भरद्वाजकृतातिथ्यम्. Built from structured/verses.jsonl. Rows are monotone-aligned half-verse/pāda-like units split at । and ॥, so verse-number boundary differences can appear as inserted or shifted line rows.
314 aligned line rows across 7 source streams.
gor-kn 168 lines
gor-hi 168 lines
crit 157 lines
gr 294 lines
dr-mula 170 lines
gr-iitk 210 lines
iitk 167 lines
| # | gor-kn | gor-hi | crit | gr | dr-mula | gr-iitk | iitk |
|---|---|---|---|---|---|---|---|
| 1 | #1aಕೃತಬುದ್ಧಿಂ ನಿವಾಸಾಯ ತತ್ರೈವ ಸ ಮುನಿಸ್ತದಾ । | 2.91.1aकृतबुद्धिं निवासाय तत्रैव स मुनिस्तदा । | 2.85.1aकृतबुद्धिं निवासाय तथैव स मुनिस्तदा । | 2.91.1aकृतबुद्धिं निवासाय तत्रैव स मुनिस्तदा । | 2.91.1aकृतबुद्धिं निवासाय तत्रैव स मुनिस्तदा। | 2.91.1aकृतबुद्धिं निवासाय तत्रैव स मुनिस्तदा । | 2.91.1aकृतबुद्धिं निवासाय तत्रैव स मुनिस्तदा। |
| 2 | #1bಭರತಂ ಕೇಕಯೀಪುತ್ರಮಾತಿಥ್ಯೇನ ನ್ಯಮಂತ್ರಯತ್ ॥ | 2.91.1bभरतं केकयीपुत्रमातिथ्येन न्यमन्त्रयत् ॥ १ ॥ | 2.85.1bभरतं कैकयी पुत्रमातिथ्येन न्यमन्त्रयत् ॥2.85.1॥ | 2.91.1bभरतं कैकयीपुत्रमातिथ्येन न्यमन्त्रयत् ॥ 2.91.1 ॥ | 2.91.1bभरतं कैकयीपुत्रमातिथ्येन न्यमन्त्रयत् ॥ 2.91.1 ॥ | 2.91.1bभरतं कैकयीपुत्रमातिथ्येन न्यमन्त्रयत् ॥ २।९१।१ ॥ | 2.91.1bभरतं कैकयीपुत्रमातिथ्येनन्यमन्त्रयत्॥2.91.1॥ |
| 3 | #2aಅಬ್ರವೀದ್ಭರತಸ್ತ್ವೇನಂ ನನ್ವಿದಂ ಭವತಾ ಕೃತಮ್ । | 2.91.2aअब्रवीद् भरतस्त्वेनं नन्विदं भवता कृतम् । | 2.85.2aअब्रवीद्भरतस्त्वेनं नन्विदं भवता कृतम् । | 2.91.2aअब्रवीद्भरतस्त्वेनं नन्विदं भवता कृतम् । | 2.91.2aअब्रवीद्भरतस्त्वेनं नन्विदं भवता कृतम्। | 2.91.2aअब्रवीद्भरतस्त्वेनं नन्विदं भवता कृतम् । | 2.91.2aअब्रवीद्भरतस्त्वेनं नन्विदं भवता कृतम्। |
| 4 | #2bಪಾದ್ಯಮರ್ಘ್ಯಮಥಾತಿಥ್ಯಂ ವನೇ ಯದುಪಪದ್ಯತೇ ॥ | 2.91.2bपाद्यमर्घ्यमथातिथ्यं वने यदुपपद्यते ॥ २ ॥ | 2.85.2bपाद्यमर्घ्यं तथातिथ्यं वने यदूपपद्यते ॥2.85.2॥ | 2.91.2bपाद्यमर्घ्यं तथातिथ्यं वने यदुपपद्यते ॥ 2.91.2 ॥ | 2.91.2bपाद्यमर्घ्यं तथातिथ्यं वने यदुपपद्यते ॥ 2.91.2 ॥ | 2.91.2bपाद्यमर्घ्यं तथातिथ्यं वने यदुपपद्यते ॥ २।९१।२ ॥ | 2.91.2bपाद्यमर्घ्यं तथाऽतिथ्यं वने यदुपपद्यते॥2.91.2॥ |
| 5 | #3aಅಥೋವಾಚ ಭರದ್ವಾಜೋ ಭರತಂ ಪ್ರಹಸನ್ನಿವ । | 2.91.3aअथोवाच भरद्वाजो भरतं प्रहसन्निव । | 2.85.3aअथोवाच भरद्वाजो भरतं प्रहसन्निव । | 2.91.3aअथोवाच भरद्वाजो भरतं प्रहसन्निव । | 2.91.3aअथोवाच भरद्वाजो भरतं प्रहसन्निव। | 2.91.3aअथोवाच भरद्वाजो भरतं प्रहसन्निव । | 2.91.3aअथोवाच भरद्वाजो भरतं प्रहसन्निव। |
| 6 | #3bಜಾನೇ ತ್ವಾಂ ಪ್ರೀತಿಸಂಯುಕ್ತಂ ತುಷ್ಯೇಸ್ತ್ವಂ ಯೇನಕೇನಚಿತ್ ॥ | 2.91.3bजाने त्वां प्रीतिसंयुक्तं तुष्येस्त्वं येन केनचित् ॥ ३ ॥ | 2.85.3bजाने त्वां प्रीति संयुक्तं तुष्येस्त्वं येन केनचित् ॥2.85.3॥ | 2.91.3bजाने त्वां प्रीतिसंयुक्तं तुष्येस्त्वं येन केनचित् ॥ 2.91.3 ॥ | 2.91.3bजाने त्वां प्रीतिसंयुक्तं तुष्येस्त्वं येन केनचित् ॥ 2.91.3 ॥ | 2.91.3bजाने त्वां प्रीतिसंयुक्तं तुष्येस्त्वं येन केनचित् ॥ २।९१।३ ॥ | 2.91.3bजाने त्वां प्रीतिसंयुक्तं तुष्येस्त्वं येन केनचित्॥2.91.3॥ |
| 7 | #4aಸೇನಾಯಾಸ್ತು ತವೈವಾಸ್ಯಾಃಕರ್ತುಮಿಚ್ಛಾಮಿ ಭೋಜನಮ್ । | 2.91.4aसेनायास्तु तवैवास्याः कर्तुमिच्छामि भोजनम् । | 2.85.4aसेनायास्तु तवैतस्याः कर्तुमिच्छामि भोजनम् । | 2.91.4aसेनायास्तु तवैतस्याः कर्तुमिच्छामि भोजनम् । | 2.91.4aसेनायास्तु तवैतस्याः कर्तुमिच्छामि भोजनम्। | 2.91.4aसेनायास्तु तवैतस्याः कर्तुमिच्छामि भोजनम् । | 2.91.4aसेनायास्तु तवैतस्याः कर्तुमिच्छामि भोजनम्। |
| 8 | #4bಮಮ ಪ್ರೀತಿರ್ಯಥಾರೂಪಾ ತ್ವಮರ್ಹೋ ಮನುಜರ್ಷಭ ॥ | 2.91.4bमम प्रीतिर्यथारूपा त्वमर्हो मनुजर्षभ ॥ ४ ॥ | 2.85.4bमम प्रितिर्यथा रूपा त्वमर्हो मनुजर्षभ ॥2.85.4॥ | 2.91.4bमम प्रीतिर्यथारूपा त्वमर्हो मनुजाधिप ॥ 2.91.4 ॥ | 2.91.4bमम प्रीतिर्यथारूपा त्वमर्हो मनुजाधिप ॥ 2.91.4 ॥ | 2.91.4bमम प्रीतिर्यथारूपा त्वमर्हो मनुजाधिप ॥ २।९१।४ ॥ | 2.91.4bमम प्रीतिर्यथारूपा तथार्हो मनुजर्षभ॥2.91.4॥ |
| 9 | #5aಕಿಮರ್ಥಂ ಚಾಪಿ ನಿಕ್ಷಿಪ್ಯ ದೂರೇ ಬಲಮಿಹಾಗತಃ । | 2.91.5aकिमर्थं चापि निक्षिप्य दूरे बलमिहागतः । | 2.85.5aकिमर्थं चापि निक्षिप्य दूरे बलमिहागतः । | 2.91.5aकिमर्थं चापि निक्षिप्य दूरे बलमिहागतः । | 2.91.5aकिमर्थं चापि निक्षिप्य दूरे बलमिहागतः। | 2.91.5aकिमर्थं चापि निक्षिप्य दूरे बलमिहागतः । | 2.91.5aकिमर्थं चापि निक्षिप्य दूरे बलमिहागतः। |
| 10 | #5bಕಸ್ಮಾನ್ನೇಹೋಪಯಾತೋಽಸಿ ಸಬಲಃಪುರುಷರ್ಷಭ ॥ | 2.91.5bकस्मान्नेहोपयातोऽसि सबलः पुरुषर्षभ ॥ ५ ॥ | 2.85.5bकस्मान्नेहोपयातोऽसि सबलः पुरुषर्षभ ॥2.85.5॥ | 2.91.5bकस्मान्नेहोपयातोसि सबलः पुरुषर्षभ ॥ 2.91.5 ॥ | 2.91.5bकस्मान्नेहोपयातोसि सबलः पुरुषर्षभ ॥ 2.91.5 ॥ | 2.91.5bकस्मान्नेहोपयातोसि सबलः पुरुषर्षभ ॥ २।९१।५ ॥ | 2.91.5bकस्मान्नेहोपयातोऽसि सबलः पुरुषर्षभः॥2.91.5॥ |
| 11 | #6aಭರತಃ ಪ್ರತ್ಯುವಾಚೇದಂ ಪ್ರಾಂಜಲಿಸ್ತಂ ತಪೋಧನಮ್ । | 2.91.6aभरतः प्रत्युवाचेदं प्राञ्जलिस्तं तपोधनम् । | 2.85.6aभरतः प्रत्युवाचेदं प्राञ्जलिस्तं तपोधनम् । | 2.91.6aभरतः प्रत्युवाचेदं प्राञ्जलिस्तं तपोधनम् । | 2.91.6aभरतः प्रत्युवाचेदं प्राञ्जलिस्तं तपोधनम्। | 2.91.6aभरतः प्रत्युवाचेदं प्राञ्जलिस्तं तपोधनम् । | 2.91.6aभरतः प्रत्युवाचेदं प्राञ्जलिस्तं तपोधनम्। |
| 12 | #6bನ ಸೈನ್ಯೇನೋಪಯಾತೋಽಸ್ಮಿ ಭಗವನ್ಭಗವದ್ಭಯಾತ್ ॥ | 2.91.6bन सैन्येनोपयातोऽस्मि भगवन् भगवद्भयात् ॥ ६ ॥ | 2.85.6bससैन्यो नोपयातोऽस्मि भगवन्भगवद्भयात् ॥2.85.6॥ | 2.91.6bससैन्यो नोपयातो ऽस्मि भगवन् भगवद्भयात् ॥ 2.91.6 ॥ | 2.91.6bससैन्यो नोपयातोऽस्मि भगवन् भगवद्भयात् ॥ 2.91.6 ॥ | 2.91.6bससैन्यो नोपयातो ऽस्मि भगवन् भगवद्भयात् ॥ २।९१।६ ॥ | 2.91.6bससैन्यो नोपयातोऽस्मि भगवन्भगवद्भयात्॥2.91.6॥ |
| 13 | #7aರಾಜ್ಞಾ ಹಿ ಭಗವನ್ನಿತ್ಯಂ ರಾಜಪುತ್ರೇಣ ವಾ ತಥಾ । | 2.91.7aराज्ञा हि भगवन् नित्यं राजपुत्रेण वा तथा । | 2.91.7aराज्ञा च भगवन् नित्यं राजपुत्रेण वा सदा । | 2.91.7aराज्ञा च भगवन् नित्यं राजपुत्रेण वा सदा। | 2.91.7aराज्ञा च भगवन् नित्यं राजपुत्रेण वा सदा । | 2.91.7aराज्ञा च भगवन्नित्यं राजपुत्रेण वा सदा। | |
| 14 | #7bಯತ್ನತಃ ಪರಿಹರ್ತವ್ಯಾ ವಿಷಯೇಷು ತಪಸ್ವಿನಃ ॥ | 2.91.7bयत्नतः परिहर्तव्या विषयेषु तपस्विनः ॥ ७ ॥ | 2.91.7bयत्नतः परिहर्त्तव्या विषयेषु तपस्विनः ॥ 2.91.7 ॥ | 2.91.7bयत्नतः परिहर्त्तव्या विषयेषु तपस्विनः ॥ 2.91.7 ॥ | 2.91.7bयत्नतः परिहर्त्तव्या विषयेषु तपस्विनः ॥ २।९१।७ ॥ | 2.91.7bयत्नतः परिहर्तव्या विषयेषु तपस्विनः॥2.91.7॥ | |
| 15 | #8aವಾಜಿಮುಖ್ಯಾ ಮನುಷ್ಯಾಶ್ಚ ಮತ್ತಾಶ್ಚ ವರವಾರಣಾಃ । | 2.91.8aवाजिमुख्या मनुष्याश्च मत्ताश्च वरवारणाः । | 2.85.7aवाजि मुख्या मनुष्याश्च मत्ताश्च वर वारणाः । | 2.91.8aवाजिमुख्या मनुष्याश्च मत्ताश्च वरवारणाः । | 2.91.8aवाजिमुख्या मनुष्याश्च मत्ताश्च वरवारणाः। | 2.91.8aवाजिमुख्या मनुष्याश्च मत्ताश्च वरवारणाः । | 2.91.8aवाजिमुख्या मनुष्याश्च मत्ताश्च वरवारणाः। |
| 16 | #8bಪ್ರಚ್ಛಾದ್ಯ ಭಗವನ್ ಭೂಮಿಂ ಮಹತೀಮನುಯಾಂತಿಮಾಮ್ ॥ | 2.91.8bप्रच्छाद्य भगवन् भूमिं महतीमनुयान्ति माम् ॥ ८ ॥ | 2.85.7bप्रच्छाद्य महतीं भूमिं भगवन्ननुयान्ति माम् ॥2.85.7॥ | 2.91.8bप्रच्छाद्य भगवन् भूमिं महतीमनुयान्ति माम् ॥ 2.91.8 ॥ | 2.91.8bप्रच्छाद्य भगवन् भूमिं महतीमनुयान्ति माम् ॥ 2.91.8 ॥ | 2.91.8bप्रच्छाद्य भगवन् भूमिं महतीमनुयान्ति माम् ॥ २।९१।८ ॥ | 2.91.8bप्रच्छाद्य भगवन्भूमिं महतीमनुयान्ति माम्॥2.91.8॥ |
| 17 | #9aತೇ ವೃಕ್ಷಾನುದಕಂ ಭೂಮಿಮಾಶ್ರಮೇಷೂಟಜಾಂಸ್ತಥಾ । | 2.91.9aते वृक्षानुदकं भूमिमाश्रमेषूटजांस्तथा । | 2.85.8aते वृक्षानुदकं भूमिमाश्रमेषूटजांस्तथा । | 2.91.9aते वृक्षानुदकं भूमिमाश्रमेषूटजांस्तथा । | 2.91.9aते वृक्षानुदकं भूमिमाश्रमेषूटजांस्तथा। | 2.91.9aते वृक्षानुदकं भूमिमाश्रमेषूटजांस्तथा । | 2.91.9aते वृक्षानुदकं भूमिमाश्रमेषूटजां स्तथा। |
| 18 | #9bನ ಹಿಂಸ್ಯುರಿತಿ ತೇವಾಹಮೇಕ ಏವಾಗತಸ್ತತಃ ॥ | 2.91.9bन हिंस्युरिति तेनाहमेक एवागतस्ततः ॥ ९ ॥ | 2.85.8bन हिंस्युरिति तेनाहमेक एवागतस्ततः ॥2.85.8॥ | 2.91.9bन हिंस्युरिति तेनाहमेक एव समागतः ॥ 2.91.9 ॥ | 2.91.9bन हिंस्युरिति तेनाहमेक एव समागतः ॥ 2.91.9 ॥ | 2.91.9bन हिंस्युरिति तेनाहमेक एव समागतः ॥ २।९१।९ ॥ | 2.91.9bन हिंस्युरिति तेनाऽहमेक एव समागतः॥2.91.9॥ |
| 19 | 2.91.89aकोपनिमित्तमाह–वाजिमुख्या इत्यादिना । | 2.91.89aकोपनिमित्तमाह--वाजिमुख्या इत्यादिना । | |||||
| 20 | 2.91.89bउटजान् पर्णशालाः ॥ 2.91.89 ॥ | 2.91.89bउटजान् पर्णशालाः ॥ २।९१।८९ ॥ | |||||
| 21 | #10aಆನೀಯತಾಮಿತಃ ಸೇನೇತ್ಯಾಜ್ಞಪ್ತಃ ಪರಮರ್ಷಿಣಾ । | 2.91.10aआनीयतामितः सेनेत्याज्ञप्तः परमर्षिणा । | 2.85.9aआनीयतामितः सेनेत्याज्ञप्तः परमर्षिणा । | 2.91.10aआनीयतामितः सेनेत्याज्ञप्तः परमर्षिणा । | 2.91.10aआनीयतामितः सेनेत्याज्ञप्तः परमर्षिणा। | 2.91.10aआनीयतामितः सेनेत्याज्ञप्तः परमर्षिणा । | 2.91.10aआनीयतामितस्सेनेत्याज्ञप्तः परमर्षिणा। |
| 22 | #10bತಥಾನುಚಕ್ರೇ ಭರತಃ ಸೇನಾಯಾಃ ಸಮುಪಾಗಮಮ್ ॥ | 2.91.10bतथानुचक्रे भरतः सेनायाः समुपागमम् ॥ १० ॥ | 2.85.9bतथा तु चक्रे भरतः सेनायाः समुपागमम् ॥2.85.9॥ | 2.91.10bततस्तु चक्रे भरतः सेनायाः समुपागमम् ॥ 2.91.10 ॥ | 2.91.10bततस्तु चक्रे भरतः सेनायाः समुपागमम् ॥ 2.91.10 ॥ | 2.91.10bततस्तु चक्रे भरतः सेनायाः समुपागमम् ॥ २।९१।१० ॥ | 2.91.10bततस्तु चक्रे भरतस्सेनायास्समुपागमम्॥2.91.10॥ |
| 23 | #11aಅಗ್ನಿಶಾಲಾಂ ಪ್ರವಿಶ್ಯಾಥ ಪೀತ್ವಾಪಃ ಪರಿಮೃಜ್ಯ ಚ । | 2.91.11aअग्निशालां प्रविश्याथ पीत्वापः परिमृज्य च । | 2.85.10aअग्निशालां प्रविश्याथ पीत्वापः परिमृज्य च । | 2.91.11aअग्निशालां प्रविश्याथ पीत्वापः परिमृज्य च । | 2.91.11aअग्निशालां प्रविश्याथ पीत्वापः परिमृज्य च। | 2.91.11aअग्निशालां प्रविश्याथ पीत्वापः परिमृज्य च । | 2.91.11aअग्निशालां प्रविश्याथ पीत्वाऽपः परिमृज्य च। |
| 24 | #11bಆತಿಥ್ಯಸ್ಯ ಕ್ರಿಯಾಹೇತೋರ್ವಿಶ್ವಕರ್ಮಾಣಮಾಹ್ವಯತ್ ॥ | 2.91.11bआतिथ्यस्य क्रियाहेतोर्विश्वकर्माणमाह्वयत् ॥ ११ ॥ | 2.85.10bआतिथ्यस्य क्रियाहेतोर्विश्वकर्माणमाह्वयत् ॥2.85.10॥ | 2.91.11bआतिथ्यस्य क्रियाहेतोर्विश्वकर्माणमाह्वयत् ॥ 2.91.11 ॥ | 2.91.11bआतिथ्यस्य क्रियाहेतोर्विश्वकर्माणमाह्वयत् ॥ 2.91.11 ॥ | 2.91.11bआतिथ्यस्य क्रियाहेतोर्विश्वकर्माणमाह्वयत् ॥ २।९१।११ ॥ | 2.91.11bआतिथ्यस्य क्रियाहेतोर्विश्वकर्माणमाह्वयत्॥2.91.11॥ |
| 25 | #12aಆಹ್ವಯೇ ವಿಶ್ವಕರ್ಮಾಣಮಹಂ ತ್ವಷ್ಟಾರಮೇವ ಚ । | 2.91.12aआह्वये विश्वकर्माणमहं त्वष्टारमेव च । | 2.85.11aआह्वये विश्वकर्माणमहं त्वष्टारमेव च । | 2.91.12aआह्वये विश्वकर्माणमहं त्वष्टारमेव च । | 2.91.12aआह्वये विश्वकर्माणमहं त्वष्टारमेव च । | 2.91.12aआह्वये विश्वकर्माणमहं त्वष्टारमेव च। | |
| 26 | #12bಆತಿಥ್ಯಂ ಕರ್ತುಮಿಚ್ಛಾಮಿ ತತ್ರ ಮೇ ಸಂವಿಧೀಯತಾಮ್ ॥ | 2.91.12bआतिथ्यं कर्तुमिच्छामि तत्र मे संविधीयताम् ॥ १२ ॥ | 2.91.12bआतिथ्यं कर्तुमिच्छामि तत्र मे संविधीयताम् ॥ 2.91.12 ॥ | 2.91.12aआतिथ्यं कर्तुमिच्छामि तत्र मे संविधीयताम्। | 2.91.12bआतिथ्यं कर्तुमिच्छामि तत्र मे संविधीयताम् ॥ २।९१।१२ ॥ | 2.91.12bआतिथ्यं कर्तुमिच्छामि तत्र मे संविधीयताम्॥2.91.12॥ | |
| 27 | 2.91.12bआह्वानमन्त्रमाह--आह्वय इत्यादिना। | ||||||
| 28 | 2.91.12cआह्वय इत्यात्मनेपदमार्षम्। | ||||||
| 29 | 2.91.12dविश्वकर्मा सर्वशिल्पकर्ता। | ||||||
| 30 | 2.91.12eत्वष्टा तु तक्षणेन गृहादिनिर्माता। | ||||||
| 31 | 2.91.12fयद्वा त्वष्टारमेव चेत्यवधारणेनासुरविश्वकर्म्मा मयो व्यावर्त्यते। | ||||||
| 32 | 2.91.12gतत्रातिथ्यनिमित्तं संविधीयतां गृहादिसंविधानं क्रियताम् ॥ 2.91.12 ॥ | ||||||
| 33 | #13aಆಹ್ವಯೇ ಲೋಕಪಾಲಾಂಸ್ತ್ರೀನ್ ದೇವಾನ್ ಶಕ್ರಪುರೋಗಮಾನ್ । | 2.91.13aआह्वये लोकपालांस्त्रीन् देवान् शक्रपुरोगमान् । | 2.91.13aआह्वये लोकपालांस्त्रीन् देवान् शक्रमुखांस्तथा । | 2.91.13aआह्वये लोकपालांस्त्रीन् देवान् शक्रमुखांस्तथा। | 2.91.13aआह्वये लोकपालांस्त्रीन् देवान् शक्रमुखांस्तथा । | 2.91.13aआह्वये लोकपालांस्त्रीन् देवान् शक्रमुखांस्तथा। | |
| 34 | #13bಆತಿಥ್ಯಂ ಕರ್ತುಮಿಚ್ಛಾಮಿ ತತ್ರ ಮೇ ಸಂವಿಧೀಯತಾಮ್ ॥ | 2.91.13bआतिथ्यं कर्तुमिच्छामि तत्र मे संविधीयताम् ॥ १३ ॥ | 2.85.11bआतिथ्यं कर्तुमिच्छामि तत्र मे संविधीयताम् ॥2.85.11॥ | 2.91.13bआतिथ्यं कर्तुमिच्छामि तत्र मे संविधीयताम् ॥ 2.91.13 ॥ | 2.91.13bआतिथ्यं कर्तुमिच्छामि तत्र मे संविधीयताम् ॥ 2.91.13 ॥ | 2.91.13bआतिथ्यं कर्तुमिच्छामि तत्र मे संविधीयताम् ॥ २।९१।१३ ॥ | 2.91.13bआतिथ्यं कर्तुमिच्छामि तत्र मे संविधीयताम्॥2.91.13॥ |
| 35 | #14aಪ್ರಾಕ್ಸ್ರೋತಸಶ್ಚ ಯಾ ನದ್ಯಸ್ತಿರ್ಯಕ್ ಸ್ರೋತಸ ಏವಚ । | 2.91.14aप्राक्स्रोतसश्च या नद्यस्तिर्यक्स्रोतस एव च । | 2.85.12aप्राक्स्रोतसश्च या नद्यः प्रत्यक्स्रोतस एव च । | 2.91.14aप्राक्स्रोतसश्च या नद्यः प्रत्यक्स्रोतस एव च । | 2.91.14aप्राक्स्रोतसश्च या नद्यः प्रत्यक्स्रोतस एव च। | 2.91.14aप्राक्स्रोतसश्च या नद्यः प्रत्यक्स्रोतस एव च । | 2.91.14aप्राक्स्रोतसश्च या नद्यः प्रत्यक्स्रोतस एव च। |
| 36 | #14bಪೃಥಿವ್ಯಾಮಂತರಿಕ್ಷೇ ಚ ಸಮಾಯಾಂತ್ವದ್ಯ ಸರ್ವಶಃ ॥ | 2.91.14bपृथिव्यामन्तरिक्षे च समायान्त्वद्य सर्वशः ॥ १४ ॥ | 2.85.12bपृथिव्यामन्तरिक्षे च समायान्त्वद्य सर्वशः ॥2.85.12॥ | 2.91.14bपृथिव्यामन्तरिक्षे च समायान्त्वद्य सर्वशः ॥ 2.91.14 ॥ | 2.91.14bपृथिव्यामन्तरिक्षे च समायान्त्वद्य सर्वशः ॥ 2.91.14 ॥ | 2.91.14bपृथिव्यामन्तरिक्षे च समायान्त्वद्य सर्वशः ॥ २।९१।१४ ॥ | 2.91.14bपृथिव्यामन्तरिक्षे च समायान्त्वद्य सर्वशः॥2.91.14॥ |
| 37 | #15aಅನ್ಯಾಃ ಸ್ರವಂತು ಮೈರೇಯಂ ಸುರಾಮನ್ಯಾಃ ಸುನಿಷ್ಠಿತಾಮ್ । | 2.91.15aअन्याः स्रवन्तु मैरेयं सुरामन्याः सुनिष्ठिताम् । | 2.85.13aअन्याः स्रवन्तु मैरेयं सुरामन्याः सुनिष्ठिताम् । | 2.91.15aअन्याः स्रवन्तु मैरेयं सुरामन्याः सुनिष्ठिताम् । | 2.91.15aअन्याः स्रवन्तु मैरेयं सुरामन्याः सुनिष्ठिताम्। | 2.91.15aअन्याः स्रवन्तु मैरेयं सुरामन्याः सुनिष्ठिताम् । | 2.91.15aअन्या स्रवन्तु मैरेयं सुरामन्यास्सुविष्ठिताम्। |
| 38 | #15bಅಪರಾಶ್ಚೋದಕಂ ಶೀತಮಿಕ್ಷುಕಾಂಡರಸೋಪಮಮ್ ॥ | 2.91.15bअपराश्चोदकं शीतमिक्षुकाण्डरसोपमम् ॥ १५ ॥ | 2.85.13bअपराश्चोदकं शीतमिक्षुकाण्डरसोपमम् ॥2.85.13॥ | 2.91.15bअपराश्चोदकं शीतमिक्षुकाण्डरसोपमम् ॥ 2.91.15 ॥ | 2.91.15bअपराश्चोदकं शीतमिक्षुकाण्डरसोपमम् ॥ 2.91.15 ॥ | 2.91.15bअपराश्चोदकं शीतमिक्षुकाण्डरसोपमम् ॥ २।९१।१५ ॥ | 2.91.15bअपरा श्चोदकं शीतमिक्षुकाण्डरसोपमम्॥2.91.15॥ |
| 39 | #16aಆಹ್ವಯೇ ದೇವಗಂಧರ್ವಾನ್ ವಿಶ್ವಾವಸುಹಹಾಹುಹೂನ್ । | 2.91.16aआह्वये देवगन्धर्वान् विश्वावसुहहाहुहून् । | 2.85.14aआह्वये देवगन्धर्वान्विश्वावसुहहाहुहून् । | 2.91.16aआह्वये देवगन्धर्वान् विश्वावसुहहाहुहून् । | 2.91.16aआह्वये देवगन्धर्वान् विश्वावसुहहाहुहून्। | 2.91.16aआह्वये देवगन्धर्वान् विश्वावसुहहाहुहून् । | 2.91.16aआह्वये देवगन्धर्वान्विश्वावसुहहाहुहून्। |
| 40 | #16bತಥೈವಾಪ್ಸರಸೋ ದೇವಗಂಧರ್ವೈಶ್ಚಾಪಿ ಸರ್ವಶಃ ॥ | 2.91.16bतथैवाप्सरसो देवगन्धर्वैश्चापि सर्वशः ॥ १६ ॥ | 2.85.14bतथैवाप्सरसो देवीर्गन्धर्वीश्चापि सर्वशः ॥2.85.14॥ | 2.91.16bतथैवाप्सरसो देवीर्गन्धर्व्वीश्चापि सर्वशः ॥ 2.91.16 ॥ | 2.91.16bतथैवाप्सरसो देवीर्गन्धर्व्वीश्चापि सर्वशः ॥ 2.91.16 ॥ | 2.91.16bतथैवाप्सरसो देवीर्गन्धर्व्वीश्चापि सर्वशः ॥ २।९१।१६ ॥ | 2.91.16bतथैवाप्सरसो देवीर्गन्धर्वीश्चापि सर्वशः॥2.91.16॥ |
| 41 | #17aಘೃತಾಚೀಮಥ ವಿಶ್ವಾಚೀಂಮಿಶ್ರಕೇಶೀಮಲಂಬುಷಾಮ್ । | 2.91.17aघृताचीमथ विश्वाचीं मिश्रकेशीमलम्बुषाम् । | 2.85.15aघृताचीमथ विश्वाचीं मिश्रकेशीमलम्बुसाम् । | 2.91.17aघृताचीमथ विश्वाचीं मिश्रकेशीमलम्बुसाम् । | 2.91.17aघृताचीमथ विश्वाचीं मिश्रकेशीमलम्बुसाम्। | 2.91.17aघृताचीमथ विश्वाचीं मिश्रकेशीमलम्बुसाम् । | 2.91.17aघृताचीमथ विश्वाचीं मिश्रकेशीमलंबुसाम्। |
| 42 | #17bನಾಗದತ್ತಾಂ ಚ ಹೇಮಾಂ ಚ ಸೋಮಾಮದ್ರಿಕೃತಸ್ಥಲೀಮ್ ॥ | 2.91.17bनागदत्तां च हेमां च सोमामद्रिकृतस्थलीम् ॥ १७ ॥ | 2.91.17bनागदन्तां च हेमां च हिमामद्रिकृतस्थलाम् ॥ 2.91.17 ॥ | 2.91.17bनागदन्तां च हेमां च हिमामद्रिकृतस्थलाम् ॥ 2.91.17 ॥ | 2.91.17bनागदन्तां च हेमां च हिमामद्रिकृतस्थलाम् ॥ २।९१।१७ ॥ | 2.91.17bनागदन्तां च हेमां च हिमामद्रिकृतस्थलाम्॥2.91.17॥ | |
| 43 | #18aಶಕ್ರಂ ಯಶ್ಚೋಪತಿಷ್ಠಂತಿ ಬ್ರಹ್ಮಾಣಂ ಯಾಶ್ಚ ಭಾಮಿನೀಃ । | 2.91.18aशक्रं याश्चोपतिष्ठन्ति ब्रह्माणं याश्च भामिनीः । | 2.85.15bशक्रं याश्चोपतिष्ठन्ति ब्रह्माणं याश्च भामिनीः । | 2.91.18aशक्रं याश्चोपतिष्ठन्ति ब्रह्माणं याश्च योषितः । | 2.91.18aशक्रं याश्चोपतिष्ठन्ति ब्रह्माणं याश्च योषितः। | 2.91.18aशक्रं याश्चोपतिष्ठन्ति ब्रह्माणं याश्च योषितः । | 2.91.18aशक्रं याश्चोपतिष्ठन्ति ब्रह्माणं याश्च योषितः। |
| 44 | #18bಸರ್ವಾಸ್ತುಂಬುರುಣಾ ಸಾರ್ಧಮಾಹ್ವಯೇ ಸಪರಿಚ್ಛದಾಃ ॥ | 2.91.18bसर्वास्तुम्बुरुणा सार्धमाह्वये सपरिच्छदाः ॥ १८ ॥ | 2.85.15cसर्वास्तुम्बुरुणा सार्धमाह्वये सपरिच्छदाः ॥2.85.15॥ | 2.91.18bसर्वास्तुम्बुरुणा सार्द्धमाह्वये सपरिच्छदाः ॥ 2.91.18 ॥ | 2.91.18bसर्वास्तुम्बुरुणा सार्द्धमाह्वये सपरिच्छदाः ॥ 2.91.18 ॥ | 2.91.18bसर्वास्तुम्बुरुणा सार्द्धमाह्वये सपरिच्छदाः ॥ २।९१।१८ ॥ | 2.91.18bसर्वास्तुम्बुरुणा सार्धमाह्वये सपरिच्छदाः॥2.91.18॥ |
| 45 | #19aವನಂ ಕರುಷು ಯದ್ದಿವ್ಯಂ ವಾಸೋಭೂಷಣಪತ್ರವತ್ । | 2.91.19aवनं कुरुषु यद् दिव्यं वासोभूषणपत्रवत् । | 2.85.16aवनं कुरुषु यद्दिव्यं वासो भूषणपत्रवत् । | 2.91.19aवनं कुरुषु यद्दिव्यं वासोभूषणपत्त्रवत् । | 2.91.19aवनं कुरुषु यद्दिव्यं वासोभूषणपत्त्रवत्। | 2.91.19aवनं कुरुषु यद्दिव्यं वासोभूषणपत्त्रवत् । | 2.91.19aवनं कुरुषु यद्दिव्यं वासोभूषणपत्रवत्। |
| 46 | #19bದಿವ್ಯನಾರೀಲಂ ಶಶ್ವತ್ ತತ್ಕೌಬೇರಮಿಹೈವ ತು ॥ | 2.91.19bदिव्यनारीफलं शश्वत् तत्कौबेरमिहैव तु ॥ १९ ॥ | 2.85.16bदिव्यनारीफलं शश्वत्तत्कौबेरमिहैव तु ॥2.85.16॥ | 2.91.19bदिव्यनारीफलं शश्वत्तत्कौबेरमिहैतु च ॥ 2.91.19 ॥ | 2.91.19bदिव्यनारीफलं शश्वत्तत्कौबेरमिहैतु च ॥ 2.91.19 ॥ | 2.91.19bदिव्यनारीफलं शश्वत्तत्कौबेरमिहैतु च ॥ २।९१।१९ ॥ | 2.91.19bदिव्यनारीफलं शश्वत्तत्कौबेरमिहैतु च॥2.91.19॥ |
| 47 | #20aಇಹ ಮೇ ಭಗವಾನ್ಸೋಮೋ ವಿಧತ್ತಾಮನ್ನಮುತ್ತಮಮ್ । | 2.91.20aइह मे भगवान् सोमो विधत्तामन्नमुत्तमम् । | 2.85.17aइह मे भगवान्सोमो विधत्तामन्नमुत्तमम् । | 2.91.20aइह मे भगवान् सोमो विधत्तामन्नमुत्तमम् । | 2.91.20aइह मे भगवान् सोमो विधत्तामन्नमुत्तमम्। | 2.91.20aइह मे भगवान् सोमो विधत्तामन्नमुत्तमम् । | 2.91.20aइह मे भगवान् सोमो विधत्तामन्नमुत्तमम्। |
| 48 | #20bಭಕ್ಷ್ಯಂ ಭೋಜ್ಯಂ ಚ ಚೋಷ್ಯಂ ಚ ಲೇಹ್ಯಂ ಚ ವಿವಿಧಂ ಬಹು ॥ | 2.91.20bभक्ष्यं भोज्यं च चोष्यं च लेह्यं च विविधं बहु ॥ २० ॥ | 2.85.17bभक्ष्यं भोज्यं च चोष्यं च लेह्यं च विविधं बहु ॥2.85.17॥ | 2.91.20bभक्ष्यं भोज्यं च चोष्यं च लेह्यं च विविधं बहु ॥ 2.91.20 ॥ | 2.91.20bभक्ष्यं भोज्यं च चोष्यं च लेह्यं च विविधं बहु ॥ 2.91.20 ॥ | 2.91.20bभक्ष्यं भोज्यं च चोष्यं च लेह्यं च विविधं बहु ॥ २।९१।२० ॥ | 2.91.20bभक्ष्यंभोज्यं च चोष्यं च लेह्यं च विविधं बहु॥2.91.20॥ |
| 49 | #21aವಿಚಿತ್ರಾಣಿ ಚ ಮಾಲ್ಯಾನಿ ಪಾದಪಪ್ರಚ್ಯುತಾನಿ ಚ । | 2.91.21aविचित्राणि च माल्यानि पादपप्रच्युतानि च । | 2.85.18aविचित्राणि च माल्यानि पादपप्रच्युतानि च । | 2.91.21aविचित्राणि च माल्यानि पादपप्रच्युतानि च । | 2.91.21aविचित्राणि च माल्यानि पादपप्रच्युतानि च। | 2.91.21aविचित्राणि च माल्यानि पादपप्रच्युतानि च । | 2.91.21aविचित्राणि च माल्यानि पादपप्रच्युतानि च। |
| 50 | #21bಸುರಾದೀನಿ ಚ ಪೇಯಾನಿ ಮಾಂಸಾನಿ ವಿವಿಧಾನಿ ಚ ॥ | 2.91.21bसुरादीनि च पेयानि मांसानि विविधानि च ॥ २१ ॥ | 2.85.18bसुरादीनि च पेयानि मांसानि विविधानि च ॥2.85.18॥ | 2.91.21bसुरादीनि च पेयानि मांसानि विविधानि च ॥ 2.91.21 ॥ | 2.91.21bसुरादीनि च पेयानि मांसानि विविधानि च ॥ 2.91.21 ॥ | 2.91.21bसुरादीनि च पेयानि मांसानि विविधानि च ॥ २।९१।२१ ॥ | 2.91.21bसुरादीनि च पेयानि मांसानि विविधानि च॥2.91.21॥ |
| 51 | #22aಏವಂ ಸಮಾಧಿನಾ ಯುಕ್ತಸ್ತೇಜಸಾಪ್ರತಿಮೇನ ಚ । | 2.91.22aएवं समाधिना युक्तस्तेजसाप्रतिमेन च । | 2.85.19aएवं समाधिना युक्तस्तेजसाप्रतिमेन च । | 2.91.22aएवं समाधिना युक्तस्तेजसा ऽप्रतिमेन च । | 2.91.22aएवं समाधिना युक्तस्तेजसाऽप्रतिमेन च। | 2.91.22aएवं समाधिना युक्तस्तेजसा ऽप्रतिमेन च । | 2.91.22aएवं समाधिना युक्तस्तेजसाऽप्रतिमेन च। |
| 52 | #22bಶಿಕ್ಷಾಸ್ವರಸಮಾಯುಕ್ತಂ ಸುವ್ರತಶ್ಚಾಬ್ರವೀನ್ಮುನಿಃ ॥ | 2.91.22bशिक्षास्वरसमायुक्तं सुव्रतश्चाब्रवीन्मुनिः ॥ २२ ॥ | 2.85.19bशिक्षास्वरसमायुक्तं तपसा चाब्रवीन्मुनिः ॥2.85.19॥ | 2.91.22bशीक्षास्वरसमायुक्तं तपसा चाब्रवीन्मुनिः ॥ 2.91.22 ॥ | 2.91.22bशीक्षास्वरसमायुक्तं तपसा चाब्रवीन्मुनिः ॥ 2.91.22 ॥ | 2.91.22bशीक्षास्वरसमायुक्तं तपसा चाब्रवीन्मुनिः ॥ २।९१।२२ ॥ | 2.91.22bशीक्षास्वरसमायुक्तं तपसा चाब्रवीन्मुनिः॥2.91.22॥ |
| 53 | #23aಮನಸಾ ಧ್ಯಾಯತಸ್ತಸ್ಯ ಪ್ರಾಙ್ಮುಖಸ್ಯ ಕೃತಾಂಜಲೇಃ । | 2.91.23aमनसा ध्यायतस्तस्य प्राङ्मुखस्य कृताञ्जलेः । | 2.85.20aमनसा ध्यायतस्तस्य प्राङ्मुखस्य कृताञ्जलेः । | 2.91.23aमनसा ध्यायतस्तस्य प्राङ्मुखस्य कृताञ्जलेः । | 2.91.23aमनसा ध्यायतस्तस्य प्राङ्मुखस्य कृताञ्जलेः। | 2.91.23aमनसा ध्यायतस्तस्य प्राङ्मुखस्य कृताञ्जलेः । | 2.91.23aमनसा ध्यायतस्तस्य प्राङ्मुखस्य कृताञ्जलेः। |
| 54 | #23bಆಜಗ್ಮುಸ್ತಾನಿ ಸರ್ವಾಣಿ ದೈವತಾನಿ ಪೃತಕ್ಪೃಥಕ್ ॥ | 2.91.23bआजग्मुस्तानि सर्वाणि दैवतानि पृथक् पृथक् ॥ २३ ॥ | 2.85.20bआजग्मुस्तानि सर्वाणि दैवतानि पृथक्पृथक् ॥2.85.20॥ | 2.91.23bआजग्मुस्तानि सर्वाणि दैवतानि पृथक्पृथक् ॥ 2.91.23 ॥ | 2.91.23bआजग्मुस्तानि सर्वाणि दैवतानि पृथक्पृथक् ॥ 2.91.23 ॥ | 2.91.23bआजग्मुस्तानि सर्वाणि दैवतानि पृथक्पृथक् ॥ २।९१।२३ ॥ | 2.91.23bआजग्मुस्तानि सर्वाणि दैवतानि पृथक्पृथक्॥2.91.23॥ |
| 55 | #24aಮಲಯಂ ದುರ್ದರಂ ಚೈವ ತತಃ ಸ್ವೇದನುದೋಽನಿಲಃ । | 2.91.24aमलयं दर्दुरं चैव ततः स्वेदनुदोऽनिलः । | 2.85.21aमलयं दुर्दुरं चैव ततः स्वेदनुदोऽनिलः । | 2.91.24aमलयं दर्दुरं चैव ततः स्वेदनुदो़ ऽनिलः । | 2.91.24aमलयं दर्दुरं चैव ततः स्वेदनुदोऽनिलः। | 2.91.24aमलयं दर्दुरं चैव ततः स्वेदनुदो़ ऽनिलः । | 2.91.24aमलयं दर्दुरं चैव ततस्स्वेदनुदोऽनिलः। |
| 56 | #24bಉಪಸ್ಪೃಶ್ಯ ವವೌ ಯುಕ್ತ್ಯಾ ಸುಪ್ರಿಯಾತ್ಮಾ ಸುಖಃ ಶಿವಃ ॥ | 2.91.24bउपस्पृश्य ववौ युक्त्या सुप्रियात्मा सुखं शिवः ॥ २४ ॥ | 2.85.21bउपस्पृश्य ववौ युक्त्या सुप्रियात्मा सुखः शिवः ॥2.85.21॥ | 2.91.24bउपस्पृश्य ववौ युक्त्या सुप्रियात्मा सुखः शिवः ॥ 2.91.24 ॥ | 2.91.24bउपस्पृश्य ववौ युक्त्या सुप्रियात्मा सुखः शिवः ॥ 2.91.24 ॥ | 2.91.24bउपस्पृश्य ववौ युक्त्या सुप्रियात्मा सुखः शिवः ॥ २।९१।२४ ॥ | 2.91.24bउपस्पृश्य ववौ युक्त्या सुप्रियात्मा सुखश्शिवः॥2.91.24॥ |
| 57 | #25aತತೋಽಭ್ಯವರ್ಷಂತ ಘನಾ ದಿವ್ಯಾಃಕುಸುಮವೃಷ್ಟಯಃ । | 2.91.25aततोऽभ्यवर्षन्त घना दिव्याः कुसुमवृष्टयः । | 2.85.22aततोऽभ्यवर्तन्त घना दिव्याः कुसुमवृष्टयः । | 2.91.25aततोभ्यवर्तन्त घना दिव्याः कुसुमवृष्टयः । | 2.91.25aततोभ्यवर्तन्त घना दिव्याः कुसुमवृष्टयः । | 2.91.25aततोऽभ्यवर्षन्त घना दिव्याः कुसुमवृष्टयः। | |
| 58 | #25bದೇವದುಂದುಭಿಘೋಷಶ್ಚ ದಿಕ್ಷು ಸರ್ವಾಸು ಶುಶ್ರುವೇ ॥ | 2.91.25bदेवदुन्दुभिघोषश्च दिक्षु सर्वासु शुश्रुवे ॥ २५ ॥ | 2.85.22bदेवदुन्दुभिघोषश्च दिक्षु सर्वासु शुश्रुवे ॥2.85.22॥ | 2.91.25bदिव्यदुन्दुभिघोषश्च दिक्षु सर्वासु शुश्रुवे ॥ 2.91.25 ॥ | 2.91.25aदिव्यदुन्दुभिघोषश्च दिक्षु सर्वासु शुश्रुवे। | 2.91.25bदिव्यदुन्दुभिघोषश्च दिक्षु सर्वासु शुश्रुवे ॥ २।९१।२५ ॥ | 2.91.25bदिव्यदुन्दुभिघोषश्च दिक्षु सर्वासु शुश्रुवे॥2.91.25॥ |
| 59 | 2.91.25bपुष्पवृष्टयोऽभ्यवर्त्तन्त, आसन्नित्यर्थः ॥ 2.91.25 ॥ | ||||||
| 60 | #26aಪ್ರವವುಶ್ಚೋತ್ತಮಾ ವಾತಾ ನನೃತುಶ್ಚಾಪ್ಸರೋಗಣಾಃ । | 2.91.26aप्रववुश्चोत्तमा वाता ननृतुश्चाप्सरोगणाः । | 2.85.23aप्रववुश्चोत्तमा वाता ननृतुश्चाप्सरोगणाः । | 2.91.26aप्रववुश्चोत्तमा वाताननृतुश्चाप्सरोगणाः । | 2.91.26aप्रववुश्चोत्तमा वाताननृतुश्चाप्सरोगणाः। | 2.91.26aप्रववुश्चोत्तमा वाताननृतुश्चाप्सरोगणाः । | 2.91.26aप्रववुश्चोत्तमा वाता ननृतुश्चाप्सरोगणाः। |
| 61 | #26bಪ್ರಜಗುರ್ದೇವಗಂಧರ್ವಾ ವೀಣಾಃ ಪ್ರಮುಮುಚುಃಸ್ವರಾನ್ ॥ | 2.91.26bप्रजगुर्देवगन्धर्वा वीणाः प्रमुमुचुः स्वरान् ॥ २६ ॥ | 2.85.23bप्रजगुर्देवगन्धर्वा वीणा प्रमुमुचुः स्वरान् ॥2.85.23॥ | 2.91.26bप्रजगुर्देवगन्धर्वा वीणाः प्रमुमुचुः स्वरान् ॥ 2.91.26 ॥ | 2.91.26bप्रजगुर्देवगन्धर्वा वीणाः प्रमुमुचुः स्वरान् ॥ 2.91.26 ॥ | 2.91.26bप्रजगुर्देवगन्धर्वा वीणाः प्रमुमुचुः स्वरान् ॥ २।९१।२६ ॥ | 2.91.26bजगुश्च देवगन्धर्वा वीणाः प्रमुमुचुस्स्वरान्॥2.91.26॥ |
| 62 | #27aಸ ಶಬ್ದೋ ದ್ಯಾಂ ಚ ಭೂಮಿಂ ಚಪ್ರಾಣಿನಾಂ ಶ್ರವಣಾನಿ ಚ । | 2.91.27aस शब्दो द्यां च भूमिं च प्राणिनां श्रवणानि च । | 2.85.24aस शब्दो द्यां च भूमिं च प्राणिनां श्रवणानि च । | 2.91.27aस शब्दो द्यां च भूमिं च प्राणिनां श्रवणानि च । | 2.91.27aस शब्दो द्यां च भूमिं च प्राणिनां श्रवणानि च। | 2.91.27aस शब्दो द्यां च भूमिं च प्राणिनां श्रवणानि च । | 2.91.27aस शब्दो द्यां च भूमिं च प्राणिनां श्रवणानि च। |
| 63 | #27bವಿವೇಶೋಚ್ಚಾವಚಃ ಶ್ಲಕ್ಷ್ಣಃ ಸಮೋ ಲಯಗುಣಾನ್ವಿತಃ ॥ | 2.91.27bविवेशोच्चावचः श्लक्ष्णः समो लयगुणान्वितः ॥ २७ ॥ | 2.85.24bविवेशोच्चारितः श्लक्ष्णः समो लयगुणान्वितः ॥2.85.24॥ | 2.91.27bविवेशोच्चारितः श्लक्ष्णः समो लयगुणान्वितः ॥ 2.91.27 ॥ | 2.91.27bविवेशोच्चारितः श्लक्ष्णः समो लयगुणान्वितः ॥ 2.91.27 ॥ | 2.91.27bविवेशोच्चारितः श्लक्ष्णः समो लयगुणान्वितः ॥ २।९१।२७ ॥ | 2.91.27bविवेशोच्चरितश्श्लक्ष्णस्समो लयसमन्वितः॥2.91.27॥ |
| 64 | #28aತಸ್ಮಿನ್ನೆವಂಗತೇ ಶಬ್ದೇ ದಿವ್ಯೇ ಶ್ರೋತ್ರಸುಖೇ ನೃಣಾಮ್ । | 2.91.28aतस्मिन्नेवङ्गते शब्दे दिव्ये श्रोत्रसुखे नृणाम् । | 2.85.25aतस्मिन्नुपरते शब्दे दिव्ये श्रोत्रसुखे नृणाम् । | 2.91.28aतस्मिन्नुपरते शब्दे दिव्ये श्रोतृ(त्र)सुखे नृणाम् । | 2.91.28aतस्मिन्नुपरते शब्दे दिव्ये श्रोतृ(त्र)सुखे नृणाम्। | 2.91.28aतस्मिन्नुपरते शब्दे दिव्ये श्रोतृ(त्र)सुखे नृणाम् । | 2.91.28aतस्मिन्नुपरते शब्दे दिव्ये श्रोत्र सुखे नृणाम्। |
| 65 | #28bದದರ್ಶ ಭಾರತಂ ಸೈನ್ಯಂ ವಿಧಾನಂ ವಿಶ್ವಕರ್ಮಣಃ ॥ | 2.91.28bददर्श भारतं सैन्यं विधानं विश्वकर्मणः ॥ २८ ॥ | 2.85.25bददर्श भारतं सैन्यं विधानं विश्वकर्मणः ॥2.85.25॥ | 2.91.28bददर्श भारतं सैन्यं विधानं विश्वकर्मणः ॥ 2.91.28 ॥ | 2.91.28bददर्श भारतं सैन्यं विधानं विश्वकर्मणः ॥ 2.91.28 ॥ | 2.91.28bददर्श भारतं सैन्यं विधानं विश्वकर्मणः ॥ २।९१।२८ ॥ | 2.91.28bददर्श भारतं सैन्यं विधानं विश्वकर्मणः॥2.91.28॥ |
| 66 | #29aಬಭೂವ ಹಿ ಸಮಾ ಭೂಮಿಃ ಸಮಂತಾತ್ ಪಂಚಯೋಜನಮ್ । | 2.91.29aबभूव हि समा भूमिः समन्तात् पञ्चयोजनम् । | 2.85.26aबभूव हि समा भूमिः समन्तात्पञ्चयोजनम् । | 2.91.29aबभूव हि समा भूमिः समन्तात्पञ्चयोजना । | 2.91.29aबभूव हि समा भूमिः समन्तात्पञ्चयोजना। | 2.91.29aबभूव हि समा भूमिः समन्तात्पञ्चयोजना । | 2.91.29aबभूव हि समा भूमिस्समन्तात्पञ्चयोजना। |
| 67 | #29bಶಾದ್ವಲೈರ್ಬಹುಭಿಶ್ಛನ್ನಾ ನೀಲವೈಡೂರ್ಯಸಂನಿಭೈಃ ॥ | 2.91.29bशाद्वलैर्बहुभिश्छन्ना नीलवैदूर्यसन्निभैः ॥ २९ ॥ | 2.85.26bशाद्वलैर्बहुभिश्छन्ना नीलवैदूर्यसंनिभैः ॥2.85.26॥ | 2.91.29bशाद्वलैर्बहुभिश्छन्ना नीलवैडूर्य्यसन्निभैः ॥ 2.91.29 ॥ | 2.91.29bशाद्वलैर्बहुभिश्छन्ना नीलवैडूर्य्यसन्निभैः ॥ 2.91.29 ॥ | 2.91.29bशाद्वलैर्बहुभिश्छन्ना नीलवैडूर्य्यसन्निभैः ॥ २।९१।२९ ॥ | 2.91.29bशाद्वलैर्भहुभिश्चन्ना नीलवैढूर्यसन्निभैः॥2.91.29॥ |
| 68 | #30aತಸ್ಮಿನ್ ಬಿಲ್ವಾಃ ಕಪಿತ್ಥಾಶ್ಚ ಪನಸಾ ಬೀಜಪೂರಕಾಃ । | 2.91.30aतस्मिन् बिल्वाः कपित्थाश्च पनसा बीजपूरकाः । | 2.85.27aतस्मिन्बिल्वाः कपित्थाश्च पनसा बीजपूरकाः । | 2.91.30aतस्मिन् बिल्वाः कपित्थाश्च पनसा बीजपूरकाः । | 2.91.30aतस्मिन् बिल्वाः कपित्थाश्च पनसा बीजपूरकाः। | 2.91.30aतस्मिन् बिल्वाः कपित्थाश्च पनसा बीजपूरकाः । | 2.91.30aतस्मिन्बिल्वाः कपित्थाश्च पनसा बीजपूरकाः। |
| 69 | #30bಆಮಲಕ್ಯೋ ಬಭೂವುಶ್ಚ ಚೂತಾಶ್ಚ ಫಲಭೂಷಿತಾಃ ॥ | 2.91.30bआमलक्यो बभूवुश्च चूताश्च फलभूषिताः ॥ ३० ॥ | 2.85.27bआमलक्यो बभूवुश्च चूताश्च फलभूषणाः ॥2.85.27॥ | 2.91.30bआमलक्यो बभूवुश्च चूताश्च फलभूषणाः ॥ 2.91.30 ॥ | 2.91.30bआमलक्यो बभूवुश्च चूताश्च फलभूषणाः ॥ 2.91.30 ॥ | 2.91.30bआमलक्यो बभूवुश्च चूताश्च फलभूषणाः ॥ २।९१।३० ॥ | 2.91.30bआमलक्यो बभूवुश्च चूताश्च फलभूषणाः॥2.91.30॥ |
| 70 | #31aಉತ್ತರೇಭ್ಯಃ ಕುರುಭ್ಯಶ್ಚ ವನಂ ದಿವ್ಯೋಪಭೋಗವತ್ । | 2.91.31aउत्तरेभ्यः कुरुभ्यश्च वनं दिव्योपभोगवत् । | 2.85.28aउत्तरेभ्यः कुरुभ्यश्च वनं दिव्योपभोगवत् । | 2.91.31aउत्तरेभ्यः कुरुभ्यश्च वनं दिव्योपभोगवत् । | 2.91.31aउत्तरेभ्यः कुरुभ्यश्च वनं दिव्योपभोगवत्। | 2.91.31aउत्तरेभ्यः कुरुभ्यश्च वनं दिव्योपभोगवत् । | 2.91.31aउत्तरेभ्यः कुरुभ्यश्च वनं दिव्योपभोगवत्। |
| 71 | #31bಅಜಗಾಮ ನದೀ ಸೌಮ್ಯಾ ತೀರಜೈರ್ಬಹುಭಿರ್ವೃತಾ ॥ | 2.91.31bआजगाम नदी सौम्या तीरजैर्बहुभिर्वृता ॥ ३१ ॥ | 2.85.28bआजगाम नदी दिव्या तीरजैर्बहुभिर्वृता ॥2.85.28॥ | 2.91.31bआजगाम नदी दिव्या तीजैर्बहुभिर्वृता ॥ 2.91.31 ॥ | 2.91.31bआजगाम नदी दिव्या तीजैर्बहुभिर्वृता ॥ 2.91.31 ॥ | 2.91.31bआजगाम नदी दिव्या तीजैर्बहुभिर्वृता ॥ २।९१।३१ ॥ | 2.91.31bआजगाम नदी दिव्या तीरजैर्भहुभिर्वृता॥2.91.31॥ |
| 72 | #32aಚತುಃಶಾಲಾನಿ ಶುಭ್ರಾಣಿ ಶಾಲಾಶ್ಚ ಗಜವಾಜಿನಾಮ್ । | 2.91.32aचतुःशालानि शुभ्राणि शालाश्च गजवाजिनाम् । | 2.85.29aचतुःशालानि शुभ्राणि शालाश्च गजवाजिनाम् । | 2.91.32aचतुःशालानि शुभ्राणि शालाश्च गजवाजिनाम् । | 2.91.32aचतुःशालानि शुभ्राणि शालाश्च गजवाजिनाम्। | 2.91.32aचतुःशालानि शुभ्राणि शालाश्च गजवाजिनाम् । | 2.91.32aचतुश्शालानि शुभ्राणि शालाश्च गजवाजिनाम्। |
| 73 | #32bಹರ್ಮ್ಯಪ್ರಾಸಾದಸಂಯುಕ್ತತೋರಣಾನಿ ಶುಭಾನಿ ಚ ॥ | 2.91.32bहर्म्यप्रासादसंयुक्ततोरणानि शुभानि च ॥ ३२ ॥ | 2.85.29bहर्म्यप्रासादसंघातास्तोरणानि शुभानि च ॥2.85.29॥ | 2.91.32bहर्म्यप्रासादसम्बाधास्तोरणानि शुभानि च ॥ 2.91.32 ॥ | 2.91.32bहर्म्यप्रासादसम्बाधास्तोरणानि शुभानि च ॥ 2.91.32 ॥ | 2.91.32bहर्म्यप्रासादसम्बाधास्तोरणानि शुभानि च ॥ २।९१।३२ ॥ | 2.91.32bहर्म्यप्रासादसम्बाधास्तोरणानि शुभानि च॥2.91.32॥ |
| 74 | #33aಸಿತಮೇಘನಿಭಂ ಚಾಪಿ ರಾಜವೇಶ್ಮ ಸುತೋರಣಮ್ । | 2.91.33aसितमेघनिभं चापि राजवेश्म सुतोरणम् । | 2.85.30aसितमेघनिभं चापि राजवेश्म सुतोरणम् । | 2.91.33aसितमेघनिभं चापि राजवेश्मसु तोरणम् । | 2.91.33aसितमेघनिभं चापि राजवेश्मसु तोरणम्। | 2.91.33aसितमेघनिभं चापि राजवेश्मसु तोरणम् । | 2.91.33aसितमेघनिभं चापि राजवेश्म सुतोरणम्। |
| 75 | #33bಶುಕ್ಲಮಾಲ್ಯಕೃತಾಕಾರಂ ದಿವ್ಯಗಂಧಸಮುಕ್ಷಿತಮ್ ॥ | 2.91.33bशुक्लमाल्यकृताकारं दिव्यगन्धसमुक्षितम् ॥ ३३ ॥ | 2.85.30bशुक्लमाल्यकृताकारं दिव्यगन्धसमुक्षितम् ॥2.85.30॥ | 2.91.33bदिव्यमाल्यकृताकारं दिव्यगन्धसमुक्षितम् ॥ 2.91.33 ॥ | 2.91.33bदिव्यमाल्यकृताकारं दिव्यगन्धसमुक्षितम् ॥ 2.91.33 ॥ | 2.91.33bदिव्यमाल्यकृताकारं दिव्यगन्धसमुक्षितम् ॥ २।९१।३३ ॥ | 2.91.33bदिव्यमाल्यकृताकारं दिव्यगन्धसमुक्षितम्॥2.91.33॥ |
| 76 | #34aಚತುರಸ್ರಮಸಂಬಾಧಂ ಶಯನಾಸನಯಾನವತ್ । | 2.91.34aचतुरस्रमसम्बाधं शयनासनयानवत् । | 2.85.31aचतुरस्रमसंबाधं शयनासनयानवत् । | 2.91.34aचतुरश्रमसम्बाधं शयनासनयानवत् । | 2.91.34aचतुरश्रमसम्बाधं शयनासनयानवत् । | 2.91.34aचतुरश्रमसंबाधं शयनासनयानवत्। | |
| 77 | #34bದಿವ್ಯೈಃ ಸರ್ವರಸೈರ್ಯುಕ್ತಂ ದಿವ್ಯಭೋಜನವಸ್ತ್ರವತ್ ॥ | 2.91.34bदिव्यैः सर्वरसैर्युक्तं दिव्यभोजनवस्त्रवत् ॥ ३४ ॥ | 2.85.31bदिव्यैः सर्वरसैर्युक्तं दिव्यभोजनवस्त्रवत् ॥2.85.31॥ | 2.91.34bदिव्यैः सर्वरसैर्युक्तं दिव्यभोजनवस्त्रवत् । | 2.91.34aदिव्यैः सर्वरसैर्युक्तं दिव्यभोजनवस्त्रवत्। | 2.91.34bदिव्यैः सर्वरसैर्युक्तं दिव्यभोजनवस्त्रवत् । | 2.91.34bदिव्यैस्सर्वरसैर्युक्तं दिव्यभोजनवस्त्रवत्॥2.91.34॥ |
| 78 | #35aಉಪಕಲ್ಪಿತಸರ್ವಾನ್ನಂ ಧೌತನಿರ್ಮಲಭಾಜನಮ್ । | 2.91.35aउपकल्पितसर्वान्नं धौतनिर्मलभाजनम् । | 2.85.32aउपकल्पित सर्वान्नं धौतनिर्मलभाजनम् । | 2.91.34cउपकल्पितसर्वान्नं धौतनिर्मलभाजनम् ॥ 2.91.34 ॥ | 2.91.34bउपकल्पितसर्वान्नं धौतनिर्मलभाजनम् ॥ 2.91.34 ॥ | 2.91.34cउपकल्पितसर्वान्नं धौतनिर्मलभाजनम् ॥ २।९१।३४ ॥ | 2.91.35aउपकल्पितसर्वान्नं धौतनिर्मलभाजनम्। |
| 79 | 2.91.3334aयस्मिन् तत् । | ||||||
| 80 | 2.91.3334aसितमेघेत्यारभ्य धौतनिर्मलभाजनमित्यन्तमेकं वाक्यम् । | ||||||
| 81 | 2.91.3334bआजगामेति । | ||||||
| 82 | 2.91.3334cक्रिया द्रष्टव्या । | ||||||
| 83 | 2.91.3334dसितमेघनिभं सुधालेपनधवलत्वात् । | ||||||
| 84 | 2.91.3334eदिव्यमाल्यकृताकारं दिव्यमालाभिः कृतालङ्कारम् । | ||||||
| 85 | 2.91.3334fदिव्यगन्धैर्दिव्यचन्दनैः । | ||||||
| 86 | 2.91.3334gसमुक्षितं सिक्तम् । | ||||||
| 87 | 2.91.3334hचतुरश्रं चतुष्कोणम् । | ||||||
| 88 | 2.91.3334iअसम्बाधं विशालम् । | ||||||
| 89 | 2.91.3334jशयनासनयानवत् यानं शिबिकादि । | ||||||
| 90 | 2.91.3334kरसैः शर्कदादिभिः । | ||||||
| 91 | 2.91.3334lदिव्यभोजनवस्त्रवत् दिव्यभोजनानि सूक्ष्मशाल्यन्नादीनि दिव्यवस्त्राणि सूक्ष्मवस्त्राणि उपकल्पितानि सर्वान्नानि नानाविधापूपादीनि यस्मिन् तत् । | ||||||
| 92 | 2.91.3334mधौतनिर्मलभाजनं धौतत्वेन निर्मलानि भाजनानि यस्मिन् तत्तथा ॥ 2.91.3334 ॥ | 2.91.3334bधौतनिर्मलभाजनं धौतत्वेन निर्मलानि भाजनानि यस्मिन् तत्तथा ॥ २।९१।३३३४ ॥ | |||||
| 93 | #35bಕ್ಲೃಪ್ತಸರ್ವಾಸನಂ ಶ್ರೀಮತ್ಸ್ವಾಸ್ತೀರ್ಣಶಯನೋತ್ತಮಮ್ ॥ | 2.91.35bक्लृप्तसर्वासनं श्रीमत्स्वास्तीर्णशयनोत्तमम् ॥ ३५ ॥ | 2.85.32bकॢप्तसर्वासनं श्रीमत्स्वास्तीर्णशयनोत्तमम् ॥2.85.32॥ | 2.91.35aक्लृप्तसर्वासनं श्रीमत् स्वास्तीर्णशयनोत्तमम् । | 2.91.35aक्लृप्तसर्वासनं श्रीमत् स्वास्तीर्णशयनोत्तमम् । | 2.91.35bक्लुप्तसर्वासनं श्रीमत्स्वास्तीर्णशयनोत्तमम्॥2.91.35॥ | |
| 94 | #36aಪ್ರವಿವೇಶ ಮಹಾಬಾಹುರನುಜ್ಞಾತೋ ಮಹರ್ಷಿಣಾ । | 2.91.36aप्रविवेश महाबाहुरनुज्ञातो महर्षिणा । | 2.85.33aप्रविवेश महाबाहुरनुज्ञातो महर्षिणा । | 2.91.35bप्रविवेश महाबाहुरनुज्ञातो महर्षिणा । | 2.91.35aप्रविवेश महाबाहुरनुज्ञातो महर्षिणा। | 2.91.35bप्रविवेश महाबाहुरनुज्ञातो महर्षिणा । | 2.91.36aप्रविवेश महाबाहुरनुज्ञातो महर्षिणा। |
| 95 | #36bವೇಶ್ಮ ತದ್ರತ್ನಸಂಪೂರ್ಣಂ ಭರತಃ ಕೇಕಯೀಸುತಃ ॥ | 2.91.36bवेश्म तद् रत्नसम्पूर्णं भरतः कैकयीसुतः ॥ ३६ ॥ | 2.85.33bवेश्म तद्रत्नसंपूर्णं भरतः कैकयीसुतः ॥2.85.33॥ | 2.91.35cवेश्म तद्रत्नसम्पूर्णं भरतः केकयीसुतः ॥ 2.91.35 ॥ | 2.91.35bवेश्म तद्रत्नसम्पूर्णं भरतः केकयीसुतः ॥ 2.91.35 ॥ | 2.91.35cवेश्म तद्रत्नसम्पूर्णं भरतः केकयीसुतः ॥ २।९१।३५ ॥ | 2.91.36bवेश्म तद्रत्नसम्पूर्णं भरतः कैकयीसुतः॥2.91.36॥ |
| 96 | #37aಅನುಜಗ್ಮುಶ್ಚತೇ ಸರ್ವೇಮಂತ್ರಿಣಃ ಸಪುರೋಹಿತಾಃ । | 2.91.37aअनुजग्मुश्च ते सर्वे मन्त्रिणः सपुरोहिताः । | 2.85.34aअनुजग्मुश्च तं सर्वे मन्त्रिणः सपुरोहिताः । | 2.91.36aअनुजग्मुश्च तं सर्वे मन्त्रिणः सपुरोहिताः । | 2.91.36aअनुजग्मुश्च तं सर्वे मन्त्रिणः सपुरोहिताः। | 2.91.36aअनुजग्मुश्च तं सर्वे मन्त्रिणः सपुरोहिताः । | 2.91.37aअनुजग्मुश्च तं सर्वे मन्त्रिणस्सपुरोहिताः। |
| 97 | #37bಬಭೂವುಶ್ಚ ಮುದಾ ಯುಕ್ತಾಸ್ತಂ ದೃಷ್ಟ್ವಾ ವೇಶ್ಮಸಂವಿಧಿಮ್ ॥ | 2.91.37bबभूवुश्च मुदा युक्तास्तं दृष्ट्वा वेश्मसंविधिम् ॥ ३७ ॥ | 2.85.34bबभूवुश्च मुदा युक्ता तं दृष्ट्वा वेश्म संविधिम् ॥2.85.34॥ | 2.91.36bबभूवुश्च मुदा युक्ता दृष्ट्वा तं वेश्मसंविधिम् ॥ 2.91.36 ॥ | 2.91.36bबभूवुश्च मुदा युक्ता दृष्ट्वा तं वेश्मसंविधिम् ॥ 2.91.36 ॥ | 2.91.36bबभूवुश्च मुदा युक्ता दृष्ट्वा तं वेश्मसंविधिम् ॥ २।९१।३६ ॥ | 2.91.37bबभूवुश्च मुदा युक्ता दृष्ट्वा तं वेश्मसंविधिम्॥2.91.37॥ |
| 98 | #38aತತ್ರರಾಜಾಸನಂ ದಿವ್ಯಂ ವ್ಯಜನಂ ಛತ್ರಮೇವ ಚ । | 2.91.38aतत्र राजासनं दिव्यं व्यजनं छत्रमेव च । | 2.85.35aतत्र राजासनं दिव्यं व्यजनं छत्रमेव च । | 2.91.37aतत्र राजासनं दिव्यं व्यजनं छत्रमेव च । | 2.91.37aतत्र राजासनं दिव्यं व्यजनं छत्रमेव च। | 2.91.37aतत्र राजासनं दिव्यं व्यजनं छत्रमेव च । | 2.91.38aतत्र राजासनं दिव्यं व्यजनं छत्रमेव च। |
| 99 | #38bಭರತೋ ಮಂತ್ರಿಭಿಃ ಸಾರ್ಧಮಭ್ಯವರ್ತತ ರಾಜವತ್ ॥ | 2.91.38bभरतो मन्त्रिभिः सार्धमभ्यवर्तत राजवत् ॥ ३८ ॥ | 2.85.35bभरतो मन्त्रिभिः सार्धमभ्यवर्तत राजवत् ॥2.85.35॥ | 2.91.37bभरतो मन्त्रिभिः सार्द्धमभ्यवर्त्तत राजवत् ॥ 2.91.37 ॥ | 2.91.37bभरतो मन्त्रिभिः सार्द्धमभ्यवर्त्तत राजवत् ॥ 2.91.37 ॥ | 2.91.37bभरतो मन्त्रिभिः सार्द्धमभ्यवर्त्तत राजवत् ॥ २।९१।३७ ॥ | 2.91.38bभरतो मन्त्रिभिस्सार्धमभ्यवर्तत राजवत्॥2.91.38॥ |
| 100 | #39aಆಸನಂ ಪೂಜಯಾಮಾಸ ರಾಮಾಯಾಭಿಪ್ರಣಮ್ಯಚ । | 2.91.39aआसनं पूजयामास रामायाभिप्रणम्य च । | 2.85.36aआसनं पूजयामास रामायाभिप्रणम्य च । | 2.91.38aआसनं पूजयामास रामायाभिप्रणम्य च । | 2.91.38aआसनं पूजयामास रामायाभिप्रणम्य च। | 2.91.38aआसनं पूजयामास रामायाभिप्रणम्य च । | 2.91.39aआसनं पूजयामास रामायाभिप्रणम्य च। |
| 101 | #39bವಾಲವ್ಯಜನಮಾದಾಯ ನ್ಯಷೀದತ್ಸಚಿವಾಸನೇ ॥ | 2.91.39bवालव्यजनमादाय न्यषीदत् सचिवासने ॥ ३९ ॥ | 2.85.36bवालव्यजनमादाय न्यषीदत्सचिवासने ॥2.85.36॥ | 2.91.38bवालव्यजनमादाय न्यषीदत् सचिवासने ॥ 2.91.38 ॥ | 2.91.38bवालव्यजनमादाय न्यषीदत् सचिवासने ॥ 2.91.38 ॥ | 2.91.38bवालव्यजनमादाय न्यषीदत् सचिवासने ॥ २।९१।३८ ॥ | 2.91.39bवालव्यजनमादाय न्यषीदत्सचिवासने॥2.91.39॥ |
| 102 | #40aಆನುಪೂರ್ವ್ಯಾನ್ನಿಷೇದುಶ್ಚ ಸರ್ವೇ ಮಂತ್ರಿಪುರೋಹಿತಾಃ । | 2.91.40aआनुपूर्व्यान्निषेदुश्च सर्वे मन्त्रिपुरोहिताः । | 2.85.37aआनुपूर्व्यान्निषेदुश्च सर्वे मन्त्रपुरोहिताः । | 2.91.39aआनुपूर्व्यानिषेदुश्च सर्वे मन्त्रिपुरोहिताः । | 2.91.39aआनुपूर्व्यानिषेदुश्च सर्वे मन्त्रिपुरोहिताः। | 2.91.39aआनुपूर्व्यानिषेदुश्च सर्वे मन्त्रिपुरोहिताः । | 2.91.40aआनुपूर्व्यान्निषेदुश्च सर्वे मन्त्रिपुरोहिताः। |
| 103 | #40bತತಃ ಸೇನಾಪತಿಃ ಪಶ್ಚಾತ್ ಪ್ರಶಾಸ್ತಾಚ ಮ್ಯಷೀದತ ॥ | 2.91.40bततः सेनापतिः पश्चात् प्रशास्ता च न्यषीदत ॥ ४० ॥ | 2.85.37bततः सेनापतिः पश्चात्प्रशास्ता च निषेदतुः ॥2.85.37॥ | 2.91.39bततः सेनापतिः पश्चात् प्रशास्ता च निषेदतुः ॥ 2.91.39 ॥ | 2.91.39bततः सेनापतिः पश्चात् प्रशास्ता च निषेदतुः ॥ 2.91.39 ॥ | 2.91.39bततः सेनापतिः पश्चात् प्रशास्ता च निषेदतुः ॥ २।९१।३९ ॥ | 2.91.40bततस्सेनापतिः पश्चात्प्रशास्ताच निषेदतुः॥2.91.40॥ |
| 104 | #41aತತಸ್ತತ್ರಮುಹೂರ್ತೇನ ನದ್ಯಃ ಪಾಯಸಕರ್ದಮಾಃ । | 2.91.41aततस्तत्र मुहूर्तेन नद्यः पायसकर्दमाः । | 2.85.38aततस्तत्र मुहूर्तेन नद्यः पायसकर्दमाः । | 2.91.40aततस्तत्र मुहूर्त्तेन नद्यः पायसकर्दमाः । | 2.91.40aततस्तत्र मुहूर्त्तेन नद्यः पायसकर्दमाः। | 2.91.40aततस्तत्र मुहूर्त्तेन नद्यः पायसकर्दमाः । | 2.91.41aतत स्तत्र मुहूर्तेन नद्यः पायसकर्दमाः। |
| 105 | #41bಉಪಾತಿಷ್ಠಂತ ಭರತಂ ಭರದ್ವಾಜಸ್ಯ ಶಾಸನಾತ್ ॥ | 2.91.41bउपातिष्ठन्त भरतं भरद्वाजस्य शासनात् ॥ ४१ ॥ | 2.85.38bउपातिष्ठन्त भरतं भरद्वाजस्य शासनत् ॥2.85.38॥ | 2.91.40bउपातिष्ठन्त भरतं भरद्वाजस्य शासनात् ॥ 2.91.40 ॥ | 2.91.40bउपातिष्ठन्त भरतं भरद्वाजस्य शासनात् ॥ 2.91.40 ॥ | 2.91.40bउपातिष्ठन्त भरतं भरद्वाजस्य शासनात् ॥ २।९१।४० ॥ | 2.91.41bउपातिष्ठन्त भरतं भरद्वाजस्य शासनात्॥2.91.41॥ |
| 106 | #42aಆಸಾಮುಭಯತಃಕೂಲಂ ಪಾಂಡುಮೃತ್ತಿಕಲೇಪನಾಃ । | 2.91.42aआसामुभयतःकूलं पाण्डुमृत्तिकलेपनाः । | 2.85.39aतासामुभयतः कूलं पाण्डुमृत्तिकलेपनाः । | 2.91.41aतासामुभयतःकूलं पाण्डुमृत्तिकलेपनाः । | 2.91.41aतासामुभयतःकूलं पाण्डुमृत्तिकलेपनाः। | 2.91.41aतासामुभयतःकूलं पाण्डुमृत्तिकलेपनाः । | 2.91.42aतासामुभयतः कूलं पाण्डुमृत्तिकलेपनाः। |
| 107 | #42bರಮ್ಯಾಶ್ಚಾವಸಥಾ ದಿವ್ಯಾ ಬ್ರಾಹ್ಮಣಸ್ಯ ಪ್ರಸಾದಜಾಃ ॥ | 2.91.42bरम्याश्चावसथा दिव्या ब्राह्मणस्य प्रसादजाः ॥ ४२ ॥ | 2.85.39bरम्याश्चावसथा दिव्या ब्रह्मणस्तु प्रसादजाः ॥2.85.39॥ | 2.91.41bरम्याश्चावसथा दिव्या ब्रह्मणस्तु प्रसादजाः ॥ 2.91.41 ॥ | 2.91.41bरम्याश्चावसथा दिव्या ब्रह्मणस्तु प्रसादजाः ॥ 2.91.41 ॥ | 2.91.41bरम्याश्चावसथा दिव्या ब्रह्मणस्तु प्रसादजाः ॥ २।९१।४१ ॥ | 2.91.42bरम्याश्चावसधा दिव्या ब्रह्मणस्तु प्रसादजाः॥2.91.42॥ |
| 108 | #43aತೇನೈವ ಚ ಮುಹೂರ್ತೇನ ದಿವ್ಯಾಭರಣಭೂಷಿತಾಃ । | 2.91.43aतेनैव च मुहूर्तेन दिव्याभरणभूषिताः । | 2.85.40aतेनैव च मुहूर्तेन दिव्याभरणभूषिताः । | 2.91.42aतेनैव च मुहूर्त्तेन दिव्याभरणभूषिताः । | 2.91.42aतेनैव च मुहूर्त्तेन दिव्याभरणभूषिताः। | 2.91.42aतेनैव च मुहूर्त्तेन दिव्याभरणभूषिताः । | 2.91.43aतेनैव च मूहूर्तेन दिव्याऽभरणभूषिताः। |
| 109 | #43bಆಗುರ್ವಿಂಶತಿಸಾಹಸ್ರಾ ಬ್ರಹ್ಮಣಾ ಪ್ರಹಿತಾಃ ಸ್ತ್ರಿಯಃ ॥ | 2.91.43bआगुर्विंशतिसाहस्राः ब्रह्मणा प्रहिताः स्त्रियः ॥ ४३ ॥ | 2.85.40bआगुर्विंशतिसाहस्रा ब्रह्मणा प्रहिताः स्त्रियः ॥2.85.40॥ | 2.91.42bआगुर्विंशतिसाहस्रा ब्रह्मणा प्रहिताः स्त्रियः ॥ 2.91.42 ॥ | 2.91.42bआगुर्विंशतिसाहस्रा ब्रह्मणा प्रहिताः स्त्रियः ॥ 2.91.42 ॥ | 2.91.42bआगुर्विंशतिसाहस्रा ब्रह्मणा प्रहिताः स्त्रियः ॥ २।९१।४२ ॥ | 2.91.43bआगुर्विंशतिसाहस्राः ब्रह्मणा प्रहिताः स्त्रियः॥2.91.43॥ |
| 110 | #44aಸುವರ್ಣಮಣಿಮುಕ್ತೇನ ಪ್ರವಾಲೇನ ಚ ಶೋಭಿತಾಃ । | 2.91.44aसुवर्णमणिमुक्तेन प्रवालेन च शोभिताः । | 2.85.41aसुवर्णमणिमुक्तेन प्रवालेन च शोभिताः । | 2.91.43aसुवर्णमणिमुक्तेन प्रवालेन च शोभिताः । | 2.91.43aसुवर्णमणिमुक्तेन प्रवालेन च शोभिताः। | 2.91.43aसुवर्णमणिमुक्तेन प्रवालेन च शोभिताः । | 2.91.44aसुवर्णमणिमुक्तेन प्रवालेन च शोभिताः। |
| 111 | #44bಆಗುರ್ವಿಂಶತಿಸಾಹಸ್ರಾಃ ಕುಬೇರಪ್ರಹಿತಾಃ ಸ್ತ್ರಿಯಃ ॥ | 2.91.44bआगुर्विंशतिसाहस्राः कुबेरप्रहिताः स्त्रियः ॥ ४४ ॥ | 2.85.41bआगुर्विंशतिसाहस्राः कुबेरप्रहिताः स्त्रियः ॥2.85.41॥ | 2.91.43bआगुर्विंशतिसाहस्राः कुबेरप्रहिताः स्त्रियः ॥ 2.91.43 ॥ | 2.91.43bआगुर्विंशतिसाहस्राः कुबेरप्रहिताः स्त्रियः ॥ 2.91.43 ॥ | 2.91.43bआगुर्विंशतिसाहस्राः कुबेरप्रहिताः स्त्रियः ॥ २।९१।४३ ॥ | 2.91.44bआगुर्विंशतिसाहास्राः कुबेरप्रहिताः स्त्रियः॥2.91.44॥ |
| 112 | #45aಯಾಭಿರ್ಗೃಹೀತಃ ಪುರುಷಃ ಸೋನ್ಮಾದ ಇವ ಲಕ್ಷ್ಯತೇ । | 2.91.45aयाभिर्गृहीतः पुरुषः सोन्माद इव लक्ष्यते । | 2.85.42aयाभिर्गृहीतः पुरुषः सोन्माद इव लक्ष्यते । | 2.91.44aयाभिर्गृहीतपुरुषः सोन्माद इव लक्ष्यते । | 2.91.44aयाभिर्गृहीतपुरुषः सोन्माद इव लक्ष्यते। | 2.91.44aयाभिर्गृहीतपुरुषः सोन्माद इव लक्ष्यते । | 2.91.45aयाभिर्गृहीतः पुरुषस्सोन्माद इव लक्ष्यते। |
| 113 | #45bಆಗುರ್ವಿಂಶತಿಸಾಹಸ್ರಾ ನಂದನಾದಪ್ಸರೋಗಣಾಃ ॥ | 2.91.45bआगुर्विंशतिसाहस्रा नन्दनादप्सरोगणाः ॥ ४५ ॥ | 2.85.42bआगुर्विंशतिसाहस्रा नन्दनादप्सरोगणाः ॥2.85.42॥ | 2.91.44bआगुर्विंशतिसाहस्रा नन्दनादप्सरोगणाः ॥ 2.91.44 ॥ | 2.91.44bआगुर्विंशतिसाहस्रा नन्दनादप्सरोगणाः ॥ 2.91.44 ॥ | 2.91.44bआगुर्विंशतिसाहस्रा नन्दनादप्सरोगणाः ॥ २।९१।४४ ॥ | 2.91.45bआगुर्विंशतिसाहस्रा नन्दनादप्सरोगणाः॥2.91.45॥ |
| 114 | #46aನಾರದಸ್ತುಂಬುರುರ್ಗೋಪಃ ಪ್ರಭಯಾ ಸೂರ್ಯವರ್ಚಸಃ । | 2.91.46aनारदस्तुम्बुरुर्गोपः प्रभया सूर्यवर्चसः । | 2.85.43aनारदस्तुम्बुरुर्गोपः पर्वतः सूर्यवर्चसः । | 2.91.45aनारदस्तुम्बुरुर्गोपः प्रवराः सूर्य्यवर्चसः । | 2.91.45aनारदस्तुम्बुरुर्गोपः प्रवराः सूर्य्यवर्चसः। | 2.91.45aनारदस्तुम्बुरुर्गोपः प्रवराः सूर्य्यवर्चसः । | 2.91.46aनारदस्तुम्भुरुर्गोपः प्रवरास्सूर्यवर्चसः। |
| 115 | #46bಏತೇ ಗಂಧರ್ವರಾಜಾನೋ ಭರತಸ್ಯಾಗ್ರತೋ ಜಗುಃ ॥ | 2.91.46bएते गन्धर्वराजानो भरतस्याग्रतो जगुः ॥ ४६ ॥ | 2.85.43bएते गन्धर्वराजानो भरतस्याग्रतो जगुः ॥2.85.43॥ | 2.91.45bएते गन्धर्वराजानो भरतस्याग्रतो जगुः ॥ 2.91.45 ॥ | 2.91.45bएते गन्धर्वराजानो भरतस्याग्रतो जगुः ॥ 2.91.45 ॥ | 2.91.45bएते गन्धर्वराजानो भरतस्याग्रतो जगुः ॥ २।९१।४५ ॥ | 2.91.46bएते गन्धर्वराजानो भरतस्याग्रतो जगुः॥2.91.46॥ |
| 116 | #47aಅಲಂಬುಷಾಮಿಶ್ರಕೇಶೀ ಪುಂಡರೀಕಾಥ ವಾಮನಾ । | 2.91.47aअलम्बुषा मिश्रकेशी पुण्डरीकाथ वामना । | 2.85.44aअलम्बुसा मिश्रकेशी पुण्डरीकाथ वामना । | 2.91.46aअलम्बुसा मिश्रकेशी पुण्डरीकाथ वामना । | 2.91.46aअलम्बुसा मिश्रकेशी पुण्डरीकाथ वामना। | 2.91.46aअलम्बुसा मिश्रकेशी पुण्डरीकाथ वामना । | 2.91.47aअलम्बुसा मिश्रकेशी पुण्डरीकाऽथ वामना। |
| 117 | #47bಉಪಾನೃತ್ಯಂತ ಭರತಂ ಭರದ್ವಾಜಸ್ಯ ಶಾಸನಾತ್ ॥ | 2.91.47bउपानृत्यन्त भरतं भरद्वाजस्य शासनात् ॥ ४७ ॥ | 2.85.44bउपानृत्यंस्तु भरतं भरद्वाजस्य शासनात् ॥2.85.44॥ | 2.91.46bउपानृत्यंस्तु भरत भरद्वाजस्य शासनात् ॥ 2.91.46 ॥ | 2.91.46bउपानृत्यंस्तु भरत भरद्वाजस्य शासनात् ॥ 2.91.46 ॥ | 2.91.46bउपानृत्यंस्तु भरत भरद्वाजस्य शासनात् ॥ २।९१।४६ ॥ | 2.91.47bउपानृत्यंस्तु भरतं भरद्वाजस्य शासनात्॥2.91.47॥ |
| 118 | #48aಯಾನಿ ಮಾಲ್ಯಾನಿ ದೇವೇಷು ಯಾನಿ ಚೈತ್ರರಥೇ ವನೇ । | 2.91.48aयानि माल्यानि देवेषु यानि चैत्ररथे वने । | 2.85.45aयानि माल्यानि देवेषु यानि चैत्ररथे वने । | 2.91.47aयानि माल्यानि देवेषु यानि चैत्ररथे वने । | 2.91.47aयानि माल्यानि देवेषु यानि चैत्ररथे वने। | 2.91.47aयानि माल्यानि देवेषु यानि चैत्ररथे वने । | 2.91.48aयानि माल्यानि देवेषु यानि चैत्ररथे वने। |
| 119 | #48bಪ್ರಯಾಗೇ ತಾನ್ಯದೃಶ್ಯಂತ ಭರದ್ವಾಜಸ್ಯ ತೇಜಸಾ ॥ | 2.91.48bप्रयागे तान्यदृश्यन्त भरद्वाजस्य तेजसा ॥ ४८ ॥ | 2.85.45bप्रयागे तान्यदृश्यन्त भरद्वाजस्य शासनात् ॥2.85.45॥ | 2.91.47bप्रयागे तान्यदृश्यन्त भरद्वाजस्य तेजसा ॥ 2.91.47 ॥ | 2.91.47bप्रयागे तान्यदृश्यन्त भरद्वाजस्य तेजसा ॥ 2.91.47 ॥ | 2.91.47bप्रयागे तान्यदृश्यन्त भरद्वाजस्य तेजसा ॥ २।९१।४७ ॥ | 2.91.48bप्रयागे तान्यदृश्यन्त भरद्वाजस्य शासनात्॥2.91.48॥ |
| 120 | #49aಬಿಲ್ವಾ ಮಾರ್ದಂಗಿಕಾ ಆಸನ್ ಶಮ್ಯಾಗ್ರಾಹಾ ಬಿಭೀತಕಾಃ । | 2.91.49aबिल्वा मार्दङ्गिका आसन् शम्याग्राहा बिभीतकाः । | 2.85.46aबिल्वा मार्दङ्गिका आसञ्शम्या ग्राहा बिभीतकाः । | 2.91.48aबिल्वा मार्दङ्गिका आसन् शम्याग्राहा विभीतकाः । | 2.91.48aबिल्वा मार्दङ्गिका आसन् शम्याग्राहा विभीतकाः। | 2.91.48aबिल्वा मार्दङ्गिका आसन् शम्याग्राहा विभीतकाः । | 2.91.49aबिल्वा मार्दङ्गिका आसन् शम्याग्राहा विभीतकाः। |
| 121 | #49bಅಶ್ವತ್ಥಾ ನರ್ತಕಾಶ್ಚಾಸನ್ ಭರದ್ವಾಜಸ್ಯ ತೇಜಸಾ ॥ | 2.91.49bअश्वत्था नर्तकाश्चासन् भरद्वाजस्य तेजसा ॥ ४९ ॥ | 2.85.46bअश्वत्था नर्तकाश्चासन्भरद्वाजस्य तेजसा ॥2.85.46॥ | 2.91.48bअश्वत्थानर्त्तकाश्चासन् भरद्वाजस्य शासनात् ॥ 2.91.48 ॥ | 2.91.48bअश्वत्थानर्त्तकाश्चासन् भरद्वाजस्य शासनात् ॥ 2.91.48 ॥ | 2.91.48bअश्वत्थानर्त्तकाश्चासन् भरद्वाजस्य शासनात् ॥ २।९१।४८ ॥ | 2.91.49bअश्वत्था नर्तकाश्चासन्भरद्वाजस्य शासनात्॥2.91.49॥ |
| 122 | #50aತತಃ ಸರಲತಾಲಾಶ್ಚ ತಿಲಕಾಃ ಸತಮಾಲಕಾಃ । | 2.91.50aततः सरलतालाश्च तिलकाः सतमालकाः । | 2.85.47aततः सरलतालाश्च तिलका नक्तमालकाः । | 2.91.49aततः सरलतालाश्च तिलका नक्तमालकाः । | 2.91.49aततः सरलतालाश्च तिलका नक्तमालकाः। | 2.91.49aततः सरलतालाश्च तिलका नक्तमालकाः । | 2.91.50aततस्सरलतालाश्च तिलका नक्तमालकाः। |
| 123 | #50bಪ್ರಹೃಷ್ಟಾಸ್ತತ್ರ ಸಂಪೇತುಃ ಕುಬ್ಜಾ ಭೂತ್ವಾಥ ವಾಮನಾಃ ॥ | 2.91.50bप्रहृष्टास्तत्र सम्पेतुः कुब्जा भूत्वाथ वामनाः ॥ ५० ॥ | 2.85.47bप्रहृष्टास्तत्र संपेतुः कुब्जाभूताथ वामनाः ॥2.85.47॥ | 2.91.49bप्रहृष्टास्तत्र सम्पेतुः कुब्जा भूत्वाथ वामनाः ॥ 2.91.49 ॥ | 2.91.49bप्रहृष्टास्तत्र सम्पेतुः कुब्जा भूत्वाथ वामनाः ॥ 2.91.49 ॥ | 2.91.49bप्रहृष्टास्तत्र सम्पेतुः कुब्जा भूत्वाथ वामनाः ॥ २।९१।४९ ॥ | 2.91.50bप्रहृष्टास्तत्र सम्पेतुः कुब्जा भूत्वाऽथ वामनाः॥2.91.50॥ |
| 124 | #51aಶಿಂಶಪಾಽಽಮಲಕೀಜಂಬೂರ್ಯಾಶ್ಚಾನ್ಯಾಃ ಕಾನನೇ ಲತಾಃ । | 2.91.51aशिंशपाऽऽमलकी जम्बूर्याश्चान्याः कानने लताः । | 2.85.48aशिंशपामलकी जम्बूर्याश्चान्याः कानने लताः । | 2.91.50aशिंशुपामलकीजम्ब्वो याश्चान्याः काननेषु ताः । | 2.91.50aशिंशुपामलकीजम्ब्वो याश्चान्याः काननेषु ताः। | 2.91.50aशिंशुपामलकीजम्ब्वो याश्चान्याः काननेषु ताः । | 2.91.51aशिंशुपामलकीजम्ब्वो याश्चान्याः काननेषु ताः मालती मल्लिका जातिर्याश्चान्याः कानने लताः। |
| 125 | 2.85.48bप्रमदा विग्रहं कृत्वा भरद्वाजाश्रमेऽवसन् ॥2.85.48॥ | 2.91.51bप्रमदाविग्रहं कृत्वा भरद्वाजाश्रमेऽवदन्॥2.91.51॥ | |||||
| 126 | #51bಮಾಲತೀ ಮಲ್ಲಿಕಾ ಜಾತಿರ್ಯಾಶ್ಚಾನ್ಯಾಃ ಕಾನನೇಲತಾಃ । | 2.91.51bमालती मल्लिका जातिर्याश्चान्याः कानने लताः । | 2.91.50bमालती मल्लिका जातिर्याश्चान्याः कानने लताः ॥ 2.91.50 ॥ | 2.91.50bमालती मल्लिका जातिर्याश्चान्याः कानने लताः ॥ 2.91.50 ॥ | 2.91.50bमालती मल्लिका जातिर्याश्चान्याः कानने लताः ॥ २।९१।५० ॥ | ||
| 127 | #51cಪ್ರಮದಾವಿಗ್ರಹಂ ಕೃತ್ವಾ ಭರದ್ವಾಜಾಶ್ರಮೇಽವಸನ್ ॥ | 2.91.51cप्रमदाविग्रहं कृत्वा भरद्वाजाश्रमेऽवसन् ॥ ५१ ॥ | 2.91.51aप्रमदाविग्रहं कृत्वा भरद्वाजाश्रमे ऽवदन् । | 2.91.51aप्रमदाविग्रहं कृत्वा भरद्वाजाश्रमे ऽवदन् । | |||
| 128 | #52aಸುರಾಂ ಸುರಾಪಾಃ ಪಿಬತ ಪಾಯಸಂ ಚ ಬುಭುಕ್ಷಿತಾಃ । | 2.91.52aसुरां सुरापाः पिबत पायसं च बुभुक्षिताः । | 2.85.49aसुरां सुरापाः पिबत पायसं च बुभुक्शिताः । | 2.91.51bसुराः सुरापाः पिबत पायसं च बुभुक्षिताः । | 2.91.51aसुराः सुरापाः पिबत पायसं च बुभुक्षिताः। | 2.91.51bसुराः सुरापाः पिबत पायसं च बुभुक्षिताः । | 2.91.52सुरास्सुरापाः पिबत पायसं च बुभुक्षिताः॥2.91.52॥ |
| 129 | #52bಮಾಂಸಾನಿ ಚ ಸುಮೇಧ್ಯಾನಿ ಭಕ್ಷ್ಯಂತಾಂ ಯೋ ಯದಿಚ್ಛತಿ ॥ | 2.91.52bमांसानि च सुमेध्यानि भक्ष्यन्तां यो यदिच्छति ॥ ५२ ॥ | 2.85.49bमांसनि च सुमेध्यानि भक्ष्यन्तां यावदिच्छथ ॥2.85.49॥ | 2.91.51cमांसानि च सुमेध्यानि भक्ष्यन्तां यावदिच्छथ ॥ 2.91.51 ॥ | 2.91.51bमांसानि च सुमेध्यानि भक्ष्यन्तां यावदिच्छथ ॥ 2.91.51 ॥ | 2.91.51cमांसानि च सुमेध्यानि भक्ष्यन्तां यावदिच्छथ ॥ २।९१।५१ ॥ | 2.91.53मांसानि च सुमेध्यानि भक्ष्यन्तां यावदिच्छथ॥2.91.53॥ |
| 130 | 2.91.5051aअथ स्त्रीलिङ्गवृक्षाणां स्त्रीभावपरिग्रहमाह–शिंशिपेत्यादिसार्धश्लोकद्वयमेकान्वयम् । | ||||||
| 131 | 2.91.5051bशिंशुपादयः प्रमदाविग्रहं कृत्वा यावदिच्छथ तावद्भक्ष्यन्तामित्यवदन्निति सम्बन्धः । | 2.91.5051aप्रमदाविग्रहं कृत्वा यावदिच्छथ तावद्भक्ष्यन्तामित्यवदन्निति सम्बन्धः । | |||||
| 132 | 2.91.5051cसुरापाः हे सुरापानप्रवृत्ताः । | 2.91.5051bसुरापाः हे सुरापानप्रवृत्ताः । | |||||
| 133 | 2.91.5051dइमाः सुराः पिबत । | 2.91.5051cइमाः सुराः पिबत । | |||||
| 134 | 2.91.5051eहे बुभुक्षिताः पायसपानेच्छवः । | 2.91.5051dहे बुभुक्षिताः पायसपानेच्छवः । | |||||
| 135 | 2.91.5051fइदं पायसं भक्ष्यतामिति वचनविपरिणामेनानुषज्यते । | 2.91.5051eइदं पायसं भक्ष्यतामिति वचनविपरिणामेनानुषज्यते । | |||||
| 136 | 2.91.5051gसुमेध्यानि परिशुद्धानि ॥ 2.91.5051 ॥ | 2.91.5051fसुमेध्यानि परिशुद्धानि ॥ २।९१।५०५१ ॥ | |||||
| 137 | #53aಉಚ್ಛೋದ್ಯ ಸ್ನಾಪಯಂತಿ ಸ್ಮ ನದೀತೀರೇಷು ವಲ್ಗುಷು । | 2.91.53aउच्छोद्य स्नापयन्ति स्म नदीतीरेषु वल्गुषु । | 2.85.50aउत्साद्य स्नापयन्ति स्म नदीतीरेषु वल्गुषु । | 2.91.52aउच्छाद्य स्नापयन्ति स्म नदीतीरेषु वल्गुषु । | 2.91.52aउच्छाद्य स्नापयन्ति स्म नदीतीरेषु वल्गुषु। | 2.91.52aउच्छाद्य स्नापयन्ति स्म नदीतीरेषु वल्गुषु । | 2.91.54aउच्छाद्य स्नापयन्ति स्म नदीतीरेष वल्गुषु। |
| 138 | #53bಅಪ್ಯೇಕಮೇಕಂ ಪುರುಷಂ ಪ್ರಮದಾಃ ಸಪ್ತ ಚಾಷ್ಟ ಚ ॥ | 2.91.53bअप्येकमेकं पुरुषं प्रमदाः सप्त चाष्ट च ॥ ५३ ॥ | 2.85.50bअप्येकमेकं पुरुषं प्रमदाः सत्प चाष्ट च ॥2.85.50॥ | 2.91.52bअप्येकमेकं पुरुषं प्रमदाः सप्त चाष्ट च ॥ 2.91.52 ॥ | 2.91.52bअप्येकमेकं पुरुषं प्रमदाः सप्त चाष्ट च ॥ 2.91.52 ॥ | 2.91.52bअप्येकमेकं पुरुषं प्रमदाः सप्त चाष्ट च ॥ २।९१।५२ ॥ | 2.91.54bअप्येकमेकं पुरषं प्रमदास्सप्त चाष्ट च॥2.91.54॥ |
| 139 | #54aಸಂವಾಹಂತ್ಯಃ ಸಮಾಪೇತುರ್ನಾರ್ಯೋ ವಿಪುಲಲೋಚನಾಃ । | 2.91.54aसंवाहन्त्यः समापेतुर्नार्यो विपुललोचनाः । | 2.85.51aसंवहन्त्यः समापेतुर्नार्यो रुचिरलोचनाः । | 2.91.53aसंवाहन्त्यः समापेतुर्नार्यो रुचिरलोचनाः । | 2.91.53aसंवाहन्त्यः समापेतुर्नार्यो रुचिरलोचनाः। | 2.91.53aसंवाहन्त्यः समापेतुर्नार्यो रुचिरलोचनाः । | 2.91.55aसंवाहन्त्यस्समापेतुर्नार्यो रुचिरलोचनाः। |
| 140 | #54bಪರಿಮೃಜ್ಯ ತಥಾನ್ಯೋನ್ಯಂ ಪಾಯಯಂತಿ ವರಾಂಗನಾಃ ॥ | 2.91.54bपरिमृज्य तदान्योन्यं पाययन्ति वराङ्गनाः ॥ ५४ ॥ | 2.85.51bपरिमृज्य तथान्योन्यं पाययन्ति वराङ्गनाः ॥2.85.51॥ | 2.91.53bपरिमृज्य तथान्योन्यं पाययन्ति वराङ्गनाः ॥ 2.91.53 ॥ | 2.91.53bपरिमृज्य तथान्योन्यं पाययन्ति वराङ्गनाः ॥ 2.91.53 ॥ | 2.91.53bपरिमृज्य तथान्योन्यं पाययन्ति वराङ्गनाः ॥ २।९१।५३ ॥ | 2.91.55bपरिमृज्य तथाऽन्योन्यं पाययन्ति वराङ्गनाः॥2.91.55॥ |
| 141 | 2.91.5253aउच्छाद्येति । | ||||||
| 142 | 2.91.5253bउच्छाद्य उद्वर्त्तनं कृत्वा । | ||||||
| 143 | 2.91.5253c“उद्वर्त्तनोच्छादने द्वे” इत्यमरः । | ||||||
| 144 | 2.91.5253dतैलादिना शशीरमर्दनं कृत्वेत्यर्थः । | ||||||
| 145 | 2.91.5253eवल्गुषु रम्येषु । | ||||||
| 146 | 2.91.5253fएकमेकमिति “एकम्बहुव्रीहिवत्” इति बहुव्रीहिवद्भावाभाव आर्षः । | ||||||
| 147 | 2.91.5253gसंवाहन्त्यः संवाहयन्त्यः पादसंवाहनं कुर्वन्त्यः । | ||||||
| 148 | 2.91.5253hपरिमृज्य जलार्द्रमङ्गं वस्त्रादिना परिमृज्य अलङ्कृत्येति वार्थः । | ||||||
| 149 | 2.91.5253iअन्योन्यं रहसि पाययन्ति, सुरा इति शेषः ॥ 2.91.5253 ॥ | ||||||
| 150 | #55aಹಯಾನ್ಗಜಾನ್ಖರಾನುಷ್ಟ್ರಾಂಸ್ತಥೈವ ಸುರಭೇಃ ಸುತಾನ್ । | 2.91.55aहयान् गजान् खरानुष्ट्रांस्तथैव सुरभेः सुतान् । | 2.85.52aहयान्गजान्खरानुष्ट्रांस्तथैव सुरभेः सुतान् । | 2.91.54aहयान् गजान् खरानुष्ट्रांस्तथैव सुरभेः सुतान् । | 2.91.54aहयान् गजान् खरानुष्ट्रांस्तथैव सुरभेः सुतान्। | 2.91.54aहयान् गजान् खरानुष्ट्रांस्तथैव सुरभेः सुतान् । | 2.91.56aहयान् गजान् खारानुष्ट्रान्तथैव सुरभेस्सुतान्। |
| 151 | #55bಅಭೋಜಯನ್ವಾಹನಪಾಸ್ತೇಷಾಂ ಭೋಜ್ಯಂ ಯಥಾವಿಧಿ ॥ | 2.91.55bअभोजयन् वाहनपास्तेषां भोज्यं यथाविधि ॥ ५५ ॥ | 2.91.54bअभोजयन् वाहनपास्तेषां भोज्यं यथाविधि ॥ 2.91.54 ॥ | 2.91.54bअभोजयन् वाहनपास्तेषां भोज्यं यथाविधि ॥ 2.91.54 ॥ | 2.91.54bअभोजयन् वाहनपास्तेषां भोज्यं यथाविधि ॥ २।९१।५४ ॥ | 2.91.56bअभोजयन्वाहनपास्तेषां भोज्यं यथाविधि॥2.91.56॥ | |
| 152 | #56aಇಕ್ಷೂಂಶ್ಚ ಮಧುಲಾಜಾಂಶ್ಚ ಭೋಜಯಂತಿಸ್ಮ ವಾಹನಾನ್ । | 2.91.56aइक्षूंश्च मधुलाजांश्च भोजयन्ति स्म वाहनान् । | 2.85.52bइक्षूंश्च मधुजालांश्च भोजयन्ति स्म वाहनान् । | 2.91.55aइक्षूंश्च मधुलाजांश्च भोजयन्ति स्म वाहनान् । | 2.91.55aइक्षूंश्च मधुलाजांश्च भोजयन्ति स्म वाहनान्। | 2.91.55aइक्षूंश्च मधुलाजांश्च भोजयन्ति स्म वाहनान् । | 2.91.57aइक्षूंश्च मधुलाजांश्च भोजयन्ति स्म वाहनान्। |
| 153 | #56bಇಕ್ಷ್ವಾಕುವರಯೋಧಾನಾಂ ಚೋದಯಂತೋ ಮಹಾಬಲಾಃ ॥ | 2.91.56bइक्ष्वाकुवरयोधानां चोदयन्तो महाबलाः ॥ ५६ ॥ | 2.85.52cइक्ष्वाकुवरयोधानां चोदयन्तो महाबलाः ॥2.85.52॥ | 2.91.55bइक्ष्वाकुवरयोधानां चोदयन्तो महाबलाः ॥ 2.91.55 ॥ | 2.91.55bइक्ष्वाकुवरयोधानां चोदयन्तो महाबलाः ॥ 2.91.55 ॥ | 2.91.55bइक्ष्वाकुवरयोधानां चोदयन्तो महाबलाः ॥ २।९१।५५ ॥ | 2.91.57bइक्ष्वाकुवरयोधानां चोदयन्तो महाबलाः॥2.91.57॥ |
| 154 | #57aನಾಶ್ವಬಂಧೋಽಶ್ವಮಾಜಾನಾನ್ನ ಗಜಂ ಕುಂಜರಗ್ರಹಃ । | 2.91.57aनाश्वबन्धोऽश्वमाजानान्न गजं कुञ्जरग्रहः । | 2.85.53aनाश्वबन्धोऽश्वमाजानान्न गजं कुञ्जरग्रहः । | 2.91.56aनाश्वबन्धो ऽश्वमाजानान्न गजं कुञ्जरग्रहः । | 2.91.56aनाश्वबन्धोऽश्वमाजानान्न गजं कुञ्जरग्रहः। | 2.91.56aनाश्वबन्धो ऽश्वमाजानान्न गजं कुञ्जरग्रहः । | 2.91.58aनाश्वबन्धोऽश्वमाजानान्नगजं कुञ्जरग्रहः। |
| 155 | #57bಮತ್ತಪ್ರಮತ್ತಮುದಿತಾ ಸಾ ಚಮೂಸ್ತತ್ರ ಸಂಬಭೌ ॥ | 2.91.57bमत्तप्रमत्तमुदिता सा चमूस्तत्र सम्बभौ ॥ ५७ ॥ | 2.85.53bमत्तप्रमत्तमुदिता चमूः सा तत्र संबभौ ॥2.85.53॥ | 2.91.56bमत्तप्रमत्तमुदिता नमूः सा तत्र सम्बभौ ॥ 2.91.56 ॥ | 2.91.56bमत्तप्रमत्तमुदिता नमूः सा तत्र सम्बभौ ॥ 2.91.56 ॥ | 2.91.56bमत्तप्रमत्तमुदिता नमूः सा तत्र सम्बभौ ॥ २।९१।५६ ॥ | 2.91.58bमत्तप्रमत्तमुदिता चमूः सा तत्र संबभौ॥2.91.58॥ |
| 156 | #58aತರ್ಪಿತಾಃ ಸರ್ವಕಾಮೈಶ್ಚ ರಕ್ತಚಂದನರೂಷಿತಾಃ । | 2.91.58aतर्पिताः सर्वकामैश्च रक्तचन्दनरूषिताः । | 2.85.54aतर्पिता सर्वकामैस्ते रक्तचन्दनरूषिताः । | 2.91.57aतर्पिताः सर्वकामैस्ते रक्तचन्दनरूषिताः । | 2.91.57aतर्पिताः सर्वकामैस्ते रक्तचन्दनरूषिताः। | 2.91.57aतर्पिताः सर्वकामैस्ते रक्तचन्दनरूषिताः । | 2.91.59aतर्पितास्सर्वकामैस्ते रक्तचन्दनरूषिताः। |
| 157 | #58bಅಪ್ಸರೋಗಣಸಂಯುಕ್ತಾಃ ಸೈನ್ಯಾ ವಾಚಮುದೀರಯನ್ ॥ | 2.91.58bअप्सरोगणसंयुक्ताः सैन्या वाचमुदीरयन् ॥ ५८ ॥ | 2.85.54bअप्सरोगणसंयुक्ताः सैन्या वाचमुदैरयन् ॥2.85.54॥ | 2.91.57bअप्सरोगणसंयुक्ताः सैन्या वाचमुदैरयन् ॥ 2.91.57 ॥ | 2.91.57bअप्सरोगणसंयुक्ताः सैन्या वाचमुदैरयन् ॥ 2.91.57 ॥ | 2.91.57bअप्सरोगणसंयुक्ताः सैन्या वाचमुदैरयन् ॥ २।९१।५७ ॥ | 2.91.59bअप्सरोगणसंयुक्तास्सैन्या वाचमुदैरयन्॥2.91.59॥ |
| 158 | #59aನೈವಾಯೋಧ್ಯಾಂ ಗಮಿಷ್ಯಾಮೋ ನ ಗಮಿಷ್ಯಾಮದಂಡಕಾನ್ । | 2.91.59aनैवायोध्यां गमिष्यामो न गमिष्याम दण्डकान् । | 2.85.55aनैवायोध्यां गमिष्यामो न गमिष्याम दण्डकान् । | 2.91.58aनैवायोध्यां गमिष्यामो न गमिष्याम दण्डकान् । | 2.91.58aनैवायोध्यां गमिष्यामो न गमिष्याम दण्डकान्। | 2.91.58aनैवायोध्यां गमिष्यामो न गमिष्याम दण्डकान् । | 2.91.60aनैवायोध्यां गमिष्यामो नगमिष्याम दण्डकान्। |
| 159 | #59bಕುಶಲಂ ಭರತಸ್ಯಾಸ್ತು ರಾಮಸ್ಯಾಸ್ತು ತಥಾ ಸುಖಮ್ ॥ | 2.91.59bकुशलं भरतस्यास्तु रामस्यास्तु तथा सुखम् ॥ ५९ ॥ | 2.85.55bकुशलं भरतस्यास्तु रामस्यास्तु तथा सुखम् ॥2.85.55॥ | 2.91.58bकुशलं भरतस्यास्तु रामस्यास्तु तथा सुखम् ॥ 2.91.58 ॥ | 2.91.58bकुशलं भरतस्यास्तु रामस्यास्तु तथा सुखम् ॥ 2.91.58 ॥ | 2.91.58bकुशलं भरतस्यास्तु रामस्यास्तु तथा सुखम् ॥ २।९१।५८ ॥ | 2.91.60bकुशलं भरतस्यास्तु रामस्यास्तु तथा सुखम्॥2.91.60॥ |
| 160 | #60aಇತಿಪಾದಾತಯೋಧಾಶ್ಚ ಹಸ್ತ್ಯಶ್ವಾರೋಹಬಂಧಕಾಃ । | 2.91.60aइति पादातयोधाश्च हस्त्यश्वारोहबन्धकाः । | 2.85.56aइति पादातयोधाश्च हस्त्यश्वारोहबन्धकाः । | 2.91.59aइति पादातयोधाश्च हस्त्यश्वारोह बन्धकाः । | 2.91.59aइति पादातयोधाश्च हस्त्यश्वारोह बन्धकाः। | 2.91.59aइति पादातयोधाश्च हस्त्यश्वारोह बन्धकाः । | 2.91.61aइति पादातयोधाश्च हस्त्यश्वारोहबन्धकाः। |
| 161 | #60bಅನಾಥಾಸ್ತಂ ವಿಧಿಂಲಬ್ಧ್ವಾ ವಾಚಮೇತಾಮುದೀರಯನ್ ॥ | 2.91.60bअनाथास्तं विधिं लब्ध्वा वाचमेतामुदीरयन् ॥ ६० ॥ | 2.85.56bअनाथास्तं विधिं लब्ध्वा वाचमेतामुदैरयन् ॥2.85.56॥ | 2.91.59bअनाथास्तं विधिं लब्ध्वा वाचमेतामुदैरयन् ॥ 2.91.59 ॥ | 2.91.59bअनाथास्तं विधिं लब्ध्वा वाचमेतामुदैरयन् ॥ 2.91.59 ॥ | 2.91.59bअनाथास्तं विधिं लब्ध्वा वाचमेतामुदैरयन् ॥ २।९१।५९ ॥ | 2.91.61bअनाथास्तं विधिं लब्ध्वा वाचमेतामुदीरयन्॥2.91.61॥ |
| 162 | 2.91.5859aस्वामिरहिताः, स्वतन्त्रा इति यावत् । | ||||||
| 163 | 2.91.5859aउदीरणप्रकारमाह–नेत्यादिना । | ||||||
| 164 | 2.91.5859bन गमिष्याम इत्यत्र विसर्गलोपश्छान्दसः । | ||||||
| 165 | 2.91.5859cभरतस्य कुशलमस्तु भरतो यथातथावा तिष्ठत्वित्यर्थः । | ||||||
| 166 | 2.91.5859dएव रामस्येत्यत्रापि । | ||||||
| 167 | 2.91.5859eपादाभ्यामतन्तीति पादात्ताः । | ||||||
| 168 | 2.91.5859f“अत सातत्यगमने” इति धातुः । | ||||||
| 169 | 2.91.5859gते च ते योधाश्च पादातयोधाः । | ||||||
| 170 | 2.91.5859hचकाराद्रथिकसमुच्चयः । | ||||||
| 171 | 2.91.5859iहस्त्यश्वानामारोहाः सादिनः हस्त्यादिबन्धकाः तद्भृत्याः तं विधिं सत्कारं लब्ध्वा अनाथाः स्वामिरहिताः, स्वतन्त्रा इति यावत् । | ||||||
| 172 | 2.91.5859jनैवायोध्यामित्येतां वाचमुदैरयन्निति सम्बन्धः ॥ 2.91.5859 ॥ | 2.91.5859bनैवायोध्यामित्येतां वाचमुदैरयन्निति सम्बन्धः ॥ २।९१।५८५९ ॥ | |||||
| 173 | #61aಸಂಪ್ರಹೃಷ್ಟಾ ವಿನೇದುಸ್ತೇ ನರಾಸ್ತತ್ರ ಸಹಸ್ರಶಃ । | 2.91.61aसम्प्रहृष्टा विनेदुस्ते नरास्तत्र सहस्रशः । | 2.85.57aसंप्रहृष्टा विनेदुस्ते नरास्तत्र सहस्रशः । | 2.91.60aसम्प्रहृष्टा विनेदुस्ते नरास्तत्र सहस्रशः । | 2.91.60aसम्प्रहृष्टा विनेदुस्ते नरास्तत्र सहस्रशः। | 2.91.60aसम्प्रहृष्टा विनेदुस्ते नरास्तत्र सहस्रशः । | 2.91.62aसंम्प्रहृष्टा विनेदुस्ते नरास्तत्र सहस्रशः। |
| 174 | #61bಭರತಸ್ಯಾನುಯಾತಾರಃ ಸ್ವರ್ಗೋಽಯಮಿತಿ ಚಾಬ್ರುವನ್ ॥ | 2.91.61bभरतस्यानुयातारः स्वर्गोऽयमिति चाब्रुवन् ॥ ६१ ॥ | 2.85.57bभरतस्यानुयातारः स्वर्गेऽयमिति चाब्रुवन् ॥2.85.57॥ | 2.91.60bभरतस्यानुयातारः स्वर्गोयमिति चाब्रुवन् ॥ 2.91.60 ॥ | 2.91.60bभरतस्यानुयातारः स्वर्गोयमिति चाब्रुवन् ॥ 2.91.60 ॥ | 2.91.60bभरतस्यानुयातारः स्वर्गोयमिति चाब्रुवन् ॥ २।९१।६० ॥ | 2.91.62bभरतस्यानुयातारस्स्वर्गोऽयमिति चाब्रुवन्॥2.91.62॥ |
| 175 | #62aನೃತ್ಯತಂಶ್ಚ ಹಸಂತಶ್ಚ ಗಾಯಂತಶ್ಚೈವ ಸೈನಿಕಾಃ । | 2.91.62aनृत्यन्तश्च हसन्तश्च गायन्तश्चैव सैनिकाः । | 2.91.61aनृत्यन्ति स्म हसन्ति स्म गायन्ति स्म च सैनिकाः । | 2.91.61aनृत्यन्ति स्म हसन्ति स्म गायन्ति स्म च सैनिकाः। | 2.91.61aनृत्यन्ति स्म हसन्ति स्म गायन्ति स्म च सैनिकाः । | 2.91.63नृत्यन्ति स्म हसन्ति स्म गायन्ति स्म च सैनिकाः समन्तात्परिधावन्ति माल्योपेतास्सहस्रशः॥2.91.63॥ | |
| 176 | #62bಸಮಂತಾತ್ ಪರಿಧಾವಂತೋ ಮಾಲ್ಯೋಪೇತಾಃ ಸಹಸ್ರಶಃ ॥ | 2.91.62bसमन्तात् परिधावन्तो माल्योपेताः सहस्रशः ॥ ६२ ॥ | 2.91.61bसमन्तात् परिधावन्ति माल्योपेताः सहस्रशः ॥ 2.91.61 ॥ | 2.91.61bसमन्तात् परिधावन्ति माल्योपेताः सहस्रशः ॥ 2.91.61 ॥ | 2.91.61bसमन्तात् परिधावन्ति माल्योपेताः सहस्रशः ॥ २।९१।६१ ॥ | ||
| 177 | 2.91.6061aसम्प्रहृष्टा इति । | 2.91.6061aसम्प्रहृष्टा इति । | |||||
| 178 | 2.91.6061bविनेदुः जगर्जुः ॥ 2.91.6061 ॥ | 2.91.6061bविनेदुः जगर्जुः ॥ २।९१।६०६१ ॥ | |||||
| 179 | #63aತತೋ ಭುಕ್ತವತಾಂ ತೇಷಾಂತದನ್ನಮಮೃತೋಪಮಮ್ । | 2.91.63aततो भुक्तवतां तेषां तदन्नममृतोपमम् । | 2.85.58aततो भुक्तवतां तेषां तदन्नममृतोपमम् । | 2.91.62aततो भुक्तवतां तेषां तदन्नममृतोपमम् । | 2.91.62aततो भुक्तवतां तेषां तदन्नममृतोपमम्। | 2.91.62aततो भुक्तवतां तेषां तदन्नममृतोपमम् । | 2.91.64aततो भुक्तवतां तेषां तदन्नममृतोपमम्। |
| 180 | #63bದಿವ್ಯಾನುದ್ವೀಕ್ಷ್ಯ ಭಕ್ಷ್ಯಾಂಸ್ತಾನಭವದ್ ಭಕ್ಷಣೇ ಮತಿಃ ॥ | 2.91.63bदिव्यानुद्वीक्ष्य भक्ष्यांस्तानभवद् भक्षणे मतिः ॥ ६३ ॥ | 2.85.58bदिव्यानुद्वीक्ष्य भक्ष्यांस्तानभवद्भक्षणे मतिः ॥2.85.58॥ | 2.91.62bदिव्यानुद्वीक्ष्य भक्ष्यांस्तानभवद्भक्षणे मतिः ॥ 2.91.62 ॥ | 2.91.62bदिव्यानुद्वीक्ष्य भक्ष्यांस्तानभवद्भक्षणे मतिः ॥ 2.91.62 ॥ | 2.91.62bदिव्यानुद्वीक्ष्य भक्ष्यांस्तानभवद्भक्षणे मतिः ॥ २।९१।६२ ॥ | 2.91.64bदिव्यानुद्वीक्ष्य भक्ष्यां स्तानभवद्भक्षणे मतिः॥2.91.64॥ |
| 181 | #64aಪ್ರೇಷ್ಯಾಶ್ಚೇಟ್ಯಶ್ಚ ವಧ್ಯಶ್ಚ ಬಲಸ್ಥಾಶ್ಚಾಪಿ ಸರ್ವಶಃ । | 2.91.64aप्रेष्याश्चेट्यश्च वध्वश्च बलस्थाश्चापि सर्वशः । | 2.85.59aप्रेष्याश्चेट्यश्च वध्वश्च बलस्थाश्चापि सर्वशः । | 2.91.63aप्रेष्याश्चेष्ट्यश्च वध्वश्च बलस्थाश्च सहस्रशः । | 2.91.63aप्रेष्याश्चेष्ट्यश्च वध्वश्च बलस्थाश्च सहस्रशः। | 2.91.63aप्रेष्याश्चेष्ट्यश्च वध्वश्च बलस्थाश्च सहस्रशः । | 2.91.65aप्रेष्याश्चेट्यश्च वध्वश्च बलस्थाश्च सहस्रशः। |
| 182 | #64bಬಭೂಷುಸ್ತೇ ಭೃಶಂ ಪ್ರೀತಾಃ ಸರ್ವೇ ಚಾಹತವಾಸಸಃ ॥ | 2.91.64bबभूवुस्ते भृशं प्रीताः सर्वे चाहतवाससः ॥ ६४ ॥ | 2.85.59bबभूवुस्ते भृशं तृप्ताः सर्वे चाहतवाससः ॥2.85.59॥ | 2.91.63bबभूवुस्ते भृशं दृप्ताः सर्वे चाहतवाससः ॥ 2.91.63 ॥ | 2.91.63bबभूवुस्ते भृशं दृप्ताः सर्वे चाहतवाससः ॥ 2.91.63 ॥ | 2.91.63bबभूवुस्ते भृशं दृप्ताः सर्वे चाहतवाससः ॥ २।९१।६३ ॥ | 2.91.65bबभूवुस्ते भृशं दृप्तास्सर्वे चाहतवाससः॥2.91.65॥ |
| 183 | #65aಕುಂಜರಾಶ್ಚ ಖರೋಷ್ಟ್ರಾಶ್ಚ ಗೋಽಶ್ವಾಶ್ಚ ಮೃಗಪಕ್ಷಿಣಃ । | 2.91.65aकुञ्जराश्च खरोष्ट्राश्च गोऽश्वाश्च मृगपक्षिणः । | 2.85.60aकुञ्जराश्च खरोष्ट्रश्च गोश्वाश्च मृगपक्षिणः । | 2.91.64aकुञ्जराश्च खरोष्ट्राश्च गोश्वाश्च मृगपक्षिणः । | 2.91.64aकुञ्जराश्च खरोष्ट्राश्च गोश्वाश्च मृगपक्षिणः। | 2.91.64aकुञ्जराश्च खरोष्ट्राश्च गोश्वाश्च मृगपक्षिणः । | 2.91.66aकुञ्जराश्च खरोष्ट्राश्च गोऽश्वाश्च मृगपक्षिणः। |
| 184 | #65bಬಭೂವುಃ ಸುಭೃತಾಸ್ತತ್ರ ನಾತೋ ಹ್ಯನ್ಯಮಕಲ್ಪಯತ್ ॥ | 2.91.65bबभूवुः सुभृतास्तत्र नातो ह्यन्यमकल्पयत् ॥ ६५ ॥ | 2.85.60bबभूवुः सुभृतास्तत्र नान्यो ह्यन्यमकल्पयत् ॥2.85.60॥ | 2.91.64bबभूवुः सुभृतास्तत्र नान्यो ह्यन्यमकल्पयत् ॥ 2.91.64 ॥ | 2.91.64bबभूवुः सुभृतास्तत्र नान्यो ह्यन्यमकल्पयत् ॥ 2.91.64 ॥ | 2.91.64bबभूवुः सुभृतास्तत्र नान्यो ह्यन्यमकल्पयत् ॥ २।९१।६४ ॥ | 2.91.66bबभूवुस्सुभृतास्तत्र नान्यो ह्यन्यमकल्पयत्॥2.91.66॥ |
| 185 | #66aನಾಶುಕ್ಲವಾಸಾಸ್ತತ್ರಾಸೀತ್ ಕ್ಷುಧಿತೋ ಮಲಿನೋಽಪಿ ವಾ । | 2.91.66aनाशुक्लवासास्तत्रासीत् क्षुधितो मलिनोऽपि वा । | 2.85.61aनाशुक्लवासास्तत्रासीत्क्षुधितो मलिनोऽपि वा । | 2.91.65aनाशुक्लवासास्तत्रासीत् क्षुधितो मलिनो ऽपि वा । | 2.91.65aनाशुक्लवासास्तत्रासीत् क्षुधितो मलिनोऽपि वा। | 2.91.65aनाशुक्लवासास्तत्रासीत् क्षुधितो मलिनो ऽपि वा । | 2.91.67aनाऽशुक्लवासा स्तत्राऽसीत्क्षुधितो मलिनोऽपि वा। |
| 186 | #66bರಜಸಾ ಧ್ವಸ್ತಕೇಶೋ ವಾ ನರಃ ಕಶ್ಚಿದದೃಶ್ಯತ ॥ | 2.91.66bरजसा ध्वस्तकेशो वा नरः कश्चिददृश्यत ॥ ६६ ॥ | 2.85.61bरजसा ध्वस्तकेशो वा नरः कश्चिददृश्यत ॥2.85.61॥ | 2.91.65bरजसा ध्वस्तकेशो वा नरः कश्चिददृश्यत ॥ 2.91.65 ॥ | 2.91.65bरजसा ध्वस्तकेशो वा नरः कश्चिददृश्यत ॥ 2.91.65 ॥ | 2.91.65bरजसा ध्वस्तकेशो वा नरः कश्चिददृश्यत ॥ २।९१।६५ ॥ | 2.91.67bरजसा ध्वस्तकेशो वा नरः कश्चिददृश्यत॥2.91.67॥ |
| 187 | 2.91.6465aकुञ्जरा इति । | ||||||
| 188 | 2.91.6465bखरसहितोष्ट्राः खरोष्ट्राः । | ||||||
| 189 | 2.91.6465cमृगपक्षिणः क्रीडार्थं सैनिकैरानीताः । | ||||||
| 190 | 2.91.6465dसुभृताः सुतृप्ताः सुपुष्टा वा । | ||||||
| 191 | 2.91.6465eतत्र सेनायाम् । | ||||||
| 192 | 2.91.6465fअन्यः अन्यं नाकल्पयत् ऋषिकृतव्यतिरिक्तम् अन्नादिकं नाकरोदित्यर्थः ॥ 2.91.6465 ॥ | ||||||
| 193 | #67aಆಜೈಶ್ಚಾಪಿ ಚ ವಾರಾಹೈರ್ನಿಷ್ಠಾನವರಸಂಚಯೈಃ । | 2.91.67aआजैश्चापि च वाराहैर्निष्ठानवरसञ्चयैः । | 2.85.62aआजैश्चापि च वाराहैर्निष्ठानवरसंचयैः । | 2.91.66aआजैश्चापि च वाराहैर्निष्ठानवरसञ्चयैः । | 2.91.66aआजैश्चापि च वाराहैर्निष्ठानवरसञ्चयैः। | 2.91.66aआजैश्चापि च वाराहैर्निष्ठानवरसञ्चयैः । | 2.91.68aआजैश्चापि च वाराहैर्निष्ठानवरस़ञ्चयैः। |
| 194 | #67bಫಲನಿರ್ಯೂಹಸಂಸಿದ್ಧೈಃ ಸೂಪೈರ್ಗಂಧರಸಾನ್ವಿತೈಃ ॥ | 2.91.67bफलनिर्यूहसंसिद्धैः सूपैर्गन्धरसान्वितैः ॥ ६७ ॥ | 2.85.62bफलनिर्यूहसंसिद्धैः सूपैर्गन्धरसान्वितैः ॥2.85.62॥ | 2.91.66bफलनिर्यूहसंसिद्धैः सूपैर्गन्धरसान्वितैः ॥ 2.91.66 ॥ | 2.91.66bफलनिर्यूहसंसिद्धैः सूपैर्गन्धरसान्वितैः ॥ 2.91.66 ॥ | 2.91.66bफलनिर्यूहसंसिद्धैः सूपैर्गन्धरसान्वितैः ॥ २।९१।६६ ॥ | 2.91.68bफलनिर्यूह संसिद्दैस्सूपैर्गन्ध रसान्वितैः॥2.91.68॥ |
| 195 | #68aಪುಷ್ಪಧ್ವಜವತೀಃ ಪೂರ್ಣಾಃ ಶುಕ್ಲಸ್ಯಾನ್ನಸ್ಯ ಚಾಭಿತಃ । | 2.91.68aपुष्पध्वजवतीः पूर्णाः शुक्लस्यान्नस्य चाभितः । | 2.85.63aपुष्पध्वजवतीः पूर्णाः शुक्लस्यान्नस्य चाभितः । | 2.91.67aपुष्पध्वजवतीः पूर्णाः शुक्लस्यान्नस्य चाभितः । | 2.91.67aपुष्पध्वजवतीः पूर्णाः शुक्लस्यान्नस्य चाभितः। | 2.91.67aपुष्पध्वजवतीः पूर्णाः शुक्लस्यान्नस्य चाभितः । | 2.91.69aपुष्पध्वजवतीः पूर्णाश्शुक्लस्यान्नस्य चाभितः। |
| 196 | #68bದದೃಶುರ್ವಿಸ್ಮಿತಾಸ್ತತ್ರ ನರಾ ಲೌಹೀಃ ಸಹಸ್ರಶಃ ॥ | 2.91.68bददृशुर्विस्मितास्तत्र नरा लौहीः सहस्रशः ॥ ६८ ॥ | 2.85.63bददृशुर्विस्मितास्तत्र नरा लौहीः सहस्रशः ॥2.85.63॥ | 2.91.67bददृशुर्विस्मितास्तत्र नरा लौहीः सहस्रशः ॥ 2.91.67 ॥ | 2.91.67bददृशुर्विस्मितास्तत्र नरा लौहीः सहस्रशः ॥ 2.91.67 ॥ | 2.91.67bददृशुर्विस्मितास्तत्र नरा लौहीः सहस्रशः ॥ २।९१।६७ ॥ | 2.91.69bददृशुर्विस्मितास्तत्रनरा लौहीस्सहस्रशः॥2.91.69॥ |
| 197 | 2.91.6667aआजैरित्यादिश्लोकद्वयमेकान्वयम् । | ||||||
| 198 | 2.91.6667bआजैः अजमांसैः । | ||||||
| 199 | 2.91.6667cवाराहैः वराहमांसैः । | ||||||
| 200 | 2.91.6667dनिष्ठानवरसञ्चयैः व्यञ्जनश्रेष्ठसमूहैः । | ||||||
| 201 | 2.91.6667e“निष्ठानं व्यञ्जनं स्मृतम्” इति हलायुधः । | ||||||
| 202 | 2.91.6667fफलनिर्यूहसंसिद्धैः सम्यङ्निष्पन्नफलयुक्तशर्करादिक्वाथरसैः । | ||||||
| 203 | 2.91.6667g“द्वार्यापीडे क्वाथरसे निर्यूहो नागदन्तके” इति वैजयन्ती । | ||||||
| 204 | 2.91.6667hसूपैः मुद्गाढकीचणकादिसूपैः । | 2.91.6667aमुद्गाढकीचणकादिसूपैः । | |||||
| 205 | 2.91.6667iगन्धरसान्वितैः पाकभेदोत्थगन्थरसयुक्तैः । | 2.91.6667bगन्धरसान्वितैः पाकभेदोत्थगन्थरसयुक्तैः । | |||||
| 206 | 2.91.6667jपुष्पध्वजवतीः अलङ्कारार्थपरिकल्पितपुष्पशिल्पवतीः । | 2.91.6667cपुष्पध्वजवतीः अलङ्कारार्थपरिकल्पितपुष्पशिल्पवतीः । | |||||
| 207 | 2.91.6667kशुक्लस्यान्नस्य पूर्णाः शुक्लेनान्नेन च पूर्णाः । | 2.91.6667dशुक्लस्यान्नस्य पूर्णाः शुक्लेनान्नेन च पूर्णाः । | |||||
| 208 | 2.91.6667lलौही लोहमयपात्रीः । | 2.91.6667eलौही लोहमयपात्रीः । | |||||
| 209 | 2.91.6667mसर्वलोहेषु प्रधानत्वात् सुवर्णमत्र लोहशब्देनोच्यते ॥ 2.91.6667 ॥ | 2.91.6667fसर्वलोहेषु प्रधानत्वात् सुवर्णमत्र लोहशब्देनोच्यते ॥ २।९१।६६६७ ॥ | |||||
| 210 | #69aಬಬೂವುರ್ವನಪಾರ್ಶ್ವೇಷು ಕೂಪಾಃ ಪಾಯಸಕರ್ದಮಾಃ । | 2.91.69aबभूवुर्वनपार्श्वेषु कूपाः पायसकर्दमाः । | 2.85.64aबभूवुर्वनपार्श्वेषु कूपाः पायसकर्दमाः । | 2.91.68aबभूवुर्वनपार्श्वेषु कूपाः पायसकर्दमाः । | 2.91.68aबभूवुर्वनपार्श्वेषु कूपाः पायसकर्दमाः। | 2.91.68aबभूवुर्वनपार्श्वेषु कूपाः पायसकर्दमाः । | 2.91.70aबभूवुर्वनपार्श्वेषु कूपाः पायसकर्दमाः। |
| 211 | #69bತಾಶ್ಚ ಕಾಮದುಘಾ ಗಾವೋ ದ್ರುಮಾಶ್ಚಾಸನ್ ಮಧುಚ್ಯುತಃ ॥ | 2.91.69bताश्च कामदुघा गावो द्रुमाश्चासन् मधुच्युतः ॥ ६९ ॥ | 2.85.64bताश्च कामदुघा गावो द्रुमाश्चासन्मधुश्च्युतः ॥2.85.64॥ | 2.91.68bताश्च कामदुघा गावो द्रुमाश्चासन् मधुस्रुतः ॥ 2.91.68 ॥ | 2.91.68bताश्च कामदुघा गावो द्रुमाश्चासन् मधुस्रुतः ॥ 2.91.68 ॥ | 2.91.68bताश्च कामदुघा गावो द्रुमाश्चासन् मधुस्रुतः ॥ २।९१।६८ ॥ | 2.91.70bताश्चकामदुघा गावो द्रुमाश्चासन्मधुश्च्युतः॥2.91.70॥ |
| 212 | #70aವಾಪ್ಯೋ ಮೈರೈಯಪೂರ್ಣಾಶ್ಚ ಮೃಷ್ಟಮಾಂಸಚಯೈರ್ವೃತಾಃ । | 2.91.70aवाप्यो मैरेयपूर्णाश्च मृष्टमांसचयैर्वृताः । | 2.85.65aवाप्यो मैरेयपूर्णाश्च मृष्टमांसचयैर्वृताः । | 2.91.69aवाप्यो मैरेयपूर्णाश्च मृष्टमांसचयैर्वृताः । | 2.91.69aवाप्यो मैरेयपूर्णाश्च मृष्टमांसचयैर्वृताः। | 2.91.69aवाप्यो मैरेयपूर्णाश्च मृष्टमांसचयैर्वृताः । | 2.91.71aवाप्यो मैरेयपूर्णाश्च मृष्टमांसचयैर्वृताः। |
| 213 | #70bಪ್ರತಪ್ತಪಿಠರೈಶ್ಚಾಪಿ ಮಾರ್ಗಮಾಯೂರಕೌಕ್ಕುಟೈಃ ॥ | 2.91.70bप्रतप्तपिठरैश्चापि मार्गमायूरकौक्कुटैः ॥ ७० ॥ | 2.85.65bप्रतप्तपिठरैश्चापि मार्गमायूरकौक्कुटैः ॥2.85.65॥ | 2.91.69bप्रतप्तपिठरैश्चापि मार्गमायूरकौक्कुटैः ॥ 2.91.69 ॥ | 2.91.69bप्रतप्तपिठरैश्चापि मार्गमायूरकौक्कुटैः ॥ 2.91.69 ॥ | 2.91.69bप्रतप्तपिठरैश्चापि मार्गमायूरकौक्कुटैः ॥ २।९१।६९ ॥ | 2.91.71bप्रतप्तपिठरैश्चापि मार्गमायूरकौक्कुटैः॥2.91.71॥ |
| 214 | #71aಪಾತ್ರೀಣಾಂ ಚ ಸಹಸ್ರಾಣಿ ಸ್ಥಾಲೀನಾಂ ನಿಯುತಾನಿ ಚ । | 2.91.71aपात्रीणां च सहस्राणि स्थालीनां नियुतानि च । | 2.85.66aपात्रीणां च सहस्राणि शातकुम्भमयानि च । | 2.91.70aपात्रीणां च सहस्राणि स्थालीनां नियुतानि च । | 2.91.70aपात्रीणां च सहस्राणि स्थालीनां नियुतानि च। | 2.91.70aपात्रीणां च सहस्राणि स्थालीनां नियुतानि च । | 2.91.72aपात्रीणां च सहस्राणि स्थालीनां नियुतानि च। |
| 215 | #71bನ್ಯರ್ಬುದಾನಿ ಚ ಪಾತ್ರಾಣಿ ಶಾತಕುಂಭಮಯಾನಿ ಚ ॥ | 2.91.71bन्यर्बुदानि च पात्राणि शातकुम्भमयानि च ॥ ७१ ॥ | 2.91.70bन्यर्बुदानि च पात्राणि शातकुम्भमयानि च ॥ 2.91.70 ॥ | 2.91.70bन्यर्बुदानि च पात्राणि शातकुम्भमयानि च ॥ 2.91.70 ॥ | 2.91.70bन्यर्बुदानि च पात्राणि शातकुम्भमयानि च ॥ २।९१।७० ॥ | 2.91.72bन्यर्बुधानि च पात्राणि शातकुम्भमयानि च॥2.91.72॥ | |
| 216 | #72aಸ್ಥಾಲ್ಯಃ ಕುಂಭ್ಯಃ ಕರಂಭ್ಯಶ್ಚ ದಧಿಪೂರ್ಣಾಃ ಸುಸಂಸ್ಕೃತಾಃ । | 2.91.72aस्थाल्यः कुम्भ्यः करम्भ्यश्च दधिपूर्णाः सुसंस्कृताः । | 2.85.66bस्थाल्यः कुम्भ्यः करम्भ्यश्च दधिपूर्णाः सुसंस्कृताः । | 2.91.71aस्थाल्यः कुम्भ्यः करम्भ्यश्च दधिपूर्णाः सुसंस्कृताः । | 2.91.71aस्थाल्यः कुम्भ्यः करम्भ्यश्च दधिपूर्णाः सुसंस्कृताः। | 2.91.71aस्थाल्यः कुम्भ्यः करम्भ्यश्च दधिपूर्णाः सुसंस्कृताः । | 2.91.73aस्थाल्यः कुम्भ्य करम्भ्य श्च दधिपूर्णास्सुसंस्कृताः। |
| 217 | #72bಯೌವನಸ್ಥಸ್ಯ ಗೌರಸ್ಯ ಕಪಿತ್ಥಸ್ಯ ಸುಗಂಧಿನಃ ॥ | 2.91.72bयौवनस्थस्य गौरस्य कपित्थस्य सुगन्धिनः ॥ ७२ ॥ | 2.85.66cयौवनस्थस्य गौरस्य कपित्थस्य सुगन्धिनः ॥2.85.66॥ | 2.91.71bयौवनस्थस्य गौरस्य कपित्थस्य सुगन्धिनः ॥ 2.91.71 ॥ | 2.91.71bयौवनस्थस्य गौरस्य कपित्थस्य सुगन्धिनः ॥ 2.91.71 ॥ | 2.91.71bयौवनस्थस्य गौरस्य कपित्थस्य सुगन्धिनः ॥ २।९१।७१ ॥ | 2.91.73bयौवनस्थस्य गौरस्य कपित्थस्य सुगन्धिनः॥2.91.73॥ |
| 218 | #73aಹ್ರದಾಃ ಪೂರ್ಣಾ ರಸಾಲಸ್ಯದಧ್ನಃ ಶ್ವೇತಸ್ಯ ಚಾಪರೇ । | 2.91.73aह्रदाः पूर्णा रसालस्य दध्नः श्वेतस्य चापरे । | 2.85.67aह्रदाः पूर्णा रसालस्य दध्नः श्वेतस्य चापरे । | 2.91.72aह्रदाः पूर्णा रसालस्य दघ्नः श्वेतस्य चापरे । | 2.91.72aह्रदाः पूर्णा रसालस्य दघ्नः श्वेतस्य चापरे। | 2.91.72aह्रदाः पूर्णा रसालस्य दघ्नः श्वेतस्य चापरे । | 2.91.74aह्रदाः पूर्णा रसालस्य दध्नश्श्वेतस्य चापरे। |
| 219 | #73bಬಭೂವುಃ ಪಾಯಸಸ್ಯಾನ್ಯೇ ಶರ್ಕರಾಣಾಂ ಚ ಸಂಚಯಾಃ ॥ | 2.91.73bबभूवुः पायसस्यान्ये शर्कराणां च सञ्चयाः ॥ ७३ ॥ | 2.85.67bबभूवुः पायसस्यान्ते शर्करायाश्च संचयाः ॥2.85.67॥ | 2.91.72bबभूवुः पायसस्यान्ये शर्करायाश्च सञ्चयाः ॥ 2.91.72 ॥ | 2.91.72bबभूवुः पायसस्यान्ये शर्करायाश्च सञ्चयाः ॥ 2.91.72 ॥ | 2.91.72bबभूवुः पायसस्यान्ये शर्करायाश्च सञ्चयाः ॥ २।९१।७२ ॥ | 2.91.74bबभूवुः पायसस्यान्ये शर्करायावसञ्चयाः॥2.91.74॥ |
| 220 | 2.91.7072aपात्रीणामित्यारभ्य सञ्चया इत्यन्तमेकं वाक्यम् । | ||||||
| 221 | 2.91.7072bपात्रीणाम् अन्नधानकुम्भीनाम् । | ||||||
| 222 | 2.91.7072cस्थालीनां व्यञ्जनपात्राणाम् । | ||||||
| 223 | 2.91.7072dनियुतानि लक्षाणि । | ||||||
| 224 | 2.91.7072eन्यर्बुदानि दशकोट्यः । | ||||||
| 225 | 2.91.7072fपात्राणि भोजनपात्राणि, अमत्राणीति यावत् । | ||||||
| 226 | 2.91.7072gदधिपूर्णा इति स्थाल्यादित्रयविशेषणम् । | ||||||
| 227 | 2.91.7072hस्थाल्यः पिठराः । | ||||||
| 228 | 2.91.7072iकुम्भ्यः क्षुद्रकुम्भाः । | ||||||
| 229 | 2.91.7072jकरम्भ्यः विशालास्यगुरुस्थाल्यः । | ||||||
| 230 | 2.91.7072kकरम्भ्यः कर्कर्य इत्याहुः । | ||||||
| 231 | 2.91.7072lसुसंस्कृताः दधिसंस्कारकशुण्ठ्यादियुक्ताः । | ||||||
| 232 | 2.91.7072mयौवनस्थस्य नातिनूतनस्य नातिपुराणस्येत्यर्थः । | ||||||
| 233 | 2.91.7072nमथनानन्तरं यामान्तरितस्येत्यर्थः । | ||||||
| 234 | 2.91.7072oकपित्थस्य कपित्थपरिमलयुक्ततक्रस्येत्यर्थः । | ||||||
| 235 | 2.91.7072p“तक्रं कपित्थं मथित्तम्” इति वैजयन्तीः । | ||||||
| 236 | 2.91.7072qगौरस्य शुभ्रस्य । | ||||||
| 237 | 2.91.7072rरसालस्य तक्रविशेषस्य । | ||||||
| 238 | 2.91.7072s“अपक्वतक्रं सव्योषं चतुर्जातं गुडार्द्रकम् । | ||||||
| 239 | 2.91.7072tसजीरकं रसालं स्यान्मज्जिका शिखरिण्यपि ॥ | ||||||
| 240 | 2.91.7072u” इति वैजयन्ती। | ||||||
| 241 | 2.91.7072vसव्योषं शुण्ठीपिप्पलीमरिचियुक्तम्। | ||||||
| 242 | 2.91.7072wचतुर्जातगुडार्द्रकं चतुर्जातैः एलालवङ्गकक्कोलनागपुष्पैः गुडेन शर्करया आर्द्रकेन च युक्तम्। | ||||||
| 243 | 2.91.7072xकपित्थेन पूर्णाः अपरे ह्रदा बभूवुः। | ||||||
| 244 | 2.91.7072yरसालेन पूर्णा अपरे ह्रदा बभूवुः। | ||||||
| 245 | 2.91.7072zदध्ना पूर्णाश्चापरे ह्रदाः। | 2.91.7072aदध्ना पूर्णाश्चापरे ह्रदाः। | |||||
| 246 | 2.91.7072.27अन्ये पायसेन पूर्णाः। | 2.91.7072bअन्ये पायसेन पूर्णाः। | |||||
| 247 | 2.91.7072.28पायसस्यान्य इति पाठः। | 2.91.7072cपायसस्यान्य इति पाठः। | |||||
| 248 | 2.91.7072.29सर्वत्र तृतीयार्थे षष्ठी। | 2.91.7072dसर्वत्र तृतीयार्थे षष्ठी। | |||||
| 249 | 2.91.7072.30तद्व्यञ्जनार्थं शर्करायाः सञ्चयाः राशयश्च बभूवुरित्यर्थः। | 2.91.7072eतद्व्यञ्जनार्थं शर्करायाः सञ्चयाः राशयश्च बभूवुरित्यर्थः। | |||||
| 250 | 2.91.7072.31शर्करायावसञ्चया इति च पाठः। | 2.91.7072fशर्करायावसञ्चया इति च पाठः। | |||||
| 251 | 2.91.7072.32शर्करामिश्रयवविकारापूपसञ्चया इत्यर्थः ॥ 2.91.7072 ॥ | 2.91.7072gशर्करामिश्रयवविकारापूपसञ्चया इत्यर्थः ॥ २।९१।७०७२ ॥ | |||||
| 252 | #74aಕಲ್ಕಾಂಶ್ಚೂರ್ಣಕಷಾಯಾಂಶ್ಚ ಸ್ನಾನಾನಿ ವಿವಿಧಾನಿ ಚ । | 2.91.74aकल्कांश्चूर्णकषायांश्च स्नानानि विविधानि च । | 2.85.68aकल्कांश्चूर्णकषायांश्च स्नानानि विविधानि च । | 2.91.73aकल्कांश्चूर्णकषायांश्च स्नानानि विविधानि च । | 2.91.73aकल्कांश्चूर्णकषायांश्च स्नानानि विविधानि च। | 2.91.73aकल्कांश्चूर्णकषायांश्च स्नानानि विविधानि च । | 2.91.75aकल्कान्चूर्णकषायांश्च स्नानानि विविधानि च। |
| 253 | #74bದದೃಶುರ್ಭಾಜನಸ್ಥಾನಿ ತೀರ್ಥೇಷು ಸರಿತಾಂ ನರಾಃ ॥ | 2.91.74bददृशुर्भाजनस्थानि तीर्थेषु सरितां नराः ॥ ७४ ॥ | 2.85.68bददृशुर्भाजनस्थानि तीर्थेषु सरितां नराः ॥2.85.68॥ | 2.91.73bददृशुर्भाजनस्थानि तीर्थेषु सरितां नराः ॥ 2.91.73 ॥ | 2.91.73bददृशुर्भाजनस्थानि तीर्थेषु सरितां नराः ॥ 2.91.73 ॥ | 2.91.73bददृशुर्भाजनस्थानि तीर्थेषु सरितां नराः ॥ २।९१।७३ ॥ | 2.91.75bददृशुर्भाजनस्थानि तीर्थेषु सरतां नराः॥2.91.75॥ |
| 254 | #75aಶುಕ್ಲಾನಂಶುಮತಶ್ಚಾಪಿ ದಂತಧಾವನಸಂಚಯಾನ್ । | 2.91.75aशुक्लानंशुमतश्चापि दन्तधावनसञ्चयान् । | 2.85.69aशुक्लानंशुमतश्चापि दन्तधावनसंचयान् । | 2.91.74aशुक्लानंशुमतश्चापि दन्तधावनसञ्चयान् । | 2.91.74aशुक्लानंशुमतश्चापि दन्तधावनसञ्चयान्। | 2.91.74aशुक्लानंशुमतश्चापि दन्तधावनसञ्चयान् । | 2.91.76aशुक्लानंशुमतश्चापि दन्तधावनसञ्चयान्। |
| 255 | #75bಶುಕ್ಲಾಂಶ್ಚಂದನಕಲ್ಕಾಂಶ್ಚ ಸಮುದ್ರೇಷ್ವವತಿಷ್ಠತಃ ॥ | 2.91.75bशुक्लांश्चन्दनकल्कांश्च समुद्रेष्ववतिष्ठतः ॥ ७५ ॥ | 2.85.69bशुक्लांश्चन्दनकल्कांश्च समुद्गेष्ववतिष्ठतः ॥2.85.69॥ | 2.91.74bशुक्लांश्चन्दनकल्कांश्च समुद्गेष्ववतिष्ठतः ॥ 2.91.74 ॥ | 2.91.74bशुक्लांश्चन्दनकल्कांश्च समुद्गेष्ववतिष्ठतः ॥ 2.91.74 ॥ | 2.91.74bशुक्लांश्चन्दनकल्कांश्च समुद्गेष्ववतिष्ठतः ॥ २।९१।७४ ॥ | 2.91.76bशुक्लांश्चन्दनकल्कांश्च समुद्गेष्ववतिष्ठतः॥2.91.76॥ |
| 256 | #76aದರ್ಪಣಾನ್ಪರಿಮೃಷ್ಟಾಂಶ್ಚ ವಾಸಸಾಂ ಚಾಪಿ ಸಂಚಯಾನ್ । | 2.91.76aदर्पणान् परिमृष्टांश्च वाससां चापि सञ्चयान् । | 2.85.70aदर्पणान्परिमृष्टांश्च वाससां चापि संचयान् । | 2.91.75aदर्पणान् परिमृष्टांश्च वाससां चापि सञ्चयान् । | 2.91.75aदर्पणान् परिमृष्टांश्च वाससां चापि सञ्चयान्। | 2.91.75aदर्पणान् परिमृष्टांश्च वाससां चापि सञ्चयान् । | 2.91.77aदर्पणापरिमृष्टांश्च वाससां चापि सञ्चयान्। |
| 257 | #76bಪಾದುಕೋಪಾನಹಾಂ ಚೈವ ಯುಗ್ಮಾನ್ಯತ್ರ ಸಹಸ್ರಶಃ ॥ | 2.91.76bपादुकोपानहं चैव युग्मान्यत्र सहस्रशः ॥ ७६ ॥ | 2.85.70bपादुकोपानहां चैव युग्मान्यत्र सहस्रशः ॥2.85.70॥ | 2.91.75bपादुकोपानहश्चैव युग्मानि च सहस्रशः ॥ 2.91.75 ॥ | 2.91.75bपादुकोपानहश्चैव युग्मानि च सहस्रशः ॥ 2.91.75 ॥ | 2.91.75bपादुकोपानहश्चैव युग्मानि च सहस्रशः ॥ २।९१।७५ ॥ | 2.91.77bपादुकोपानहां चैव युग्मानिच सहस्रशः॥2.91.77॥ |
| 258 | #77aಅಂಜನೀಃ ಕಂಕತಾನ್ ಕೂರ್ಚಾಂಶ್ಛಸ್ತ್ರಾಣಿ ಚ ಧನೂಂಷಿಚ । | 2.91.77aआञ्जनीः कङ्कतान् कूर्चांश्छत्राणि च धनूंषि च । | 2.85.71aआञ्जनीः कङ्कतान्कूर्चांश्छत्राणि च धनूंषि च । | 2.91.76aआञ्जनीः कङ्कतान् कूर्चान् शस्त्राणि च धनूंषि च । | 2.91.76aआञ्जनीः कङ्कतान् कूर्चान् शस्त्राणि च धनूंषि च। | 2.91.76aआञ्जनीः कङ्कतान् कूर्चान् शस्त्राणि च धनूंषि च । | 2.91.78aआञ्जनीः कङ्कतान्कूर्चान् शस्त्राणि च धनूंषि च। |
| 259 | #77bಮರ್ಮತ್ರಾಣಾನಿ ಚಿತ್ರಾಣಿ ಶಯನಾನ್ಯಾಸನಾನಿ ಚ ॥ | 2.91.77bमर्मत्राणानि चित्राणि शयनान्यासनानि च ॥ ७७ ॥ | 2.85.71bमर्मत्राणानि चित्राणि शयनान्यासनानि च ॥2.85.71॥ | 2.91.76bमर्मत्राणानि चित्राणि शयनान्यासनानि च ॥ 2.91.76 ॥ | 2.91.76bमर्मत्राणानि चित्राणि शयनान्यासनानि च ॥ 2.91.76 ॥ | 2.91.76bमर्मत्राणानि चित्राणि शयनान्यासनानि च ॥ २।९१।७६ ॥ | 2.91.78bमर्मत्राणानि चित्राणि शयनान्यासनानि च॥2.91.78॥ |
| 260 | #78aಪ್ರತಿಪಾನಹ್ರದಾನ್ಪೂರ್ಣಾನ್ ಖರೋಷ್ಟ್ರಗಜವಾಜಿನಾಮ್ । | 2.91.78aप्रतिपानह्रदान् पूर्णान् खरोष्ट्रगजवाजिनाम् । | 2.85.72aप्रतिपानह्रदान्पूर्णान्खरोष्ट्रगजवाजिनाम् । | 2.91.77aप्रतिपानह्रदान् पूर्णान् खरोष्ट्रगजवाजिनाम् । | 2.91.77aप्रतिपानह्रदान् पूर्णान् खरोष्ट्रगजवाजिनाम्। | 2.91.77aप्रतिपानह्रदान् पूर्णान् खरोष्ट्रगजवाजिनाम् । | #79aप्रतिपानह्रदान्पूर्णन्खरोष्ट्रगजवाजिनाम्। |
| 261 | #78bಅವಗಾಹ್ಯಸುತೀರ್ಥಾಂಶ್ಚ ಹ್ರದಾನ್ ಸೋತ್ಪಲಪುಷ್ಕರಾನ್ । | 2.91.78bअवगाह्यसुतीर्थांश्च ह्रदान् सोत्पलपुष्करान् । | 2.85.72bअवगाह्य सुतीर्थांश्च ह्रदान्सोत्पल पुष्करान् ॥2.85.72॥ | 2.91.77bअवगाह्य सुतीर्थांश्च ह्रदान् सोत्पलपुष्करान् ॥ 2.91.77 ॥ | 2.91.77bअवगाह्य सुतीर्थांश्च ह्रदान् सोत्पलपुष्करान् ॥ 2.91.77 ॥ | 2.91.77bअवगाह्य सुतीर्थांश्च ह्रदान् सोत्पलपुष्करान् ॥ २।९१।७७ ॥ | #79bअवगाह्यसुतीर्थांश्चह्रदान् सोत्पलपुष्करान्। |
| 262 | #79c2.91.79॥ | ||||||
| 263 | #78cಆಕಾಶವರ್ಣಪ್ರತಿಮಾನ್ ಸ್ವಚ್ಛತೋಯಾನ್ಸುಖಪ್ಲವಾನ್ ॥ | 2.91.78cआकाशवर्णप्रतिमान् स्वच्छतोयान् सुखाप्लवान् ॥ ७८ ॥ | 2.91.78aआकाशवर्णप्रतिमान् स्वच्छतोयान् सुखप्लवान् । | 2.91.78aआकाशवर्णप्रतिमान् स्वच्छतोयान् सुखप्लवान्। | 2.91.78aआकाशवर्णप्रतिमान् स्वच्छतोयान् सुखप्लवान् । | 2.91.80aआकाश वर्णप्रतिमान् स्वच्छतोयान्सुखप्लवान्। | |
| 264 | #79aನೀಲವೈಡೂರ್ಯವರ್ಣಾಂಶ್ಚ ಮೃದೂನ್ ಯವಸಸಂಚಯಾನ್ । | 2.91.79aनीलवैदूर्यवर्णांश्च मृदून् यवससञ्चयान् । | 2.85.73aनीलवैदूर्यवर्णांश्च मृदून्यवससंचयान् । | 2.91.78bनीलवैडूर्य्यवर्णांश्च मृदून् यवससञ्चयान् ॥ 2.91.78 ॥ | 2.91.78bनीलवैडूर्य्यवर्णांश्च मृदून् यवससञ्चयान् ॥ 2.91.78 ॥ | 2.91.78bनीलवैडूर्य्यवर्णांश्च मृदून् यवससञ्चयान् ॥ २।९१।७८ ॥ | 2.91.80bनीपवैडूर्यवर्णांश्च मृदून्यवससञ्चयान्। |
| 265 | #79bನಿರ್ವಾಪಾರ್ಥಂ ಪಶೂನಾಂ ತೇ ದದೃಶುಸ್ತತ್ರ ಸರ್ವಶಃ ॥ | 2.91.79bनिर्वापार्थं पशूनां ते ददृशुस्तत्र सर्वशः ॥ ७९ ॥ | 2.85.73bनिर्वापार्थं पशूनां ते ददृशुस्तत्र सर्वशः ॥2.85.73॥ | 2.91.79निर्वापार्थान् पशूनां ते ददृशुस्तत्र सर्वशः ॥ 2.91.79 ॥ | 2.91.79निर्वापार्थान् पशूनां ते ददृशुस्तत्र सर्वशः ॥ 2.91.79 ॥ | 2.91.79निर्वापार्थान् पशूनां ते ददृशुस्तत्र सर्वशः ॥ २।९१।७९ ॥ | 2.91.80cनिर्वापार्थान् पशूनां ते ददृशुस्तत्र सर्वशः॥2.91.80॥ |
| 266 | 2.91.7479aपुष्करं पद्मम् । | ||||||
| 267 | 2.91.7479aशुक्लानिति । | ||||||
| 268 | 2.91.7479bशुक्लान् निर्मलान् । | ||||||
| 269 | 2.91.7479cअंशुमतः कूर्चवतः । | ||||||
| 270 | 2.91.7479dदन्तधावनसञ्चयान् दन्तकाष्ठसमूहान् । | ||||||
| 271 | 2.91.7479eस्नानानन्तरमलङ्कारोपकरणानि दर्शयति–शुक्लानिति । | ||||||
| 272 | 2.91.7479fचन्दनकल्कान् चन्दनपङ्कान् । | ||||||
| 273 | 2.91.7479gसमुद्गेषु सम्पुटकेषु । | ||||||
| 274 | 2.91.7479h“समुद्गकः सम्पुटकः” इत्यमरः । | ||||||
| 275 | 2.91.7479iअवतिष्ठतः वर्त्तमानान् । | ||||||
| 276 | 2.91.7479jपरिमृष्टान् निर्मलीकृतान् । | ||||||
| 277 | 2.91.7479kपादुकाः दारुनिर्म्मिताः उपानहश्चर्म्मनिर्म्मिताः । | ||||||
| 278 | 2.91.7479lयुग्मानि द्वन्द्वानि । | ||||||
| 279 | 2.91.7479mआञ्जनीः अञ्जनयुक्ताः करण्डिकाः । | ||||||
| 280 | 2.91.7479nकङ्कतान् केशमार्जनान् । | ||||||
| 281 | 2.91.7479o“कङ्कत केशमार्जनम् । | ||||||
| 282 | 2.91.7479p” इति निघण्टुः । | ||||||
| 283 | 2.91.7479qकूर्चान् स्नानाद्युपयुक्तासनानि श्मश्रुप्रसाधकान् वा । | ||||||
| 284 | 2.91.7479rशस्त्राणि योधैरलङ्कारार्थं धार्य्याणि । | ||||||
| 285 | 2.91.7479sमर्मत्राणानि कवचादीनि । | ||||||
| 286 | 2.91.7479tप्रतिपानह्रदान् ग्रासग्रहणानन्तरं भुक्तजीर्णार्थं पानार्हह्रदान् । | ||||||
| 287 | 2.91.7479uअवगाह्यसुतीर्थान् अवगाहनयोग्यावतारप्रदेशयुक्तान् । | ||||||
| 288 | 2.91.7479vसोत्पलपुष्करान् उत्पलमिन्दीवरम्, पुष्करं पद्मम् । | ||||||
| 289 | 2.91.7479wआकाशवर्णप्रतिमान् आकाशवन्निर्म्मलानित्यर्थः । | 2.91.7479bआकाशवर्णप्रतिमान् आकाशवन्निर्म्मलानित्यर्थः । | |||||
| 290 | 2.91.7479xसुखप्लवान् सुखेन प्लवः स्नानं येषु तथोक्तान् । | 2.91.7479cसुखप्लवान् सुखेन प्लवः स्नानं येषु तथोक्तान् । | |||||
| 291 | 2.91.7479yयवससञ्चयान् तृणसमूहान् । | 2.91.7479dयवससञ्चयान् तृणसमूहान् । | |||||
| 292 | 2.91.7479z“यवसंतृणमर्ज्जुनम्” इत्यमरः । | 2.91.7479e"यवसंतृणमर्ज्जुनम्" इत्यमरः । | |||||
| 293 | 2.91.7479.27पशूनां निर्वापार्थान् पशुभ्यो विश्राणनार्थान् ॥ 2.91.7479 ॥ | 2.91.7479fपशूनां निर्वापार्थान् पशुभ्यो विश्राणनार्थान् ॥ २।९१।७४७९ ॥ | |||||
| 294 | #80aವ್ಯಸ್ಮಯಂತ ಮನುಷ್ಯಾಸ್ತೇ ಸ್ವಪ್ನಕಲ್ಪಂ ತದದ್ಭುತಮ್ । | 2.91.80aव्यस्मयन्त मनुष्यास्ते स्वप्नकल्पं तदद्भुतम् । | 2.85.74aव्यस्मयन्त मनुष्यास्ते स्वप्नकल्पं तदद्भुतम् । | 2.91.80aव्यस्मयन्त मनुष्यास्ते स्वप्नकल्पं तदद्भुतम् । | 2.91.80aव्यस्मयन्त मनुष्यास्ते स्वप्नकल्पं तदद्भुतम्। | 2.91.80aव्यस्मयन्त मनुष्यास्ते स्वप्नकल्पं तदद्भुतम् । | 2.91.81aव्यस्मयन्त मनुष्यास्ते स्वप्नकल्पं तदद्भुतम्। |
| 295 | #80bದೃಷ್ಟ್ವಾಽಽತಿಥ್ಯಂ ಕೃತಂ ತಾದೃಗ್ ಭರತಸ್ಯ ಮಹರ್ಷಿಣಾ ॥ | 2.91.80bदृष्ट्वाऽऽतिथ्यं कृतं तादृग् भरतस्य महर्षिणा ॥ ८० ॥ | 2.85.74bदृष्ट्वातिथ्यं कृतं तादृग्भरतस्य महर्षिणा ॥2.85.74॥ | 2.91.80bदृष्ट्वातिथ्यं कृतं तादृक् भरतस्य महर्षिणा ॥ 2.91.80 ॥ | 2.91.80bदृष्ट्वातिथ्यं कृतं तादृक् भरतस्य महर्षिणा ॥ 2.91.80 ॥ | 2.91.80bदृष्ट्वातिथ्यं कृतं तादृक् भरतस्य महर्षिणा ॥ २।९१।८० ॥ | 2.91.81bदृष्ट्वाऽतिथ्यं कृतं तादृग्भरतस्य महर्षिणा॥2.91.81॥ |
| 296 | #81aಇತ್ಯೇವಂ ರಮಮಾಣಾನಾಂ ದೇವಾನಾಮಿವ ನಂದನೇ । | 2.91.81aइत्येवं रममाणानां देवानामिव नन्दने । | 2.85.75aइत्येवं रममाणानां देवानामिव नन्दने । | 2.91.81aइत्येवं रममाणानां देवानामिव नन्दने । | 2.91.81aइत्येवं रममाणानां देवानामिव नन्दने। | 2.91.81aइत्येवं रममाणानां देवानामिव नन्दने । | 2.91.82aइत्येवं रममाणानां देवानामिव नन्दने। |
| 297 | #81bಭರದ್ವಾಜಾಶ್ರಮೇ ರಮ್ಯೇ ಸಾ ರಾತ್ರಿರ್ವ್ಯತ್ಯವರ್ತತ ॥ | 2.91.81bभरद्वाजाश्रमे रम्ये सा रात्रिर्व्यत्यवर्तत ॥ ८१ ॥ | 2.85.75bभरद्वाजाश्रमे रम्ये सा रात्रिर्व्यत्यवर्तत ॥2.85.75॥ | 2.91.81bभरद्वाजाश्रमे रम्ये सा रात्रिर्व्यत्यवर्त्तत ॥ 2.91.81 ॥ | 2.91.81bभरद्वाजाश्रमे रम्ये सा रात्रिर्व्यत्यवर्त्तत ॥ 2.91.81 ॥ | 2.91.81bभरद्वाजाश्रमे रम्ये सा रात्रिर्व्यत्यवर्त्तत ॥ २।९१।८१ ॥ | 2.91.82bभरद्वाजाश्रमे रम्ये सा रात्रिर्व्यत्यवर्तत॥2.91.82॥ |
| 298 | 2.91.8081aव्यस्मयन्तेति । | 2.91.8081aव्यस्मयन्तेति । | |||||
| 299 | 2.91.8081bस्वप्नकल्पत्वोक्तिरयत्नसिद्धत्वात् अपूर्वत्वात् आश्चर्य्यकरत्वाच्च तादृक् वाचामभूमिम् । | 2.91.8081bस्वप्नकल्पत्वोक्तिरयत्नसिद्धत्वात् अपूर्वत्वात् आश्चर्य्यकरत्वाच्च तादृक् वाचामभूमिम् । | |||||
| 300 | 2.91.8081cभरतस्य भरताय ॥ 2.91.8081 ॥ | 2.91.8081cभरतस्य भरताय ॥ २।९१।८०८१ ॥ | |||||
| 301 | #82aಪ್ರತಿಜಗ್ಮುಶ್ಚ ತಾ ನದ್ಯೋ ಗಂಧರ್ವಾಶ್ಚ ಯಥಾಗತಮ್ । | 2.91.82aप्रतिजग्मुश्च ता नद्यो गन्धर्वाश्च यथागतम् । | 2.85.76aप्रतिजग्मुश्च ता नद्यो गन्धर्वाश्च यथागतम् । | 2.91.82aप्रतिजग्मुश्च ता नद्यो गन्धर्वाश्च यथागतम् । | 2.91.82aप्रतिजग्मुश्च ता नद्यो गन्धर्वाश्च यथागतम्। | 2.91.82aप्रतिजग्मुश्च ता नद्यो गन्धर्वाश्च यथागतम् । | 2.91.83aप्रतिजग्मुश्च ता नद्यो गन्धर्वाश्च यथागतम्। |
| 302 | #82bಭರದ್ವಾಜಮನುಜ್ಞಾಪ್ಯ ತಾಶ್ಚ ಸರ್ವಾ ವರಾಂಗನಾಃ ॥ | 2.91.82bभरद्वाजमनुज्ञाप्य ताश्च सर्वा वराङ्गनाः ॥ ८२ ॥ | 2.85.76bभरद्वाजमनुज्ञाप्य ताश्च सर्वा वराङ्गनाः ॥2.85.76॥ | 2.91.82bभरद्वाजमनुज्ञाप्य ताश्च सर्वा वराङ्गनाः ॥ 2.91.82 ॥ | 2.91.82bभरद्वाजमनुज्ञाप्य ताश्च सर्वा वराङ्गनाः ॥ 2.91.82 ॥ | 2.91.82bभरद्वाजमनुज्ञाप्य ताश्च सर्वा वराङ्गनाः ॥ २।९१।८२ ॥ | 2.91.83bभरद्वाजमनुज्ञाप्य ताश्च सर्वा वराङ्गनाः॥2.91.83॥ |
| 303 | 2.85.77aतथैव मत्ता मदिरोत्कटा नरा स्तथैव दिव्यागुरुचन्दनोक्षिताः । | 2.91.83aतथैव मत्ता मदिरोत्कटा नरास्तथैव दिव्यागुरुचन्दनोक्षिताः। | 2.91.84aतथैव मत्ता मदिरोत्कटा नरास्तथैव दिव्यागरुचन्दनोक्षिताः। | ||||
| 304 | 2.85.77bतथैव दिव्या विविधाः स्रगुत्तमाः पृथक्प्रकीर्णा मनुजैः प्रमर्दिताः ॥2.85.77॥ | 2.91.83bतथैव दिव्या विविधाः स्रगुत्तमाः पृथक् प्रकीर्णा मनुजैः प्रमर्दिताः ॥ 2.91.83 ॥ | 2.91.84bतथैव दिव्या विविधास्स्रगुत्तमाः पृथक्प्रकीर्णा मनुजैः प्रमर्दिताः॥2.91.84॥ | ||||
| 305 | 2.91.82aप्रतिजग्मुरिति । | 2.91.82aप्रतिजग्मुरिति । | |||||
| 306 | 2.91.82bअनुज्ञाप्य अनुज्ञां कारयित्वा ॥ 2.92.82 ॥ | 2.91.82bअनुज्ञाप्य अनुज्ञां कारयित्वा ॥ २।९२।८२ ॥ | |||||
| 307 | 2.91.83aइदं चातिथ्यकरणमैन्द्रजालिकवन्न मिथ्येत्याह--तथैवेति । | ||||||
| 308 | 2.91.83bमत्ताः दृप्ताः भोगैस्तृप्ताः मदिरोत्कटाश्च मद्येन मत्ताश्च । | ||||||
| 309 | 2.91.83c"मत्ते शौण्डोत्कटक्षीबाः" इत्यमरः । | ||||||
| 310 | 2.91.83dतथैव अनुभवकाल इवावर्त्तिषतेत्यर्थः । | ||||||
| 311 | 2.91.83eप्रमर्दिताः प्रकीर्णाश्च भोगवशादिति भावः । | ||||||
| 312 | 2.91.83fपृथक् पूर्वस्रग्भ्यो विलक्षणाः ॥ २।९१।८३ ॥ | ||||||
| 313 | #83aತಥೈವ ಮತ್ತಾ ಮದಿರೋತ್ಕಟಾ ನರಾ - ಸ್ತಥೈವ ದಿವ್ಯಾಗುರುಚಂದನೋಕ್ಷಿತಾಃ । | 2.91.83aतथैव मत्ता मदिरोत्कटा नरा- स्तथैव दिव्यागुरुचन्दनोक्षिताः । | 2.91.83aतथैव मत्ता मदिरोत्कटा नरास्तथैव दिव्यागुरुचन्दनोक्षिताः । | ||||
| 314 | #83bತಥೈವ ದಿವ್ಯಾ ವಿವಿಧಾಃ ಸ್ರಗುತ್ತಮಾಃ ಪೃಥಗ್ವಿಕೀರ್ಣಾ ಮನುಜೈಃ ಪ್ರಮರ್ದಿತಾಃ ॥ | 2.91.83bतथैव दिव्या विविधाः स्रगुत्तमाः पृथग्विकीर्णा मनुजैः प्रमर्दिताः ॥ ८३ ॥ | 2.91.83bतथैव दिव्या विविधाः स्रगुत्तमाः पृथक् प्रकीर्णा मनुजैः प्रमर्दिताः ॥ 2.91.83 ॥ |