेतव्यं मार्गयद्भिस्ततस्ततः । | 4.40.23aसर्वमेतद्विचेतव्यं मार्गयद्भिस्ततस्ततः। | 4.40.23aसर्वमेतद्विचेतव्यं मार्गयद्भिस्ततस्ततः । | 4.40.24aसर्वमेतद्विचेतव्यं मृगयद्भिस्ततस्ततः। |
| 55 | #24bರಾಮಸ್ಯ ದಯಿತಾಂ ಭಾರ್ಯಾಂ ಸೀತಾಂ ದಶರಥಸ್ನುಷಾಮ್ ॥ | 4.40.24bरामस्य दयितां भार्यां सीतां दशरथस्नुषाम् ॥ २४ ॥ | 4.39.23aरामस्य दयितां भार्यां सीतां दशरतः स्नुषाम् । | 4.40.23bरामस्य दयितां भार्यां सीतां दशरथस्नुषाम् ॥ 4.40.23 ॥ | 4.40.23bरामस्य दयितां भार्यां सीतां दशरथस्नुषाम् ॥ 4.40.23 ॥ | 4.40.23bरामस्य दयितां भार्यां सीतां दशरथस्नुषाम् ॥ ४।४०।२३ ॥ | 4.40.24bरामस्य दयितां भार्यां सीतां दशरथस्नुषाम्॥4.40.24॥ |
| 56 | 4.40.2123aमह्यादयो । | 4.40.2123aमह्यादयो । | |||||
| 57 | 4.40.2123bदेशविशेषाः, मागधान् मगधदेशान् । | 4.40.2123bदेशविशेषाः, मागधान् मगधदेशान् । | |||||
| 58 | 4.40.2123cमहाग्रामान् महाग्रामयुक्तान् । | 4.40.2123cमहाग्रामान् महाग्रामयुक्तान् । | |||||
| 59 | 4.40.2123dकोशकाराणां राजविशेषाणाम् ॥ 4.40.2123 ॥ | 4.40.2123dकोशकाराणां राजविशेषाणाम् ॥ ४।४०।२१२३ ॥ | |||||
| 60 | #25aಸಮುದ್ರಮವಗಾಢಾಂಶ್ಚ ಪರ್ವತಾನ್ಪತ್ತನಾನಿ ಚ । | 4.40.25aसमुद्रमवगाढांश्च पर्वतान् पत्तनानि च । | 4.39.23bसमुद्रमवगाढांश्च पर्वतान्पत्तनानि च ॥4.39.23॥ | 4.40.24aसमुद्रमवगाढांश्च पर्वतान् पत्तनानि च । | 4.40.24aसमुद्रमवगाढांश्च पर्वतान् पत्तनानि च। | 4.40.24aसमुद्रमवगाढांश्च पर्वतान् पत्तनानि च । | 4.40.25aसमुद्रमवगाढांश्च पर्वतान्पत्तनानि च। |
| 61 | #25bಮಂದರಸ್ಯ ಚ ಯೇ ಕೋಟಿಂ ಸಂಶ್ರಿತಾಃ ಕೇಚಿದಾಲಯಾಃ ॥ | 4.40.25bमन्दरस्य च ये कोटिं संश्रिताः केचिदालयाः ॥ २५ ॥ | 4.39.24aमन्दरस्य च ये कोटिं संश्रिताः केचिदायताम् । | 4.40.24bमन्दरस्य च ये कोटिं संश्रिताः केचिदायताम् ॥ 4.40.24 ॥ | 4.40.24bमन्दरस्य च ये कोटिं संश्रिताः केचिदायताम् ॥ 4.40.24 ॥ | 4.40.24bमन्दरस्य च ये कोटिं संश्रिताः केचिदायताम् ॥ ४।४०।२४ ॥ | 4.40.25bमन्दरस्य च ये कोटिं संश्रिताः केचिदायताम्॥4.40.25॥ |
| 62 | #26aಕರ್ಣಪ್ರಾವರಣಾಶ್ಚೈವ ತಥಾ ಚಾಪ್ಯೋಷ್ಠಕರ್ಣಕಾಃ । | 4.40.26aकर्णप्रावरणाश्चैव तथा चाप्योष्ठकर्णकाः । | 4.39.24bकर्णप्रावरणाश्चैव तथा चाप्योष्ठकर्णकाः ॥4.39.24॥ | 4.40.25aकर्णप्रावरणाश्चैव तथा चाप्योष्ठकर्णकाः । | 4.40.25aकर्णप्रावरणाश्चैव तथा चाप्योष्ठकर्णकाः। | 4.40.25aकर्णप्रावरणाश्चैव तथा चाप्योष्ठकर्णकाः । | 4.40.26aकर्णप्रावरणाश्चैव तथा चाप्योष्ठकर्णकाः। |
| 63 | #26bಘೋರಲೋಹಮುಖಾಶ್ಚೈವ ಜವನಾಶ್ಚೈಕಪಾದಕಾಃ ॥ | 4.40.26bघोरलोहमुखाश्चैव जवनाश्चैकपादकाः ॥ २६ ॥ | 4.39.25aघोरा लोहमुखाश्चैव जवनाश्चैकपादकाः । | 4.40.25bघोरलोहमुखाश्चैव जवनाश्चैकपादकाः ॥ 4.40.25 ॥ | 4.40.25bघोरलोहमुखाश्चैव जवनाश्चैकपादकाः ॥ 4.40.25 ॥ | 4.40.25bघोरलोहमुखाश्चैव जवनाश्चैकपादकाः ॥ ४।४०।२५ ॥ | 4.40.26bघोरलोहमुखाश्चैव जवनाश्चैकपादकाः॥4.40.26॥ |
| 64 | #27aಅಕ್ಷಯಾ ಬಲವಂತಶ್ಚ ತಥೈವ ಪುರುಷಾದಕಾಃ । | 4.40.27aअक्षया बलवन्तश्च तथैव पुरुषादकाः । | 4.39.25bअक्षया बलवन्तश्च पुरुषाः पुरुषादकाः ॥4.39.25॥ | 4.40.26aअक्षया बलवन्तश्च पुरुषाः पुरुषादकाः । | 4.40.26aअक्षया बलवन्तश्च पुरुषाः पुरुषादकाः। | 4.40.26aअक्षया बलवन्तश्च पुरुषाः पुरुषादकाः । | 4.40.27aअक्षया बलवन्तश्च पुरुषाः पुरुषादकाः। |
| 65 | #27bಕಿರಾತಾಸ್ತೀಕ್ಷ್ಣ ಚೂಡಾಶ್ಚ ಹೇಮಾಂಭಾಃ ಪ್ರಿಯದರ್ಶನಾಃ ॥ | 4.40.27bकिरातास्तीक्ष्णचूडाश्च हेमाभाः प्रियदर्शनाः ॥ २७ ॥ | 4.39.26aकिराताः कर्णचूडाश्च हेमाङ्गाः प्रियदर्शनाः । | 4.40.26bकिराताः कर्णचूडाश्च हेमाङ्गाः प्रियदर्शनाः ॥ 4.40.26 ॥ | 4.40.26bकिराताः कर्णचूडाश्च हेमाङ्गाः प्रियदर्शनाः ॥ 4.40.26 ॥ | 4.40.26bकिराताः कर्णचूडाश्च हेमाङ्गाः प्रियदर्शनाः ॥ ४।४०।२६ ॥ | 4.40.27bकिराताः कर्ण चूडाश्च हेमाङ्गाः प्रियदर्शनाः॥4.40.27॥ |
| 66 | #28aಆಮಮೀನಾಶನಾಶ್ಚಾಪಿ ಕಿರಾತಾ ದ್ವೀಪವಾಸಿನಃ । | 4.40.28aआममीनाशनाश्चापि किराता द्वीपवासिनः । | 4.39.26bआममीनाशनास्तत्र किराता द्वीपवासिनः ॥4.39.26॥ | 4.40.27aआममीनाशनास्तत्र किराता द्वीपवासिनः । | 4.40.27aआममीनाशनास्तत्र किराता द्वीपवासिनः। | 4.40.27aआममीनाशनास्तत्र किराता द्वीपवासिनः । | 4.40.28aआममीनाशनास्तत्र किराता द्वीपवासिनः। |
| 67 | #28bಅಂತರ್ಜಲಚರಾ ಘೋರಾ ನರವ್ಯಾಘ್ರಾ ಇತಿ ಸ್ಮೃತಾಃ ॥ | 4.40.28bअन्तर्जलचरा घोरा नरव्याघ्रा इति स्मृताः ॥ २८ ॥ | 4.39.27aअन्तर्जलचरा घोरा नरव्याघ्रा इति श्रुताः । | 4.40.27bअन्तर्जलचरा घोरा नरव्याघ्रा इति श्रुताः ॥ 4.40.27 ॥ | 4.40.27bअन्तर्जलचरा घोरा नरव्याघ्रा इति श्रुताः ॥ 4.40.27 ॥ | 4.40.27bअन्तर्जलचरा घोरा नरव्याघ्रा इति श्रुताः ॥ ४।४०।२७ ॥ | 4.40.28bअन्तर्जलचरा घोरा नरव्याघ्रा इति शृताः॥4.40.28॥ |
| 68 | #29aಏತೇಷಾಮಾಶ್ರಯಾಃ ಸರ್ವೇ ವಿಚೇಯಾಃ ಕಾನನೌಕಸಃ । | 4.40.29aएतेषामाश्रयाः सर्वे विचेयाः काननौकसः । | 4.39.27bएतेषामालयाः सर्वे विचेयाः काननौकसः ॥4.39.27॥ | 4.40.28एतेषामालयाः सर्वे विचेयाः काननौकसः ॥ 4.40.28 ॥ | 4.40.28एतेषामालयाः सर्वे विचेयाः काननौकसः ॥ 4.40.28 ॥ | 4.40.28एतेषामालयाः सर्वे विचेयाः काननौकसः ॥ ४।४०।२८ ॥ | 4.40.29aएतेषामाश्रयास्सर्वे विचेयाः कावनौकसः। |
| 69 | 4.40.2428aसमुद्रमित्यादि । | ||||||
| 70 | 4.40.2428bसमुद्रम् अवगाढान् प्रविष्टान् पर्वतान् मन्दरस्य आयतां कोटिं च संश्रिताः ये कर्णप्रावरणादयः एतेषामालायाः सर्वे विचेया इति सम्बन्धः । | ||||||
| 71 | 4.40.2428cकाननौकस इति सम्बोधनम् । | ||||||
| 72 | 4.40.2428dकर्णप्रावरणाः आच्छादितकर्णाः । | ||||||
| 73 | 4.40.2428eनिष्कर्णा इत्यर्थः । | ||||||
| 74 | 4.40.2428fओष्ठो कर्णौ येषां ते ओष्ठकर्णकाः । | ||||||
| 75 | 4.40.2428gलोहमुखाः लोहतुल्यमुखाः । | 4.40.2428aलोहतुल्यमुखाः । | |||||
| 76 | 4.40.2428hकर्णेषु चुडा येषां ते कर्णचूडाः । | 4.40.2428bकर्णेषु चुडा येषां ते कर्णचूडाः । | |||||
| 77 | 4.40.2428iआममीनाशना इति पूर्वोक्तकिराता व्यावर्त्यन्ते । | 4.40.2428cआममीनाशना इति पूर्वोक्तकिराता व्यावर्त्यन्ते । | |||||
| 78 | 4.40.2428jद्वीपवासिनः द्वीपान्तरे ऽपि वसन्तो मन्दरे ऽपि वसन्तीत्यर्थः । | 4.40.2428dद्वीपवासिनः द्वीपान्तरे ऽपि वसन्तो मन्दरे ऽपि वसन्तीत्यर्थः । | |||||
| 79 | 4.40.2428kनरव्याघ्राः अर्धनररूपा व्याघ्ररूपाश्चेत्यर्थः ॥ 4.40.2428 ॥ | 4.40.2428eनरव्याघ्राः अर्धनररूपा व्याघ्ररूपाश्चेत्यर्थः ॥ ४।४०।२४२८ ॥ | |||||
| 80 | #29bಗಿರಭಿರ್ಯೇ ಚ ಗಮ್ಯಂತೇ ಪ್ಲವನೇನ ಪ್ಲವೇನ ಚ ॥ | 4.40.29bगिरिभिर्ये च गम्यन्ते प्लवनेन प्लवेन च ॥ २९ ॥ | 4.39.28aगिरिभिर्ये च गम्यन्ते प्लवनेन प्लवेन च । | 4.40.29aगिरिभिर्ये च गम्यन्ते प्लवनेन प्लवेन च । | 4.40.29aगिरिभिर्ये च गम्यन्ते प्लवनेन प्लवेन च। | 4.40.29aगिरिभिर्ये च गम्यन्ते प्लवनेन प्लवेन च । | 4.40.29bगिरिभिर्ये च गम्यन्ते प्लवनेन प्लवेन च॥4.40.29॥ |
| 81 | #30aರತ್ನವಂತೋ ಯವದ್ವೀಪಂ ಸಪ್ತರಾಜೋಪಶೋಭಿತಮ್ । | 4.40.30aयत्नवन्तो यवद्वीपं सप्तराजोपशोभितम् । | 4.39.28bरत्नवन्तं यवद्वीपं सप्तराज्योपशोभितम् ॥4.39.28॥ | 4.40.29bरत्नवन्तं यवद्वीपं सप्तराज्योपशोभितम् ॥ 4.40.29 ॥ | 4.40.29bरत्नवन्तं यवद्वीपं सप्तराज्योपशोभितम् ॥ 4.40.29 ॥ | 4.40.29bरत्नवन्तं यवद्वीपं सप्तराज्योपशोभितम् ॥ ४।४०।२९ ॥ | 4.40.30aरत्नवन्तं यवद्वीपं सप्तराज्योपशोभितम्। |
| 82 | #30bಸುವರ್ಣರೂಪ್ಯಕದ್ವೀಪಂ ಸುವರ್ಣಾಕರಮಂಡಿತಮ್ ॥ | 4.40.30bसुवर्णरूप्यकद्वीपं सुवर्णाकरमण्डितम् ॥ ३० ॥ | 4.39.29aसुवर्णरूप्यकं चैव सुवर्णाकरमण्डितम् । | 4.40.30aसुवर्णरूप्यकं चैव सुवर्णाकरमण्डितम् । | 4.40.30aसुवर्णरूप्यकं चैव सुवर्णाकरमण्डितम्। | 4.40.30aसुवर्णरूप्यकं चैव सुवर्णाकरमण्डितम् । | 4.40.30bसुवर्णरूप्यकं चैव सुवर्णाकरमण्डितम्॥4.40.30॥ |
| 83 | #31aಯಮದ್ವೀಪಮತಿಕ್ರಮ್ಯ ಶಿಶಿರೋ ನಾಮಪರ್ವತಃ । | 4.40.31aयवद्वीपमतिक्रम्य शिशिरो नाम पर्वतः । | 4.39.29bयवद्वीपमतिक्रम्य शिशिरो नाम पर्वतः ॥4.39.29॥ | 4.40.30bयवद्वीपमतिक्रम्य शिशिरो नाम पर्वतः ॥ 4.40.30 ॥ | 4.40.30bयवद्वीपमतिक्रम्य शिशिरो नाम पर्वतः ॥ 4.40.30 ॥ | 4.40.30bयवद्वीपमतिक्रम्य शिशिरो नाम पर्वतः ॥ ४।४०।३० ॥ | 4.40.31aयवद्वीपमतिक्रम्य शिशिरो नाम पर्वतः। |
| 84 | #31bದಿವಂ ಸ್ಪೃಶತಿ ಶೃಂಗೇಣ ದೇವದಾನವಸೇವಿತಃ ॥ | 4.40.31bदिवं स्पृशति शृङ्गेण देवदानवसेवितः ॥ ३१ ॥ | 4.39.30aदिवं स्पृशति शृङ्गेण देवदानवसेवितः । | 4.40.31aदिवं स्पृशति शृङ्गेण देवदानवसेवितः । | 4.40.31aदिवं स्पृशति शृङ्गेण देवदानवसेवितः । | 4.40.31bदिवं स्पृशति शृङ्गेण देवदानवसेवितः॥4.40.31॥ | |
| 85 | #32aಏತೇಷಾಂ ಗಿರಿದುರ್ಗೇಷು ಪ್ರಪಾತೇಷು ವನೇಷು ಚ । | 4.40.32aएतेषां गिरिदुर्गेषु प्रपातेषु वनेषु च । | 4.39.30bएतेषां गिरिदुर्गेषु प्रतापेषु वनेषु च ॥4.39.30॥ | 4.40.31bएतेषां गिरिदुर्गेषु प्रपातेषु वनेषु च । | 4.40.31aएतेषां गिरिदुर्गेषु प्रपातेषु वनेषु च। | 4.40.31bएतेषां गिरिदुर्गेषु प्रपातेषु वनेषु च । | 4.40.32aएतेषां गिरिदुर्गेषु प्रपातेषु वनेषु च। |
| 86 | #32bಮಾರ್ಗಧ್ವಂ ಸಹಿತಾಃ ಸರ್ವೇ ರಾಮಪತ್ನೀಂ ಯಶಸ್ವಿನೀಮ್ ॥ | 4.40.32bमार्गध्वं सहिताः सर्वे रामपत्नीं यशस्विनीम् ॥ ३२ ॥ | 4.40.31cमार्गध्वं सहिताः सर्वे रामपत्नीं यशस्विनीम् ॥ 4.40.31 ॥ | 4.40.31bमार्गध्वं सहिताः सर्वे रामपत्नीं यशस्विनीम् ॥ 4.40.31 ॥ | 4.40.31cमार्गध्वं सहिताः सर्वे रामपत्नीं यशस्विनीम् ॥ ४।४०।३१ ॥ | 4.40.32bमार्गध्वं सहितास्सर्वे रामपत्नीं यशस्विनीम्॥4.40.32॥ | |
| 87 | 4.40.2931aमार्गध्वमिति सम्बन्धः । | ||||||
| 88 | 4.40.2931aएवं जम्बूद्वीपान्वेषणं विधाय द्वीपान्तरान्वेषणं विधत्ते गिरिभिरित्यादि रामपत्नीं यशस्विनीमित्यन्तमेकं वाक्यम् । | ||||||
| 89 | 4.40.2931bये द्वीपाः गिरिभिर्गम्यन्ते, प्लवनेन लङ्घनेन च ये गम्यन्ते, प्लवेन उडुपेन ये गम्यन्ते, तान् द्वीपान् सप्तराज्योपशोभितम् सप्तखण्डोपशोभितं यवद्वीपं च गच्छत । | ||||||
| 90 | 4.40.2931cतं यवद्वीपमतिक्रम्य यः शिशिरो नाम पर्वतः शृङ्गेण दिवं स्पृशति तं गच्छत । | ||||||
| 91 | 4.40.2931dएतेषां द्वीपादीनां गिरिदुर्गेषु वनेषु च प्रपातेषु निर्झरेषु च रामपत्नीं मार्गध्वमिति सम्बन्धः । | ||||||
| 92 | 4.40.2931eयवद्वीपसुवर्णरूप्यकावपि लङ्काद्वीपवत् समुद्रन्तर्वर्तिनौ द्वीपविशेषौ ॥ 4.40.2931 ॥ | 4.40.2931bयवद्वीपसुवर्णरूप्यकावपि लङ्काद्वीपवत् समुद्रन्तर्वर्तिनौ द्वीपविशेषौ ॥ ४।४०।२९३१ ॥ | |||||
| 93 | #33aತತೋ ರಕ್ತಜಲಂ ಪ್ರಾಪ್ಯ ಶೋಣಾಖ್ಯಂ ಶೀಘ್ರವಾಹಿನಮ್ । | 4.40.33aततो रक्तजलं प्राप्य शोणाख्यं शीघ्रवाहिनम् । | 4.40.32aततो रक्तजलं शोणमगाधं शीघ्रगामिनम् । | 4.40.32aततो रक्तजलं शोणमगाधं शीघ्रगामिनम्। | 4.40.32aततो रक्तजलं शोणमगाधं शीघ्रगामिनम् । | 4.40.33aततो रक्तजलं शोणमगाधं शीघ्रगामिनम्। | |
| 94 | #33bಗತ್ವಾ ಪಾರಂ ಸಮುದ್ರಸ್ಯ ಸಿದ್ಧಚಾರಣ ಸೇವಿತಮ್ ॥ | 4.40.33bगत्वा पारं समुद्रस्य सिद्धचारणसेवितम् ॥ ३३ ॥ | 4.40.32bगत्वा पारं समुद्रस्य सिद्धचारणसेवितम् ॥ 4.40.32 ॥ | 4.40.32bगत्वा पारं समुद्रस्य सिद्धचारणसेवितम् ॥ 4.40.32 ॥ | 4.40.32bगत्वा पारं समुद्रस्य सिद्धचारणसेवितम् ॥ ४।४०।३२ ॥ | 4.40.33bगत्वा पारं समुद्रस्य सिद्धचारणसेवितम्॥4.40.33॥ | |
| 95 | #34aತಸ್ಯ ತೀರ್ಥೇಷು ರಮ್ಯೇಷು ವಿಚಿತ್ರೇಷು ವನೇಷು ಚ । | 4.40.34aतस्य तीर्थेषु रम्येषु विचित्रेषु वनेषु च । | 4.40.33aतस्य तीर्थेषु रम्येषु विचित्रेषु वनेषु च । | 4.40.33aतस्य तीर्थेषु रम्येषु विचित्रेषु वनेषु च। | 4.40.33aतस्य तीर्थेषु रम्येषु विचित्रेषु वनेषु च । | 4.40.34aतस्य तीर्थेषु रम्येषु विचित्रेषु वनेषु च। | |
| 96 | #34bರಾವಣಃ ಸಹ ವೈದೇಹ್ಯಾ ಮಾರ್ಗಿತವ್ಯಸ್ತತಸ್ತತಃ ॥ | 4.40.34bरावणः सह वैदेह्या मार्गितव्यस्ततस्ततः ॥ ३४ ॥ | 4.39.31aरावणः सह वैदेह्या मार्गितव्यस्ततस्ततः । | 4.40.33bरावणः सह वैदेह्या मार्गितव्यस्ततस्ततः ॥ 4.40.33 ॥ | 4.40.33bरावणः सह वैदेह्या मार्गितव्यस्ततस्ततः ॥ 4.40.33 ॥ | 4.40.33bरावणः सह वैदेह्या मार्गितव्यस्ततस्ततः ॥ ४।४०।३३ ॥ | 4.40.34bरावणस् सह वैदेह्या मार्गितव्यस्ततस्ततः॥4.40.34॥ |
| 97 | #35aಪರ್ವತಪ್ರಭವಾ ನದ್ಯಃ ಸುಭೀಮ ಬಹುನಿಷ್ಕುಟಾಃ । | 4.40.35aपर्वतप्रभवा नद्यः सुभीमबहुनिष्कुटाः । | 4.40.34aपर्वतप्रभवा नद्यः सुरम्या बहुनिष्कुटाः । | 4.40.34aपर्वतप्रभवा नद्यः सुरम्या बहुनिष्कुटाः। | 4.40.34aपर्वतप्रभवा नद्यः सुरम्या बहुनिष्कुटाः । | ||
| 98 | #35bಮಾರ್ಗಿತವ್ಯಾ ದರೀಮಂತಃ ಪರ್ವತಾಶ್ಚ ವನಾನಿ ಚ ॥ | 4.40.35bमार्गितव्या दरीमन्तः पर्वताश्च वनानि च ॥ ३५ ॥ | 4.40.34bमार्गितव्या दरीमन्तः पर्वताश्च वनानि च ॥ 4.40.34 ॥ | 4.40.34bमार्गितव्या दरीमन्तः पर्वताश्च वनानि च ॥ 4.40.34 ॥ | 4.40.34bमार्गितव्या दरीमन्तः पर्वताश्च वनानि च ॥ ४।४०।३४ ॥ | ||
| 99 | #36aತತಃ ಸಮುದ್ರದ್ವೀಪಾಂಶ್ಚ ಸುಭೀಮಾನ್ ದ್ರಷ್ಟುಮರ್ಹಥ । | 4.40.36aततः समुद्रद्वीपांश्च सुभीमान् द्रष्टुमर्हथ । | 4.39.31bततः समुद्रद्वीपांश्च सुभीमान्द्रष्टुमर्हथ ॥4.39.31॥ | 4.40.35ततः समुद्रद्वीपांश्च सुभीमान् द्रष्टुमर्हथ ॥ 4.40.35 ॥ | 4.40.35ततः समुद्रद्वीपांश्च सुभीमान् द्रष्टुमर्हथ ॥ 4.40.35 ॥ | 4.40.35ततः समुद्रद्वीपांश्च सुभीमान् द्रष्टुमर्हथ ॥ ४।४०।३५ ॥ | 4.40.35aततस् समुद्रद्वीपांश्च सुभीमान्द्रष्टुमर्हथ। |
| 100 | #36bಊರ್ಮಿಮಂತಂ ಮಹಾರೌದ್ರಂ ಕ್ರೋಶಂತಮನಿಲೋದ್ಧತಮ್ ॥ | 4.40.36bऊर्मिमन्तं महारौद्रं क्रोशन्तमनिलोद्धतम् ॥ ३६ ॥ | 4.40.36ऊर्मिमन्तं समुद्रं च क्रोशन्तमनिलोद्धतम् ॥ 4.40.36 ॥ | 4.40.36ऊर्मिमन्तं समुद्रं च क्रोशन्तमनिलोद्धतम् ॥ 4.40.36 ॥ | 4.40.36ऊर्मिमन्तं समुद्रं च क्रोशन्तमनिलोद्धतम् ॥ ४।४०।३६ ॥ | 4.40.35bऊर्मिमन्तं समुद्रं च क्रोशन्तमनिलोद्धतम्॥4.40.35॥ | |
| 101 | #37aತತ್ರಾಸುರಾ ಮಹಾಕಾಯಾಶ್ಛಾಯಾಂ ಗೃಹ್ಣಂತಿ ನಿತ್ಯಶಃ । | 4.40.37aतत्रासुरा महाकायाश्छायां गृह्णन्ति नित्यशः । | 4.39.32aतत्रासुरा महाकायाश्छायां गृह्णन्ति नित्यशः । | 4.40.37aतत्रासुरा महाकायाश्छायां गृह्णन्ति नित्यशः । | 4.40.37aतत्रासुरा महाकायाश्छायां गृह्णन्ति नित्यशः। | 4.40.37aतत्रासुरा महाकायाश्छायां गृह्णन्ति नित्यशः । | 4.40.36aतत्रासुरा महाकायाश्छायां गृह्णन्ति नित्यशः। |
| 102 | #37bಬ್ರಹ್ಮಣಾ ಸಮನುಜ್ಞಾತಾ ದೀರ್ಘಕಾಲಂ ಬುಭುಕ್ಷಿತಾಃ ॥ | 4.40.37bब्रह्मणा समनुज्ञाता दीर्घकालं बुभुक्षिताः ॥ ३७ ॥ | 4.39.32bब्रह्मणा समनुज्ञाता दीर्घकालं बुभुक्षिताः ॥4.39.32॥ | 4.40.37bब्रह्मणा समनुज्ञाता दीर्घकालं बुभुक्षिताः ॥ 4.40.37 ॥ | 4.40.37bब्रह्मणा समनुज्ञाता दीर्घकालं बुभुक्षिताः ॥ 4.40.37 ॥ | 4.40.37bब्रह्मणा समनुज्ञाता दीर्घकालं बुभुक्षिताः ॥ ४।४०।३७ ॥ | 4.40.36bब्रह्मणा समनुज्ञाता दीर्घकालं बुभुक्षिताः॥4.40.36॥ |
| 103 | #38aತಂ ಕಾಲಮೇಘಪ್ರತಿಮಂ ಮಹೋರಗನಿಷೇವಿತಮ್ । | 4.40.38aतं कालमेघप्रतिमं महोरगनिषेवितम् । | 4.39.33aतं कालमेघप्रतिमं महोरगनिषेवितम् । | 4.40.38aतं कालमेघप्रतिमं महोरगनिषेवितम् । | 4.40.38aतं कालमेघप्रतिमं महोरगनिषेवितम्। | 4.40.38aतं कालमेघप्रतिमं महोरगनिषेवितम् । | 4.40.37aतं कालमेघप्रतिमं महोरगनिषेवितम्। |
| 104 | #38bಅಭಿಗಮ್ಯ ಮಹಾನಾದಂ ತೀರ್ಥೇನೈವ ಮಹೋದಧಿಮ್ ॥ | 4.40.38bअभिगम्य महानादं तीर्थेनैव महोदधिम् ॥ ३८ ॥ | 4.39.33bअभिगम्य महानादं तीर्थेनैव महोदधिम् ॥4.39.33॥ | 4.40.38bअभिगम्य महानादं तीर्थेनैव महोदधिम् ॥ 4.40.38 ॥ | 4.40.38bअभिगम्य महानादं तीर्थेनैव महोदधिम् ॥ 4.40.38 ॥ | 4.40.38bअभिगम्य महानादं तीर्थेनैव महोदधिम् ॥ ४।४०।३८ ॥ | 4.40.37bअभिगम्य महानादं तीर्थेनैव महोदधिम्॥4.40.37॥ |
| 105 | #39aತತೋ ರಕ್ತಜಲಂ ಭೀಮಂ ಲೋಹಿತಂ ನಾಮ ಸಾಗರಮ್ । | 4.40.39aततो रक्तजलं भीमं लोहितं नाम सागरम् । | 4.39.34aततो रक्तजलं भीमं लोहितं नाम सागरम् । | 4.40.39aततो रक्तजलं भीमं लोहितं नाम सागरम् । | 4.40.39aततो रक्तजलं भीमं लोहितं नाम सागरम्। | 4.40.39aततो रक्तजलं भीमं लोहितं नाम सागरम् । | 4.40.38aततो रक्तजलं भीमं लोहितं नाम सागरम्। |
| 106 | #39bಗತಾ ದ್ರಕ್ಷ್ಯಥ ತಾಂ ಚೈವ ಬೃಹತೀಂ ಕೂಟಶಾಲ್ಮಲೀಮ್ ॥ | 4.40.39bगत्वा प्रेक्ष्यथ तां चैव बृहतीं कूटशाल्मलीम् ॥ ३९ ॥ | 4.39.34bगता द्रक्ष्यथ तां चैव बृहतीं कूटशाल्मलीम् ॥4.39.34॥ | 4.40.39bगता द्रक्ष्यथ तां चैव बृहतीं कूटशाल्मलीम् ॥ 4.40.39 ॥ | 4.40.39bगता द्रक्ष्यथ तां चैव बृहतीं कूटशाल्मलीम् ॥ 4.40.39 ॥ | 4.40.39bगता द्रक्ष्यथ तां चैव बृहतीं कूटशाल्मलीम् ॥ ४।४०।३९ ॥ | 4.40.38bगत्वा प्रेक्ष्यथ तां चैव बृहतीं कूटशाल्मलीम्॥4.40.38॥ |
| 107 | #40aಗೃಹಂ ಚ ವೈನತೇಯಸ್ಯ ನಾನಾರತ್ನ ವಿಭೂಷಿತಮ್ । | 4.40.40aगृहं च वैनतेयस्य नानारत्नविभूषितम् । | 4.39.35aगृहं च वैनतेयस्य नानारत्नविभूषितम् । | 4.40.40aगृहं च वैनतेयस्य नानारत्नविभूषितम् । | 4.40.40aगृहं च वैनतेयस्य नानारत्नविभूषितम्। | 4.40.40aगृहं च वैनतेयस्य नानारत्नविभूषितम् । | 4.40.39aगृहं च वैनतेयस्य नानारत्नविभूषितम्। |
| 108 | #40bತತ್ರ ಕೈಲಾಸಸಂಕಾಶಂ ವಿಹಿತಂ ವಿಶ್ವಕರ್ಮಣಾ ॥ | 4.40.40bतत्र कैलाससङ्काशं विहितं विश्वकर्मणा ॥ ४० ॥ | 4.39.35bतत्र कैलाससंकाशं विहितं विश्वकर्मणा ॥4.39.35॥ | 4.40.40bतत्र कैलाससङ्काशं विहितं विश्वकर्मणा ॥ 4.40.40 ॥ | 4.40.40bतत्र कैलाससङ्काशं विहितं विश्वकर्मणा ॥ 4.40.40 ॥ | 4.40.40bतत्र कैलाससङ्काशं विहितं विश्वकर्मणा ॥ ४।४०।४० ॥ | 4.40.39bतत्र कैलाससङ्काशं विहितं विश्वकर्मणा॥4.40.39॥ |
| 109 | 4.40.3840aवैजयन्ती । | ||||||
| 110 | 4.40.3840aतमिति । | ||||||
| 111 | 4.40.3840bतीर्थेनाभिगम्य उपायेनाभिगम्य । | ||||||
| 112 | 4.40.3840c“तीर्थं मन्त्राद्युपाध्यायशास्त्रेष्वम्भसि पावने । | ||||||
| 113 | 4.40.3840dपात्रोपायावतरणेषु” इति वैजयन्ती । | ||||||
| 114 | 4.40.3840eछायाग्राहिपरिहारेण गन्तव्यमित्यर्थः । | 4.40.3840bछायाग्राहिपरिहारेण गन्तव्यमित्यर्थः । | |||||
| 115 | 4.40.3840fयद्वा तीर्थेनावतरणेन गन्तव्यं नान्येन । | 4.40.3840cयद्वा तीर्थेनावतरणेन गन्तव्यं नान्येन । | |||||
| 116 | 4.40.3840gतेन छायाग्राहिपरिहारो भविष्यतीति भावः । | 4.40.3840dतेन छायाग्राहिपरिहारो भविष्यतीति भावः । | |||||
| 117 | 4.40.3840hततो गताः इक्षुसमुद्रान्निर्गताः । | 4.40.3840eततो गताः इक्षुसमुद्रान्निर्गताः । | |||||
| 118 | 4.40.3840iतां कूटशाल्मलीं लोहितं नाम सागरं मधुसमुद्रं च द्रक्ष्यथ । | 4.40.3840fतां कूटशाल्मलीं लोहितं नाम सागरं मधुसमुद्रं च द्रक्ष्यथ । | |||||
| 119 | 4.40.3840jगृहं चेति । | 4.40.3840gगृहं चेति । | |||||
| 120 | 4.40.3840kतत्र शाल्मलिद्वीपे ॥ 4.40.3840 ॥ | 4.40.3840hतत्र शाल्मलिद्वीपे ॥ ४।४०।३८४० ॥ | |||||
| 121 | #41aತತ್ರ ಶೈಲನಿಭಾ ಭೀಮಾ ಮಂದೇಹಾ ನಾಮ ರಾಕ್ಷಸಾಃ । | 4.40.41aतत्र शैलनिभा भीमा मन्देहा नाम राक्षसाः । | 4.39.36aतत्र शैलनिभा भीमा मन्देहा नाम राक्षसाः । | 4.40.41aतत्र शैलनिभा भीमा मन्देहा नाम राक्षसाः । | 4.40.41aतत्र शैलनिभा भीमा मन्देहा नाम राक्षसाः। | 4.40.41aतत्र शैलनिभा भीमा मन्देहा नाम राक्षसाः । | 4.40.40aतत्र शैलनिभा भीमा मन्देहा नाम राक्षसाः। |
| 122 | #41bಶೈಲಶೃಂಗೇಷು ಲಂಬಂತೇ ನಾನಾರೂಪಾ ಭಯಾವಹಾಃ ॥ | 4.40.41bशैलशृङ्गेषु लम्बन्ते नानारूपा भयावहाः ॥ ४१ ॥ | 4.39.36bशैलशृङ्गेषु लम्बन्ते नानारूपा भयावहाः ॥4.39.36॥ | 4.40.41bशैलशृङ्गेषु लम्बन्ते नानारुपा भयावहाः ॥ 4.40.41 ॥ | 4.40.41bशैलशृङ्गेषु लम्बन्ते नानारुपा भयावहाः ॥ 4.40.41 ॥ | 4.40.41bशैलशृङ्गेषु लम्बन्ते नानारुपा भयावहाः ॥ ४।४०।४१ ॥ | 4.40.40bशैलशृङ्गेषु लम्बन्ते नानारूपा भयावहाः॥4.40.40॥ |
| 123 | #42aತೇ ಪತಂತಿ ಜಲೇ ನಿತ್ಯಂ ಸೂರ್ಯಸ್ಯೋದಯನಂ ಪ್ರತಿ । | 4.40.42aते पतन्ति जले नित्यं सूर्यस्योदयनं प्रति । | 4.39.37aते पतन्ति जले नित्यं सूर्यस्योदयनं प्रति । | 4.40.42aते पतन्ति जले नित्यं सूर्यस्योदयनं प्रति । | 4.40.42aते पतन्ति जले नित्यं सूर्यस्योदयनं प्रति । | 4.40.41aते पतन्ति जले नित्यं सूर्यस्योदयनं प्रति। | |
| 124 | #42bಅಭಿತಪ್ತಾಃ ಸ್ಮ ಸೂರ್ಯೇಣ ಲಂಬಂತೇ ಸ್ಮ ಪುನಃ ಪುನಃ ॥ | 4.40.42bअभितप्ताः स्म सूर्येण लम्बन्ते स्म पुनः पुनः ॥ ४२ ॥ | |||||
| 125 | #43aನಿಹತಾ ಬ್ರಹ್ಮತೇಜೋಭಿರಹನ್ಯಹನಿ ರಾಕ್ಷಸಾಃ । | 4.40.43aनिहता ब्रह्मतेजोभिरहन्यहनि राक्षसाः । | 4.40.42bनिहता ब्रह्मतेजोभिरहन्यहनि राक्षसाः । | 4.40.42aनिहता ब्रह्मतेजोभिरहन्यहनि राक्षसाः। | 4.40.42bनिहता ब्रह्मतेजोभिरहन्यहनि राक्षसाः । | 4.40.41bनिहता ब्रह्मतेजोभिरहन्यहनि राक्षसाः॥4.40.41॥ | |
| 126 | 4.39.37bअभितप्ताश्च सूर्येण लम्बन्ते स्म पुनः पुनः ॥4.39.37॥ | 4.40.42cअभितप्ताश्च सूर्येण लम्बन्ते स्म पुनःपुनः ॥ 4.40.42 ॥ | 4.40.42bअभितप्ताश्च सूर्येण लम्बन्ते स्म पुनःपुनः ॥ 4.40.42 ॥ | 4.40.42cअभितप्ताश्च सूर्येण लम्बन्ते स्म पुनःपुनः ॥ ४।४०।४२ ॥ | 4.40.42aअभितप्ताश्च सूर्येण लम्बन्ते स्म पुनः पुनः। | ||
| 127 | #43bತತಃ ಪಾಂಡುರಮೇಘಾಭಂ ಕ್ಷೀರೋದಂ ನಾಮ ಸಾಗರಮ್ ॥ | 4.40.43bततः पाण्डुरमेघाभं क्षीरोदं नाम सागरम् ॥ ४३ ॥ | 4.39.38aततः पाण्डुरमेघाभं क्षीरौदं नाम सागरम् । | 4.40.43aततः पाण्डरमेघाभं क्षीरोदं नाम सागरम् । | 4.40.43aततः पाण्डरमेघाभं क्षीरोदं नाम सागरम्। | 4.40.43aततः पाण्डरमेघाभं क्षीरोदं नाम सागरम् । | 4.40.42bततः पाण्डुरमेघाभं क्षीरोदं नाम सागरम्॥4.40.42॥ |
| 128 | #44aಗತ್ವಾ ದ್ರಕ್ಷ್ಯಥ ದುರ್ಧರ್ಷಾ ಮುಕ್ತಾಹಾರಮಿವೋರ್ಮಿಭಿಃ । | 4.40.44aगत्वा द्रक्ष्यथ दुर्धर्षा मुक्ताहारमिवोर्मिभिः । | 4.39.38bगता द्रक्ष्यथ दुर्धर्षा मुखा हारमिवोर्मिभिः ॥4.39.38॥ | 4.40.43bगता द्रक्ष्यथ दुर्धर्षा मुक्ताहारमिवोर्मिभिः ॥ 4.40.43 ॥ | 4.40.43bगता द्रक्ष्यथ दुर्धर्षा मुक्ताहारमिवोर्मिभिः ॥ 4.40.43 ॥ | 4.40.43bगता द्रक्ष्यथ दुर्धर्षा मुक्ताहारमिवोर्मिभिः ॥ ४।४०।४३ ॥ | 4.40.43aगत्वा द्रक्ष्यथ दुर्धर्षा मुक्ताहारमिवोर्मिभिः। |
| 129 | #44bತಸ್ಯ ಮಧ್ಯೇ ಮಹಾನ್ ಶ್ವೇತೋ ಋಷಭೋ ನಾಮ ಪರ್ವತಃ ॥ | 4.40.44bतस्य मध्ये महान् श्वेतो ऋषभो नाम पर्वतः ॥ ४४ ॥ | 4.39.39aतस्य मध्ये महाश्वेत ऋषभो नाम पर्वतः । | 4.40.44aतस्य मध्ये महान् श्वेत ऋषभो नाम पर्वतः । | 4.40.44aतस्य मध्ये महान् श्वेत ऋषभो नाम पर्वतः। | 4.40.44aतस्य मध्ये महान् श्वेत ऋषभो नाम पर्वतः । | 4.40.43bतस्य मध्ये महान् श्वेतो ऋषभो नाम पर्वतः॥4.40.43॥ |
| 130 | #45aದಿವ್ಯಗಂಧೈಃ ಕುಸುಮಿತೈರಾಚಿತೈಶ್ಚ ನಗೈರ್ವೃತಃ । | 4.40.45aदिव्यगन्धैः कुसुमितैराचितैश्च नगैर्वृतः । | 4.39.39bदिव्यगन्धैः कुसुमितै रजतैश्च नगैर्वृतः ॥4.39.39॥ | 4.40.44bदिव्यगन्धैः कुसुमितै राजतैश्च नगेर्वृतः ॥ 4.40.44 ॥ | 4.40.44bदिव्यगन्धैः कुसुमितै राजतैश्च नगेर्वृतः ॥ 4.40.44 ॥ | 4.40.44bदिव्यगन्धैः कुसुमितै राजतैश्च नगेर्वृतः ॥ ४।४०।४४ ॥ | 4.40.44aदिव्यगन्धैः कुसुमितै राजितैश्च नगैर्वृतः। |
| 131 | #45bಸರಶ್ಚ ರಾಜತೈಃ ಪದ್ಮೈರ್ಜ್ವಲಿತೈರ್ಹೇಮಕೇಸರೈಃ ॥ | 4.40.45bसरश्च राजतैः पद्मैर्ज्वलितैर्हेमकेसरैः ॥ ४५ ॥ | 4.39.40aसरश्च राजतैः पद्मैर्ज्वलितैर्हेमकेसरैः । | 4.40.45aसरश्च राजतैः पद्मैर्ज्वलितैर्हेमकेसरैः । | 4.40.45aसरश्च राजतैः पद्मैर्ज्वलितैर्हेमकेसरैः। | 4.40.45aसरश्च राजतैः पद्मैर्ज्वलितैर्हेमकेसरैः । | 4.40.44bसरश्च राजतैः पद्मैर्ज्वलितैर्हेमकेसरैः॥4.40.44॥ |
| 132 | #46aನಾಮ್ನಾ ಸುದರ್ಶನಂ ನಾಮ ರಾಜಹಂಸೈಃ ಸಮಾಕುಲಮ್ । | 4.40.46aनाम्ना सुदर्शनं नाम राजहंसैः समाकुलम् । | 4.39.40bनाम्ना सुदर्शनं नाम राजहंसैः समाकुलम् ॥4.39.40॥ | 4.40.45bनाम्ना सुदर्शनं नाम राजहंसैः समाकुलम् ॥ 4.40.45 ॥ | 4.40.45bनाम्ना सुदर्शनं नाम राजहंसैः समाकुलम् ॥ 4.40.45 ॥ | 4.40.45bनाम्ना सुदर्शनं नाम राजहंसैः समाकुलम् ॥ ४।४०।४५ ॥ | 4.40.45aनाम्ना सुदर्शनं नाम राजहंसैस्समाकुलम्। |
| 133 | #46bವಿಬುಧಾಶ್ಚಾರಣಾ ಯಕ್ಷಾಃ ಕಿನ್ನರಾಶ್ಚಾಪ್ಸರೋಗಣಾಃ ॥ | 4.40.46bविबुधाश्चारणा यक्षाः किन्नराश्चाप्सरोगणाः ॥ ४६ ॥ | 4.39.41aविबुधाश्चारणा यक्षाः किंनराः साप्सरोगणाः । | 4.40.46aविबुधाश्चारणा यक्षाः किन्नराः साप्सरोगणाः । | 4.40.46aविबुधाश्चारणा यक्षाः किन्नराः साप्सरोगणाः। | 4.40.46aविबुधाश्चारणा यक्षाः किन्नराः साप्सरोगणाः । | 4.40.45bविबुधाश्चारणा यक्षाः किन्नराश्चाप्सरोगणाः॥4.40.45॥ |
| 134 | #47aಹೃಷ್ಟಾಃ ಸಮಧಿಗಚ್ಛಂತಿ ನಲಿನೀಂ ತಾಂ ರಿರಂಸವಃ । | 4.40.47aहृष्टाः समधिगच्छन्ति नलिनीं तां रिरंसवः । | 4.39.41bहृष्टाः समभिगच्छन्ति नलिनीं तां रिरंसवः ॥4.39.41॥ | 4.40.46bहृष्टाः समभिगच्छन्ति नलिनीं तां रिरंसवः ॥ 4.40.46 ॥ | 4.40.46bहृष्टाः समभिगच्छन्ति नलिनीं तां रिरंसवः ॥ 4.40.46 ॥ | 4.40.46bहृष्टाः समभिगच्छन्ति नलिनीं तां रिरंसवः ॥ ४।४०।४६ ॥ | 4.40.46aहृष्टास्समभिगच्छन्ति नलिनीं तां रिरंसवः। |
| 135 | #47bಕ್ಷೀರೋದಂ ಸಮತಿಕ್ರಮ್ಯ ತತೋ ದ್ರಕ್ಷ್ಯಥ ವಾನರಾಃ ॥ | 4.40.47bक्षीरोदं समतिक्रम्य तदा द्रक्ष्यथ वानराः ॥ ४७ ॥ | 4.39.42aक्षीरोदं समतिक्रम्य ततो द्रक्ष्यथ वानराः । | 4.40.47aक्षीरोदं समतिक्रम्य ततो द्रक्ष्यथ वानराः । | 4.40.47aक्षीरोदं समतिक्रम्य ततो द्रक्ष्यथ वानराः। | 4.40.47aक्षीरोदं समतिक्रम्य ततो द्रक्ष्यथ वानराः । | 4.40.46bक्षीरोदं समतिक्रम्य तदा द्रक्ष्यथ वानराः॥4.40.46॥ |
| 136 | #48aಜಲೋದಂ ಸಾಗರಂ ಶೀಘ್ರಂ ಸರ್ವಭೂತ ಭಯಾವಹಮ್ । | 4.40.48aजलोदं सागरं शीघ्रं सर्वभूतभयावहम् । | 4.39.42bजलोदं सागरश्रेष्ठं सर्वभूतभयावहम् ॥4.39.42॥ | 4.40.47bजलोदं सागरश्रेष्ठं सर्वभूतभयावहम् ॥ 4.40.47 ॥ | 4.40.47bजलोदं सागरश्रेष्ठं सर्वभूतभयावहम् ॥ 4.40.47 ॥ | 4.40.47bजलोदं सागरश्रेष्ठं सर्वभूतभयावहम् ॥ ४।४०।४७ ॥ | 4.40.47aजलोदं सागरं शीघ्रं सर्वभूतभयावहम्। |
| 137 | #48bತತ್ರ ತತ್ಕೋಪಜಂ ತೇಜಃ ಕೃತಂ ಹಯಮುಖಂ ಮಹತ್ ॥ | 4.40.48bतत्र तत्कोपजं तेजः कृतं हयमुखं महत् ॥ ४८ ॥ | 4.39.43aतत्र तत्कोपजं तेजः कृतं हयमुखं महत् । | 4.40.48aतत्र तत्कोपजं तेजः कृतं हयमुखं महत् । | 4.40.48aतत्र तत्कोपजं तेजः कृतं हयमुखं महत्। | 4.40.48aतत्र तत्कोपजं तेजः कृतं हयमुखं महत् । | 4.40.47bतत्र तत्कोपजं तेजः कृतं हयमुखं महत्॥4.40.47॥ |
| 138 | #49aಅಸ್ಯಾಹುಸ್ತನ್ಮಹಾವೇಗಮೋದನಂ ಸಚರಾಚರಮ್ । | 4.40.49aअस्याहुस्तन्महावेगमोदनं सचराचरम् । | 4.39.43bअस्याहुस्तन्महावेगमोदनं सचराचरम् ॥4.39.43॥ | 4.40.48bअस्याहुस्तन्महावेगमोदनं सचराचरम् ॥ 4.40.48 ॥ | 4.40.48bअस्याहुस्तन्महावेगमोदनं सचराचरम् ॥ 4.40.48 ॥ | 4.40.48bअस्याहुस्तन्महावेगमोदनं सचराचरम् ॥ ४।४०।४८ ॥ | 4.40.48aअस्याहुस्तन्महावेगमोदनं सचराचरम्। |
| 139 | #49bತತ್ರ ವಿಕ್ರೋಶತಾಂ ನಾದೋ ಭೂತಾನಾಂ ಸಾಗರೌಕಸಾಮ್॥ | 4.40.49bतत्र विक्रोशतां नादो भूतानां सागरौकसाम् । | 4.39.44aतत्र विक्रोशतां नादो भूतानां सागरौकसाम् । | 4.40.49aतत्र विक्रोशतां नादो भूतानां सागरौकसाम् । | 4.40.49aतत्र विक्रोशतां नादो भूतानां सागरौकसाम्। | 4.40.49aतत्र विक्रोशतां नादो भूतानां सागरौकसाम् । | 4.40.48bतत्र विक्रोशतां नादो भूतानां सागरौकसाम्॥4.40.48॥ |
| 140 | #50ಶ್ರೂಯತೇ ಚಾಸಮರ್ಥಾನಾಂ ದೃಷ್ಟ್ವಾ ಭೂದ್ ವಡವಾಮುಖಮ್ ॥ | 4.40.49cश्रूयते चासमर्थानां दृष्ट्वाभूद् वडवामुखम् ॥ ४९ ॥ | 4.39.44bश्रूयते चासमर्थानां दृष्ट्वा तद्वडवामुखम् ॥4.39.44॥ | 4.40.49bश्रूयते च समर्थानां दृष्ट्वा तद् वडवामुखम् ॥ 4.40.49 ॥ | 4.40.49bश्रूयते च समर्थानां दृष्ट्वा तद् वडवामुखम् ॥ 4.40.49 ॥ | 4.40.49bश्रूयते च समर्थानां दृष्ट्वा तद् वडवामुखम् ॥ ४।४०।४९ ॥ | 4.40.49aश्रूयते च समर्थानां दृष्ट्वा तद्बडबामुखम्। |
| 141 | #51aಸ್ವಾದೂದಸ್ಯೋತ್ತರೇ ತೀರೇ ಯೋಜನಾನಿ ತ್ರಯೋದಶ । | 4.40.50aस्वादूदस्योत्तरे तीरे योजनानि त्रयोदश । | 4.39.45aस्वादूदस्योत्तरे देशे योजनानि त्रयोदश । | 4.40.50aस्वादूदस्योत्तरे देशे योजनानि त्रयोदश । | 4.40.50aस्वादूदस्योत्तरे देशे योजनानि त्रयोदश। | 4.40.50aस्वादूदस्योत्तरे देशे योजनानि त्रयोदश । | 4.40.49bस्वादूदस्योत्तरे देशे योजनानि त्रयोदश॥4.40.49॥ |
| 142 | #51bಜಾತರೂಪಶಿಲೋ ನಾಮ ಸುಮಹಾನ್ ಕನಕಪ್ರಭಃ ॥ | 4.40.50bजातरूपशिलो नाम सुमहान् कनकप्रभः ॥ ५० ॥ | 4.39.45bजातरूपशिलो नाम महान्कनकपर्वतः ॥4.39.45॥ | 4.40.50bजातरूपशिलो नाम महान् कनकपर्वतः ॥ 4.40.50 ॥ | 4.40.50bजातरूपशिलो नाम महान् कनकपर्वतः ॥ 4.40.50 ॥ | 4.40.50bजातरूपशिलो नाम महान् कनकपर्वतः ॥ ४।४०।५० ॥ | 4.40.50aजातरूपशिलो नाम महान्कनकपर्वतः। |
| 143 | 4.40.51aतत्र चन्द्रप्रतीकाशं पन्नगं धरणीधरम् । | 4.40.51aतत्र चन्द्रप्रतीकाशं पन्नगं धरणीधरम् । | 4.40.51aतत्र चन्द्रप्रतीकाशं पन्नगं धरणीधरम्। | 4.40.51aतत्र चन्द्रप्रतीकाशं पन्नगं धरणीधरम् । | 4.40.50bतत्र चन्द्रप्रतीकाशं पन्नगं धरणीधरम्॥4.40.50॥ | ||
| 144 | 4.40.51bपद्मपत्रविशालाक्षं ततो द्रक्ष्यथ वानराः ॥ ५१ ॥ | 4.40.51bपद्मपत्त्रविशालाक्षं ततो द्रक्ष्यथ वानराः ॥ 4.40.51 ॥ | 4.40.51bपद्मपत्त्रविशालाक्षं ततो द्रक्ष्यथ वानराः ॥ 4.40.51 ॥ | 4.40.51bपद्मपत्त्रविशालाक्षं ततो द्रक्ष्यथ वानराः ॥ ४।४०।५१ ॥ | 4.40.51aपद्मपत्रविशालाक्षं ततो द्रक्ष्यथ वानराः। | ||
| 145 | #52aತತ್ರ ಚಂದ್ರಪ್ರತೀಕಾಶಂ ಪನ್ನಗಂ ಧರಣೀಧರಮ್ । | 4.40.52aआसीनं पर्वतस्याग्रे सर्वदेवनमस्कृतम् । | 4.39.46aआसीनं पर्वतस्याग्रे सर्वभूतनमस्कृतम् । | 4.40.52aआसीनं पर्वतस्याग्रे सर्वभूतनमस्कृतम् । | 4.40.52aआसीनं पर्वतस्याग्रे सर्वभूतनमस्कृतम्। | 4.40.52aआसीनं पर्वतस्याग्रे सर्वभूतनमस्कृतम् । | 4.40.51bआसीनं पर्वतस्याग्रे सर्वभूतनमस्कृतम्॥4.40.51॥ |
| 146 | #52bಪದ್ಮಪತ್ರವಿಶಾಲಾಕ್ಷಂ ತತೋ ದ್ರಕ್ಷ್ಯಥ ವಾನರಾಃ ॥ | 4.40.52bसहस्रशिरसं देवमनन्तं नीलवाससम् ॥ ५२ ॥ | 4.39.46bसहस्रशिरसं देवमनन्तं नीलवाससं ॥4.39.46॥ | 4.40.52bसहस्रशिरसं देवमनन्तं नीलवाससम् ॥ 4.40.52 ॥ | 4.40.52bसहस्रशिरसं देवमनन्तं नीलवाससम् ॥ 4.40.52 ॥ | 4.40.52bसहस्रशिरसं देवमनन्तं नीलवाससम् ॥ ४।४०।५२ ॥ | 4.40.52aसहस्रशिरसं देवमनन्तं नीलवाससम्। |
| 147 | #53aಆಸೀನಂ ಪರ್ವತಸ್ಯಾಗ್ರೇ ಸರ್ವದೇವನಮಸ್ಕೃತಮ್ । | 4.40.53aत्रिशिराः काञ्चनः केतुस्तालस्तस्य महात्मनः । | 4.39.47aत्रिशिराः काञ्चनः केतुस्तालस्तस्य महात्मनः । | 4.40.53aत्रिशिराः काञ्चनः केतुस्तालस्तस्य महात्मनः । | 4.40.53aत्रिशिराः काञ्चनः केतुस्तालस्तस्य महात्मनः। | 4.40.53aत्रिशिराः काञ्चनः केतुस्तालस्तस्य महात्मनः । | 4.40.52bत्रिशिराः काञ्चनः केतुस्तालस्तस्य महात्मनः॥4.40.52॥ |
| 148 | #53bಸಹಸ್ರಶಿರಸಂ ದೇವಮನಂತಂ ನೀಲವಾಸಸಮ್ ॥ | 4.40.53bस्थापितः पर्वतस्याग्रे विराजति सवेदिकः ॥ ५३ ॥ | 4.39.47bस्थापितः पर्वतस्याग्रे विराजति सवेदिकः ॥4.39.47॥ | 4.40.53bस्थापितः पर्वतस्याग्रे विराजति सवेदिकः ॥ 4.40.53 ॥ | 4.40.53bस्थापितः पर्वतस्याग्रे विराजति सवेदिकः ॥ 4.40.53 ॥ | 4.40.53bस्थापितः पर्वतस्याग्रे विराजति सवेदिकः ॥ ४।४०।५३ ॥ | 4.40.53aस्थापितः पर्वतस्याग्रे विराजति सवेदिकः। |
| 149 | 4.40.5053aस्वादूदस्य शुद्धजलसमुद्रस्य । | 4.40.5053aस्वादूदस्य शुद्धजलसमुद्रस्य । | |||||
| 150 | 4.40.5053bउत्तरे देशे अपरे पारे ॥ 4.40.5053 ॥ | 4.40.5053bउत्तरे देशे अपरे पारे ॥ ४।४०।५०५३ ॥ | |||||
| 151 | #54aತ್ರಿಶಿರಾಃ ಕಾಂಚನಃ ಕೇತುಸ್ತಾಲಸ್ತಸ್ಯ ಮಹಾತ್ಮನಃ । | 4.40.54aपूर्वस्यां दिशि निर्माणं कृतं तत् त्रिदशेश्वरैः । | 4.39.48aपूर्वस्यां दिशि निर्माणं कृतं तत्त्रिदशेश्वरैः । | 4.40.54पूर्वस्यां दिशि निर्माणं कृतं तत् त्रिदशेश्वरैः ॥ 4.40.54 ॥ | 4.40.54पूर्वस्यां दिशि निर्माणं कृतं तत् त्रिदशेश्वरैः ॥ 4.40.54 ॥ | 4.40.54पूर्वस्यां दिशि निर्माणं कृतं तत् त्रिदशेश्वरैः ॥ ४।४०।५४ ॥ | 4.40.53bपूर्वस्यां दिशि निर्माणं कृतं तत् त्रिदशेश्वरैः॥4.40.53॥ |
| 152 | #54bಸ್ಥಾಪಿತಃ ಪರ್ವತಸ್ಯಾಗ್ರೇ ವಿರಾಜತಿ ಸವೇದಿಕಃ ॥ | 4.40.54bततः परं हेममयः श्रीमानुदयपर्वतः ॥ ५४ ॥ | 4.39.48bततः परं हेममयः श्रीमानुदयपर्वतः ॥4.39.48॥ | 4.40.55aततः परं हेममयः श्रीमानुदयपर्वतः । | 4.40.55aततः परं हेममयः श्रीमानुदयपर्वतः। | 4.40.55aततः परं हेममयः श्रीमानुदयपर्वतः । | 4.40.54aततः परं हेममय श्श्रीमानुदयपर्वतः। |
| 153 | #55aಪೂರ್ವಸ್ಯಾಂ ದಿಶಿ ನಿರ್ಮಾಣಂ ಕೃತಂ ತತ್ ತ್ರಿದಶೇಶ್ವರೈಃ । | 4.40.55aतस्य कोटिर्दिवं स्पृष्ट्वा शतयोजनमायता । | 4.39.49aतस्य कोटिर्दिवं स्पृष्ट्वा शतयोजनमायता । | 4.40.55bतस्य कोटिर्दिवं स्पृष्ट्वा शतयोजनमायता ॥ 4.40.55 ॥ | 4.40.55bतस्य कोटिर्दिवं स्पृष्ट्वा शतयोजनमायता ॥ 4.40.55 ॥ | 4.40.55bतस्य कोटिर्दिवं स्पृष्ट्वा शतयोजनमायता ॥ ४।४०।५५ ॥ | 4.40.54bतस्य कोटिर्दिवं स्पृष्ट्वा शतयोजनमायता॥4.40.54॥ |
| 154 | #55bತತಃ ಪರಂ ಹೇಮಮಯಃ ಶ್ರೀಮಾನುದಯಪರ್ವತಃ ॥ | 4.40.55bजातरूपमयी दिव्या विराजति सवेदिका ॥ ५५ ॥ | 4.39.49bजातरूपमयी दिव्या विराजति सवेदिका ॥4.39.49॥ | 4.40.56aजातरूपमयी दिव्या विराजति सवेदिका । | 4.40.56aजातरूपमयी दिव्या विराजति सवेदिका । | 4.40.55aजातरूपमयी दिव्या विराजति सवेदिका। | |
| 155 | #56aತಸ್ಯ ಕೋಟಿರ್ದಿವಂ ಸ್ಪೃಷ್ಟ್ವಾ ಶತಯೋಜನಮಾಯತಾ । | 4.40.56aसालैस्तालैस्तमालैश्च कर्णिकारैश्च पुष्पितैः । | 4.39.50aसालैस्तालैस्तमालैश्च कर्णिकारैश्च पुष्पितैः । | 4.40.56bसालैस्तालैस्तमालैश्च कर्णिकारैश्च पुष्पितैः । | 4.40.56aसालैस्तालैस्तमालैश्च कर्णिकारैश्च पुष्पितैः। | 4.40.56bसालैस्तालैस्तमालैश्च कर्णिकारैश्च पुष्पितैः । | 4.40.55bसालैस्तालैस्तमालैश्च कर्णिकारैश्च पुष्पितैः॥4.40.55॥ |
| 156 | #56bಜಾತರೂಪಮಯೀ ದಿವ್ಯಾ ವಿರಾಜತ ಸವೇದಿಕಾ ॥ | 4.40.56bजातरूपमयैर्दिव्यैः शोभते सूर्यसन्निभैः ॥ ५६ ॥ | 4.39.50bजातरूपमयैर्दिव्यैः शोभते सूर्यसंनिभैः ॥4.39.50॥ | 4.40.56cजातरूपमयैर्दिव्यैः शोभते सूर्यसन्निभैः ॥ 4.40.56 ॥ | 4.40.56bजातरूपमयैर्दिव्यैः शोभते सूर्यसन्निभैः ॥ 4.40.56 ॥ | 4.40.56cजातरूपमयैर्दिव्यैः शोभते सूर्यसन्निभैः ॥ ४।४०।५६ ॥ | 4.40.56aजातरूपमयैर्दिव्यै श्शोभते सूर्यसन्निभैः। |
| 157 | 4.40.5456aपूर्वस्यामिति । | 4.40.5456aपूर्वस्यामिति । | |||||
| 158 | 4.40.5456bपूर्वस्यां दिशि तन्निर्माणं कृतम् । | 4.40.5456bपूर्वस्यां दिशि तन्निर्माणं कृतम् । | |||||
| 159 | 4.40.5456cपूर्वदिगवधित्वेन तालरूपः केतुः कल्पित इत्यर्थः ॥ 4.40.5456 ॥ | 4.40.5456cपूर्वदिगवधित्वेन तालरूपः केतुः कल्पित इत्यर्थः ॥ ४।४०।५४५६ ॥ | |||||
| 160 | #57aಸಾಲೈಸ್ತಾಲೈಸ್ತಮಾಲೈಶ್ಚ ಕರ್ಣಿಕಾರೈಶ್ಚ ಪುಷ್ಪಿತೈಃ । | 4.40.57aतत्र योजनविस्तारमुच्छ्रितं दशयोजनम् । | 4.39.51aतत्र योजनविस्तारमुच्छ्रितं दशयोजनम् । | 4.40.57aतत्र योजनविस्तारमुच्छ्रितं दशयोजनम् । | 4.40.57aतत्र योजनविस्तारमुच्छ्रितं दशयोजनम्। | 4.40.57aतत्र योजनविस्तारमुच्छ्रितं दशयोजनम् । | 4.40.56bतत्र योजनविस्तारमुच्छ्रितं दशयोजनम्॥4.40.56॥ |
| 161 | #57bಜಾತರೂಪಮಯೈರ್ದಿವ್ಯೈಃ ಶೋಭತೇ ಸೂರ್ಯಸನ್ನಿಭೈಃ ॥ | 4.40.57bशृङ्गं सौमनसं नाम जातरूपमयं ध्रुवम् ॥ ५७ ॥ | 4.39.51bशृङ्गं सौमनसं नाम जातरूपमयं ध्रुवम् ॥4.39.51॥ | 4.40.57bशृङ्गं सौमनसं नाम जातरूपमयं ध्रुवम् ॥ 4.40.57 ॥ | 4.40.57bशृङ्गं सौमनसं नाम जातरूपमयं ध्रुवम् ॥ 4.40.57 ॥ | 4.40.57bशृङ्गं सौमनसं नाम जातरूपमयं ध्रुवम् ॥ ४।४०।५७ ॥ | 4.40.57aशृङ्गं सौमनसं नाम जातरूपमयं ध्रुवम्। |
| 162 | #58aತತ್ರ ಯೋಜನವಿಸ್ತಾರಮುಚ್ಛ್ರಿತಂ ದಶಯೋಜನಮ್ । | 4.40.58aतत्र पूर्वं पदं कृत्वा पुरा विष्णुस्त्रिविक्रमे । | 4.39.52aतत्र पूर्वं पदं कृत्वा पुरा विष्णुस्त्रिविक्रमे । | 4.40.58aतत्र पूर्वं पदं कृत्वा पुरा विष्णुस्त्रिविक्रमे । | 4.40.58aतत्र पूर्वं पदं कृत्वा पुरा विष्णुस्त्रिविक्रमे। | 4.40.58aतत्र पूर्वं पदं कृत्वा पुरा विष्णुस्त्रिविक्रमे । | 4.40.57bतत्रपूर्वं पदं कृत्वा पुरा विष्णुस्त्रिविक्रमे॥4.40.57॥ |
| 163 | #58bಶೃಂಗ ಸೌಮನಸಂ ನಾಮ ಜಾತರೂಪಮಯಂ ಧ್ರುವಮ್ ॥ | 4.40.58bद्वितीयं शिखरे मेरोश्चकार पुरुषोत्तमः ॥ ५८ ॥ | 4.39.52bद्वितीयं शिखरं मेरोश्चकार पुरुषोत्तमः ॥4.39.52॥ | 4.40.58bद्वितीयं शिखरे मेरोश्चकार पुरुषोत्तमः ॥ 4.40.58 ॥ | 4.40.58bद्वितीयं शिखरे मेरोश्चकार पुरुषोत्तमः ॥ 4.40.58 ॥ | 4.40.58bद्वितीयं शिखरे मेरोश्चकार पुरुषोत्तमः ॥ ४।४०।५८ ॥ | 4.40.58aद्वितीयं शिखरे मेरोश्चकार पुरुषोत्तमः। |
| 164 | #59aತತ್ರ ಪೂರ್ವಂಪದಂ ಕೃತ್ವಾ ಪುರಾ ವಿಷ್ಣುಸ್ತ್ರಿವಿಕ್ರಮೇ । | 4.40.59aउत्तरेण परिक्रम्य जम्बूद्वीपं दिवाकरः । | 4.39.53aउत्तरेण परिक्रम्य जम्बूद्वीपं दिवाकरः । | 4.40.59aउत्तरेण परिक्रम्य जम्बूद्वीपं दिवाकरः । | 4.40.59aउत्तरेण परिक्रम्य जम्बूद्वीपं दिवाकरः। | 4.40.59aउत्तरेण परिक्रम्य जम्बूद्वीपं दिवाकरः । | 4.40.58bत्तरेण परिक्रम्य जम्बूद्वीपं दिवाकरः॥4.40.58॥ |
| 165 | #59bದ್ವಿತೀಯಂ ಶಿಖರೇ ಮೇರೋಶ್ಚಕಾರ ಪುರುಷೋತ್ತಮಃ ॥ | 4.40.59bदृश्यो भवति भूयिष्ठं शिखरं तन्महोच्छ्रयम् ॥ ५९ ॥ | 4.39.53bदृश्यो भवति भूयिष्ठं शिखरं तन्महोच्छ्रयम् ॥4.39.53॥ | 4.40.59bदृश्यो भवति भूयिष्ठं शिखरं तन्महोच्छ्रयम् ॥ 4.40.59 ॥ | 4.40.59bदृश्यो भवति भूयिष्ठं शिखरं तन्महोच्छ्रयम् ॥ 4.40.59 ॥ | 4.40.59bदृश्यो भवति भूयिष्ठं शिखरं तन्महोच्छ्रयम् ॥ ४।४०।५९ ॥ | 4.40.59aदृश्यो भवति भूयिष्ठं शिखरं तन्महोच्छ्रयम्। |
| 166 | #60aಉತ್ತರೇಣ ಪರಿಕ್ರಮ್ಯ ಜಂಬೂದ್ವೀಪಂ ದಿವಾಕರಃ । | 4.40.60aतत्र वैखानसा नाम वालखिल्या महर्षयः । | 4.39.54aतत्र वैखानसा नाम वालखिल्या महर्षयः । | 4.40.60aतत्र वैखानसा नाम वालखिल्या महर्षयः । | 4.40.60aतत्र वैखानसा नाम वालखिल्या महर्षयः। | 4.40.60aतत्र वैखानसा नाम वालखिल्या महर्षयः । | 4.40.59bतत्र वैखानसा नाम वालखिल्या महर्षयः॥4.40.59॥ |
| 167 | #60bದೃಶ್ಯೋ ಭವತಿ ಭೂಯಿಷ್ಠಂ ಶಿಖರಂ ತನ್ಮಹೋಚ್ಛ್ರಯಮ್ ॥ | 4.40.60bप्रकाशमाना दृश्यन्ते सूर्यवर्णास्तपस्विनः ॥ ६० ॥ | 4.39.54bप्रकाशमाना दृश्यन्ते सूर्यवर्णास्तपस्विनः ॥4.39.54॥ | 4.40.60bप्रकाशमाना दृश्यन्ते सूर्यवर्णास्तपस्विनः ॥ 4.40.60 ॥ | 4.40.60bप्रकाशमाना दृश्यन्ते सूर्यवर्णास्तपस्विनः ॥ 4.40.60 ॥ | 4.40.60bप्रकाशमाना दृश्यन्ते सूर्यवर्णास्तपस्विनः ॥ ४।४०।६० ॥ | 4.40.60aप्रकाशमाना दृश्यन्ते सूर्यवर्णास्तपस्विनः। |
| 168 | #61aತತ್ರ ವೈಖಾನಸಾ ನಾಮ ವಾಲಖಿಲ್ಯಾ ಮಹರ್ಷಯಃ । | 4.40.61aअयं सुदर्शनो द्वीपः पुरो यस्य प्रकाशते । | 4.39.55aअयं सुदर्शनो द्वीपः पुरो यस्य प्रकाशते । | 4.40.61aअयं सुदर्शनो द्वीपः पुरो यस्य प्रकाशते । | 4.40.61aअयं सुदर्शनो द्वीपः पुरो यस्य प्रकाशते। | 4.40.61aअयं सुदर्शनो द्वीपः पुरो यस्य प्रकाशते । | 4.40.60bअयं सुदर्शनो द्वीपः पुरो यस्य प्रकाशते॥4.40.60॥ |
| 169 | #61bಪ್ರಕಾಶಮಾನಾ ದೃಶ್ಯಂತೇ ಸೂರ್ಯವರ್ಣಾಸ್ತಪಸ್ವಿನಃ ॥ | 4.40.61bतस्मिंस्तेजश्च चक्षुश्च सर्वप्राणभृतामपि ॥ ६१ ॥ | 4.39.55bयस्मिंस्तेजश्च चक्षुश्च सर्वप्रानभृतामपि ॥4.39.55॥ | 4.40.61bयस्मिंस्तेजश्च चक्षुश्च सर्वप्राणभृतामपि ॥ 4.40.61 ॥ | 4.40.61bयस्मिंस्तेजश्च चक्षुश्च सर्वप्राणभृतामपि ॥ 4.40.61 ॥ | 4.40.61bयस्मिंस्तेजश्च चक्षुश्च सर्वप्राणभृतामपि ॥ ४।४०।६१ ॥ | 4.40.61aयस्मिं स्तेजश्च चक्षुश्च सर्वप्राणभृतामपि। |
| 170 | #62aಆಯಂ ಸುದರ್ಶನೋ ದ್ವೀಪಃ ಪುರೋ ಯಸ್ಯ ಪ್ರಕಾಶತೇ । | 4.40.62aशैलस्य तस्य पृष्ठेषु कन्दरेषु वनेषु च । | 4.39.56aशैलस्य तस्य कुञ्जेषु कन्दरेषु वनेषु च । | 4.40.62aशैलस्य तस्य शृङ्गेषु कन्दरेषु वनेषु च । | 4.40.62aशैलस्य तस्य शृङ्गेषु कन्दरेषु वनेषु च। | 4.40.62aशैलस्य तस्य शृङ्गेषु कन्दरेषु वनेषु च । | 4.40.61bशैलस्य तस्य शृङ्गेषु कन्दरेषु वनेषु च॥4.40.61॥ |
| 171 | #62bಯಸ್ಮಿಂಸ್ತೇಜಶ್ಚ ಚಕ್ಷುಶ್ಚ ಸರ್ವಪ್ರಾಣಭೃತಾಮಪಿ ॥ | 4.40.62bरावणः सह वैदेह्या मार्गितव्यस्ततस्ततः ॥ ६२ ॥ | 4.39.56bरावणः सह वैदेह्या मार्गितव्यस्ततस्ततः ॥4.39.56॥ | 4.40.62bरावणः सह वैदेह्या मार्गितव्यस्ततस्ततः ॥ 4.40.62 ॥ | 4.40.62bरावणः सह वैदेह्या मार्गितव्यस्ततस्ततः ॥ 4.40.62 ॥ | 4.40.62bरावणः सह वैदेह्या मार्गितव्यस्ततस्ततः ॥ ४।४०।६२ ॥ | 4.40.62aरावणस्सह वैदेह्या मार्गितव्यस्ततस्ततः। |
| 172 | #63aಶೈಲಸ್ಯ ತಸ್ಯ ಪೃಷ್ಠೇಷು ಕಂದರೇಷು ವನೇಷು ಚ । | 4.40.63aकाञ्चनस्य च शैलस्य सूर्यस्य च महात्मनः । | 4.39.57aकाञ्चनस्य च शैलस्य सूर्यस्य च महात्मनः । | 4.40.63aकाञ्चनस्य च शैलस्य सूर्यस्य च महात्मनः । | 4.40.63aकाञ्चनस्य च शैलस्य सूर्यस्य च महात्मनः। | 4.40.63aकाञ्चनस्य च शैलस्य सूर्यस्य च महात्मनः । | 4.40.62bकाञ्चनस्य च शैलस्य सूर्यस्य च महात्मनः॥4.40.62॥ |
| 173 | #63bರಾವಣಃ ಸಹ ವೈದೇಹ್ಯಾ ಮಾರ್ಗಿತವ್ಯಸ್ತತಸ್ತತಃ ॥ | 4.40.63bआविष्टा तेजसा सन्ध्या पूर्वा रक्ता प्रकाशते ॥ ६३ ॥ | 4.39.57bआविष्टा तेजसा संध्या पूर्वा रक्ता प्रकाशते ॥4.39.57॥ | 4.40.63bआविष्टा तेजसा सन्ध्या पूर्वा रक्ता प्रकाशते ॥ 4.40.63 ॥ | 4.40.63bआविष्टा तेजसा सन्ध्या पूर्वा रक्ता प्रकाशते ॥ 4.40.63 ॥ | 4.40.63bआविष्टा तेजसा सन्ध्या पूर्वा रक्ता प्रकाशते ॥ ४।४०।६३ ॥ | 4.40.63aआविष्टा तेजसा सन्ध्या पूर्वा रक्ता प्रकाशते। |
| 174 | #64aಕಾಂಚನಸ್ಯ ಚ ಶೈಲಸ್ಯ ಸೂರ್ಯಸ್ಯ ಚ ಮಹಾತ್ಮನಃ । | 4.40.64aपूर्वमेतत् कृतं द्वारं पृथिव्या भुवनस्य च । | 4.40.64aपूर्वमेतत्कृतं द्वारं पृथिव्या भुवनस्य च । | 4.40.64aपूर्वमेतत्कृतं द्वारं पृथिव्या भुवनस्य च। | 4.40.64aपूर्वमेतत्कृतं द्वारं पृथिव्या भुवनस्य च । | 4.40.63bपूर्वमेतत्कृतं द्वारं पृथिव्या भुवनस्य च॥4.40.63॥ | |
| 175 | #64bಆವಿಷ್ಟಾ ತೇಜಸಾ ಸಂಧ್ಯಾ ಪೂರ್ವಾ ರಕ್ತಾ ಪ್ರಕಾಶತೇ ॥ | 4.40.64bसूर्यस्योदयनं चैव पूर्वा ह्येषा दिगुच्यते ॥ ६४ ॥ | 4.40.64bसूर्यस्योदयनं चैव पूर्वा ह्येषा दिगुच्यते ॥ 4.40.64 ॥ | 4.40.64bसूर्यस्योदयनं चैव पूर्वा ह्येषा दिगुच्यते ॥ 4.40.64 ॥ | 4.40.64bसूर्यस्योदयनं चैव पूर्वा ह्येषा दिगुच्यते ॥ ४।४०।६४ ॥ | 4.40.64aसूर्यस्योदयनं चैव पर्वा ह्येषा दिगुच्यते। | |
| 176 | #65aಪೂರ್ವಮೇತತ್ಕೃತಂ ದ್ವಾರಂ ಪೃಥಿವ್ಯಾ ಭವನಸ್ಯ ಚ । | 4.40.65aतस्य शैलस्य पृष्ठेषु निर्झरेषु गुहासु च । | 4.40.65aतस्य शैलस्य पृष्ठेषु निर्झरेषु गुहासु च । | 4.40.65aतस्य शैलस्य पृष्ठेषु निर्झरेषु गुहासु च। | 4.40.65aतस्य शैलस्य पृष्ठेषु निर्झरेषु गुहासु च । | 4.40.64bतस्य शैलस्य पृष्ठेषु निर्झरेषु गुहासु च॥4.40.64॥ | |
| 177 | #65bಸೂರ್ಯಸ್ಯೋದಯನಂ ಚೈವ ಪೂರ್ವಾ ಹ್ಯೇಷಾ ದಿಗುಚ್ಯತೇ ॥ | 4.40.65bरावणः सह वैदेह्या मार्गितव्यस्ततस्ततः ॥ ६५ ॥ | 4.40.65bरावणः सह वैदेह्या मार्गितव्यस्ततस्ततः ॥ 4.40.65 ॥ | 4.40.65bरावणः सह वैदेह्या मार्गितव्यस्ततस्ततः ॥ 4.40.65 ॥ | 4.40.65bरावणः सह वैदेह्या मार्गितव्यस्ततस्ततः ॥ ४।४०।६५ ॥ | 4.40.65aरावणस् सह वैदेह्या मार्गितव्यस्ततस्ततः। | |
| 178 | #66aತಸ್ಯ ಶೈಲಸ್ಯ ಪೃಷ್ಠೇಷು ನಿರ್ಝರೇಷು ಗುಹಾಸು ಚ । | 4.40.66aततः परमगम्या स्याद् दिक्पूर्वा त्रिदशावृता । | 4.39.58aततः परमगम्या स्याद्दिक्पूर्वा त्रिदशावृता । | 4.40.66aततः परमगम्या स्याद्दिक् पूर्वा त्रिदशावृता । | 4.40.66aततः परमगम्या स्याद्दिक् पूर्वा त्रिदशावृता। | 4.40.66aततः परमगम्या स्याद्दिक् पूर्वा त्रिदशावृता । | 4.40.65bततः परमगम्या स्याद्दिक्पूर्वा त्रिदशावृता॥4.40.65॥ |
| 179 | #66bರಾವಣಃ ಸಹ ವೈದೇಹ್ಯಾ ಮಾರ್ಗಿತವ್ಯಸ್ತತಸ್ತತಃ ॥ | 4.40.66bरहिता चन्द्रसूर्याभ्यामदृश्या तमसावृता ॥ ६६ ॥ | 4.39.58bरहिता चन्द्रसूर्याभ्यामदृश्या तिमिरावृता ॥4.39.58॥ | 4.40.66bरहिता चन्द्रसूर्याभ्यामदृश्या तिमिरावृता ॥ 4.40.66 ॥ | 4.40.66bरहिता चन्द्रसूर्याभ्यामदृश्या तिमिरावृता ॥ 4.40.66 ॥ | 4.40.66bरहिता चन्द्रसूर्याभ्यामदृश्या तिमिरावृता ॥ ४।४०।६६ ॥ | 4.40.66aरहिता चन्द्रसूर्याभ्यामदृश्या तिमिरावृता। |
| 180 | #67aತತಃ ಪರಮಗಮ್ಯಾ ಸ್ಯಾದ್ ದಿಕ್ಪೂರ್ವಾ ತ್ರಿದಿಶಾವೃತಾ । | 4.40.67aशैलेषु तेषु सर्वेषु कन्दरेषु नदीषु च । | 4.39.59aशैलेषु तेषु सर्वेषु कन्दरेषु वनेषु च । | 4.40.67aशैलेषु तेषु सर्वेषु कन्दरेषु वनेषु च । | 4.40.67aशैलेषु तेषु सर्वेषु कन्दरेषु वनेषु च। | 4.40.67aशैलेषु तेषु सर्वेषु कन्दरेषु वनेषु च । | 4.40.66bशैलेषु तेषु सर्वेषु कन्दरेषु वनेषु च॥4.40.66॥ |
| 181 | #67bರಹಿತಾ ಚಂದ್ರಸೂರ್ಯಾಭ್ಯಾಮದೃಶ್ಯಾ ತಮಸಾವೃತಾ ॥ | 4.40.67bये च नोक्ता मयोद्देशा विचेया तेषु जानकी ॥ ६७ ॥ | 4.39.59bये च नोक्ता मया देशा विचेया तेषु जानकी ॥4.39.59॥ | 4.40.67bये च नोक्ता मया देशा विचेया तेषु जानकी ॥ 4.40.67 ॥ | 4.40.67bये च नोक्ता मया देशा विचेया तेषु जानकी ॥ 4.40.67 ॥ | 4.40.67bये च नोक्ता मया देशा विचेया तेषु जानकी ॥ ४।४०।६७ ॥ | 4.40.67aये च नोक्ता मया देशा विचेया तेषु जानकी। |
| 182 | #68aಶೈಲೇಷು ತೇಷು ಸರ್ವೇಷು ಕಂದರೇಷು ವನೇಷು ಚ । | 4.40.68aएतावद् वानरैः शक्यं गन्तुं वानरपुङ्गवाः । | 4.39.60aएतावद्वानरैः शक्यं गन्तुं वानरपुंगवाः । | 4.40.68aएतावद्वानरैः शक्यं गन्तुं वानरपुङ्गवाः । | 4.40.68aएतावद्वानरैः शक्यं गन्तुं वानरपुङ्गवाः। | 4.40.68aएतावद्वानरैः शक्यं गन्तुं वानरपुङ्गवाः । | 4.40.67bएतावद्वानरैश्शक्यं गन्तुं वानरपुङ्गवाः॥4.40.67॥ |
| 183 | #68bಯೇ ಚ ನೋಕ್ತಾ ಮಯೋದ್ದೇಶಾ ವಿಚೇಯಾ ತೇಷು ಜಾನಕೀ ॥ | 4.40.68bअभास्करममर्यादं न जानीमस्ततः परम् ॥ ६८ ॥ | 4.39.60bअभास्करममर्यादं न जानीमस्ततः परम् ॥4.39.60॥ | 4.40.68bअभास्करममर्यादं न जानीमस्ततः परम् ॥ 4.40.68 ॥ | 4.40.68bअभास्करममर्यादं न जानीमस्ततः परम् ॥ 4.40.68 ॥ | 4.40.68bअभास्करममर्यादं न जानीमस्ततः परम् ॥ ४।४०।६८ ॥ | 4.40.68aअभास्करममर्यादं न जानीमस्ततः परम्। |
| 184 | #69aಏತಾವದ್ವಾನರೈಃ ಶಕ್ಯಂ ಗಂತು ವಾನರಪುಂಗವಾಃ । | 4.40.69aअभिगम्य तु वैदेहीं निलयं रावणस्य च । | 4.39.61aअधिगम्य तु वैदेहीं निलयं रावणस्य च । | 4.40.69aअधिगम्य तु वैदेहीं निलयं रावणस्य च । | 4.40.69aअधिगम्य तु वैदेहीं निलयं रावणस्य च। | 4.40.69aअधिगम्य तु वैदेहीं निलयं रावणस्य च । | 4.40.68bअधिगम्य तु वैदेहीं निलयं रावणस्य च॥4.40.68॥ |
| 185 | #69bಅಭಾಸ್ಕರಮಮರ್ಯಾದಂ ನ ಜಾನೀಮಸ್ತತಃ ಪರಮ್ ॥ | 4.40.69bमासे पूर्णे निवर्तध्वमुदयं प्राप्य पर्वतम् ॥ ६९ ॥ | 4.39.61bमासे पूर्णे निवर्तध्वमुदयं प्राप्य पर्वतम् ॥4.39.61॥ | 4.40.69bमासे पूर्णे निवर्तध्वमुदयं प्राप्य पर्वतम् ॥ 4.40.69 ॥ | 4.40.69bमासे पूर्णे निवर्तध्वमुदयं प्राप्य पर्वतम् ॥ 4.40.69 ॥ | 4.40.69bमासे पूर्णे निवर्तध्वमुदयं प्राप्य पर्वतम् ॥ ४।४०।६९ ॥ | 4.40.69aमासे पूर्णे निवर्तध्वमुदयं प्राप्य पर्वतम्। |
| 186 | #70aಅಧಿಗಮ್ಯ ತು ವೈದೇಹೀಂ ನಿಲಯಂ ರಾವಣಸ್ಯ ಚ । | 4.40.70aऊर्ध्वं मासान्न वस्तव्यं वसन् वध्यो भवेन्मम । | 4.39.62aऊर्ध्वं मासान्न वस्तव्यं वसन्वध्यो भवेन्मम । | 4.40.70aऊर्ध्वं मासान्न वस्तव्यं वसन् वध्यो भवेन्मम । | 4.40.70aऊर्ध्वं मासान्न वस्तव्यं वसन् वध्यो भवेन्मम। | 4.40.70aऊर्ध्वं मासान्न वस्तव्यं वसन् वध्यो भवेन्मम । | 4.40.69bऊर्ध्वं मासान्न वस्तव्यं वसन्वध्यो भवेन्मम॥4.40.69॥ |
| 187 | #70bಮಾಸೇ ಪೂರ್ಣೇ ನಿವರ್ತಧ್ವಮುದಯಂ ಪ್ರಾಪ್ಯ ಪರ್ವತಮ್ ॥ | 4.40.70bसिद्धार्थाः सन्निवर्तध्वमधिगम्य च मैथिलीम् ॥ ७० ॥ | 4.39.62bसिद्धार्थाः संनिवर्तध्वमधिगम्य च मैथिलीम् ॥4.39.62॥ | 4.40.70bसिद्धार्थाः सन्निवर्तध्वमधिगम्य च मैथिलीम् ॥ 4.40.70 ॥ | 4.40.70bसिद्धार्थाः सन्निवर्तध्वमधिगम्य च मैथिलीम् ॥ 4.40.70 ॥ | 4.40.70bसिद्धार्थाः सन्निवर्तध्वमधिगम्य च मैथिलीम् ॥ ४।४०।७० ॥ | 4.40.70aसिद्धार्थास्सन्निवर्तध्वमधिगम्य तु मैथिलीम्। |
| 188 | 4.40.6870अमर्यादं ग्रामनगरादिमर्यादारहितम्, केवलान्धकारभूतमित्यर्थः ॥ 4.40.6870 ॥ | ||||||
| 189 | #71aಊರ್ಧ್ವಂ ಮಾಸಾನ್ನ ವಸ್ತವ್ಯಂ ವಸನ್ವಧ್ಯೋ ಭವೇನ್ಮಮ । | 4.40.71aमहेन्द्रकान्तां वनषण्डमण्डितां दिशं चरित्वा निपुणेन वानराः । | 4.39.63aमहेन्द्रकान्तां वनषण्ड मण्डितां दिशं चरित्वा निपुणेन वानराः । | 4.40.71aमहेन्द्रकान्तां वनषण्डमण्डितां दिशं चरित्वा निपुणेन वानराः । | 4.40.71aमहेन्द्रकान्तां वनषण्डमण्डितां दिशं चरित्वा निपुणेन वानराः। | 4.40.71aमहेन्द्रकान्तां वनषण्डमण्डितां दिशं चरित्वा निपुणेन वानराः । | 4.40.70bमहेन्द्रकान्तां वनषण्डमण्डितां दिशं चरित्वा निपुणेन वानराः। |
| 190 | #71bಸಿದ್ಧಾರ್ಥಾಂ ಸನ್ನಿವರ್ತಧ್ವಮಧಿಗಮ್ಯ ಚ ಮೈಥಿಲೀಮ್ ॥ | 4.40.71bअवाप्य सीतां रघुवंशजप्रियां ततो निवृत्ताः सुखिनो भविष्यथ ॥ ७१ ॥ | 4.39.63bअवाप्य सीतां रघुवंशजप्रियां ततो निवृत्ताः सुखितो भविष्यथ ॥4.39.63॥ | 4.40.71bअवाप्य सीतां रघुवंशजप्रियां ततो निवृत्ताः सुखिनो भविष्यथ ॥ 4.40.71 ॥ | 4.40.71bअवाप्य सीतां रघुवंशजप्रियां ततो निवृत्ताः सुखिनो भविष्यथ ॥ 4.40.71 ॥ | 4.40.71bअवाप्य सीतां रघुवंशजप्रियां ततो निवृत्ताः सुखिनो भविष्यथ ॥ ४।४०।७१ ॥ | 4.40.70cअवाप्य सीतां रघुवंशजप्रियां ततो निवृत्तास्सुखिनो भविष्यथ॥4.40.70॥ |
| 191 | #72aಮಹೇಂದ್ರಕಾಂತಾಂ ವನಷಂಡಮಂಡಿತಾಂ ದಿಶಂ ಚರಿತ್ವಾ ನಿಪುಣೇನ ವಾನರಾಃ । | ||||||
| 192 | #72bಆವಾಪ್ಯ ಸೀತಾಂ ರಘುವಂಶಜಪ್ರಿಯಾಂ ತತೋ ನಿವೃತ್ತಾಃ ಸುಖಿನೋ ಭವಿಷ್ಯಥ ॥ |