सुमन्त्रस्य अयोध्यागमनम्. Built from structured/verses.jsonl. Rows are monotone-aligned half-verse/pāda-like units split at । and ॥, so verse-number boundary differences can appear as inserted or shifted line rows.
101 aligned line rows across 7 source streams.
gor-kn 67 lines
gor-hi 69 lines
crit 61 lines
gr 95 lines
dr-mula 68 lines
gr-iitk 88 lines
iitk 68 lines
| # | gor-kn | gor-hi | crit | gr | dr-mula | gr-iitk | iitk |
|---|---|---|---|---|---|---|---|
| 1 | #1aಕಥಯಿತ್ವಾ ತು ದುಃಖಾರ್ತಃ ಸುಮಂತ್ರೇಣ ಚಿರಂ ಸಹ । | 2.57.1aकथयित्वा तु दुःखार्तः सुमन्त्रेण चिरं सह । | 2.51.1aकथयित्वा सुदुःखार्तः सुमन्त्रेण चिरं सह । | 2.57.1aकथयित्वा सुदुःखार्तः सुमन्त्रेण चिरं सह । | 2.57.1aकथयित्वा सुदुःखार्तः सुमन्त्रेण चिरं सह। | 2.57.1aकथयित्वा सुदुःखार्तः सुमन्त्रेण चिरं सह । | 2.57.1aकथयित्वा सुदुःखार्तस्सुमन्त्रेण चिरं सह। |
| 2 | #1bರಾಮೇ ದಕ್ಷಿಣಕೂಲಸ್ಥೇ ಜಗಾಮ ಸ್ವಗೃಹಂ ಗುಹಃ ॥ | 2.57.1bरामे दक्षिणकूलस्थे जगाम स्वगृहं गुहः ॥ १ ॥ | 2.51.1bरामे दक्षिण कूलस्थे जगाम स्वगृहं गुहः ॥2.51.1॥ | 2.57.1bरामे दक्षिणकूलस्थे जगाम स्वगृहं गुहः ॥ 2.57.1 ॥ | 2.57.1bरामे दक्षिणकूलस्थे जगाम स्वगृहं गुहः ॥ 2.57.1 ॥ | 2.57.1bरामे दक्षिणकूलस्थे जगाम स्वगृहं गुहः ॥ २।५७।१ ॥ | 2.57.1bरामे दक्षिणकूलस्थे जगाम स्वगृहं गुहः॥2.57.1॥ |
| 3 | #2aಭರದ್ವಾಜಾಭಿಗಮನಂ ಪ್ರಯಾಗೇ ಚ ಭಾಜನಮ್ । | 2.57.2aभरद्वाजाभिगमनं प्रयागे च सभाजनम् । | 2.57.2aभरद्वाजाभिगमनं प्रयागे च सहासनम् । | 2.57.2aभरद्वाजाभिगमनं प्रयागे च सहासनम्। | 2.57.2aभरद्वाजाभिगमनं प्रयागे च सहासनम् । | 2.57.2aभरद्वाजाभिगमनं प्रयागे च सहाऽसनम्। | |
| 4 | #2bಆ ಗಿರೇರ್ಗಮನಂ ತೇಷಾಂ ತತ್ರಸ್ಥೈರಭಿಲಕ್ಷಿತಮ್ ॥ | 2.57.2bआ गिरेर्गमनं तेषां तत्रस्थैरभिलक्षितम् ॥ २ ॥ | 2.57.2bआगिरेर्गमनं तेषां तत्रस्थैरभिलक्षितम् ॥ 2.57.2 ॥ | 2.57.2bआगिरेर्गमनं तेषां तत्रस्थैरभिलक्षितम् ॥ 2.57.2 ॥ | 2.57.2bआगिरेर्गमनं तेषां तत्रस्थैरभिलक्षितम् ॥ २।५७।२ ॥ | 2.57.2bआगिरेर्गमनं तेषां तत्रस्थैरुपलक्षितम्॥2.57.2॥ | |
| 5 | #3aಅನುಜ್ಞಾತಃ ಸುಮಂತ್ರೋಽಥ ಯೋಜಯಿತ್ವಾ ಹಯೋತ್ತಮಾನ್ । | 2.57.3aअनुज्ञातः सुमन्त्रोऽथ योजयित्वा हयोत्तमान् । | 2.51.2aअनुज्ञातः सुमन्त्रोऽथ योजयित्वा हयोत्तमान् । | 2.57.3aअनुज्ञातः सुमन्त्रो ऽथ योजयित्वा हयोत्तमान् । | 2.57.3aअनुज्ञातः सुमन्त्रोऽथ योजयित्वा हयोत्तमान्। | 2.57.3aअनुज्ञातः सुमन्त्रो ऽथ योजयित्वा हयोत्तमान् । | 2.57.3aअनुज्ञातस्सुमन्त्रोऽथ योजयित्वा हयोत्तमान्। |
| 6 | #3bಅಯೋಧ್ಯಾಮೇವ ನಗರೀಂ ಪ್ರಯಯೌ ಗಾಢದುರ್ಮನಾಃ ॥ | 2.57.3bअयोध्यामेव नगरीं प्रययौ गाढदुर्मनाः ॥ ३ ॥ | 2.51.2bअयोध्यामेव नगरीं प्रययौ गाढदुर्मनाः ॥2.51.2॥ | 2.57.3bअयोध्यामेव नगरीं प्रययौ गाढदुर्मनाः ॥ 2.57.3 ॥ | 2.57.3bअयोध्यामेव नगरीं प्रययौ गाढदुर्मनाः ॥ 2.57.3 ॥ | 2.57.3bअयोध्यामेव नगरीं प्रययौ गाढदुर्मनाः ॥ २।५७।३ ॥ | 2.57.3bअयोध्यामेव नगरीं प्रययौ गाढदुर्मनाः॥2.57.3॥ |
| 7 | #4aಸ ವನಾನಿ ಸುಗಂಧೀನಿ ಸರಿತಶ್ಚ ಸರಾಂಸಿ ಚ । | 2.57.4aस वनानि सुगन्धीनि सरितश्च सरांसि च । | 2.51.3aस वनानि सुगन्धीनि सरितश्च सरांसि च । | 2.57.4aस वनानि सुगन्धीनि सरितश्च सरांसि च । | 2.57.4aस वनानि सुगन्धीनि सरितश्च सरांसि च। | 2.57.4aस वनानि सुगन्धीनि सरितश्च सरांसि च । | 2.57.4aस वनानि सुगन्धीनि सरितश्च सरांसि च। |
| 8 | #4bಪಶ್ಯನ್ ಯತ್ತೋ ಯಯೌ ಶೀಘ್ರಂ ಗ್ರಾಮಾಣಿ ನಗರಾಣಿ ಚ ॥ | 2.57.4bपश्यन् यत्तो ययौ शीघ्रं ग्रामाणि नगराणि च ॥ ४ ॥ | 2.51.3bपश्यन्नतिययौ शीघ्रं ग्रामाणि नगराणि च ॥2.51.3॥ | 2.57.4bपश्यन्नतिययौ शीघ्रं ग्रामाणि नगराणि च ॥ 2.57.4 ॥ | 2.57.4bपश्यन्नतिययौ शीघ्रं ग्रामाणि नगराणि च ॥ 2.57.4 ॥ | 2.57.4bपश्यन्नतिययौ शीघ्रं ग्रामाणि नगराणि च ॥ २।५७।४ ॥ | 2.57.4bपश्यन्नतिययौ शीघ्रं ग्रामाणि नगराणि च॥2.57.4॥ |
| 9 | #5aತತಃ ಸಾಯಾಹ್ನಸಮಯೇ ದ್ವಿತೀಯೇಽಹನಿ ಸಾರಥಿಃ । | 2.57.5aततः सायाह्नसमये द्वितीयेऽहनि सारथिः । | 2.51.4aततः सायाह्नसमये तृतीयेऽहनि सारथिः । | 2.57.5aततः सायाह्नसमये तृतीये ऽहनि सारथिः । | 2.57.5aततः सायाह्नसमये तृतीयेऽहनि सारथिः। | 2.57.5aततः सायाह्नसमये तृतीये ऽहनि सारथिः । | 2.57.5aततस् सायाह्न समये तृतीयेऽहनि सारथिः। |
| 10 | #5bಅಯೋಧ್ಯಾಂ ಸಮನುಪ್ರಾಪ್ಯ ನಿರಾನಂದಾಂ ದದರ್ಶ ಹ ॥ | 2.57.5bअयोध्यां समनुप्राप्य निरानन्दां ददर्श ह ॥ ५ ॥ | 2.51.4bअयोध्यां समनुप्राप्य निरानन्दां ददर्श ह ॥2.51.4॥ | 2.57.5bअयोध्यां समनुप्राप्य निरानन्दां ददर्श ह ॥ 2.57.5 ॥ | 2.57.5bअयोध्यां समनुप्राप्य निरानन्दां ददर्श ह ॥ 2.57.5 ॥ | 2.57.5bअयोध्यां समनुप्राप्य निरानन्दां ददर्श ह ॥ २।५७।५ ॥ | 2.57.5bअयोध्यां समनुप्राप्य निरानन्दां ददर्श ह॥2.57.5॥ |
| 11 | #6aಸ ಶೂನ್ಯಾಮಿವ ನಿಃಶಬ್ದಾಂ ದೃಷ್ಟ್ವಾ ಪರಮದುರ್ಮನಾಃ । | 2.57.6aस शून्यामिव निःशब्दां दृष्ट्वा परमदुर्मनाः । | 2.51.5aस शून्यामिव निःशब्दां दृष्ट्वा परमदुर्मनाः । | 2.57.6aस शून्यामिव निःशब्दां दृष्ट्वा परमदुर्मनाः । | 2.57.6aस शून्यामिव निःशब्दां दृष्ट्वा परमदुर्मनाः। | 2.57.6aस शून्यामिव निःशब्दां दृष्ट्वा परमदुर्मनाः । | 2.57.6aस शून्यामिव निश्शब्दां दृष्ट्वा परमदुर्मनाः। |
| 12 | #6bಸುಮಂತ್ರಶ್ಚಿಂತಯಾಮಾಸ ಶೋಕವೇಗಸಮಾಹತಃ ॥ | 2.57.6bसुमन्त्रश्चिन्तयामास शोकवेगसमाहतः ॥ ६ ॥ | 2.51.5bसुमन्त्रश्चिन्तयामास शोकवेगसमाहतः ॥2.51.5॥ | 2.57.6bसुमन्त्रश्चिन्तयामास शोकवेगसमाहतः ॥ 2.57.6 ॥ | 2.57.6bसुमन्त्रश्चिन्तयामास शोकवेगसमाहतः ॥ 2.57.6 ॥ | 2.57.6bसुमन्त्रश्चिन्तयामास शोकवेगसमाहतः ॥ २।५७।६ ॥ | 2.57.6bसुमन्त्रश्चिन्तयामास शोकवेगसमाहतः॥2.57.6॥ |
| 13 | #7aಕಚ್ಚಿನ್ನ ಸಗಜಾ ಸಾಶ್ವಾಸಜನಾ ಸಜನಾಧಿಪಾ । | 2.57.7aकच्चिन्न सगजा साश्वा सजना सजनाधिपा । | 2.51.6aकच्चिन्न सगजा साश्वा सजना सजनाधिपा । | 2.57.7aकच्चिन्न सगजा साश्वा सजना सजनाधिपा । | 2.57.7aकच्चिन्न सगजा साश्वा सजना सजनाधिपा। | 2.57.7aकच्चिन्न सगजा साश्वा सजना सजनाधिपा । | 2.57.7aकच्चिन्न सगजा साऽश्वा सजना सजनाधिपा। |
| 14 | #7bರಾಮಸಂತಾಪದುಃಖೇನ ದಗ್ಧಾ ಶೋಕಾಗ್ನಿನಾ ಪುರೀ ॥ | 2.57.7bरामसन्तापदुःखेन दग्धा शोकाग्निना पुरी ॥ ७ ॥ | 2.51.6bरामसंतापदुःखेन दग्धा शोकाग्निना पुरी । | 2.57.7bरामसन्तापदुःखेन दग्धा शोकाग्निना पुरी ॥ 2.57.7 ॥ | 2.57.7bरामसन्तापदुःखेन दग्धा शोकाग्निना पुरी ॥ 2.57.7 ॥ | 2.57.7bरामसन्तापदुःखेन दग्धा शोकाग्निना पुरी ॥ २।५७।७ ॥ | 2.57.7bरामसन्तापदुःखेन दग्धा शोकाग्निना पुरी॥2.57.7॥ |
| 15 | 2.51.6cइति चिन्तापरः सूतस्त्वरितः प्रविवेश ह ॥2.51.6॥ | ||||||
| 16 | 2.57.57aतत इति । | 2.57.57aतत इति । | |||||
| 17 | 2.57.57bततः ग्रामनगरातिक्रमणानन्तरम् । | 2.57.57bततः ग्रामनगरातिक्रमणानन्तरम् । | |||||
| 18 | 2.57.57cतृतीये ऽहनि श्रृङ्गिबेरपुरान्निर्गमापेक्षया तृतीयादिवसे । | 2.57.57cतृतीये ऽहनि श्रृङ्गिबेरपुरान्निर्गमापेक्षया तृतीयादिवसे । | |||||
| 19 | 2.57.57dयद्वा अहनि तृतीये सायाह्नसमये । | 2.57.57dयद्वा अहनि तृतीये सायाह्नसमये । | |||||
| 20 | 2.57.57eअह्नः तृतीयकालभूते सायाह्नकाले । | 2.57.57eअह्नः तृतीयकालभूते सायाह्नकाले । | |||||
| 21 | 2.57.57fअयोध्यां समनुप्राप्य निरानन्दां तां ददर्श ॥ 2.57.57 ॥ | 2.57.57fअयोध्यां समनुप्राप्य निरानन्दां तां ददर्श ॥ २।५७।५७ ॥ | |||||
| 22 | #8aಇತಿ ಚಿಂತಾಪರಃ ಸೂತೋ ವಾಜಿಭಿಃ ಶೀಘ್ರಯಾಯಿಭಿಃ । | 2.57.8aइति चिन्तापरः सूतो वाजिभिः शीघ्रयायिभिः । | 2.57.8aइति चिन्तापरः सूतो वाजिभिः शीघ्रपातिभिः । | 2.57.8aइति चिन्तापरः सूतो वाजिभिः शीघ्रपातिभिः। | 2.57.8aइति चिन्तापरः सूतो वाजिभिः शीघ्रपातिभिः । | 2.57.8aइति चिन्तापरस्सूतो वाजिभिश्शीघ्रपातिभिः। | |
| 23 | #8bನಗರದ್ವಾರಮಾಸಾದ್ಯ ತ್ವರಿತಃ ಪ್ರವಿವೇಶ ಹ ॥ | 2.57.8bनगरद्वारमासाद्य त्वरितः प्रविवेश ह ॥ ८ ॥ | 2.57.8bनगरद्वारमासाद्य त्वरितः प्रविवेश ह ॥ 2.57.8 ॥ | 2.57.8bनगरद्वारमासाद्य त्वरितः प्रविवेश ह ॥ 2.57.8 ॥ | 2.57.8bनगरद्वारमासाद्य त्वरितः प्रविवेश ह ॥ २।५७।८ ॥ | 2.57.8bनगरद्वारमासाद्य त्वरितः प्रविवेश ह॥2.57.8॥ | |
| 24 | #9aಸುಮಂತ್ರಮಭಿಧಾವಂತಃ ಶತಶೋಽಥ ಸಹಸ್ರಶಃ । | 2.57.9aसुमन्त्रमभिधावन्तः शतशोऽथ सहस्रशः । | 2.51.7aसुमन्त्रमभियान्तं तं शतशोऽथ सहस्रशः । | 2.57.9aसुमन्त्रमभियान्तं तं शतशो ऽथ सहस्रशः । | 2.57.9aसुमन्त्रमभियान्तं तं शतशोऽथ सहस्रशः। | 2.57.9aसुमन्त्रमभियान्तं तं शतशो ऽथ सहस्रशः । | 2.57.9aसुमन्त्रमभियान्तं तं शतशोऽथ सहस्रशः। |
| 25 | #9bಕ್ವ ರಾಮ ಇತಿ ಪೃಚ್ಛಂತಃ ಸೂತಮಭ್ಯದ್ರವನ್ನರಾಃ ॥ | 2.57.9bक्व राम इति पृच्छन्तः सूतमभ्यद्रवन् नराः ॥ ९ ॥ | 2.51.7bक्व राम इति पृच्छन्तः सूतमभ्यद्रवन्नराः ॥2.51.7॥ | 2.57.9bक्व राम इति पृच्छन्तः सूतमभ्यद्रवन्नराः ॥ 2.57.9 ॥ | 2.57.9bक्व राम इति पृच्छन्तः सूतमभ्यद्रवन्नराः ॥ 2.57.9 ॥ | 2.57.9bक्व राम इति पृच्छन्तः सूतमभ्यद्रवन्नराः ॥ २।५७।९ ॥ | 2.57.9bक्व राम इति पृच्छन्तस्सूतमभ्यद्रवन्नराः॥2.57.9॥ |
| 26 | 2.57.89aइतीति । | ||||||
| 27 | 2.57.89bत्वरितः प्रविवेश । | ||||||
| 28 | 2.57.89cनगरं जनसञ्चारशून्यं निःशब्दं वर्त्तते । | ||||||
| 29 | 2.57.89dराजा कामवस्थां प्राप्त इति ज्ञातुं त्वरितः प्रविष्टवानित्यर्थः ॥ 2.57.89 ॥ | ||||||
| 30 | #10aತೇಷಾಂ ಶಶಂಸ ಗಂಗಾಯಾಮಹಮಾಪೃಚ್ಛ್ಯರಾಘವಮ್ । | 2.57.10aतेषां शशंस गङ्गायामहमापृच्छ्य राघवम् । | 2.51.8aतेषां शशंस गङ्गायामहमापृच्छ्य राघवम् । | 2.57.10aतेषां शशंस गङ्गायामहमापृच्छ्य राघवम् । | 2.57.10aतेषां शशंस गङ्गायामहमापृच्छ्य राघवम्। | 2.57.10aतेषां शशंस गङ्गायामहमापृच्छ्य राघवम् । | 2.57.10aतेषां शशंस गङ्गायामहमापृच्छ्य राघवम्। |
| 31 | #10bಅನುಜ್ಞಾತೋ ನಿವೃತ್ತೋಽಸ್ಮಿ ಧಾರ್ಮಿಕೇಣ ಮಹಾತ್ಮನಾ ॥ | 2.57.10bअनुज्ञातो निवृत्तोऽस्मि धार्मिकेण महात्मना ॥ १० ॥ | 2.51.8bअनुज्ञातो निवृत्तोऽस्मि धार्मिकेण महात्मना ॥2.51.8॥ | 2.57.10bअनुज्ञातो निवृत्तो ऽस्मि धार्म्मिकेण महात्मना ॥ 2.57.10 ॥ | 2.57.10bअनुज्ञातो निवृत्तोऽस्मि धार्म्मिकेण महात्मना ॥ 2.57.10 ॥ | 2.57.10bअनुज्ञातो निवृत्तो ऽस्मि धार्म्मिकेण महात्मना ॥ २।५७।१० ॥ | 2.57.10bअनुज्ञातो निवृत्तोऽस्मि धार्मिकेण महात्माना॥2.57.10॥ |
| 32 | #11ತೇ ತೀರ್ಣಾ ಇತಿ ವಿಜ್ಞಾಯ ಬಾಷ್ಪಪೂರ್ಣಮುಖಾನರಾಃ ಅಹೋ ಧಿಗಿತಿ ನಿಃಶ್ವಸ್ಯ ಹಾ ರಾಮೇತಿ ವಿಚುಕ್ರುಶುಃ ॥ | 2.57.11aते तीर्णा इति विज्ञाय बाष्पपूर्णमुखा नराः । | 2.51.9aते तीर्णा इति विज्ञाय बाष्पपूर्णमुखा जनाः । | 2.57.11aते तीर्णा इति विज्ञाय बाष्पपूर्णमुखा जनाः । | 2.57.11aते तीर्णा इति विज्ञाय बाष्पपूर्णमुखा जनाः। | 2.57.11aते तीर्णा इति विज्ञाय बाष्पपूर्णमुखा जनाः । | 2.57.11aते तीर्णा इति विज्ञाय बाष्पपूर्णमुखा जनाः। |
| 33 | 2.57.11bअहो धिगिति निःश्वस्य हा रामेति विचुक्रुशुः ॥ ११ ॥ | 2.51.9bअहो धिगिति निःश्वस्य हा रामेति च चुक्रुशुः ॥2.51.9॥ | 2.57.11bअहो धिगिति निश्वस्य हा रामेति च चुक्रुशुः ॥ 2.57.11 ॥ | 2.57.11bअहो धिगिति निश्वस्य हा रामेति च चुक्रुशुः ॥ 2.57.11 ॥ | 2.57.11bअहो धिगिति निश्वस्य हा रामेति च चुक्रुशुः ॥ २।५७।११ ॥ | 2.57.11bअहो धिगिति निश्श्वस्य हा रामेति च चुक्रुशुः॥2.57.11॥ | |
| 34 | #12aಶುಶ್ರಾವ ಚ ವಚಸ್ತೇಷಾಂ ವೃಂದಂ ವೃಂದಂ ಚ ತಿಷ್ಠತಾಮ್ । | 2.57.12aशुश्राव च वचस्तेषां वृन्दं वृन्दं च तिष्ठताम् । | 2.51.10aशुश्राव च वचस्तेषां वृन्दं वृन्दं च तिष्ठताम् । | 2.57.12aशुश्राव च वचस्तेषां वृन्दंवृन्दं च तिष्ठताम् । | 2.57.12aशुश्राव च वचस्तेषां वृन्दंवृन्दं च तिष्ठताम्। | 2.57.12aशुश्राव च वचस्तेषां वृन्दंवृन्दं च तिष्ठताम् । | 2.57.12aशुश्राव च वचस्तेषां बृन्दं बृन्दं च तिष्ठताम्। |
| 35 | #12bಹತಾಃ ಸ್ಮ ಖಲು ಯೇ ನೇಹ ಪಶ್ಯಾಮ ಇತಿ ರಾಘವಮ್ ॥ | 2.57.12bहताः स्म खलु ये नेह पश्याम इति राघवम् ॥ १२ ॥ | 2.51.10bहताः स्म खलु ये नेह पश्याम इति राघवम् ॥2.51.10॥ | 2.57.12bहताः स्म खलु येनेह पश्याम इति राघवम् ॥ 2.57.12 ॥ | 2.57.12bहताः स्म खलु येनेह पश्याम इति राघवम् ॥ 2.57.12 ॥ | 2.57.12bहताः स्म खलु येनेह पश्याम इति राघवम् ॥ २।५७।१२ ॥ | 2.57.12bहतास्म खलु ये नेह पश्याम इति राघवम्॥2.57.12॥ |
| 36 | #13aದಾನಯಜ್ಞವಿವಾಹೇಷು ಸಮಾಜೇಷು ಮಹತ್ಸು ಚ । | 2.57.13aदानयज्ञविवाहेषु समाजेषु महत्सु च । | 2.51.11aदानयज्ञविवाहेषु समाजेषु महत्सु च । | 2.57.13aदानयज्ञविवाहेषु समाजेषु महत्सु च । | 2.57.13aदानयज्ञविवाहेषु समाजेषु महत्सु च। | 2.57.13aदानयज्ञविवाहेषु समाजेषु महत्सु च । | 2.57.13aदानयज्ञविवाहेषु समाजेषु महत्सु च। |
| 37 | #13bನ ದ್ರಕ್ಷ್ಯಾಮಃ ಪುನರ್ಜಾತು ಧಾರ್ಮಿಕಂ ರಾಮಮಂತರಾ ॥ | 2.57.13bन द्रक्ष्यामः पुनर्जातु धार्मिकं राममन्तरा ॥ १३ ॥ | 2.51.11bन द्रक्ष्यामः पुनर्जातु धार्मिकं राममन्तरा ॥2.51.11॥ | 2.57.13bन द्रक्ष्यामः पुनर्जातु धार्मिकं राममन्तरा ॥ 2.57.13 ॥ | 2.57.13bन द्रक्ष्यामः पुनर्जातु धार्मिकं राममन्तरा ॥ 2.57.13 ॥ | 2.57.13bन द्रक्ष्यामः पुनर्जातु धार्मिकं राममन्तरा ॥ २।५७।१३ ॥ | 2.57.13bन द्रक्ष्यामः पुन र्जातु धार्मिकं राममन्तरा॥2.57.13॥ |
| 38 | #14aಕಿಂ ಸಮರ್ಥಂ ಜನಸ್ಯಾಸ್ಯ ಕಿಂ ಪ್ರಿಯಂಕಿಂ ಸುಖಾವಹಮ್ । | 2.57.14aकिं समर्थं जनस्यास्य किं प्रियं किं सुखावहम् । | 2.51.12aकिं समर्थं जनस्यास्य किं प्रियं किं सुखावहम् । | 2.57.14aकिं समर्थं जनस्यास्य किं प्रियं किं सुखावहम् । | 2.57.14aकिं समर्थं जनस्यास्य किं प्रियं किं सुखावहम्। | 2.57.14aकिं समर्थं जनस्यास्य किं प्रियं किं सुखावहम् । | 2.57.14aकिं समर्थं जनस्यास्य किं प्रियं किं सुखावहम्। |
| 39 | #14bಇತಿ ರಾಮೇಣ ನಗರಂ ಪಿತ್ರೇವ ಪರಿಪಾಲಿತಮ್ ॥ | 2.57.14bइति रामेण नगरं पित्रेव परिपालितम् ॥ १४ ॥ | 2.51.12bइति रामेण नगरं पितृवत्परिपालितम् ॥2.51.12॥ | 2.57.14bइति रामेण नगरं पितृवत्परिपालितम् ॥ 2.57.14 ॥ | 2.57.14bइति रामेण नगरं पितृवत्परिपालितम् ॥ 2.57.14 ॥ | 2.57.14bइति रामेण नगरं पितृवत्परिपालितम् ॥ २।५७।१४ ॥ | 2.57.14bइति रामेण नगरं पितृवत्परिपालितम्॥2.57.14॥ |
| 40 | #15aವಾತಾಯನಗತಾನಾಂ ಚ ಸ್ತ್ರೀಣಾಮನ್ವಂತರಾಪಣಮ್ । | 2.57.15aवातायनगतानां च स्त्रीणामन्वन्तरापणम् । | 2.51.13aवातायनगतानां च स्त्रीणामन्वन्तरापणम् । | 2.57.15aवातायनगतानां च स्त्रीणामन्वन्तरापणम् । | 2.57.15aवातायनगतानां च स्त्रीणामन्वन्तरापणम्। | 2.57.15aवातायनगतानां च स्त्रीणामन्वन्तरापणम् । | 2.57.15aवातायनगतानां च स्त्रीणामन्वन्तरापणम्। |
| 41 | #15bರಾಮಮೇವಾಭಿತಪ್ತಾನಾಂ ಶುಶ್ರಾವ ಪರಿದೇವನಮ್ ॥ | 2.57.15bराममेवाभितप्तानां शुश्राव परिदेवनाम् ॥ १५ ॥ | 2.51.13bरामशोकाभितप्तानां शुश्राव परिदेवनम् ॥2.51.13॥ | 2.57.15bरामशोकाभितप्तानां शुश्राव परिदेवनम् ॥ 2.57.15 ॥ | 2.57.15bरामशोकाभितप्तानां शुश्राव परिदेवनम् ॥ 2.57.15 ॥ | 2.57.15bरामशोकाभितप्तानां शुश्राव परिदेवनम् ॥ २।५७।१५ ॥ | 2.57.15bरामशोकाभितप्तानां शुश्राव परिदेवनम्॥2.57.15॥ |
| 42 | #16aಸ ರಾಜಮಾರ್ಗಮಧ್ಯೇನ ಸುಮಂತ್ರಃ ಪಿಹಿತಾನನಃ । | 2.57.16aस राजमार्गमध्येन सुमन्त्रः पिहिताननः । | 2.51.14aस राजमार्गमध्येन सुमन्त्रः पिहिताननः । | 2.57.16aस राजमार्गमध्येन सुमन्त्रः पिहिताननः । | 2.57.16aस राजमार्गमध्येन सुमन्त्रः पिहिताननः। | 2.57.16aस राजमार्गमध्येन सुमन्त्रः पिहिताननः । | 2.57.16aस राजमार्गमध्येन सुमन्त्रः पिहिताननः। |
| 43 | #16bಯತ್ರ ರಾಜಾ ದಶರಥಸ್ತದೇವೋಪಯಯೌ ಗೃಹಮ್ ॥ | 2.57.16bयत्र राजा दशरथस्तदेवोपययौ गृहम् ॥ १६ ॥ | 2.51.14bयत्र राजा दशरथस्तदेवोपययौ गृहम् ॥2.51.14॥ | 2.57.16bयत्र राजा दशरथस्तदेवोपययौ गृहम् ॥ 2.57.16 ॥ | 2.57.16bयत्र राजा दशरथस्तदेवोपययौ गृहम् ॥ 2.57.16 ॥ | 2.57.16bयत्र राजा दशरथस्तदेवोपययौ गृहम् ॥ २।५७।१६ ॥ | 2.57.16bयत्र राजा दशरथस्तदेवोपययौ गृहम्॥2.57.16॥ |
| 44 | #17aಸೋಽವತೀರ್ಯ ರಥಾಚ್ಛೀಘ್ರಂ ರಾಜವೇಶ್ಮ ಪ್ರವಿಶ್ಯ ಚ । | 2.57.17aसोऽवतीर्य रथाच्छीघ्रं राजवेश्म प्रविश्य च । | 2.51.15aसोऽवतीर्य रथाच्छीघ्रं राजवेश्म प्रविश्य च । | 2.57.17aसो ऽवतीर्य्य रथाच्छीघ्रं राजवेश्म प्रविश्य च । | 2.57.17aसोऽवतीर्य्य रथाच्छीघ्रं राजवेश्म प्रविश्य च। | 2.57.17aसो ऽवतीर्य्य रथाच्छीघ्रं राजवेश्म प्रविश्य च । | 2.57.17aसोऽवतीर्य रथाच्छीघ्रं राजवेश्म प्रविश्य च। |
| 45 | #17bಕಕ್ಷ್ಯಾಃ ಸಪ್ತಾಭಿಚಕ್ರಾಮ ಮಹಾಜನಸಮಾಕುಲಾಃ ॥ | 2.57.17bकक्ष्याः सप्ताभिचक्राम महाजनसमाकुलाः ॥ १७ ॥ | 2.51.15bकक्ष्याः सप्ताभिचक्राम महाजनसमाकुलाः ॥2.51.15॥ | 2.57.17bकक्ष्याः सप्ताभिचक्राम महाजनसमाकुलाः ॥ 2.57.17 ॥ | 2.57.17bकक्ष्याः सप्ताभिचक्राम महाजनसमाकुलाः ॥ 2.57.17 ॥ | 2.57.17bकक्ष्याः सप्ताभिचक्राम महाजनसमाकुलाः ॥ २।५७।१७ ॥ | 2.57.17bकक्ष्यास् सप्ताभिचक्राम महाजनसमाकुलाः॥2.57.17॥ |
| 46 | #18aಹರ್ಮ್ಯೈರ್ವಿಮಾನೈಃ ಪ್ರಾಸಾದೈರವೇಕ್ಷ್ಯಾಥ ಸಮಾಗತಮ್ । | 2.57.18aहर्म्यैर्विमानैः प्रासादैरवेक्ष्याथ समागतम् । | 2.57.18aहर्म्यैर्विमानैः प्रासादैरवेक्ष्याथ समागतम् । | 2.57.18aहर्म्यैर्विमानैः प्रासादैरवेक्ष्याथ समागतम्। | 2.57.18aहर्म्यैर्विमानैः प्रासादैरवेक्ष्याथ समागतम् । | 2.57.18aहर्म्यै र्विमानैः प्रासादैरवेक्ष्याथ समागतम्। | |
| 47 | #18bಹಾಹಾಕಾರಕೃತಾ ನಾರ್ಯೋ ರಾಮಾದರ್ಶನಕರ್ಶಿತಾಃ ॥ | 2.57.18bहाहाकारकृता नार्यो रामादर्शनकर्शिताः ॥ १८ ॥ | 2.57.18bहाहाकार कृता नार्यो रामादर्शनकर्शिताः ॥ 2.57.18 ॥ | 2.57.18bहाहाकार कृता नार्यो रामादर्शनकर्शिताः ॥ 2.57.18 ॥ | 2.57.18bहाहाकार कृता नार्यो रामादर्शनकर्शिताः ॥ २।५७।१८ ॥ | 2.57.18bहाहाकारकृता नार्यो रामदर्शनकर्शिताः॥2.57.18॥ | |
| 48 | #19aಆಯತೈರ್ವಿಮಲೈರ್ನೇತ್ರೈರಶ್ರುವೇಗಪರಿಪ್ಲುತೈಃ । | 2.57.19aआयतैर्विमलैर्नेत्रैरश्रुवेगपरिप्लुतैः । | 2.57.19aआयतैर्विमलैर्नेत्रैरश्रुवेगपरिप्लुतैः । | 2.57.19aआयतैर्विमलैर्नेत्रैरश्रुवेगपरिप्लुतैः। | 2.57.19aआयतैर्विमलैर्नेत्रैरश्रुवेगपरिप्लुतैः । | 2.57.19aआयतैर्विमलैर्नेत्रैरश्रुवेगपरिप्लुतैः। | |
| 49 | #19bಅನ್ಯೋನ್ಯಮಭಿವೀಕ್ಷಂತೇವ್ಯಕ್ತಮಾರ್ತತರಾಃ ಸ್ತ್ರಿಯಃ ॥ | 2.57.19bअन्योन्यमभिवीक्षन्तेऽव्यक्तमार्ततराः स्त्रियः ॥ १९ ॥ | 2.57.19bअन्योन्यमभिवीक्षन्ते ऽव्यक्तमार्ततराः स्त्रियः ॥ 2.57.19 ॥ | 2.57.19bअन्योन्यमभिवीक्षन्तेऽव्यक्तमार्ततराः स्त्रियः ॥ 2.57.19 ॥ | 2.57.19bअन्योन्यमभिवीक्षन्ते ऽव्यक्तमार्ततराः स्त्रियः ॥ २।५७।१९ ॥ | 2.57.19bअन्योन्यमभिवीक्षन्तेऽव्यक्तमार्ततराः स्त्रियः॥2.57.19॥ | |
| 50 | #20aತತೋ ದಶರಥ ಸ್ತ್ರೀಣಾಂ ಪ್ರಾಸಾದೇಭ್ಯಸ್ತತಸ್ತತಃ । | 2.57.20aततो दशरथस्त्रीणां प्रासादेभ्यस्ततस्ततः । | 2.51.16aततो दशरथस्त्रीणां प्रासादेभ्यस्ततस्ततः । | 2.57.20aततो दशरथस्त्रीणां प्रासादेभ्यस्ततस्ततः । | 2.57.20aततो दशरथस्त्रीणां प्रासादेभ्यस्ततस्ततः। | 2.57.20aततो दशरथस्त्रीणां प्रासादेभ्यस्ततस्ततः । | 2.57.20aततो दशरथस्त्रीणां प्रासादेभ्य स्तत स्ततः। |
| 51 | #20bರಾಮಶೋಕಾಭಿತಪ್ತಾನಾಂ ಮಂದಂ ಶುಶ್ರಾವ ಜಲ್ಪಿತಮ್ ॥ | 2.57.20bरामशोकाभितप्तानां मन्दं शुश्राव जल्पितम् ॥ २० ॥ | 2.51.16bरामशोकाभितप्तानां मन्दं शुश्राव जल्पितम् ॥2.51.16॥ | 2.57.20bरामशोकाभितप्तानां मन्दं शुश्राव जल्पितम् ॥ 2.57.20 ॥ | 2.57.20bरामशोकाभितप्तानां मन्दं शुश्राव जल्पितम् ॥ 2.57.20 ॥ | 2.57.20bरामशोकाभितप्तानां मन्दं शुश्राव जल्पितम् ॥ २।५७।२० ॥ | 2.57.20bरामशोकाभितप्तानां मन्दं शुश्राव जल्पितम्॥2.57.20॥ |
| 52 | 2.57.1920aआयतैरिति । | 2.57.1920aआयतैरिति । | |||||
| 53 | 2.57.1920bअव्यक्तम् अस्पष्टमिति क्रियाविशेषणम् ॥ 2.57.1920 ॥ | 2.57.1920bअव्यक्तम् अस्पष्टमिति क्रियाविशेषणम् ॥ २।५७।१९२० ॥ | |||||
| 54 | #21aಸಹ ರಾಮೇಣ ನಿರ್ಯಾತೋ ವಿನಾ ರಾಮಮಿಹಾಗತಃ । | 2.57.21aसह रामेण निर्यातो विना राममिहागतः । | 2.51.17aसह रामेण निर्यातो विना राममिहागतः । | 2.57.21aसह रामेण निर्यातो विना राममिहागतः । | 2.57.21aसह रामेण निर्यातो विना राममिहागतः। | 2.57.21aसह रामेण निर्यातो विना राममिहागतः । | 2.57.21aसह रामेण निर्यातो विना राम मिहागतः। |
| 55 | #21bಸೂತಃ ಕಿಂ ನಾಮ ಕೌಸಲ್ಯಾಂ ಕ್ರೋಶಂತೀಂ ಪ್ರತಿವಕ್ಷ್ಯತಿ ॥ | 2.57.21bसूतः किं नाम कौसल्यां क्रोशन्तीं प्रतिवक्ष्यति ॥ २१ ॥ | 2.51.17bसूतः किं नाम कौसल्यां शोचन्तीं प्रतिवक्ष्यति ॥2.51.17॥ | 2.57.21bसूतः किं नाम कौसल्यां शोचन्तीं प्रतिवक्ष्यति ॥ 2.57.21 ॥ | 2.57.21bसूतः किं नाम कौसल्यां शोचन्तीं प्रतिवक्ष्यति ॥ 2.57.21 ॥ | 2.57.21bसूतः किं नाम कौसल्यां शोचन्तीं प्रतिवक्ष्यति ॥ २।५७।२१ ॥ | 2.57.21bसूतः किन्नाम कौसल्यां शोचन्तीं प्रतिवक्ष्यति॥2.57.21॥ |
| 56 | #22aಯಥಾ ಚ ಮನ್ಯೇ ದುರ್ಜೀವಮೇವಂ ನ ಸುಕರಂ ಧ್ರುವಮ್ । | 2.57.22aयथा च मन्ये दुर्जीवमेवं न सुकरं ध्रुवम् । | 2.51.18aयथा च मन्ये दुर्जीवमेवं न सुकरं ध्रुवम् । | 2.57.22aयथा च मन्ये दुर्जीवमेवं न सुकरं ध्रुवम् । | 2.57.22aयथा च मन्ये दुर्जीवमेवं न सुकरं ध्रुवम्। | 2.57.22aयथा च मन्ये दुर्जीवमेवं न सुकरं ध्रुवम् । | 2.57.22aयथा च मन्ये दुर्जीवमेवं न सुकरं ध्रुवम्। |
| 57 | #22bಆಚ್ಛಿದ್ಯ ಪುತ್ರೇ ನಿರ್ಯಾತೇ ಕೌಸಲ್ಯಾಯತ್ರ ಜೀವತಿ ॥ | 2.57.22bआच्छिद्य पुत्रे निर्याते कौसल्या यत्र जीवति ॥ २२ ॥ | 2.51.18bआच्छिद्य पुत्रे निर्याते कौसल्या यत्र जीवति ॥2.51.18॥ | 2.57.22bआच्छिद्य पुत्रे निर्याते कौसल्या यत्र जीवति ॥ 2.57.22 ॥ | 2.57.22bआच्छिद्य पुत्रे निर्याते कौसल्या यत्र जीवति ॥ 2.57.22 ॥ | 2.57.22bआच्छिद्य पुत्रे निर्याते कौसल्या यत्र जीवति ॥ २।५७।२२ ॥ | 2.57.22bआच्छिद्य पुत्रे निर्याते कौसल्या यत्र जीवति॥2.57.22॥ |
| 58 | #23aಸತ್ಯರೂಪಂ ತು ತದ್ವಾಕ್ಯಂ ರಾಜಸ್ತ್ರೀಣಾಂ ನಿಶಾಮಯನ್ । | 2.57.23aसत्यरूपं तु तद् वाक्यं राजस्त्रीणां निशामयन् । | 2.51.19aसत्य रूपं तु तद्वाक्यं राज्ञः स्त्रीणां निशामयन् । | 2.57.23aसत्यरूपं तु तद्वाक्यं राज्ञः स्त्रीणां निशामयन् । | 2.57.23aसत्यरूपं तु तद्वाक्यं राज्ञः स्त्रीणां निशामयन्। | 2.57.23aसत्यरूपं तु तद्वाक्यं राज्ञः स्त्रीणां निशामयन् । | 2.57.23aसत्यरूपं तु तद्वाक्यं राज्ञः स्त्रीणां निशामयन्। |
| 59 | #23bಪ್ರದೀಪ್ತ ಇವ ಶೋಕೇನ ವಿವೇಶ ಸಹಸಾ ಗೃಹಮ್ ॥ | 2.57.23bप्रदीप्त इव शोकेन विवेश सहसा गृहम् ॥ २३ ॥ | 2.51.19bप्रदीप्तमिव शोकेन विवेश सहसा गृहम् ॥2.51.19॥ | 2.57.23bप्रदीप्त इव शोकेन विवेश सहसा गृहम् ॥ 2.57.23 ॥ | 2.57.23bप्रदीप्त इव शोकेन विवेश सहसा गृहम् ॥ 2.57.23 ॥ | 2.57.23bप्रदीप्त इव शोकेन विवेश सहसा गृहम् ॥ २।५७।२३ ॥ | 2.57.23bप्रदीप्तमिव शोकेन विवेश सहसा गृहम्॥2.57.23॥ |
| 60 | 2.57.2123aसह रामेणेत्यादिश्लोकत्रयमेकं वाक्यम् । | ||||||
| 61 | 2.57.2123bयत्रेति । | ||||||
| 62 | 2.57.2123cविभक्तिप्रतिरूपको निपातः प्रथमार्थे वर्त्तते । | 2.57.2123aविभक्तिप्रतिरूपकमव्ययं वा । | |||||
| 63 | 2.57.2123dयथा “क इत्था वेद यत्र सः” इत्यत्र यथा येन प्रकारेण । | ||||||
| 64 | 2.57.2123eअस्मज्जीवितं दुर्जीवं दुःखेन जीवनार्हं मन्ये, एवमेव कौसल्या, पुत्रे निर्याते सति आच्छिद्य प्रसह्य जीवति यत्र जीवतीति यत् तत् न सुकरं दुस्सम्पादं ध्रुवं मन्य इत्येकैकव्यक्त्यपेक्षया एकवचनम्, विभक्तिप्रतिरूपकमव्ययं वा । | ||||||
| 65 | 2.57.2123fनिशामयन् निशमयन् । | 2.57.2123bनिशामयन् निशमयन् । | |||||
| 66 | 2.57.2123gदीर्घश्छान्दसः । | 2.57.2123cदीर्घश्छान्दसः । | |||||
| 67 | 2.57.2123hश्रृण्वन्नित्यर्थः ॥ 2.57.2123 ॥ | 2.57.2123dश्रृण्वन्नित्यर्थः ॥ २।५७।२१२३ ॥ | |||||
| 68 | #24aಸ ಪ್ರವಿಶ್ಯಾಷ್ಟಮೀಂ ಕಕ್ಷ್ಯಾಂ ರಾಜಾನಂ ದೀನಮಾತುರಮ್ । | 2.57.23रानियोङ्की वह सच्ची बात सुनकर शोकसे दग्ध-से होते हुए सुमन्त्रने सहसा राजभवनमें प्रवेश किया ॥ २३ ॥ | |||||
| 69 | #24bಪುತ್ರಶೋಕಪರಿದ್ಯೂನಮಪಶ್ಯತ್ ಪಾಂಡುರೇ ಗೃಹೇ ॥ | ||||||
| 70 | #25aಅಭಿಗಮ್ಯ ತಮಾಸೀನಂ ರಾಜಾನಮಭಿವಾದ್ಯ ಚ । | 2.57.24aस प्रविश्याष्टमीं कक्ष्यां राजानं दीनमातुरम् । | 2.51.20aस प्रविश्याष्टमीं कक्ष्यां राजानं दीनमातुलम् । | 2.57.24aस प्रविश्याष्टमीं कक्ष्यां राजानं दीनमातुरम् । | 2.57.24aस प्रविश्याष्टमीं कक्ष्यां राजानं दीनमातुरम्। | 2.57.24aस प्रविश्याष्टमीं कक्ष्यां राजानं दीनमातुरम् । | 2.57.24aस प्रविश्याष्टमीं कक्ष्यां राजानं दीनमातुरम्। |
| 71 | #25bಸುಮಂತ್ರೋ ರಾಮವಚನಂ ಯಥೋಕ್ತಂ ಪ್ರತ್ಯವೇದಯತ್ ॥ | 2.57.24bपुत्रशोकपरिद्यूनमपश्यत् पाण्डुरे गृहे ॥ २४ ॥ | 2.51.20bपुत्रशोकपरिद्यूनमपश्यत्पाण्डरे गृहे ॥2.51.20॥ | 2.57.24bपुत्रशोकपरिद्यूनमपश्यत् पाण्डरे गृहे ॥ 2.57.24 ॥ | 2.57.24bपुत्रशोकपरिद्यूनमपश्यत् पाण्डरे गृहे ॥ 2.57.24 ॥ | 2.57.24bपुत्रशोकपरिद्यूनमपश्यत् पाण्डरे गृहे ॥ २।५७।२४ ॥ | 2.57.24bपुत्रशोकपरिम्लानमपश्यत्पाण्डुरे गृहे॥2.57.24॥ |
| 72 | #26aಸ ತೂಷ್ಣೀಮೇವ ತಚ್ಛ್ರುತ್ವಾ ರಾಜಾ ವಿದ್ರುತಮಾನಸಃ । | 2.57.25aअभिगम्य तमासीनं राजानमभिवाद्य च । | 2.51.21aअभिगम्य तमासीनं नरेन्द्रमभिवाद्य च । | 2.57.25aअभिगम्य तमासीनं नरेन्द्रमभिवाद्य च । | 2.57.25aअभिगम्य तमासीनं नरेन्द्रमभिवाद्य च। | 2.57.25aअभिगम्य तमासीनं नरेन्द्रमभिवाद्य च । | 2.57.25aअभिगम्य तमासीनं नरेन्द्रे मभिवाद्य च। |
| 73 | #26bಮೂರ್ಛಿತೋ ನ್ಯಪತದ್ಭೂಮೌ ರಾಮಶೋಕಾಭಿಪೀಡಿತಃ ॥ | 2.57.25bसुमन्त्रो रामवचनं यथोक्तं प्रत्यवेदयत् ॥ २५ ॥ | 2.51.21bसुमन्त्रो रामवचनं यथोक्तं प्रत्यवेदयत् ॥2.51.21॥ | 2.57.25bसुमन्त्रो रामवचनं यथोक्तं प्रत्यवेदयत् ॥ 2.57.25 ॥ | 2.57.25bसुमन्त्रो रामवचनं यथोक्तं प्रत्यवेदयत् ॥ 2.57.25 ॥ | 2.57.25bसुमन्त्रो रामवचनं यथोक्तं प्रत्यवेदयत् ॥ २।५७।२५ ॥ | 2.57.25bसुमन्त्रो रामवचनं यथोक्तं प्रत्यवेदयत्॥2.57.25॥ |
| 74 | 2.57.2425aस प्रविश्येति । | 2.57.2425aस प्रविश्येति । | |||||
| 75 | 2.57.2425bपरिद्यूनं क्षीणम् । | 2.57.2425bपरिद्यूनं क्षीणम् । | |||||
| 76 | 2.57.2425c“दिवो विजिगीषायाम्” इति निष्ठानत्वम् । | 2.57.2425c"दिवो विजिगीषायाम्" इति निष्ठानत्वम् । | |||||
| 77 | 2.57.2425dपाण्डर इति विशेषणाद्राजलक्ष्मीर्नास्तीत्युच्यते ॥ 2.57.2425 ॥ | 2.57.2425dपाण्डर इति विशेषणाद्राजलक्ष्मीर्नास्तीत्युच्यते ॥ २।५७।२४२५ ॥ | |||||
| 78 | #27aತತೋಂಽತಃಪುರಮಾವಿದ್ಧಂ ಮೂರ್ಛಿತೇ ಪೃಥಿವೀಪತೌ । | 2.57.26aस तूष्णीमेव तच्छ्रुत्वा राजा विद्रुतमानसः । | 2.51.22aस तूष्णीमेव तच्छ्रुत्वा राजा विभ्रान्त चेतनः । | 2.57.26aस तूष्णीमेव तच्छ्रुत्वा राजा विभ्रान्तचेतनः । | 2.57.26aस तूष्णीमेव तच्छ्रुत्वा राजा विभ्रान्तचेतनः। | 2.57.26aस तूष्णीमेव तच्छ्रुत्वा राजा विभ्रान्तचेतनः । | 2.57.26aस तूष्णीमेव तच्छ्रुत्वा राजा विभ्रान्तचेतनः। |
| 79 | #27bಉಚ್ಛಿೃತ್ಯ ಬಾಹೂ ಚುಕ್ರೋಶ ನೃಪತೌ ಪತಿತೇ ಕ್ಷಿತೌ ॥ | 2.57.26bमूर्च्छितो न्यपतद् भूमौ रामशोकाभिपीडितः ॥ २६ ॥ | 2.51.22bमूर्छितो न्यपतद्भूमौ रामशोकाभिपीडितः ॥2.51.22॥ | 2.57.26bमूर्च्छितो न्यपतद्भूमौ रामशोकाभिपीडितः ॥ 2.57.26 ॥ | 2.57.26bमूर्च्छितो न्यपतद्भूमौ रामशोकाभिपीडितः ॥ 2.57.26 ॥ | 2.57.26bमूर्च्छितो न्यपतद्भूमौ रामशोकाभिपीडितः ॥ २।५७।२६ ॥ | 2.57.26bमूर्छितो न्यपतद्भूमौ रामशोकाभिपीडितः॥2.57.26॥ |
| 80 | #28aಸುಮಿತ್ರಯಾ ತು ಸಹಿತಾ ಕೌಸಲ್ಯಾ ಪತಿತಂ ಪತಿಮ್ । | 2.57.27aततोऽन्तःपुरमाविद्धं मूर्च्छिते पृथिवीपतौ । | 2.51.23aततोऽन्तःपुरमाविद्धं मूर्छिते पृथिवीपतौ । | 2.57.27aततो ऽन्तःपुरमाविद्धं मूर्च्छिते पृथिवीपतौ । | 2.57.27aततोऽन्तःपुरमाविद्धं मूर्च्छिते पृथिवीपतौ। | 2.57.27aततो ऽन्तःपुरमाविद्धं मूर्च्छिते पृथिवीपतौ । | 2.57.27aततोऽन्तःपुरमाविद्धं मूर्छिते पृथिवीपतौ। |
| 81 | #28bಉತ್ಥಾಪಯಾಮಾಸ ತದಾ ವಚನಂ ಚೇದಮಬ್ರವೀತ್ ॥ | 2.57.27bउच्छ्रित्य बाहू चुक्रोश नृपतौ पतिते क्षितौ ॥ २७ ॥ | 2.51.23bउद्धृत्य बाहू चुक्रोश नृपतौ पतिते क्षितौ ॥2.51.23॥ | 2.57.27bउद्धृत्य बाहू चुक्रोश नृपतौ पतिते क्षितौ ॥ 2.57.27 ॥ | 2.57.27bउद्धृत्य बाहू चुक्रोश नृपतौ पतिते क्षितौ ॥ 2.57.27 ॥ | 2.57.27bउद्धृत्य बाहू चुक्रोश नृपतौ पतिते क्षितौ ॥ २।५७।२७ ॥ | 2.57.27bउद्धृत्य बाहू चुक्रोश नृपतौ पतितेक्षितौ॥2.57.27॥ |
| 82 | #29aಇಮಂ ತಸ್ಯ ಮಹಾಭಾಗ ದೂತಂ ದುಷ್ಕರಕಾರಿಣಃ । | 2.57.28aसुमित्रया तु सहिता कौसल्या पतितं पतिम् । | 2.51.24aसुमित्रया तु सहिता कौसल्या पतितं पतिम् । | 2.57.28aसुमित्रया तु सहिता कौसल्या पतितं पतिम् । | 2.57.28aसुमित्रया तु सहिता कौसल्या पतितं पतिम्। | 2.57.28aसुमित्रया तु सहिता कौसल्या पतितं पतिम् । | 2.57.28aसुमित्रया तु सहिता कौसल्या पतितं पतिम्। |
| 83 | #29bವನವಾಸಾದನುಪ್ರಾಪ್ತಂ ಕಸ್ಮಾನ್ನ ಪ್ರತಿಭಾಷಸೇ ॥ | 2.57.28bउत्थापयामास तदा वचनं चेदमब्रवीत् ॥ २८ ॥ | 2.51.24bउत्थापयामास तदा वचनं चेदमब्रवीत् ॥2.51.24॥ | 2.57.28bउत्थापयामास तदा वचनं चेदमब्रवीत् ॥ 2.57.28 ॥ | 2.57.28bउत्थापयामास तदा वचनं चेदमब्रवीत् ॥ 2.57.28 ॥ | 2.57.28bउत्थापयामास तदा वचनं चेदमब्रवीत् ॥ २।५७।२८ ॥ | 2.57.28bउत्थापयामास तदा वचनं चेदमब्रवीत्॥2.57.28॥ |
| 84 | 2.57.2728aतत इति । | 2.57.2728aतत इति । | |||||
| 85 | 2.57.2728bआविद्धं शोकेनाभिहतम्, अभूदिति शेषः । | 2.57.2728bआविद्धं शोकेनाभिहतम्, अभूदिति शेषः । | |||||
| 86 | 2.57.2728cमूर्च्छिते आविद्धमासीत् पतिते बाहू उद्धृत्य चुक्रोशेति विशेषः ॥ 2.57.2728 ॥ | 2.57.2728cमूर्च्छिते आविद्धमासीत् पतिते बाहू उद्धृत्य चुक्रोशेति विशेषः ॥ २।५७।२७२८ ॥ | |||||
| 87 | #30aಅದ್ಯೇಮಮನಯಂ ಕೃತ್ವಾ ವ್ಯಪತ್ರಪಸಿ ರಾಘವ । | 2.57.29aइमं तस्य महाभाग दूतं दुष्करकारिणः । | 2.51.25aइमं तस्य महाभाग दूतं दुष्करकारिणः । | 2.57.29aइमं तस्य महाभाग दूतं दुष्करकारिणः । | 2.57.29aइमं तस्य महाभाग दूतं दुष्करकारिणः। | 2.57.29aइमं तस्य महाभाग दूतं दुष्करकारिणः । | 2.57.29aइमं तस्य महाभाग दूतं दुष्करकारिणः। |
| 88 | #30bಉತ್ತಿಷ್ಠ ಸುಕೃತಂ ತೇಽಸ್ತು ಶೋಕೇ ನಸ್ಯಾತ್ಸಹಾಯತಾ ॥ | 2.57.29bवनवासादनुप्राप्तं कस्मान्न प्रतिभाषसे ॥ २९ ॥ | 2.51.25bवनवासादनुप्राप्तं कस्मान्न प्रतिभाषसे ॥2.51.25॥ | 2.57.29bवनवासादनुप्राप्तं कस्मान्न प्रतिभाषसे ॥ 2.57.29 ॥ | 2.57.29bवनवासादनुप्राप्तं कस्मान्न प्रतिभाषसे ॥ 2.57.29 ॥ | 2.57.29bवनवासादनुप्राप्तं कस्मान्न प्रतिभाषसे ॥ २।५७।२९ ॥ | 2.57.29bवनवासादनुप्राप्तं कस्मान्न प्रतिभाषसे॥2.57.29॥ |
| 89 | #31aದೇವ ಯಸ್ಯಾಭಯಾದ್ ರಾಮಂ ನಾನುಪೃಚ್ಛಸಿ ಸಾರಥಿಮ್ । | 2.57.30aअद्येममनयं कृत्वा व्यपत्रपसि राघव । | 2.51.26aअद्येममनयं कृत्वा व्यपत्रपसि राघव । | 2.57.30aअद्येममनयं कृत्वा व्यपत्रपसि राघव । | 2.57.30aअद्येममनयं कृत्वा व्यपत्रपसि राघव। | 2.57.30aअद्येममनयं कृत्वा व्यपत्रपसि राघव । | 2.57.30aअद्यैवमनयं कृत्वा व्यपत्रपसि राघव। |
| 90 | #31bನೇಹ ತಿಷ್ಠತಿ ಕೈಕೇಯೀ ವಿಶ್ರಬ್ಧಂ ಪ್ರತಿಭಾಷ್ಯತಾಮ್ ॥ | 2.57.30bउत्तिष्ठ सुकृतं तेऽस्तु शोके न स्यात् सहायता ॥ ३० ॥ | 2.51.26bउत्तिष्ठ सुकृतं तेऽस्तु शोके न स्यात्सहायता ॥2.51.26॥ | 2.57.30bउत्तिष्ठ सुकृतं ते ऽस्तु शोके न स्यात् सहायता ॥ 2.57.30 ॥ | 2.57.30bउत्तिष्ठ सुकृतं तेऽस्तु शोके न स्यात् सहायता ॥ 2.57.30 ॥ | 2.57.30bउत्तिष्ठ सुकृतं ते ऽस्तु शोके न स्यात् सहायता ॥ २।५७।३० ॥ | 2.57.30bउत्तिष्ठ सुकृतं तेस्तु शोके नस्या त्सहायता॥2.57.30॥ |
| 91 | #32aಸಾ ತಥೋಕ್ತ್ವಾ ಮಹಾರಾಜಂ ಕೌಸಲ್ಯಾ ಶೋಕಲಾಲಸಾ । | 2.57.31aदेव यस्या भयाद् रामं नानुपृच्छसि सारथिम् । | 2.51.27aदेव यस्या भयाद्रामं नानुपृच्छसि सारथिम् । | 2.57.31aदेव यस्या भयाद्रामं नानुपृच्छसि सारथिम् । | 2.57.31aदेव यस्या भयाद्रामं नानुपृच्छसि सारथिम्। | 2.57.31aदेव यस्या भयाद्रामं नानुपृच्छसि सारथिम् । | 2.57.31aदेव यस्या भयाद्रामं नानुपृच्छसि सारथिम्। |
| 92 | #32bಧರಣ್ಯಾಂ ನಿಪಪಾತಾಶು ಬಾಷ್ಪವಿಪ್ಲುತಭಾಷಿಣೀ ॥ | 2.57.31bनेह तिष्ठति कैकेयी विश्रब्धं प्रतिभाष्यताम् ॥ ३१ ॥ | 2.51.27bनेह तिष्ठति कैकेयी विश्रब्धं प्रतिभाष्यताम् ॥2.51.27॥ | 2.57.31bनेह निष्ठति कैकेयी विस्रब्धं प्रतिभाष्यताम् ॥ 2.57.31 ॥ | 2.57.31bनेह निष्ठति कैकेयी विस्रब्धं प्रतिभाष्यताम् ॥ 2.57.31 ॥ | 2.57.31bनेह निष्ठति कैकेयी विस्रब्धं प्रतिभाष्यताम् ॥ २।५७।३१ ॥ | 2.57.31bनेह तिष्ठिति कैकेयी विस्रब्धं प्रतिभाष्यताम्॥2.57.31॥ |
| 93 | #33aವಿಲಪಂತೀಂ ತಥಾ ದೃಷ್ಟ್ವಾ ಕೌಸಲ್ಯಾಂ ಪತಿತಾಂ ಭುವಿ । | 2.57.32aसा तथोक्त्वा महाराजं कौसल्या शोकलालसा । | 2.51.28aसा तथोक्त्वा महाराजं कौसल्या शोकलालसा । | 2.57.32aसा तथोक्त्वा महाराजं कौसल्या शोकलालसा । | 2.57.32aसा तथोक्त्वा महाराजं कौसल्या शोकलालसा। | 2.57.32aसा तथोक्त्वा महाराजं कौसल्या शोकलालसा । | 2.57.32aसा तथोक्त्वा महाराजं कौसल्या शोकलालसा। |
| 94 | #33bಪತಿಂ ಚಾವೇಕ್ಷ್ಯ ತಾಃ ಸರ್ವಾಃ ಸಮಂತಾದ್ರುರುದುಃ ಸ್ತ್ರಿಯಃ ॥ | 2.57.32bधरण्यां निपपाताशु बाष्पविप्लुतभाषिणी ॥ ३२ ॥ | 2.51.28bधरण्यां निपपाताशु बाष्पविप्लुतभाषिणी ॥2.51.28॥ | 2.57.32bधरण्यां निपपाताशु बाष्पविप्लुतभाषिणी ॥ 2.57.32 ॥ | 2.57.32bधरण्यां निपपाताशु बाष्पविप्लुतभाषिणी ॥ 2.57.32 ॥ | 2.57.32bधरण्यां निपपाताशु बाष्पविप्लुतभाषिणी ॥ २।५७।३२ ॥ | 2.57.32bधरण्यां निपपाताऽशु बाष्पविप्लुतभाषिणी॥2.57.32॥ |
| 95 | #34aತತಸ್ತಮಂತಃಪುರನಾದಮುತ್ಥಿತಂ ಸಮೀಕ್ಷ್ಯ ವೃದ್ಧಾಸ್ತರುಣಾಶ್ಚ ಮಾನವಾಃ । | 2.57.33aविलपन्तीं तथा दृष्ट्वा कौसल्यां पतितां भुवि । | 2.51.29aएवं विलपतीं दृष्ट्वा कौसल्यां पतितां भुवि । | 2.57.33aएवं विलपतीं दृष्ट्वा कौसल्यां पतितां भुवि । | 2.57.33aएवं विलपतीं दृष्ट्वा कौसल्यां पतितां भुवि। | 2.57.33aएवं विलपतीं दृष्ट्वा कौसल्यां पतितां भुवि । | 2.57.33aएवं विलपतीं दृष्ट्वा कौसल्यां पतितां भुवि। |
| 96 | #34bಸ್ತ್ರಿಯಶ್ಚ ಸರ್ವಾ ರುರುದುಃ ಸಮಂತತಃ ಪುರಂ ತದಾಸೀತ್ ಪುನರೇವ ಸಂಕುಲಮ್ ॥ | 2.57.33bपतिं चावेक्ष्य ताः सर्वाः समन्ताद् रुरुदुः स्त्रियः ॥ ३३ ॥ | 2.51.29bपतिं चावेक्ष्य ताः सर्वाः सस्वरं रुरुदुः स्त्रियः ॥2.51.29॥ | 2.57.33bपतिं चावेक्ष्य ताः सर्वाः सुस्वरं रुरुदुः स्त्रियः ॥ 2.57.33 ॥ | 2.57.33bपतिं चावेक्ष्य ताः सर्वाः सुस्वरं रुरुदुः स्त्रियः ॥ 2.57.33 ॥ | 2.57.33bपतिं चावेक्ष्य ताः सर्वाः सुस्वरं रुरुदुः स्त्रियः ॥ २।५७।३३ ॥ | 2.57.33bपतिं चावेक्ष्य तास् सर्वा सुस्वरं रुरुदुः स्त्रियः॥2.57.33॥ |
| 97 | 2.57.34aततस्तमन्तःपुरनादमुत्थितं समीक्ष्य वृद्धास्तरुणाश्च मानवाः । | 2.51.30aततस्तमन्तःपुरनादमुत्थितं समीक्ष्य वृद्धास्तरुणाश्च मानवाः । | 2.57.34aततस्तमन्तःपुरनादमुत्थितं समीक्ष्य वृद्धास्तरुणाश्च मानवाः । | 2.57.34aततस्तमन्तःपुरनादमुत्थितं समीक्ष्य वृद्धास्तरुणाश्च मानवाः। | 2.57.34aतत स्तमन्तःपुरनादमुत्थितं समीक्ष्य वृद्धा स्तरुणाश्च मानवाः। | ||
| 98 | 2.57.34bस्त्रियश्च सर्वा रुरुदुः समन्ततः पुरं तदासीत् पुनरेव सङ्कुलम् ॥ ३४ ॥ | 2.51.30bस्त्रियश्च सर्वा रुरुदुः समन्ततः पुरं तदासीत्पुनरेव संकुलम् ॥2.51.30॥ | 2.57.34bस्त्रियश्च सर्वा रुरुदुः समन्ततः पुरं तदासीत् पुनरेव सङ्कुलम् ॥ 2.57.34 ॥ | 2.57.34bस्त्रियश्च सर्वा रुरुदुः समन्ततः पुरं तदासीत् पुनरेव सङ्कुलम् ॥ 2.57.34 ॥ | 2.57.34bस्त्रियश्च सर्वा रुरुदुस् समन्ततः पुरं तदासीत्पुनरेव सङ्कुलम्॥2.57.34॥ | ||
| 99 | 2.57.34aतत इति । | ||||||
| 100 | 2.57.34bसमीक्ष्नय श्रुत्वा । | ||||||
| 101 | 2.57.34cपुनरेव सङ्कुलं रामगमनकाल इव व्याकुलमासीत् ॥ २।५७।३४ ॥ |