रामप्रस्थानम्. Built from structured/verses.jsonl. Rows are monotone-aligned half-verse/pāda-like units split at । and ॥, so verse-number boundary differences can appear as inserted or shifted line rows.
129 aligned line rows across 7 source streams.
gor-kn 95 lines
gor-hi 95 lines
crit 55 lines
gr 118 lines
dr-mula 94 lines
gr-iitk 111 lines
iitk 96 lines
| # | gor-kn | gor-hi | crit | gr | dr-mula | gr-iitk | iitk |
|---|---|---|---|---|---|---|---|
| 1 | #1aಸ ತದಂತಃಪುರದ್ವಾರಂ ಸಮತೀತ್ಯ ಜನಾಕುಲಮ್ । | 2.16.1aस तदन्तःपुरद्वारं समतीत्य जनाकुलम् । | 2.14.1aस तदन्तःपुरद्वारं समतीत्य जनाकुलम् । | 2.16.1aस तदन्तःपुरद्वारं समतीत्य जनाकुलम् । | 2.16.1aस तदन्तःपुरद्वारं समतीत्य जनाकुलम्। | 2.16.1aस तदन्तःपुरद्वारं समतीत्य जनाकुलम् । | 2.16.1aतदन्तःपुरद्वारं समतीत्य जनाकुलम्। |
| 2 | #1bಪ್ರವಿವಿಕ್ತಾಂ ತತಃ ಕಕ್ಷ್ಯಾಮಾಸಸಾದ ಪುರಾಣವಿತ್ ॥ | 2.16.1bप्रविविक्तां ततः कक्ष्यामाससाद पुराणवित् ॥ १ ॥ | 2.14.1bप्रविविक्तां ततः कक्ष्यामाससाद पुराणवित् ॥2.14.1॥ | 2.16.1bप्रविविक्तां ततः कक्ष्यामाससाद पुराणवित् ॥ 2.16.1 ॥ | 2.16.1bप्रविविक्तां ततः कक्ष्यामाससाद पुराणवित् ॥ 2.16.1 ॥ | 2.16.1bप्रविविक्तां ततः कक्ष्यामाससाद पुराणवित् ॥ २।१६।१ ॥ | 2.16.1bप्रविविक्तां ततः कक्ष्यामाससाद पुराणवित्॥2.16.1॥ |
| 3 | #2aಪ್ರಾಸಕಾರ್ಮುಕಬಿಭ್ರದ್ಭಿರ್ಯುವಭಿರ್ಮೃಷ್ಟಕುಂಡಲೈಃ । | 2.16.2aप्रासकार्मुकबिभ्रद्भिर्युवभिर्मृष्टकुण्डलैः । | 2.14.2aप्रासकार्मुकबिभ्रद्भिर्युवभिर्मृष्टकुण्डलैः । | 2.16.2aप्रासकार्मुकबिभ्रद्भिर्युवभिर्मृष्टकुण्डलैः । | 2.16.2aप्रासकार्मुकबिभ्रद्भिर्युवभिर्मृष्टकुण्डलैः। | 2.16.2aप्रासकार्मुकबिभ्रद्भिर्युवभिर्मृष्टकुण्डलैः । | 2.16.2aप्रासकार्मुकबिभ्रद्भिर्युवभिर्मृष्टकुण्डलैः। |
| 4 | #2bಅಪ್ರಮಾದಿಭಿರೇಕಾಗ್ರೈಃ ಸ್ವಾನುರಕ್ತೈರಧಿಷ್ಠಿತಾಮ್ ॥ | 2.16.2bअप्रमादिभिरेकाग्रैः स्वानुरक्तैरधिष्ठिताम् ॥ २ ॥ | 2.14.2bअप्रमादिभिरेकाग्रैः स्वनुरक्तैरधिष्ठिताम् ॥2.14.2॥ | 2.16.2bअप्रमादिभिरेकाग्रैः स्वनुरक्तैरधिष्ठिताम् ॥ 2.16.2 ॥ | 2.16.2bअप्रमादिभिरेकाग्रैः स्वनुरक्तैरधिष्ठिताम् ॥ 2.16.2 ॥ | 2.16.2bअप्रमादिभिरेकाग्रैः स्वनुरक्तैरधिष्ठिताम् ॥ २।१६।२ ॥ | 2.16.2bअप्रमादिभिरेकाग्रैस् स्वनुरक्तैरधिष्ठिताम्॥2.16.2॥ |
| 5 | 2.16.12तदित्यादि ॥ २।१६।१२ ॥ | ||||||
| 6 | 2.16.12एवं सुमन्त्रस्य रामोपस्थानमुक्त्वा रामस्य दशरथोपस्थानमाह षोडशे–स तदित्यादि ॥ 2.16.12 ॥ | ||||||
| 7 | #3aತತ್ರ ಕಾಷಾಯಿಣೋ ವೃದ್ಧಾನ್ ವೇತ್ರಪಾಣೀನ್ ಸ್ವಲಂಕೃತಾನ್ । | 2.16.3aतत्र काषायिणो वृद्धान् वेत्रपाणीन् स्वलङ्कृतान् । | 2.14.3aतत्र काषायिणो वृद्धान्वेत्रपाणीन्स्वलंकृतान् । | 2.16.3aतत्र काषायिणो वृद्धान् वेत्रपाणीन् स्वलंकृतान् । | 2.16.3aतत्र काषायिणो वृद्धान् वेत्रपाणीन् स्वलङ्कृतान्। | 2.16.3aतत्र काषायिणो वृद्धान् वेत्रपाणीन् स्वलंकृतान् । | 2.16.3aतत्र काषायिणो वृद्धान् वेत्रपाणीन् स्वलङ्कृतान्। |
| 8 | #3bದದರ್ಶ ವಿಷ್ಟಿತಾನ್ ದ್ವಾರಿಸ್ತ್ರ್ಯಧ್ಯಕ್ಷಾನ್ ಸುಸಮಾಹಿತಾನ್ ॥ | 2.16.3bददर्श विष्ठितान् द्वारि स्त्र्यध्यक्षान् सुसमाहितान् ॥ ३ ॥ | 2.14.3bददर्श विष्ठितान्द्वारि स्त्र्यध्यक्षान्सुसमाहितान् ॥2.14.3॥ | 2.16.3bददर्श विष्ठितान् द्वारि स्त्र्यध्यक्षान् सुसमाहितान् ॥ 2.16.3 ॥ | 2.16.3bददर्श विष्ठितान् द्वारि स्त्र्यध्यक्षान् सुसमाहितान् ॥ 2.16.3 ॥ | 2.16.3bददर्श विष्ठितान् द्वारि स्त्र्यध्यक्षान् सुसमाहितान् ॥ २।१६।३ ॥ | 2.16.3bददर्श विष्ठितान् द्वारि स्त्र्यध्यक्षान्सुसमाहितान्॥2.16.3॥ |
| 9 | #4aತೇ ಸಮೀಕ್ಷ್ಯ ಸಮಾಯಾಂತಂ ರಾಮಪ್ರಿಯಚಿಕೀರ್ಷವಃ । | 2.16.4aते समीक्ष्य समायान्तं रामप्रियचिकीर्षवः । | 2.14.4aते समीक्ष्य समायान्तं रामप्रियचिकीर्षवः । | 2.16.4aते समीक्ष्य समायान्तं रामप्रियचिकीर्षवः । | 2.16.4aते समीक्ष्य समायान्तं रामप्रियचिकीर्षवः। | 2.16.4aते समीक्ष्य समायान्तं रामप्रियचिकीर्षवः । | 2.16.4aते समीक्ष्य समायान्तं रामप्रियचिकीर्षवः। |
| 10 | #4bಸಹಸೋತ್ಪತಿತಾಃ ಸರ್ವೇ ಹ್ಯಾಸನೇಭ್ಯಃ ಸಸಂಭ್ರಮಾಃ ॥ | 2.16.4bसहसोत्पतिताः सर्वे ह्यासनेभ्यः ससम्भ्रमाः ॥ ४ ॥ | 2.16.4bसह सोत्पतिताः सर्वे स्वासनेभ्यः ससम्भ्रमाः ॥ 2.16.4 ॥ | 2.16.4bसह सोत्पतिताः सर्वे स्वासनेभ्यः ससम्भ्रमाः ॥ 2.16.4 ॥ | 2.16.4bसह सोत्पतिताः सर्वे स्वासनेभ्यः ससम्भ्रमाः ॥ २।१६।४ ॥ | 2.16.4bसहसोत्पतितास्सर्वे स्वासनेभ्यस्ससम्भ्रमाः॥2.16.4॥ | |
| 11 | 2.16.34aतत्रति । | ||||||
| 12 | 2.16.34bकाषायिणः काषायवस्त्रधारिणः । | ||||||
| 13 | 2.16.34cरामप्रीत्यर्थमलङ्कारकञ्चुकालंकृतानित्यर्थः । | ||||||
| 14 | 2.16.34dवृद्धान् पञ्चनवतिवयस्कान् । | ||||||
| 15 | 2.16.34eते खल्वन्तःपुरे स्थाप्या भवन्ति । | ||||||
| 16 | 2.16.34fवेत्रपाणीन् यथा रामो धनुर्धृत्वा लोकं रक्षयति तथा तेपि वेत्राणि धृत्वा रामं रक्षन्तीति भावः । | ||||||
| 17 | 2.16.34gस्वलंकृतान् रामश्चक्रवर्तिगृहे कृतमज्जनो भुक्त्वा यदा पुनर्दिव्यान्तःपुरमुपयाति तदा चक्रवर्तिवदन्तरङ्गतया च तमुत्सङ्गे निवेश्य परिष्वज्य मूर्ध्न्याघ्राय विसर्जयन्ति तेन कुङ्कुमपङ्कैः कस्तूरिकादिदिव्याङ्गरागैश्चालंकृतान् स्वलंकृतान् रामसीतालङ्कारेभ्यो ऽप्ययमलङ्कारोतिशयित इति भावः ॥ 2.16.34 ॥ | ||||||
| 18 | #5aತಾನುವಾಚ ವಿನೀತಾತ್ಮಾ ಸೂತಪುತ್ರಃ ಪ್ರದಕ್ಷಿಣಃ । | 2.16.5aतानुवाच विनीतात्मा सूतपुत्रः प्रदक्षिणः । | 2.16.5aतानुवाच विनीतात्मा सूतपुत्रः प्रदक्षिणः । | 2.16.5aतानुवाच विनीतात्मा सूतपुत्रः प्रदक्षिणः। | 2.16.5aतानुवाच विनीतात्मा सूतपुत्रः प्रदक्षिणः । | 2.16.5aतानुवाच विनीतात्मा सूतपुत्रः प्रदक्षिणः। | |
| 19 | #5bಕ್ಷಿಪ್ರಮಾಖ್ಯಾತ ರಾಮಾಯ ಸುಮಂತ್ರೋ ದ್ವಾರಿ ತಿಷ್ಠತಿ ॥ | 2.16.5bक्षिप्रमाख्यात रामाय सुमन्त्रो द्वारि तिष्ठति ॥ ५ ॥ | 2.16.5bक्षिप्रमाख्यात रामायसुमन्त्रो द्वारि तिष्ठति ॥ 2.16.5 ॥ | 2.16.5bक्षिप्रमाख्यात रामायसुमन्त्रो द्वारि तिष्ठति ॥ 2.16.5 ॥ | 2.16.5bक्षिप्रमाख्यात रामायसुमन्त्रो द्वारि तिष्ठति ॥ २।१६।५ ॥ | 2.16.5bक्षिप्रमाख्यात रामाय सुमंन्त्रो द्वारि तिष्ठति॥2.16.5॥ | |
| 20 | #6aತೇ ರಾಮಮುಪಸಂಗಮ್ಯ ಭರ್ತುಃ ಪ್ರಿಯಚಿಕೀರ್ಷವಃ । | 2.16.6aते राममुपसङ्गम्य भर्तुः प्रियचिकीर्षवः । | 2.16.6aते राममुपसङ्गम्य भर्त्तुः प्रियचिकीर्षवः । | 2.16.6aते राममुपसङ्गम्य भर्त्तुः प्रियचिकीर्षवः। | 2.16.6aते राममुपसङ्गम्य भर्त्तुः प्रियचिकीर्षवः । | 2.16.6aते राममुपसङ्गम्य भर्तुः प्रियचिकीर्षवः। | |
| 21 | #6bಸಹಭಾರ್ಯಾಯ ರಾಮಾಯ ಕ್ಷಿಪ್ರಮೇವಾಚಚಕ್ಷಿರೇ ॥ | 2.16.6bसहभार्याय रामाय क्षिप्रमेवाचचक्षिरे ॥ ६ ॥ | 2.14.4bसहभार्याय रामाय क्षिप्रमेवाचचक्षिरे ॥2.14.4॥ | 2.16.6bसहभार्याय रामाय क्षिप्रमेवाचचक्षिरे ॥ 2.16.6 ॥ | 2.16.6bसहभार्याय रामाय क्षिप्रमेवाचचक्षिरे ॥ 2.16.6 ॥ | 2.16.6bसहभार्याय रामाय क्षिप्रमेवाचचक्षिरे ॥ २।१६।६ ॥ | 2.16.6bसहभार्याय रामाय क्षिप्रमेवाभिचक्षिरे॥2.16.6॥ |
| 22 | 2.16.56aतानिति । | 2.16.56aतानिति । | |||||
| 23 | 2.16.56bप्रकर्षेण दक्षिणः प्रदक्षिणः । | 2.16.56bप्रकर्षेण दक्षिणः प्रदक्षिणः । | |||||
| 24 | 2.16.56cसेवानिपुण इत्यर्थः । | 2.16.56cसेवानिपुण इत्यर्थः । | |||||
| 25 | 2.16.56d“दक्षिणे सरलो दारौ” इत्यमरः । | 2.16.56d"दक्षिणे सरलो दारौ" इत्यमरः । | |||||
| 26 | 2.16.56eतिष्ठतीत्यत्र इतिकरणं द्रष्टव्यम् । | 2.16.56eतिष्ठतीत्यत्र इतिकरणं द्रष्टव्यम् । | |||||
| 27 | 2.16.56fतिष्ठतीत्याख्यातेत्यन्वयः ॥ 2.16.56 ॥ | 2.16.56fतिष्ठतीत्याख्यातेत्यन्वयः ॥ २।१६।५६ ॥ | |||||
| 28 | #7aಪ್ರತಿವೇದಿತಮಾಜ್ಞಾಯ ಸೂತಮಭ್ಯಂತರಂ ಪಿತುಃ । | 2.16.7aप्रतिवेदितमाज्ञाय सूतमभ्यन्तरं पितुः । | 2.14.5aप्रतिवेदितमाज्ञाय सूतमभ्यन्तरं पितुः । | 2.16.7aप्रतिवेदितमाज्ञाय सूतमभ्यन्तरं पितुः । | 2.16.7aप्रतिवेदितमाज्ञाय सूतमभ्यन्तरं पितुः। | 2.16.7aप्रतिवेदितमाज्ञाय सूतमभ्यन्तरं पितुः । | 2.16.7aप्रतिवेदितमाज्ञाय सूतमभ्यन्तरं पितुः। |
| 29 | #7bತತ್ರೈವಾನಾಯಯಾಮಾಸ ರಾಘವಃ ಪ್ರಿಯಕಾಮ್ಯಯಾ ॥ | 2.16.7bतत्रैवानाययामास राघवः प्रियकाम्यया ॥ ७ ॥ | 2.14.5bतत्रैवानाययामास राघवः प्रियकाम्यया ॥2.14.5॥ | 2.16.7bतत्रैवानाययामास राघवप्रियकाम्यया ॥ 2.16.7 ॥ | 2.16.7bतत्रैवानाययामास राघवप्रियकाम्यया ॥ 2.16.7 ॥ | 2.16.7bतत्रैवानाययामास राघवप्रियकाम्यया ॥ २।१६।७ ॥ | 2.16.7bतत्रैवानाययामास राघवप्रियकाम्यया॥2.16.7॥ |
| 30 | #8aತಂ ವೈಶ್ರವಣಸಂಕಾಶಮುಪವಿಷ್ಟಂ ಸ್ವಲಂಕೃತಮ್ । | 2.16.8aतं वैश्रवणसङ्काशमुपविष्टं स्वलङ्कृतम् । | 2.14.6aतं वैश्रवणसंकाशमुपविष्टं स्वलंकृतम् । | 2.16.8aतं वैश्रवणसङ्काशमुपविष्टं स्वलंकृतम् । | 2.16.8aतं वैश्रवणसङ्काशमुपविष्टं स्वलङ्कृतम्। | 2.16.8aतं वैश्रवणसङ्काशमुपविष्टं स्वलंकृतम् । | 2.16.8aतं वैश्रवणसङ्काशमुपविष्टं स्वलङ्कृतम्। |
| 31 | #8bದದರ್ಶ ಸೂತಃ ಪರ್ಯಂಕೇ ಸೌವರ್ಣೇ ಸೋತ್ತರಚ್ಛದೇ ॥ | 2.16.8bददर्श सूतः पर्यङ्के सौवर्णे सोत्तरच्छदे ॥ ८ ॥ | 2.14.6bदादर्श सूतः पर्यङ्के सौवणो सोत्तरच्छदे ॥2.14.6॥ | 2.16.8bददर्श सूतः पर्य्यङ्के सौवर्णे सोत्तरच्छदे ॥ 2.16.8 ॥ | 2.16.8bददर्श सूतः पर्य्यङ्के सौवर्णे सोत्तरच्छदे ॥ 2.16.8 ॥ | 2.16.8bददर्श सूतः पर्य्यङ्के सौवर्णे सोत्तरच्छदे ॥ २।१६।८ ॥ | 2.16.8bददर्श सूतः पर्य्यङ्के सौवर्णे सोत्तरच्छदे॥2.16.8॥ |
| 32 | #9aವರಾಹರುಧಿರಾಭೇಣ ಶುಚಿನಾ ಚ ಸುಗಂಧಿನಾ । | 2.16.9aवराहरुधिराभेण शुचिना च सुगन्धिना । | 2.14.7aवराहरुधिराभेण शुचिना च सुगन्धिना । | 2.16.9aवराहरुधिराभेण शुचिना च सुगन्धिना । | 2.16.9aवराहरुधिराभेण शुचिना च सुगन्धिना। | 2.16.9aवराहरुधिराभेण शुचिना च सुगन्धिना । | 2.16.9aवराहरुधिराभेण शुचिना च सुगन्धिना। |
| 33 | #9bಅನುಲಿಪ್ತಂ ಪರಾರ್ಧ್ಯೇನ ಚಂದನೇನ ಪರಂತಪಮ್ ॥ | 2.16.9bअनुलिप्तं परार्घ्येन चन्दनेन परन्तपम् ॥ ९ ॥ | 2.14.7bअनुलिप्तं परार्ध्येन चन्दनेन परंतपम् ॥2.14.7॥ | 2.16.9bअनुलिप्तं परार्ध्येन चन्दनेन परन्तपम् ॥ 2.16.9 ॥ | 2.16.9bअनुलिप्तं परार्ध्येन चन्दनेन परन्तपम् ॥ 2.16.9 ॥ | 2.16.9bअनुलिप्तं परार्ध्येन चन्दनेन परन्तपम् ॥ २।१६।९ ॥ | 2.16.9bअनुलिप्तं परार्ध्येन चन्दनेन परन्तपम्॥2.16.9॥ |
| 34 | #10aಸ್ಥಿತಯಾ ಪಾರ್ಶ್ವತಶ್ಚಾಪಿ ವಾಲವ್ಯಜನಹಸ್ತಯಾ । | 2.16.10aस्थितया पार्श्वतश्चापि वालव्यजनहस्तया । | 2.14.8aस्थितया पार्श्वतश्चापि वालव्यजनहस्तया । | 2.16.10aस्थितया पार्श्वतश्चापि वालव्यजनहस्तया । | 2.16.10aस्थितया पार्श्वतश्चापि वालव्यजनहस्तया। | 2.16.10aस्थितया पार्श्वतश्चापि वालव्यजनहस्तया । | 2.16.10aस्थितया पार्श्वतश्चापि वालव्यजनहस्तया। |
| 35 | #10bಉಪೇತಂ ಸೀತಯಾ ಭೂಯಶ್ಚಿತ್ರಯಾ ಶಶಿನಂ ಯಥಾ ॥ | 2.16.10bउपेतं सीतया भूयश्चित्रया शशिनं यथा ॥ १० ॥ | 2.14.8bउपेतं सीतया भूयश्चित्रया शशिनं यथा ॥2.14.8॥ | 2.16.10bउपेतं सीतया भूयश्चित्रया शशिनं यथा ॥ 2.16.10 ॥ | 2.16.10bउपेतं सीतया भूयश्चित्रया शशिनं यथा ॥ 2.16.10 ॥ | 2.16.10bउपेतं सीतया भूयश्चित्रया शशिनं यथा ॥ २।१६।१० ॥ | 2.16.10bउपेतं सीतयाभूयश्चित्रया शशिनं यथा॥2.16.10॥ |
| 36 | #11aತಂ ತಪಂತಮಿವಾದಿತ್ಯಮುಪಪನ್ನಂ ಸ್ವತೇಜಸಾ । | 2.16.11aतं तपन्तमिवादित्यमुपपन्नं स्वतेजसा । | 2.14.9aतं तपन्तमिवादित्यमुपपन्नं स्वतेजसा । | 2.16.11aत तपन्तमिवादित्यमुपपन्नं स्वतेजसा । | 2.16.11aत तपन्तमिवादित्यमुपपन्नं स्वतेजसा। | 2.16.11aत तपन्तमिवादित्यमुपपन्नं स्वतेजसा । | 2.16.11aतं तपन्तमिवादित्यमुपपन्नं स्वतेजसा। |
| 37 | #11bವವಂದೇ ವರದಂ ವಂದೀ ವಿನಿಯಜ್ಞೋ ವಿನೀತವತ್ ॥ | 2.16.11bववन्दे वरदं वन्दी विनयज्ञो विनीतवत् ॥ ११ ॥ | 2.14.9bववन्दे वरदं बन्दी नियमज्ञो विनीतवत् ॥2.14.9॥ | 2.16.11bववन्दे वरदं वन्दी विनयज्ञो विनीतवत् ॥ 2.16.11 ॥ | 2.16.11bववन्दे वरदं वन्दी विनयज्ञो विनीतवत् ॥ 2.16.11 ॥ | 2.16.11bववन्दे वरदं वन्दी विनयज्ञो विनीतवत् ॥ २।१६।११ ॥ | 2.16.11bववन्दे वरदं वन्दी विनयज्ञो विनीतवत्॥2.16.11॥ |
| 38 | #12aಪ್ರಾಂಜಲಿಃ ಸುಮುಖಂ ದೃಷ್ಟ್ವಾ ವಿಹಾರಶಯನಾಸನೇ । | 2.16.12aप्राञ्जलिः सुमुखं दृष्ट्वा विहारशयनासने । | 2.14.10aप्राञ्जलिस्तु सुखं पृष्ट्वा विहारशयनासने । | 2.16.12aप्राञ्जलिस्तु सुखं पृष्ट्वा विहारशयनासने। | 2.16.12aप्राञ्जलिस्सुमुखं दृष्ट्वा विहारशयनासने। | ||
| 39 | #12bರಾಜಪುತ್ರಮುವಾಚೇದಂ ಸುಮಂತ್ರೋ ರಾಜಸತ್ಕೃತಃ ॥ | 2.16.12bराजपुत्रमुवाचेदं सुमन्त्रो राजसत्कृतः ॥ १२ ॥ | 2.14.10bराजपुत्रमुवाचेदं सुमन्त्रो राजसत्कृतः ॥2.14.10॥ | 2.16.12bराजपुत्रमुवाचेदं सुमन्त्रो राजसत्कृतः ॥ 2.16.12 ॥ | 2.16.12bराजपुत्रमुवाचेदं सुमन्त्रो राजसत्कृतः॥2.16.12॥ | ||
| 40 | #13aಕೌಸಲ್ಯಾ ಸುಪ್ರಜಾ ರಾಮ ಪಿತಾ ತ್ವಾಂ ದ್ರಷ್ಟುಮಿಚ್ಛತಿ । | 2.16.13aकौसल्या सुप्रजा राम पिता त्वां द्रष्टुमिच्छति । | 2.14.11aकौसल्या सुप्रभा देव पिता त्वं द्रष्टुमिच्छति । | 2.16.13aकौसल्या सुप्रजा राम पिता त्वां द्रष्टुमिच्छति । | 2.16.13aकौसल्या सुप्रजा राम पिता त्वां द्रष्टुमिच्छति। | 2.16.13aकौसल्या सुप्रजा राम पिता त्वां द्रष्टुमिच्छति । | 2.16.13aकौशल्यासुप्रजा राम पिता त्वां द्रष्टुमिच्छति। |
| 41 | #13bಮಹಿಷ್ಯಾಪಿ ಹಿ ಕೈಕೇಯ್ಯಾ ಗಮ್ಯತಾಂ ತತ್ರ ಮಾ ಚಿರಮ್ ॥ | 2.16.13bमहिष्यापि हि कैकेय्या गम्यतां तत्र मा चिरम् ॥ १३ ॥ | 2.14.11bमहिष्या सह कैकेय्या गम्यतां तत्र माचिरम् ॥2.14.11॥ | 2.16.13bमहिष्या सह कैकेय्या गम्यतां तत्र मा चिरम् ॥ 2.16.13 ॥ | 2.16.13bमहिष्या सह कैकेय्या गम्यतां तत्र मा चिरम् ॥ 2.16.13 ॥ | 2.16.13bमहिष्या सह कैकेय्या गम्यतां तत्र मा चिरम् ॥ २।१६।१३ ॥ | 2.16.13bमहिष्या सह कैकेय्या गम्यतां तत्र मा चिरम्॥2.16.13॥ |
| 42 | #14aಏವಮುಕ್ತಸ್ತು ಸಂಹೃಷ್ಟೋ ನರಸಿಂಹೋ ಮಹಾದ್ಯುತಿಃ । | 2.16.14aएवमुक्तस्तु संहृष्टो नरसिंहो महाद्युतिः । | 2.14.12aएवमुक्तस्तु संहृष्टो नरसिंहो महाद्युतिः । | 2.16.14aएवमुक्तस्तु संहृष्टो नरसिंहो महाद्युतिः । | 2.16.14aएवमुक्तस्तु संहृष्टो नरसिंहो महाद्युतिः। | 2.16.14aएवमुक्तस्तु संहृष्टो नरसिंहो महाद्युतिः । | 2.16.14aएवमुक्तस्तु संहृष्टो नरसिंहो महाद्युतिः। |
| 43 | #14bತತಃ ಸಮ್ಮಾನಯಾಮಾಸ ಸೀತಾಮಿದಮುವಾಚ ಹ ॥ | 2.16.14bततः सम्मानयामास सीतामिदमुवाच ह ॥ १४ ॥ | 2.14.12bततः संमानयामास सीतामिदमुवाच ह ॥2.14.12॥ | 2.16.14bततः सम्मानयामास सीतामिदमुवाच ह ॥ 2.16.14 ॥ | 2.16.14bततः सम्मानयामास सीतामिदमुवाच ह ॥ 2.16.14 ॥ | 2.16.14bततः सम्मानयामास सीतामिदमुवाच ह ॥ २।१६।१४ ॥ | 2.16.14bततस्सम्मानयामास सीतामिदमुवाच ह॥2.16.14॥ |
| 44 | #15aದೇವಿ ದೇವಶ್ಚ ದೇವೀ ಚ ಸಮಾಗಮ್ಯ ಮದಂತರೇ । | 2.16.15aदेवि देवश्च देवी च समागम्य मदन्तरे । | 2.14.13aदेवि देवश्च देवी च समागम्य मदन्तरे । | 2.16.15aदेवि देवश्च देवी च समागम्य मदन्तरे । | 2.16.15aदेवि देवश्च देवी च समागम्य मदन्तरे। | 2.16.15aदेवि देवश्च देवी च समागम्य मदन्तरे । | 2.16.15aदेवि देवश्च देवी च समागम्य मदन्तरे। |
| 45 | #15bಮಂತ್ರಯೇತೇ ಧ್ರುವಂ ಕಿಂಚಿದಭಿಷೇಚನಸಂಹಿತಮ್ ॥ | 2.16.15bमन्त्रयेते ध्रुवं किञ्चिदभिषेचनसंहितम् ॥ १५ ॥ | 2.14.13bमन्त्रेयेते ध्रुवं किंचिदभिषेचनसंहितम् ॥2.14.13॥ | 2.16.15bमन्त्रयेते ध्रुवं किञ्चिदमिषेचनसंहितम् ॥ 2.16.15 ॥ | 2.16.15bमन्त्रयेते ध्रुवं किञ्चिदमिषेचनसंहितम् ॥ 2.16.15 ॥ | 2.16.15bमन्त्रयेते ध्रुवं किञ्चिदमिषेचनसंहितम् ॥ २।१६।१५ ॥ | 2.16.15bमन्त्रयेते धृवं किञ्चिदभिषेचनसंहितम्॥2.16.15॥ |
| 46 | #16aಲಕ್ಷಯಿತ್ವಾ ಹ್ಯಭಿಪ್ರಾಯಂ ಪ್ರಿಯಕಾಮಾ ಸುದಕ್ಷಿಣಾ । | 2.16.16aलक्षयित्वा ह्यभिप्रायं प्रियकामा सुदक्षिणा । | 2.14.14aलक्षयित्वा ह्यभिप्रायं प्रियकामा सुदक्षिणा । | 2.16.16aलक्षयित्वा ह्यभिप्रायं प्रियकामा सुदक्षिणा। | 2.16.16aलक्षयित्वा ह्यभिप्रायं प्रियकामा सुदक्षिणा। | ||
| 47 | #16bಸಂಚೋದಯತಿ ರಾಜಾನಂ ಮದರ್ಥಮಸೀತೇಕ್ಷಣಾ ॥ | 2.16.16bसञ्चोदयति राजानं मदर्थमसितेक्षणा ॥ १६ ॥ | 2.14.14bसंचोदयति राजानं मदर्थं मदिरेक्षणा ॥2.14.14॥ | 2.16.16bसञ्चोदयति राजानं मदर्थं मदिरेक्षणे ॥ 2.16.16 ॥ | 2.16.16bसञ्चोदयति राजानं मदर्थमसितेक्षणा॥2.16.16॥ | ||
| 48 | 2.16.16aमहिष्या सहेत्युक्त्योन्नेयमर्थं दर्शयति–लक्षयित्वेति । | ||||||
| 49 | 2.16.16bसुदक्षिणा सुकुशला अत एव राज्ञो ऽभिप्रायं लक्षयित्वा वृद्धत्वात् भरतागमनपर्यन्तं न विलम्बः कार्य इति राजाशयं ज्ञात्वा मत्प्रियकामा सती राजानं प्रति मदर्थं मदभिषेकं सञ्चोदयति । | ||||||
| 50 | 2.16.16cएतदानुकूल्यं त्वत्सौभाग्यफलमित्याह मदिरेक्षण इति ॥ 2.16.16 ॥ | ||||||
| 51 | #17aಸಾ ಪ್ರಹೃಷ್ಟಾ ಮಹಾರಾಜಂ ಹಿತಕಾಮಾನುವರ್ತಿನೀ । | 2.16.17aसा प्रहृष्टा महाराजं हितकामानुवर्तिनी । | 2.16.17aसा प्रहृष्टा महाराजं हितकामानुवर्त्तिनी । | 2.16.17aसा प्रहृष्टा महाराजं हितकामानुवर्त्तिनी। | 2.16.17aसा प्रहृष्टा महाराजं हितकामानुवर्त्तिनी । | 2.16.17aसा प्रहृष्टा महाराजं हितकामानुवर्तिनी। | |
| 52 | #17bಜನನೀ ಚಾರ್ಥಕಾಮಾ ಮೇ ಕೇಕಯಾಧಿಪತೇಃ ಸುತಾ ॥ | 2.16.17bजननी चार्थकामा मे केकयाधिपतेः सुता ॥ १७ ॥ | 2.16.17bजननी चार्थकामा मे केकयाधिपतेः सुता ॥ 2.16.17 ॥ | 2.16.17bजननी चार्थकामा मे केकयाधिपतेः सुता ॥ 2.16.17 ॥ | 2.16.17bजननी चार्थकामा मे केकयाधिपतेः सुता ॥ २।१६।१७ ॥ | 2.16.17bजननी चार्थकामा मे केकयाधिपतेस्सुता॥2.16.17॥ | |
| 53 | #18aದಿಷ್ಟ್ಯಾ ಖಲು ಮಹಾರಾಜೋ ಮಹಿಷ್ಯಾ ಪ್ರಿಯಯಾ ಸಹ । | 2.16.18aदिष्ट्या खलु महाराजो महिष्या प्रियया सह । | 2.16.18aदिष्ट्या खलु महाराजो महिष्या प्रियया सह । | 2.16.18aदिष्ट्या खलु महाराजो महिष्या प्रियया सह। | 2.16.18aदिष्ट्या खलु महाराजो महिष्या प्रियया सह । | 2.16.18aदिष्ट्या खलु महाराजो महिष्या प्रियया सह। | |
| 54 | #18bಸುಮಂತ್ರಂ ಪ್ರಾಹಿಣೋದ್ದೂತಮರ್ಥಕಾಮಕರಂ ಮಮ ॥ | 2.16.18bसुमन्त्रं प्राहिणोद् दूतमर्थकामकरं मम ॥ १८ ॥ | 2.16.18bसुमन्त्रं प्राहिणोद्दूतमर्थकामकरं मम ॥ 2.16.18 ॥ | 2.16.18bसुमन्त्रं प्राहिणोद्दूतमर्थकामकरं मम ॥ 2.16.18 ॥ | 2.16.18bसुमन्त्रं प्राहिणोद्दूतमर्थकामकरं मम ॥ २।१६।१८ ॥ | 2.16.18bसुमन्त्रं प्राहिणोद्दूतमर्थकामकरं मम॥2.16.18॥ | |
| 55 | 2.16.1718aसन्दिग्धोक्तिजनितां सीताशङ्कां वारयति–सेति । | 2.16.1718aसन्दिग्धोक्तिजनितां सीताशङ्कां वारयति--सेति । | |||||
| 56 | 2.16.1718bप्रहृष्टा, मयीति शेषः । | 2.16.1718bप्रहृष्टा, मयीति शेषः । | |||||
| 57 | 2.16.1718cहितकामा, लोकस्येति शेषः । | 2.16.1718cहितकामा, लोकस्येति शेषः । | |||||
| 58 | 2.16.1718dमहाराजं भर्तारम् अनुवर्तिनी मे अर्थकामा, भवतीति शेषः ॥ 2.16.1718 ॥ | 2.16.1718dमहाराजं भर्तारम् अनुवर्तिनी मे अर्थकामा, भवतीति शेषः ॥ २।१६।१७१८ ॥ | |||||
| 59 | #19aಯಾದೃಶೀ ಪರಿಷತ್ತತ್ರ ತಾದೃಶೋ ದೂತ ಆಗತಃ । | 2.16.19aयादृशी परिषत् तत्र तादृशो दूत आगतः । | 2.14.15aयादृशी परिषत्तत्र तादृशो दूत आगतः । | 2.16.19aयादृशी परिषत्तत्र तादृशो दूत आगतः । | 2.16.19aयादृशी परिषत्तत्र तादृशो दूत आगतः। | 2.16.19aयादृशी परिषत्तत्र तादृशो दूत आगतः । | 2.16.19aयादृशी परिषत्तत्र तादृशो दूत आगतः। |
| 60 | #19bಧ್ರುವಮದ್ಯೈವ ಮಾಂ ರಾಜಾ ಯೌವರಾಜ್ಯೇಽಭಿಷೇಕ್ಷ್ಯತಿ ॥ | 2.16.19bध्रुवमद्यैव मां राजा यौवराज्येऽभिषेक्ष्यति ॥ १९ ॥ | 2.14.15bध्रुवमद्यैव मां राजा यौवराज्येऽभिषेक्ष्यति ॥2.14.15॥ | 2.16.19bध्रुवमद्यैव मां राजा यौवराज्ये ऽभिषेक्ष्यति ॥ 2.16.19 ॥ | 2.16.19bध्रुवमद्यैव मां राजा यौवराज्येऽभिषेक्ष्यति ॥ 2.16.19 ॥ | 2.16.19bध्रुवमद्यैव मां राजा यौवराज्ये ऽभिषेक्ष्यति ॥ २।१६।१९ ॥ | 2.16.19bध्रुवमद्यैव मां राजा यौवराज्येऽभिषेक्ष्यति॥2.16.19॥ |
| 61 | #20aಹಂತ ಶೀಘ್ರಮಿತೋ ಗತ್ವಾ ದ್ರಕ್ಷ್ಯಾಮಿ ಚ ಮಹೀಪತಿಮ್ । | 2.16.20aहन्त शीघ्रमितो गत्वा द्रक्ष्यामि च महीपतिम् । | 2.14.16aहन्त शीघ्रमितो गत्वा द्रक्ष्यामि च महीपतिः । | 2.16.20aहन्त शीघ्रमितो गत्वा द्रक्ष्यामि च महीपतिम् । | 2.16.20aहन्त शीघ्रमितो गत्वा द्रक्ष्यामि च महीपतिम्। | 2.16.20aहन्त शीघ्रमितो गत्वा द्रक्ष्यामि च महीपतिम् । | 2.16.20aहन्त शीघ्रमितो गत्वा द्रक्ष्यामि च महीपतिम्। |
| 62 | #20bಸಹ ತ್ವಂ ಪರಿವಾರೇಣ ಸುಖಮಾಸ್ಸ್ವರಮಸ್ವ ಚ ॥ | 2.16.20bसह त्वं परिवारेण सुखमास्स्व रमस्व च ॥ २० ॥ | 2.14.16bसह त्वं परिवारेण सुखमास्स्व रमस्य च ॥2.14.16॥ | 2.16.20bसह त्वं परिवारेण सुखमास्व रमस्व च ॥ 2.16.20 ॥ | 2.16.20bसह त्वं परिवारेण सुखमास्व रमस्व च ॥ 2.16.20 ॥ | 2.16.20bसह त्वं परिवारेण सुखमास्व रमस्व च ॥ २।१६।२० ॥ | 2.16.20bसह त्वं परिवारेण सुखमास्व रमस्व च॥2.16.20॥ |
| 63 | #21aಪತಿಸಮ್ಮಾನಿತಾ ಸೀತಾ ಭರ್ತಾರಮಸಿತೇಕ್ಷಣಾ । | 2.16.21aपतिसम्मानिता सीता भर्तारमसितेक्षणा । | 2.14.17aपतिसंमानिता सीता भर्तारमसितेक्षणा । | 2.16.21aपतिसम्मानिता सीता भर्त्तारमसितेक्षणा । | 2.16.21aपतिसम्मानिता सीता भर्त्तारमसितेक्षणा। | 2.16.21aपतिसम्मानिता सीता भर्त्तारमसितेक्षणा । | 2.16.21aपतिसम्मानिता सीता भर्तारमसितेक्षणा। |
| 64 | #21bಆ ದ್ವಾರಮನುವವ್ರಾಜ ಮಂಗಲಾನ್ಯಭಿದಧ್ಯುಷೀ ॥ | 2.16.21bआ द्वारमनुवव्राज मङ्गलान्यभिदध्युषी ॥ २१ ॥ | 2.14.17bआद्वारमनुवव्राज मङ्गलान्यभिदध्युषी ॥2.14.17॥ | 2.16.21bआद्वारमनुवव्राज मङ्गलान्यभिदध्युषी ॥ 2.16.21 ॥ | 2.16.21bआद्वारमनुवव्राज मङ्गलान्यभिदध्युषी ॥ 2.16.21 ॥ | 2.16.21bआद्वारमनुवव्राज मङ्गलान्यभिदध्युषी ॥ २।१६।२१ ॥ | 2.16.21bआद्वारमनुवव्राज मङ्गलान्यभिदध्युषी॥2.16.21॥ |
| 65 | #22aರಾಜ್ಯಂ ದ್ವಿಜಾತಿಭಿರ್ಜುಷ್ಟಂ ರಾಜಸೂಯಾಭಿಷೇಚನಮ್ । | 2.16.22aराज्यं द्विजातिभिर्जुष्टं राजसूयाभिषेचनम् । | 2.16.22aराज्यं द्विजातिभिर्जुष्टं राजसूयाभिषेचनम् । | 2.16.22aराज्यं द्विजातिभिर्जुष्टं राजसूयाभिषेचनम्। | 2.16.22aराज्यं द्विजातिभिर्जुष्टं राजसूयाभिषेचनम् । | 2.16.22aराज्यं द्विजातिभिर्जुष्टं राजसूयाभिषेचनम्। | |
| 66 | #22bಕರ್ತುಮರ್ಹತಿ ತೇ ರಾಜಾ ವಾಸವಸ್ಯೇವ ಲೋಕಕೃತ್ ॥ | 2.16.22bकर्तुमर्हति ते राजा वासवस्येव लोककृत् ॥ २२ ॥ | 2.16.22bकर्तुमर्हति ते राजा वासवस्येव लोककृत् ॥ 2.16.22 ॥ | 2.16.22bकर्तुमर्हति ते राजा वासवस्येव लोककृत् ॥ 2.16.22 ॥ | 2.16.22bकर्तुमर्हति ते राजा वासवस्येव लोककृत् ॥ २।१६।२२ ॥ | 2.16.22bकर्तुमर्हति ते राजा वासवस्येव लोककृत्॥2.16.22॥ | |
| 67 | #23aದೀಕ್ಷಿತಂ ವ್ರತಸಂಪನ್ನಂ ವರಾಜಿನಧರಂ ಶುಚಿಮ್ । | 2.16.23aदीक्षितं व्रतसम्पन्नं वराजिनधरं शुचिम् । | 2.16.23aदीक्षितं व्रतसम्पन्नं वराजिनधरं शुचिम् । | 2.16.23aदीक्षितं व्रतसम्पन्नं वराजिनधरं शुचिम्। | 2.16.23aदीक्षितं व्रतसम्पन्नं वराजिनधरं शुचिम् । | 2.16.23aदीक्षितं व्रतसम्पन्नं वराजिनधरं शुचिम्। | |
| 68 | #23bಕುರಂಗಶೃಂಗಪಾಣಿಂ ಚ ಪಶ್ಯಂತೀ ತ್ವಾಂ ಭಜಾಮ್ಯಹಮ್ ॥ | 2.16.23bकुरङ्गशृङ्गपाणिं च पश्यन्ती त्वां भजाम्यहम् ॥ २३ ॥ | 2.16.23bकुरङ्गश्रृङ्गपाणिं च पश्यन्ती त्वां भजाम्यहम् ॥ 2.16.23 ॥ | 2.16.23bकुरङ्गश्रृङ्गपाणिं च पश्यन्ती त्वां भजाम्यहम् ॥ 2.16.23 ॥ | 2.16.23bकुरङ्गश्रृङ्गपाणिं च पश्यन्ती त्वां भजाम्यहम् ॥ २।१६।२३ ॥ | 2.16.23bकुरङ्गशृङ्गपाणिं च पश्यन्ती त्वां भजाम्यहम्॥2.16.23॥ | |
| 69 | #24aಪೂರ್ವಾಂ ದಿಶಂ ವ್ರಜಧರೋ ದಕ್ಷಿಣಾಂ ಪಾತು ತೇ ಯಮಃ । | 2.16.24aपूर्वां दिशं वज्रधरो दक्षिणां पातु ते यमः । | 2.16.24aपूर्वां दिशं वज्रधरो दक्षिणां पातु ते यमः । | 2.16.24aपूर्वां दिशं वज्रधरो दक्षिणां पातु ते यमः। | 2.16.24aपूर्वां दिशं वज्रधरो दक्षिणां पातु ते यमः । | 2.16.24aपूर्वां दिशं वज्रधरो दक्षिणां पातु ते यमः। | |
| 70 | #24bವರುಣಃ ಪಶ್ಚಿಮಾಮಾಶಾಂ ಧನೇಶಸ್ತೂತ್ತರಾಂ ದಿಶಮ್ ॥ | 2.16.24bवरुणः पश्चिमामाशां धनेशस्तूत्तरां दिशम् ॥ २४ ॥ | 2.16.24bवरुणः पश्चिमामाशां धनेशस्तूत्तरां दिशम् ॥ 2.16.24 ॥ | 2.16.24bवरुणः पश्चिमामाशां धनेशस्तूत्तरां दिशम् ॥ 2.16.24 ॥ | 2.16.24bवरुणः पश्चिमामाशां धनेशस्तूत्तरां दिशम् ॥ २।१६।२४ ॥ | 2.16.24bवरुणः पश्चिमामाशां धनेशस्तूत्तरां दिशम्॥2.16.24॥ | |
| 71 | #25aಅಥ ಸೀತಾಮನುಜ್ಞಾಪ್ಯ ಕೃತಕೌತುಕಮಂಗಲಃ । | 2.16.25aअथ सीतामनुज्ञाप्य कृतकौतुकमङ्गलः । | 2.16.25aअथ सीतामनुज्ञाप्य कृतकौतुकमङ्गलः । | 2.16.25aअथ सीतामनुज्ञाप्य कृतकौतुकमङ्गलः। | 2.16.25aअथ सीतामनुज्ञाप्य कृतकौतुकमङ्गलः । | 2.16.25aअथ सीतामनुज्ञाप्य कृतकौतुकमङ्गलः। | |
| 72 | #25bನಿಶ್ಚಕ್ರಾಮ ಸುಮಂತ್ರೇಣ ಸಹ ರಾಮೋ ನಿವೇಶನಾತ್ ॥ | 2.16.25bनिश्चक्राम सुमन्त्रेण सह रामो निवेशनात् ॥ २५ ॥ | 2.16.25bनिश्चक्राम सुमन्त्रेण सह रामो निवेशनात् ॥ 2.16.25 ॥ | 2.16.25bनिश्चक्राम सुमन्त्रेण सह रामो निवेशनात् ॥ 2.16.25 ॥ | 2.16.25bनिश्चक्राम सुमन्त्रेण सह रामो निवेशनात् ॥ २।१६।२५ ॥ | 2.16.25bनिश्चक्राम सुमन्त्रेण सह रामो निवेशनात्॥2.16.25॥ | |
| 73 | #26aಪರ್ವತಾದಿವ ನಿಷ್ಕ್ರಮ್ಯ ಸಿಂಹೋ ಗಿರಿಗುಹಾಶಯಃ । | 2.16.26aपर्वतादिव निष्क्रम्य सिंहो गिरिगुहाशयः । | 2.16.26aपर्वतादिव निष्क्रम्य सिंहो गिरिगुहाशयः । | 2.16.26aपर्वतादिव निष्क्रम्य सिंहो गिरिगुहाशयः। | 2.16.26aपर्वतादिव निष्क्रम्य सिंहो गिरिगुहाशयः । | 2.16.26aपर्वतादिव निष्क्रम्य सिंहो गिरिगुहाशयः। | |
| 74 | #26bಲಕ್ಷಣಂ ದ್ವಾರಿ ಸೋಽಪಶ್ಯತ್ ಪ್ರಹ್ವಾಂಜಲಿಪುಟಂ ಸ್ಥಿತಮ್ ॥ | 2.16.26bलक्ष्मणं द्वारि सोऽपश्यत् प्रह्वाञ्जलिपुटं स्थितम् ॥ २६ ॥ | 2.16.26bलक्ष्मणं द्वारि सोपश्यत् प्रह्वा़ञ्जिलिपुटं स्थितम् ॥ 2.16.26 ॥ | 2.16.26bलक्ष्मणं द्वारि सोपश्यत् प्रह्वाञ्जिलिपुटं स्थितम् ॥ 2.16.26 ॥ | 2.16.26bलक्ष्मणं द्वारि सोपश्यत् प्रह्वा़ञ्जिलिपुटं स्थितम् ॥ २।१६।२६ ॥ | 2.16.26bलक्ष्मणं द्वारिसोऽपश्यत्प्रह्वाञ्जलिपुटं स्थितम्॥2.16.26॥ | |
| 75 | #27aಅಥ ಮಧ್ಯಮಕಕ್ಷ್ಯಾಯಾಂ ಸಮಾಗಚ್ಛತ್ ಸುಹೃಜ್ಜನೈಃ । | 2.16.27aअथ मध्यमकक्ष्यायां समागच्छत् सुहृज्जनैः । | 2.16.27aअथ मध्यमकक्ष्यायां समागम्य सुहृज्जनैः । | 2.16.27aअथ मध्यमकक्ष्यायां समागम्य सुहृज्जनैः। | 2.16.27aअथ मध्यमकक्ष्यायां समागम्य सुहृज्जनैः । | 2.16.27aअथ मध्यमकक्ष्यायां समागच्छत्सुहृज्जनैः। | |
| 76 | #27bಸ ಸರ್ವಾನರ್ಥಿನೋ ದೃಷ್ಟ್ವಾ ಸಮೇತ್ಯ ಪ್ರತಿನಂದ್ಯ ಚ ॥ | 2.16.27bस सर्वानर्थिनो दृष्ट्वा समेत्य प्रतिनन्द्य च ॥ २७ ॥ | 2.14.18aस सर्वानर्थिनो दृष्ट्वा समेत्य प्रतिनन्द्य च । | 2.16.27bस सर्वानर्थिनो दृष्ट्वा समेत्य प्रतिनन्द्य च ॥ 2.16.27 ॥ | 2.16.27bस सर्वानर्थिनो दृष्ट्वा समेत्य प्रतिनन्द्य च ॥ 2.16.27 ॥ | 2.16.27bस सर्वानर्थिनो दृष्ट्वा समेत्य प्रतिनन्द्य च ॥ २।१६।२७ ॥ | 2.16.27bस सर्वानर्थिनो दृष्ट्वा समेत्य प्रतिनन्द्य च॥2.16.27॥ |
| 77 | #28aತತಃ ಪಾವಕಸಂಕಾಶಮಾರುರೋಹ ರಥೋತ್ತಮಮ್ । | 2.16.28aततः पावकसङ्काशमारुरोह रथोत्तमम् । | 2.14.18bततः पावकसंकाशमारुरोह रथोत्तमम् ॥2.14.18॥ | 2.16.28aततः पावकसङ्काशमारुरोह रथोत्तमम् । | 2.16.28aततः पावकसङ्काशमारुरोह रथोत्तमम्। | 2.16.28aततः पावकसङ्काशमारुरोह रथोत्तमम् । | 2.16.28aततः पावकसङ्काशमारुरोह रथोत्तमम्। |
| 78 | #28bವೈಯಾಘ್ರಂ ಪುರುಷವ್ಯಾಘ್ರೋ ರಾಜಿತಂ ರಾಜನಂದನಃ ॥ | 2.16.28bवैयाघ्रं पुरुषव्याघ्रो राजितं राजनन्दनः ॥ २८ ॥ | 2.16.28bवैयाघ्रं पुरुषव्याघ्रो रजतं राजनन्दनः ॥ 2.16.28 ॥ | 2.16.28bवैयाघ्रं पुरुषव्याघ्रो रजतं राजनन्दनः ॥ 2.16.28 ॥ | 2.16.28bवैयाघ्रं पुरुषव्याघ्रो रजतं राजनन्दनः ॥ २।१६।२८ ॥ | 2.16.28bवैयाघ्रं पुरुषव्याघ्रो राजतं राजनन्दनः॥2.16.28॥ | |
| 79 | 2.16.2728aअथेत्यादिश्लोकद्वयम् । | 2.16.2728aअथेत्यादिश्लोकद्वयम् । | |||||
| 80 | 2.16.2728bअर्थिनः रामदर्शनार्थिनः अभिषेकार्थिनो वा । | 2.16.2728bअर्थिनः रामदर्शनार्थिनः अभिषेकार्थिनो वा । | |||||
| 81 | 2.16.2728cवैयाघ्रं व्याघ्रचर्मपरिवृतं “द्वैपवैयाघ्रादञ्” इत्यञ् । | 2.16.2728cवैयाघ्रं व्याघ्रचर्मपरिवृतं "द्वैपवैयाघ्रादञ्" इत्यञ् । | |||||
| 82 | 2.16.2728dराजतं रजतविकारम् । | 2.16.2728dराजतं रजतविकारम् । | |||||
| 83 | 2.16.2728eराजन्तमिति च पाठः ॥ 2.16.2728 ॥ | 2.16.2728eराजन्तमिति च पाठः ॥ २।१६।२७२८ ॥ | |||||
| 84 | #29aಮೇಘನಾದಮಸಂಬಾಧಂ ಮಣಿಹೇಮವಿಭೂಷಿತಮ್ । | 2.16.29aमेघनादमसम्बाधं मणिहेमविभूषितम् । | 2.16.29aमेघनादमसम्बाधं मणिहेमविभूषितम् । | 2.16.29aमेघनादमसम्बाधं मणिहेमविभूषितम्। | 2.16.29aमेघनादमसम्बाधं मणिहेमविभूषितम् । | 2.16.29aमेघनादमसम्बाधं मणिहेमविभूषितम्। | |
| 85 | #29bಮುಷ್ಣಂತಮಿವ ಚಕ್ಷೂಂಷಿ ಪ್ರಭಯಾ ಮೇರುವರ್ಚಸಮ್ ॥ | 2.16.29bमुष्णन्तमिव चक्षूंषि प्रभया मेरुवर्चसम् ॥ २९ ॥ | 2.14.19aमुष्णन्तमिव चक्षूंषि प्रभया हेमवर्चसम् । | 2.16.29bमुष्णन्तमिव चक्षूंषि प्रभया सूर्यवर्चसम् ॥ 2.16.29 ॥ | 2.16.29bमुष्णन्तमिव चक्षूंषि प्रभया सूर्यवर्चसम् ॥ 2.16.29 ॥ | 2.16.29bमुष्णन्तमिव चक्षूंषि प्रभया सूर्यवर्चसम् ॥ २।१६।२९ ॥ | 2.16.29bमुष्णन्तमिव चक्षूंषि प्रभया सूर्यवर्चसम्॥2.16.29॥ |
| 86 | #30aಕರೇಣುಶಿಶುಕಲ್ಪೈಶ್ಚ ಯುಕ್ತಂ ಪರಮವಾಜಿಭಿಃ । | 2.16.30aकरेणुशिशुकल्पैश्च युक्तं परमवाजिभिः । | 2.14.19bकरेणुशिशुकल्पैश्च युक्तं परमवाजिभिः ॥2.14.19॥ | 2.16.30aकरेणुशिशुकल्पैश्च युक्तं परमवाजिभिः । | 2.16.30aकरेणुशिशुकल्पैश्च युक्तं परमवाजिभिः । | 2.16.30aकरेणुशिशुकल्पैश्च युक्तं परमवाजिभिः। | |
| 87 | #30bಹರಿಯುಕ್ತಂ ಸಹಸ್ರಾಕ್ಷೋ ರಥಮಿಂದ್ರ ಇವಾಶುಗಮ್ ॥ | 2.16.30bहरियुक्तं सहस्राक्षो रथमिन्द्र इवाशुगम् ॥ ३० ॥ | 2.14.20aहरियुक्तं सहस्राक्षो रथमिन्द्र इवाशुगम् । | 2.16.30bहरियुक्तं सहस्राक्षो रथमिन्द्र इवाशुगम् । | 2.16.30aहरियुक्तं सहस्राक्षो रथमिन्द्र इवाशुगम्। | 2.16.30bहरियुक्तं सहस्राक्षो रथमिन्द्र इवाशुगम् । | 2.16.30bहरियुक्तं सहस्राक्षो रथमिन्द्र इवाशुगम्॥2.16.30॥ |
| 88 | #31aಪ್ರಯಯೌ ತೂರ್ಣಮಾಸ್ಥಾಯ ರಾಘವೋ ಜ್ವಲಿತಃ ಶ್ರಿಯಾ । | 2.16.31aप्रययौ तूर्णमास्थाय राघवो ज्वलितः श्रिया । | 2.14.20bप्रययौ तूर्णमास्थाय राघवो ज्वलितः श्रिया ॥2.14.20॥ | 2.16.30cप्रययौ तूर्णमास्थाय राघवो ज्वलितः श्रिया ॥ 2.16.30 ॥ | 2.16.30bप्रययौ तूर्णमास्थाय राघवो ज्वलितः श्रिया ॥ 2.16.30 ॥ | 2.16.30cप्रययौ तूर्णमास्थाय राघवो ज्वलितः श्रिया ॥ २।१६।३० ॥ | 2.16.31aप्रययौ तूर्णमास्थाय राघवो ज्वलितश्श्रिया। |
| 89 | #31bಸ ಪರ್ಜನ್ಯ ಇವಾಕಾಶೇ ಸ್ವನವಾನಭಿನಾದಯನ್ ॥ | 2.16.31bस पर्जन्य इवाकाशे स्वनवानभिनादयन् ॥ ३१ ॥ | 2.14.21aस पर्जन्य इवाकाशे स्वनवानभिनादयन् । | 2.16.31aस पर्जन्य इवाकाशे स्वनवानभिनादयन् । | 2.16.31aस पर्जन्य इवाकाशे स्वनवानभिनादयन्। | 2.16.31aस पर्जन्य इवाकाशे स्वनवानभिनादयन् । | 2.16.31bस पर्जन्य इवाकाशे स्वनवानभिनादयन्॥2.16.31॥ |
| 90 | #32aನಿಕೇತಾನ್ನಿರ್ಯಯೌ ಶ್ರೀಮನ್ಮಹಾಭ್ರಾದಿವ ಚಂದ್ರಮಾಃ । | 2.16.32aनिकेतान्निर्ययौ श्रीमान् महाभ्रादिव चन्द्रमाः । | 2.14.21bनिकेतान्निर्ययौ श्रीमान्महाभ्रादिव चन्द्रमाः ॥2.14.21॥ | 2.16.31bनिकेतान्निर्ययौ श्रीमान् महेन्द्रादिव चन्द्रमाः ॥ 2.16.31 ॥ | 2.16.31bनिकेतान्निर्ययौ श्रीमान् महेन्द्रादिव चन्द्रमाः ॥ 2.16.31 ॥ | 2.16.31bनिकेतान्निर्ययौ श्रीमान् महेन्द्रादिव चन्द्रमाः ॥ २।१६।३१ ॥ | 2.16.32aनिकेतान्निर्ययौ श्रीमान्महाभ्रादिव चन्द्रमाः। |
| 91 | #32bಚಿತ್ರಚಾಮರಪಾಣಿಸ್ತು ಲಕ್ಷ್ಮಣೋ ರಾಘವಾನುಜಃ ॥ | 2.16.32bचित्रचामरपाणिस्तु लक्ष्मणो राघवानुजः ॥ ३२ ॥ | 2.14.22aछत्रचामरपाणिस्तु लक्ष्मणो राघवानुजः । | 2.16.32aछत्रचामरपाणिस्तु लक्ष्मणो राघवानुजः । | 2.16.32aछत्रचामरपाणिस्तु लक्ष्मणो राघवानुजः। | 2.16.32aछत्रचामरपाणिस्तु लक्ष्मणो राघवानुजः । | 2.16.32bछत्रचामरपाणिस्तु लक्ष्मणो राघवानुजः॥2.16.32॥ |
| 92 | #33aಜುಗೋಪ ಭ್ರಾತರಂ ಭ್ರಾತಾ ರಥಮಾಸ್ಥಾಯ ಪೃಪ್ಠತಃ । | 2.16.33aजुगोप भ्रातरं भ्राता रथमास्थाय पृष्ठतः । | 2.14.22bजुगोप भ्रातरं भ्राता रथमास्थाय पृष्ठतः ॥2.14.22॥ | 2.16.32bजुगोप भ्रातरं भ्राता रथमास्थाय पृष्टतः ॥ 2.16.32 ॥ | 2.16.32bजुगोप भ्रातरं भ्राता रथमास्थाय पृष्टतः ॥ 2.16.32 ॥ | 2.16.32bजुगोप भ्रातरं भ्राता रथमास्थाय पृष्टतः ॥ २।१६।३२ ॥ | 2.16.33aजुगोप भ्रातरं भ्राता रथमास्थाय पृष्ठतः। |
| 93 | #33bತತೋ ಹಲಹಲಾಶಬ್ದಸ್ತುಮುಲಃ ಸಮಜಾಯತ ॥ | 2.16.33bततो हलहलाशब्दस्तुमुलः समजायत ॥ ३३ ॥ | 2.14.23aततो हलहलाशब्दस्तुमुलः समजायत । | 2.16.33aततो हलहलाशब्दस्तुमुलः समजायत । | 2.16.33aततो हलहलाशब्दस्तुमुलः समजायत। | 2.16.33aततो हलहलाशब्दस्तुमुलः समजायत । | 2.16.33bततो हलहलाशब्दस्तुमुलस्समजायत॥2.16.33॥ |
| 94 | #34aತಸ್ಯ ನಿಷ್ಕ್ರಮಮಾಣಸ್ಯ ಜನೌಘಸ್ಯ ಸಮಂತತಃ । | 2.16.34aतस्य निष्क्रममाणस्य जनौघस्य समन्ततः । | 2.14.23bतस्य निष्क्रममाणस्य जनौघस्य समन्ततः ॥2.14.23॥ | 2.16.33bतस्य निष्क्रममाणस्य जनौघस्य समन्ततः ॥ 2.16.33 ॥ | 2.16.33bतस्य निष्क्रममाणस्य जनौघस्य समन्ततः ॥ 2.16.33 ॥ | 2.16.33bतस्य निष्क्रममाणस्य जनौघस्य समन्ततः ॥ २।१६।३३ ॥ | 2.16.34aतस्य निष्क्रममाणस्य जनौघस्य समन्ततः। |
| 95 | #34bತತೋ ಹಯವರಾ ಮುಖ್ಯಾ ನಾಗಾಶ್ಚ ಗಿರಿಸಂನಿಭಾಃ ॥ | 2.16.34bततो हयवरा मुख्या नागाश्च गिरिसन्निभाः ॥ ३४ ॥ | 2.16.34aततो हयवरा मुख्या नागाश्च गिरिसन्निभाः। | 2.16.34aततो हयवरा मुख्या नागाश्च गिरिसन्निभाः । | 2.16.34bततो हयवरा मुख्या नागाश्च गिरिसन्निभाः॥2.16.34॥ | ||
| 96 | #35aಅನುಜಗ್ಮುಸ್ತಥಾ ರಾಮಂ ಶತಶೋಽಥ ಸಹಸ್ರಶಃ । | 2.16.35aअनुजग्मुस्तथा रामं शतशोऽथ सहस्रशः । | 2.16.34bअनुजग्मुस्तदा रामं शतशोऽथ सहस्रशः ॥ 2.16.34 ॥ | 2.16.34bअनुजग्मुस्तदा रामं शतशो ऽथ सहस्रशः ॥ २।१६।३४ ॥ | 2.16.35aअनुजग्मुस्तदा रामं शतशोऽथ सहस्रशः। | ||
| 97 | #35bಅಗ್ರತಶ್ಚಾಸ್ಯ ಸನ್ನದ್ಧಾಶ್ಚಂದನಾಗರುಭೂಷಿತಾಃ ॥ | 2.16.35bअग्रतश्चास्य सन्नद्धाश्चन्दनागुरुभूषिताः ॥ ३५ ॥ | 2.16.35aअग्रतश्चास्य सन्नद्धाश्चन्दनागरुरूषिताः । | 2.16.35aअग्रतश्चास्य सन्नद्धाश्चन्दनागरुरूषिताः। | 2.16.35aअग्रतश्चास्य सन्नद्धाश्चन्दनागरुरूषिताः । | 2.16.35bअग्रतश्चास्य सन्नद्धाश्चन्दनागरुभूषिताः॥2.16.35॥ | |
| 98 | #36aಖಡ್ಗಚಾಪಧರಾಃ ಶೂರಾ ಜಗ್ಮುರಾಶಂಸವೋ ಜನಾಃ । | 2.16.36aखड्गचापधराः शूरा जग्मुराशंसवो जनाः । | 2.16.35bखड्गचापधराः शूरा जग्मुराशंसवो जनाः ॥ 2.16.35 ॥ | 2.16.35bखड्गचापधराः शूरा जग्मुराशंसवो जनाः ॥ 2.16.35 ॥ | 2.16.35bखड्गचापधराः शूरा जग्मुराशंसवो जनाः ॥ २।१६।३५ ॥ | 2.16.36aखड्गचापधराश्शूरा जग्मुराशंसवो जनाः। | |
| 99 | #36bತತೋ ವಾದಿತ್ರಶಬ್ದಾಶ್ಚ ಸ್ತುತಿಶಬ್ದಾಶ್ಚ ವಂದಿನಾಮ್ ॥ | 2.16.36bततो वादित्रशब्दाश्च स्तुतिशब्दाश्च वन्दिनाम् ॥ ३६ ॥ | 2.16.36aततो वादित्रशब्दास्तु स्तुतिशब्दास्तु वन्दिनाम् । | 2.16.36aततो वादित्रशब्दास्तु स्तुतिशब्दास्तु वन्दिनाम्। | 2.16.36aततो वादित्रशब्दास्तु स्तुतिशब्दास्तु वन्दिनाम् । | 2.16.36bततो वादित्रशब्दाश्च स्तुतिशब्दाश्च वन्दिनाम्॥2.16.36॥ | |
| 100 | #37aಸಿಂಹನಾದಾಶ್ಚ ಶೂರಾಣಾಂ ತತಃ ಶುಶ್ರುವಿರೇ ಪಥಿ । | 2.16.37aसिंहनादाश्च शूराणां ततः शुश्रुविरे पथि । | 2.16.36bसिंहनादाश्च शूराणां तथा शुश्रुविरे पथि ॥ 2.16.36 ॥ | 2.16.36bसिंहनादाश्च शूराणां तथा शुश्रुविरे पथि ॥ 2.16.36 ॥ | 2.16.36bसिंहनादाश्च शूराणां तथा शुश्रुविरे पथि ॥ २।१६।३६ ॥ | 2.16.37aसिंहनादाश्च शूराणां तदा शुश्रुविरे पथि। | |
| 101 | #37bಹರ್ಮ್ಯವಾತಾಯನಸ್ಥಾಭಿರ್ಭೂಷಿತಾಭಿಃ ಸಮಂತತಃ ॥ | 2.16.37bहर्म्यवातायनस्थाभिर्भूषिताभिः समन्ततः ॥ ३७ ॥ | 2.16.37aहर्म्यवातायनस्थाभिर्भूषिताभिस्समन्ततः । | 2.16.37aहर्म्यवातायनस्थाभिर्भूषिताभिस्समन्ततः। | 2.16.37aहर्म्यवातायनस्थाभिर्भूषिताभिस्समन्ततः । | 2.16.37bहर्म्यवातायनस्थाभिर्भूषिताभिस्समन्ततः॥2.16.37॥ | |
| 102 | #38aಕೀರ್ಯಮಾಣಃ ಸುಪುಷ್ಪೌಘೈರ್ಯಯೌ ಸ್ತ್ರೀಭಿರರಿಂದಮಃ । | 2.16.38aकीर्यमाणः सुपुष्पौघैर्ययौ स्त्रीभिररिन्दमः । | 2.16.37bकीर्य्यमाणः सुपुष्पौघैर्ययौ स्त्रीभिररिन्दमः ॥ 2.16.37 ॥ | 2.16.37bकीर्य्यमाणः सुपुष्पौघैर्ययौ स्त्रीभिररिन्दमः ॥ 2.16.37 ॥ | 2.16.37bकीर्य्यमाणः सुपुष्पौघैर्ययौ स्त्रीभिररिन्दमः ॥ २।१६।३७ ॥ | 2.16.38aकीर्यमाणस् सुपुष्पौघैर्ययौ स्त्रीभिररिन्दमः। | |
| 103 | #38bರಾಮಂ ಸರ್ವಾನವದ್ಯಾಂಗೋ ರಾಮಪಿಪ್ರೀಷಯಾ ತತಃ ॥ | 2.16.38bरामं सर्वानवद्याङ्ग्यो रामपिप्रीषया ततः ॥ ३८ ॥ | 2.16.38aरामं सर्वानवद्याङ्ग्यो रामपिप्रीषया ततः । | 2.16.38aरामं सर्वानवद्याङ्ग्यो रामपिप्रीषया ततः। | 2.16.38aरामं सर्वानवद्याङ्ग्यो रामपिप्रीषया ततः । | 2.16.38bरामं सर्वानवद्याङ्ग्यो रामपिप्रीषया ततः॥2.16.38॥ | |
| 104 | #39aವಚೋಭಿರಗ್ರೈರ್ಹರ್ಮ್ಯಸ್ಥಾಃ ಕ್ಷಿತಿಸ್ಥಾಶ್ಚವವಂದಿರೇ । | 2.16.39aवचोभिरग्र्यैर्हर्म्यस्थाः क्षितिस्थाश्च ववन्दिरे । | 2.16.38bवचोभिरग्र्यैर्हर्म्यस्थाः क्षितिस्थाश्च ववन्दिरे ॥ 2.16.38 ॥ | 2.16.38bवचोभिरग्र्यैर्हर्म्यस्थाः क्षितिस्थाश्च ववन्दिरे ॥ 2.16.38 ॥ | 2.16.38bवचोभिरग्र्यैर्हर्म्यस्थाः क्षितिस्थाश्च ववन्दिरे ॥ २।१६।३८ ॥ | 2.16.39aवचोभिरग्य्रैर्हर्म्यस्था क्षितिस्थाश्च ववन्दिरे। | |
| 105 | #39bನೂನಂ ನಂದತಿ ತೇ ಮಾತಾ ಕೌಸಲ್ಯಾಮಾತೃನಂದನ ॥ | 2.16.39bनूनं नन्दति ते माता कौसल्या मातृनन्दन ॥ ३९ ॥ | 2.16.39aनूनं नन्दति ते माता कौसल्या मातृनन्दन । | 2.16.39aनूनं नन्दति ते माता कौसल्या मातृनन्दन। | 2.16.39aनूनं नन्दति ते माता कौसल्या मातृनन्दन । | 2.16.39bनूनं नन्दति ते माता कौशल्यामातृनन्दन॥2.16.39॥ | |
| 106 | #40aಪಶ್ಯಂತಿ ಸಿದ್ಧಯಾತ್ರಂ ತ್ವಾಂ ಪಿತ್ರ್ಯಂ ರಾಜ್ಯಮುಪಸ್ಥಿತಮ್ । | 2.16.40aपश्यन्ती सिद्धयात्रं त्वां पित्र्यं राज्यमुपस्थितम् । | 2.16.39bपश्यन्ती सिद्धयात्रं त्वां पित्र्यं राज्यमवस्थितम् ॥ 2.16.39 ॥ | 2.16.39bपश्यन्ती सिद्धयात्रं त्वां पित्र्यं राज्यमवस्थितम् ॥ 2.16.39 ॥ | 2.16.39bपश्यन्ती सिद्धयात्रं त्वां पित्र्यं राज्यमवस्थितम् ॥ २।१६।३९ ॥ | 2.16.40aपश्यन्ती सिद्धयात्रं त्वां पित्र्यं राज्यमवस्थितम्। | |
| 107 | #40bಸರ್ವಸೀಮಂತಿನೀಭ್ಯಶ್ಚ ಸೀತಾಂ ಸೀಮಂತಿನೀಂ ವರಾಮ್ ॥ | 2.16.40bसर्वसीमन्तिनीभ्यश्च सीतां सीमन्तिनीं वराम् ॥ ४० ॥ | 2.16.40aसर्वसीमन्तिनीभ्यश्च सीतां सीमन्तिनीवराम् । | 2.16.40aसर्वसीमन्तिनीभ्यश्च सीतां सीमन्तिनीवराम्। | 2.16.40aसर्वसीमन्तिनीभ्यश्च सीतां सीमन्तिनीवराम् । | 2.16.40bसर्वसीमन्तिनीभ्यश्च सीतां सीमन्तिनी वराम्॥2.16.40॥ | |
| 108 | #41aಅಮನ್ಯಂತ ಹಿ ತಾ ನಾರ್ಯೋ ರಾಮಸ್ಯ ಹೃದಯಪ್ರಿಯಾಮ್ । | 2.16.41aअमन्यन्त हि ता नार्यो रामस्य हृदयप्रियाम् । | 2.16.40bअमन्यन्त हि ता नार्यो रामस्य हृदयप्रियाम् ॥ 2.16.40 ॥ | 2.16.40bअमन्यन्त हि ता नार्यो रामस्य हृदयप्रियाम् ॥ 2.16.40 ॥ | 2.16.40bअमन्यन्त हि ता नार्यो रामस्य हृदयप्रियाम् ॥ २।१६।४० ॥ | 2.16.41aअमन्यन्त हि ता नार्यो रामस्य हृदयप्रियाम्। | |
| 109 | #41bತಯಾ ಸುಚರಿತಂ ದೇವ್ಯಾ ಪುರಾ ನೂನಂ ಮಹತ್ತಪಃ ॥ | 2.16.41bतया सुचरितं देव्या पुरा नूनं महत् तपः ॥ ४१ ॥ | 2.16.41aतया सुचरितं देव्या पुरा नूनं महत्तपः । | 2.16.41aतया सुचरितं देव्या पुरा नूनं महत्तपः। | 2.16.41aतया सुचरितं देव्या पुरा नूनं महत्तपः । | 2.16.41bतया सुचरितं देव्या पुरा नूनं महत्तपः॥2.16.41॥ | |
| 110 | #42aರೋಹಿಣೀವ ಶಶಾಂಕೇನ ರಾಮಸಂಯೋಗಮಾಪ ಯಾ । | 2.16.42aरोहिणीव शशाङ्केन रामसंयोगमाप या । | 2.16.41bरोहिणीव शशाङ्केन रामसंयोगमाप या ॥ 2.16.41 ॥ | 2.16.41bरोहिणीव शशाङ्केन रामसंयोगमाप या ॥ 2.16.41 ॥ | 2.16.41bरोहिणीव शशाङ्केन रामसंयोगमाप या ॥ २।१६।४१ ॥ | 2.16.42aरोहिणीव शशाङ्केन रामसंयोगमाप या। | |
| 111 | #42bಇತಿ ಪ್ರಾಸಾದಶೃಂಗೇಷು ಪ್ರಮದಾಭಿರ್ನರೋತ್ತಮಃ । | 2.16.42bइति प्रासादशृङ्गेषु प्रमदाभिर्नरोत्तमः । | 2.16.42aइति प्रासाद शृङ्गेषु प्रमदाभिर्नरोत्तमः । | 2.16.42aइति प्रासाद शृङ्गेषु प्रमदाभिर्नरोत्तमः। | 2.16.42aइति प्रासाद शृङ्गेषु प्रमदाभिर्नरोत्तमः । | 2.16.42bइति प्रासादशृङ्गेषु प्रमदाभिर्नरोत्तमः॥2.16.42॥ | |
| 112 | #42cಶುಶ್ರಾವ ರಾಜಮಾರ್ಗಸ್ಥಃ ಪ್ರಿಯಾ ವಾಚ ಉದಾಜ್ಞತಾಃ ॥ | 2.16.42cशुश्राव राजमार्गस्थः प्रिया वाच उदाहृताः ॥ ४२ ॥ | 2.16.42bशुश्राव राजमार्गस्थः प्रिया वाच उदाहृताः ॥ 2.16.42 ॥ | 2.16.42bशुश्राव राजमार्गस्थः प्रिया वाच उदाहृताः ॥ 2.16.42 ॥ | 2.16.42bशुश्राव राजमार्गस्थः प्रिया वाच उदाहृताः ॥ २।१६।४२ ॥ | 2.16.43aशुश्राव राजमार्गस्थः प्रिया वाच उदाहृताः। | |
| 113 | 2.16.43bआत्मसंपूजनै शृण्वन् ययौ रामौ महापथम्॥2.16.43॥ | ||||||
| 114 | 2.16.4042aउत्तरश्लोकार्थहेतुत्वेनाह–सर्वेति । | 2.16.4042aउत्तरश्लोकार्थहेतुत्वेनाह--सर्वेति । | |||||
| 115 | 2.16.4042bहि यस्मात्कारणात् । | 2.16.4042bहि यस्मात्कारणात् । | |||||
| 116 | 2.16.4042cएवं तस्मात् तया सुचरितमित्युक्तरीत्या प्रमदाभिरुदीरिता इति योजना ॥ 2.16.4042 ॥ | 2.16.4042cएवं तस्मात् तया सुचरितमित्युक्तरीत्या प्रमदाभिरुदीरिता इति योजना ॥ २।१६।४०४२ ॥ | |||||
| 117 | #43aಸ ರಾಘವಸ್ತತ್ರ ತದಾ ಪ್ರಲಾಪಾನ್ ಶುಶ್ರಾವ ಲೋಕಸ್ಯ ಸಮಾಗತಸ್ಯ । | 2.16.43aस राघवस्तत्र तदा प्रलापान् शुश्राव लोकस्य समागतस्य । | 2.14.24aस राघवस्तत्र कथाप्रलापं शुश्राव लोकस्य समागतस्य । | 2.16.43aस राघवस्तत्र कथाप्रपञ्चान् शुश्राव लोकस्य समागतस्य । | 2.16.43aस राघवस्तत्र कथाप्रपञ्चान् शुश्राव लोकस्य समागतस्य। | 2.16.43aस राघवस्तत्र कथाप्रपञ्चान् शुश्राव लोकस्य समागतस्य । | 2.16.44aस राघवस्तत्र कथाप्रपञ्चान् शुश्राव लोकस्य समागतस्य। |
| 118 | #43bಆತ್ಮಾಧಿಕಾರಾ ವಿವಿಧಾಶ್ಚ ವಾಚಃ ಪ್ರಹೃಷ್ಟರೂಪಸ್ಯ ಪುರೇಜನಸ್ಯ ॥ | 2.16.43bआत्माधिकारा विविधाश्च वाचः प्रहृष्टरूपस्य पुरे जनस्य ॥ ४३ ॥ | 2.14.24bआत्माधिकारा विविधाश्च वाचः प्रहृष्टरूपस्य पुरे जनस्य ॥2.14.24॥ | 2.16.43bआत्माधिकारा विविधाश्च वाचः प्रहृष्टरूपस्य पुरो जनस्य ॥ 2.16.43 ॥ | 2.16.43bआत्माधिकारा विविधाश्च वाचः प्रहृष्टरूपस्य पुरो जनस्य ॥ 2.16.43 ॥ | 2.16.43bआत्माधिकारा विविधाश्च वाचः प्रहृष्टरूपस्य पुरो जनस्य ॥ २।१६।४३ ॥ | 2.16.44bआत्माधिकारा विविधाश्च वाचः प्रहृष्टरूपस्य पुरो जनस्य॥2.16.44॥ |
| 119 | #44aಏಷ ಶ್ರಿಯಂ ಗಚ್ಛತಿ ರಾಘವೋಽದ್ಯ ರಾಜಪ್ರಸಾದಾದ್ ವಿಪುಲಾಂ ಗಮಿಷ್ಯನ್ । | 2.16.44aएष श्रियं गच्छति राघवोऽद्य राजप्रसादाद् विपुलां गमिष्यन् । | 2.14.25aएष श्रियं गच्छति राघवोऽद्य राजप्रसादाद्विपुलां गमिष्यन् । | 2.16.44aएष श्रियं गच्छति राघवो ऽद्य राजप्रसादाद्विपुलां गमिष्यन् । | 2.16.44aएष श्रियं गच्छति राघवोऽद्य राजप्रसादाद्विपुलां गमिष्यन्। | 2.16.44aएष श्रियं गच्छति राघवो ऽद्य राजप्रसादाद्विपुलां गमिष्यन् । | 2.16.45aएष श्रियं गच्छति राघवोऽद्य राजप्रसादाद्विपुलां गमिष्यन्। |
| 120 | #44bಏತೇ ವಯಂ ಸರ್ವಸಮೃದ್ಧಕಾಮಾ ಯೇಷಾಮಯಂ ನೋ ಭವಿತಾ ಪ್ರಶಾಸ್ತಾ ॥ | 2.16.44bएते वयं सर्वसमृद्धकामा येषामयं नो भविता प्रशास्ता ॥ ४४ ॥ | 2.14.25bएते वयं सर्वसमृद्धकामा येषामयं नो भविता प्रशास्ता । | 2.16.44bएते वयं सर्वसमृद्धकामा एषामयं नो भविता प्रशास्ता ॥ 2.16.44 ॥ | 2.16.44bएते वयं सर्वसमृद्धकामा एषामयं नो भविता प्रशास्ता ॥ 2.16.44 ॥ | 2.16.44bएते वयं सर्वसमृद्धकामा एषामयं नो भविता प्रशास्ता ॥ २।१६।४४ ॥ | 2.16.45bएते वयं सर्व समृद्धकामा येषामयं नो भविता प्रशास्ता॥2.16.45॥ |
| 121 | #45aಲಾಭೋ ಜನಸ್ಯಾಸ್ಯ ಯದೇಷ ಸರ್ವಂ ಪ್ರಪತ್ಸ್ಯತೇ ರಾಷ್ಟ್ರಮಿದಂ ಚಿರಾಯ । | 2.16.45aलाभो जनस्यास्य यदेष सर्वं प्रपत्स्यते राष्ट्रमिदं चिराय । | 2.14.25cलाभो जनस्यास्य यदेष सर्वं प्रपत्स्यते राष्ट्रमिदं चिराय ॥2.14.25॥ | 2.16.45aलाभो जनस्यास्य यदेष सर्वं प्रपत्स्यते राष्ट्रमिदं चिराय । | 2.16.45aलाभो जनस्यास्य यदेष सर्वं प्रपत्स्यते राष्ट्रमिदं चिराय। | 2.16.46aलाभो जनस्यास्य यदेष सर्वं प्रपत्स्यते राष्ट्रमिदं चिराय। | |
| 122 | #45bನ ಹ್ಯಪ್ರಿಯಂ ಕಿಂಚನ ಜಾತು ಕಶ್ಚಿತ್ ಪಶ್ಯೇನ್ನ ದುಃಖಂ ಮನುಜಾಧಿಪೇಽಸ್ಮಿನ್ ॥ | 2.16.45bन ह्यप्रियं किञ्चन जातु कश्चित् पश्येन्न दुःखं मनुजाधिपेऽस्मिन् ॥ ४५ ॥ | 2.16.45bन ह्यप्रियं किञ्चन जातु कश्चित् पश्येन्न दुःखं मनुजाधिपे ऽस्मिन् ॥ 2.16.45 ॥ | 2.16.45bन ह्यप्रियं किञ्चन जातु कश्चित् पश्येन्न दुःखं मनुजाधिपेऽस्मिन् ॥ 2.16.45 ॥ | 2.16.46bन ह्यप्रियं किञ्चन जातु कश्चि त्पश्येन्न दुःखं मनुजाधिपेऽस्मिन्॥2.16.46॥ | ||
| 123 | 2.16.45aलाभ इति । | ||||||
| 124 | 2.16.45bअस्य जनस्यायमेव लाभः यदेष सर्वं राष्ट्रं प्रपत्स्यते अस्मिन् मनुजाधिपे सति कश्चित् जातु कदाचित् । | ||||||
| 125 | 2.16.45cकिञ्चनाप्यप्रियं प्रियाभावं दुःखमनिष्टं च न पश्येत् ॥ २।१६।४५ ॥ | ||||||
| 126 | #46aನ ಘೋಷವದ್ಭಿಶ್ಚ ಹಯೈಃ ಸನಾಗೈಃ ಪುರಃಸರೈಃ ಸ್ವಸ್ತಿಕಸೂತಮಾಗಧೈಃ । | 2.16.46aस घोषवद्भिश्च हयैः सनागैः पुरःसरैः स्वस्तिकसूतमागधैः । | 2.14.26aस घोषवद्भिश्च हयैः सनागैः पुरःसरैः स्वस्तिकसूतमागधैः । | 2.16.46aस घोषवद्भिश्च हयैर्मतङ्गजैः पुरस्सरैः स्वस्तिकसूतमागधैः । | 2.16.46aस घोषवद्भिश्च हयैर्मतङ्गजैः पुरस्सरैः स्वस्तिकसूतमागधैः। | 2.16.46aस घोषवद्भिश्च हयैर्मतङ्गजैः पुरस्सरैः स्वस्तिकसूतमागधैः । | 2.16.47aस घोषवद्भिश्च मतङ्गाजैर्ययैः पुरस्सरैस् स्वस्तिकसूतमागधैः। |
| 127 | #46bಮಹೀಯಮಾನಃ ಪ್ರವರೈಶ್ಚ ವಾದಕೈ- ರಾಭಿಷ್ಟುತೋ ವೈಶ್ರವಣೋ ಯಥಾಯಯೌ ॥ | 2.16.46bमहीयमानः प्रवरैश्च वादकै- रभिष्टुतो वैश्रवणो यथा ययौ ॥ ४६ ॥ | 2.14.26bमहीयमानः प्रवरैश्च वादकै रभिष्टुतो वैश्रवणो यथा ययौ ॥2.14.26॥ | 2.16.46bमहीयमानः प्रवरैश्च वादकैरभिष्टुतो वैश्रवणो यथा ययौ ॥ 2.16.46 ॥ | 2.16.46bमहीयमानः प्रवरैश्च वादकैरभिष्टुतो वैश्रवणो यथा ययौ ॥ 2.16.46 ॥ | 2.16.46bमहीयमानः प्रवरैश्च वादकैरभिष्टुतो वैश्रवणो यथा ययौ ॥ २।१६।४६ ॥ | 2.16.47bमहीयमानः प्रवरैश्च वादकै रभिष्टुतो वैश्रवणो यथा ययौ॥2.16.47॥ |
| 128 | #47aಕರೇಣುಮಾತಂಗರಥಾಶ್ವಸಂಕುಲಂ ಮಹಾಜನೌಘೈಃ ಪರಿಪೂರ್ಣಚತ್ವರಮ್ । | 2.16.47aकरेणुमातङ्गरथाश्वसङ्कुलं महाजनौघैः परिपूर्णचत्वरम् । | 2.14.27aकरेणुमातङ्गरथाश्वसंकुलं महाजनौघैः परिपूर्णचत्वरम् । | 2.16.47aकरेणुमातङ्गरथाश्वसङ्कुलं महाजनौघप्रतिपूर्णचत्वरम् । | 2.16.47aकरेणुमातङ्गरथाश्वसङ्कुलं महाजनौघप्रतिपूर्णचत्वरम्। | 2.16.47aकरेणुमातङ्गरथाश्वसङ्कुलं महाजनौघप्रतिपूर्णचत्वरम् । | 2.16.48aकरेणुमातंङ्गरथाश्वसंकुलं महाजनौघ परिपूर्णचत्वरम्। |
| 129 | #47bಪ್ರಭೂತರತ್ನಂ ಬಹುಪಣ್ಯಸಂಚಯಂ ದದರ್ಶ ರಾಮೋ ವಿಮಲಂ ಮಹಾಪಥಮ್ ॥ | 2.16.47bप्रभूतरत्नं बहुपण्यसञ्चयं ददर्श रामो विमलं महापथम् ॥ ४७ ॥ | 2.14.27bप्रभूतरत्नं बहुपण्यसंचयं ददर्श रामो रुचिरं महापथम् ॥2.14.27॥ | 2.16.47bप्रभूतरत्नं बहुपण्यसञ्चयं ददर्श रामो रुचिरं महापथम् ॥ 2.16.47 ॥ | 2.16.47bप्रभूतरत्नं बहुपण्यसञ्चयं ददर्श रामो रुचिरं महापथम् ॥ 2.16.47 ॥ | 2.16.47bप्रभूतरत्नं बहुपण्यसञ्चयं ददर्श रामो रुचिरं महापथम् ॥ २।१६।४७ ॥ | 2.16.48bप्रभूतरत्नं बहुपण्यसञ्चयं ददर्श रामो रुचिरं महापथम्॥2.16.48॥ |