राम-जटायुसंवादः. Built from structured/verses.jsonl. Rows are monotone-aligned half-verse/pāda-like units split at । and ॥, so verse-number boundary differences can appear as inserted or shifted line rows.
85 aligned line rows across 7 source streams.
gor-kn 77 lines
gor-hi 77 lines
crit 72 lines
gr 77 lines
dr-mula 76 lines
gr-iitk 76 lines
iitk 77 lines
| # | gor-kn | gor-hi | crit | gr | dr-mula | gr-iitk | iitk |
|---|---|---|---|---|---|---|---|
| 1 | #1aರಾಮಃ ಪ್ರೇಕ್ಷ್ಯ ತು ತಂ ಗೃಧ್ರಂ ಭುವಿ ರೌದ್ರೇಣ ಪಾತಿತಮ್ । | 3.68.1aरामः प्रेक्ष्य तु तं गृध्रं भुवि रौद्रेण पातितम् । | 3.64.1aरामः प्रेक्ष्य तु तं गृध्रं भुवि रौद्रेण पातितम् । | 3.68.1aरामः सम्प्रेक्ष्य तं गृध्रं भुवि रौद्रेण पातितम् । | 3.68.1aरामः सम्प्रेक्ष्य तं गृध्रं भुवि रौद्रेण पातितम्। | 3.68.1aरामः सम्प्रेक्ष्य तं गृध्रं भुवि रौद्रेण पातितम् । | 3.68.1aरामस्सम्प्रेक्ष्य तं गृध्रं भुवि रौद्रेण पातितम्। |
| 2 | #1bಸೌಮಿತ್ರಿಂ ಮಿತ್ರಸಂಪನ್ನಮಿದಂ ವಚನಮಬ್ರವೀತ್ ॥ | 3.68.1bसौमित्रिं मित्रसम्पन्नमिदं वचनमब्रवीत् ॥ १ ॥ | 3.64.1bसौमित्रिं मित्रसंपन्नमिदं वचनमब्रवीत् ॥3.64.1॥ | 3.68.1bसौमित्रिं मित्रसम्पन्नमिदं वचनमब्रवीत् ॥ 3.68.1 ॥ | 3.68.1bसौमित्रिं मित्रसम्पन्नमिदं वचनमब्रवीत् ॥ 3.68.1 ॥ | 3.68.1bसौमित्रिं मित्रसम्पन्नमिदं वचनमब्रवीत् ॥ ३।६८।१ ॥ | 3.68.1bसौमित्रिं मित्रसम्पन्नमिदं वचनमब्रवीत्॥3.68.1॥ |
| 3 | #2aಮಮಾಯಂ ನೂನಮರ್ಥೇಷು ಯತಮಾನೋ ವಿಹಂಗಮಃ । | 3.68.2aममायं नूनमर्थेषु यतमानो विहङ्गमः । | 3.64.2aममायं नूनमर्थेषु यतमानो विहंगमः । | 3.68.2aममायं नूनमर्थेषु यतमानो विहङ्गमः । | 3.68.2aममायं नूनमर्थेषु यतमानो विहङ्गमः। | 3.68.2aममायं नूनमर्थेषु यतमानो विहङ्गमः । | 3.68.2aममायं नूनमर्थेषु यतमानो विहङ्गमः। |
| 4 | #2bರಾಕ್ಷಸೇನ ಹತಃ ಸಂಖ್ಯೇ ಪ್ರಾಣಾಂಸ್ತ್ಯಜತಿ ಮತ್ಕೃತೇ ॥ | 3.68.2bराक्षसेन हतः सङ्ख्ये प्राणांस्त्यजति मत्कृते ॥ २ ॥ | 3.64.2bराक्षसेन हतः संख्ये प्राणांस्त्यजति दुस्त्यजान् ॥3.64.2॥ | 3.68.2bराक्षसेन हतः सङ्ख्ये प्राणांस्त्यक्षति दुस्त्यजान् ॥ 3.68.2 ॥ | 3.68.2bराक्षसेन हतः सङ्ख्ये प्राणांस्त्यक्षति दुस्त्यजान् ॥ 3.68.2 ॥ | 3.68.2bराक्षसेन हतः सङ्ख्ये प्राणांस्त्यक्षति दुस्त्यजान् ॥ ३।६८।२ ॥ | 3.68.2bराक्षसेन हतस्संख्ये प्राणांस्त्यक्ष्यति दुस्त्यजान्॥3.68.2॥ |
| 5 | #3aಅತಿಖಿನ್ನಃ ಶರೀರೇಽಸ್ಮಿನ್ಪ್ರಾಣೋ ಲಕ್ಷ್ಮಣ ವಿದ್ಯತೇ । | 3.68.3aअतिखिन्नः शरीरेऽस्मिन् प्राणो लक्ष्मण विद्यते । | 3.64.3aअयमस्य शरीरेऽस्मिन्प्राणो लक्ष्मण विद्यते । | 3.68.3aअयमस्य शरीरे ऽस्मिन् प्राणो लक्ष्मण विद्यते । | 3.68.3aअयमस्य शरीरेऽस्मिन् प्राणो लक्ष्मण विद्यते। | 3.68.3aअयमस्य शरीरे ऽस्मिन् प्राणो लक्ष्मण विद्यते । | 3.68.3aअयमस्य शरीरेऽस्मिन्प्राणो लक्ष्मण विद्यते। |
| 6 | #3bತಥಾ ಸ್ವರವಿಹೀನೋಽಯಂ ವಿಕ್ಲವಂ ಸಮುದೀಕ್ಷತೇ ॥ | 3.68.3bतथा स्वरविहीनोऽयं विक्लवं समुदीक्षते ॥ ३ ॥ | 3.64.3bतथा स्वरविहीनोऽयं विक्लवं समुदीक्षते ॥3.64.3॥ | 3.68.3bतथाहि स्वरहीनो ऽयं विक्लवः समुदीक्षते ॥ 3.68.3 ॥ | 3.68.3bतथाहि स्वरहीनोऽयं विक्लवः समुदीक्षते ॥ 3.68.3 ॥ | 3.68.3bतथाहि स्वरहीनो ऽयं विक्लवः समुदीक्षते ॥ ३।६८।३ ॥ | 3.68.3bतथा हि स्वरहीनोऽयं विक्लवस्समुदीक्ष्यते॥3.68.3॥ |
| 7 | #4aಜಟಾಯೋ ಯದಿ ಶಕ್ನೋಷಿ ವಾಕ್ಯಂ ವ್ಯಾಹರಿತುಂ ಪುನಃ । | 3.68.4aजटायो यदि शक्नोषि वाक्यं व्याहरितुं पुनः । | 3.64.4aजटायो यदि शक्नोषि वाक्यं व्याहरितुं पुनः । | 3.68.4aजटायो यदि शक्नोषि वाक्यं व्याहरितुं पुनः । | 3.68.4aजटायो यदि शक्नोषि वाक्यं व्याहरितुं पुनः। | 3.68.4aजटायो यदि शक्नोषि वाक्यं व्याहरितुं पुनः । | 3.68.4aजटायो यदि शक्नोषि वाक्यं व्याहरितुं पुनः। |
| 8 | #4bಸೀತಾಮಾಖ್ಯಾಹಿ ಭದ್ರಂ ತೇ ವಧಮಾಖ್ಯಾಹಿ ಚಾತ್ಮನಃ ॥ | 3.68.4bसीतामाख्याहि भद्रं ते वधमाख्याहि चात्मनः ॥ ४ ॥ | 3.64.4bसीतामाख्याहि भद्रं ते वधमाख्याहि चात्मनः ॥3.64.4॥ | 3.68.4bसीतामाख्याहि भद्रं ते वधमाख्याहि चात्मनः ॥ 3.68.4 ॥ | 3.68.4bसीतामाख्याहि भद्रं ते वधमाख्याहि चात्मनः ॥ 3.68.4 ॥ | 3.68.4bसीतामाख्याहि भद्रं ते वधमाख्याहि चात्मनः ॥ ३।६८।४ ॥ | 3.68.4bसीतामाख्याहि भद्रं ते वधमाख्याहि चात्मनः॥3.68.4॥ |
| 9 | #5aಕಿಂನಿಮಿತ್ತೋ ಜಹಾರಾರ್ಯಾಂ ರಾವಣಸ್ತಸ್ಯ ಕಿಂ ಮಯಾ । | 3.68.5aकिन्निमित्तो जहारार्यां रावणस्तस्य किं मया । | 3.64.5aकिंनिमित्तोऽहरत्सीतां रावणस्तस्य किं मया । | 3.68.5aकिन्निमित्तो ऽहरत्सीतां रावणस्तस्य किं मया । | 3.68.5aकिन्निमित्तोऽहरत्सीतां रावणस्तस्य किं मया। | 3.68.5aकिन्निमित्तो ऽहरत्सीतां रावणस्तस्य किं मया । | 3.68.5aकिं निमित्तोऽहरत्सीतां रावणस्तस्य किं मया। |
| 10 | #5bಅಪರಾಧಂ ತು ಯಂ ದೃಷ್ಟ್ವಾ ರಾವಣೇನ ಹೃತಾ ಪ್ರಿಯಾ ॥ | 3.68.5bअपराधं तु यं दृष्ट्वा रावणेन हृता प्रिया ॥ ५ ॥ | 3.64.5bअपराद्धं तु यं दृष्ट्वा रावणेन हृता प्रिया ॥3.64.5॥ | 3.68.5bअपराद्धं तु यं दृष्ट्वा रावणेन हृता प्रिया ॥ 3.68.5 ॥ | 3.68.5bअपराद्धं तु यं दृष्ट्वा रावणेन हृता प्रिया ॥ 3.68.5 ॥ | 3.68.5bअपराद्धं तु यं दृष्ट्वा रावणेन हृता प्रिया ॥ ३।६८।५ ॥ | 3.68.5bअपराद्धं तु यं दृष्ट्वा रावणेन हृता प्रिया॥3.68.5॥ |
| 11 | #6aಕತಂ ತಚ್ಚಂದ್ರಸಂಕಾಶಂ ಮುಖಮಾಸೀನ್ಮನೋಹರಮ್ । | 3.68.6aकथं तच्चन्द्रसङ्काशं मुखमासीन्मनोहरम् । | 3.64.6aकथं तच्चन्द्रसंकाशं मुखमासीन्मनोहरम् । | 3.68.6aकथं तच्चन्द्रसङ्काशं मुखमासीन्मनोहरम् । | 3.68.6aकथं तच्चन्द्रसङ्काशं मुखमासीन्मनोहरम्। | 3.68.6aकथं तच्चन्द्रसङ्काशं मुखमासीन्मनोहरम् । | 3.68.6aकथं तच्चन्द्रसङ्काशं मुखमासीन्मनोहरम्। |
| 12 | #6bಸೀತಯಾ ಕಾನಿ ಚೋಕ್ತಾನಿ ತಸ್ಮಿನ್ಕಾಲೇ ದ್ವಿಜೋತ್ತಮ ॥ | 3.68.6bसीतया कानि चोक्तानि तस्मिन् काले द्विजोत्तम ॥ ६ ॥ | 3.64.6bसीतया कानि चोक्तानि तस्मिन्काले द्विजोत्तम ॥3.64.6॥ | 3.68.6bसीतया कानि चोक्तामि तस्मिन् काले द्विजोत्तम ॥ 3.68.6 ॥ | 3.68.6bसीतया कानि चोक्तामि तस्मिन् काले द्विजोत्तम ॥ 3.68.6 ॥ | 3.68.6bसीतया कानि चोक्तामि तस्मिन् काले द्विजोत्तम ॥ ३।६८।६ ॥ | 3.68.6bसीतया कानि चोक्तानि तस्मिन्काले द्विजोत्तम॥3.68.6॥ |
| 13 | #7aಕಥಂ ವೀರ್ಯಃ ಕಥಂರೂಪಃ ಕಿಂಕರ್ಮಾ ಸ ಚ ರಾಕ್ಷಸಃ । | 3.68.7aकथंवीर्यः कथंरूपः किङ्कर्मा स च राक्षसः । | 3.64.7aकथंवीर्यः कथंरूपः किंकर्मा स च राक्षसः । | 3.68.7aकथंवीर्यः कथंरूपः किङ्कर्मा स च राक्षसः । | 3.68.7aकथंवीर्यः कथंरूपः किङ्कर्मा स च राक्षसः। | 3.68.7aकथंवीर्यः कथंरूपः किङ्कर्मा स च राक्षसः । | 3.68.7aकथं वीर्यः कथं रूपः किं कर्मा स च राक्षसः। |
| 14 | #7bಕ್ವ ಚಾಸ್ಯ ಭವನಂ ತಾತ ಬ್ರೂಹಿ ಮೇ ಪರಿಪೃಚ್ಛತಃ ॥ | 3.68.7bक्व चास्य भवनं तात ब्रूहि मे परिपृच्छतः ॥ ७ ॥ | 3.64.7bक्व चास्य भवनं तात ब्रूहि मे परिपृच्छतः ॥3.64.7॥ | 3.68.7bक्व चास्य भवनं तात ब्रूहि मे परिपृच्छतः ॥ 3.68.7 ॥ | 3.68.7bक्व चास्य भवनं तात ब्रूहि मे परिपृच्छतः ॥ 3.68.7 ॥ | 3.68.7bक्व चास्य भवनं तात ब्रूहि मे परिपृच्छतः ॥ ३।६८।७ ॥ | 3.68.7bक्व चास्य भवनं तात ब्रूहि मे परिपृच्छतः॥3.68.7॥ |
| 15 | #8aತಮುದ್ವೀಕ್ಷ್ಯ ಸ ಧರ್ಮಾತ್ಮಾ ವಿಪಂತಮನಾಥವತ್ । | 3.68.8aतमुद्वीक्ष्य स धर्मात्मा विलपन्तमनाथवत् । | 3.64.8aतमुद्वीक्ष्याथ दीनात्मा विलपन्तमनन्तरम् । | 3.68.8aतमुद्वीक्ष्याथ दीनात्मा विलपन्तमनन्तरम् । | 3.68.8aतमुद्वीक्ष्याथ दीनात्मा विलपन्तमनन्तरम्। | 3.68.8aतमुद्वीक्ष्याथ दीनात्मा विलपन्तमनन्तरम् । | 3.68.8aतमुद्वीक्ष्याथ दीनात्मा विलपन्तमनन्तरम्। |
| 16 | 3.64.8bवाचातिसन्नया रामं जटायुरिदमब्रवीत् ॥3.64.8॥ | 3.68.8bवाचा ऽतिसन्नया रामं जटायुरिदमब्रवीत् ॥ 3.68.8 ॥ | 3.68.8bवाचाऽतिसन्नया रामं जटायुरिदमब्रवीत् ॥ 3.68.8 ॥ | 3.68.8bवाचा ऽतिसन्नया रामं जटायुरिदमब्रवीत् ॥ ३।६८।८ ॥ | 3.68.8bवाचातिसन्नया रामं जटायुरिदमब्रवीत्॥3.68.8॥ | ||
| 17 | #8bವಾಚಾವಿಕ್ಲವಯಾ ರಾಮಮಿದಂ ವಚನಮಬ್ರವೀತ್ ॥ | 3.68.8bवाचा विक्लवया राममिदं वचनमब्रवीत् ॥ ८ ॥ | |||||
| 18 | #9aಸಾ ಹೃತಾ ರಾಕ್ಷಸೇಂದ್ರೇಣ ರಾವಣೇನ ದುರಾತ್ಮನಾ । | 3.68.9aसा हृता राक्षसेन्द्रेण रावणेन दुरात्मना । | 3.64.9aसा हृता राक्षसेन्द्रेण रावणेन विहायसा । | 3.68.9aहृता सा राक्षसेन्द्रेण रावणेन विहायसा । | 3.68.9aहृता सा राक्षसेन्द्रेण रावणेन विहायसा। | 3.68.9aहृता सा राक्षसेन्द्रेण रावणेन विहायसा । | 3.68.9aहृता सा राक्षसेन्द्रेण रावणेन विहायसा। |
| 19 | #9bಮಾಯಾಮಾಸ್ಥಾಯ ವಿಪುಲಾಂ ವಾತದುರ್ದಿನಸಂಕುಲಾಮ್ ॥ | 3.68.9bमायामास्थाय विपुलां वातदुर्दिनसङ्कुलाम् ॥ ९ ॥ | 3.64.9bमायामास्थाय विपुलां वातदुर्दिनसंकुलाम् ॥3.64.9॥ | 3.68.9bमायामास्थाय विपुलां वातदुर्दिनसङ्कुलाम् ॥ 3.68.9 ॥ | 3.68.9bमायामास्थाय विपुलां वातदुर्दिनसङ्कुलाम् ॥ 3.68.9 ॥ | 3.68.9bमायामास्थाय विपुलां वातदुर्दिनसङ्कुलाम् ॥ ३।६८।९ ॥ | 3.68.9bमायामास्थाय विपुलां वातदुर्दिनसङ्कुलाम्॥3.68.9॥ |
| 20 | #10aಪರಿಕ್ಲಾಂತಸ್ಯ ಮೇ ತಾತ ಪಕ್ಷೌ ಚ್ಛಿತ್ವಾ ನಿಶಾಚರಃ । | 3.68.10aपरिक्लान्तस्य मे तात पक्षौ छित्त्वा निशाचरः । | 3.64.10aपरिश्रान्तस्य मे तात पक्षौ छित्त्वा निशाचरः । | 3.68.10aपरिश्रान्तस्य मे तात पक्षौ छित्त्वा स राक्षसः । | 3.68.10aपरिश्रान्तस्य मे तात पक्षौ छित्त्वा स राक्षसः। | 3.68.10aपरिश्रान्तस्य मे तात पक्षौ छित्त्वा स राक्षसः । | 3.68.10aपरिश्रान्तस्य मे तात पक्षौ छित्वा स राक्षसः। |
| 21 | #10bಸೀತಾಮಾದಾಯ ವೈದೇಹೀಂ ಪ್ರಯಾತೋ ದಕ್ಷಿಣಾಮುಖಃ ॥ | 3.68.10bसीतामादाय वैदेहीं प्रयातो दक्षिणामुखः ॥ १० ॥ | 3.64.10bसीतामादाय वैदेहीं प्रयातो दक्षिणा मुखः ॥3.64.10॥ | 3.68.10bसीतामादाय वैहेहीं प्रयातो दक्षिणां दिशम् ॥ 3.68.10 ॥ | 3.68.10bसीतामादाय वैहेहीं प्रयातो दक्षिणां दिशम् ॥ 3.68.10 ॥ | 3.68.10bसीतामादाय वैहेहीं प्रयातो दक्षिणां दिशम् ॥ ३।६८।१० ॥ | 3.68.10bसीतामादाय वैदेहीं प्रयातो दक्षिणां दिशम्॥3.68.10॥ |
| 22 | #11aಉಪರುಧ್ಯಂತಿ ಮೇ ಪ್ರಾಣಾ ದೃಷ್ಟಿರ್ಭ್ರಮತಿ ರಾಘವ । | 3.68.11aउपरुध्यन्ति मे प्राणा दृष्टिर्भ्रमति राघव । | 3.64.11aउपरुध्यन्ति मे प्राणा दृष्टिर्भ्रमति राघव । | 3.68.11aउपरुद्ध्यन्ति मे प्राणा दष्टिर्भ्रमति राघव । | 3.68.11aउपरुद्ध्यन्ति मे प्राणा दष्टिर्भ्रमति राघव। | 3.68.11aउपरुद्ध्यन्ति मे प्राणा दष्टिर्भ्रमति राघव । | 3.68.11aउपरुध्यन्ति मे प्राणा दृष्टिर्भ्रमति राघव। |
| 23 | #11bಪಶ್ಯಾಮಿ ವೃಕ್ಷಾನ್ ಸೌವರ್ಣಾನುಶೀರಕೃತಮೂರ್ಧಜಾನ್ ॥ | 3.68.11bपश्यामि वृक्षान् सौवर्णानुशीरकृतमूर्धजान् ॥ ११ ॥ | 3.64.11bपश्यामि वृक्षान्सौवर्णानुशीरकृतमूर्धजान् ॥3.64.11॥ | 3.68.11bपश्यामि वृक्षान् सौवर्णानुशीरकृतमूर्धजान् ॥ 3.68.11 ॥ | 3.68.11bपश्यामि वृक्षान् सौवर्णानुशीरकृतमूर्धजान् ॥ 3.68.11 ॥ | 3.68.11bपश्यामि वृक्षान् सौवर्णानुशीरकृतमूर्धजान् ॥ ३।६८।११ ॥ | 3.68.11bपश्यामि वृक्षान्सौवर्णानुशीरकृतमूर्धजान्॥3.68.11॥ |
| 24 | #12aಯೇನ ಯಾತಿ ಮುಹೂರ್ತೇನ ಸೀತಾಮಾದಾಯ ರಾವಣಃ । | 3.68.12aयेन याति मुहूर्तेन सीतामादाय रावणः । | 3.64.12aयेन याति मुहूर्तेन सीतामादाय रावणः । | 3.68.12aयेन यातो मुहूर्तेन सीतामादाय रावणः । | 3.68.12aयेन यातो मुहूर्तेन सीतामादाय रावणः। | 3.68.12aयेन यातो मुहूर्तेन सीतामादाय रावणः । | 3.68.12aयेन याति मुहूर्तेन सीतामादाय रावणः। |
| 25 | #12bವಿಪ್ರಣಷ್ಟಂ ಧನಂ ಕ್ಷಿಪ್ರಂ ತತ್ಸ್ವಾಮೀ ಪ್ರತಿಪದ್ಯತೇ ॥ | 3.68.12bविप्रणष्टं धनं क्षिप्रं तत्स्वामी प्रतिपद्यते ॥ १२ ॥ | 3.64.12bविप्रनष्टं धनं क्षिप्रं तत्स्वामिप्रतिपद्यते ॥3.64.12॥ | 3.68.12bविप्रनष्टं धनं क्षिप्रं तत्स्वामी प्रतिपद्यते ॥ 3.68.12 ॥ | 3.68.12bविप्रनष्टं धनं क्षिप्रं तत्स्वामी प्रतिपद्यते ॥ 3.68.12 ॥ | 3.68.12bविप्रनष्टं धनं क्षिप्रं तत्स्वामी प्रतिपद्यते ॥ ३।६८।१२ ॥ | 3.68.12bविप्रणष्टं धनं क्षिप्रं तत्स्वामी प्रतिपद्यते॥3.68.12॥ |
| 26 | #13aವಿಂದೋ ನಾಮ ಮುಹೂರ್ತೋಽಸೌ ನ ಚ ಕಾಕುತ್ಸ್ಥಸೋಽಽಬುಧತ್ । | 3.68.13aविन्दो नाम मुहूर्तोऽसौ न च काकुत्स्थ सोऽबुधत् । | 3.64.13aविन्दो नाम मुहूर्तोऽसौ स च काकुत्स्थ नाबुधत् । | 3.68.13aविन्दो नाम मूहूर्तो ऽयं स च काकुत्स्थ नाबुधत् । | 3.68.13aविन्दो नाम मूहूर्तो ऽयं स च काकुत्स्थ नाबुधत् । | 3.68.13aविन्दो नाम मुहूर्तोऽयं स च काकुत्स्थ नाबुधत्। | |
| 27 | #13bತ್ವತ್ಪ್ರಿಯಾಂ ಜಾನಕೀಂ ಹೃತ್ವಾ ರಾವಣೋರಾಕ್ಷಸೇಶ್ವರಃ । | 3.68.13bत्वत्प्रियां जानकीं हृत्वा रावणो राक्षसेश्वरः । | 3.68.13bत्वत्प्रियां जानकीं हृत्वा रावणो राक्षसेश्वरः । | 3.68.13aत्वत्प्रियां जानकीं हृत्वा रावणो राक्षसेश्वरः। | 3.68.13bत्वत्प्रियां जानकीं हृत्वा रावणो राक्षसेश्वरः । | 3.68.13bत्वत्प्रियां जानकीं हृत्वा रावणो राक्षसेश्वरः॥3.68.13॥ | |
| 28 | #13cಝಷವದ್ ಬಡಿಶಂ ಗೃಹ್ಯ ಕ್ಷ್ರಿಪ್ರಮೇವ ವಿನಶ್ಯತಿ ॥ | 3.68.13cझषवद् बडिशं गृह्य क्षिप्रमेव विनश्यति ॥ १३ ॥ | 3.64.13bझषवद्बडिशं गृह्य क्षिप्रमेव विनश्यति ॥3.64.13॥ | 3.68.13cझषवद्बडिशं गृह्य क्षिप्रमेव विनश्यति ॥ 3.68.13 ॥ | 3.68.13bझषवद्बडिशं गृह्य क्षिप्रमेव विनश्यति ॥ 3.68.13 ॥ | 3.68.13cझषवद्बडिशं गृह्य क्षिप्रमेव विनश्यति ॥ ३।६८।१३ ॥ | 3.68.14aझषवद्बडिशं गृह्य क्षिप्रमेव विनश्यति। |
| 29 | #14aನ ಚ ತ್ವಯಾ ವ್ಯಥಾ ಕಾರ್ಯಾ ಜನಕಸ್ಯ ಸುತಾಂ ಪ್ರತಿ । | 3.68.14aन च त्वया व्यथा कार्या जनकस्य सुतां प्रति । | 3.64.14aन च त्वया व्यथा कार्या जनकस्य सुतां प्रति । | 3.68.14aन च त्वया व्यथा कार्या जनकस्य सुतां प्रति । | 3.68.14aन च त्वया व्यथा कार्या जनकस्य सुतां प्रति। | 3.68.14aन च त्वया व्यथा कार्या जनकस्य सुतां प्रति । | 3.68.14bन च त्वया व्यथा कार्या जनकस्य सुतां प्रति॥3.68.14॥ |
| 30 | #14bವೈದೇಹ್ಯಾ ರಂಸ್ಯಸೇ ಕ್ಷಿಪ್ರಂ ಹತ್ವಾ ತಂ ರಣಮೂರ್ಧನಿ ॥ | 3.68.14bवैदेह्या रंस्यसे क्षिप्रं हत्वा तं रणमूर्धनि ॥ १४ ॥ | 3.64.14bवैदेह्या रंस्यसे क्षिप्रं हत्वा तं राक्षसं रणे ॥3.64.14॥ | 3.68.14bवैदेह्या रंस्यसे क्षिप्रं हत्वा तं राक्षसं रणे ॥ 3.68.14 ॥ | 3.68.14bवैदेह्या रंस्यसे क्षिप्रं हत्वा तं राक्षसं रणे ॥ 3.68.14 ॥ | 3.68.14bवैदेह्या रंस्यसे क्षिप्रं हत्वा तं राक्षसं रणे ॥ ३।६८।१४ ॥ | 3.68.15aवैदेह्या रंस्यसे क्षिप्रं हत्वा तं राक्षसं रणे। |
| 31 | #15aಅಸಂಮೂಢಸ್ಯ ಗೃಧ್ರಸ್ಯ ರಾಮಂ ಪ್ರತ್ಯನುಭಾಷತಃ । | 3.68.15aअसम्मूढस्य गृध्रस्य रामं प्रत्यनुभाषतः । | 3.64.15aअसंमूढस्य गृध्रस्य रामं प्रत्यनुभाषतः । | 3.68.15aअसम्मूढस्य गृध्रस्य रामं प्रत्यनुभाषतः । | 3.68.15aअसम्मूढस्य गृध्रस्य रामं प्रत्यनुभाषतः। | 3.68.15aअसम्मूढस्य गृध्रस्य रामं प्रत्यनुभाषतः । | 3.68.15bअसम्मूढस्य गृध्रस्य रामं प्रत्यनुभाषतः॥3.68.15॥ |
| 32 | #15bಆಸ್ಯಾತ್ಸುಸ್ರಾವ ರುಧಿರಂ ಮ್ರಿಯಮಾಣಸ್ಯ ಸಾಮಿಷಮ್ ॥ | 3.68.15bआस्यात् सुस्राव रुधिरं म्रियमाणस्य सामिषम् ॥ १५ ॥ | 3.64.15bआस्यात्सुस्राव रुधिरं म्रियमाणस्य सामिषम् ॥3.64.15॥ | 3.68.15bआस्यात्सुस्राव रुधिरं म्रियमाणस्य सामिषम् ॥ 3.68.15 ॥ | 3.68.15bआस्यात्सुस्राव रुधिरं म्रियमाणस्य सामिषम् ॥ 3.68.15 ॥ | 3.68.15bआस्यात्सुस्राव रुधिरं म्रियमाणस्य सामिषम् ॥ ३।६८।१५ ॥ | 3.68.16aआस्यात्सुस्राव रुधिरं म्रियमाणस्य सामिषम्। |
| 33 | #16aಪುತ್ರೋ ವಿಶ್ರವಸಃ ಸಾಕ್ಷಾದ್ ಭ್ರಾತಾ ವೈಶ್ರವಣಸ್ಯ ಚ । | 3.68.16aपुत्रो विश्रवसः साक्षाद् भ्राता वैश्रवणस्य च । | 3.64.16aपुत्रो विश्रवसः साक्षाद्भ्राता वैश्रवणस्य च । | 3.68.16aपुत्रो विश्रवसः साक्षात् भ्राता वैश्रवणस्य च । | 3.68.16aपुत्रो विश्रवसः साक्षात् भ्राता वैश्रवणस्य च। | 3.68.16aपुत्रो विश्रवसः साक्षात् भ्राता वैश्रवणस्य च । | 3.68.16bपुत्रो विश्रवसस्साक्षाद्भ्राता वैश्रवणस्य च॥3.68.16॥ |
| 34 | #16bಇತ್ಯುಕ್ತ್ವಾ ದುರ್ಲಭಾನ್ಪ್ರಾಣಾನ್ಮುಮೋಚ ಪತಗೇಶ್ವರಃ ॥ | 3.68.16bइत्युक्त्वा दुर्लभान् प्राणान् मुमोच पतगेश्वरः ॥ १६ ॥ | 3.64.16bइत्युक्त्वा दुर्लभान्प्राणान्मुमोच पतगेश्वरः ॥3.64.16॥ | 3.68.16bइत्युक्त्वा दुर्लभान् प्राणान् मुमोच पतगेश्वरः ॥ 3.68.16 ॥ | 3.68.16bइत्युक्त्वा दुर्लभान् प्राणान् मुमोच पतगेश्वरः ॥ 3.68.16 ॥ | 3.68.16bइत्युक्त्वा दुर्लभान् प्राणान् मुमोच पतगेश्वरः ॥ ३।६८।१६ ॥ | 3.68.17aइत्युक्त्वा दुर्लभान्प्राणान्मुमोच पतगेश्वरः। |
| 35 | #17aಬ್ರೂಹಿ ಬ್ರೂಹೀತಿ ರಾಮಸ್ಯ ಬ್ರುವಾಣಸ್ಯ ಕೃತಾಂಜಲೇಃ । | 3.68.17aब्रूहि ब्रूहीति रामस्य ब्रुवाणस्य कृताञ्जलेः । | 3.64.17aब्रूहि ब्रूहीति रामस्य ब्रुवाणस्य कृताञ्जलेः । | 3.68.17aब्रूहि ब्रूहीति रामस्य ब्रुवाणस्य कृताञ्जलेः । | 3.68.17aब्रूहि ब्रूहीति रामस्य ब्रुवाणस्य कृताञ्जलेः। | 3.68.17aब्रूहि ब्रूहीति रामस्य ब्रुवाणस्य कृताञ्जलेः । | 3.68.17bब्रूहि ब्रूहीति रामस्य ब्रुवाणस्य कृताञ्जलेः॥3.68.17॥ |
| 36 | #17bತ್ಯಕ್ತ್ವಾ ಶರೀರಂ ಗೃಧ್ರಸ್ಯ ಪ್ರಾಣಾ ಜಗ್ಮುರ್ವಿಹಾಯಸಮ್ ॥ | 3.68.17bत्यक्त्वा शरीरं गृध्रस्य प्राणा जग्मुर्विहायसम् ॥ १७ ॥ | 3.64.17bत्यक्त्वा शरीरं गृध्रस्य जग्मुः प्राणा विहायसं ॥3.64.17॥ | 3.68.17bत्यक्त्वा शरीरं गृध्रस्य जग्मुः प्राणा विहायसम् ॥ 3.68.17 ॥ | 3.68.17bत्यक्त्वा शरीरं गृध्रस्य जग्मुः प्राणा विहायसम् ॥ 3.68.17 ॥ | 3.68.17bत्यक्त्वा शरीरं गृध्रस्य जग्मुः प्राणा विहायसम् ॥ ३।६८।१७ ॥ | 3.68.18aत्वक्त्वा शरीरं गृध्रस्य जग्मुः प्राणा विहायसम्। |
| 37 | #18aಸ ನಿಕ್ಷಿಪ್ಯ ಶಿರೌ ಭೂಮೌ ಪ್ರಸಾರ್ಯ ಚರಣೌ ತಥಾ । | 3.68.18aस निक्षिप्य शिरो भूमौ प्रसार्य चरणौ तथा । | 3.64.18aस निक्षिप्य शिरो भूमौ प्रसार्य चरणौ तदा । | 3.68.18aस निक्षिप्य शिरो भूमौ प्रसार्य चरणौ तदा । | 3.68.18aस निक्षिप्य शिरो भूमौ प्रसार्य चरणौ तदा। | 3.68.18aस निक्षिप्य शिरो भूमौ प्रसार्य चरणौ तदा । | 3.68.18bस निक्षिप्य शिरो भूमौ प्रसार्य चरणौ तदा॥3.68.18॥ |
| 38 | #18bವಿಕ್ಷಿಪ್ಯ ಚ ಶರೀರಂ ಸ್ವಂ ಪಪಾತ ಧರಣೀತಲೇ ॥ | 3.68.18bविक्षिप्य च शरीरं स्वं पपात धरणीतले ॥ १८ ॥ | 3.64.18bविक्षिप्य च शरीरं स्वं पपात धरणीतले ॥3.64.18॥ | 3.68.18bविक्षिप्य च शरीरं स्वं पपात धरणीतले ॥ 3.68.18 ॥ | 3.68.18bविक्षिप्य च शरीरं स्वं पपात धरणीतले ॥ 3.68.18 ॥ | 3.68.18bविक्षिप्य च शरीरं स्वं पपात धरणीतले ॥ ३।६८।१८ ॥ | 3.68.19aविक्षिप्य च शरीरं स्वं पपात धरणीतले। |
| 39 | #19aತಂ ಗೃಧ್ರಂ ಪ್ರೇಕ್ಷ್ಯ ತಾಮ್ರಾಕ್ಷಂ ಗತಾಸುಮಚಲೋಪಮಮ್ । | 3.68.19aतं गृध्रं प्रेक्ष्य ताम्राक्षं गतासुमचलोपमम् । | 3.64.19aतं गृध्रं प्रेक्ष्य ताम्राक्षं गतासुमचलोपमम् । | 3.68.19aतं गृध्रं प्रेक्ष्य ताम्राक्षं गतासुमचलोपमम् । | 3.68.19aतं गृध्रं प्रेक्ष्य ताम्राक्षं गतासुमचलोपमम्। | 3.68.19aतं गृध्रं प्रेक्ष्य ताम्राक्षं गतासुमचलोपमम् । | 3.68.19bतं गृध्रं प्रेक्ष्य ताम्राक्षं गतासुमचलोपमम्॥3.68.19॥ |
| 40 | #19bರಾಮಃ ಸುಬಹುಭಿರ್ದುಃಖೈರ್ದೀನಃ ಸೌಮಿತ್ರಿಮಬ್ರವೀತ್ ॥ | 3.68.19bरामः सुबहुभिर्दुःखैर्दीनः सौमित्रिमब्रवीत् ॥ १९ ॥ | 3.64.19bरामः सुबहुभिर्दुःखैर्दीनः सौमित्रिमब्रवीत् ॥3.64.19॥ | 3.68.19bरामः सुबहुभिर्दुःखैर्दीनः सौमित्रिमब्रवीत् ॥ 3.68.19 ॥ | 3.68.19bरामः सुबहुभिर्दुःखैर्दीनः सौमित्रिमब्रवीत् ॥ 3.68.19 ॥ | 3.68.19bरामः सुबहुभिर्दुःखैर्दीनः सौमित्रिमब्रवीत् ॥ ३।६८।१९ ॥ | 3.68.20aरामस्सुबहुभिर्दुःखैर्दीनस्सौमित्रिमब्रवीत्। |
| 41 | #20aಬಹೂನಿ ರಕ್ಷಸಾಂ ವಾಸೇ ವರ್ಷಾಣಿ ವಸತಾ ಸುಖಮ್ । | 3.68.20aबहूनि रक्षसां वासे वर्षाणि वसता सुखम् । | 3.64.20aबहूनि रक्षसां वासे वर्षाणि वसता सुखम् । | 3.68.20aबहूनि रक्षसां वासे वर्षाणि वसता सुखम् । | 3.68.20aबहूनि रक्षसां वासे वर्षाणि वसता सुखम्। | 3.68.20aबहूनि रक्षसां वासे वर्षाणि वसता सुखम् । | 3.68.20bबहूनि रक्षसां वासे वर्षाणि वसता सुखम्॥3.68.20॥ |
| 42 | #20bಅನೇನ ದಂಡಕಾರಣ್ಯೇ ವಿಶೀರ್ಣಮಿಹ ಪಕ್ಷಿಣಾ ॥ | 3.68.20bअनेन दण्डकारण्ये विशीर्णमिह पक्षिणा ॥ २० ॥ | 3.64.20bअनेन दण्डकारण्ये विचीर्णमिह पक्षिणा ॥3.64.20॥ | 3.68.20bअनेन दण्डकारण्ये विशीर्णमिह पक्षिणा ॥ 3.68.20 ॥ | 3.68.20bअनेन दण्डकारण्ये विशीर्णमिह पक्षिणा ॥ 3.68.20 ॥ | 3.68.20bअनेन दण्डकारण्ये विशीर्णमिह पक्षिणा ॥ ३।६८।२० ॥ | 3.68.21aअनेन दण्डकारण्ये विशीर्णमिह पक्षिणा। |
| 43 | #21aಅನೇಕವಾರ್ಷಿಕೋ ಯಸ್ತು ಚಿರಕಾಲಸಮುತ್ಥಿತಃ । | 3.68.21aअनेकवार्षिको यस्तु चिरकालसमुत्थितः । | 3.64.21aअनेकवार्षिको यस्तु चिरकालं समुत्थितः । | 3.68.21aअनेकवार्षिको यस्तु चिरकालसमुत्थितः । | 3.68.21aअनेकवार्षिको यस्तु चिरकालसमुत्थितः। | 3.68.21aअनेकवार्षिको यस्तु चिरकालसमुत्थितः । | 3.68.21bअनेकवार्षिको यस्तु चिरकालसमुत्थितः॥3.68.21॥ |
| 44 | #21bಸೋಽಯಮದ್ಯ ಹತಃ ಶೇತೇ ಕಾಲೋ ಹಿ ದುರತಿಕ್ರಮಃ ॥ | 3.68.21bसोऽयमद्य हतः शेते कालो हि दुरतिक्रमः ॥ २१ ॥ | 3.64.21bसोऽयमद्य हतः शेते कालो हि दुरतिक्रमः ॥3.64.21॥ | 3.68.21bसो ऽयमद्य हतः शेते कालो हि दुरतिक्रमः ॥ 3.68.21 ॥ | 3.68.21bसोऽयमद्य हतः शेते कालो हि दुरतिक्रमः ॥ 3.68.21 ॥ | 3.68.21bसो ऽयमद्य हतः शेते कालो हि दुरतिक्रमः ॥ ३।६८।२१ ॥ | 3.68.22aसोऽयमद्य हतश्शेते कालो हि दुरतिक्रमः। |
| 45 | #22aಪಶ್ಯ ಲಕ್ಷ್ಮಣಗೃಧ್ರೋಽಯಮುಪಕಾರೀ ಹತಶ್ಚ ಮೇ । | 3.68.22aपश्य लक्ष्मण गृध्रोऽयमुपकारी हतश्च मे । | 3.64.22aपश्य लक्ष्मण गृध्रोऽयमुपकारी हतश्च मे । | 3.68.22aपश्य लक्ष्मण गृध्रो ऽयमुपकारी हतश्च मे । | 3.68.22aपश्य लक्ष्मण गृध्रोऽयमुपकारी हतश्च मे। | 3.68.22aपश्य लक्ष्मण गृध्रो ऽयमुपकारी हतश्च मे । | 3.68.22bपश्य लक्ष्मण गृध्रोऽयमुपकारी हतश्च मे॥3.68.22॥ |
| 46 | #22bಸೀತಾಮಭ್ಯವಪನ್ನೋ ಹಿ ರಾವಣೇನ ಬಲೀಯಸಾ ॥ | 3.68.22bसीतामभ्यवपन्नो हि रावणेन बलीयसा ॥ २२ ॥ | 3.64.22bसीतामभ्यवपन्नो वै रावणेन बलीयसा ॥3.64.22॥ | 3.68.22bसीतामभ्यवपन्नो वै रावणेन बलीयसा ॥ 3.68.22 ॥ | 3.68.22bसीतामभ्यवपन्नो वै रावणेन बलीयसा ॥ 3.68.22 ॥ | 3.68.22bसीतामभ्यवपन्नो वै रावणेन बलीयसा ॥ ३।६८।२२ ॥ | 3.68.23aसीतामभ्यवपन्नो वै रावणेन बलीयसा। |
| 47 | #23aಗೃಧ್ರರಾಜ್ಯಂ ಪರಿತ್ಯಜ್ಯ ಪಿತೃಪೈತಾಮಹಂ ಮಹತ್ । | 3.68.23aगृध्रराज्यं परित्यज्य पितृपैतामहं महत् । | 3.64.23aगृध्रराज्यं परित्यज्य पितृपैतामहं महत् । | 3.68.23aगृध्रराज्यं परित्यज्य पितृपैतामहं महत् । | 3.68.23aगृध्रराज्यं परित्यज्य पितृपैतामहं महत्। | 3.68.23aगृध्रराज्यं परित्यज्य पितृपैतामहं महत् । | 3.68.23bगृध्रराज्यं परित्यज्य पितृपैतामहं महत्॥3.68.23॥ |
| 48 | #23bಮಮ ಹೇತೋರಯಂ ಪ್ರಾಣಾನ್ಮುಮೋಚ ಪತಗೇಶ್ವರಃ ॥ | 3.68.23bमम हेतोरयं प्राणान् मुमोच पतगेश्वरः ॥ २३ ॥ | 3.64.23bमम हेतोरयं प्राणान्मुमोच पतगेश्वरः ॥3.64.23॥ | 3.68.23bमम हेतोरयं प्राणान् मुमोच पतगेश्वरः ॥ 3.68.23 ॥ | 3.68.23bमम हेतोरयं प्राणान् मुमोच पतगेश्वरः ॥ 3.68.23 ॥ | 3.68.23bमम हेतोरयं प्राणान् मुमोच पतगेश्वरः ॥ ३।६८।२३ ॥ | 3.68.24aमम हेतोरयं प्राणान्मुमोच पतगेश्वरः। |
| 49 | #24aಸರ್ವತ್ರ ಖಲು ದೃಶ್ಯಂತೇ ಸಾಧವೋ ಧರ್ಮಚಾರಿಣಃ । | 3.68.24aसर्वत्र खलु दृश्यन्ते साधवो धर्मचारिणः । | 3.64.24aसर्वत्र खलु दृश्यन्ते साधवो धर्मचारिणः । | 3.68.24aसर्वत्र खलु दृश्यन्ते साधवो धर्मचारिणः । | 3.68.24aसर्वत्र खलु दृश्यन्ते साधवो धर्मचारिणः। | 3.68.24aसर्वत्र खलु दृश्यन्ते साधवो धर्मचारिणः । | 3.68.24bसर्वत्र खलु दृश्यन्ते साधवो धर्मचारिणः॥3.68.24॥ |
| 50 | #24bಶೂರಾಃ ಶರಣ್ಯಾಃ ಸೌಮಿತ್ರೇ ತಿರ್ಯಗ್ಯೋನಿಗತೇಷ್ವಪಿ ॥ | 3.68.24bशूराः शरण्याः सौमित्रे तिर्यग्योनिगतेष्वपि ॥ २४ ॥ | 3.64.24bशूराः शरण्याः सौमित्रे तिर्यग्योनिगतेष्वपि ॥3.64.24॥ | 3.68.24bशूराः शरण्याः सौमित्रे तिर्यग्योनिगतेष्वपि ॥ 3.68.24 ॥ | 3.68.24bशूराः शरण्याः सौमित्रे तिर्यग्योनिगतेष्वपि ॥ 3.68.24 ॥ | 3.68.24bशूराः शरण्याः सौमित्रे तिर्यग्योनिगतेष्वपि ॥ ३।६८।२४ ॥ | 3.68.25aशूराश्शरण्यास्सौमित्रे तिर्यग्योनिगतेष्वपि। |
| 51 | #25aಸೀತಾಹರಣಜಂ ದುಃಖಂ ನ ಮೇ ಸೌಮ್ಯ ತಥಾಗತಮ್ । | 3.68.25aसीताहरणजं दुःखं न मे सौम्य तथागतम् । | 3.64.25aसीताहरणजं दुःखं न मे सौम्य तथागतम् । | 3.68.25aसीता हरणजं दुःखं न मे सौम्य तथागतम् । | 3.68.25aसीता हरणजं दुःखं न मे सौम्य तथागतम्। | 3.68.25aसीता हरणजं दुःखं न मे सौम्य तथागतम् । | 3.68.25bसीताहरणजं दुःखं न मे सौम्य तथाविधम्॥3.68.25॥ |
| 52 | #25bಯಥಾ ವಿನಾಶೋ ಗೃಧ್ರಸ್ಯ ಮತ್ಕೃತೇ ಚ ಪರಂತಪ ॥ | 3.68.25bयथा विनाशो गृध्रस्य मत्कृते च परन्तप ॥ २५ ॥ | 3.64.25bयथा विनाशो गृध्रस्य मत्कृते च परंतप ॥3.64.25॥ | 3.68.25bयथा विनाशे गृध्रस्य मत्कृते च परन्तप ॥ 3.68.25 ॥ | 3.68.25bयथा विनाशे गृध्रस्य मत्कृते च परन्तप ॥ 3.68.25 ॥ | 3.68.25bयथा विनाशे गृध्रस्य मत्कृते च परन्तप ॥ ३।६८।२५ ॥ | 3.68.26aयथा विनाशे गृध्रस्य मत्कृते च परन्तप। |
| 53 | #26aರಾಜಾ ದಶರಥಃ ಶ್ರೀಮಾನ್ ಯಥಾ ಮಮ ಮಹಾಯಶಾಃ । | 3.68.26aराजा दशरथः श्रीमान् यथा मम महायशाः । | 3.64.26aराजा दशरथः श्रीमान्यथा मम मया यशाः । | 3.68.26aराजा दशरथः श्रीमान् यथा मम महायशाः। | 3.68.26bराजा दशरथश्श्रीमान्यथा मम महायशाः॥3.68.26॥ | ||
| 54 | #26bಪೂಜನೀಯಶ್ಚ ಮಾನ್ಯಶ್ಚ ತಥಾಯಂ ಪತಗೇಶ್ವರಃ ॥ | 3.68.26bपूजनीयश्च मान्यश्च तथायं पतगेश्वरः ॥ २६ ॥ | 3.64.26bपूजनीयश्च मान्यश्च तथायं पतगेश्वरः ॥3.64.26॥ | 3.68.26bपूजनीयश्च मान्यश्च तथाऽयं पतगेश्वरः ॥ 3.68.26 ॥ | 3.68.27aपूजनीयश्च मान्यश्च तथाऽयं पतगेश्वरः। | ||
| 55 | 3.68.26aअथ संस्कारयोग्यतामाह राजेति । | 3.68.26aअथ संस्कारयोग्यतामाह राजेति । | |||||
| 56 | 3.68.26bपूज्यः पैतृकविधिना अर्चनीयः । | 3.68.26bपूज्यः पैतृकविधिना अर्चनीयः । | |||||
| 57 | 3.68.26cमान्यः श्लाघ्यः ॥ 3.68.26 ॥ | 3.68.26cमान्यः श्लाघ्यः ॥ ३।६८।२६ ॥ | |||||
| 58 | #27aಸೌಮಿತ್ರೇ ಹರ ಕಾಷ್ಠಾನಿ ನಿರ್ಮಥಿಷ್ಯಾಮಿ ಪಾವಕಮ್ । | 3.68.27aसौमित्रे हर काष्ठानि निर्मथिष्यामि पावकम् । | 3.64.27aसौमित्रे हर काष्ठानि निर्मथिष्यामि पावकम् । | 3.68.27aसौमित्रे हर काष्ठानि निर्मथिष्यामि पावकम् । | 3.68.27aसौमित्रे हर काष्ठानि निर्मथिष्यामि पावकम्। | 3.68.27aसौमित्रे हर काष्ठानि निर्मथिष्यामि पावकम् । | 3.68.27bसौमित्रे हर काष्ठानि निर्मथिष्यामि पावकम्॥3.68.27॥ |
| 59 | #27bಗೃಧ್ರರಾಜಂ ದಿಧಕ್ಷಾಮಿ ಮತ್ಕೃತೇ ನಿಧನಂ ಗತಮ್ ॥ | 3.68.27bगृध्रराजं दिधक्ष्यामि मत्कृते निधनं गतम् ॥ २७ ॥ | 3.64.27bगृध्रराजं दिधक्षामि मत्कृते निधनं गतम् ॥3.64.27॥ | 3.68.27bगृध्रराजं दिधक्षामि मत्कृते निधनं गतम् ॥ 3.68.27 ॥ | 3.68.27bगृध्रराजं दिधक्षामि मत्कृते निधनं गतम् ॥ 3.68.27 ॥ | 3.68.27bगृध्रराजं दिधक्षामि मत्कृते निधनं गतम् ॥ ३।६८।२७ ॥ | 3.68.28aगृध्रराजं दिधक्षामि मत्कृते निधनं गतम्। |
| 60 | #28aನಾಥಂ ಪತಗಲೋಕಸ್ಯ ಚಿತಾಮಾರೋಪಯಾಮ್ಯಹಮ್ । | 3.68.28aनाथं पतगलोकस्य चितिमारोपयाम्यहम् । | 3.64.28aनाथं पतगलोकस्य चितामारोपयाम्यहम् । | 3.68.28aनाथं पतगलोकस्य चितामारोप्य राघव । | 3.68.28aनाथं पतगलोकस्य चितामारोप्य राघव। | 3.68.28aनाथं पतगलोकस्य चितामारोप्य राघव । | 3.68.28bनाथं पतगलोकस्य चितामारोप्य राघव॥3.68.28॥ |
| 61 | #28bಇಮಂ ಧಕ್ಷ್ಯಾಮಿ ಸೌಮಿತ್ರೇ ಹತಂ ರೌದ್ರೇಣ ರಕ್ಷಸಾ ॥ | 3.68.28bइमं धक्ष्यामि सौमित्रे हतं रौद्रेण रक्षसा ॥ २८ ॥ | 3.64.28bइमं धक्ष्यामि सौमित्रे हतं रौद्रेण रक्षसा ॥3.64.28॥ | 3.68.28bइमं धक्ष्यामि सौमित्रे हतं रौद्रेण रक्षसा ॥ 3.68.28 ॥ | 3.68.28bइमं धक्ष्यामि सौमित्रे हतं रौद्रेण रक्षसा ॥ 3.68.28 ॥ | 3.68.28bइमं धक्ष्यामि सौमित्रे हतं रौद्रेण रक्षसा ॥ ३।६८।२८ ॥ | 3.68.29aइमं धक्ष्यामि सौमित्रे हतं रौद्रेण रक्षसा। |
| 62 | #29aಯಾ ಗತಿರ್ಯಜ್ಞಶೀಲಾನಾಮಾಹಿತಾಗ್ನೇಶ್ಚ ಯಾ ಗತಿಃ । | 3.68.29aया गतिर्यज्ञशीलानामाहिताग्नेश्च या गतिः । | 3.64.29aया गतिर्यज्ञशीलानामाहिताग्नेश्च या गतिः । | 3.68.29aया गतिर्यज्ञशीलानामाहिताग्नेश्च या गतिः। | 3.68.29bया गतिर्यज्ञशीलानामाहिताग्नेश्च या गतिः॥3.68.29॥ | ||
| 63 | #29bಅಪರಾವರ್ತಿನಾಂ ಯಾ ಚ ಯಾ ಚ ಭೂಮಿಪ್ರದಾಯಿನಾಮ್ ॥ | 3.68.29bअपरावर्तिनां या च या च भूमिप्रदायिनाम् ॥ २९ ॥ | 3.64.29bअपरावर्तिनां या च या च भूमिप्रदायिनाम् ॥3.64.29॥ | 3.68.29bअपरावर्तिनां या च या च भूमिप्रदायिनाम् ॥ 3.68.29 ॥ | 3.68.30aअपरावर्तिनां या च या च भूमिप्रदायिनाम्। | ||
| 64 | #30aಮಯಾ ತ್ವಂ ಸಮನುಜ್ಞಾತೋ ಗಚ್ಛ ಲೋಕಾನನುತ್ತಮಾನ್ । | 3.68.30aमया त्वं समनुज्ञातो गच्छ लोकाननुत्तमान् । | 3.64.30aमया त्वं समनुज्ञातो गच्छ लोकाननुत्तमान् । | 3.68.30aमया त्वं समनुज्ञातो गच्छ लोकाननुत्तमान् । | 3.68.30aमया त्वं समनुज्ञातो गच्छ लोकाननुत्तमान्। | 3.68.30aमया त्वं समनुज्ञातो गच्छ लोकाननुत्तमान् । | 3.68.30bमया त्वं समनुज्ञातो गच्छ लोकाननुत्तमान्॥3.68.30॥ |
| 65 | #30bಗೃಧ್ರರಾಜ ಮಹಾಸತ್ತ್ವ ಸಂಸ್ಕೃತಶ್ಚ ಮಯಾ ವ್ರಜ ॥ | 3.68.30bगृध्रराज महासत्त्व संस्कृतश्च मया व्रज ॥ ३० ॥ | 3.64.30bगृध्रराज महासत्त्व संस्कृतश्च मया व्रज ॥3.64.30॥ | 3.68.30bगृध्रराज महासत्त्व संस्कृतश्च मया व्रज ॥ 3.68.30 ॥ | 3.68.30bगृध्रराज महासत्त्व संस्कृतश्च मया व्रज ॥ 3.68.30 ॥ | 3.68.30bगृध्रराज महासत्त्व संस्कृतश्च मया व्रज ॥ ३।६८।३० ॥ | 3.68.31aगृध्रराज महासत्त्व संस्कृतश्च मया व्रज। |
| 66 | #31aಏವಮುಕ್ತ್ವಾ ಚಿತಾಂ ದೀಪ್ತಾಮಾರೋಪ್ಯ ಪತಗೇಶ್ವರಮ್ । | 3.68.31aएवमुक्त्वा चितां दीप्तामारोप्य पतगेश्वरम् । | 3.64.31aएवमुक्त्वा चितां दीप्तामारोप्य पतगेश्वरम् । | 3.68.31aएवमुक्त्वा चितां दीप्तामारोप्य पतगेश्वरम् । | 3.68.31aएवमुक्त्वा चितां दीप्तामारोप्य पतगेश्वरम्। | 3.68.31aएवमुक्त्वा चितां दीप्तामारोप्य पतगेश्वरम् । | 3.68.31bएवमुक्त्वा चितां दीप्तामारोप्य पतगेश्वरम्॥3.68.31॥ |
| 67 | #31bದದಾಹ ರಾಮೋ ಧರ್ಮಾತ್ಮಾ ಸ್ವಬಂಧುಮಿವ ದುಃಖಿತಃ ॥ | 3.68.31bददाह रामो धर्मात्मा स्वबन्धुमिव दुःखितः ॥ ३१ ॥ | 3.64.31bददाह रामो धर्मात्मा स्वबन्धुमिव दुःखितः ॥3.64.31॥ | 3.68.31bददाह रामो धर्मात्मा स्वबन्धुमिव दुःखितः ॥ 3.68.31 ॥ | 3.68.31bददाह रामो धर्मात्मा स्वबन्धुमिव दुःखितः ॥ 3.68.31 ॥ | 3.68.31bददाह रामो धर्मात्मा स्वबन्धुमिव दुःखितः ॥ ३।६८।३१ ॥ | 3.68.32aददाह रामो धर्मात्मा स्वबन्धुमिव दुःखितः। |
| 68 | #32aರಾಮೋಽಥ ಸಹಸೌಮಿತ್ರರ್ವನಂ ಗತ್ವಾ ಸ ವೀರ್ಯವಾನ್ । | 3.68.32aरामोऽथ सहसौमित्रिर्वनं गत्वा स वीर्यवान् । | 3.64.32aरामोऽथ सहसौमित्रिर्वनं यात्वा स वीर्यवान् । | 3.68.32aरामोऽथ सहसौमित्रिर्वनं गत्वा स वीर्यवान्। | 3.68.32bरामोऽथ सहसौमित्रिर्वनं गत्वा स वीर्यवान्॥3.68.32॥ | ||
| 69 | #32bಸ್ಥೂಲಾನ್ಹತ್ವಾ ಮಹಾರೋಹೀನನುತಸ್ತಾರ ತಂ ದ್ವಿಜಮ್ ॥ | 3.68.32bस्थूलान् हत्वा महारोहीननुतस्तार तं द्विजम् ॥ ३२ ॥ | 3.64.32bस्थूलान्हत्वा महारोहीननु तस्तार तं द्विजम् ॥3.64.32॥ | 3.68.32bस्थूलान् हत्वा महारोहीननु तस्तार तं द्विजम् ॥ 3.68.32 ॥ | 3.68.33aस्थूलान्हत्वा महारोहीननुतस्तार तं द्विजम्। | ||
| 70 | 3.68.32aराम इति । | 3.68.32aराम इति । | |||||
| 71 | 3.68.32bमहारोहीन् महामृगान् । | 3.68.32bमहारोहीन् महामृगान् । | |||||
| 72 | 3.68.32cतान् द्विजमनु जटायुषमुद्दिश्य हत्वा तस्तार पिण्डदानार्थं दर्भानास्तृतवान् ॥ 3.68.32 ॥ | 3.68.32cतान् द्विजमनु जटायुषमुद्दिश्य हत्वा तस्तार पिण्डदानार्थं दर्भानास्तृतवान् ॥ ३।६८।३२ ॥ | |||||
| 73 | #33aರೋಹೀಮಾಂಸಾನಿ ಚೋದ್ಧೃತ್ಯ ಪೇಶೀಕೃತ್ವಾ ಮಹಾಯಶಾಃ । | 3.68.33aरोहिमांसानि चोद्धृत्य पेशीकृत्वा महायशाः । | 3.64.33aरोहिमांसानि चोद्धृत्य पेशीकृत्वा महायशाः । | 3.68.33aरोहिमांसानि चोत्कृत्य पेशीकृत्य महायशाः । | 3.68.33aरोहिमांसानि चोत्कृत्य पेशीकृत्य महायशाः। | 3.68.33aरोहिमांसानि चोत्कृत्य पेशीकृत्य महायशाः । | 3.68.33bरोहिमांसानि चोत्कृत्य पेशीकृत्य महायशाः॥3.68.33॥ |
| 74 | #33bಶಕುನಾಯ ದದೌ ರಾಮೋ ರಮ್ಯೇ ಹರಿತಶಾದ್ವಲೇ ॥ | 3.68.33bशकुनाय ददौ रामो रम्ये हरितशाद्वले ॥ ३३ ॥ | 3.64.33bशकुनाय ददौ रामो रम्ये हरितशाद्वले ॥3.64.33॥ | 3.68.33bशकुनाय ददौ रामो रम्ये हरितशाद्वले ॥ 3.68.33 ॥ | 3.68.33bशकुनाय ददौ रामो रम्ये हरितशाद्वले ॥ 3.68.33 ॥ | 3.68.33bशकुनाय ददौ रामो रम्ये हरितशाद्वले ॥ ३।६८।३३ ॥ | 3.68.34aशकुनाय ददौ रामो रम्ये हरितशाद्वले। |
| 75 | #34aಯತ್ತತ್ಪ್ರೇತಸ್ಯ ಮರ್ತ್ಯಸ್ಯ ಕಥಯಂತಿ ದ್ವಿಜಾತಯಃ । | 3.68.34aयत् तत् प्रेतस्य मर्त्यस्य कथयन्ति द्विजातयः । | 3.64.34aयत्तत्प्रेतस्य मर्त्यस्य कथयन्ति द्विजातयः । | 3.68.34aयत्तत्प्रेतस्य मर्त्यस्य कथयन्ति द्विजातयः । | 3.68.34aयत्तत्प्रेतस्य मर्त्यस्य कथयन्ति द्विजातयः। | 3.68.34aयत्तत्प्रेतस्य मर्त्यस्य कथयन्ति द्विजातयः । | 3.68.34bयत्तत्प्रेतस्य मर्त्यस्य कथयन्ति द्विजातयः॥3.68.34॥ |
| 76 | #34bತತ್ಸ್ವರ್ಗಗಮನಂ ತಸ್ಯ ಪಿತ್ರ್ಯಂ ರಾಮೋ ಜಜಾಪ ಹ ॥ | 3.68.34bतत् स्वर्गगमनं पित्र्यं तस्य रामो जजाप ह ॥ ३४ ॥ | 3.64.34bतत्स्वर्गगमनं तस्य क्षिप्रं रामो जजाप ह ॥3.64.34॥ | 3.68.34bतत्स्वर्गगमनं तस्य पित्र्यं रामो जजाप ह ॥ 3.68.34 ॥ | 3.68.34bतत्स्वर्गगमनं तस्य पित्र्यं रामो जजाप ह ॥ 3.68.34 ॥ | 3.68.34bतत्स्वर्गगमनं तस्य पित्र्यं रामो जजाप ह ॥ ३।६८।३४ ॥ | 3.68.35aतत्स्वर्गगमनं तस्य पित्र्यं रामो जजाप ह। |
| 77 | #35aತತೋ ಗೋದಾವರೀಂ ಗತ್ವಾ ನದೀಂ ನರವರಾತ್ಮಜೌ । | 3.68.35aततो गोदावरीं गत्वा नदीं नरवरात्मजौ । | 3.64.35aततो गोदावरीं गत्वा नदीं नरवरात्मजौ । | 3.68.35aततो गोदावरीं गत्वा नदीं नरवरात्मजौ । | 3.68.35aततो गोदावरीं गत्वा नदीं नरवरात्मजौ। | 3.68.35aततो गोदावरीं गत्वा नदीं नरवरात्मजौ । | 3.68.35bततो गोदावरीं गत्वा नदीं नरवरात्मजौ॥3.68.35॥ |
| 78 | #35bಉದಕಂ ಚಕ್ರತುಸ್ತಸ್ಮೈ ಗೃಧ್ರರಾಜಾಯ ತಾವುಭೌ ॥ | 3.68.35bउदकं चक्रतुस्तस्मै गृध्रराजाय तावुभौ ॥ ३५ ॥ | 3.64.35bउदकं चक्रतुस्तस्मै गृध्रराजाय तावुभौ ॥3.64.35॥ | 3.68.35bउदकं चक्रतुस्तस्मै गृध्रराजाय तावुभौ ॥ 3.68.35 ॥ | 3.68.35bउदकं चक्रतुस्तस्मै गृध्रराजाय तावुभौ ॥ 3.68.35 ॥ | 3.68.35bउदकं चक्रतुस्तस्मै गृध्रराजाय तावुभौ ॥ ३।६८।३५ ॥ | 3.68.36aउदकं चक्रतुस्तस्मै गृध्रराजाय तावुभौ। |
| 79 | #36aಶಾಸ್ತ್ರದೃಷ್ಟೇನ ವಿಧಿನಾ ಜಲೇ ಗೃಧ್ರಾಯ ರಾಘವೌ । | 3.68.36aशास्त्रदृष्टेन विधिना जलं गृध्राय राघवौ । | 3.68.36aशास्त्रदृष्टेन विधिना जले गृध्राय राघवौ । | 3.68.36aशास्त्रदृष्टेन विधिना जले गृध्राय राघवौ। | 3.68.36aशास्त्रदृष्टेन विधिना जले गृध्राय राघवौ । | 3.68.36bशास्त्रदृष्टेन विधिना जले गृध्राय राघवौ॥3.68.36॥ | |
| 80 | #36bಸ್ನಾತ್ವಾ ತೌ ಗೃಧ್ರರಾಜಾಯ ಉದಕಂ ಚಕ್ರತುಸ್ತದಾ ॥ | 3.68.36bस्नात्वा तौ गृध्रराजाय उदकं चक्रतुस्तदा ॥ ३६ ॥ | 3.68.36bस्नात्वा तौ गृध्रराजाय उदकं चक्रतुस्तदा ॥ 3.68.36 ॥ | 3.68.36bस्नात्वा तौ गृध्रराजाय उदकं चक्रतुस्तदा ॥ 3.68.36 ॥ | 3.68.36bस्नात्वा तौ गृध्रराजाय उदकं चक्रतुस्तदा ॥ ३।६८।३६ ॥ | 3.68.37aस्नात्वा तौ गृध्रराजाय उदकं चक्रतुस्तदा। | |
| 81 | #37aಸ ಗೃಧ್ರರಾಜಃ ಕೃತವಾನ್ಯಶಸ್ಕರಂ ಸುದುಷ್ಕರಂ ಕರ್ಮ ರಣೇ ನಿಪಾತಿತಃ । | 3.68.37aस गृध्रराजः कृतवान् यशस्करं सुदुष्करं कर्म रणे निपातितः । | 3.64.36aस गृध्रराजः कृतवान्यशस्करं सुदुष्करं कर्म रणे निपातितः । | 3.68.37aस गृध्रराजः कृतवान् यशस्करं सुदुष्करं कर्म रणे निपातितः । | 3.68.37aस गृध्रराजः कृतवान् यशस्करं सुदुष्करं कर्म रणे निपातितः। | 3.68.37bस गृध्रराजः कृतवान्यशस्करं सुदुष्करं कर्म रणे निपातितः। | |
| 82 | #37bಮಹರ್ಷಿಕಲ್ಪೇನ ಚ ಸಂಸ್ಕೃತಸ್ತದಾ ಜಗಾಮ ಪುಣ್ಯಾಂ ಗತಿಮಾತ್ಮನಃ ಶುಭಾಮ್ ॥ | 3.68.37bमहर्षिकल्पेन च संस्कृतस्तदा जगाम पुण्यां गतिमात्मनः शुभाम् ॥ ३७ ॥ | 3.64.36bमहर्षिकल्पेन च संस्कृतस्तदा जगाम पुण्यां गतिमात्मनः शुभाम् ॥3.64.36॥ | 3.68.37bमहर्षिकल्पेन च संस्कृतस्तदा जगाम पुण्यां गतिमात्मनः शुभाम् ॥ 3.68.37 ॥ | 3.68.37bमहर्षिकल्पेन च संस्कृतस्तदा जगाम पुण्यां गतिमात्मनः शुभाम् ॥ 3.68.37 ॥ | 3.68.37cमहर्षिकल्पेन च संस्कृतस्तदा जगाम पुण्यां गतिमात्मनश्शुभाम्॥3.68.37॥ | |
| 83 | 3.68.37पुण्यफलभूताम् आत्मनः सुखावहां गतिं लोकं जगाम ॥ ३।६८।३७ ॥ | ||||||
| 84 | #38aಕೃತೋದಕೌ ತಾವಪಿ ಪಕ್ಷಿಸತ್ತಮೇ ಸ್ಥಿರಾಂ ಚ ಬುದ್ಧಿಂ ಪ್ರಣಿಧಾಯ ಜಗ್ಮತುಃ । | 3.68.38aकृतोदकौ तावपि पक्षिसत्तमे स्थिरां च बुद्धिं प्रणिधाय जग्मतुः । | 3.68.38aकृतोदकौतावपि पक्षिसत्तमे स्थिरां च बुद्धिं प्रणिधाय जग्मतुः । | 3.68.38aकृतोदकौतावपि पक्षिसत्तमे स्थिरां च बुद्धिं प्रणिधाय जग्मतुः। | 3.68.38aकृतोदकौतावपि पक्षिसत्तमे स्थिरां च बुद्धिं प्रणिधाय जग्मतुः । | 3.68.38aकृतोदकौ तावपि पक्षिसत्तमे स्थिरां च बुद्धिं प्रणिधाय जग्मतुः। | |
| 85 | #38bಪ್ರವೇಶ್ಯ ಸೀತಾಧಿಗಮೇ ತತೋ ಮನೋ ವನಂ ಸುರೇಂದ್ರಾವಿವ ವಿಷ್ಣುವಾಸವೌ ॥ | 3.68.38bप्रवेश्य सीताधिगमे ततो मनो वनं सुरेन्द्राविव विष्णुवासवौ ॥ ३८ ॥ | 3.68.38bप्रवेश्य सीताधिगमे ततो मनो वनं सुरेन्द्राविव विष्णुवासवौ ॥ 3.68.38 ॥ | 3.68.38bप्रवेश्य सीताधिगमे ततो मनो वनं सुरेन्द्राविव विष्णुवासवौ ॥ 3.68.38 ॥ | 3.68.38bप्रवेश्य सीताधिगमे ततो मनो वनं सुरेन्द्राविव विष्णुवासवौ ॥ ३।६८।३८ ॥ | 3.68.38bप्रवेश्य सीताधिगमे ततो मनो वनं सुरेन्द्रविव विष्णुवासवौ॥3.68.38॥ |