विराधेन सीतापहरणम्. Built from structured/verses.jsonl. Rows are monotone-aligned half-verse/pāda-like units split at । and ॥, so verse-number boundary differences can appear as inserted or shifted line rows.
52 aligned line rows across 7 source streams.
gor-kn 52 lines
gor-hi 52 lines
crit 52 lines
gr 52 lines
dr-mula 50 lines
gr-iitk 52 lines
iitk 52 lines
| # | gor-kn | gor-hi | crit | gr | dr-mula | gr-iitk | iitk |
|---|---|---|---|---|---|---|---|
| 1 | #1aಕೃತಾತಿಥ್ಯೋಽಥ ರಾಮಸ್ತು ಸೂರ್ಯಸ್ಯೋದಯನಂ ಪ್ರತಿ । | 3.2.1aकृतातिथ्योऽथ रामस्तु सूर्यस्योदयनं प्रति । | 3.2.1aकृतातिथ्योऽथ रामस्तु सूर्यस्योदयनं प्रति । | 3.2.1aकृतातिथ्यो ऽथ रामस्तु सूर्यस्योदयनं प्रति । | 3.2.1aकृतातिथ्योऽथ रामस्तु सूर्यस्योदयनं प्रति। | 3.2.1aकृतातिथ्यो ऽथ रामस्तु सूर्यस्योदयनं प्रति । | 3.2.1aकृतातिथ्योऽथ रामस्तु सूर्यस्योदयनं प्रति। |
| 2 | #1bಆಮಂತ್ರ್ಯಸ ಮುನೀನ್ಸರ್ವಾನ್ ವನಮೇವಾನ್ವಗಾಹತ ॥ | 3.2.1bआमन्त्र्य स मुनीन् सर्वान् वनमेवान्वगाहत ॥ १ ॥ | 3.2.1bआमन्त्र्य स मुनीन्सर्वान्वनमेवान्वगाहत ॥3.2.1॥ | 3.2.1bआमन्त्र्य स मुनीन् सर्वान् वनमेवान्वगाहत ॥ 3.2.1 ॥ | 3.2.1bआमन्त्र्य स मुनीन् सर्वान् वनमेवान्वगाहत ॥ 3.2.1 ॥ | 3.2.1bआमन्त्र्य स मुनीन् सर्वान् वनमेवान्वगाहत ॥ ३।२।१ ॥ | 3.2.1bआम्नत्ऱ्य स मुनीन्सर्वान्वनमेवान्वगाहत॥3.2.1॥ |
| 3 | #2aನಾನಾಮೃಗಗಣಾಕೀರ್ಣಮೃಕ್ಷಶಾರ್ದೂಲಸೇವಿತಮ್ । | 3.2.2aनानामृगगणाकीर्णमृक्षशार्दूलसेवितम् । | 3.2.2aनानामृगगणाकीर्णं शार्दूलवृकसेवितम् । | 3.2.2aनानामृगगणाकीर्णं शार्दूलवृकसेवितम् । | 3.2.2aनानामृगगणाकीर्णं शार्दूलवृकसेवितम्। | 3.2.2aनानामृगगणाकीर्णं शार्दूलवृकसेवितम् । | 3.2.2aनानामृगगणाकीर्णमृक्षशार्दूल सेवितम्। |
| 4 | #2bಧ್ವಸ್ತ ವೃಕ್ಷಲತಾಗುಲ್ಮಂ ದುರ್ದರ್ಶಸಲಿಲಾಶಯಮ್ ॥ | 3.2.2bध्वस्तवृक्षलतागुल्मं दुर्दर्शसलिलाशयम् ॥ २ ॥ | 3.2.2bध्वस्तवृक्षलतागुल्मं दुर्दर्श सलिलाशयम् ॥3.2.2॥ | 3.2.2bध्वस्तवृक्षलतागुल्मं दुर्दर्शसलिलाशयम् ॥ 3.2.2 ॥ | 3.2.2bध्वस्तवृक्षलतागुल्मं दुर्दर्शसलिलाशयम् ॥ 3.2.2 ॥ | 3.2.2bध्वस्तवृक्षलतागुल्मं दुर्दर्शसलिलाशयम् ॥ ३।२।२ ॥ | 3.2.2bध्वस्तवृक्षलतागुल्मं दुर्दर्शसलिलाशयम्॥3.2.2॥ |
| 5 | #3aನಿಷ್ಕೂಜಮಾನಶಕುನಿ ಝಿಲ್ಲಿಕಾಗಣನಾದಿತಮ್ । | 3.2.3aनिष्कूजमानशकुनिं झिल्लिकागणनादितम् । | 3.2.3aनिष्कूजनानाशकुनि झिल्लिका गणनादितम् । | 3.2.3aनिष्कूजनानाशकुनिझिल्लिकागणनादितम् । | 3.2.3aनिष्कूजनानाशकुनिझिल्लिकागणनादितम्। | 3.2.3aनिष्कूजनानाशकुनिझिल्लिकागणनादितम् । | 3.2.3aनिष्कूजनानाशकुनिझिल्लिकागणनादितम्। |
| 6 | #3bಲಕ್ಷ್ಮಣಾನುಚರೋ ರಾಮೋ ವನಮಧ್ಯಂ ದದರ್ಶ ಹ ॥ | 3.2.3bलक्ष्मणानुचरो रामो वनमध्यं ददर्श ह ॥ ३ ॥ | 3.2.3bलक्ष्मणानुगतो रामो वनमध्यं ददर्श ह ॥3.2.3॥ | 3.2.3bलक्ष्मणानुगतो रामो वनमध्यं ददर्श ह ॥ 3.2.3 ॥ | 3.2.3bलक्ष्मणानुगतो रामो वनमध्यं ददर्श ह ॥ 3.2.3 ॥ | 3.2.3bलक्ष्मणानुगतो रामो वनमध्यं ददर्श ह ॥ ३।२।३ ॥ | 3.2.3bलक्ष्मणानुगतो रामो वनमध्यं ददर्श ह॥3.2.3॥ |
| 7 | #4aಸೀತಯಾ ಸಹ ಕಾಕುತ್ಸ್ಥತಸ್ಮಿನ್ ಘೋರಮೃಗಾಯುತೇ । | 3.2.4aसीतया सह काकुत्स्थस्तस्मिन् घोरमृगायुते । | 3.2.4aवनमध्ये तु काकुत्स्थस्तस्मिन्घोरमृगायुते । | 3.2.4aसीतया सह काकुत्स्थस्तस्मिन् घोरमृगायुते । | 3.2.4aसीतया सह काकुत्स्थस्तस्मिन् घोरमृगायुते। | 3.2.4aसीतया सह काकुत्स्थस्तस्मिन् घोरमृगायुते । | 3.2.4aसीतया सह काकुत्स्थस्तस्मिनघोरमृगायुते। |
| 8 | #4bದದರ್ಶ ಗಿರಿಶೃಂಗಾಭಂ ಪುರುಷಾದಂ ಮಹಾಸ್ವನಮ್ ॥ | 3.2.4bददर्श गिरिशृङ्गाभं पुरुषादं महास्वनम् ॥ ४ ॥ | 3.2.4bददर्श गिरिशृङ्गाभं पुरुषादं महास्वनम् ॥3.2.4॥ | 3.2.4bददर्श गिरिशृङ्गाभं पुरुषादं महास्वनम् ॥ 3.2.4 ॥ | 3.2.4bददर्श गिरिशृङ्गाभं पुरुषादं महास्वनम् ॥ 3.2.4 ॥ | 3.2.4bददर्श गिरिशृङ्गाभं पुरुषादं महास्वनम् ॥ ३।२।४ ॥ | 3.2.4bददर्श गिरिशृङ्गाभं पुरुषादं महास्वनम्॥3.2.4॥ |
| 9 | #5aಗಭೀರಾಕ್ಷಂ ಮಹಾವಕ್ತ್ರಂ ವಿಕಟಂ ವಿಕಟೋದರಮ್ । | 3.2.5aगभीराक्षं महावक्त्रं विकटं विकटोदरम् । | 3.2.5aगभीराक्षं महावक्त्रं विकटं विषमोदरम् । | 3.2.5aगम्भीराक्षं महावक्त्रं विकटं विषमोदरम् । | 3.2.5aगम्भीराक्षं महावक्त्रं विकटं विषमोदरम्। | 3.2.5aगम्भीराक्षं महावक्त्रं विकटं विषमोदरम् । | 3.2.5aगम्भीराक्षं महावक्त्रं विकटं विषमोदरम्। |
| 10 | #5bಬೀಭತ್ಸಂ ವಿಷಮಂ ದೀರ್ಘಂ ವಿಕೃತಂ ಘೋರದರ್ಶನಮ್ ॥ | 3.2.5bबीभत्सं विषमं दीर्घं विकृतं घोरदर्शनम् ॥ ५ ॥ | 3.2.5bबीभत्सं विषमं दीर्घं विकृतं घोरदर्शनम् ॥3.2.5॥ | 3.2.5bबीभत्सं विषमं दीर्घं विकृतं घोरदर्शनम् ॥ 3.2.5 ॥ | 3.2.5bबीभत्सं विषमं दीर्घं विकृतं घोरदर्शनम् ॥ 3.2.5 ॥ | 3.2.5bबीभत्सं विषमं दीर्घं विकृतं घोरदर्शनम् ॥ ३।२।५ ॥ | 3.2.5bबीभत्सं विषमं दीर्घं विकृतं घोरदर्शनम्॥3.2.5॥ |
| 11 | #6aವಸಾನಂ ಚರ್ಮ ವೈಯಾಘ್ರಂ ವಸಾರ್ದ್ರಂ ರುಧಿರೋಕ್ಷಿತಮ್ । | 3.2.6aवसानं चर्म वैयाघ्रं वसार्द्रं रुधिरोक्षितम् । | 3.2.6aवसानं चर्मवैयाघ्रं वसार्द्रं रुधिरोक्षितम् । | 3.2.6aवसानं चर्म वैयाघ्रं वसार्द्रं रुधिरोक्षितम् । | 3.2.6aवसानं चर्म वैयाघ्रं वसार्द्रं रुधिरोक्षितम्। | 3.2.6aवसानं चर्म वैयाघ्रं वसार्द्रं रुधिरोक्षितम् । | 3.2.6aवसानं चर्म वैयाघ्रं वसार्द्रं रुधिरोक्षितम्। |
| 12 | #6bತ್ರಾಸನಂ ಸರ್ವಭೂತಾನಾಂ ವ್ಯಾದಿತಾಸ್ಯಮಿವಾಂತಕಮ್ ॥ | 3.2.6bत्रासनं सर्वभूतानां व्यादितास्यमिवान्तकम् ॥ ६ ॥ | 3.2.6bत्रासनं सर्वभूतानां व्यादितास्यमिवान्तकम् ॥3.2.6॥ | 3.2.6bत्रासनं सर्वभूतानां व्यादितास्य मिवान्तकम् ॥ 3.2.6 ॥ | 3.2.6bत्रासनं सर्वभूतानां व्यादितास्य मिवान्तकम् ॥ 3.2.6 ॥ | 3.2.6bत्रासनं सर्वभूतानां व्यादितास्य मिवान्तकम् ॥ ३।२।६ ॥ | 3.2.6bत्रासनं सर्वभूतानां व्यादितास्यमिवान्तकम्॥3.2.6॥ |
| 13 | #7aತ್ರೀನ್ಸಿಂಹಾಂಶ್ಚ ತುರೋ ವ್ಯಾಘ್ರಾನ್ ದ್ವೌ ವೃಕೌ ಪೃಷತಾಂದಶ । | 3.2.7aत्रीन् सिंहांश्चतुरो व्याघ्रान् द्वौ वृकौ पृषतान् दश । | 3.2.7aत्रीन्सिंहांश्चतुरो व्याघ्रान्द्वौ वृकौ पृषतान्दश । | 3.2.7aत्रीन् सिंहांश्चतुरो व्याघ्रान् द्वौ वृकौ पृषतान् दश । | 3.2.7aत्रीन् सिंहांश्चतुरो व्याघ्रान् द्वौ वृकौ पृषतान् दश । | 3.2.7aत्रीन्सिम्हान्श्चतुरो व्याघ्रान्द्वौ वृकौ पृषतान्दश। | |
| 14 | #7bಸವಿಷಾಣಂ ವಸಾದಿಗ್ಧಂಗಜಸ್ಯ ಚ ಶಿರೋ ಮಹತ್ ॥ | 3.2.7bसविषाणं वसादिग्धं गजस्य च शिरो महत् ॥ ७ ॥ | 3.2.7bसविषाणं वसादिग्धं गजस्य च शिरो महत् ॥3.2.7॥ | 3.2.7bसविषाणं वसादिग्धं गजस्य च शिरो महत् । | 3.2.7aसविषाणं वसादिग्धं गजस्य च शिरो महत्। | 3.2.7bसविषाणं वसादिग्धं गजस्य च शिरो महत् । | 3.2.7bसविषाणं वसादिग्धं गजस्य च शिरो महत्। |
| 15 | #8aಅವಸಜ್ಯಾಯಸೇ ಶೂಲೆ ವಿನದಂತಂ ಮಹಾಸ್ವನಮ್ । | 3.2.8aअवसज्यायसे शूले विनदन्तं महास्वनम् । | 3.2.8aअवसज्यायसे शूले विनदन्तं महास्वनम् । | 3.2.7cअवसज्यायसे शूले विनदन्तं महास्वनम् ॥ 3.2.7 ॥ | 3.2.7bअवसज्यायसे शूले विनदन्तं महास्वनम् ॥ 3.2.7 ॥ | 3.2.7cअवसज्यायसे शूले विनदन्तं महास्वनम् ॥ ३।२।७ ॥ | 3.2.7cअवसज्यायसे शूले विनदन्तं महास्वनम्॥3.2.7॥ |
| 16 | #8bಸ ರಾಮಂ ಲಕ್ಷ್ಮಣಂ ಚೈವ ಸೀತಾಂ ದೃಷ್ಟ್ವಾ ಚ ಮೈಥಿಲೀಮ್ ॥ | 3.2.8bस रामं लक्ष्मणं चैव सीतां दृष्ट्वा च मैथिलीम् । | 3.2.8bस रामं लक्ष्मणं चैव सीतां दृष्ट्वा च मैथिलीम् ॥3.2.8॥ | 3.2.8aस रामं लक्ष्मणं चैव सीतां दृष्ट्वा च मैथिलीम् । | 3.2.8aस रामं लक्ष्मणं चैव सीतां दृष्ट्वा च मैथिलीम्। | 3.2.8aस रामं लक्ष्मणं चैव सीतां दृष्ट्वा च मैथिलीम् । | 3.2.8aस रामं लक्ष्मणं चैव सीतां दृष्ट्वा च मैथिलीम्। |
| 17 | #9aಅಭ್ಯಧಾವತ್ ಸುಸಂಕ್ರುದ್ಧಃ ಪ್ರಜಾಃ ಕಾಲ ಇವಾಂತಕಃ । | 3.2.8cअभ्यधावत् सुसङ्क्रुद्धः प्रजाः काल इवान्तकः ॥ ८ ॥ | 3.2.9aअभ्यधावत्सुसंक्रुद्धः प्रजाः काल इवान्तकः । | 3.2.8bअभ्यधावत सङ्क्रुद्धः प्रजाः काल इवान्तकः ॥ 3.2.8 ॥ | 3.2.8bअभ्यधावत सङ्क्रुद्धः प्रजाः काल इवान्तकः ॥ 3.2.8 ॥ | 3.2.8bअभ्यधावत सङ्क्रुद्धः प्रजाः काल इवान्तकः ॥ ३।२।८ ॥ | 3.2.8bअभ्यधावत्सुसङ्कृद्धः प्रजाः काल इवान्तकः॥3.2.8॥ |
| 18 | #9bಸ ಕೃತ್ವಾ ಭೈರವಂ ನಾದಂ ಚಾಲಯನ್ನಿವ ಮೇದಿನೀಮ್ ॥ | 3.2.9स कृत्वा भैरवं नादं चालयन्निव मेदिनीम् ॥ ९ ॥ | 3.2.9bस कृत्वा भैरवं नादं चालयन्निव मेदिनीम् ॥3.2.9॥ | 3.2.9aस कृत्वा भैरवं नादं चालयन्निव मेदिनीम् । | 3.2.9aस कृत्वा भैरवं नादं चालयन्निव मेदिनीम्। | 3.2.9aस कृत्वा भैरवं नादं चालयन्निव मेदिनीम् । | 3.2.9aस कृत्वा भैरवं नादं चालयन्निव मेदिनीम्। |
| 19 | #10aಅಂಕೇನಾದಾಯ ವೈದೇಹೀಮಪಕ್ರಮ್ಯ ತದಾಬ್ರವೀತ್ । | 3.2.10aअङ्केनादाय वैदेहीमपक्रम्य तदाब्रवीत् । | 3.2.10aअङ्गेनादाय वैदेहीमपक्रम्य ततोऽब्रवीत् । | 3.2.9bअङ्केनादाय वैदेहीमपक्रम्य ततो ऽब्रवीत् ॥ 3.2.9 ॥ | 3.2.9bअङ्केनादाय वैदेहीमपक्रम्य ततोऽब्रवीत् ॥ 3.2.9 ॥ | 3.2.9bअङ्केनादाय वैदेहीमपक्रम्य ततो ऽब्रवीत् ॥ ३।२।९ ॥ | 3.2.9bअङ्केनादाय वैदेहीमपक्रम्य ततोऽब्रवीत्॥3.2.9॥ |
| 20 | #10bಯುವಾಂ ಜಟಾಚೀರಧರೌ ಸಭಾರ್ಯೌ ಕ್ಷೀಣಜೀವಿತೌ॥ | 3.2.10bयुवां जटाचीरधरौ सभार्यौ क्षीणजीवितौ ॥ १० ॥ | 3.2.10bयुवां जटाचीरधरौ सभार्यौ क्षीणजीवितौ ॥3.2.10॥ | 3.2.10aयुवां जटाचीरधरौ सभार्यौ क्षीणजीवितौ । | 3.2.10aयुवां जटाचीरधरौ सभार्यौ क्षीणजीवितौ। | 3.2.10aयुवां जटाचीरधरौ सभार्यौ क्षीणजीवितौ । | 3.2.10aयुवां जटाचीरधरौ सभार्यौ क्षीणजीवितौ। |
| 21 | #11aಪ್ರವಿಷ್ಟೌ ದಂಡಕಾರಣ್ಯಂ ಶರಚಾಪಾಸಿಪಾಣಿನೌ । | 3.2.11aप्रविष्टौ दण्डकारण्यं शरचापासिपाणिनौ । | 3.2.11aप्रविष्टौ दण्डकारण्यं शरचापासिधारिणौ । | 3.2.10bप्रविष्टौ दण्डकारण्यं शरचापासिधारिणौ ॥ 3.2.10 ॥ | 3.2.10bप्रविष्टौ दण्डकारण्यं शरचापासिधारिणौ ॥ 3.2.10 ॥ | 3.2.10bप्रविष्टौ दण्डकारण्यं शरचापासिधारिणौ ॥ ३।२।१० ॥ | 3.2.10bप्रविष्टौ दण्डकारण्यं शरचापासिधारिणौ॥3.2.10॥ |
| 22 | #11bಕಥಂ ತಾಪಸಯೋರ್ವಾಂ ಚ ವಾಸಃ ಪ್ರಮದಯಾ ಸಹ ॥ | 3.2.11bकथं तापसयोर्वां च वासः प्रमदया सह ॥ ११ ॥ | 3.2.11bकथं तापसयोर्वां च वासः प्रमदया सह ॥3.2.11॥ | 3.2.11aकथं तापसयोर्वां च वासः प्रमदया सह । | 3.2.11aकथं तापसयोर्वां च वासः प्रमदया सह। | 3.2.11aकथं तापसयोर्वां च वासः प्रमदया सह । | 3.2.11aकथं तापसयोर्वां च वासः प्रमदया सह। |
| 23 | #12aಅಧರ್ಮಚಾರಿಣೌ ಪಾಪೌ ಕೌ ಯುವಾಂ ಮುನಿದೂಷಕೌ । | 3.2.12aअधर्मचारिणौ पापौ कौ युवां मुनिदूषकौ । | 3.2.12aअधर्मचारिणौ पापौ कौ युवां मुनिदूषकौ । | 3.2.11bअधर्मचारिणौ पापौ कौ युवां मुनिदूषकौ ॥ 3.2.11 ॥ | 3.2.11bअधर्मचारिणौ पापौ कौ युवां मुनिदूषकौ ॥ 3.2.11 ॥ | 3.2.11bअधर्मचारिणौ पापौ कौ युवां मुनिदूषकौ ॥ ३।२।११ ॥ | 3.2.11bअधर्मचारिणौ पापौ कौ युवां मुनिदूषकौ॥3.2.11॥ |
| 24 | #12bಅಹಂ ವನಮಿದಂ ದುರ್ಗಂ ವಿರಾಧೋ ನಾಮ ರಾಕ್ಷಸಃ ॥ | 3.2.12bअहं वनमिदं दुर्गं विराधो नाम राक्षसः ॥ १२ ॥ | 3.2.12bअहं वनमिदं दुर्गं विराघो नाम राक्षसः ॥3.2.12॥ | 3.2.12aअहं वनमिदं दुर्गं विराधो नाम राक्षसः । | 3.2.12aअहं वनमिदं दुर्गं विराधो नाम राक्षसः। | 3.2.12aअहं वनमिदं दुर्गं विराधो नाम राक्षसः । | 3.2.12aअहं वनमिदं दुर्गं विराधो नाम राक्षसः। |
| 25 | #13aಚರಾಮಿ ಸಾಯುಧೋ ನಿತ್ಯಮೃಷಿಮಾಂಸಾನಿ ಭಕ್ಷಯನ್ । | 3.2.13aचरामि सायुधो नित्यमृषिमांसानि भक्षयन् । | 3.2.13aचरामि सायुधो नित्यमृषिमांसानि भक्षयन् । | 3.2.12bचरामि सायुधो नित्यमृषिमांसानि भक्षयन् ॥ 3.2.12 ॥ | 3.2.12bचरामि सायुधो नित्यमृषिमांसानि भक्षयन् ॥ 3.2.12 ॥ | 3.2.12bचरामि सायुधो नित्यमृषिमांसानि भक्षयन् ॥ ३।२।१२ ॥ | 3.2.12bचरामि सायुधो नित्यमृषिमांसानि भक्षयन्॥3.2.12॥ |
| 26 | #13bಇಯಂ ನಾರೀ ವರಾರೋಹಾ ಮಮ ಭಾರ್ಯಾಭವಿಷ್ಯತಿ ॥ | 3.2.13bइयं नारी वरारोहा मम भार्या भविष्यति ॥ १३ ॥ | 3.2.13bइयं नारी वरारोहा मम भर्या भविष्यति । | 3.2.13aइयं नारी वरारोहा मम भार्या भविष्यति । | 3.2.13aइयं नारी वरारोहा मम भार्या भविष्यति। | 3.2.13aइयं नारी वरारोहा मम भार्या भविष्यति । | 3.2.13aइयं नारी वरारोहा मम भार्या भविष्यति। |
| 27 | #14aಯುವಯೋಃ ಪಾಪಯೋಶ್ಚಾಹಂ ಪಾಸ್ಯಾಮಿ ರುಧಿರಂ ಮೃಧೇ । | 3.2.14aयुवयोः पापयोश्चाहं पास्यामि रुधिरं मृधे । | 3.2.13cयुवयोः पापयोश्चाहं पास्यामि रुधिरं मृधे ॥3.2.13॥ | 3.2.13bयुवयोः पापयोश्चाहं पास्यामि रुधिरं मृधे ॥ 3.2.13 ॥ | 3.2.13bयुवयोः पापयोश्चाहं पास्यामि रुधिरं मृधे ॥ 3.2.13 ॥ | 3.2.13bयुवयोः पापयोश्चाहं पास्यामि रुधिरं मृधे ॥ ३।२।१३ ॥ | 3.2.13bयुवयोः पापयोश्चाहं पास्यामि रुधिरं मृधे॥3.2.13॥ |
| 28 | #14bತಸ್ಯೈವಂ ಬ್ರುವತೋ ದುಷ್ಟಂ ವಿರಾಧಸ್ಯ ದುರಾತ್ಮನಃ ॥ | 3.2.14bतस्यैवं ब्रुवतो दुष्टं विराधस्य दुरात्मनः ॥ १४ ॥ | 3.2.14aतस्यैवं ब्रुवतो धृष्टं विराधस्य दुरात्मनः । | 3.2.14तस्यैवं ब्रुवतो धृष्टं विराधस्य दुरात्मनः ॥ 3.2.14 ॥ | 3.2.14तस्यैवं ब्रुवतो धृष्टं विराधस्य दुरात्मनः ॥ 3.2.14 ॥ | 3.2.14तस्यैवं ब्रुवतो धृष्टं विराधस्य दुरात्मनः ॥ ३।२।१४ ॥ | 3.2.14aतस्यैवं ब्रुवतो दुष्टं विराधस्य दुरात्मनः। |
| 29 | #15aಶ್ರುತ್ವಾ ಸಗರ್ವಿತಂ ವಾಕ್ಯಂ ಸಂಭ್ರಾಂತಾ ಜನಕಾತ್ಮಜಾ । | 3.2.15aश्रुत्वा सगर्वितं वाक्यं सम्भ्रान्ता जनकात्मजा । | 3.2.14bश्रुत्वा सगर्वितं वाक्यं संभ्रान्ता जनकात्मजा । | 3.2.15aश्रुत्वा सगर्वितं वाक्यं सम्भ्रान्ता जनकात्मजा । | 3.2.15aश्रुत्वा सगर्वितं वाक्यं सम्भ्रान्ता जनकात्मजा। | 3.2.15aश्रुत्वा सगर्वितं वाक्यं सम्भ्रान्ता जनकात्मजा । | 3.2.14bश्रुत्वा सगर्वितं वाक्यं सम्भ्रान्ता जनकात्मजा॥3.2.14॥ |
| 30 | #15bಸೀತಾಪ್ರವೇಪಿತೋದ್ವೇಗಾತ್ ಪ್ರವಾತೇ ಕದಲೀ ಯಥಾ ॥ | 3.2.15bसीता प्रवेपितोद्वेगात् प्रवाते कदली यथा ॥ १५ ॥ | 3.2.14cसीता प्रावेपतोद्वेगात्प्रवाते कदली यथा ॥3.2.14॥ | 3.2.15bसीता प्रावेपतोद्वेगात्प्रवाते कदली यथा ॥ 3.2.15 ॥ | 3.2.15bसीता प्रावेपतोद्वेगात्प्रवाते कदली यथा ॥ 3.2.15 ॥ | 3.2.15bसीता प्रावेपतोद्वेगात्प्रवाते कदली यथा ॥ ३।२।१५ ॥ | 3.2.15सीता प्रवेपतोद्वेगात् प्रावाते कदली यथा॥3.2.15॥ |
| 31 | #16aತಾಂ ದೃಷ್ಟ್ವಾ ರಾಘವಃ ಸೀತಾಂ ವಿರಾಧಾಂಕಗತಾಂ ಶುಭಾಮ್ । | 3.2.16aतां दृष्ट्वा राघवः सीतां विराधाङ्कगतां शुभाम् । | 3.2.15aतां दृष्ट्वा राघवः सीतां विराधाङ्कगतां शुभाम् । | 3.2.16aतां दृष्ट्वा राघवः सीतां विराधाङ्कगतां शुभाम् । | 3.2.16aतां दृष्ट्वा राघवः सीतां विराधाङ्कगतां शुभाम्। | 3.2.16aतां दृष्ट्वा राघवः सीतां विराधाङ्कगतां शुभाम् । | 3.2.16aतां दृष्ट्वा राघवः सीतां विराधाङ्कगतां शुभाम्। |
| 32 | #16bಅಬ್ರವೀಲ್ಲಕ್ಷ್ಮಣಂ ವಾಕ್ಯಂ ಮುಖೇನ ಪರಿಶುಷ್ಯತಾ ॥ | 3.2.16bअब्रवील्लक्ष्मणं वाक्यं मुखेन परिशुष्यता ॥ १६ ॥ | 3.2.15bअब्रवील्लक्ष्मणं वाक्यं मुखेन परिशुष्यता ॥3.2.15॥ | 3.2.16bअब्रवील्लक्ष्मणं वाक्यं मुखेन परिशुष्यता ॥ 3.2.16 ॥ | 3.2.16bअब्रवील्लक्ष्मणं वाक्यं मुखेन परिशुष्यता ॥ 3.2.16 ॥ | 3.2.16bअब्रवील्लक्ष्मणं वाक्यं मुखेन परिशुष्यता ॥ ३।२।१६ ॥ | 3.2.16bअब्रवील्लक्ष्मणं वाक्यं मुखेन परिशुष्यता॥3.2.16॥ |
| 33 | #17aಪಶ್ಯ ಸೌಮ್ಯ ನರೇಂದ್ರಸ್ಯ ಜನಕಸ್ಯಾತ್ಮಸಂಭವಾಮ್ । | 3.2.17aपश्य सौम्य नरेन्द्रस्य जनकस्यात्मसम्भवाम् । | 3.2.16aपश्य सौम्य नरेन्द्रस्य जनकस्यात्मसंभवाम् । | 3.2.17aपश्य सौम्य नरेन्द्रस्य जनकस्यात्मसम्भवाम् । | 3.2.17aपश्य सौम्य नरेन्द्रस्य जनकस्यात्मसम्भवाम् । | 3.2.17aपश्य सौम्य नरेन्द्रस्य जनकस्यात्मसम्भवाम्। | |
| 34 | #17bಮಮ ಭಾರ್ಯಾಂ ಶುಭಾಚಾರಂ ವಿರಾಧಾಂಕೇ ಪ್ರವೇಶಿತಾಮ್ ॥ | 3.2.17bमम भार्यां शुभाचारां विराधाङ्के प्रवेशिताम् ॥ १७ ॥ | 3.2.16bमम भार्यां शुभाचारां विराधाङ्के प्रवेशिताम् । | 3.2.17bमम भार्यां शुभाचारां विराधाङ्के प्रवेशिताम् । | 3.2.17aमम भार्यां शुभाचारां विराधाङ्के प्रवेशिताम्। | 3.2.17bमम भार्यां शुभाचारां विराधाङ्के प्रवेशिताम् । | 3.2.17bमम भार्यां शुभाचारां विराधाङ्के प्रवेशिताम्॥3.2.17॥ |
| 35 | #18aಅತ್ಯಂತ ಸುಖ ಸಂವೃದ್ಧಾಂ ರಾಜಪುತ್ರೀಂ ಯಶಸ್ವಿನೀಮ್ । | 3.2.18aअत्यन्तसुखसंवृद्धां राजपुत्रीं यशस्विनीम् । | 3.2.16cअत्यन्त सुखसंवृद्धां राजपुत्रीं यशस्विनीम् ॥3.2.16॥ | 3.2.17cअत्यन्तसुखसंवृद्धां राजपुत्रीं यशस्विनीम् ॥ 3.2.17 ॥ | 3.2.17bअत्यन्तसुखसंवृद्धां राजपुत्रीं यशस्विनीम् ॥ 3.2.17 ॥ | 3.2.17cअत्यन्तसुखसंवृद्धां राजपुत्रीं यशस्विनीम् ॥ ३।२।१७ ॥ | 3.2.18aअत्यन्तसुखसंमव़ृद्धां राजपुत्रीं यशस्विनीम्। |
| 36 | #18bಯದಭಿಪ್ರೇತಮಸ್ಮಾಸು ಪ್ರಿಯಂ ವರವೃತ್ತಂ ಚ ಯತ್ ॥ | 3.2.18bयदभिप्रेतमस्मासु प्रियं वरवृतं च यत् ॥ १८ ॥ | 3.2.17aयदभिप्रेतमस्मासु प्रियं वर वृतं च यत् । | 3.2.18aयदभिप्रेतमस्मासु प्रियं वरवृतं च यत् । | 3.2.18aयदभिप्रेतमस्मासु प्रियं वरवृतं च यत्। | 3.2.18aयदभिप्रेतमस्मासु प्रियं वरवृतं च यत् । | 3.2.18bयदभिप्रेतमस्मासु प्रियं वरवृतं च यत्॥3.2.18॥ |
| 37 | #19aಕೈಕೇಯಾಸ್ತು ಸುಸಂವೃತ್ತಂ ಕ್ಷಿಪ್ರಮದ್ಯೈವ ಲಕ್ಷ್ಮಣ । | 3.2.19aकैकेय्यास्तु सुसंवृत्तं क्षिप्रमद्यैव लक्ष्मण । | 3.2.17bकैकेय्यास्तु सुसंवृत्तं क्षिप्रमद्यैव लक्ष्मण ॥3.2.17॥ | 3.2.18bकैकेय्यास्तु सुसम्पन्नं क्षिप्रमद्यैव लक्ष्मण ॥ 3.2.18 ॥ | 3.2.18bकैकेय्यास्तु सुसम्पन्नं क्षिप्रमद्यैव लक्ष्मण ॥ 3.2.18 ॥ | 3.2.18bकैकेय्यास्तु सुसम्पन्नं क्षिप्रमद्यैव लक्ष्मण ॥ ३।२।१८ ॥ | 3.2.19aकैकेय्यास्तु सुसंवृत्तं क्षिप्रमद्यैव लक्ष्मण। |
| 38 | #19bಯಾ ನ ತುಷ್ಯತಿ ರಾಜ್ಯೇನ ಪುತ್ರಾರ್ಥೇ ದೀರ್ಘದರ್ಶಿನೀ ॥ | 3.2.19bया न तुष्यति राज्येन पुत्रार्थे दीर्घदर्शिनी ॥ १९ ॥ | 3.2.18aया न तुष्यति राज्येन पुत्रार्थे दीर्घदर्शिनी । | 3.2.19या न तुष्यति राज्येन पुत्रार्थे दीर्घदर्शिनी ॥ 3.2.19 ॥ | 3.2.19या न तुष्यति राज्येन पुत्रार्थे दीर्घदर्शिनी ॥ 3.2.19 ॥ | 3.2.19या न तुष्यति राज्येन पुत्रार्थे दीर्घदर्शिनी ॥ ३।२।१९ ॥ | 3.2.19bया न तुष्यति राज्येन पुत्रार्थे दीर्घदर्शिनी॥3.2.19॥ |
| 39 | #20aಯಯಾಹಂ ಸರ್ವಭೂತಾನಾಂ ಪ್ರಿಯಃ ಪ್ರಸ್ಥಾಪಿತೋ ವನಮ್ । | 3.2.20aययाहं सर्वभूतानां प्रियः प्रस्थापितो वनम् । | 3.2.18bययाहं सर्वभूतानां हितः प्रस्थापितो वनम् । | 3.2.20aययाहं सर्वभूतानां हितः प्रस्थापितो वनम् । | 3.2.20aययाहं सर्वभूतानां हितः प्रस्थापितो वनम्। | 3.2.20aययाहं सर्वभूतानां हितः प्रस्थापितो वनम् । | 3.2.20aययाहं सर्वभूतानां प्रियः प्रस्थापितो वनम्। |
| 40 | #20bಆದ್ಯೇದಾನೀಂ ಸಕಾಮಾ ಸಾ ಯಾ ಮಾತಾ ಮಧ್ಯಮಾ ಮಮ ॥ | 3.2.20bअद्येदानीं सकामा सा या माता मध्यमा मम ॥ २० ॥ | 3.2.18cअद्येदानीं सकामा सा या माता मम मध्यमा ॥3.2.18॥ | 3.2.20bअद्येदानीं सकामा सा या माता मम मध्यमा ॥ 3.2.20 ॥ | 3.2.20bअद्येदानीं सकामा सा या माता मम मध्यमा ॥ 3.2.20 ॥ | 3.2.20bअद्येदानीं सकामा सा या माता मम मध्यमा ॥ ३।२।२० ॥ | 3.2.20bअद्येदानीं सकामा सा या माता मध्यमा मम॥3.2.20॥ |
| 41 | #21aಪರಸ್ಪರ್ಶಾತ್ತು ವೈದೇಹ್ಯಾ ನ ದುಃಖತರಮಸ್ತಿ ಮೇ । | 3.2.21aपरस्पर्शात् तु वैदेह्या न दुःखतरमस्ति मे । | 3.2.19aपरस्पर्शात्तु वैदेह्या न दुःखतरमस्ति मे । | 3.2.21aपरस्पर्शात्तु वैदेह्या न दुःखतरमस्ति मे । | 3.2.21aपरस्पर्शात्तु वैदेह्या न दुःखतरमस्ति मे। | 3.2.21aपरस्पर्शात्तु वैदेह्या न दुःखतरमस्ति मे । | 3.2.21aपरस्पर्शात्तु वैदेह्याः न दुःखतरमस्तिमे। |
| 42 | #21bಪಿತುರ್ವಿನಾಶಾತ್ ಸೌಮಿತ್ರೇ ಸ್ವರಾಜ್ಯ ಹರಣಾತ್ತಥಾ ॥ | 3.2.21bपितुर्विनाशात् सौमित्रे स्वराज्य हरणात् तथा ॥ २१ ॥ | 3.2.19bपितुर्विनाशात्सौमित्रे स्वराज्यहरणात्तथा ॥3.2.19॥ | 3.2.21bपितुर्वियोगात्सौमित्रे स्वराज्यहरणात्तथा ॥ 3.2.21 ॥ | 3.2.21bपितुर्वियोगात्सौमित्रे स्वराज्यहरणात्तथा ॥ 3.2.21 ॥ | 3.2.21bपितुर्वियोगात्सौमित्रे स्वराज्यहरणात्तथा ॥ ३।२।२१ ॥ | 3.2.21bपितुर्विनाशात्सौमित्रे स्वराज्यहरणात्तथा॥3.2.21॥ |
| 43 | #22aಇತಿ ಬ್ರುವತಿ ಕಾಕುತ್ಸ್ಥೇ ಭಾಷ್ಪ ಶೋಕಪರಿಪ್ಲುತಃ । | 3.2.22aइति ब्रुवति काकुत्स्थे बाष्पशोकपरिप्लुतः । | 3.2.20aइति ब्रुवति काकुत्स्थे बाष्पशोकपरिप्लुते । | 3.2.22aइति ब्रुवति काकुत्स्थे बाष्पशोकपरिप्लुते । | 3.2.22aइति ब्रुवति काकुत्स्थे बाष्पशोकपरिप्लुते। | 3.2.22aइति ब्रुवति काकुत्स्थे बाष्पशोकपरिप्लुते । | 3.2.22aइति ब्रुवति काकुत्स्थे बाष्पशोकपरिप्लुते। |
| 44 | #22bಅಬ್ರವೀಲ್ಲಕ್ಷ್ಮಣಃ ಕ್ರುದ್ಧೋ ರುದ್ಧೋ ನಾಗ ಇವ ಶ್ವಸನ್ ॥ | 3.2.22bअब्रवील्लक्ष्मणः क्रुद्धो रुद्धो नाग इव श्वसन् ॥ २२ ॥ | 3.2.20bअब्रवील्लक्ष्मणः क्रुद्धो रुद्धो नाग इव श्वसन् ॥3.2.20॥ | 3.2.22bअब्रवील्लक्ष्मणः क्रुद्धो रुद्धो नाग इव श्वसन् ॥ 3.2.22 ॥ | 3.2.22bअब्रवील्लक्ष्मणः क्रुद्धो रुद्धो नाग इव श्वसन् ॥ 3.2.22 ॥ | 3.2.22bअब्रवील्लक्ष्मणः क्रुद्धो रुद्धो नाग इव श्वसन् ॥ ३।२।२२ ॥ | 3.2.22bअब्रवील्लक्ष्मणः क्रुद्धो रुद्धो नाग इव श्वसन्॥3.2.22॥ |
| 45 | #23aಅನಾಥ ಇವ ಭೂತಾನಾಂ ನಾಥಸ್ತ್ವಂ ವಾಸವೋಪಮಃ । | 3.2.23aअनाथ इव भूतानां नाथस्त्वं वासवोपमः । | 3.2.21aअनाथ इव भूतानां नाथस्त्वं वासवोपमः । | 3.2.23aअनाथ इव भूतानां नाथस्त्वं वासवोपमः । | 3.2.23aअनाथ इव भूतानां नाथस्त्वं वासवोपमः। | 3.2.23aअनाथ इव भूतानां नाथस्त्वं वासवोपमः । | 3.2.23aअनाथ इव भूतानां नाथस्त्वं वासवोपमः। |
| 46 | #23bಮಯಾ ಪ್ರೇಷ್ಯೇಣ ಕಾಕುತ್ಸ್ಥ ಕಿಮರ್ಥಂ ಪರಿತಪ್ಯಸೇ ॥ | 3.2.23bमया प्रेष्येण काकुत्स्थ किमर्थं परितप्यसे ॥ २३ ॥ | 3.2.21bमया प्रेष्येण काकुत्स्थ किमर्थं परितप्स्यसे ॥3.2.21॥ | 3.2.23bमया प्रेष्येण काकुत्स्थ किमर्थं परितप्यसे ॥ 3.2.23 ॥ | 3.2.23bमया प्रेष्येण काकुत्स्थ किमर्थं परितप्यसे ॥ 3.2.23 ॥ | 3.2.23bमया प्रेष्येण काकुत्स्थ किमर्थं परितप्यसे ॥ ३।२।२३ ॥ | 3.2.23bमया प्रेष्येण काकुत्स्थ किमर्थं परितप्यसे॥3.2.23॥ |
| 47 | #24aಶರೇಣ ನಿಹತಸ್ಯಾದ್ಯ ಮಯಾ ಕ್ರುದ್ಧೇನ ರಕ್ಷಸಃ । | 3.2.24aशरेण निहतस्याद्य मया क्रुद्धेन रक्षसः । | 3.2.22aशरेण निहतस्याद्य मया क्रुद्धेन रक्षसः । | 3.2.24aशरेण निहतस्याद्य मया क्रुद्धेन रक्षसः । | 3.2.24aशरेण निहतस्याद्य मया क्रुद्धेन रक्षसः। | 3.2.24aशरेण निहतस्याद्य मया क्रुद्धेन रक्षसः । | 3.2.24aशरेण निहतस्याद्य मया क्रुद्धेन रक्षसः। |
| 48 | #24bವಿರಾಧಸ್ಯ ಗತಾಸೋರ್ಹಿ ಮಹೀ ಪಾಸ್ಯತಿ ಶೋಣಿತಮ್ ॥ | 3.2.24bविराधस्य गतासोर्हि मही पास्यति शोणितम् ॥ २४ ॥ | 3.2.22bविराधस्य गतासोर्हि मही पास्यति शोणितम् ॥3.2.22॥ | 3.2.24bविराधस्य गतासोर्हि मही पास्यति शोणितम् ॥ 3.2.24 ॥ | 3.2.24bविराधस्य गतासोर्हि मही पास्यति शोणितम् ॥ 3.2.24 ॥ | 3.2.24bविराधस्य गतासोर्हि मही पास्यति शोणितम् ॥ ३।२।२४ ॥ | 3.2.24bविराधस्य गतासोर्हि मही पास्यति शोणितम्॥3.2.24॥ |
| 49 | #25aರಾಜ್ಯಕಾಮೇ ಮಮ ಕ್ರೋಧೋ ಭರತೇ ಯೋ ಬಭೂವ ಹ । | 3.2.25aराज्यकामे मम क्रोधो भरते यो बभूव ह । | 3.2.23aराज्यकामे मम क्रोधो भरते यो बभूव ह । | 3.2.25aराज्यकामे मम क्रोधो भरते यो बभूव ह । | 3.2.25aराज्यकामे मम क्रोधो भरते यो बभूव ह। | 3.2.25aराज्यकामे मम क्रोधो भरते यो बभूव ह । | 3.2.25aराज्यकामे मम क्रोधो भरते यो बभूव ह। |
| 50 | #25bತಂ ವಿರಾಧೇ ವಿಮೋಕ್ಷ್ಯಾಮಿ ವಜ್ರೀ ವಜ್ರಮಿವಾಚಲೇ ॥ | 3.2.25bतं विराधे विमोक्ष्यामि वज्री वज्रमिवाचले ॥ २५ ॥ | 3.2.23bतं विराधे विमोक्ष्यामि वज्री वज्रमिवाचले ॥3.2.23॥ | 3.2.25bतं विराधे प्रमोक्ष्यामि वज्री वज्रमिवाचले ॥ 3.2.25 ॥ | 3.2.25bतं विराधे प्रमोक्ष्यामि वज्री वज्रमिवाचले ॥ 3.2.25 ॥ | 3.2.25bतं विराधे प्रमोक्ष्यामि वज्री वज्रमिवाचले ॥ ३।२।२५ ॥ | 3.2.25bतं विराधे प्रमोक्ष्यामि वज्री वज्रमिवाचले॥3.2.25॥ |
| 51 | #26aಮಮ ಭುಜಬಲವೇಗವೇಗಿತಃ ಪತತುಶರೋಽಸ್ಯ ಮಹಾನ್ ಮಹೋರಸಿ । | 3.2.26aमम भुजबलवेगवेगितः पततु शरोऽस्य महान् महोरसि । | 3.2.24aमम भुजबलवेगवेगितः पततु शरोऽस्य महान्महोरसि । | 3.2.26aमम भुजबलवेगवेगितः पततु शरो ऽस्य महान् महोरसि । | 3.2.26aमम भुजबलवेगवेगितः पततु शरोऽस्य महान् महोरसि। | 3.2.26aमम भुजबलवेगवेगितः पततु शरो ऽस्य महान् महोरसि । | 3.2.26aमम भुजबलवेगवेगितः पततु शरोऽस्य महान्महोरसि। |
| 52 | #26bವ್ಯಪನಯತು ತನೋಶ್ಚ ಜೀವಿತಂ ಪತತು ತತಶ್ಚ ಮಹೀಂ ವಿಘೂರ್ಣಿತಃ ॥ | 3.2.26bव्यपनयतु तनोश्च जीवितं पततु ततश्च महीं विघूर्णितः ॥ २६ ॥ | 3.2.24bव्यपनयतु तनोश्च जीवितं पततु ततश्च महीं विघूर्णितः ॥3.2.24॥ | 3.2.26bव्यवसयतु तनोश्च जीवितं पततु ततस्स महीं विघूर्णितः ॥ 3.2.26 ॥ | 3.2.26bव्यवसयतु तनोश्च जीवितं पततु ततस्स महीं विघूर्णितः ॥ 3.2.26 ॥ | 3.2.26bव्यवसयतु तनोश्च जीवितं पततु ततस्स महीं विघूर्णितः ॥ ३।२।२६ ॥ | 3.2.26bव्यपनयतु तनोश्च जीवितं पततु ततस्समहीं विघूर्णितः॥3.2.26॥ |