Ramayana Half-Verse Concordance 2.81, 2.87

रामचरितप्रस्तावः. Built from structured/verses.jsonl. Rows are monotone-aligned half-verse/pāda-like units split at । and ॥, so verse-number boundary differences can appear as inserted or shifted line rows.

67 aligned line rows across 7 source streams.

Columns:
gor-kn 48 lines gor-hi 48 lines crit 46 lines gr 58 lines dr-mula 46 lines gr-iitk 55 lines iitk 46 lines
#gor-kngor-hicritgrdr-mulagr-iitkiitk
1#1aಗುಹಸ್ಯ ವಚನಂ ಶ್ರುತ್ವಾ ಭರತೋ ಭೃಶಮಪ್ರಿಯಮ್ ।2.87.1aगुहस्य वचनं श्रुत्वा भरतो भृशमप्रियम् ।2.81.1aगुहस्य वचनं श्रुत्वा भरतो भृशमप्रियम् ।2.87.1aगुहस्य वचनं श्रुत्वा भरतो भृशमप्रियम् ।2.87.1aगुहस्य वचनं श्रुत्वा भरतो भृशमप्रियम्।2.87.1aगुहस्य वचनं श्रुत्वा भरतो भृशमप्रियम् ।2.87.1aगुहस्य वचनं श्रुत्वा भरतो भृशमप्रियम्।
2#1bಧ್ಯಾನಂ ಜಗಾಮ ತತ್ರೈವ ಯತ್ರತಚ್ಛ್ರುತಮಪ್ರಿಯಮ್ ॥2.87.1bध्यानं जगाम तत्रैव यत्र तच्छ्रुतमप्रियम् ॥ १ ॥2.81.1bध्यानं जगाम तत्रैव यत्र तच्छ्रुतमप्रियम् ॥2.81.1॥2.87.1bध्यानं जगाम तत्रैव यत्र तच्छ्रुतमप्रियम् ॥ 2.87.1 ॥2.87.1bध्यानं जगाम तत्रैव यत्र तच्छ्रुतमप्रियम् ॥ 2.87.1 ॥2.87.1bध्यानं जगाम तत्रैव यत्र तच्छ्रुतमप्रियम् ॥ २।८७।१ ॥2.87.1bध्यानं जगाम तत्रैव यत्र तच्छ्रुतमप्रियम्॥2.87.1॥
3#2aಸುಕುಮಾರೋ ಮಹಾಸತ್ತ್ವಃ ಸಿಂಹಸ್ಕಂಧೋ ಮಹಾಭುಜಃ ।2.87.2aसुकुमारो महासत्त्वः सिंहस्कन्धो महाभुजः ।2.81.2aसुकुमारो महासत्त्वः सिंहस्कन्धो महाभुजः ।2.87.2aसुकुमारो महासत्त्वः सिंहस्कन्धो महाभुजः ।2.87.2aसुकुमारो महासत्त्वः सिंहस्कन्धो महाभुजः।2.87.2aसुकुमारो महासत्त्वः सिंहस्कन्धो महाभुजः ।2.87.2aसुकुमारो महासत्त्वस्सिंहस्कन्धो महाभुजः।
4#2bಪುಂಡರೀಕವಿಶಾಲಾಕ್ಷಸ್ತರುಣಃ ಪ್ರಿಯದರ್ಶನಃ ॥2.87.2bपुण्डरीकविशालाक्षस्तरुणः प्रियदर्शनः ॥ २ ॥2.81.2bपुण्डरीक विशालाक्षस्तरुणः प्रियदर्शनः ॥2.81.2॥2.87.2bपुण्डरीकविशालाक्षस्तरुणः प्रियदर्शनः ॥ 2.87.2 ॥2.87.2bपुण्डरीकविशालाक्षस्तरुणः प्रियदर्शनः ॥ 2.87.2 ॥2.87.2bपुण्डरीकविशालाक्षस्तरुणः प्रियदर्शनः ॥ २।८७।२ ॥2.87.2bपुण्डरीकविशालाक्ष स्तरुणः प्रियदर्शनः॥2.87.2॥
5#3aಪ್ರತ್ಯಾಶ್ವಸ್ಯ ಮುಹೂರ್ತಂ ತು ಕಾಲಂಪರಮದುರ್ಮನಾಃ ।2.87.3aप्रत्याश्वस्य मुहूर्तं तु कालं परमदुर्मनाः ।2.81.3aप्रत्याश्वस्य मुहूर्तं तु कालं परमदुर्मनाः ।2.87.3aप्रत्याश्वस्य मुहूर्त्तं तु कालं परमदुर्मनाः ।2.87.3aप्रत्याश्वस्य मुहूर्त्तं तु कालं परमदुर्मनाः।2.87.3aप्रत्याश्वस्य मुहूर्त्तं तु कालं परमदुर्मनाः ।2.87.3aप्रत्याश्वस्य मुहूर्तं तु कालं परमदुर्मनाः।
6#3bಸಸಾದ ಸಹಸಾ ತೋತ್ರೈರ್ಹ್ಯದಿ ವಿದ್ಧ ಇವ ದ್ವಿಪಃ ॥2.87.3bससाद सहसा तोत्रैर्हृदि विद्ध इव द्विपः ॥ ३ ॥2.81.3bपपात सहसा तोत्रैर्हृदि विद्ध इव द्विपः ॥2.81.3॥2.87.3bपपात सहसा तोत्रैर्ह्यतिविद्ध इव द्विपः ॥ 2.87.3 ॥2.87.3bपपात सहसा तोत्रैर्ह्यतिविद्ध इव द्विपः ॥ 2.87.3 ॥2.87.3bपपात सहसा तोत्रैर्ह्यतिविद्ध इव द्विपः ॥ २।८७।३ ॥2.87.3bपपात सहसा तोत्रैर्ह्यतिविद्ध इव द्विपः॥2.87.3॥
72.87.23aसुकुमारइत्यादिश्लोकद्वयमेकान्वयम् ।2.87.23aसुकुमारइत्यादिश्लोकद्वयमेकान्वयम् ।
82.87.23bप्रत्याश्वस्य मुहूर्त्तं कालं परमदुर्मनाः सन् सहसा पपात ।2.87.23bप्रत्याश्वस्य मुहूर्त्तं कालं
परमदुर्मनाः सन् सहसा पपात ।
92.87.23cससादेति वा पाठः ।2.87.23cससादेति वा पाठः ।
102.87.23dसुकुमार इत्यादिना तदवस्थानर्हत्वमुच्यते ॥ 2.87.23 ॥2.87.23dसुकुमार इत्यादिना
तदवस्थानर्हत्वमुच्यते ॥ २।८७।२३ ॥
11#4aಭರತಂ ಮೂರ್ಛಿತಂ ದೃಷ್ಟ್ವಾ ವಿವರ್ಣವದನೋಗುಹಃ ।2.87.4aभरतं मूर्च्छितं दृष्ट्वा विवर्णवदनो गुहः ।
12#4bಬಭೂವ ವ್ಯಥಿತಸ್ತತ್ರ ಭೂಮಿಕಂಪೇಯಥಾ ದ್ರುಮಃ ॥2.87.4bबभूव व्यथितस्तत्र भूमिकम्पे यथा द्रुमः ॥ ४ ॥
13#5aತದವಸ್ಥಂ ತು ಭರತಂ ಶತ್ರುಘ್ನೋಽನಂತರಸ್ಥಿತಃ ।2.87.5aतदवस्थं तु भरतं शत्रुघ्नोऽनन्तरस्थितः ।2.81.4aतदवस्थं तु भरतं शत्रुघ्नोऽनन्तर स्थितः ।2.87.4aतदवस्थं तु भरतं शत्रुघ्नो ऽनन्तरस्थितः ।2.87.4aतदवस्थं तु भरतं शत्रुघ्नोऽनन्तरस्थितः।2.87.4aतदवस्थं तु भरतं शत्रुघ्नो ऽनन्तरस्थितः ।2.87.4aतदवस्थं तु भरतं शत्रुघ्नोऽनन्तरस्थितः।
14#5bಪರಿಷ್ವಜ್ಯ ರುರೋದೋಚ್ಚೈರ್ವಿಸಂಜ್ಞಃ ಶೋಕಕರ್ಶಿತಃ ॥2.87.5bपरिष्वज्य रुरोदोच्चैर्विसञ्ज्ञः शोककर्शितः ॥ ५ ॥2.81.4bपरिष्वज्य रुरोदोच्चैर्विसंज्ञः शोककर्शितः ॥2.81.4॥2.87.4bपरिष्वज्य रुरोदोच्चैर्विसंज्ञः शोककर्शितः ॥ 2.87.4 ॥2.87.4bपरिष्वज्य रुरोदोच्चैर्विसञ्ज्ञः शोककर्शितः ॥ 2.87.4 ॥2.87.4bपरिष्वज्य रुरोदोच्चैर्विसंज्ञः शोककर्शितः ॥ २।८७।४ ॥2.87.4bपरिष्वज्य रुरोदोच्चैर्विसंज्ञश्शोककर्शितः॥2.87.4॥
15#6aತತಃ ಸರ್ವಾಃ ಸಮಾಪೇತುರ್ಮಾತರೋ ಭರತಸ್ಯ ತಾಃ ।2.87.6aततः सर्वाः समापेतुर्मातरो भरतस्य ताः ।2.81.5aततः सर्वाः समापेतुर्मातरो भरतस्य ताः ।2.87.5aततः सर्वाः समापेतुर्मातरो भरतस्य ताः ।2.87.5aततः सर्वाः समापेतुर्मातरो भरतस्य ताः।2.87.5aततः सर्वाः समापेतुर्मातरो भरतस्य ताः ।2.87.5aततस्सर्वास्समापेतुर्मातरो भरतस्य ताः।
16#6bಉಪವಾಸಕೃಶಾ ದೀನಾ ಭರ್ತುರ್ವ್ಯಸನಕರ್ಶಿತಾಃ ॥2.87.6bउपवासकृशा दीना भर्तृव्यसनकर्शिताः ॥ ६ ॥2.81.5bउपवास कृशा दीना भर्तृव्यसनकर्शिताः ॥2.81.5॥2.87.5bउपवासकृशा दीना भर्त्तुर्व्यसनकर्शिताः ॥ 2.87.5 ॥2.87.5bउपवासकृशा दीना भर्त्तुर्व्यसनकर्शिताः ॥ 2.87.5 ॥2.87.5bउपवासकृशा दीना भर्त्तुर्व्यसनकर्शिताः ॥ २।८७।५ ॥2.87.5bउपवासकृशा दीना भर्तृव्यसनकर्शिताः॥2.87.5॥
172.87.45aतदवस्थमिति ।2.87.45aतदवस्थमिति ।
182.87.45bअनन्तरस्थितः निरन्तरं समीपे स्थितः ॥ 2.87.45 ॥2.87.45bअनन्तरस्थितः निरन्तरं समीपे स्थितः ॥ २।८७।४५ ॥
19#7aತಾಶ್ಚ ತಂ ಪತಿತಂ ಭೂಮೌ ರುದಂತ್ಯಃಪರ್ಯವಾರಯನ್ ।2.87.7aताश्च तं पतितं भूमौ रुदत्यः पर्यवारयन् ।2.81.6aताश्च तं पतितं भूमौ रुदन्त्यः पर्यवारयन् ।2.87.6aताश्च तं पतितं भूमौ रुदन्त्यः पर्यवारयन् ।2.87.6aताश्च तं पतितं भूमौ रुदन्त्यः पर्यवारयन्।2.87.6aताश्च तं पतितं भूमौ रुदन्त्यः पर्यवारयन् ।2.87.6aताश्च तं पतितं भूमौ रुदन्त्यः पर्यवारयन्।
20#7bಕೌಸಲ್ಯಾ ತ್ವನುಸೃತ್ಯೈನಂ ದರ್ಮನಾಃ ಪರಿಷಸ್ವಜೇ ॥2.87.7bकौसल्या त्वनुसृत्यैनं दुर्मनाः परिषस्वजे ॥ ७ ॥2.81.6bकौसल्या त्वनुसृत्यैनं दुर्मनाः परिषस्वजे ॥2.81.6॥2.87.6bकौसल्या त्वनुसूत्यैनं दुर्मनाः परिषस्वजे ॥ 2.87.6 ॥2.87.6bकौसल्या त्वनुसूत्यैनं दुर्मनाः परिषस्वजे ॥ 2.87.6 ॥2.87.6bकौसल्या त्वनुसूत्यैनं दुर्मनाः परिषस्वजे ॥ २।८७।६ ॥2.87.6bकौसल्या त्वनुसृत्यैनं दुर्मनाः परिषस्वजे॥2.87.6॥
21#8aವತ್ಸಲಾ ಸ್ವಂ ಯಥಾ ವತ್ಸಮುಪಗುಹ್ಯ ತಪಸ್ವಿನೀ ।2.87.8aवत्सला स्वं यथा वत्समुपगुह्य तपस्विनी ।2.81.7aवत्सला स्वं यथा वत्समुपगूह्य तपस्विनी ।2.87.7aवत्सला स्वं यथा वत्समुपगूह्य तपस्विनी ।2.87.7aवत्सला स्वं यथा वत्समुपगूह्य तपस्विनी।2.87.7aवत्सला स्वं यथा वत्समुपगूह्य तपस्विनी ।2.87.7aवत्सला स्वं यथा वत्समुपगूह्य तपस्विनी।
22#8bಪರಿಪಪ್ರಚ್ಛ ಭರತಂ ರುಂದತೀ ಶೋಕಲಾಲಸಾ ॥2.87.8bपरिपप्रच्छ भरतं रुदती शोकलालसा ॥ ८ ॥2.81.7bपरिपप्रच्छ भरतं रुदन्ती शोकलालसा ॥2.81.7॥2.87.7bपरिपप्रच्छ भरतं रुदन्ती शोकलालसा ॥ 2.87.7 ॥2.87.7bपरिपप्रच्छ भरतं रुदन्ती शोकलालसा ॥ 2.87.7 ॥2.87.7bपरिपप्रच्छ भरतं रुदन्ती शोकलालसा ॥ २।८७।७ ॥2.87.7bपरिपप्रच्छ भरतं रुदन्ती शोकलालसा॥2.87.7॥
23#9aಪುತ್ರ ವ್ಯಾಧಿರ್ನ ತೇ ಕಚ್ಚಿಚ್ಛರೀರಂ ಪರಿಬಾಧತೇ ।2.87.9aपुत्र व्याधिर्न ते कच्चिच्छरीरं प्रति बाधते ।2.81.8aपुत्रव्याधिर्न ते कच्चिच्छरीरं परिबाधते ।2.87.8aपुत्र व्याधिर्न ते कच्चिच्छरीरं परिबाधते ।2.87.8aपुत्र व्याधिर्न ते कच्चिच्छरीरं परिबाधते।2.87.8aपुत्र व्याधिर्न ते कच्चिच्छरीरं परिबाधते ।2.87.8aपुत्र व्याधिर्न ते कच्चिच्छरीरं परिबाधते।
24#9bಅಸ್ಯ ರಾಜಕುಲಸ್ಯಾದ್ಯ ದ್ವದಧೀನಂ ಹಿ ಜೀವಿತಮ್ ॥2.87.9bअस्य राजकुलस्याद्य त्वदधीनं हि जीवितम् ॥ ९ ॥2.81.8bअद्य राजकुलस्यास्य त्वदधीनं हि जीवितम् ॥2.81.8॥2.87.8bअद्य राजकुलस्यास्य त्वदधीनं च जीवितम् ॥ 2.87.8 ॥2.87.8bअद्य राजकुलस्यास्य त्वदधीनं च जीवितम् ॥ 2.87.8 ॥2.87.8bअद्य राजकुलस्यास्य त्वदधीनं च जीवितम् ॥ २।८७।८ ॥2.87.8bअद्य राजकुलस्यास्य त्वदधीनं हि जीवितम्॥2.87.8॥
25#10aತ್ವಾಂ ದೃಷ್ಟ್ವಾ ಪುತ್ರ ಜೀವಾಮಿ ರಾಮೇ ಸಭ್ರಾತೃಕೇಗತೇ ।2.87.10aत्वां दृष्ट्वा पुत्र जीवामि रामे सभ्रातृके गते ।2.81.9aत्वां दृष्ट्वा पुत्र जीवामि रामे सभ्रातृके गते ।2.87.9aत्वां दृष्ट्वा पुत्र जीवामि रामे सभ्रातृके गते ।2.87.9aत्वां दृष्ट्वा पुत्र जीवामि रामे सभ्रातृके गते।2.87.9aत्वां दृष्ट्वा पुत्र जीवामि रामे सभ्रातृके गते ।2.87.9aत्वां दृष्ट्वा पुत्र जीवामि रामे सभ्रातृकेगते।
26#10bವೃತ್ತೇ ದಶರಥೇ ರಾಜ್ಞಿ ನಾಥ ಏಕಸ್ತ್ವಮದ್ಯ ನಃ ॥2.87.10bवृत्ते दशरथे राज्ञि नाथ एकस्त्वमद्य नः ॥ १० ॥2.81.9bवृत्ते दशरथे राज्ञि नाथ एकस्त्वमद्य नः ॥2.81.9॥2.87.9bवृत्ते दशरथे राज्ञि नाथ एकस्त्वमद्य नः ॥ 2.87.9 ॥2.87.9bवृत्ते दशरथे राज्ञि नाथ एकस्त्वमद्य नः ॥ 2.87.9 ॥2.87.9bवृत्ते दशरथे राज्ञि नाथ एकस्त्वमद्य नः ॥ २।८७।९ ॥2.87.9bवृत्ते दशरथे राज्ञि नाथ एकस्त्वमद्य नः॥2.87.9॥
272.87.89aपुत्रेति ।
282.87.89bनहि भरतस्य व्याधिश्चातुर्थिकः, अपितु रामविरह एव ।
292.87.89cरामविरहः ते शरीरं बाधते कच्चिदित्यर्थः ।
302.87.89dअद्येति रामो वनं गतः चक्रवर्त्ती तु संस्थितः ।
312.87.89eअतस्त्वमेवेदानीमस्माकं रक्षक इति नार्थः, किन्तु रामे भवतो मुखवैवर्ण्यं दृष्ट्वा न पुनरनागतो भवेत्, अवश्यमागमिष्यतीत्येतदवेक्ष्य वयं जीवामः ।
322.87.89fभवान्नास्तीति श्रुतं चेत् क इमां दिशमवलोकयेत् ॥ 2.87.89 ॥
33#11aಕಚ್ಚಿನ್ನ ಲಕ್ಷ್ಮಣೇ ಪುತ್ರಶ್ರುತಂ ತೇ ಕಿಂಚಿದಪ್ರಿಯಮ್ ।2.87.11aकच्चिन्न लक्ष्मणे पुत्र श्रुतं ते किञ्चिदप्रियम् ।2.81.10aकच्चिन्न लक्ष्मणे पुत्र श्रुतं ते किंचिदप्रियम् ।2.87.10aकच्चिन्नु लक्ष्मणे पुत्र श्रुतं ते किञ्चिदप्रियम् ।2.87.10aकच्चिन्नु लक्ष्मणे पुत्र श्रुतं ते किञ्चिदप्रियम्।2.87.10aकच्चिन्नु लक्ष्मणे पुत्र श्रुतं ते किञ्चिदप्रियम् ।2.87.10aकच्चिन्न लक्ष्मणे पुत्र श्रुतं ते किंचदप्रियम्।
34#11bಪುತ್ರೇ ವಾ ಹ್ಯೇಕಪುತ್ರಾಯಾಃ ಸಹಭಾರ್ಯೇ ವನಂ ಗತೇ ॥2.87.11bपुत्रे वा ह्येकपुत्रायाः सहभार्ये वनं गते ॥ ११ ॥2.81.10bपुत्र वा ह्येकपुत्रायाः सहभार्ये वनं गते ॥2.81.10॥2.87.10bपुत्रे वा ह्येकपुत्रायाः सहभार्ये वनं गते ॥ 2.87.10 ॥2.87.10bपुत्रे वा ह्येकपुत्रायाः सहभार्ये वनं गते ॥ 2.87.10 ॥2.87.10bपुत्रे वा ह्येकपुत्रायाः सहभार्ये वनं गते ॥ २।८७।१० ॥2.87.10bपुत्रे वाऽप्येकपुत्रायास् सहभार्ये वनं गते॥2.87.10॥
35#12aಸ ಮುಹೂರ್ತಂ ಸಮಾಶ್ವಸ್ಯ ರುದನ್ನೇವ ಮಹಾಯಶಾಃ ।2.87.12aस मुहूर्तं समाश्वस्य रुदन्नेव महायशाः ।2.81.11aस मुहूर्तं समाश्वस्य रुदन्नेव महायशाः ।2.87.11aस मुहूर्त्तं समाश्वस्य रुदन्नेव महायशाः ।2.87.11aस मुहूर्त्तं समाश्वस्य रुदन्नेव महायशाः।2.87.11aस मुहूर्त्तं समाश्वस्य रुदन्नेव महायशाः ।2.87.11aस मुहूर्तं समाश्वस्य रुदन्नेव महायशाः।
36#12bಕೌಸಲ್ಯಾಂ ಪರಿಸಾಂತ್ವಯೇದಂ ಗುಹಂ ವಚನಮಬ್ರವೀತ್ ॥2.87.12bकौसल्यां परिसान्त्व्येदं गुहं वचनमब्रवीत् ॥ १२ ॥2.81.11bकौसल्यां परिसान्त्व्येदं गुहं वचनमब्रवीत् ॥2.81.11॥2.87.11bकौसल्यां परिसान्त्व्येदं गुहं वचनमब्रवीत् ॥ 2.87.11 ॥2.87.11bकौसल्यां परिसान्त्व्येदं गुहं वचनमब्रवीत् ॥ 2.87.11 ॥2.87.11bकौसल्यां परिसान्त्व्येदं गुहं वचनमब्रवीत् ॥ २।८७।११ ॥2.87.11bकौसल्यां परिसान्त्वेद्यं गुहं वचनमब्रवीत्॥2.87.11॥
37#13aಭ್ರಾತಾ ಮೇ ಕ್ವಾವಸದ್ ರಾತ್ರೌ ಕ್ವ ಸೀತಾ ಕ್ವ ಚ ಲಕ್ಷ್ಮಣಃ ।2.87.13aभ्राता मे क्वावसद् रात्रौ क्व सीता क्व च लक्ष्मणः ।2.81.12aभ्राता मे क्वावसद्रात्रिं क्व सीता क्व च लक्ष्मणः ।2.87.12aभ्राता मे क्वावसद्रात्रौ क्व सीता क्व च लक्ष्मणः ।2.87.12aभ्राता मे क्वावसद्रात्रौ क्व सीता क्व च लक्ष्मणः।2.87.12aभ्राता मे क्वावसद्रात्रौ क्व सीता क्व च लक्ष्मणः ।2.87.12aभ्राता मे क्वावसद्रात्रौ क्व सीता क्व च लक्ष्मणः।
38#13bಅಸ್ವಪಚ್ಛಯನೇ ಕಸ್ಮಿನ್ ಕಿಂಭುಕ್ತ್ವಾ ಗುಹ ಶಂಸ ಮೇ ॥2.87.13bअस्वपच्छयने कस्मिन् किं भुक्त्वा गुह शंस मे ॥ १३ ॥2.81.12bअस्वपच्छयने कस्मिन्किं भुक्त्वा गुह शंस मे ॥2.81.12॥2.87.12bअस्वपच्छयने कस्मिन् किं भुक्त्वा गुह शंस मे ॥ 2.87.12 ॥2.87.12bअस्वपच्छयने कस्मिन् किं भुक्त्वा गुह शंस मे ॥ 2.87.12 ॥2.87.12bअस्वपच्छयने कस्मिन् किं भुक्त्वा गुह शंस मे ॥ २।८७।१२ ॥2.87.12bअस्वपच्छयने कस्मिन् किं भुक्त्वा गुह शंस मे॥2.87.12॥
392.87.1112aस इति ।2.87.1112aस इति ।
402.87.1112bपरिसान्त्व्य त्वच्छङ्कितं किमपि न भवेदिति वदन्, परिसान्त्व्येत्यर्थः ॥ 2.87.1112 ॥2.87.1112bपरिसान्त्व्य त्वच्छङ्कितं किमपि न भवेदिति वदन्,
परिसान्त्व्येत्यर्थः ॥ २।८७।१११२ ॥
41#14aಸೋಽಬ್ರವೀದ್ಭರತಂ ಹೃಷ್ಟೋ ನಿಷಾದಾಧಿಪತಿರ್ಗುಹಃ ।2.87.14aसोऽब्रवीद् भरतं हृष्टो निषादाधिपतिर्गुहः ।2.81.13aसोऽब्रवीद्भरतं पृष्टो निषादाधिपतिर्गुहः ।2.87.13aसो ऽब्रवीद्भरतं हृष्टो निषादाधिपतिर्गुहः ।2.87.13aसोऽब्रवीद्भरतं हृष्टो निषादाधिपतिर्गुहः।2.87.13aसो ऽब्रवीद्भरतं हृष्टो निषादाधिपतिर्गुहः ।2.87.13aसोऽब्रवीद्भरतं हृष्टो निषादाधिपतिर्गुहः।
42#14bಯದ್ವಿಧಂ ಪ್ರತಿಪೇದೇ ಚ ರಾಮೇಪ್ರಿಯಹಿತೇಽತಿಥೌ ॥2.87.14bयद्विधं प्रतिपेदे च रामे प्रियहितेऽतिथौ ॥ १४ ॥2.81.13bयद्विधं प्रतिपेदे च रामे प्रियहितेऽतिथौ ॥2.81.13॥2.87.13bयद्विधं प्रतिपेदे च रामे प्रियहिते ऽतिथौ ॥ 2.87.13 ॥2.87.13bयद्विधं प्रतिपेदे च रामे प्रियहितेऽतिथौ ॥ 2.87.13 ॥2.87.13bयद्विधं प्रतिपेदे च रामे प्रियहिते ऽतिथौ ॥ २।८७।१३ ॥2.87.13bयद्विधं प्रतिपेदे च रामे प्रियहितेऽतिथौ॥2.87.13॥
43#15aಅನ್ನಮುಚ್ಚಾವಚಂ ಭಕ್ಷ್ಯಾಃ ಲಾನಿ ವಿವಿಧಾನಿ ಚ ।2.87.15aअन्नमुच्चावचं भक्ष्याः फलानि विविधानि च ।2.81.14aअन्नमुच्चावचं भक्ष्याः फलानि विविधानि च ।2.87.14aअन्नमुच्चावचं भक्षाः फलानि विविधानि च ।2.87.14aअन्नमुच्चावचं भक्षाः फलानि विविधानि च।2.87.14aअन्नमुच्चावचं भक्षाः फलानि विविधानि च ।2.87.14aअन्नमुच्चावचं भक्षाः फलानि विविधानि च।
44#15bರಾಮಾಯಾಭ್ಯವಹಾರಾರ್ಥಂ ಬಹುಶೋಽಪಹೃತಂ ಮಯಾ ॥2.87.15bरामायाभ्यवहारार्थं बहुशोऽपहृतं मया ॥ १५ ॥2.81.14bरामायाभ्यवहारार्थं बहुचोपहृतं मया ॥2.81.14॥2.87.14bरामा याम्यवहारार्थं बहु चोपहृतं मया ॥ 2.87.14 ॥2.87.14bरामा याम्यवहारार्थं बहु चोपहृतं मया ॥ 2.87.14 ॥2.87.14bरामा याम्यवहारार्थं बहु चोपहृतं मया ॥ २।८७।१४ ॥2.87.14bरामायाभ्यवहारार्थं बहुचोपहृतं मया॥2.87.14॥
45#16aತತ್ಸರ್ವಂ ಪ್ರತ್ಯನುಜ್ಞಾಸೀದ್ ರಾಮಃ ಸತ್ಯಪರಾಕ್ರಮಃ ।2.87.16aतत् सर्वं प्रत्यनुज्ञासीद् रामः सत्यपराक्रमः ।2.81.15aतत्सर्वं प्रत्यनुज्ञासीद्रामः सत्यपराक्रमः ।2.87.15aतत्सर्वं प्रत्यनुज्ञासीद्रामः सत्यपराक्रमः ।2.87.15aतत्सर्वं प्रत्यनुज्ञासीद्रामः सत्यपराक्रमः।2.87.15aतत्सर्वं प्रत्यनुज्ञासीद्रामः सत्यपराक्रमः ।2.87.15aतत्सर्वं प्रत्यनुज्ञासीद्रामस् सत्यपराक्रमः।
46#16bನ ಹಿ ತತ್ ಪ್ರತ್ಯಗೃಹ್ಣಾತ್ ಸ ಕ್ಷತ್ರಧರ್ಮಮನುಸ್ಮರನ್ ॥2.87.16bन हि तत् प्रत्यगृह्णात् स क्षत्रधर्ममनुस्मरन् ॥ १६ ॥2.81.15bन हि तत्प्रत्यगृह्णात्स क्षत्रधर्ममनुस्मरन् ॥2.81.15॥2.87.15bन तु तत्प्रत्यगृह्णात् स क्षत्रधर्ममनुस्मरन् ॥ 2.87.15 ॥2.87.15bन तु तत्प्रत्यगृह्णात् स क्षत्रधर्ममनुस्मरन् ॥ 2.87.15 ॥2.87.15bन तु तत्प्रत्यगृह्णात् स क्षत्रधर्ममनुस्मरन् ॥ २।८७।१५ ॥2.87.15bन तु तत्प्रत्यगृह्णात्स क्षत्रधर्ममनुस्मरन्॥2.87.15॥
47#17aನಹ್ಯಸ್ಮಾಭಿಃ ಪ್ರತಿಗ್ರಾಹ್ಯಂ ಸಖೇ ದೇಯಂ ತು ಸರ್ವದಾ ।2.87.17aनह्यस्माभिः प्रतिग्राह्यं सखे देयं तु सर्वदा ।2.81.16aन ह्यस्माभिः प्रतिग्राह्यं सखे देयं तु सर्वदा ।2.87.16aन ह्यस्माभिः प्रतिग्राह्यं सखे देयं तु सर्वदा ।2.87.16aन ह्यस्माभिः प्रतिग्राह्यं सखे देयं तु सर्वदा।2.87.16aन ह्यस्माभिः प्रतिग्राह्यं सखे देयं तु सर्वदा ।2.87.16aन ह्यस्माभिः प्रतिग्राह्यं सखे देयं तु सर्वदा।
48#17bಇತಿ ತೇನ ವಯಂ ಸರ್ವೇ ಅನುನೀತಾ ಮಹಾತ್ಮನಾ ॥2.87.17bइति तेन वयं सर्वे अनुनीता महात्मना ॥ १७ ॥2.81.16bइति तेन वयं राजन्ननुनीता महात्मना ॥2.81.16॥2.87.16bइति तेन वयं राजन्ननुनीता महात्मना ॥ 2.87.16 ॥2.87.16bइति तेन वयं राजन्ननुनीता महात्मना ॥ 2.87.16 ॥2.87.16bइति तेन वयं राजन्ननुनीता महात्मना ॥ २।८७।१६ ॥2.87.16bइति तेन वयं राजन्ननुनीता महात्मना॥2.87.16॥
49#18aಲಕ್ಷ್ಮಣೇನ ಯದಾನೀತಂ ಪೀತಂ ವಾರಿ ಮಹಾತ್ಮನಾ ।2.87.18aलक्ष्मणेन यदानीतं पीतं वारि महात्मना ।2.81.17aलक्ष्मणेन समानीतं पीत्वा वारि महायशाः ।2.87.17aलक्ष्मणेन समानीतं पीत्वा वारि महायशाः ।2.87.17aलक्ष्मणेन समानीतं पीत्वा वारि महायशाः।2.87.17aलक्ष्मणेन समानीतं पीत्वा वारि महायशाः ।2.87.17aलक्ष्मणेन समानीतं पीत्वा वारि महायशाः।
50#18bಔಪವಾಸ್ಯಂ ತದಾಕಾರ್ಷೀದ್ ರಾಘವಃ ಸಹ ಸೀತಯಾ ॥2.87.18bऔपवास्यं तदाकार्षीद् राघवः सह सीतया ॥ १८ ॥2.81.17bऔपवास्यं तदाकार्षीद्राघवः सह सीतया ॥2.81.17॥2.87.17bऔपवास्यं तदा ऽकार्षीद्राघवः सह सीतया ॥ 2.87.17 ॥2.87.17bऔपवास्यं तदाऽकार्षीद्राघवः सह सीतया ॥ 2.87.17 ॥2.87.17bऔपवास्यं तदा ऽकार्षीद्राघवः सह सीतया ॥ २।८७।१७ ॥2.87.17bऔपवास्यं तदाऽकार्षीद्राघवस्सह सीतया॥2.87.17॥
51#19aತತಸ್ತು ಜಲಶೇಷೇಣ ಲಕ್ಷ್ಮಣೋಽಪ್ಯಕರೋತ್ತದಾ ।2.87.19aततस्तु जलशेषेण लक्ष्मणोऽप्यकरोत् तदा ।2.81.18aततस्तु जलशेषेण लक्ष्मणोऽप्यकरोत्तदा ।2.87.18aततस्तु जलशेषेण लक्ष्मणोप्यकरोत्तदा ।2.87.18aततस्तु जलशेषेण लक्ष्मणोप्यकरोत्तदा।2.87.18aततस्तु जलशेषेण लक्ष्मणोप्यकरोत्तदा ।2.87.18aततस्तु जलशेषेण लक्ष्मणोऽप्यकरोत्तदा।
52#19bವಾಗ್ಯತಾಸ್ತೇ ತ್ರಯಃ ಸಂಧ್ಯಾಂಸಮುಪಾಸಂತ ಸಂಹಿತಾಃ ॥2.87.19bवाग्यतास्ते त्रयः सन्ध्यां समुपासन्त संहिताः ॥ १९ ॥2.81.18bवाग्यतास्ते त्रयः संध्यामुपासत समाहिताः ॥2.81.18॥2.87.18bवाग्यतास्ते त्रयः सन्ध्यां समुपासत संहिताः ॥ 2.87.18 ॥2.87.18bवाग्यतास्ते त्रयः सन्ध्यां समुपासत संहिताः ॥ 2.87.18 ॥2.87.18bवाग्यतास्ते त्रयः सन्ध्यां समुपासत संहिताः ॥ २।८७।१८ ॥2.87.18bवाग्यतास्ते त्रयस् सन्ध्यां समुपासत संहिताः॥2.87.18॥
53#20aಸೌಮಿತ್ರಿಸ್ತು ತತಃ ಪಶ್ಚಾದಕರೋತ್ ಸ್ವಾಸ್ತರಂ ಶುಭಮ್ ।2.87.20aसौमित्रिस्तु ततः पश्चादकरोत् स्वास्तरं शुभम् ।2.81.19aसौमित्रिस्तु ततः पश्चादकरोत्स्वास्तरं शुभम् ।2.87.19aसौमित्रिस्तु ततः पश्चादकरोत् स्वास्तरं शुभम् ।2.87.19aसौमित्रिस्तु ततः पश्चादकरोत् स्वास्तरं शुभम्।2.87.19aसौमित्रिस्तु ततः पश्चादकरोत् स्वास्तरं शुभम् ।2.87.19aसौमित्रिस्तु ततः पश्चादकरोत्स्वास्तरं शुभम्।
54#20bಸ್ವಯಮಾನವೀಯ ಬರ್ಹೀಂಷಿ ಕ್ಷಿಪ್ರಂ ರಾಘವಕಾರಣಾತ್ ॥2.87.20bस्वयमानीय बर्हींषि क्षिप्रं राघवकारणात् ॥ २० ॥2.81.19bस्वयमानीय बर्हींषि क्षिप्रं राघव कारणात् ॥2.81.19॥2.87.19bस्वयमानीय बर्हीषि क्षिप्रं राघवकारणात् ॥ 2.87.19 ॥2.87.19bस्वयमानीय बर्हीषि क्षिप्रं राघवकारणात् ॥ 2.87.19 ॥2.87.19bस्वयमानीय बर्हीषि क्षिप्रं राघवकारणात् ॥ २।८७।१९ ॥2.87.19bस्वयमानीय बर्हींषि क्षिप्रं राघवकारणात्॥2.87.19॥
55#21aತಸ್ಮಿನ್ಸಮಾವಿಶದ್ ರಾಮಃ ಸ್ವಾಸ್ತರೇ ಸಹ ಸೀತಯಾ ।2.87.21aतस्मिन् समाविशद् रामः स्वास्तरे सह सीतया ।2.81.20aतस्मिन्समाविशद्रामः स्वास्तरे सह सीतया ।2.87.20aतस्मिन् समाविशद्रामः स्वास्तरे सह सीतया ।2.87.20aतस्मिन् समाविशद्रामः स्वास्तरे सह सीतया।2.87.20aतस्मिन् समाविशद्रामः स्वास्तरे सह सीतया ।2.87.20aतस्मिन्समाविशद्रामस् स्वास्तरे सह सीतया।
56#21bಪ್ರಕ್ಷಾಲ್ಯ ಚ ತಯೋಃ ಪಾದೌ ವ್ಯಪಾಕ್ರಾಮತ್ ಸಲಕ್ಷ್ಮಣಃ ॥2.87.21bप्रक्षाल्य च तयोः पादौ व्यपाक्रामत् स लक्ष्मणः ॥ २१ ॥2.81.20bप्रक्षाल्य च तयोः पादावपचक्राम लक्ष्मणः ॥2.81.20॥2.87.20bप्रक्षाल्य च तयोः पादावपचक्राम लक्ष्मणः ॥ 2.87.20 ॥2.87.20bप्रक्षाल्य च तयोः पादावपचक्राम लक्ष्मणः ॥ 2.87.20 ॥2.87.20bप्रक्षाल्य च तयोः पादावपचक्राम लक्ष्मणः ॥ २।८७।२० ॥2.87.20bप्रक्षाल्य च तयोः पादावपचक्राम लक्ष्मणः॥2.87.20॥
57#22aಏತತ್ ತದಿಂಗುದೀಮೂಲಮಿದಮೇವ ಚ ತತ್ತೃಣಮ್ ।2.87.22aएतत् तदिङ्गुदीमूलमिदमेव च तत् तृणम् ।2.81.21aएतत्तदिङ्गुदीमूलमिदमेव च तत्तृणम् ।2.87.21aएतत्तदिङ्गुदीमूलमिदमेव च तत्तृणम् ।2.87.21aएतत्तदिङ्गुदीमूलमिदमेव च तत्तृणम्।2.87.21aएतत्तदिङ्गुदीमूलमिदमेव च तत्तृणम् ।2.87.21aएतत्तदिङ्गुदीमूलमिदमेव च तत्तृणम्।
58#22bಯಸ್ಮಿನ್ ರಾಮಶ್ಚ ಸೀತಾ ಚ ರಾತ್ರಿಂ ತಾಂ ಶಯಿತಾವುಭೌ ॥2.87.22bयस्मिन् रामश्च सीता च रात्रिं तां शयितावुभौ ॥ २२ ॥2.81.21bयस्मिन्रामश्च सीता च रात्रिं तां शयितावुभौ ॥2.81.21॥2.87.21bयस्मिन् रामश्च सीता च रात्रिं तां शयितावुभौ ॥ 2.87.21 ॥2.87.21bयस्मिन् रामश्च सीता च रात्रिं तां शयितावुभौ ॥ 2.87.21 ॥2.87.21bयस्मिन् रामश्च सीता च रात्रिं तां शयितावुभौ ॥ २।८७।२१ ॥2.87.21bयस्मिन्रामश्च सीता च रात्रिं तां शयितावुभौ॥2.87.21॥
59#23aನಿಯಮ್ಯ ಪೃಷ್ಠೇ ತು ತಲಾಂಗುಲಿತ್ರವಾನ್
ಶರೈಃ ಸುಪೂರ್ಣಾವಿಷುಧೀ ಪರಂತಪಃ ।
2.87.23aनियम्य पृष्ठे तु तलाङ्गुलित्रवान्
शरैः सुपूर्णाविषुधी परन्तपः ।
2.81.22aनियम्य पृष्ठे तु तलाङ्गुलित्रवा
ञ्शरैः सुपूर्णाविषुधी परंतपः ।
2.87.22aनियम्य पृष्ठे तु तलाङ्गुलित्रवान् शरैः सुपूर्णाविषुधी परन्तपः ।2.87.22aनियम्य पृष्ठे तु तलाङ्गुलित्रवान् शरैः सुपूर्णाविषुधी परन्तपः।2.87.22aनियम्य पृष्ठे तु तलाङ्गुलित्रवान् शरैस्सुपूर्णाविषुधी परन्तपः।
60#23bಮಹದ್ಧನುಃ ಸಜ್ಯಮುಪೀಹ್ಯ ಲಕ್ಷ್ಮಣೋ
ನಿಶಾಮತಿಷ್ಠತ್ ಪರಿತೋಸ್ಯ ಕೇವಲಮ್ ॥
2.87.23bमहद्धनुः सज्जमुपोह्य लक्ष्मणो
निशामतिष्ठत् परितोऽस्य केवलम् ॥ २३ ॥
2.81.22bमहद्धनुः सज्यमुपोह्य लक्ष्मणो
निशामतिष्ठत्परितोऽस्य केवलम् ॥2.81.22॥
2.87.22bमहद्धनुः सज्यमुपोह्य लक्ष्मणो निशामतिष्ठत् परितो ऽस्य केवलम् ॥ 2.87.22 ॥2.87.22bमहद्धनुः सज्यमुपोह्य लक्ष्मणो निशामतिष्ठत् परितोऽस्य केवलम् ॥ 2.87.22 ॥2.87.22bमहाद्धनुस् सज्यमुपोह्य लक्ष्मणो निशामतिष्ठत्परितोऽस्य केवलम्॥2.87.22॥
61#24aತತಸ್ತ್ವಹಂ ಚೋತ್ತಮಬಾಣಚಾಪಭೃತ್
ಸ್ಥಿತೋಽಭವಂ ತತ್ರ ಸ ಯತ್ರ ಲಕ್ಷ್ಮಣಃ ।
2.87.24aततस्त्वहं चोत्तमबाणचापभृत्
स्थितोऽभवं तत्र स यत्र लक्ष्मणः ।
2.81.23aततस्त्वहं चोत्तमबाणचापधृ
क्स्थितोऽभवं तत्र स यत्र लक्ष्मणः ।
2.87.23aततस्त्वहं चोत्तमबाणचापधृत् स्थितोऽभवं तत्र स यत्र लक्ष्मणः।2.87.23aतत स्त्वहंचोत्तमबाणचापधृत् स्थितोऽभवं तत्र स यत्र लक्ष्मणः।
62#24bಅತಂದ್ರಿತೈಜ್ಞಾತಿಭಿರಾತ್ತಕಾರ್ಮುಕೈ-
ರ್ಮಹೇಂದ್ರಕಲ್ಪಂ ಪರಿಪಾಲಯಂಸ್ತದಾ ॥
2.87.24bअतन्द्रितैर्ज्ञातिभिरात्तकार्मुकै-
र्महेन्द्रकल्पं परिपालयंस्तदा ॥ २४ ॥
2.81.23bअतन्द्रिभिर्ज्ञातिभिरात्तकार्मुकै
र्महेन्द्रकल्पं परिपालयंस्तदा ॥2.81.23॥
2.87.23bअतन्द्रिभिर्ज्ञातिभिरात्तकार्मुकैर्महेन्द्रकल्पं परिपालयंस्तदा ॥ 2.87.23 ॥2.87.23bअतन्द्रितैर्ज्ञातिभिरात्तकार्मुकैर्महेन्द्रकल्पं परिपालयंस्तदा॥2.87.23॥
632.87.22aज्याघातवारणम्" इत्यमरः ।
642.87.22bउपोह्य धृत्वा अस्य परितो ऽतिष्ठत्,
सर्वतोरक्षणार्थं प्रदक्षिणं चचारेत्यर्थः ।
652.87.22cनिशां निशायाम् ।
662.87.22dअत्यन्तसंयोगे द्वितीया ।
672.87.22eकेवलमित्यनेन शयननिद्राराहित्यं लक्ष्मणस्योच्यते
॥ २।८७।२२ ॥