रावणेन सीतानिर्भर्त्सनम्. Built from structured/verses.jsonl. Rows are monotone-aligned half-verse/pāda-like units split at । and ॥, so verse-number boundary differences can appear as inserted or shifted line rows.
51 aligned line rows across 7 source streams.
gor-kn 48 lines
gor-hi 48 lines
crit 46 lines
gr 49 lines
dr-mula 48 lines
gr-iitk 49 lines
iitk 48 lines
| # | gor-kn | gor-hi | crit | gr | dr-mula | gr-iitk | iitk |
|---|---|---|---|---|---|---|---|
| 1 | #1aಏವಂ ಬ್ರುವಂತ್ಯಾಂ ಸೀತಾಯಾಂ ಸಂರಬ್ಧಃ ಪರುಷಂ ವಚಃ । | 3.48.1aएवं ब्रुवत्यां सीतायां संरब्धः परुषं वचः । | 3.46.1aएवं ब्रुवत्यां सीतायां संरब्धः परुषाक्षरम् । | 3.48.1aएवं ब्रुवन्त्यां सीतायां संरब्धः परुषं वचः । | 3.48.1aएवं ब्रुवन्त्यां सीतायां संरब्धः परुषं वचः। | 3.48.1aएवं ब्रुवन्त्यां सीतायां संरब्धः परुषं वचः । | |
| 2 | 3.48.1aएवं बृवन्त्यां सीतायां संरब्दः परुषं वचः। | ||||||
| 3 | #1bಲಲಾಟೇ ಭ್ರುಕುಟೀಂ ಕೃತ್ವಾ ರಾವಣಃ ಪ್ರತ್ಯವಾಚ ಹ ॥ | 3.48.1bललाटे भ्रुकुटिं कृत्वा रावणः प्रत्युवाच ह ॥ १ ॥ | 3.46.1bललाटे भ्रुकुटीं कृत्वा रावणः प्रत्युवाच ह ॥3.46.1॥ | 3.48.1bललाटे भ्रुकुटीं कृत्वा रावणः प्रत्युवाच ह ॥ 3.48.1 ॥ | 3.48.1bललाटे भ्रुकुटीं कृत्वा रावणः प्रत्युवाच ह ॥ 3.48.1 ॥ | 3.48.1bललाटे भ्रुकुटीं कृत्वा रावणः प्रत्युवाच ह ॥ ३।४८।१ ॥ | 3.48.1bललाटे भृकुटीं कृत्वा रावणः प्रत्युवाच ह॥3.48.1॥ |
| 4 | #2aಭ್ರಾತಾ ವೈಶ್ರವಣಸ್ಯಾಹಂ ಸಾಪತ್ನ್ಯೋ ವರವರ್ಣಿನಿ । | 3.48.2aभ्राता वैश्रवणस्याहं सापत्नो वरवर्णिनि । | 3.46.2aभ्राता वैश्रवणस्याहं सापत्न्यो वरवर्णिनि । | 3.48.2aभ्राता वैश्रवणस्याहं सापत्न्यो वरवर्णिनि । | 3.48.2aभ्राता वैश्रवणस्याहं सापत्न्यो वरवर्णिनि। | 3.48.2aभ्राता वैश्रवणस्याहं सापत्न्यो वरवर्णिनि । | 3.48.2aभ्राता वैश्रवणस्याहं सापत्न्यो वरवर्णिनि। |
| 5 | #2bರಾವಣೋ ನಾಮ ಭದ್ರಂ ತೇ ದಶಗ್ರೀವಃ ಪ್ರತಾಪವಾನ್ ॥ | 3.48.2bरावणो नाम भद्रं ते दशग्रीवः प्रतापवान् ॥ २ ॥ | 3.46.2bरावणो नाम भद्रं ते दशग्रीवः प्रतापवान् ॥3.46.2॥ | 3.48.2bरावणो नाम भद्रं ते दशग्रीवः प्रतापवान् ॥ 3.48.2 ॥ | 3.48.2bरावणो नाम भद्रं ते दशग्रीवः प्रतापवान् ॥ 3.48.2 ॥ | 3.48.2bरावणो नाम भद्रं ते दशग्रीवः प्रतापवान् ॥ ३।४८।२ ॥ | 3.48.2bरावणो नाम भद्रं ते दशग्रीवः प्रतापवान्॥3.48.2॥ |
| 6 | #3aಯಸ್ಯ ದೇವಾಃ ಸಗಂಧರ್ವಾಃ ಪಿಶಾಚಪತಗೋರಗಾಃ । | 3.48.3aयस्य देवाः सगन्धर्वाः पिशाचपतगोरगाः । | 3.46.3aयस्य देवाः सगन्धर्वाः पिशाचपतगोरगाः । | 3.48.3aयस्य देवाः सगन्धर्वाः पिशाचपतगोरगाः । | 3.48.3aयस्य देवाः सगन्धर्वाः पिशाचपतगोरगाः। | 3.48.3aयस्य देवाः सगन्धर्वाः पिशाचपतगोरगाः । | 3.48.3aयस्य देवास्सगन्धर्वाः पिशाचपतगोरगाः। |
| 7 | #3bವಿದ್ರವಂತಿ ಸದಾ ಭೀತಾ ಮೃತ್ಯೋರಿವ ಸದಾ ಪ್ರಜಾಃ ॥ | 3.48.3bविद्रवन्ति सदा भीता मृत्योरिव सदा प्रजाः ॥ ३ ॥ | 3.46.3bविद्रवन्ति भयाद्भीता मृत्योरिव सदा प्रजाः ॥3.46.3॥ | 3.48.3bविद्रवन्ति भयाद्भीता मृत्योरिव सदा प्रजाः ॥ 3.48.3 ॥ | 3.48.3bविद्रवन्ति भयाद्भीता मृत्योरिव सदा प्रजाः ॥ 3.48.3 ॥ | 3.48.3bविद्रवन्ति भयाद्भीता मृत्योरिव सदा प्रजाः ॥ ३।४८।३ ॥ | 3.48.3bविद्रवन्ति भयाद्भीता मृत्योरिव सदा प्रजाः॥3.48.3॥ |
| 8 | #4aಯೇನ ವೈಶ್ರವಣೋ ಭ್ರಾತಾ ವೈಮಾಂತ್ರಾಃ ಕಾರಣಾಂತರೇ । | 3.48.4aयेन वैश्रवणो भ्राता वैमात्राः कारणान्तरे । | 3.46.4aयेन वैश्रवणो भ्राता वैमात्रः कारणान्तरे । | 3.48.4aयेन वैश्रवणो राजा द्वैमात्रः कारणान्तरे । | 3.48.4aयेन वैश्रवणो राजा द्वैमात्रः कारणान्तरे। | 3.48.4aयेन वैश्रवणो राजा द्वैमात्रः कारणान्तरे । | 3.48.4aयेन वैश्रवणो राजा द्वैमात्रः कारणान्तरे। |
| 9 | #4bದ್ವಂದ್ವಮಾಸಾದಿತಃ ಕ್ರೊಧಾದ್ರಣೇ ವಿಕ್ರಮ್ಯ ನಿರ್ಜಿತಃ ॥ | 3.48.4bद्वन्द्वमासादितः क्रोधाद् रणे विक्रम्य निर्जितः ॥ ४ ॥ | 3.46.4bद्वन्द्वमासादितः क्रोधाद्रणे विक्रम्य निर्जितः ॥3.46.4॥ | 3.48.4bद्वन्द्वमासादितः क्रोधाद्रणे विक्रम्य निर्जितः ॥ 3.48.4 ॥ | 3.48.4bद्वन्द्वमासादितः क्रोधाद्रणे विक्रम्य निर्जितः ॥ 3.48.4 ॥ | 3.48.4bद्वन्द्वमासादितः क्रोधाद्रणे विक्रम्य निर्जितः ॥ ३।४८।४ ॥ | 3.48.4bद्वन्द्वमासादितः क्रोधाद्रणे विक्रम्य निर्जितः॥3.48.4॥ |
| 10 | #5aಮದ್ಭಯಾರ್ತಃ ಪರಿತ್ಯಜ್ಯ ಸ್ವಮಧಿಷ್ಠಾನಮೃದ್ಧಿಮತ್ । | 3.48.5aमद्भयार्तः परित्यज्य स्वमधिष्ठानमृद्धिमत् । | 3.46.5aमद्भयार्तः परित्यज्य स्वमधिष्ठानमृद्धिमत् । | 3.48.5aयद्भयार्तः परित्यज्य स्वमधिष्ठानमृद्धिमत् । | 3.48.5aयद्भयार्तः परित्यज्य स्वमधिष्ठानमृद्धिमत्। | 3.48.5aयद्भयार्तः परित्यज्य स्वमधिष्ठानमृद्धिमत् । | 3.48.5aयद्भयार्तः परित्यज्य स्वमधिष्ठानमृद्धिमत्। |
| 11 | #5bಕೈಲಾಸಂ ಪರ್ವತಶ್ರೇಷ್ಠಮಧ್ಯಾಸ್ತೇ ನರವಾಹನಃ ॥ | 3.48.5bकैलासं पर्वतश्रेष्ठमध्यास्ते नरवाहनः ॥ ५ ॥ | 3.46.5bकैलासं पर्वतश्रेष्ठमध्यास्ते नरवाहनः ॥3.46.5॥ | 3.48.5bकैलासं पर्वतश्रेष्ठमध्यास्ते नरवाहनः ॥ 3.48.5 ॥ | 3.48.5bकैलासं पर्वतश्रेष्ठमध्यास्ते नरवाहनः ॥ 3.48.5 ॥ | 3.48.5bकैलासं पर्वतश्रेष्ठमध्यास्ते नरवाहनः ॥ ३।४८।५ ॥ | 3.48.5bकैलासं पर्वतश्रेष्ठमध्यास्ते नरवाहनः॥3.48.5॥ |
| 12 | #6aಯಸ್ಯ ತತ್ಪುಷ್ಪಕಂ ನಾಮ ವಿಮಾನಂ ಕಾಮಗಂ ಶುಭಮ್ । | 3.48.6aयस्य तत् पुष्पकं नाम विमानं कामगं शुभम् । | 3.46.6aयस्य तत्पुष्पकं नाम विमानं कामगं शुभम् । | 3.48.6aयस्य तत् पुष्पकं नाम विमानं कामगं शुभम् । | 3.48.6aयस्य तत् पुष्पकं नाम विमानं कामगं शुभम्। | 3.48.6aयस्य तत् पुष्पकं नाम विमानं कामगं शुभम् । | 3.48.6aयस्य तत्पुष्पकं नाम विमानं कामगं शुभम्। |
| 13 | #6bವೀರ್ಯಾದಾವರ್ಜಿತಂ ಭದ್ರೇ ಯೇನ ಯಾಮಿ ವಿಹಾಯಸಮ್ ॥ | 3.48.6bवीर्यादावर्जितं भद्रे येन यामि विहायसम् ॥ ६ ॥ | 3.46.6bवीर्यादावर्जितं भद्रे येन यामि विहायसं ॥3.46.6॥ | 3.48.6bवीर्यादेवार्जितं भद्रे येन यामि विहायसम् ॥ 3.48.6 ॥ | 3.48.6bवीर्यादेवार्जितं भद्रे येन यामि विहायसम् ॥ 3.48.6 ॥ | 3.48.6bवीर्यादेवार्जितं भद्रे येन यामि विहायसम् ॥ ३।४८।६ ॥ | 3.48.6bवीर्यादेवार्जितं भद्रे येन यामि विहायसम्॥3.48.6॥ |
| 14 | #7aಮಮ ಸಂಜಾತರೋಷಸ್ಯ ಮುಖಂ ದೃಷ್ಟ್ವೈವಮೈಥಿಲಿ । | 3.48.7aमम सञ्जातरोषस्य मुखं दृष्ट्वैव मैथिलि । | 3.46.7aमम संजातरोषस्य मुखं दृष्ट्वैव मैथिलि । | 3.48.7aमम सञ्जातरोषस्य मुखं दृष्ट्वैव मैथिलि । | 3.48.7aमम सञ्जातरोषस्य मुखं दृष्ट्वैव मैथिलि। | 3.48.7aमम सञ्जातरोषस्य मुखं दृष्ट्वैव मैथिलि । | 3.48.7aमम सञ्जातरोषस्य मुखं दृष्ट्वैव मैथिलि। |
| 15 | #7bವಿದ್ರವಂತಿ ಪರಿತ್ರಸ್ತಾಃ ಸುರಾಃ ಶಕ್ರಪುರೋಗಮಾಃ ॥ | 3.48.7bविद्रवन्ति परित्रस्ताः सुराः शक्रपुरोगमाः ॥ ७ ॥ | 3.46.7bविद्रवन्ति परित्रस्ताः सुराः शक्रपुरोगमाः ॥3.46.7॥ | 3.48.7bविद्रवन्ति परित्रस्ताः सुराः शक्रपुरोगमाः ॥ 3.48.7 ॥ | 3.48.7bविद्रवन्ति परित्रस्ताः सुराः शक्रपुरोगमाः ॥ 3.48.7 ॥ | 3.48.7bविद्रवन्ति परित्रस्ताः सुराः शक्रपुरोगमाः ॥ ३।४८।७ ॥ | 3.48.7bविद्रवन्ति परित्रस्तास्सुराश्शक्रपुरोगमाः॥3.48.7॥ |
| 16 | #8aಯತ್ರ ತಿಷ್ಠಾಮ್ಯಹಂ ತತ್ರ ಮಾರುತೋ ವಾತಿ ಶಂಕಿತಃ । | 3.48.8aयत्र तिष्ठाम्यहं तत्र मारुतो वाति शङ्कितः । | 3.46.8aयत्र तिष्ठाम्यहं तत्र मारुतो वाति शङ्कितः । | 3.48.8aयत्र तिष्ठाम्यहं तत्र मारुतो वाति शङ्कितः । | 3.48.8aयत्र तिष्ठाम्यहं तत्र मारुतो वाति शङ्कितः। | 3.48.8aयत्र तिष्ठाम्यहं तत्र मारुतो वाति शङ्कितः । | 3.48.8aयत्र तिष्ठाम्यहं तत्र मारुतो वाति शङ्कितः। |
| 17 | #8bತೀವ್ರಾಂಶುಃ ಶಿಶಿರಾಂಶುಶ್ಚ ಭಯಾತ್ ಸಂಪದ್ಯತೇ ದಿವಿಃ ॥ | 3.48.8bतीव्रांशुः शिशिरांशुश्च भयात् सम्पद्यते दिवि ॥ ८ ॥ | 3.46.8bतीव्रांशुः शिशिरांशुश्च भयात्संपद्यते रविः ॥3.46.8॥ | 3.48.8bतीव्रांशुः शिशिरांशुश्च भयात् सम्पद्यते रविः ॥ 3.48.8 ॥ | 3.48.8bतीव्रांशुः शिशिरांशुश्च भयात् सम्पद्यते रविः ॥ 3.48.8 ॥ | 3.48.8bतीव्रांशुः शिशिरांशुश्च भयात् सम्पद्यते रविः ॥ ३।४८।८ ॥ | 3.48.8bतीव्रांशुश्शिशिरांशुश्च भयात्सम्पद्यते रविः॥3.48.8॥ |
| 18 | #9aನಿಷ್ಕಂಪಪತ್ರಾಸ್ತರವೋ ನದ್ಯಶ್ಚ ಸ್ತಿಮಿತೋದಕಾಃ । | 3.48.9aनिष्कम्पपत्रास्तरवो नद्यश्च स्तिमितोदकाः । | 3.46.9aनिष्कम्पपत्रास्तरवो नद्यश्च स्तिमितोदकाः । | 3.48.9aनिष्कम्पपत्त्रास्तरवो नद्यश्च स्तिमितोदकाः । | 3.48.9aनिष्कम्पपत्त्रास्तरवो नद्यश्च स्तिमितोदकाः। | 3.48.9aनिष्कम्पपत्त्रास्तरवो नद्यश्च स्तिमितोदकाः । | 3.48.9aनिष्कम्पपत्रास्तरवो नद्यश्च स्तिमितोदकाः। |
| 19 | #9bಭವಂತಿ ಯತ್ರ ಯತ್ರಾಹಂ ತಿಷ್ಠಾಮಿ ಚ ಚರಾಮಿಚ ॥ | 3.48.9bभवन्ति यत्र तत्राहं तिष्ठामि च चरामि च ॥ ९ ॥ | 3.46.9bभवन्ति यत्र यत्राहं तिष्ठामि च चरामि च ॥3.46.9॥ | 3.48.9bभवन्ति यत्र यत्राहं तिष्ठामि विचरामि च ॥ 3.48.9 ॥ | 3.48.9bभवन्ति यत्र यत्राहं तिष्ठामि विचरामि च ॥ 3.48.9 ॥ | 3.48.9bभवन्ति यत्र यत्राहं तिष्ठामि विचरामि च ॥ ३।४८।९ ॥ | 3.48.9bभवन्ति यत्र यत्राहं तिष्ठामि विचरामि च॥3.48.9॥ |
| 20 | #10aಮಮ ಪಾರೇ ಸಮುದ್ರಸ್ಯ ಲಂಕಾ ನಾಮ ಪುರೀ ಶುಭಾ । | 3.48.10aमम पारे समुद्रस्य लङ्का नाम पुरी शुभा । | 3.46.10aमम पारे समुद्रस्य लङ्का नाम पुरी शुभा । | 3.48.10aमम पारे समुद्रस्य लङ्का नाम पुरी शुभा । | 3.48.10aमम पारे समुद्रस्य लङ्का नाम पुरी शुभा। | 3.48.10aमम पारे समुद्रस्य लङ्का नाम पुरी शुभा । | 3.48.10aमम पारे समुद्रस्य लङ्का नाम पुरी शुभा। |
| 21 | #10bಸಂಪೂರ್ಣಾ ರಾಕ್ಷಸೈರ್ಘೋರೈರ್ಯಥೇಂದ್ರಸ್ಯಾಮರಾವತೀ ॥ | 3.48.10bसम्पूर्णा राक्षसैर्घोरैर्यथेन्द्रस्यामरावती ॥ १० ॥ | 3.46.10bसंपूर्णा राक्षसैर्घोरैर्यथेन्द्रस्यामरावती ॥3.46.10॥ | 3.48.10bसम्पूर्णा राक्षसैर्घोरैर्यथेन्द्रस्यामरावती ॥ 3.48.10 ॥ | 3.48.10bसम्पूर्णा राक्षसैर्घोरैर्यथेन्द्रस्यामरावती ॥ 3.48.10 ॥ | 3.48.10bसम्पूर्णा राक्षसैर्घोरैर्यथेन्द्रस्यामरावती ॥ ३।४८।१० ॥ | 3.48.10bसम्पूर्णा राक्षसैर्घोरैर्यथेन्द्रस्यामरावती॥3.48.10॥ |
| 22 | #11aಪ್ರಾಕಾರೇಣ ಪರಿಕ್ಷಿಪ್ತಾ ಪಾಂಡುರೇಣ ವಿರಾಜತಾ । | 3.48.11aप्राकारेण परिक्षिप्ता पाण्डुरेण विराजिता । | 3.46.11aप्राकारेण परिक्षिप्ता पाण्डुरेण विराजिता । | 3.48.11aप्राकारेण परिक्षिप्ता पाण्डरेण विराजता । | 3.48.11aप्राकारेण परिक्षिप्ता पाण्डरेण विराजता। | 3.48.11aप्राकारेण परिक्षिप्ता पाण्डरेण विराजता । | 3.48.11aप्राकारेण परिक्षिप्ता पाण्डुरेण विराजता। |
| 23 | #11bಹೇಮಕಕ್ಷ್ಯಾ ಪುರೀ ರಮ್ಯಾ ವೈದೂರ್ಯಮಯತೋರಣಾ ॥ | 3.48.11bहेमकक्ष्या पुरी रम्या वैदूर्यमयतोरणा ॥ ११ ॥ | 3.46.11bहेमकक्ष्या पुरी रम्या वैदूर्यमय तोरणा ॥3.46.11॥ | 3.48.11bहेमकक्ष्या पुरी रम्या वैडूर्यमयतोरणा ॥ 3.48.11 ॥ | 3.48.11bहेमकक्ष्या पुरी रम्या वैडूर्यमयतोरणा ॥ 3.48.11 ॥ | 3.48.11bहेमकक्ष्या पुरी रम्या वैडूर्यमयतोरणा ॥ ३।४८।११ ॥ | 3.48.11bहेमकक्ष्या पुरी रम्या वैढूर्यमयतोरणा॥3.48.11॥ |
| 24 | #12aಹಸ್ತ್ಯಶ್ವರಥಸಂಬಾಧಾ ತೂರ್ಯನಾದವಿನಾದಿತಾ । | 3.48.12aहस्त्यश्वरथसम्बाधा तूर्यनादविनादिता । | 3.46.12aहस्त्यश्वरथसंभाधा तूर्यनादविनादिता । | 3.48.12aहस्त्यश्वरथसम्बाधा तूर्यनादविनादिता । | 3.48.12aहस्त्यश्वरथसम्बाधा तूर्यनादविनादिता । | 3.48.12aहस्त्यश्वरथसम्बाधा तूर्यनादविनादिता। | |
| 25 | 3.48.12b[शतयोजनविस्तीर्णा त्रिंशद्योजनमायता । | 3.48.12a[शतयोजनविस्तीर्णा त्रिंशद्योजनमायता। | 3.48.12b[शतयोजनविस्तीर्णा त्रिंशद्योजनमायता । | ||||
| 26 | #12bಸರ್ವಕಾಮಲೈರ್ವೃಕ್ಷೈಃ ಸಂಕುಲೋದ್ಯಾನಭೂಷಿತಾ ॥ | 3.48.12bसर्वकामफलैर्वृक्षैः सङ्कुलोद्यानभूषिता ॥ १२ ॥ | 3.46.12bसर्वकामफलैर्वृक्षैः संकुलोद्यानशोभिता ॥3.46.12॥ | 3.48.12c] सर्वकालफलैर्वृक्षैः सङ्कुलोद्यानशोभिता ॥ 3.48.12 ॥ | 3.48.12b] सर्वकालफलैर्वृक्षैः सङ्कुलोद्यानशोभिता ॥ 3.48.12 ॥ | 3.48.12c] सर्वकालफलैर्वृक्षैः सङ्कुलोद्यानशोभिता ॥ ३।४८।१२ ॥ | 3.48.12bसर्वकालफलैर्वृक्षैस्सङ्कुलोद्द्यानशोभिता॥3.48.12॥ |
| 27 | #13aತತ್ರ ತ್ವಂ ವಸ ಹೇ ಸೀತೇ ರಾಜಪುತ್ರಿ ಮಯಾ ಸಹ । | 3.48.13aतत्र त्वं वस हे सीते राजपुत्रि मया सह । | 3.46.13aतत्र त्वं वसती सीते राजपुत्रि मया सह । | 3.48.13aतत्र त्वं वसती सीते राजपुत्रि मया सह । | 3.48.13aतत्र त्वं वसती सीते राजपुत्रि मया सह। | 3.48.13aतत्र त्वं वसती सीते राजपुत्रि मया सह । | 3.48.13aतत्र त्वं वसती सीते राजपुत्रि मया सह। |
| 28 | #13bನ ಸ್ಮರಿಷ್ಯಸಿ ನಾರೀಣಾಂ ಮಾನುಷೀಣಾಂ ಮನಸ್ವಿನಿ ॥ | 3.48.13bन स्मरिष्यसि नारीणां मानुषीणां मनस्विनि ॥ १३ ॥ | 3.46.13bन स्रमिष्यसि नारीणां मानुषीणां मनस्विनि ॥3.46.13॥ | 3.48.13bन स्मरिष्यसि नारीणां मानुषीणां मनस्विनी ॥ 3.48.13 ॥ | 3.48.13bन स्मरिष्यसि नारीणां मानुषीणां मनस्विनी ॥ 3.48.13 ॥ | 3.48.13bन स्मरिष्यसि नारीणां मानुषीणां मनस्विनी ॥ ३।४८।१३ ॥ | 3.48.13bन स्मरिष्यसि नारीणां मानुषीणां मनस्विनि॥3.48.13॥ |
| 29 | #14aಭುಂಜಾನಾ ಮಾನುಷಾನ್ ಭೋಗಾನ್ ದಿವ್ಯಾಂಶ್ಚ ವರವರ್ಣಿನಿ । | 3.48.14aभुञ्जाना मानुषान् भोगान् दिव्यांश्च वरवर्णिनि । | 3.46.14aभुञ्जाना मानुषान्भोगान्दिव्यांश्च वरवर्णिनि । | 3.48.14aभुञ्जाना मानुषान् भोगान् दिव्यांश्च वरवर्णिनि । | 3.48.14aभुञ्जाना मानुषान् भोगान् दिव्यांश्च वरवर्णिनि। | 3.48.14aभुञ्जाना मानुषान् भोगान् दिव्यांश्च वरवर्णिनि । | 3.48.14aभुञ्जाना मानुषान्भोगान्दिव्यांश्च वरवर्णिनि। |
| 30 | #14bನ ಸ್ಮರಿಷ್ಯಸಿ ರಾಮಸ್ಯ ಮಾನುಷಸ್ಯಗತಾಯುಷಃ ॥ | 3.48.14bन स्मरिष्यसि रामस्य मानुषस्य गतायुषः ॥ १४ ॥ | 3.46.14bन स्मरिष्यसि रामस्य मानुषस्य गतायुषः ॥3.46.14॥ | 3.48.14bन स्मरिष्यसि रामस्य मानुषस्य गतायुषः ॥ 3.48.14 ॥ | 3.48.14bन स्मरिष्यसि रामस्य मानुषस्य गतायुषः ॥ 3.48.14 ॥ | 3.48.14bन स्मरिष्यसि रामस्य मानुषस्य गतायुषः ॥ ३।४८।१४ ॥ | 3.48.14bन स्मरिष्यसि रामस्य मानुषस्य गतायुषः॥3.48.14॥ |
| 31 | #15aಸ್ಥಾಪಯಿತ್ವಾ ಪ್ರಿಯಂ ಪುತ್ರಂ ರಾಜ್ಯೇ ದಶರಥೋ ನೃಪಃ । | 3.48.15aस्थापयित्वा प्रियं पुत्रं राज्ये दशरथो नृपः । | 3.46.15aस्थापयित्वा प्रियं पुत्रं राज्ञा दशरथेन यः । | 3.48.15aस्थापयित्वा प्रियं पुत्रं राज्ञा दरशथेन यः । | 3.48.15aस्थापयित्वा प्रियं पुत्रं राज्ञा दरशथेन यः। | 3.48.15aस्थापयित्वा प्रियं पुत्रं राज्ञा दरशथेन यः । | 3.48.15aस्थापयित्वा प्रियं पुत्रं राज्ञा दशरथेन यः। |
| 32 | #15bಮಂದವೀರ್ಯಸ್ತತೋ ಜೇಷ್ಠಃ ಸುತಃ ಪ್ರಸ್ಥಾಪಿತೋ ವನಮ್ ॥ | 3.48.15bमन्दवीर्यस्ततो ज्येष्ठः सुतः प्रस्थापितो वनम् ॥ १५ ॥ | 3.46.15bमन्दवीर्यः सुतो ज्येष्ठस्ततः प्रस्थापितो वनम् ॥3.46.15॥ | 3.48.15bमन्दवीर्यः सुतो ज्येष्ठस्ततः प्रस्थापितो ह्ययम् ॥ 3.48.15 ॥ | 3.48.15bमन्दवीर्यः सुतो ज्येष्ठस्ततः प्रस्थापितो ह्ययम् ॥ 3.48.15 ॥ | 3.48.15bमन्दवीर्यः सुतो ज्येष्ठस्ततः प्रस्थापितो ह्ययम् ॥ ३।४८।१५ ॥ | 3.48.15bमन्दवीर्यस्सुतो ज्येष्ठस्ततः प्रस्थापितो वनम्॥3.48.15॥ |
| 33 | #16aತೇನ ಕಿಂ ಭ್ರಷ್ಟರಾಜ್ಯೇನ ರಾಮೇಣ ಗತಚೇತಸಾ । | 3.48.16aतेन किं भ्रष्टराज्येन रामेण गतचेतसा । | 3.46.16aतेन किं भ्रष्टराज्येन रामेण गतचेतसा । | 3.48.16aतेन किं भ्रष्टराज्येन रामेण गतचेतसा । | 3.48.16aतेन किं भ्रष्टराज्येन रामेण गतचेतसा। | 3.48.16aतेन किं भ्रष्टराज्येन रामेण गतचेतसा । | 3.48.16aतेन किं भ्रष्टराज्येन रामेण गतचेतसा। |
| 34 | #16bಕರಿಷ್ಯಸಿ ವಿಶಾಲಾಕ್ಷಿ ತಾಪಸೇನ ತಪಸ್ವಿನಾ ॥ | 3.48.16bकरिष्यसि विशालाक्षि तापसेन तपस्विना ॥ १६ ॥ | 3.46.16bकरिष्यसि विशालाक्षि तापसेन तपस्विना ॥3.46.16॥ | 3.48.16bकरिष्यसि विशालाक्षि तापसेन तपस्विना ॥ 3.48.16 ॥ | 3.48.16bकरिष्यसि विशालाक्षि तापसेन तपस्विना ॥ 3.48.16 ॥ | 3.48.16bकरिष्यसि विशालाक्षि तापसेन तपस्विना ॥ ३।४८।१६ ॥ | 3.48.16bकरिष्यसि विशालाक्षि तापसेन तपस्विना॥3.48.16॥ |
| 35 | #17aರಕ್ಷರಾಕ್ಷಸಭರ್ತಾರಂ ಕಾಮಯ ಸ್ವಯಮಾಗತಮ್ । | 3.48.17aरक्ष राक्षसभर्तारं कामय स्वयमागतम् । | 3.46.17aसर्वराक्षसभर्तारं कामात्स्वयमिहागतम् । | 3.48.17aसर्वराक्षसभर्तारं कामात् स्वयमिहागतम् । | 3.48.17aसर्वराक्षसभर्तारं कामात् स्वयमिहागतम्। | 3.48.17aसर्वराक्षसभर्तारं कामात् स्वयमिहागतम् । | 3.48.17aसर्वराक्षसभर्तारं कामात्स्वयमिहागतम्। |
| 36 | #17bನ ಮನ್ಮಥಶರಾವಿಷ್ಟಂ ಪ್ರತ್ಯಾಖ್ಯಾತುಂ ತ್ವಮರ್ಹಸಿ ॥ | 3.48.17bन मन्मथशराविष्टं प्रत्याख्यातुं त्वमर्हसि ॥ १७ ॥ | 3.46.17bन मन्मथशराविष्टं प्रत्याख्यातुं त्वमर्हसि ॥3.46.17॥ | 3.48.17bन मन्मथशराविष्टं प्रत्याख्यातुं त्वमर्हसि ॥ 3.48.17 ॥ | 3.48.17bन मन्मथशराविष्टं प्रत्याख्यातुं त्वमर्हसि ॥ 3.48.17 ॥ | 3.48.17bन मन्मथशराविष्टं प्रत्याख्यातुं त्वमर्हसि ॥ ३।४८।१७ ॥ | 3.48.17bन मन्मथशराविष्टं प्रत्याख्यातुं त्वमर्हसि॥3.48.17॥ |
| 37 | #18aಪ್ರತ್ಯಾಖ್ಯಾಯ ಹಿ ಮಾಂ ಭೀರು ಪಶ್ಚಾತಾಪಂ ಗಮಿಷ್ಯಸಿ । | 3.48.18aप्रत्याख्याय हि मां भीरु पश्चात्तापं गमिष्यसि । | 3.46.18aप्रत्याख्याय हि मां भीरु परितापं गमिष्यसि । | 3.48.18aप्रत्याख्याय हि मां भीरु परितापं गमिष्यसि । | 3.48.18aप्रत्याख्याय हि मां भीरु परितापं गमिष्यसि। | 3.48.18aप्रत्याख्याय हि मां भीरु परितापं गमिष्यसि । | 3.48.18aप्रत्याख्याय हि मां भीरु परितापं गमिष्यसि। |
| 38 | #18bಚರಣೇನಾಭಿಹತ್ಯೇವ ಪುರೂರವಸಮುರ್ವಶೀ ॥ | 3.48.18bचरणेनाभिहत्येव पुरूरवसमुर्वशी ॥ १८ ॥ | 3.46.18bचरणेनाभिहत्येव पुरूरवसमुर्वशी ॥3.46.18॥ | 3.48.18bचरणेनाभिहत्येव पुरूरवसमुर्वशी ॥ 3.48.18 ॥ | 3.48.18bचरणेनाभिहत्येव पुरूरवसमुर्वशी ॥ 3.48.18 ॥ | 3.48.18bचरणेनाभिहत्येव पुरूरवसमुर्वशी ॥ ३।४८।१८ ॥ | 3.48.18bचरणेनाभिहत्येव पुरूरवसमूर्वशी॥3.48.18॥ |
| 39 | #19aಆಂಗುಲ್ಯಾ ನ ಸಮೋ ರಾಮೋ ಮಮ ಯುದ್ಧೇ ಸ ಮಾನುಷಃ । | 3.48.19aअङ्गुल्या न समो रामो मम युद्धे स मानुषः । | 3.48.19aअङ्गुल्या न समो रामो मम युद्धे स मानुषः । | 3.48.19aअङ्गुल्या न समो रामो मम युद्धे स मानुषः। | 3.48.19aअङ्गुल्या न समो रामो मम युद्धे स मानुषः । | 3.48.19aअङ्गुल्या न समो रामो मम युद्धे स मानुषः। | |
| 40 | #19bತವ ಭಾಗ್ಯೇನ ಸಂಪ್ರಾಪ್ತಂ ಭಜಸ್ವ ವರವರ್ಣಿನಿ ॥ | 3.48.19bतव भाग्येन सम्प्राप्तं भजस्व वरवर्णिनि ॥ १९ ॥ | 3.48.19bतव भाग्येन सम्प्राप्तं भजस्व वरवर्णिनि ॥ 3.48.19 ॥ | 3.48.19bतव भाग्येन सम्प्राप्तं भजस्व वरवर्णिनि ॥ 3.48.19 ॥ | 3.48.19bतव भाग्येन सम्प्राप्तं भजस्व वरवर्णिनि ॥ ३।४८।१९ ॥ | 3.48.19bतव भाग्येन सम्प्राप्तं भजस्व वरवर्णिनि॥3.48.19॥ | |
| 41 | #20aಏವಮುಕ್ತಾ ತು ವೈದೇಹೀ ಕ್ರುದ್ಧಾ ಸಂರಕ್ತಲೋಚನಾ । | 3.48.20aएवमुक्ता तु वैदेही क्रुद्धा संरक्तलोचना । | 3.46.19aएवमुक्ता तु वैदेही क्रुद्धा संरक्तलोचना । | 3.48.20aएवमुक्ता तु वैदेही क्रुद्धा संरक्तलोचना । | 3.48.20aएवमुक्ता तु वैदेही क्रुद्धा संरक्तलोचना। | 3.48.20aएवमुक्ता तु वैदेही क्रुद्धा संरक्तलोचना । | 3.48.20aएवमुक्ता तु वैदेही क्रुद्धा संरक्तलोचना। |
| 42 | #20bಅಬ್ರವೀತ್ ಪರುಷಂ ವಾಕ್ಯಂ ರಹಿತೇ ರಾಕ್ಷಸಾಧಿಪಮ್ ॥ | 3.48.20bअब्रवीत् परुषं वाक्यं रहिते राक्षसाधिपम् ॥ २० ॥ | 3.46.19bअब्रवीत्परुषं वाक्यं रहिते राक्षसाधिपम् ॥3.46.19॥ | 3.48.20bअब्रवीत्परुषं वाक्यं रहिते राक्षसाधिपम् ॥ 3.48.20 ॥ | 3.48.20bअब्रवीत्परुषं वाक्यं रहिते राक्षसाधिपम् ॥ 3.48.20 ॥ | 3.48.20bअब्रवीत्परुषं वाक्यं रहिते राक्षसाधिपम् ॥ ३।४८।२० ॥ | 3.48.20bअब्रवीत्परुषं वाक्यं रहिते राक्षसाधिपम्॥3.48.20॥ |
| 43 | #21aಕಥಂ ವೈಶ್ರವಣಂ ದೇವಂ ಸರ್ವದೇವನಮಸ್ಕೃತಮ್ । | 3.48.21aकथं वैश्रवणं देवं सर्वदेवनमस्कृतम् । | 3.46.20aकथं वैश्रवणं देवं सर्वभूतनमस्कृतम् । | 3.48.21aकथं वैश्रवणं देवं सर्वभूतनमस्कृतम् । | 3.48.21aकथं वैश्रवणं देवं सर्वभूतनमस्कृतम्। | 3.48.21aकथं वैश्रवणं देवं सर्वभूतनमस्कृतम् । | 3.48.21aकथं वैश्रवणं देवं सर्वभूतनमस्कृतम्। |
| 44 | #21bಭ್ರಾತರಂ ವ್ಯಪದಿಶ್ಯ ತ್ವಮಶುಭಂ ಕರ್ತುಮಿಚ್ಛಸಿ ॥ | 3.48.21bभ्रातरं व्यपदिश्य त्वमशुभं कर्तुमिच्छसि ॥ २१ ॥ | 3.46.20bभ्रातरं व्यपदिश्य त्वमशुभं कर्तुमिच्छसि ॥3.46.20॥ | 3.48.21bभ्रातरं व्यपदिश्य त्वमशुभं कर्तुमिच्छसि ॥ 3.48.21 ॥ | 3.48.21bभ्रातरं व्यपदिश्य त्वमशुभं कर्तुमिच्छसि ॥ 3.48.21 ॥ | 3.48.21bभ्रातरं व्यपदिश्य त्वमशुभं कर्तुमिच्छसि ॥ ३।४८।२१ ॥ | 3.48.21bभ्रातरं व्यपदिश्य त्वमशुभं कर्तुमिच्छसि॥3.48.21॥ |
| 45 | #22aಅವಶ್ಯಂ ವಿನಶಿಷ್ಯಂತಿ ಸರ್ವೇ ರಾವಣ ರಾಕ್ಷಸಾಃ । | 3.48.22aअवश्यं विनशिष्यन्ति सर्वे रावण राक्षसाः । | 3.46.21aअवश्यं विनशिष्यन्ति सर्वे रावण राक्षसाः । | 3.48.22aअवश्यं विनशिष्यन्ति सर्वे रावण राक्षसाः । | 3.48.22aअवश्यं विनशिष्यन्ति सर्वे रावण राक्षसाः। | 3.48.22aअवश्यं विनशिष्यन्ति सर्वे रावण राक्षसाः । | 3.48.22aअवश्यं विनशिष्यन्ति सर्वे रावण राक्षसाः। |
| 46 | #22bಯೇಷಾಂ ತ್ವಂ ಕರ್ಕಶೋ ರಾಜಾ ದುರ್ಬುದ್ಧಿರಜಿತೇಂದ್ರಿಯಃ ॥ | 3.48.22bयेषां त्वं कर्कशो राजा दुर्बुद्धिरजितेन्द्रियः ॥ २२ ॥ | 3.46.21bयेषां त्वं कर्कशो राजा दुर्बुद्धिरजितेन्द्रियः ॥3.46.21॥ | 3.48.22bयेषां त्वं कर्कशो राजा दुर्बुद्धिरजितेन्द्रियः ॥ 3.48.22 ॥ | 3.48.22bयेषां त्वं कर्कशो राजा दुर्बुद्धिरजितेन्द्रियः ॥ 3.48.22 ॥ | 3.48.22bयेषां त्वं कर्कशो राजा दुर्बुद्धिरजितेन्द्रियः ॥ ३।४८।२२ ॥ | 3.48.22bयेषां त्वं कर्कशो राजा दुर्बुद्धिरजितेन्द्रियः॥3.48.22॥ |
| 47 | #23aಅಪಹೃತ್ಯ ಶಚೀಂ ಭಾರ್ಯಾಂ ಶಕ್ಯಮಿಂದ್ರಸ್ಯ ಜೀವಿತುಮ್ । | 3.48.23aअपहृत्य शचीं भार्यां शक्यमिन्द्रस्य जीवितुम् । | 3.46.22aअपहृत्य शचीं भार्यां शक्यमिन्द्रस्य जीवितुम् । | 3.48.23aअपहृत्य शचीं भार्यां शक्यमिन्द्रस्य जीवितुम् । | 3.48.23aअपहृत्य शचीं भार्यां शक्यमिन्द्रस्य जीवितुम्। | 3.48.23aअपहृत्य शचीं भार्यां शक्यमिन्द्रस्य जीवितुम् । | 3.48.23aअपहृत्य शचीं भार्यां शक्यमिन्द्रस्य जीवितुम्। |
| 48 | 3.46.22bन तु रामस्य भार्यां मामपनीयास्ति जीवितम् ॥3.46.22॥ | 3.48.23bन च रामस्य भार्यां मामपनीयास्ति जीवितम् ॥ 3.48.23 ॥ | 3.48.23bन च रामस्य भार्यां मामपनीयास्ति जीवितम् ॥ 3.48.23 ॥ | 3.48.23bन च रामस्य भार्यां मामपनीयास्ति जीवितम् ॥ ३।४८।२३ ॥ | 3.48.23bन च रामस्य भार्यां मामपनीयास्ति जीवितम्॥3.48.23॥ | ||
| 49 | #23bನಹಿ ರಾಮಸ್ಯ ಭಾರ್ಯಾಂ ಮಾಮಾನೀಯ ಸ್ವಸ್ತಿಮಾನ್ ಭವೇತ್ ॥ | 3.48.23bनहि रामस्य भार्यां मामानीय स्वस्तिमान् भवेत् ॥ २३ ॥ | |||||
| 50 | #24aಜೀವೇಚ್ಚಿರಂ ವಜ್ರಧರಸ್ಯ ಪಶ್ಚಾ- ಚ್ಛಚೀಂ ಪ್ರಧೃಷ್ಯಾಪ್ರತಿರೂಪರೂಪಾಮ್ । | 3.48.24aजीवेच्चिरं वज्रधरस्य पश्चा- च्छचीं प्रधृष्याप्रतिरूपरूपाम् । | 3.46.23aजीवेच्चिरं वज्रधरस्य हस्ता च्छचीं प्रधृष्याप्रतिरूपरूपाम् । | 3.48.24aजीवेच्चिरं वज्रधरस्य हस्ताच्छचीं प्रधृष्याप्रतिरूपरूपाम् । | 3.48.24aजीवेच्चिरं वज्रधरस्य हस्ताच्छचीं प्रधृष्याप्रतिरूपरूपाम्। | 3.48.24aजीवेच्चिरं वज्रधरस्य हस्ताच्छचीं प्रधृष्याप्रतिरूपरूपाम् । | 3.48.24aजीवेच्चिरं वज्रधरस्य हस्ताच्छचीं प्रधृष्याप्रतिरूपरूपाम्। |
| 51 | #24bನ ಮಾದೃಶೀಂ ರಾಕ್ಷಸ ಧರ್ಷಯಿತ್ವಾ ಪೀತಾಮೃತಸ್ಯಾಪಿ ತವಾಸ್ತಿ ಮೋಕ್ಷಃ ॥ | 3.48.24bन मादृशीं राक्षस धर्षयित्वा पीतामृतस्यापि तवास्ति मोक्षः ॥ २४ ॥ | 3.46.23bन मादृशीं राक्षसधर्षयित्वा पीतामृतस्यापि तवास्ति मोक्षः ॥3.46.23॥ | 3.48.24bन मादृशीं राक्षस दूषयित्वा पीतामृतस्यापि तवास्ति मोक्षः ॥ 3.48.24 ॥ | 3.48.24bन मादृशीं राक्षस दूषयित्वा पीतामृतस्यापि तवास्ति मोक्षः ॥ 3.48.24 ॥ | 3.48.24bन मादृशीं राक्षस दूषयित्वा पीतामृतस्यापि तवास्ति मोक्षः ॥ ३।४८।२४ ॥ | 3.48.24bन मादृशीं राक्षस दूशयित्वा पीतामृतस्यापि तवास्ति मोक्षः॥3.48.24॥ |