भूषणप्रक्षेपणम्-लङ्काप्रवेशं च. Built from structured/verses.jsonl. Rows are monotone-aligned half-verse/pāda-like units split at । and ॥, so verse-number boundary differences can appear as inserted or shifted line rows.
63 aligned line rows across 7 source streams.
gor-kn 60 lines
gor-hi 60 lines
crit 60 lines
gr 60 lines
dr-mula 59 lines
gr-iitk 60 lines
iitk 60 lines
| # | gor-kn | gor-hi | crit | gr | dr-mula | gr-iitk | iitk |
|---|---|---|---|---|---|---|---|
| 1 | #1aಹ್ರಿಯಮಾಣಾ ತು ವೈದೇಹೀ ಕಂಚಿನ್ನಾಥಮಪಶ್ಯತೀ । | 3.54.1aह्रियमाणा तु वैदेही कञ्चिन्नाथमपश्यती । | 3.52.1aह्रियमाणा तु वैदेही कंचिन्नाथमपश्यती । | 3.54.1aह्रियमाणा तु वैदेही कञ्चिन्नाथमपश्यती । | 3.54.1aह्रियमाणा तु वैदेही कञ्चिन्नाथमपश्यती। | 3.54.1aह्रियमाणा तु वैदेही कञ्चिन्नाथमपश्यती । | 3.54.1aह्रियमाणा तु वैदेही कञ्चिन्नाथमपश्यती। |
| 2 | #1bದದರ್ಶ ಗಿರಿಶೃಂಗಸ್ಥಾನ್ ಪಂಚ ವಾನರಪುಂಗವಾನ್ ॥ | 3.54.1bददर्श गिरिशृङ्गस्थान् पञ्च वानरपुङ्गवान् ॥ १ ॥ | 3.52.1bददर्श गिरिशृङ्गस्थान्पञ्चवानरपुंगवान् ॥3.52.1॥ | 3.54.1bददर्श गिरिशृङ्गस्थान् पञ्च वानरपुङ्गवान् ॥ 3.54.1 ॥ | 3.54.1bददर्श गिरिशृङ्गस्थान् पञ्च वानरपुङ्गवान् ॥ 3.54.1 ॥ | 3.54.1bददर्श गिरिशृङ्गस्थान् पञ्च वानरपुङ्गवान् ॥ ३।५४।१ ॥ | 3.54.1bददर्श गिरिशृङ्गस्थान्पञ्च वानरपुङ्गवान्॥3.54.1॥ |
| 3 | #2aತೇಷಾಂ ಮಧ್ಯೇ ವಿಶಾಲಾಕ್ಷೀ ಕೌಶೇಯಂ ಕನಕಪ್ರಭಮ್ । | 3.54.2aतेषां मध्ये विशालाक्षी कौशेयं कनकप्रभम् । | 3.52.2aतेषां मध्ये विशालाक्षी कौशेयं कनकप्रभम् । | 3.54.2aतेषां मध्ये विशालाक्षी कौशेयं कनकप्रभम् । | 3.54.2aतेषां मध्ये विशालाक्षी कौशेयं कनकप्रभम् । | 3.54.2aतेषां मध्ये विशालाक्षी कौशेयं कनकप्रभम्। | |
| 4 | #2bಉತ್ತರೀಯಂ ವರಾರೋಹಾ ಶುಭಾನ್ಯಾಭರಣಾನಿ ಚ ॥ | 3.54.2bउत्तरीयं वरारोहा शुभान्याभरणानि च ॥ २ ॥ | 3.52.2bउत्तरीयं वरारोहा शुभान्याभरणानि च । | 3.54.2bउत्तरीयं वरारोहा शुभान्याभरणानि च । | 3.54.2aउत्तरीयं वरारोहा शुभान्याभरणानि च। | 3.54.2bउत्तरीयं वरारोहा शुभान्याभरणानि च । | 3.54.2bउत्तरीयं वरारोहा शुभान्याभरणानि च॥3.54.2॥ |
| 5 | #3aಮುಮೋಚ ಯದಿ ರಾಮಾಯ ಶಂಸೇಯುರಿತಿ ಭಾಮಿನೀ । | 3.54.3aमुमोच यदि रामाय शंसेयुरिति भामिनी । | 3.52.2cमुमोच यदि रामाय शंसेयुरिति मैथिली ॥3.52.2॥ | 3.54.2cमुमोच यदि रामाय शंसेयुरिति मैथिली ॥ 3.54.2 ॥ | 3.54.2bमुमोच यदि रामाय शंसेयुरिति मैथिली ॥ 3.54.2 ॥ | 3.54.2cमुमोच यदि रामाय शंसेयुरिति मैथिली ॥ ३।५४।२ ॥ | 3.54.3aमुमोच यदि रामाय शंसेयुरिति मैथिली। |
| 6 | #3bವಸ್ತ್ರಮುತ್ಸೃಜ್ಯ ತನ್ಮಧ್ಯೇ ನಿಕ್ಷಿಪ್ತಂ ಸಹಭೂಷಣಮ್ ॥ | 3.54.3bवस्त्रमुत्सृज्य तन्मध्ये निक्षिप्तं सहभूषणम् ॥ ३ ॥ | 3.52.3aवस्त्रमुत्सृज्य तन्मध्ये विनिक्षिप्तं सभूषणम् । | 3.54.3aवस्त्रमुत्सृज्य तन्मध्ये निक्षिप्तं सहभूषणम् । | 3.54.3aवस्त्रमुत्सृज्य तन्मध्ये निक्षिप्तं सहभूषणम्। | 3.54.3aवस्त्रमुत्सृज्य तन्मध्ये निक्षिप्तं सहभूषणम् । | 3.54.3bवस्त्रमुत्सृज्य तन्मध्ये निक्षिप्तं सहभूषणम्॥3.54.3॥ |
| 7 | #4aಸಂಭ್ರಮಾತ್ತು ದಶಗ್ರೀವಸ್ತತ್ಕರ್ಮ ಚ ನ ಬುದ್ಧವಾನ್ । | 3.54.4aसम्भ्रमात् तु दशग्रीवस्तत्कर्म च न बुद्धवान् । | 3.52.3bसंभ्रमात्तु दशग्रीवस्तत्कर्म न च बुद्धिवान् ॥3.52.3॥ | 3.54.3bसम्भ्रमात्तु दशग्रीवस्तत्कर्म न स बुद्धवान् ॥ 3.54.3 ॥ | 3.54.3bसम्भ्रमात्तु दशग्रीवस्तत्कर्म न स बुद्धवान् ॥ 3.54.3 ॥ | 3.54.3bसम्भ्रमात्तु दशग्रीवस्तत्कर्म न स बुद्धवान् ॥ ३।५४।३ ॥ | 3.54.4aसम्भ्रमात्तु दशग्रीवस्तत्कर्म न स बुद्धवान्। |
| 8 | #4bಪಿಂಗಾಕ್ಷಾಸ್ತಾಂ ವಿಶಾಲಾಕ್ಷೀಂ ನೇತ್ರೈರನಿಮಿಷೈರಿವ ॥ | 3.54.4bपिङ्गाक्षास्तां विशालाक्षीं नेत्रैरनिमिषैरिव ॥ ४ ॥ | 3.52.4aपिङ्गाक्षास्तां विशालाक्षीं नेत्रैरनिमिषैरिव । | 3.54.4aपिङ्गाक्षास्तां विशालाक्षीं नेत्रैरनिमिषैरिव । | 3.54.4aपिङ्गाक्षास्तां विशालाक्षीं नेत्रैरनिमिषैरिव। | 3.54.4aपिङ्गाक्षास्तां विशालाक्षीं नेत्रैरनिमिषैरिव । | 3.54.4bपिङ्गाक्षास्तां विशालाक्षीं नेत्रैरनिमिषैरिव॥3.54.4॥ |
| 9 | #5aವಿಕ್ರೋಶಂತೀಂ ತದಾ ಸೀತಾಂ ದದೃಶುರ್ವಾನರೋತ್ತಮಾಃ । | 3.54.5aविक्रोशन्तीं तदा सीतां ददृशुर्वानरोत्तमाः । | 3.52.4bविक्रोशन्तीं तदा सीतां ददृशुर्वानरर्षभाः ॥3.52.4॥ | 3.54.4bविक्रोशन्तीं तथा सीतां ददृशुर्वानरर्षभाः ॥ 3.54.4 ॥ | 3.54.4bविक्रोशन्तीं तथा सीतां ददृशुर्वानरर्षभाः ॥ 3.54.4 ॥ | 3.54.4bविक्रोशन्तीं तथा सीतां ददृशुर्वानरर्षभाः ॥ ३।५४।४ ॥ | 3.54.5aविक्रोशन्तीं तथा सीतां ददृशुर्वानरर्षभाः। |
| 10 | #5bಸ ಚ ಪಂಪಾಮತಿಕ್ರಮ್ಯ ಲಂಕಾಮಭಿಮುಖಃ ಪುರೀಮ್ ॥ | 3.54.5bस च पम्पामतिक्रम्य लङ्कामभिमुखः पुरीम् ॥ ५ ॥ | 3.52.5aस च पम्पामतिक्रम्य लङ्कामभिमुखः पुरीम् । | 3.54.5aस च पम्पामतिक्रम्य लङ्कामभिमुखः पुरीम् । | 3.54.5aस च पम्पामतिक्रम्य लङ्कामभिमुखः पुरीम्। | 3.54.5aस च पम्पामतिक्रम्य लङ्कामभिमुखः पुरीम् । | 3.54.5bस च पम्पामतिक्रम्य लङ्कामभिमुखः पुरीम्॥3.54.5॥ |
| 11 | #6aಜಗಾಮಮೈಥಿಲೀಂ ಗೃಹ್ಯ ರುದತೀಂ ರಾಕ್ಷಸೇಶ್ವರಃ । | 3.54.6aजगाम मैथिलीं गृह्य रुदतीं राक्षसेश्वरः । | 3.52.5bजगाम रुदतीं गृह्य मैथिलीं राक्षसेश्वरः ॥3.52.5॥ | 3.54.5bजगाम रुदतीं गृह्य वैदेहीं राक्षसेश्वरः ॥ 3.54.5 ॥ | 3.54.5bजगाम रुदतीं गृह्य वैदेहीं राक्षसेश्वरः ॥ 3.54.5 ॥ | 3.54.5bजगाम रुदतीं गृह्य वैदेहीं राक्षसेश्वरः ॥ ३।५४।५ ॥ | 3.54.6aजगाम रुदतीं गृह्य वैदेहीं राक्षसेश्वरः। |
| 12 | #6bತಾಂ ಜಹಾರ ಸುಸಂಹೃಷ್ಟೋ ರಾವಣೋ ಮೃತ್ಯುಮಾತ್ಮನಃ ॥ | 3.54.6bतां जहार सुसंहृष्टो रावणो मृत्युमात्मनः ॥ ६ ॥ | 3.52.6aतां जहार सुसंहृष्टो रावणो मृत्युमात्मनः । | 3.54.6aतां जहार सुसंहृष्टो रावणो मृत्युमात्मनः । | 3.54.6aतां जहार सुसंहृष्टो रावणो मृत्युमात्मनः। | 3.54.6aतां जहार सुसंहृष्टो रावणो मृत्युमात्मनः । | 3.54.6bतां जहार सुसंहृष्टो रावणो मृत्युमात्मनः॥3.54.6॥ |
| 13 | #7aಉತ್ಸಂಗೇನೈವ ಭುಜಗೀಂ ತೀಕ್ಷ್ಣದಂಷ್ಟ್ರಾಂ ಮಹಾವಿಷಾಮ್ । | 3.54.7aउत्सङ्गेनैव भुजगीं तीक्ष्णदंष्ट्रां महाविषाम् । | 3.52.6bउत्सङ्गेनैव भुजगीं तीक्ष्णदंष्ट्रां महाविषाम् ॥3.52.6॥ | 3.54.6bउत्सङ्गेनैव भुजगीं तीक्ष्णदंष्ट्रां महाविषाम् ॥ 3.54.6 ॥ | 3.54.6bउत्सङ्गेनैव भुजगीं तीक्ष्णदंष्ट्रां महाविषाम् ॥ 3.54.6 ॥ | 3.54.6bउत्सङ्गेनैव भुजगीं तीक्ष्णदंष्ट्रां महाविषाम् ॥ ३।५४।६ ॥ | 3.54.7aउत्सङ्गेनेव भुजगीं तीक्ष्णदंष्ट्रां महाविषाम्। |
| 14 | #7bವನಾನಿ ಸರಿತಃ ಶೈಲಾನ್ಸರಾಂಸಿ ಚ ವಿಹಾಯಸಾ ॥ | 3.54.7bवनानि सरितः शैलान् सरांसि च विहायसा ॥ ७ ॥ | 3.52.7aवनानि सरितः शैलान्सरांसि च विहायसा । | 3.54.7aवनानि सरितः शैलान् सरांसि च विहायसा । | 3.54.7aवनानि सरितः शैलान् सरांसि च विहायसा। | 3.54.7aवनानि सरितः शैलान् सरांसि च विहायसा । | 3.54.7bवनानि सरितश्शैलांत्सरांसि च विहायसा॥3.54.7॥ |
| 15 | #8aಸ ಕ್ಷಿಪ್ರಂ ಸಮತೀಯಾಯ ಶರಶ್ಚಾಪಾದಿವ ಚ್ಯುತಃ । | 3.54.8aस क्षिप्रं समतीयाय शरश्चापादिव च्युतः । | 3.52.7bस क्षिप्रं समतीयाय शरश्चापादिव च्युतः ॥3.52.7॥ | 3.54.7bस क्षिप्रं समतीयाय शरश्चापादिव च्युतः ॥ 3.54.7 ॥ | 3.54.7bस क्षिप्रं समतीयाय शरश्चापादिव च्युतः ॥ 3.54.7 ॥ | 3.54.7bस क्षिप्रं समतीयाय शरश्चापादिव च्युतः ॥ ३।५४।७ ॥ | 3.54.8aस क्षिप्रं समतीयाय शरश्चापादिव च्युतः। |
| 16 | #8bತಿಮಿನಕ್ರನಿಕೇತಂ ತು ವರುಣಾಲಯಮಕ್ಷಯಮ್ ॥ | 3.54.8bतिमिनक्रनिकेतं तु वरुणालयमक्षयम् ॥ ८ ॥ | 3.52.8aतिमिनक्रनिकेतं तु वरुणालयमक्षयम् । | 3.54.8aतिमिनक्रनिकेतं तु वरुणालयमक्षयम् । | 3.54.8aतिमिनक्रनिकेतं तु वरुणालयमक्षयम्। | 3.54.8aतिमिनक्रनिकेतं तु वरुणालयमक्षयम् । | 3.54.8bतिमिनक्रनिकेतं तु वरुणालयमक्षयम्॥3.54.8॥ |
| 17 | #9aಸರಿತಾಂ ಶರಣಂ ಗತ್ವಾ ಸಮತೀಯಾಯ ಸಾಗರಮ್ । | 3.54.9aसरितां शरणं गत्वा समतीयाय सागरम् । | 3.52.8bसरितां शरणं गत्वा समतीयाय सागरम् ॥3.52.8॥ | 3.54.8bसरतां शरणं गत्वा समतीयाय सागरम् ॥ 3.54.8 ॥ | 3.54.8bसरतां शरणं गत्वा समतीयाय सागरम् ॥ 3.54.8 ॥ | 3.54.8bसरतां शरणं गत्वा समतीयाय सागरम् ॥ ३।५४।८ ॥ | 3.54.9aसरितां शरणं गत्वा समतीयाय सागरम्। |
| 18 | #9bಸಂಭ್ರಮಾತ್ಪರಿವೃತ್ತೋರ್ಮೀ ರುದ್ಧಮೀನಮಹೋರಗಃ ॥ | 3.54.9bसम्भ्रमात् परिवृत्तोर्मी रुद्धमीनमहोरगः ॥ ९ ॥ | 3.52.9aसंभ्रमात्परिवृत्तोर्मी रुद्धमीनमहोरगः । | 3.54.9aसम्भ्रमात्परिवृत्तोर्मी रुद्धमीनमहोरगः। | 3.54.9bसम्भ्रमात्परिवृत्तोर्मी रुद्धमीनमहोरगः॥3.54.9॥ | ||
| 19 | #10aವೈದೇಹ್ಯಾಂ ಹ್ರಿಯಮಾಣಾಯಾಂ ಬಭೂವ ವರುಣಾಲಯಃ । | 3.54.10aवैदेह्यां ह्रियमाणायां बभूव वरुणालयः । | 3.52.9bवैदेह्यां ह्रियमाणायां बभूव वरुणालयः ॥3.52.9॥ | 3.54.9bवैदेह्यां ह्रियमाणायां बभूव वरुणालयः ॥ 3.54.9 ॥ | 3.54.10aवैदेह्यां ह्रियमाणायां बभूव वरुणालयः। | ||
| 20 | 3.54.9aसम्भ्रमात् रावणदर्शनक्षोभात् । | 3.54.9aसम्भ्रमात् रावणदर्शनक्षोभात् । | |||||
| 21 | 3.54.9bपरिवृत्तोर्मिः रुद्धमीनमहोरगः बहिस्सञ्चाररहितमत्स्यसर्पः ॥ 3.54.9 ॥ | 3.54.9bपरिवृत्तोर्मिः रुद्धमीनमहोरगः बहिस्सञ्चाररहितमत्स्यसर्पः ॥ ३।५४।९ ॥ | |||||
| 22 | #10bಅಂತರಿಕ್ಷಗತಾ ವಾಚಃ ಸಸೃಜುಶ್ಚಾರಣಾಸ್ತದಾ ॥ | 3.54.10bअन्तरिक्षगता वाचः ससृजुश्चारणास्तदा ॥ १० ॥ | 3.52.10aअन्तरिक्षगता वाचः ससृजुश्चारणास्तदा । | 3.54.10aअन्तरिक्षगता वाचः ससृजुश्चारणास्तदा । | 3.54.10aअन्तरिक्षगता वाचः ससृजुश्चारणास्तदा। | 3.54.10aअन्तरिक्षगता वाचः ससृजुश्चारणास्तदा । | 3.54.10bअन्तरिक्षगता वाचस्ससृजुश्चारणास्तदा॥3.54.10॥ |
| 23 | #11aಏತದಂತೋ ದಶಗ್ರೀವ ಇತಿ ಸಿದ್ಧಾಸ್ತಥಾಬ್ರುವನ್ । | 3.54.11aएतदन्तो दशग्रीव इति सिद्धास्तथाब्रुवन् । | 3.52.10bएतदन्तो दशग्रीव इति सिद्धास्तदाब्रुवन् ॥3.52.10॥ | 3.54.10bएतदन्तो दशग्रीव इति सिद्धास्तदा ऽब्रुवन् ॥ 3.54.10 ॥ | 3.54.10bएतदन्तो दशग्रीव इति सिद्धास्तदाऽब्रुवन् ॥ 3.54.10 ॥ | 3.54.10bएतदन्तो दशग्रीव इति सिद्धास्तदा ऽब्रुवन् ॥ ३।५४।१० ॥ | 3.54.11aएतदन्तो दशग्रीव इति सिद्धास्तदाब्रुवन्। |
| 24 | #11bಸ ತು ಸೀತಾಂ ವಿಚೇಷ್ಟಂತೀಮಂಕೇನಾದಾಯ ರಾವಣಃ ॥ | 3.54.11bस तु सीतां विचेष्टन्तीमङ्केनादाय रावणः ॥ ११ ॥ | 3.52.11aस तु सीतां विवेष्टन्तीमङ्केनादाय रावणः । | 3.54.11aस तु सीतां विवेष्टन्तीमङ्केनादाय रावणः । | 3.54.11aस तु सीतां विवेष्टन्तीमङ्केनादाय रावणः। | 3.54.11aस तु सीतां विवेष्टन्तीमङ्केनादाय रावणः । | 3.54.11bस तु सीतां विवेष्टन्तीमङ्केनादाय रावणः॥3.54.11॥ |
| 25 | #12aಪ್ರವಿವೇಶ ಪುರೀಂ ಲಂಕಾಂ ರೂಪಿಣೀಂ ಮೃತ್ಯುಮಾತ್ಮನಃ । | 3.54.12aप्रविवेश पुरीं लङ्कां रूपिणीं मृत्युमात्मनः । | 3.52.11bप्रविवेश पुरीं लङ्कां रूपिणीं मृत्युमात्मनः ॥3.52.11॥ | 3.54.11bप्रविवेश पुरीं लङ्कां रूपिणीं मृत्युमात्मनः ॥ 3.54.11 ॥ | 3.54.11bप्रविवेश पुरीं लङ्कां रूपिणीं मृत्युमात्मनः ॥ 3.54.11 ॥ | 3.54.11bप्रविवेश पुरीं लङ्कां रूपिणीं मृत्युमात्मनः ॥ ३।५४।११ ॥ | 3.54.12aप्रविवेश पुरीं लङ्कां रूपिणीं मृत्युमात्मनः। |
| 26 | #12bಸೋಽಭಿಗಮ್ಯ ಪುರೀಂ ಲಂಕಾಂ ಸುವಿಭಕ್ತಮಹಾಪಥಾಮ್ ॥ | 3.54.12bसोऽभिगम्य पुरीं लङ्कां सुविभक्तमहापथाम् ॥ १२ ॥ | 3.52.12aसोऽभिगम्य पुरीं लङ्कां सुविभक्तमहापथाम् । | 3.54.12aसो ऽभिगम्य पुरीं लङ्कां सुविभक्तमहापथाम् । | 3.54.12aसोऽभिगम्य पुरीं लङ्कां सुविभक्तमहापथाम्। | 3.54.12aसो ऽभिगम्य पुरीं लङ्कां सुविभक्तमहापथाम् । | 3.54.12bसोऽभिगम्य पुरीं लङ्कां सुविभक्तमहापथाम्॥3.54.12॥ |
| 27 | #13aಸಂರೂಢಕಕ್ಷ್ಯಾಂ ಬಹುಲಾಂ ಸ್ವಮಂತಃಪುರಮಾವಿಶತ್ । | 3.54.13aसंरूढकक्ष्यां बहुलां स्वमन्तःपुरमाविशत् । | 3.52.12bसंरूढकक्ष्या बहुलं स्वमन्तःपुरमाविशत् ॥3.52.12॥ | 3.54.12bसंरूढकक्ष्याबहुलं स्वमन्तःपुरमाविशत् ॥ 3.54.12 ॥ | 3.54.12bसंरूढकक्ष्याबहुलं स्वमन्तःपुरमाविशत् ॥ 3.54.12 ॥ | 3.54.12bसंरूढकक्ष्याबहुलं स्वमन्तःपुरमाविशत् ॥ ३।५४।१२ ॥ | 3.54.13aसंरूढकक्ष्याबहुलं स्वमन्तःपुरमाविशत्। |
| 28 | #13bತತ್ರ ತಾಮಸಿತಾಪಾಂಗೀಂ ಶೋಕಮೋಹ ಸಮನ್ವಿತಾಮ್ ॥ | 3.54.13bतत्र तामसितापाङ्गीं शोकमोहसमन्विताम् ॥ १३ ॥ | 3.52.13aतत्र तामसितापाङ्गीं शोकमोहपरायणाम् । | 3.54.13aतत्र तामसितापाङ्गां शोकमोहपरायणाम् । | 3.54.13aतत्र तामसितापाङ्गां शोकमोहपरायणाम्। | 3.54.13aतत्र तामसितापाङ्गां शोकमोहपरायणाम् । | 3.54.13bतत्र तामसितापाङ्गां शोकमोहपरायणाम्॥3.54.13॥ |
| 29 | #14aನಿದಧೇ ರಾವಣಃ ಸೀತಾಂ ಮಯೋ ಮಾಯಾಮಿವಾಸುರೀಮ್ । | 3.54.14aनिदधे रावणः सीतां मयो मायामिवासुरीम् । | 3.52.13bनिदधे रावणः सीतां मयो मायामिवासुरीम् ॥3.52.13॥ | 3.54.13bनिदधे रावणः सीतां मयो मायामिव स्त्रियम् ॥ 3.54.13 ॥ | 3.54.13bनिदधे रावणः सीतां मयो मायामिव स्त्रियम् ॥ 3.54.13 ॥ | 3.54.13bनिदधे रावणः सीतां मयो मायामिव स्त्रियम् ॥ ३।५४।१३ ॥ | 3.54.14aनिदधे रावणस्सीतां मयो मायामिवस्त्रियम्। |
| 30 | #14bಅಬ್ರವೀಚ್ಚ ದಶಗ್ರೀವಃ ಪಿಶಾಚೀರ್ಘೋರದರ್ಶನಾಃ ॥ | 3.54.14bअब्रवीच्च दशग्रीवः पिशाचीर्घोरदर्शनाः ॥ १४ ॥ | 3.52.14aअब्रवीच्च दशग्रीवः पिशाचीर्घोरदर्शनाः । | 3.54.14aअब्रवीच्च दशग्रीवः पिशाचीर्घोरदर्शनाः । | 3.54.14aअब्रवीच्च दशग्रीवः पिशाचीर्घोरदर्शनाः। | 3.54.14aअब्रवीच्च दशग्रीवः पिशाचीर्घोरदर्शनाः । | 3.54.14bअब्रवीच्च दशग्रीवः पिशाचीर्घोरदर्शनाः॥3.54.14॥ |
| 31 | #15aಯಥಾ ನೈನಾಂ ಪುಮಾನ್ ಸ್ತ್ರೀ ವಾ ಸೀತಾಂ ಪಶ್ಯತ್ಯಸಂಮತಃ । | 3.54.15aयथा नैनां पुमान् स्त्री वा सीतां पश्यत्यसम्मतः । | 3.52.14bयथा नैनां पुमान्स्त्री वा सीतां पश्यत्यसंमतः ॥3.52.14॥ | 3.54.14bयथा नेमां पुमान् स्त्री वा सीतां पश्यत्यसम्मतः ॥ 3.54.14 ॥ | 3.54.14bयथा नेमां पुमान् स्त्री वा सीतां पश्यत्यसम्मतः ॥ 3.54.14 ॥ | 3.54.14bयथा नेमां पुमान् स्त्री वा सीतां पश्यत्यसम्मतः ॥ ३।५४।१४ ॥ | 3.54.15aयथा नेमां पुमान् स्त्री वा सीतां पश्यत्यसम्मतः। |
| 32 | #15bಮುಕ್ತಾಮಣಿಸುವರ್ಣಾನಿ ವಸ್ತ್ರಾಣ್ಯಾಭರಣಾನಿ ಚ ॥ | 3.54.15bमुक्तामणिसुवर्णानि वस्त्राण्याभरणानि च ॥ १५ ॥ | 3.52.15aमुक्तामणिसुवर्णानि वस्त्राण्याभरणानि च । | 3.54.15aमुक्तामणिसुवर्णानि वस्त्राण्याभरणानि च । | 3.54.15aमुक्तामणिसुवर्णानि वस्त्राण्याभरणानि च। | 3.54.15aमुक्तामणिसुवर्णानि वस्त्राण्याभरणानि च । | 3.54.15bमुक्तामणिसुवर्णानि वस्त्राण्याभरणानि च॥3.54.15॥ |
| 33 | #16aಯದ್ಯದೀಚ್ಛತ್ ತದೈವಾಸ್ಯಾ ದೇಯಂ ಮಚ್ಛಂದತೋ ಯಥಾ । | 3.54.16aयद् यदिच्छेत् तदैवास्या देयं मच्छन्दतो यथा । | 3.52.15bयद्यदिच्छेत्तदेवास्या देयं मच्छन्दतो यथा ॥3.52.15॥ | 3.54.15bयद्यदिच्छेत्तदेवास्या देयं मच्छन्दतो यथा ॥ 3.54.15 ॥ | 3.54.15bयद्यदिच्छेत्तदेवास्या देयं मच्छन्दतो यथा ॥ 3.54.15 ॥ | 3.54.15bयद्यदिच्छेत्तदेवास्या देयं मच्छन्दतो यथा ॥ ३।५४।१५ ॥ | 3.54.16aयद्यदिच्छेत्तदेवास्या देयं मच्छन्दतो यथा। |
| 34 | #16bಯಾ ಚ ವಕ್ಷ್ಯತಿ ವೈದೇಹೀಂ ವಚನಂ ಕಿಂಚಿದಪ್ರಿಯಮ್ ॥ | 3.54.16bया च वक्ष्यति वैदेहीं वचनं किञ्चिदप्रियम् ॥ १६ ॥ | 3.52.16aया च वक्ष्यति वैदेहीं वचनं किंचिदप्रियम् । | 3.54.16aया च वक्ष्यति वैदेहीं वचनं किञ्चिदप्रियम् । | 3.54.16aया च वक्ष्यति वैदेहीं वचनं किञ्चिदप्रियम्। | 3.54.16aया च वक्ष्यति वैदेहीं वचनं किञ्चिदप्रियम् । | 3.54.16bया च वक्ष्यति वैदेहीं वचनं किञ्चिदप्रियम्॥3.54.16॥ |
| 35 | #17aಅಜ್ಞಾನಾದ್ಯದಿ ವಾ ಜ್ಞಾನಾನ್ನ ತಸ್ಯಾ ಜೀವಿತಂ ಪ್ರಿಯಮ್ । | 3.54.17aअज्ञानाद् यदि वा ज्ञानान्न तस्या जीवितं प्रियम् । | 3.52.16bअज्ञानाद्यदि वा ज्ञानान्न तस्या जीवितं प्रियम् ॥3.52.16॥ | 3.54.16bअज्ञानाद्यदि वा ज्ञानान्न तस्या जीवितं प्रियम् ॥ 3.54.16 ॥ | 3.54.16bअज्ञानाद्यदि वा ज्ञानान्न तस्या जीवितं प्रियम् ॥ 3.54.16 ॥ | 3.54.16bअज्ञानाद्यदि वा ज्ञानान्न तस्या जीवितं प्रियम् ॥ ३।५४।१६ ॥ | 3.54.17aअज्ञानाद्यदि वा ज्ञानान्न तस्या जीवितं प्रियम्। |
| 36 | #17bತಥೋಕ್ತ್ವಾ ರಾಕ್ಷಸೀಸ್ತಾಸ್ತು ರಾಕ್ಷಸೇಂದ್ರಃ ಪ್ರತಾಪವಾನ್ ॥ | 3.54.17bतथोक्त्वा राक्षसीस्तास्तु राक्षसेन्द्रः प्रतापवान् ॥ १७ ॥ | 3.52.17aतथोक्त्वा राक्षसीस्तास्तु राक्षसेन्द्रः प्रतापवान् । | 3.54.17aतथोक्त्वा राक्षसीस्तास्तु राक्षसेन्द्रः प्रतापवान् । | 3.54.17aतथोक्त्वा राक्षसीस्तास्तु राक्षसेन्द्रः प्रतापवान्। | 3.54.17aतथोक्त्वा राक्षसीस्तास्तु राक्षसेन्द्रः प्रतापवान् । | 3.54.17bतथोक्त्वा राक्षसीस्तास्तु राक्षसेन्द्रः प्रतापवान्॥3.54.17॥ |
| 37 | #18aನಿಷ್ಕ್ರಮ್ಯಾಂತಃಪುರಾತ್ತಸ್ಮಾತ್ ಕಿಂ ಕೃತ್ಯಮಿತಿ ಚಿಂತಯನ್ । | 3.54.18aनिष्क्रम्यान्तःपुरात् तस्मात् किं कृत्यमिति चिन्तयन् । | 3.52.17bनिष्क्रम्यान्तःपुरात्तस्मात्किं कृत्यमिति चिन्तयन् । | 3.54.17bनिष्क्रम्यान्तःपुरात्तस्मात्किं कृत्यमिति चिन्तयन् ॥ 3.54.17 ॥ | 3.54.17bनिष्क्रम्यान्तःपुरात्तस्मात्किं कृत्यमिति चिन्तयन् ॥ 3.54.17 ॥ | 3.54.17bनिष्क्रम्यान्तःपुरात्तस्मात्किं कृत्यमिति चिन्तयन् ॥ ३।५४।१७ ॥ | 3.54.18aनिष्क्रम्यान्तः पुरात्तस्मात्किंकृत्यमिति चिन्तयन्। |
| 38 | #18bದದರ್ಶಾಷ್ಟೌ ಮಹಾವೀರ್ಯಾನ್ ರಾಕ್ಷಸಾನ್ ಪಿಶಿತಾಶನಾನ್ ॥ | 3.54.18bददर्शाष्टौ महावीर्यान् राक्षसान् पिशिताशनान् ॥ १८ ॥ | 3.52.17cददर्शाष्टौ महावीर्यान्राक्षसान्पिशिताशनान् ॥3.52.17॥ | 3.54.18ददर्शाष्टौ महावीर्यान् राक्षसान् पिशिताशनान् ॥ 3.54.18 ॥ | 3.54.18ददर्शाष्टौ महावीर्यान् राक्षसान् पिशिताशनान् ॥ 3.54.18 ॥ | 3.54.18ददर्शाष्टौ महावीर्यान् राक्षसान् पिशिताशनान् ॥ ३।५४।१८ ॥ | 3.54.18bददर्शाष्टौ महावीर्यान्राक्षसान्पिशिताशनान्॥3.54.18॥ |
| 39 | #19aಸ ತಾನ್ದೃಷ್ಟ್ವಾ ಮಹಾವೀರ್ಯೋ ವರದಾನೇನ ಮೋಹಿತಃ । | 3.54.19aस तान् दृष्ट्वा महावीर्यो वरदानेन मोहितः । | 3.52.18aस तान्दृष्ट्वा महावीर्यो वरदानेन मोहितः । | 3.54.19aस तान् दृष्ट्वा महावीर्यो वरदानेन मोहितः । | 3.54.19aस तान् दृष्ट्वा महावीर्यो वरदानेन मोहितः। | 3.54.19aस तान् दृष्ट्वा महावीर्यो वरदानेन मोहितः । | 3.54.19aस तान्दृष्ट्वा महावीर्यो वरदानेन मोहितः। |
| 40 | #19bಉವಾಚತಾನಿದಂ ವಾಕ್ಯಂ ಪ್ರಶಸ್ಯ ಬಲವೀರ್ಯತಃ ॥ | 3.54.19bउवाच तानिदं वाक्यं प्रशस्य बलवीर्यतः ॥ १९ ॥ | 3.52.18bउवाचैतानिदं वाक्यं प्रशस्य बलवीर्यतः ॥3.52.18॥ | 3.54.19bउवाचैतानिदं वाक्यं प्रशस्य बलवीर्यतः ॥ 3.54.19 ॥ | 3.54.19bउवाचैतानिदं वाक्यं प्रशस्य बलवीर्यतः ॥ 3.54.19 ॥ | 3.54.19bउवाचैतानिदं वाक्यं प्रशस्य बलवीर्यतः ॥ ३।५४।१९ ॥ | 3.54.19bउवाचैतानिदं वाक्यं प्रशस्य बलवीर्यतः॥3.54.19॥ |
| 41 | #20aನಾನಾ ಪ್ರಹರಣಾಃ ಕ್ಷಿಪ್ರಮಿತೋ ಗಚ್ಛತ ಸತ್ವರಾಃ । | 3.54.20aनानाप्रहरणाः क्षिप्रमितो गच्छत सत्वराः । | 3.52.19aनानाप्रहरणाः क्षिप्रमितो गच्छत सत्वराः । | 3.54.20aनानाप्रहरणाः क्षिप्रमितो गच्छत सत्वराः । | 3.54.20aनानाप्रहरणाः क्षिप्रमितो गच्छत सत्वराः। | 3.54.20aनानाप्रहरणाः क्षिप्रमितो गच्छत सत्वराः । | 3.54.20aनानाप्रहरणाः क्षिप्रमितो गच्छत सत्वराः। |
| 42 | #20bಜನಸ್ಥಾನಂ ಹತಸ್ಥಾನಂ ಭೂತಂ ಪೂರ್ವಂ ಖರಾಲಯಮ್ ॥ | 3.54.20bजनस्थानं हतस्थानं भूतपूर्वं खरालयम् ॥ २० ॥ | 3.52.19bजनस्थानं हतस्थानं भूतपूर्वं खरालयम् ॥3.52.19॥ | 3.54.20bजनस्थानं हतस्थानं भूतपूर्वं खरालयम् ॥ 3.54.20 ॥ | 3.54.20bजनस्थानं हतस्थानं भूतपूर्वं खरालयम् ॥ 3.54.20 ॥ | 3.54.20bजनस्थानं हतस्थानं भूतपूर्वं खरालयम् ॥ ३।५४।२० ॥ | 3.54.20bजनस्थानं हतस्थानं भूतपूर्वं खरालयम्॥3.54.20॥ |
| 43 | #21aತತ್ರಾಸ್ಯತಾಂ ಜನಸ್ಥಾನೇ ಶೂನ್ಯೇ ನಿಹತರಾಕ್ಷಸೇ । | 3.54.21aतत्रास्यतां जनस्थाने शून्ये निहतराक्षसे । | 3.52.20aतत्रोष्यतां जनस्थाने शून्ये निहतराक्षसे । | 3.54.21aतत्रोष्यतां जनस्थाने शून्ये निहतराक्षसे । | 3.54.21aतत्रोष्यतां जनस्थाने शून्ये निहतराक्षसे। | 3.54.21aतत्रोष्यतां जनस्थाने शून्ये निहतराक्षसे । | 3.54.21aतत्रोष्यतां जनस्थाने शून्ये निहतराक्षसे। |
| 44 | #21bಪೌರುಷಂ ಬಲಮಾಶ್ರಿತ್ಯ ತ್ರಾಸಮುತ್ಸೃಜ್ಯ ದೂರತಃ ॥ | 3.54.21bपौरुषं बलमाश्रित्य त्रासमुत्सृज्य दूरतः ॥ २१ ॥ | 3.52.20bपौरुषं बलमाश्रित्य त्रासमुत्सृज्य दूरतः ॥3.52.20॥ | 3.54.21bपौरुषं बलमाश्रित्य त्रासमुत्सृज्य दूरतः ॥ 3.54.21 ॥ | 3.54.21bपौरुषं बलमाश्रित्य त्रासमुत्सृज्य दूरतः ॥ 3.54.21 ॥ | 3.54.21bपौरुषं बलमाश्रित्य त्रासमुत्सृज्य दूरतः ॥ ३।५४।२१ ॥ | 3.54.21bपौरुषं बलमाश्रित्य त्रासमुत्सृज्य दूरतः॥3.54.21॥ |
| 45 | 3.52.21aबलं हि सुमहद्यन्मे जनस्थाने निवेशितम् । | 3.54.22aबलं हि सुमहद्यन्मे जनस्थाने निवेशितम् । | 3.54.22aबलं हि सुमहद्यन्मे जनस्थाने निवेशितम्। | 3.54.22aबलं हि सुमहद्यन्मे जनस्थाने निवेशितम् । | 3.54.22aबलं हि सुमहद्यन्मे जनस्थाने निवेशितम्। | ||
| 46 | #22aಬಹುಸೈನ್ಯಂ ಮಹಾವೀರ್ಯಂ ಜನಸ್ಥಾನೇ ನಿವೇಶಿತಮ್ । | 3.54.22aबहुसैन्यं महावीर्यं जनस्थाने निवेशितम् । | |||||
| 47 | #22bಸದೂಷಣಖರಂ ಯುದ್ಧೇ ನಿಹತಂ ರಾಮಸಾಯಕೈಃ ॥ | 3.54.22bसदूषणखरं युद्धे निहतं रामसायकैः ॥ २२ ॥ | 3.52.21bसदूषणखरं युद्धे हतं तद्रामसायकैः ॥3.52.21॥ | 3.54.22bसदूषणखरं युद्धे हतं रामेण सायकैः ॥ 3.54.22 ॥ | 3.54.22bसदूषणखरं युद्धे हतं रामेण सायकैः ॥ 3.54.22 ॥ | 3.54.22bसदूषणखरं युद्धे हतं रामेण सायकैः ॥ ३।५४।२२ ॥ | 3.54.22bसदूषणखरं युद्धे हतं रामेण सायकैः॥3.54.22॥ |
| 48 | #23aತತಃ ಕ್ರೋಧೋ ಮಮಾಪೂರ್ವೋ ಧೈರ್ಯಸ್ಯೋಪರಿ ವರ್ತತೇ । | 3.54.23aततः क्रोधो ममापूर्वो धैर्यस्योपरि वर्धते । | 3.52.22aततः क्रोधो ममापूर्वो धैर्यस्योपरि वर्धते । | 3.54.23aतत्र क्रोधो ममामर्षाद्धैर्यस्योपरि वर्तते । | 3.54.23aतत्र क्रोधो ममामर्षाद्धैर्यस्योपरि वर्तते। | 3.54.23aतत्र क्रोधो ममामर्षाद्धैर्यस्योपरि वर्तते । | 3.54.23aतत क्रोधो ममामर्षाद्धैर्यस्योपरि वर्तते। |
| 49 | #23bವೈರಂ ಚ ಸುಮಹಜ್ಜಾತಂ ರಾಮಂ ಪ್ರತಿ ಸುದಾರುಣಮ್ ॥ | 3.54.23bवैरं च सुमहज्जातं रामं प्रति सुदारुणम् ॥ २३ ॥ | 3.52.22bवैरं च सुमहज्जातं रामं प्रति सुदारुणम् ॥3.52.22॥ | 3.54.23bवैरं च सुमहज्जातं रामं प्रति सुदारुणम् ॥ 3.54.23 ॥ | 3.54.23bवैरं च सुमहज्जातं रामं प्रति सुदारुणम् ॥ 3.54.23 ॥ | 3.54.23bवैरं च सुमहज्जातं रामं प्रति सुदारुणम् ॥ ३।५४।२३ ॥ | 3.54.23bवैरं च सुमहज्जातं रामं प्रति सुदारुणम्॥3.54.23॥ |
| 50 | #24aನಿರ್ಯಾತಯಿತುಮಿಚ್ಛಾಮಿ ತಚ್ಚ ವೈರಂ ಮಹಾರಿಪೋಃ । | 3.54.24aनिर्यातयितुमिच्छामि तच्च वैरं महारिपोः । | 3.52.23aनिर्यातयितुमिच्छामि तच्च वैरमहं रिपोः । | 3.54.24aनिर्यातयितुमिच्छामि तच्च वैरमहं रिपोः । | 3.54.24aनिर्यातयितुमिच्छामि तच्च वैरमहं रिपोः। | 3.54.24aनिर्यातयितुमिच्छामि तच्च वैरमहं रिपोः । | 3.54.24aनिर्यातयितुमिच्छामि तच्च वैरमहं रिपोः। |
| 51 | #24bನ ಹಿ ಲಪ್ಸ್ಯಾಮ್ಯಹಂ ನಿದ್ರಾಮಹತ್ವಾ ಸಂಯುಗೇ ರಿಪುಮ್ ॥ | 3.54.24bनहि लप्स्याम्यहं निद्रामहत्वा संयुगे रिपुम् ॥ २४ ॥ | 3.52.23bन हि लप्स्याम्यहं निद्रामहत्वा संयुगे रिपुम् ॥3.52.23॥ | 3.54.24bनहि लप्स्याम्यहं निद्रामहत्वा संयुगे रिपुम् ॥ 3.54.24 ॥ | 3.54.24bनहि लप्स्याम्यहं निद्रामहत्वा संयुगे रिपुम् ॥ 3.54.24 ॥ | 3.54.24bनहि लप्स्याम्यहं निद्रामहत्वा संयुगे रिपुम् ॥ ३।५४।२४ ॥ | 3.54.24bन हि लप्स्याम्यहं निद्रामहत्वा संयुगे रिपुम्॥3.54.24॥ |
| 52 | #25aತಂ ತ್ವಿದಾನೀಮಹಂ ಹತ್ವಾ ಖರದೂಷಣ ಘಾತಿನಮ್ । | 3.54.25aतं त्विदानीमहं हत्वा खरदूषणघातिनम् । | 3.52.24aतं त्विदानीमहं हत्वा खरदूषणघातिनम् । | 3.54.25aतं त्विदानीमहं हत्वा खरदूषणघातिनम् । | 3.54.25aतं त्विदानीमहं हत्वा खरदूषणघातिनम्। | 3.54.25aतं त्विदानीमहं हत्वा खरदूषणघातिनम् । | 3.54.25aतं त्विदानीमहं हत्वा खरदूषणघातिनम्। |
| 53 | #25bರಾಮಂ ಶರ್ಮೋಪಲಪ್ಸ್ಯಾಮಿ ಧನಂ ಲಬ್ಧ್ವೇವ ನಿರ್ಧನಃ ॥ | 3.54.25bरामं शर्मोपलप्स्यामि धनं लब्ध्वेव निर्धनः ॥ २५ ॥ | 3.52.24bरामं शर्मोपलप्स्यामि धनं लब्ध्वेव निर्धनः ॥3.52.24॥ | 3.54.25bरामं शर्मोपलप्स्यामि धनं लब्ध्वेव निर्धनः ॥ 3.54.25 ॥ | 3.54.25bरामं शर्मोपलप्स्यामि धनं लब्ध्वेव निर्धनः ॥ 3.54.25 ॥ | 3.54.25bरामं शर्मोपलप्स्यामि धनं लब्ध्वेव निर्धनः ॥ ३।५४।२५ ॥ | 3.54.25bरामं शर्मोपलप्स्यामि धनं लब्ध्वेव निर्धनः॥3.54.25॥ |
| 54 | #26aಜನಸ್ಥಾನೇ ವಸದ್ಭಿಸ್ತು ಭವದ್ಭೀ ರಾಮಮಾಶ್ರಿತಾ । | 3.54.26aजनस्थाने वसद्भिस्तु भवद्भी राममाश्रिता । | 3.52.25aजनस्थाने वसद्भिस्तु भवद्भी राममाश्रिता । | 3.54.26aजनस्थाने वसद्भिस्तु भवद्भी राममाश्रिता । | 3.54.26aजनस्थाने वसद्भिस्तु भवद्भी राममाश्रिता। | 3.54.26aजनस्थाने वसद्भिस्तु भवद्भी राममाश्रिता । | 3.54.26aजनस्थाने वसद्भिस्तु भवद्भीराममाश्रिता। |
| 55 | #26bಪ್ರವೃತ್ತಿರುಪನೇತವ್ಯಾ ಕಿಂ ಕರೋತೀತಿ ತತ್ತ್ವತಃ ॥ | 3.54.26bप्रवृत्तिरुपनेतव्या किं करोतीति तत्त्वतः ॥ २६ ॥ | 3.52.25bप्रवृत्तिरुपनेतव्या किं करोतीति तत्त्वतः ॥3.52.25॥ | 3.54.26bप्रवृत्तिरुपनेतव्या किं करोतीति तत्त्वतः ॥ 3.54.26 ॥ | 3.54.26bप्रवृत्तिरुपनेतव्या किं करोतीति तत्त्वतः ॥ 3.54.26 ॥ | 3.54.26bप्रवृत्तिरुपनेतव्या किं करोतीति तत्त्वतः ॥ ३।५४।२६ ॥ | 3.54.26bप्रवृत्तिरुपनेतव्या किञ्करोतीति तत्त्वतः॥3.54.26॥ |
| 56 | #27aಅಪ್ರಮಾದಚ್ಚ ಗಂತವ್ಯಂ ಸರ್ವೈರೇವ ನಿಶಾಚರೈಃ । | 3.54.27aअप्रमादाच्च गन्तव्यं सर्वैरेव निशाचरैः । | 3.52.26aअप्रमादाच्च गन्तव्यं सर्वैरेव निशाचरैः । | 3.54.27aअप्रमादाच्च गन्तव्यं सर्वैरपि निशाचरैः । | 3.54.27aअप्रमादाच्च गन्तव्यं सर्वैरपि निशाचरैः। | 3.54.27aअप्रमादाच्च गन्तव्यं सर्वैरपि निशाचरैः । | 3.54.27aअप्रमादाच्च गन्तव्यं सर्वैरपि निशाचरैः। |
| 57 | #27bಕರ್ತವ್ಯಶ್ಚ ಸದಾ ಯತ್ನೋ ರಾಘವಸ್ಯ ವಧಂ ಪ್ರತಿ ॥ | 3.54.27bकर्तव्यश्च सदा यत्नो राघवस्य वधं प्रति ॥ २७ ॥ | 3.52.26bकर्तव्यश्च सदा यत्नो राघवस्य वधं प्रति ॥3.52.26॥ | 3.54.27bकर्तव्यश्च सदा यत्नो राघवस्य वधं प्रति ॥ 3.54.27 ॥ | 3.54.27bकर्तव्यश्च सदा यत्नो राघवस्य वधं प्रति ॥ 3.54.27 ॥ | 3.54.27bकर्तव्यश्च सदा यत्नो राघवस्य वधं प्रति ॥ ३।५४।२७ ॥ | 3.54.27bकर्तव्यश्च सदा यत्नो राघवस्य वधं प्रति॥3.54.27॥ |
| 58 | #28aಯುಷ್ಮಾಕಂ ತು ಬಲಂ ಜ್ಞಾತಂ ಬಹುಶೋ ರಣಮೂರ್ಧನಿ । | 3.54.28aयुष्माकं तु बलं ज्ञातं बहुशो रणमूर्धनि । | 3.52.27aयुष्माकं हि बलज्ञोऽहं बहुशो रणमूर्धनि । | 3.54.28aयुष्माकं च बलज्ञो ऽहं बहुशो रणमूर्धनि । | 3.54.28aयुष्माकं च बलज्ञोऽहं बहुशो रणमूर्धनि। | 3.54.28aयुष्माकं च बलज्ञो ऽहं बहुशो रणमूर्धनि । | 3.54.28aयुष्माकं च बलज्ञोऽहं बहुशो रणमूर्धनि। |
| 59 | #28bಅತಶ್ಚಾಸ್ಮಿಂಜನಸ್ಥಾನೇ ಮಯಾ ಯೂಯಂ ನಿವೇಶಿತಾಃ ॥ | 3.54.28bअतश्चास्मिञ्जनस्थाने मया यूयं निवेशिताः ॥ २८ ॥ | 3.52.27bअतश्चास्मिञ्जनस्थाने मया यूयं नियोजिताः ॥3.52.27॥ | 3.54.28bअतश्चास्मिन् जनस्थाने मया यूयं नियोजिताः ॥ 3.54.28 ॥ | 3.54.28bअतश्चास्मिन् जनस्थाने मया यूयं नियोजिताः ॥ 3.54.28 ॥ | 3.54.28bअतश्चास्मिन् जनस्थाने मया यूयं नियोजिताः ॥ ३।५४।२८ ॥ | 3.54.28bअतश्चास्मिन् जनस्थाने मया यूयं नियोजिताः॥3.54.28॥ |
| 60 | #29aತತಃ ಪ್ರಿಯಂ ವಾಕ್ಯಮುಪೇತ್ಯ ರಾಕ್ಷಸಾ ಮಹಾರ್ಥಮಷ್ಟಾವಭಿವಾದ್ಯ ರಾವಣಮ್ । | 3.54.29aततः प्रियं वाक्यमुपेत्य राक्षसा महार्थमष्टावभिवाद्य रावणम् । | 3.52.28aततः प्रियं वाक्यमुपेत्य राक्षसा महार्थमष्टावभिवाद्य रावणम् । | 3.54.29aततः प्रियं वाक्यमुपेत्य राक्षसा महार्थमष्टावभिवाद्य रावणम् । | 3.54.29aततः प्रियं वाक्यमुपेत्य राक्षसा महार्थमष्टावभिवाद्य रावणम्। | 3.54.29aततः प्रियं वाक्यमुपेत्य राक्षसा महार्थमष्टावभिवाद्य रावणम् । | 3.54.29aततः प्रियं वाक्यमुपेत्य राक्षसा महार्थमष्टावभिवाद्य रावणम्। |
| 61 | #29bವಿಹಾಯ ಲಂಕಾಂ ಸಹಿತಾಃ ಪ್ರತಸ್ಥಿರೇ ಯತೋ ಜನಸ್ಥಾನಮಲಕ್ಷ್ಯದರ್ಶನಾಃ ॥ | 3.54.29bविहाय लङ्कां सहिताः प्रतस्थिरे यतो जनस्थानमलक्ष्यदर्शनाः ॥ २९ ॥ | 3.52.28bविहाय लङ्कां सहिताः प्रतस्थिरे यतो जनस्थानमलक्ष्यदर्शनाः ॥3.52.28॥ | 3.54.29bविहाय लङ्कां सहिताः प्रतस्थिरे यतो जनस्थानमलक्ष्यदर्शनाः ॥ 3.54.29 ॥ | 3.54.29bविहाय लङ्कां सहिताः प्रतस्थिरे यतो जनस्थानमलक्ष्यदर्शनाः ॥ 3.54.29 ॥ | 3.54.29bविहाय लङ्कां सहिताः प्रतस्थिरे यतो जनस्थानमलक्ष्यदर्शनाः ॥ ३।५४।२९ ॥ | 3.54.29bविहाय लङ्कां सहिताः प्रतस्थिरे यतो जनस्थानमलक्ष्यदर्शनाः॥3.54.29॥ |
| 62 | #30aತತಸ್ತು ಸೀತಾಮುಪಲಭ್ಯ ರಾವಣಃ ಸುಸಂಪ್ರಹೃಷ್ಟಃ ಪರಿಗೃಹ್ಯ ಮೈಥಿಲೀಮ್ । | 3.54.30aततस्तु सीतामुपलभ्य रावणः सुसम्प्रहृष्टः परिगृह्य मैथिलीम् । | 3.52.29aततस्तु सीतामुपलभ्य रावणः सुसंप्रहृष्टः परिगृह्य मैथिलीम् । | 3.54.30aततस्तु सीतामुपलभ्य रावणः सुसम्प्रहृष्टः परिगृह्य मैथिलीम् । | 3.54.30aततस्तु सीतामुपलभ्य रावणः सुसम्प्रहृष्टः परिगृह्य मैथिलीम्। | 3.54.30aततस्तु सीतामुपलभ्य रावणः सुसम्प्रहृष्टः परिगृह्य मैथिलीम् । | 3.54.30aततस्तु सीतामुपलभ्य रावणः सुसम्प्रहृष्टः परिगृह्य मैथिलीम्। |
| 63 | #30bಪ್ರಸಜ್ಯ ರಾಮೇಣ ಚ ವೈರಮುತ್ತಮಂ ಬಭೂವ ಮೋಹಾನ್ಮುದಿತಃ ಸ ರಾವಣಃ ॥ | 3.54.30bप्रसज्य रामेण च वैरमुत्तमं बभूव मोहान्मुदितः स रावणः ॥ ३० ॥ | 3.52.29bप्रसज्य रामेण च वैरमुत्तमं बभूव मोहान्मुदितः स राक्षसः ॥3.52.29॥ | 3.54.30bप्रसज्य रामेण च वैरमुत्तमं बभूव मोहान्मुदितः स राक्षसः ॥ 3.54.30 ॥ | 3.54.30bप्रसज्य रामेण च वैरमुत्तमं बभूव मोहान्मुदितः स राक्षसः ॥ 3.54.30 ॥ | 3.54.30bप्रसज्य रामेण च वैरमुत्तमं बभूव मोहान्मुदितः स राक्षसः ॥ ३।५४।३० ॥ | 3.54.30bप्रसज्य रामेण च वैरमुत्तमं बभूव मोहान्मुदितस्सराक्षसः॥3.54.30॥ |