कैकेय्युपलम्भः. Built from structured/verses.jsonl. Rows are monotone-aligned half-verse/pāda-like units split at । and ॥, so verse-number boundary differences can appear as inserted or shifted line rows.
310 aligned line rows across 7 source streams.
gor-kn 225 lines
gor-hi 225 lines
gr 283 lines
dr-mula 230 lines
gr-iitk 260 lines
iitk 230 lines
| # | gor-kn | gor-hi | crit | gr | dr-mula | gr-iitk | iitk |
|---|---|---|---|---|---|---|---|
| 1 | #1aತತಃ ಶ್ರುತ್ವಾ ಮಹಾರಾಜಃ ಕೈಕೇಯ್ಯಾ ದಾರುಣಂ ವಚಃ । | 2.12.1aततः श्रुत्वा महाराजः कैकेय्या दारुणं वचः । | 2.12.1aततः श्रुत्वा महाराजः कैकेय्या दारुणं वचः । | 2.12.1aततः श्रुत्वा महाराजः कैकेय्या दारुणं वचः। | 2.12.1aततः श्रुत्वा महाराजः कैकेय्या दारुणं वचः । | 2.12.1aततश्शृत्वा महाराजः कैकेय्या दारुणं वचः। | |
| 2 | #1bಚಿಂತಾಮಭಿಸಮಾಪೇದೇ ಮುಹೂರ್ತಂ ಪ್ರತತಾಪ ಚ ॥ | 2.12.1bचिन्तामभिसमापेदे मुहूर्तं प्रतताप च ॥ १ ॥ | 2.12.1bचिन्तामभिसमापेदे मुहूर्त्तं प्रतताप च ॥ 2.12.1 ॥ | 2.12.1bचिन्तामभिसमापेदे मुहूर्त्तं प्रतताप च ॥ 2.12.1 ॥ | 2.12.1bचिन्तामभिसमापेदे मुहूर्त्तं प्रतताप च ॥ २।१२।१ ॥ | 2.12.1bचिन्तामभिसमापेदे मुहूर्तं प्रतताप च॥2.12.1॥ | |
| 3 | #2aಕಿಂ ನು ಮೇಽಯಂ ದಿವಾಸ್ವಪ್ನಶ್ಚಿತ್ತಮೋಹೋಽಪಿ ವಾ ಮಮ । | 2.12.2aकिं नु मेऽयं दिवास्वप्नश्चित्तमोहोऽपि वा मम । | 2.12.2aकिं नु मे यदि वा स्वप्नश्चित्तमोहो ऽपि वा मम । | 2.12.2aकिं नु मे यदि वा स्वप्नश्चित्तमोहो ऽपि वा मम । | 2.12.2aकिन्नु मे यदि वा स्वप्नश्चित्तमोहोऽपि वा मम। | ||
| 4 | #2bಅನುಭೂತೋಪಸರ್ಗೋ ವಾ ಮನಸೋ ವಾಪ್ಯುಪದ್ರವಃ ॥ | 2.12.2bअनुभूतोपसर्गो वा मनसो वाप्युपद्रवः ॥ २ ॥ | 2.12.2bअनुभूतोपसर्गो वा मनसो वाप्युपद्रवः । | 2.12.2aअनुभूतोपसर्गो वा मनसो वाप्युपद्रवः। | 2.12.2bअनुभूतोपसर्गो वा मनसो वाप्युपद्रवः । | 2.12.2bअनुभूतोपसर्गो वा मनसो वाप्युपद्रवः॥2.12.2॥ | |
| 5 | #3aಇತಿ ಸಂಚಿಂತ್ಯ ತದ್ರಾಜಾ ನಾಧ್ಯಗಚ್ಛತ್ತದಾ ಸುಖಮ್ । | 2.12.3aइति सञ्चिन्त्य तद् राजा नाध्यगच्छत् तदासुखम् । | 2.12.2cइति सञ्चिन्त्य तद्राजा नाभ्यगच्छत्तदा सुखम् ॥ 2.12.2 ॥ | 2.12.2bइति सञ्चिन्त्य तद्राजा नाभ्यगच्छत्तदा सुखम् ॥ 2.12.2 ॥ | 2.12.2cइति सञ्चिन्त्य तद्राजा नाभ्यगच्छत्तदा सुखम् ॥ २।१२।२ ॥ | 2.12.3aइति सञ्चिन्त्य तद्राजा नाध्यगच्छत्तदासुखम्। | |
| 6 | #3bಪ್ರತಿಲಭ್ಯ ತತಃ ಸಂಜ್ಞಾಂ ಕೈಕೇಯೀವಾಕ್ಯತಾಪಿತಃ ॥ | 2.12.3bप्रतिलभ्य ततः सञ्ज्ञां कैकेयीवाक्यतापितः ॥ ३ ॥ | 2.12.3aप्रतिलभ्य चिरात् संज्ञां कैकेयीवाक्यताडितः । | 2.12.3aप्रतिलभ्य चिरात् सञ्ज्ञां कैकेयीवाक्यताडितः। | 2.12.3aप्रतिलभ्य चिरात् संज्ञां कैकेयीवाक्यताडितः । | 2.12.3bप्रतिलभ्य चिरात्संज्ञां कैकेयीवाक्यताडितः॥2.12.3॥ | |
| 7 | #4aವ್ಯಥಿತೋ ವಿಕ್ಲವಶ್ಚೈವ ವ್ಯಾಘ್ರೀಂ ದೃಷ್ಟ್ವಾಯಥಾ ಮೃಗಃ । | 2.12.4aव्यथितो विक्लवश्चैव व्याघ्रीं दृष्ट्वा यथा मृगः । | 2.12.3bव्यथितो विक्लवश्चैव व्याघ्रीं दृष्ट्वा यथा मृगः ॥ 2.12.3 ॥ | 2.12.3bव्यथितो विक्लवश्चैव व्याघ्रीं दृष्ट्वा यथा मृगः ॥ 2.12.3 ॥ | 2.12.3bव्यथितो विक्लवश्चैव व्याघ्रीं दृष्ट्वा यथा मृगः ॥ २।१२।३ ॥ | 2.12.4aव्यथितो विक्लवश्चैव व्याघ्रीं दृष्ट्वा यथा मृगः। | |
| 8 | #4bಅಸಂವೃತಾಯಾಮಾಸೀನೋ ಜಗತ್ಯಾಂ ದೀರ್ಘಮುಚ್ಛ್ವಸನ್ ॥ | 2.12.4bअसंवृतायामासीनो जगत्यां दीर्घमुच्छ्वसन् ॥ ४ ॥ | 2.12.4aअसंवृतायामासीनो जगत्यां दीर्घमुच्छ्वसन् । | 2.12.4aअसंवृतायामासीनो जगत्यां दीर्घमुच्छ्वसन्। | 2.12.4aअसंवृतायामासीनो जगत्यां दीर्घमुच्छ्वसन् । | 2.12.4bअसंवृतायामासीनो जगत्यां दीर्घमुच्छवसन्॥2.12.4॥ | |
| 9 | #5aಮಂಡಲೇ ಪನ್ನಗೋ ರುದ್ಧೋ ಮಂತ್ರೇರಿವ ಮಹಾವಿಷಃ । | 2.12.5aमण्डले पन्नगो रुद्धो मन्त्रैरिव महाविषः । | 2.12.4bमण्डले पन्नगो रुद्धो मन्त्रैरिव महाविषः ॥ 2.12.4 ॥ | 2.12.4bमण्डले पन्नगो रुद्धो मन्त्रैरिव महाविषः ॥ 2.12.4 ॥ | 2.12.4bमण्डले पन्नगो रुद्धो मन्त्रैरिव महाविषः ॥ २।१२।४ ॥ | 2.12.5aमण्डले पन्नगो रुद्धो मन्त्रैरिव महाविषः। | |
| 10 | #5bಅಹೋ ಧಿಗಿತಿ ಸಾಮರ್ಷೋ ವಾಚಮುಕ್ತ್ವಾ ನರಾಧಿಪಃ ॥ | 2.12.5bअहो धिगिति सामर्षो वाचमुक्त्वा नराधिपः ॥ ५ ॥ | 2.12.5aअहो धिगिति सामर्षो वाचमुक्त्वा नराधिपः । | 2.12.5aअहो धिगिति सामर्षो वाचमुक्त्वा नराधिपः। | 2.12.5aअहो धिगिति सामर्षो वाचमुक्त्वा नराधिपः । | 2.12.5bअहो धिगिति सामर्षो वाचमुक्त्वा नराधिपः॥2.12.5॥ | |
| 11 | #6aಮೋಹಮಾಪೇದಿವಾನ್ಭೂಯಃ ಶೋಕೋಪಹತಚೇತನಃ । | 2.12.6aमोहमापेदिवान् भूयः शोकोपहतचेतनः । | 2.12.5bमोहमापेदिवान् भूयः शोकोपहतचेतनः ॥ 2.12.5 ॥ | 2.12.5bमोहमापेदिवान् भूयः शोकोपहतचेतनः ॥ 2.12.5 ॥ | 2.12.5bमोहमापेदिवान् भूयः शोकोपहतचेतनः ॥ २।१२।५ ॥ | 2.12.6aमोहमापेदिवान्भूय श्शोकोपहतचेतनः। | |
| 12 | #6bಚಿರೇಣ ತುನೃಪಃ ಸಂಜ್ಞಾಂ ಪ್ರತಿಲಭ್ಯ ಸುದುಃಖಿತಃ ॥ | 2.12.6bचिरेण तु नृपः सञ्ज्ञां प्रतिलभ्य सुदुःखितः ॥ ६ ॥ | 2.12.6aचिरेण तु नृपः संज्ञां प्रतिलभ्य सुदुःखितः । | 2.12.6aचिरेण तु नृपः सञ्ज्ञां प्रतिलभ्य सुदुःखितः। | 2.12.6aचिरेण तु नृपः संज्ञां प्रतिलभ्य सुदुःखितः । | 2.12.6bचिरेण तु नृपस् संज्ञां प्रतिलभ्य सुदुःखितः॥2.12.6॥ | |
| 13 | #7aಕೈಕೇಯೀಮಬ್ರವೀತ್ ಕ್ರುದ್ಧೋ ನಿರ್ದಹನ್ನಿವ ತೇಜಸಾ । | 2.12.7aकैकेयीमब्रवीत् क्रुद्धो निर्दहन्निव तेजसा । | 2.12.6bकैकेयीमब्रवीत् क्रुद्धः प्रदहन्निव चक्षुषा ॥ 2.12.6 ॥ | 2.12.6bकैकेयीमब्रवीत् क्रुद्धः प्रदहन्निव चक्षुषा ॥ 2.12.6 ॥ | 2.12.6bकैकेयीमब्रवीत् क्रुद्धः प्रदहन्निव चक्षुषा ॥ २।१२।६ ॥ | 2.12.7aकैकेयीमब्रवीत्क्रुद्धःप्रदहन्निव चक्षुषा। | |
| 14 | 2.12.36aप्रतिलभ्येत्यादि श्लोकत्रयमेकान्वयम् । | ||||||
| 15 | 2.12.36bव्यथितः दुःखितः । | ||||||
| 16 | 2.12.36cविक्लवः विह्वलः । | ||||||
| 17 | 2.12.36d“विक्लवो विह्वलः” इत्यमरः । | ||||||
| 18 | 2.12.36eमण्डले अहितुण्डिकयन्त्रमण्डले ॥ 2.12.36 ॥ | ||||||
| 19 | #7bನೃಶಂಸೇ ದುಷ್ಟಚಾರಿತ್ರೇ ಕುಲಸ್ಯಾಸ್ಯ ವಿನಾಶಿನಿ ॥ | 2.12.7bनृशंसे दुष्टचारित्रे कुलस्यास्य विनाशिनि ॥ ७ ॥ | 2.12.7aनृशंसे दुष्टचारित्रे कुलस्यास्य विनाशिनि । | 2.12.7aनृशंसे दुष्टचारित्रे कुलस्यास्य विनाशिनि। | 2.12.7aनृशंसे दुष्टचारित्रे कुलस्यास्य विनाशिनि । | 2.12.7bनृशंसे दुष्टचारित्रे कुलस्यास्य विनाशिनि॥2.12.7॥ | |
| 20 | #8aಕಿಂ ಕೃತಂ ತವ ರಾಮೇಣ ಪಾಪೇ ಪಾಪಂ ಮಯಾಪಿ ವಾ । | 2.12.8aकिं कृतं तव रामेण पापे पापं मयापि वा । | 2.12.7bकिं कृतं तव रामेण पापे पापं मयापि वा ॥ 2.12.7 ॥ | 2.12.7bकिं कृतं तव रामेण पापे पापं मयापि वा ॥ 2.12.7 ॥ | 2.12.7bकिं कृतं तव रामेण पापे पापं मयापि वा ॥ २।१२।७ ॥ | 2.12.8aकिं कृतं तव रामेण पापं पापे मयापि वा। | |
| 21 | #8bಸದಾ ತೇ ಜನನೀತುಲ್ಯಾಂ ವೃತ್ತಿಂ ವಹತಿ ರಾಘವಃ ॥ | 2.12.8bसदा ते जननीतुल्यां वृत्तिं वहति राघवः ॥ ८ ॥ | 2.12.8aयदा ते जननीतुल्यां वृत्तिं वहति राघवः । | 2.12.8aयदा ते जननीतुल्यां वृत्तिं वहति राघवः। | 2.12.8aयदा ते जननीतुल्यां वृत्तिं वहति राघवः । | 2.12.8bयदा ते जननीतुल्यां वृत्तिं वहति राघवः ॥2.12.8॥ | |
| 22 | #9aತಸ್ಯೈವಂ ತ್ವಮನರ್ಥಾಯ ಕಿಂ ನಿಮಿತ್ತಮಿಹೋದ್ಯತಾ । | 2.12.9aतस्यैवं त्वमनर्थाय किन्निमित्तमिहोद्यता । | 2.12.8bतस्यैव त्वमनर्थाय किंनिमित्तमिहोद्यता ॥ 2.12.8 ॥ | 2.12.8bतस्यैव त्वमनर्थाय किन्निमित्तमिहोद्यता ॥ 2.12.8 ॥ | 2.12.8bतस्यैव त्वमनर्थाय किंनिमित्तमिहोद्यता ॥ २।१२।८ ॥ | 2.12.9aतस्यैव त्वमनर्थाय किंनिमित्तमिहोद्यता । | |
| 23 | #9bತ್ವಂ ಮಯಾಽಽತ್ಮವಿನಾಶಾಯ ಭವನಂ ಸ್ವಂ ಪ್ರವೇಶಿತಾ ॥ | 2.12.9bत्वं मयाऽऽत्मविनाशाय भवनं स्वं निवेशिता ॥ ९ ॥ | 2.12.9aत्वं मयात्मविनाशार्थं भवनं स्वं प्रवेशिता । | 2.12.9aत्वं मयात्मविनाशार्थं भवनं स्वं प्रवेशिता। | 2.12.9aत्वं मयात्मविनाशार्थं भवनं स्वं प्रवेशिता । | 2.12.9bत्वं मयाऽऽत्मविनाशार्थं भवनं स्वं प्रवेशिता॥2.12.9॥ | |
| 24 | #10aಅವಿಜ್ಞಾನಾನ್ನೃಪಸುತಾ ವ್ಯಾಲಾ ತೀಕ್ಷ್ಣವಿಷಾ ಯಥಾ । | 2.12.10aअविज्ञानान्नृपसुता व्याला तीक्ष्णविषा यथा । | 2.12.9bअविज्ञानान्नृपसुता व्याली तीक्ष्णविषा यथा ॥ 2.12.9 ॥ | 2.12.9bअविज्ञानान्नृपसुता व्याली तीक्ष्णविषा यथा ॥ 2.12.9 ॥ | 2.12.9bअविज्ञानान्नृपसुता व्याली तीक्ष्णविषा यथा ॥ २।१२।९ ॥ | 2.12.10aअविज्ञानान्नृपसुता व्याली तीक्ष्णविषा यथा। | |
| 25 | #10bಜೀವಲೋಕೋ ಯದಾ ಸರ್ವೋ ರಾಮಸ್ಯಾಹ ಗುಣಸ್ತವಮ್ ॥ | 2.12.10bजीवलोको यदा सर्वो रामस्याह गुणस्तवम् ॥ १० ॥ | 2.12.10aजीवलोको यथा सर्वो रामस्याह गुणस्तवम् । | 2.12.10aजीवलोको यथा सर्वो रामस्याह गुणस्तवम्। | 2.12.10aजीवलोको यथा सर्वो रामस्याह गुणस्तवम् । | 2.12.10bजीवलोको यदा सर्वो रामस्याह गुणस्तवम्॥2.12.10॥ | |
| 26 | #11aಅಪರಾಧಂ ಕಮುದ್ದಿಶ್ಯ ತ್ಯಕ್ಷ್ಯಾಮೀಷ್ಟಮಹಂ ಸುತಮ್ । | 2.12.11aअपराधं कमुद्दिश्य त्यक्ष्यामीष्टमहं सुतम् । | 2.12.10bअपराधं कमुद्दिश्य त्यक्ष्यामीष्टमहं सुतम् ॥ 2.12.10 ॥ | 2.12.10bअपराधं कमुद्दिश्य त्यक्ष्यामीष्टमहं सुतम् ॥ 2.12.10 ॥ | 2.12.10bअपराधं कमुद्दिश्य त्यक्ष्यामीष्टमहं सुतम् ॥ २।१२।१० ॥ | 2.12.11aअपराधं किमुद्दिश्य त्यक्ष्यामीष्टमहं सुतम्। | |
| 27 | #11bಕೌಸಲ್ಯಾಂ ಚ ಸುಮಿತ್ರಾಂ ಚ ತ್ಯಜೇಯಮಪಿ ವಾಶ್ರಿಯಮ್ ॥ | 2.12.11bकौसल्यां च सुमित्रां च त्यजेयमपि वा श्रियम् ॥ ११ ॥ | 2.12.11aकौसल्यां वा सुमित्रां वा त्यजेयमपि वा श्रियम् । | 2.12.11aकौसल्यां वा सुमित्रां वा त्यजेयमपि वा श्रियम्। | 2.12.11aकौसल्यां वा सुमित्रां वा त्यजेयमपि वा श्रियम् । | 2.12.11bकौसल्यां वा सुमित्रां वा त्यजेयमपि वा श्रियम्॥2.12.11॥ | |
| 28 | #12aಜೀವಿತಂ ಚಾತ್ಮನೋ ರಾಮಂ ನ ತ್ವೇವ ಪಿತೃವತ್ಸಲಮ್ । | 2.12.12aजीवितं चात्मनो रामं न त्वेव पितृवत्सलम् । | 2.12.11bजीवितं वात्मनो रामं न त्वेव पितृवत्सलम् ॥ 2.12.11 ॥ | 2.12.11bजीवितं वात्मनो रामं न त्वेव पितृवत्सलम् ॥ 2.12.11 ॥ | 2.12.11bजीवितं वात्मनो रामं न त्वेव पितृवत्सलम् ॥ २।१२।११ ॥ | 2.12.12aजीवितं वाऽत्मनो रामं न त्वेव पितृवत्सलम्। | |
| 29 | #12bಪರಾ ಭವತಿ ಮೇ ಪ್ರೀತಿರ್ದೃಷ್ಟ್ವಾತನಯಮಗ್ರಜಮ್ ॥ | 2.12.12bपरा भवति मे प्रीतिर्दृष्ट्वा तनयमग्रजम् ॥ १२ ॥ | 2.12.12aपरा भवति मे प्रीतिर्दृष्ट्वा तनयमग्रजम् । | 2.12.12aपरा भवति मे प्रीतिर्दृष्ट्वा तनयमग्रजम्। | 2.12.12aपरा भवति मे प्रीतिर्दृष्ट्वा तनयमग्रजम् । | 2.12.12bपरा भवति मे प्रीतिर्दृष्ट्वा तनयमग्रजम्॥2.12.12॥ | |
| 30 | #13aಅಪಶ್ಯತಸ್ತು ಮೇ ರಾಮಂ ನಷ್ಟಂ ಭವತಿ ಚೇತನಮ್ । | 2.12.13aअपश्यतस्तु मे रामं नष्टं भवति चेतनम् । | 2.12.12bअपश्यतस्तु मे रामं नष्टा भवति चेतना ॥ 2.12.12 ॥ | 2.12.12bअपश्यतस्तु मे रामं नष्टा भवति चेतना ॥ 2.12.12 ॥ | 2.12.12bअपश्यतस्तु मे रामं नष्टा भवति चेतना ॥ २।१२।१२ ॥ | 2.12.13aअपश्यतस्तु मे रामं नष्टा भवति चेतना। | |
| 31 | #13bತಿಷ್ಠೇಲ್ಲೋಕೋ ವಿನಾ ಸೂರ್ಯಂ ಸಸ್ಯಂ ವಾ ಸಲಿಲಂ ವಿನಾ ॥ | 2.12.13bतिष्ठेल्लोको विना सूर्यं सस्यं वा सलिलं विना ॥ १३ ॥ | 2.12.13aतिष्ठेल्लोको विना सूर्यं सस्यं वा सलिलं विना । | 2.12.13aतिष्ठेल्लोको विना सूर्यं सस्यं वा सलिलं विना। | 2.12.13aतिष्ठेल्लोको विना सूर्यं सस्यं वा सलिलं विना । | 2.12.13bतिष्ठेल्लोको विना सूर्यं शस्यं वा सलिलं विना॥2.12.13॥ | |
| 32 | #14aನ ತು ರಾಮಂ ವಿನಾ ದೇಹೇ ತಿಷ್ಠೇತ್ತು ಮಮಜೀವಿತಮ್ । | 2.12.14aन तु रामं विना देहे तिष्ठेत्तु मम जीवितम् । | 2.12.13bन तु रामं विना देहे तिष्ठेत्तु मम जीवितम् ॥ 2.12.13 ॥ | 2.12.13bन तु रामं विना देहे तिष्ठेत्तु मम जीवितम् ॥ 2.12.13 ॥ | 2.12.13bन तु रामं विना देहे तिष्ठेत्तु मम जीवितम् ॥ २।१२।१३ ॥ | 2.12.14aन तु रामं विना देहे तिष्ठेत्तु मम जीवितम्। | |
| 33 | 2.12.913aत्वमिति । | 2.12.913aत्वमिति । | |||||
| 34 | 2.12.913bनृपसुतेत्यत्रेति करणं द्रष्टव्यम् ॥ 2.12.913 ॥ | 2.12.913bनृपसुतेत्यत्रेति करणं द्रष्टव्यम् ॥ २।१२।९१३ ॥ | |||||
| 35 | #14bತದಲಂ ತ್ಯಜ್ಯತಾಮೇಷ ನಿಶ್ಚಯಃ ಪಾಪನಿಶ್ಚಯೇ ॥ | 2.12.14bतदलं त्यज्यतामेष निश्चयः पापनिश्चये ॥ १४ ॥ | 2.12.14aतदलं त्यज्यतामेष निश्चयः पापनिश्चये । | 2.12.14aतदलं त्यज्यतामेष निश्चयः पापनिश्चये। | 2.12.14aतदलं त्यज्यतामेष निश्चयः पापनिश्चये । | 2.12.14bतदलं त्यज्यतामेष निश्चयः पापनिश्चये॥2.12.14॥ | |
| 36 | #15aಅಪಿ ತೇ ಚರಣೌ ಮೂರ್ಧ್ನಾ ಸ್ಪೃಶಾಮ್ಯೇಷ ಪ್ರಸೀದ ಮೇ । | 2.12.15aअपि ते चरणौ मूर्ध्ना स्पृशाम्येष प्रसीद मे । | 2.12.14bअपि ते चरणौ मूर्ध्ना स्पृशाम्येष प्रसीद मे ॥ 2.12.14 ॥ | 2.12.14bअपि ते चरणौ मूर्ध्ना स्पृशाम्येष प्रसीद मे ॥ 2.12.14 ॥ | 2.12.14bअपि ते चरणौ मूर्ध्ना स्पृशाम्येष प्रसीद मे ॥ २।१२।१४ ॥ | 2.12.15aअपि ते चरणै मूर्ध्ना स्पृशाम्येष प्रसीद मे। | |
| 37 | #15bಕಿಮರ್ಥಂ ಚಿಂತಿತಂ ಪಾಪೇ ತ್ವಯಾ ಪರಮದಾರುಣಮ್ ॥ | 2.12.15bकिमर्थं चिन्तितं पापे त्वया परमदारुणम् ॥ १५ ॥ | 2.12.15किमिदं चिन्तितं पापे त्वया परमदारुणम् ॥ 2.12.15 ॥ | 2.12.15किमिदं चिन्तितं पापे त्वया परमदारुणम् ॥ 2.12.15 ॥ | 2.12.15किमिदं चिन्तितं पापे त्वया परमदारुणम् ॥ २।१२।१५ ॥ | 2.12.15bकिमिदं चिन्तितं पापे त्वया परमदारुणम्॥2.12.15॥ | |
| 38 | 2.12.1415aतदलमिति । | 2.12.1415aतदलमिति । | |||||
| 39 | 2.12.1415bएष निश्चयः । | 2.12.1415bएष निश्चयः । | |||||
| 40 | 2.12.1415cरामविवासनरूपनिश्चयः । | 2.12.1415cरामविवासनरूपनिश्चयः । | |||||
| 41 | 2.12.1415dअपिते चरणाविति । | 2.12.1415dअपिते चरणाविति । | |||||
| 42 | 2.12.1415eअपिः प्रश्नार्थकः ॥ 2.12.1415 ॥ | 2.12.1415eअपिः प्रश्नार्थकः ॥ २।१२।१४१५ ॥ | |||||
| 43 | #16aಅಥ ಜಿಜ್ಞಾಸಸೇ ಮಾಂ ತ್ವಂ ಭರತಸ್ಯ ಪ್ರಿಯಾಪ್ರಿಯೇ । | 2.12.16aअथ जिज्ञाससे मां त्वं भरतस्य प्रियाप्रिये । | 2.12.16aअथ जिज्ञाससे मां त्वं भरतस्य प्रियाप्रिये । | 2.12.16aअथ जिज्ञाससे मां त्वं भरतस्य प्रियाप्रिये। | 2.12.16aअथ जिज्ञाससे मां त्वं भरतस्य प्रियाप्रिये । | 2.12.16aअथ जिज्ञाससे मां त्वं भरतस्य प्रियाप्रिये। | |
| 44 | #16bಅಸ್ತು ಯತ್ತತ್ತ್ವಯಾ ಪೂರ್ವಂ ವ್ಯಾಹೃತಂ ರಾಘವಂ ಪ್ರತಿ ॥ | 2.12.16bअस्तु यत्तत्त्वया पूर्वं व्याहृतं राघवं प्रति ॥ १६ ॥ | 2.12.16bअस्तु यत्तत्त्वया पूर्वं व्याहृतं राघवं प्रति ॥ 2.12.16 ॥ | 2.12.16bअस्तु यत्तत्त्वया पूर्वं व्याहृतं राघवं प्रति ॥ 2.12.16 ॥ | 2.12.16bअस्तु यत्तत्त्वया पूर्वं व्याहृतं राघवं प्रति ॥ २।१२।१६ ॥ | 2.12.16bअस्तु यत्तत्त्वया पूर्वं व्याहृतं राघवं प्रति॥2.12.16॥ | |
| 45 | #17aಸ ಮೇ ಜ್ಯೇಷ್ಠಃಸುತಃ ಶ್ರೀಮಾನ್ಧರ್ಮಜ್ಯೇಷ್ಠ ಇತೀವ ಮೇ । | 2.12.17aस मे ज्येष्ठसुतः श्रीमान् धर्मज्येष्ठ इतीव मे । | 2.12.17aस मे ज्येष्ठः सुतः श्रीमान् धर्मज्येष्ठ इतीव मे । | 2.12.17aस मे ज्येष्ठः सुतः श्रीमान् धर्मज्येष्ठ इतीव मे। | 2.12.17aस मे ज्येष्ठः सुतः श्रीमान् धर्मज्येष्ठ इतीव मे । | 2.12.17aस मे ज्येष्ठस्सुत श्रीमान्धर्मज्येष्ठ इतीव मे। | |
| 46 | #17bತತ್ತ್ವಯಾ ಪ್ರಿಯವಾದಿನ್ಯಾ ಸೇವಾರ್ಥಂ ಕಥಿತಂ ಭವೇತ್ ॥ | 2.12.17bतत् त्वया प्रियवादिन्या सेवार्थं कथितं भवेत् ॥ १७ ॥ | 2.12.17bतत्त्वया प्रियवादिन्या सेवार्थं कथितं भवेत् ॥ 2.12.17 ॥ | 2.12.17bतत्त्वया प्रियवादिन्या सेवार्थं कथितं भवेत् ॥ 2.12.17 ॥ | 2.12.17bतत्त्वया प्रियवादिन्या सेवार्थं कथितं भवेत् ॥ २।१२।१७ ॥ | 2.12.17bतत्त्वया प्रियवादिन्या सेवार्थं कथितं भवेत्॥2.12.17॥ | |
| 47 | #18aತಚ್ಛ್ರುತ್ವಾ ಶೋಕಸಂತಪ್ತಾ ಸಂತಾಪಯಸಿ ಮಾಂ ಭೃಶಮ್ । | 2.12.18aतच्छ्रुत्वा शोकसन्तप्ता सन्तापयसि मां भृशम् । | 2.12.18aतच्छ्रुत्वा शोकसन्तप्ता सन्तापयसि मां भृशम् । | 2.12.18aतच्छ्रुत्वा शोकसन्तप्ता सन्तापयसि मां भृशम्। | 2.12.18aतच्छ्रुत्वा शोकसन्तप्ता सन्तापयसि मां भृशम् । | 2.12.18aतच्छ्रुत्वा शोकसन्तप्ता सन्तापयसि मां भृशम्। | |
| 48 | #18bಆವಿಷ್ಟಾಸಿ ಗೃಹೆ ಶೂನ್ಯೇಸಾ ತ್ವಂ ಪರವಶಂ ಗತಾ ॥ | 2.12.18bआविष्टासि गृहे शून्ये सा (या) त्वं परवशं गता ॥ १८ ॥ | 2.12.18bआविष्टासि गृहं शून्यं सा त्वं परवशं गता ॥ 2.12.18 ॥ | 2.12.18bआविष्टासि गृहं शून्यं सा त्वं परवशं गता ॥ 2.12.18 ॥ | 2.12.18bआविष्टासि गृहं शून्यं सा त्वं परवशं गता ॥ २।१२।१८ ॥ | 2.12.18bआविष्टाऽसि गृहं शून्यं सा त्वं परवशं गता॥2.12.18॥ | |
| 49 | 2.12.1618aअथेत्यादि श्लोकत्रयमेकान्वयम् । | ||||||
| 50 | 2.12.1618bअथेति प्रश्ने । | ||||||
| 51 | 2.12.1618cत्वं भरतस्य प्रियाप्रिये विषये मां जिज्ञाससे ज्ञातुमिच्छसि तदिदानीमपि भरतो ऽभिषिच्यतामिति यत्तदस्तु तद्वक्तुमुचितम् । | ||||||
| 52 | 2.12.1618dत्वया पूर्वं राघवं प्रति “स मे ज्येष्ठः सुतः” इत्यादि यद्व्याहृतं तत् प्रियवादिन्या त्वया सेवार्थं मम मनोरञ्जनार्थं रामकृतशुश्रूषार्थं वा कथितं भवेत्, रामविवासनोक्तिस्तेन विरुद्धेत्यर्थः । | ||||||
| 53 | 2.12.1618eपरीक्षार्थमपि भरतो ऽभिषिच्यतामित्येव वक्तुमुचितम् । | ||||||
| 54 | 2.12.1618fन तु रामो विवास्यतामित्येतत् पूर्वापरविरोधादिति भावः । | ||||||
| 55 | 2.12.1618gरामविवासनोक्तिश्च भरते प्रीतिपरीक्षार्थमेवास्त्वित्यत आह तदिति । | ||||||
| 56 | 2.12.1618hतत् रामाभिषेचनं श्रुत्वा शोकसंतप्ता सती मां भृशम् अतिनिर्बन्धेन सन्तापयसि । | 2.12.1618aशोकसंतप्ता सती मां भृशम् अतिनिर्बन्धेन सन्तापयसि । | |||||
| 57 | 2.12.1618iकिञ्च परवशं परबोधनवशं गता । | 2.12.1618bकिञ्च परवशं परबोधनवशं गता । | |||||
| 58 | 2.12.1618jसती । | 2.12.1618cसती । | |||||
| 59 | 2.12.1618kशून्यं गृहं क्रोधागारम् । | 2.12.1618dशून्यं गृहं क्रोधागारम् । | |||||
| 60 | 2.12.1618lआविष्टासि प्रविष्टासि । | 2.12.1618eआविष्टासि प्रविष्टासि । | |||||
| 61 | 2.12.1618mइदं सर्वं परीक्षार्थत्वे न संगच्छत इति भावः । | 2.12.1618fइदं सर्वं परीक्षार्थत्वे न संगच्छत इति भावः । | |||||
| 62 | 2.12.1618nशून्यैर्ग्रहैरिति पाठे–शून्यैर्ग्रहैराविष्टा पिशाचादिभिराविष्टेत्यर्थः ॥ 2.12.1618 ॥ | 2.12.1618gशून्यैर्ग्रहैरिति पाठे--शून्यैर्ग्रहैराविष्टा पिशाचादिभिराविष्टेत्यर्थः ॥ २।१२।१६१८ ॥ | |||||
| 63 | #19aಇಕ್ಷ್ವಾಕೂಣಾಂ ಕುಲೇ ದೇವಿ ಸಂಪ್ರಾಪ್ತಃ ಸುಮಹಾನಯಮ್ । | 2.12.19aइक्ष्वाकूणां कुले देवि सम्प्राप्तः सुमहानयम् । | 2.12.19aइक्ष्वाकूणां कुले देवि सम्प्राप्तस्सुमहानयम् । | 2.12.19aइक्ष्वाकूणां कुले देवि सम्प्राप्तस्सुमहानयम्। | 2.12.19aइक्ष्वाकूणां कुले देवि सम्प्राप्तस्सुमहानयम् । | 2.12.19aइक्ष्वाकूणां कुले देवि सम्प्राप्तस्सुमहानयम्। | |
| 64 | #19bಅನಯೋ ನಯಸಂಪನ್ನೇ ಯತ್ರ ತೇ ವಿಕೃತಾ ಮತಿಃ ॥ | 2.12.19bअनयो नयसम्पन्ने यत्र ते विकृता मतिः ॥ १९ ॥ | 2.12.19bअनयो नयसम्पन्ने यत्र ते विकृता मतिः ॥ 2.12.19 ॥ | 2.12.19bअनयो नयसम्पन्ने यत्र ते विकृता मतिः ॥ 2.12.19 ॥ | 2.12.19bअनयो नयसम्पन्ने यत्र ते विकृता मतिः ॥ २।१२।१९ ॥ | 2.12.19bअनयो नयसम्पन्ने यत्र ते विकृता मतिः॥2.12.19॥ | |
| 65 | #20aನಹಿ ಕಿಂಚಿದಯುಕ್ತಂ ವಾ ವಿಪ್ರಿಯಂ ವಾ ಪುರಾ ಮಮ । | 2.12.20aनहि किञ्चिदयुक्तं वा विप्रियं वा पुरा मम । | 2.12.20aन हि किञ्चिदयुक्तं वा विप्रियं वा पुरा मम । | 2.12.20aन हि किञ्चिदयुक्तं वा विप्रियं वा पुरा मम। | 2.12.20aन हि किञ्चिदयुक्तं वा विप्रियं वा पुरा मम । | 2.12.20aनहि किञ्चिदयुक्तं वा विप्रियं वा पुरा मम। | |
| 66 | #20bಅಕರೋಸ್ತ್ವಂ ವಿಶಾಲಾಕ್ಷಿ ತೇನ ನ ಶ್ರದ್ಧಧಾಮಿತೇ ॥ | 2.12.20bअकरोस्त्वं विशालाक्षि तेन न श्रद्दधामि ते ॥ २० ॥ | 2.12.20bअकरोस्त्वं विशालाक्षि तेन न श्रद्दधाम्यहम् ॥ 2.12.20 ॥ | 2.12.20bअकरोस्त्वं विशालाक्षि तेन न श्रद्दधाम्यहम् ॥ 2.12.20 ॥ | 2.12.20bअकरोस्त्वं विशालाक्षि तेन न श्रद्दधाम्यहम् ॥ २।१२।२० ॥ | 2.12.20bअकरोस्त्वं विशालाक्षि तेन न श्रद्दधाम्यहम्॥2.12.20॥ | |
| 67 | #21aನನು ತೇ ರಾಘವಸ್ತುಲ್ಯೋ ಭರತೇನ ಮಹಾತ್ಮನಾ । | 2.12.21aननु ते राघवस्तुल्यो भरतेन महात्मना । | 2.12.21aननु ते राघवस्तुल्यो भरतेन महात्मना । | 2.12.21aननु ते राघवस्तुल्यो भरतेन महात्मना। | 2.12.21aननु ते राघवस्तुल्यो भरतेन महात्मना । | 2.12.21aननु ते राघवस्तुल्यो भरतेन महात्मना। | |
| 68 | #21bಬಹುಶೋ ಹಿ ಸ್ಮ ಬಾಲೇ ತ್ವಂ ಕಥಾಃ ಕಥಯಸೇ ಮಮ ॥ | 2.12.21bबहुशो हि स्म बाले त्वं कथाः कथयसे मम ॥ २१ ॥ | 2.12.21bबहुशो हि सुबाले त्वं कथाः कथयसे मम ॥ 2.12.21 ॥ | 2.12.21bबहुशो हि सुबाले त्वं कथाः कथयसे मम ॥ 2.12.21 ॥ | 2.12.21bबहुशो हि सुबाले त्वं कथाः कथयसे मम ॥ २।१२।२१ ॥ | 2.12.21bबहुशो हि सुबाले त्वं कथाः कथयसे मम॥2.12.21॥ | |
| 69 | #22aತಸ್ಯ ಧರ್ಮಾತ್ಮನೋ ದೇವಿ ವನೇ ವಾಸಂ ಯಶಸ್ವಿನಃ । | 2.12.22aतस्य धर्मात्मनो देवि वने वासं यशस्विनः । | 2.12.22aतस्य धर्मात्मनो देवि वने वासं यशस्विनः । | 2.12.22aतस्य धर्मात्मनो देवि वने वासं यशस्विनः। | 2.12.22aतस्य धर्मात्मनो देवि वने वासं यशस्विनः । | 2.12.22aतस्य धर्मात्मनो देवि वनवासं यशस्विनः। | |
| 70 | #22bಕಥಂ ರೋಚಯಸೇ ಭೀರು ನವ ವರ್ಷಾಣಿ ಪಂಚ ಚ ॥ | 2.12.22bकथं रोचयसे भीरु नव वर्षाणि पञ्च च ॥ २२ ॥ | 2.12.22bकथं रोचयसे भीरु नव वर्षाणि पञ्च च ॥ 2.12.22 ॥ | 2.12.22bकथं रोचयसे भीरु नव वर्षाणि पञ्च च ॥ 2.12.22 ॥ | 2.12.22bकथं रोचयसे भीरु नव वर्षाणि पञ्च च ॥ २।१२।२२ ॥ | 2.12.22bकथं रोचयसे भीरु नव वर्षाणि पञ्च च॥2.12.22॥ | |
| 71 | #23aಅತ್ಯಂತಸುಕುಮಾರಸ್ಯ ತಸ್ಯ ಧರ್ಮೇ ಕೃತಾತ್ಮನಃ । | 2.12.23aअत्यन्तसुकुमारस्य तस्य धर्मे कृतात्मनः । | 2.12.23aअत्यन्तसुकुमारस्य तस्य धर्मे धृतात्मनः । | 2.12.23aअत्यन्तसुकुमारस्य तस्य धर्मे धृतात्मनः। | 2.12.23aअत्यन्तसुकुमारस्य तस्य धर्मे धृतात्मनः । | 2.12.23aअत्यन्तसुकुमारस्य तस्य धर्मे धृतात्मनः। | |
| 72 | #23bಕಥಂ ರೋಚಯಸೇ ವಾಸಮರಣ್ಯೇ ಭೃಶದಾರುಣೇ ॥ | 2.12.23bकथं रोचयसे वासमरण्ये भृशदारुणे ॥ २३ ॥ | 2.12.23bकथं रोचयसे वासमरण्ये भृशदारुणे ॥ 2.12.23 ॥ | 2.12.23bकथं रोचयसे वासमरण्ये भृशदारुणे ॥ 2.12.23 ॥ | 2.12.23bकथं रोचयसे वासमरण्ये भृशदारुणे ॥ २।१२।२३ ॥ | 2.12.23bकथं रोचयसे वासमरण्ये भृशदारुणे॥2.12.23॥ | |
| 73 | #24aರೋಚಯಸ್ಯಭಿರಾಮಸ್ಯ ರಾಮಸ್ಯ ಶುಭಲೋಚನೇ । | 2.12.24aरोचयस्यभिरामस्य रामस्य शुभलोचने । | 2.12.24aरोचयस्यभिरामस्य रामस्य शुभलोचने । | 2.12.24aरोचयस्यभिरामस्य रामस्य शुभलोचने। | 2.12.24aरोचयस्यभिरामस्य रामस्य शुभलोचने । | 2.12.24aरोचयस्यभिरामस्य रामस्य शुभलोचने। | |
| 74 | #24bತವ ಶುಶ್ರೂಷಮಾಣಸ್ಯ ಕಿಮರ್ಥಂ ವಿಪ್ರವಾಸನಮ್ ॥ | 2.12.24bतव शुश्रूषमाणस्य किमर्थं विप्रवासनम् ॥ २४ ॥ | 2.12.24bतव शुश्रूषमाणस्य किमर्थं विप्रवासनम् ॥ 2.12.24 ॥ | 2.12.24bतव शुश्रूषमाणस्य किमर्थं विप्रवासनम् ॥ 2.12.24 ॥ | 2.12.24bतव शुश्रूषमाणस्य किमर्थं विप्रवासनम् ॥ २।१२।२४ ॥ | 2.12.24bतव शुश्रूषमाणस्य किमर्थं विप्रवासनम्॥2.12.24॥ | |
| 75 | #25aರಾಮೋ ಹಿ ಭರತಾದ್ ಭೂಯಸ್ತವ ಶುಶ್ರೂಷತೇ ಸದಾ । | 2.12.25aरामो हि भरताद् भूयस्तव शुश्रूषते सदा । | 2.12.25aरामो हि भरताद्भूयस्तव शुश्रूषते सदा । | 2.12.25aरामो हि भरताद्भूयस्तव शुश्रूषते सदा। | 2.12.25aरामो हि भरताद्भूयस्तव शुश्रूषते सदा । | 2.12.25aरामो हि भरताद्भूयस्तव शुश्रूषते सदा। | |
| 76 | #25bವಿಶೇಷಂ ತ್ವಯಿ ತಸ್ಮಾತ್ತು ಭರತಸ್ಯ ನ ಲಕ್ಷಯೇ ॥ | 2.12.25bविशेषं त्वयि तस्मात् तु भरतस्य न लक्षये ॥ २५ ॥ | 2.12.25bविशेषं त्वयि तस्मात्तु भरतस्य न लक्षये ॥ 2.12.25 ॥ | 2.12.25bविशेषं त्वयि तस्मात्तु भरतस्य न लक्षये ॥ 2.12.25 ॥ | 2.12.25bविशेषं त्वयि तस्मात्तु भरतस्य न लक्षये ॥ २।१२।२५ ॥ | 2.12.25bविशेषं त्वयि तस्मात्तु भरतस्य न लक्षये॥2.12.25॥ | |
| 77 | #26aಶುಶ್ರೂಷಾಂ ಗೌರವಂ ಚೈವ ಪ್ರಮಾಣಂ ವಚನ ಕ್ರಿಯಾಮ್ । | 2.12.26aशुश्रूषां गौरवं चैव प्रमाणं वचनक्रियाम् । | 2.12.26aशश्रूषां गौरवं चैव प्रमाणं वचनक्रियाम् । | 2.12.26aशश्रूषां गौरवं चैव प्रमाणं वचनक्रियाम्। | 2.12.26aशश्रूषां गौरवं चैव प्रमाणं वचनक्रियाम् । | 2.12.26aशुश्रूषां गौरवं चैव प्रमाणं वचनक्रियाम्। | |
| 78 | #26bಕಸ್ತು ಭೂಯಸ್ತರಂ ಕುರ್ಯಾದನ್ಯತ್ರ ಪುರುಷರ್ಷಭಾತ್ ॥ | 2.12.26bकस्तु भूयस्तरं कुर्यादन्यत्र पुरुषर्षभात् ॥ २६ ॥ | 2.12.26bकस्ते भूयस्तरं कुर्यादन्यत्र मनुजर्षभात् ॥ 2.12.26 ॥ | 2.12.26bकस्ते भूयस्तरं कुर्यादन्यत्र मनुजर्षभात् ॥ 2.12.26 ॥ | 2.12.26bकस्ते भूयस्तरं कुर्यादन्यत्र मनुजर्षभात् ॥ २।१२।२६ ॥ | 2.12.26bकस्ते भूयस्तरं कुर्यादन्यत्र मनुजर्षभात्॥2.12.26॥ | |
| 79 | #27aಬಹೂನಾಂ ಸ್ತ್ರೀಸಹಸ್ರಾಣಾಂ ಬಹೂನಾಂ ಚೋಪಜೀವಿನಾಮ್ । | 2.12.27aबहूनां स्त्रीसहस्राणां बहूनां चोपजीविनाम् । | 2.12.27aबहूनां स्त्रीसहस्राणां बहूनां चोपजीविनाम् । | 2.12.27aबहूनां स्त्रीसहस्राणां बहूनां चोपजीविनाम्। | 2.12.27aबहूनां स्त्रीसहस्राणां बहूनां चोपजीविनाम् । | 2.12.27aबहूनां स्त्रीसहस्राणां बहूनां चोपजीविनाम्। | |
| 80 | #27bಪರಿವಾದೋಽಪವಾದೋ ವಾ ರಾಘವೇ ನೋಪಪದ್ಯತೇ ॥ | 2.12.27bपरिवादोऽपवादो वा राघवे नोपपद्यते ॥ २७ ॥ | 2.12.27bपरिवादो ऽपवादो वा राघवे नोपपद्यते ॥ 2.12.27 ॥ | 2.12.27bपरिवादोऽपवादो वा राघवे नोपपद्यते ॥ 2.12.27 ॥ | 2.12.27bपरिवादो ऽपवादो वा राघवे नोपपद्यते ॥ २।१२।२७ ॥ | 2.12.27bपरिवादोऽपवादो वा राघवे नोपपद्यते॥2.12.27॥ | |
| 81 | #28aಸಾಂತ್ವಯನ್ ಸರ್ವಭೂತಾನಿ ರಾಮಃ ಶುದ್ಧೇನ ಚೇತಸಾ । | 2.12.28aसान्त्वयन् सर्वभूतानि रामः शुद्धेन चेतसा । | 2.12.28aसान्त्वयन् सर्वभूतानि रामः शुद्धेन चेतसा । | 2.12.28aसान्त्वयन् सर्वभूतानि रामः शुद्धेन चेतसा। | 2.12.28aसान्त्वयन् सर्वभूतानि रामः शुद्धेन चेतसा । | 2.12.28aसान्त्वयन्सर्वभूतानि राम श्शुद्धेन चेतसा। | |
| 82 | #28bಗೃಹ್ಣಾತಿ ಮನುಜವ್ಯಾಘ್ರಃ ಪ್ರಿಯೈರ್ವಿಷಯವಾಸಿನಃ ॥ | 2.12.28bगृह्णाति मनुजव्याघ्रः प्रियैर्विषयवासिनः ॥ २८ ॥ | 2.12.28bगृह्णाति मनुजव्याघ्रः प्रियैर्विषयवासिनः ॥ 2.12.28 ॥ | 2.12.28bगृह्णाति मनुजव्याघ्रः प्रियैर्विषयवासिनः ॥ 2.12.28 ॥ | 2.12.28bगृह्णाति मनुजव्याघ्रः प्रियैर्विषयवासिनः ॥ २।१२।२८ ॥ | 2.12.28bगृह्णाति मनुजव्याघ्र प्रियैर्विषयवासिनः॥2.12.28॥ | |
| 83 | #29aಸತ್ಯೇನ ಲೋಕಾಂಜಯತಿ ದ್ವಿಜಾನ್ ದಾನೇನ ರಾಘವಃ । | 2.12.29aसत्येन लोकाञ्जयति द्विजान् दानेन राघवः । | 2.12.29aसत्येन लोकान् जयति दीनान् दानेन राघवः । | 2.12.29aसत्येन लोकान् जयति दीनान् दानेन राघवः। | 2.12.29aसत्येन लोकान् जयति दीनान् दानेन राघवः । | 2.12.29aसत्येन लोकान् जयति दीनान् दानेन राघवः। | |
| 84 | #29bಗುರೂನ್ಛುಶ್ರೂಷಯಾ ವೀರೋ ಧನುಷಾ ಯುಧಿ ಶಾತ್ರವಾನ್ ॥ | 2.12.29bगुरूञ्छुश्रूषया वीरो धनुषा युधि शात्रवान् ॥ २९ ॥ | 2.12.29bगुरून् शुश्रूषया वीरो धनुषा युधि शात्रवान् ॥ 2.12.29 ॥ | 2.12.29bगुरून् शुश्रूषया वीरो धनुषा युधि शात्रवान् ॥ 2.12.29 ॥ | 2.12.29bगुरून् शुश्रूषया वीरो धनुषा युधि शात्रवान् ॥ २।१२।२९ ॥ | 2.12.29bगुरूञ्छुश्रूषया वीरो धनुषा युधि शात्रवान्॥2.12.29॥ | |
| 85 | #30aಸತ್ಯಂ ದಾನಂ ತಪಸ್ತ್ಯಾಗೋ ಮಿತ್ರತಾ ಶೌಚಮಾರ್ಜವಮ್ । | 2.12.30aसत्यं दानं तपस्त्यागो मित्रता शौचमार्जवम् । | 2.12.30aसत्यं दानं तपस्त्यागो मित्रता शौचमार्जवम् । | 2.12.30aसत्यं दानं तपस्त्यागो मित्रता शौचमार्जवम्। | 2.12.30aसत्यं दानं तपस्त्यागो मित्रता शौचमार्जवम् । | 2.12.30aसत्यं दानं तपस्त्यागो मित्रता शौचमार्जवम्। | |
| 86 | #30bವಿದ್ಯಾ ಚ ಗುರುಶುಶ್ರೂಷಾ ಧ್ರುವಾಣ್ಯೇತಾನಿ ರಾಘವೇ ॥ | 2.12.30bविद्या च गुरुशुश्रूषा ध्रुवाण्येतानि राघवे ॥ ३० ॥ | 2.12.30bविद्या च गुरुशुश्रूषा ध्रुवाण्येतानि राघवे ॥ 2.12.30 ॥ | 2.12.30bविद्या च गुरुशुश्रूषा ध्रुवाण्येतानि राघवे ॥ 2.12.30 ॥ | 2.12.30bविद्या च गुरुशुश्रूषा ध्रुवाण्येतानि राघवे ॥ २।१२।३० ॥ | 2.12.30bविद्या च गुरुशुश्रूषा ध्रुवाण्येतानि राघवे॥2.12.30॥ | |
| 87 | #31aತಸ್ಮಿನ್ನಾರ್ಜವಸಂಪನ್ನೇ ದೇವಿ ದೇವೋಪಮೇ ಕಥಮ್ । | 2.12.31aतस्मिन्नार्जवसम्पन्ने देवि देवोपमे कथम् । | 2.12.31aतस्मिन्नार्जवसम्पन्ने देवि देवोपमे कथम् । | 2.12.31aतस्मिन्नार्जवसम्पन्ने देवि देवोपमे कथम्। | 2.12.31aतस्मिन्नार्जवसम्पन्ने देवि देवोपमे कथम् । | 2.12.31aतस्मिन्नार्जवसम्पन्ने देवि देवोपमे कथम्। | |
| 88 | #31bಪಾಪಮಾಶಂಸಸೇ ರಾಮೇ ಮಹರ್ಷಿಸಮತೇಜಸಿ ॥ | 2.12.31bपापमाशंससे रामे महर्षिसमतेजसि ॥ ३१ ॥ | 2.12.31bपापमाशंससे रामे महर्षिसमतेजसि ॥ 2.12.31 ॥ | 2.12.31bपापमाशंससे रामे महर्षिसमतेजसि ॥ 2.12.31 ॥ | 2.12.31bपापमाशंससे रामे महर्षिसमतेजसि ॥ २।१२।३१ ॥ | 2.12.31bपापमाशंससे रामे महर्षिसमतेजसि॥2.12.31॥ | |
| 89 | #32aನ ಸ್ಮರಾಮ್ಯಪ್ರಿಯಂ ವಾಕ್ಯಂ ಲೋಕಸ್ಯ ಪ್ರಿಯವಾದಿನಃ । | 2.12.32aन स्मराम्यप्रियं वाक्यं लोकस्य प्रियवादिनः । | 2.12.32aन स्मराम्यप्रियं वाक्यं लोकस्य प्रियवादिनः । | 2.12.32aन स्मराम्यप्रियं वाक्यं लोकस्य प्रियवादिनः। | 2.12.32aन स्मराम्यप्रियं वाक्यं लोकस्य प्रियवादिनः । | 2.12.32aन स्मराम्यप्रियं वाक्यं लोकस्य प्रियवादिनः। | |
| 90 | #32bಸ ಕಥಂ ತ್ವತ್ಕೃತೇ ರಾಮಂ ವಕ್ಷ್ಯಾಮಿ ಪ್ರಿಯ ಮಪ್ರಿಯಮ್ ॥ | 2.12.32bस कथं त्वत्कृते रामं वक्ष्यामि प्रियमप्रियम् ॥ ३२ ॥ | 2.12.32bस कथं त्वत्कते रामं वक्ष्यामि प्रियमप्रियम् ॥ 2.12.32 ॥ | 2.12.32bस कथं त्वत्कते रामं वक्ष्यामि प्रियमप्रियम् ॥ 2.12.32 ॥ | 2.12.32bस कथं त्वत्कते रामं वक्ष्यामि प्रियमप्रियम् ॥ २।१२।३२ ॥ | 2.12.32bस कथं त्वत्कृते रामं वक्ष्यामि प्रियमप्रियम्॥2.12.32॥ | |
| 91 | #33aಕ್ಷಮಾ ಯಸ್ಮಿಂಸ್ತಪಸ್ತ್ಯಾಗಃ ಸತ್ಯಂ ಧರ್ಮಃ ಕೃತಜ್ಞತಾ । | 2.12.33aक्षमा यस्मिंस्तपस्त्यागः सत्यं धर्मः कृतज्ञता । | 2.12.33aक्षमा यस्मिन् दमस्त्यागः सत्यं धर्मः कृतज्ञता । | 2.12.33aक्षमा यस्मिन् दमस्त्यागः सत्यं धर्मः कृतज्ञता। | 2.12.33aक्षमा यस्मिन् दमस्त्यागः सत्यं धर्मः कृतज्ञता । | 2.12.33aक्षमा यस्मिन्दमस्त्याग सत्यं धर्मः कृतज्ञता। | |
| 92 | #33bಅಪ್ಯಹಿಂಸಾ ಚ ಭೂತಾನಾಂ ತಮೃತೇ ಕಾ ಗತಿರ್ಮಮ ॥ | 2.12.33bअप्यहिंसा च भूतानां तमृते का गतिर्मम ॥ ३३ ॥ | 2.12.33bअप्यहिंसा च भूतानां तमृते का गतिर्मम ॥ 2.12.33 ॥ | 2.12.33bअप्यहिंसा च भूतानां तमृते का गतिर्मम ॥ 2.12.33 ॥ | 2.12.33bअप्यहिंसा च भूतानां तमृते का गतिर्मम ॥ २।१२।३३ ॥ | 2.12.33bअप्यहिंसा च भूतानां तमृते का गतिर्मम॥2.12.33॥ | |
| 93 | #34aಮಮ ವೃದ್ಧಸ್ಯ ಕೈಕೇಯಿ ಗತಾಂತಸ್ಯ ತಪಸ್ವಿನಃ । | 2.12.34aमम वृद्धस्य कैकेयि गतान्तस्य तपस्विनः । | 2.12.34aमम वृद्धस्य कैकेयि गतान्तस्य तपस्विनः । | 2.12.34aमम वृद्धस्य कैकेयि गतान्तस्य तपस्विनः। | 2.12.34aमम वृद्धस्य कैकेयि गतान्तस्य तपस्विनः । | 2.12.34aमम वृद्धस्य कैकेयि गतान्तस्य तपस्विनः। | |
| 94 | #34bದೀನಂ ಲಾಲಪ್ಯಮಾನಸ್ಯಕಾರುಣ್ಯಂ ಕರ್ತುಮರ್ಹಸಿ ॥ | 2.12.34bदीनं लालप्यमानस्य कारुण्यं कर्तुमर्हसि ॥ ३४ ॥ | 2.12.34bदीनं लालप्यमानस्य कारुण्यं कर्तुमर्हसि ॥ 2.12.34 ॥ | 2.12.34bदीनं लालप्यमानस्य कारुण्यं कर्तुमर्हसि ॥ 2.12.34 ॥ | 2.12.34bदीनं लालप्यमानस्य कारुण्यं कर्तुमर्हसि ॥ २।१२।३४ ॥ | 2.12.34bदीनं लालप्यमानस्य कारुण्यं कर्तुमर्हसि॥2.12.34॥ | |
| 95 | #35aಪೃಥಿವ್ಯಾಂ ಸಾಗರಾಂತಾಯಾಂ ಯತ್ಕಿಂಚಿದಧಿಗಮ್ಯತೇ । | 2.12.35aपृथिव्यां सागरान्तायां यत् किञ्चिदधिगम्यते । | 2.12.35aपृथिव्यां सागरान्तायां यत्किञ्चिदधिगम्यते । | 2.12.35aपृथिव्यां सागरान्तायां यत्किञ्चिदधिगम्यते। | 2.12.35aपृथिव्यां सागरान्तायां यत्किञ्चिदधिगम्यते । | 2.12.35aपृथिव्यां सागरान्तायां यत्किञ्चिदधिगम्यते। | |
| 96 | #35bತತ್ಸರ್ವಂ ತವ ದಾಸ್ಯಾಮಿ ಮಾ ಚತ್ವಂ ಮನ್ಯುರಾವಿಶ ॥ | 2.12.35bतत् सर्वं तव दास्यामि मा च त्वं मन्युमाविश ॥ ३५ ॥ | 2.12.35bतत्सर्वं तव दास्यामि मा च त्वां मन्युराविशेत् ॥ 2.12.35 ॥ | 2.12.35bतत्सर्वं तव दास्यामि मा च त्वां मन्युराविशेत् ॥ 2.12.35 ॥ | 2.12.35bतत्सर्वं तव दास्यामि मा च त्वां मन्युराविशेत् ॥ २।१२।३५ ॥ | 2.12.35bतत्सर्वं तव दास्यामि मा च त्वां मन्युराविशेत्॥2.12.35॥ | |
| 97 | #36aಅಂಜಲಿಂ ಕುರ್ಮಿ ಕೈಕೇಯಿ ಪಾದೌ ಚಾಪಿಸ್ಪೃಶಾಮಿ ತೇ । | 2.12.36aअञ्जलिं कुर्मि कैकेयि पादौ चापि स्पृशामि ते । | 2.12.36aअञ्जलिं कुर्मि कैकेयि पादौ चापि स्पृशामि ते। | 2.12.36aअञ्जलिं कुर्मि कैकेयि पादौ चापि स्पृशामि ते । | 2.12.36aअञ्जलिं करोमि कैकेयि पादौ चापि स्पृशामि ते। | ||
| 98 | #36bಶರಣಂ ಭವ ರಾಮಸ್ಯ ಮಾಧರ್ಮೋ ಮಾಮಿಹ ಸ್ಪೃಶೇತ್ ॥ | 2.12.36bशरणं भव रामस्य माधर्मो मामिह स्पृशेत् ॥ ३६ ॥ | 2.12.36bशरणं भव रामस्य माधर्मो मामिह स्पृशेत् ॥ 2.12.36 ॥ | 2.12.36bशरणं भव रामस्य माधर्मो मामिह स्पृशेत् ॥ २।१२।३६ ॥ | 2.12.36bशरणं भव रामस्य माऽधर्मो मामिह स्पृशेत्॥2.12.36॥ | ||
| 99 | #37aಇತಿ ದುಃಖಾಭಿಸಂತಪ್ತಂ ವಿಲಪಂತಮಚೇತನಮ್ । | 2.12.37aइति दुःखाभिसन्तप्तं विलपन्तमचेतनम् । | 2.12.37aइति दुःखाभिसन्तप्तं विलपन्तमचेतनम् । | 2.12.37aइति दुःखाभिसन्तप्तं विलपन्तमचेतनम्। | 2.12.37aइति दुःखाभिसन्तप्तं विलपन्तमचेतनम् । | 2.12.37aइति दुःखाभिसन्तप्तं विलपन्तमचेतनम्। | |
| 100 | #37bಘೂರ್ಣಮಾನಂ ಮಹಾರಾಜಂ ಶೋಕೇನ ಸಮಭಿಪ್ಲುತಮ್ ॥ | 2.12.37bघूर्णमानं महाराजं शोकेन समभिप्लुतम् ॥ ३७ ॥ | 2.12.37bघूर्णमानं महाराजं शोकेन समभिप्लुतम् ॥ 2.12.37 ॥ | 2.12.37bघूर्णमानं महाराजं शोकेन समभिप्लुतम् ॥ 2.12.37 ॥ | 2.12.37bघूर्णमानं महाराजं शोकेन समभिप्लुतम् ॥ २।१२।३७ ॥ | 2.12.37bघूर्णमानं महाराजं शोकेन समभिप्लुतम्॥2.12.37॥ | |
| 101 | 2.12.38aपारं अन्तम्, रामाभिषेकमिति यावत्। | ||||||
| 102 | 2.12.38bअथ कृत्स्नम्। | ||||||
| 103 | 2.12.38cइति वचोविशेषणम्। | ||||||
| 104 | 2.12.38d"आरम्भप्रश्नकार्त्स्न्येष्वथो अथ" इत्यमरः। | ||||||
| 105 | 2.12.38eरौद्रा भयङ्करविकारा। | ||||||
| 106 | 2.12.38fरामाभिषेकनिवर्तनविषये यद्यद्वक्तव्यं तत्सर्वमुवाचेत्यर्थः ॥ 2.12.38 ॥ | ||||||
| 107 | #38aಪಾರಂ ಶೋಕಾರ್ಣವಸ್ಯಾಶು ಪ್ರಾರ್ಥಯಂತಂ ಪುನಃ ಪುನಃ । | 2.12.38aपारं शोकार्णवस्याशु प्रार्थयन्तं पुनः पुनः । | 2.12.38aपारं शोकार्णवस्याशु प्रार्थयन्तं पुनः पुनः । | 2.12.38aपारं शोकार्णवस्याशु प्रार्थयन्तं पुनः पुनः । | 2.12.38aपारं शोकार्णवस्याशु प्रार्थयन्तं पुनः पुनः। | ||
| 108 | #38bಪ್ರತ್ಯುವಾಚಾಥ ಕೈಕೇಯೀ ರೌದ್ರಾರೌದ್ರತರಂ ವಚಃ ॥ | 2.12.38bप्रत्युवाचाथ कैकेयी रौद्रा रौद्रतरं वचः ॥ ३८ ॥ | 2.12.38bप्रत्युवाचाथ कैकेयी रौद्रा रौद्रातरं वचः ॥ 2.12.38 ॥ | 2.12.38bप्रत्युवाचाथ कैकेयी रौद्रा रौद्रातरं वचः ॥ २।१२।३८ ॥ | 2.12.38bप्रत्युवाचाथ कैकेयी रौद्रा रौद्रतरं वचः॥2.12.38॥ | ||
| 109 | #39aಯದಿ ದತ್ತ್ವಾ ವರೌ ರಾಜನ್ ಪುನಃ ಪ್ರತ್ಯನುತಪ್ಯಸೇ । | 2.12.39aयदि दत्त्वा वरौ राजन् पुनः प्रत्यनुतप्यसे । | 2.12.39aयदि दत्त्वा वरौ राजन् पुनः प्रत्यनुतप्यसे । | 2.12.39aयदि दत्त्वा वरौ राजन् पुनः प्रत्यनुतप्यसे । | 2.12.39aयदि दत्त्वा वरौ राजन्पुनः प्रत्यनुतप्यसे। | ||
| 110 | #39bಧಾರ್ಮಿಕತ್ವಂ ಕಥಂ ವೀರ ಪೃಥಿವ್ಯಾಂ ಕಥಯಿಷ್ಯಸಿ ॥ | 2.12.39bधार्मिकत्वं कथं वीर पृथिव्यां कथयिष्यसि ॥ ३९ ॥ | 2.12.39bधार्मिकत्वं कथं वीर पृथिव्यां कथयिष्यसि ॥ 2.12.39 ॥ | 2.12.39aधार्मिकत्वं कथं वीर पृथिव्यां कथयिष्यसि। | 2.12.39bधार्मिकत्वं कथं वीर पृथिव्यां कथयिष्यसि ॥ २।१२।३९ ॥ | 2.12.39bधार्मिकत्वं कथं वीर पृथिव्यां कथयिष्यसि॥2.12.39॥ | |
| 111 | 2.12.39bधार्मिकत्वं स्वीयमिति शेषः ॥ 2.12.39 ॥ | ||||||
| 112 | #40aಯದಾ ಸಮೇತಾ ಬಹವಸ್ತ್ವಯಾ ರಾಜರ್ಷಯಃ ಸಹ । | 2.12.40aयदा समेता बहवस्त्वया राजर्षयः सह । | 2.12.40aयदा समेता बहवस्त्वया राजर्षयः सह । | 2.12.40aयदा समेता बहवस्त्वया राजर्षयः सह। | 2.12.40aयदा समेता बहवस्त्वया राजर्षयः सह । | 2.12.40aयदा समेता बहवस्त्वया राजर्षयस् सह। | |
| 113 | #40bಕಥಯಿಷ್ಯಂತಿ ಧರ್ಮಜ್ಞ ತತ್ರ ಕಿಂ ಪ್ರತಿವಕ್ಷ್ಯಸಿ ॥ | 2.12.40bकथयिष्यन्ति धर्मज्ञ तत्र किं प्रतिवक्ष्यसि ॥ ४० ॥ | 2.12.40bकथयिष्यन्ति धर्मज्ञास्तत्र किं प्रतिवक्ष्यसि ॥ 2.12.40 ॥ | 2.12.40bकथयिष्यन्ति धर्मज्ञास्तत्र किं प्रतिवक्ष्यसि ॥ 2.12.40 ॥ | 2.12.40bकथयिष्यन्ति धर्मज्ञास्तत्र किं प्रतिवक्ष्यसि ॥ २।१२।४० ॥ | 2.12.40bकथयिष्यन्ति धर्मज्ञ तत्र किं प्रतिवक्ष्यसि॥2.12.40॥ | |
| 114 | #41aಯಸ್ಯಾಃ ಪ್ರಸಾದೇ ಜೀವಾಮಿ ಯಾ ಚ ಮಾಮಭ್ಯಪಾಲಯತ್ । | 2.12.41aयस्याः प्रसादे जीवामि या च मामभ्यपालयत् । | 2.12.41aयस्याः प्रसादे जीवामि या च मामभ्यपालयत् । | 2.12.41aयस्याः प्रसादे जीवामि या च मामभ्यपालयत्। | 2.12.41aयस्याः प्रसादे जीवामि या च मामभ्यपालयत् । | 2.12.41aयस्याः प्रसादे जीवामि या च मामभ्यपालयत्। | |
| 115 | #41bತಸ್ಯಾಃ ಕೃತಾ ಮಯಾ ಮಿಥ್ಯಾ ಕೈಕೇಯ್ಯಾ ಇತಿ ವಕ್ಷ್ಯಸಿ ॥ | 2.12.41bतस्याः कृता मया मिथ्या कैकेय्या इति वक्ष्यसि ॥ ४१ ॥ | 2.12.41bतस्याः कृतं मया मिथ्या कैकेय्या इति वक्ष्यसि ॥ 2.12.41 ॥ | 2.12.41bतस्याः कृतं मया मिथ्या कैकेय्या इति वक्ष्यसि ॥ 2.12.41 ॥ | 2.12.41bतस्याः कृतं मया मिथ्या कैकेय्या इति वक्ष्यसि ॥ २।१२।४१ ॥ | 2.12.41bतस्याः कृतम् मया मिथ्या कैकेय्या इति वक्षयसि॥2.12.41॥ | |
| 116 | #42aಕಿಲ್ಬಿಷಂ ತ್ವಂ ನರೇಂದ್ರಾಣಾಂ ಕರಿಷ್ಯಸಿ ನರಾಧಿಪ । | 2.12.42aकिल्बिषं त्वं नरेन्द्राणां करिष्यसि नराधिप । | 2.12.42aकिल्बिषत्वं नरेन्द्राणां करिष्यसि नराधिप । | 2.12.42aकिल्बिषत्वं नरेन्द्राणां करिष्यसि नराधिप। | 2.12.42aकिल्बिषत्वं नरेन्द्राणां करिष्यसि नराधिप । | 2.12.42aकिल्बिषत्वं नरेन्द्राणां करिष्यसि नराधिप। | |
| 117 | #42bಯೋ ದತ್ತ್ವಾ ವರಮದ್ಯೈವ ಪುನರನ್ಯಾನಿ ಭಾಷಸೇ ॥ | 2.12.42bयो दत्त्वा वरमद्यैव पुनरन्यानि भाषसे ॥ ४२ ॥ | 2.12.42bयो दत्त्वा वरमद्यैव पुनरन्यानि भाषसे ॥ 2.12.42 ॥ | 2.12.42bयो दत्त्वा वरमद्यैव पुनरन्यानि भाषसे ॥ 2.12.42 ॥ | 2.12.42bयो दत्त्वा वरमद्यैव पुनरन्यानि भाषसे ॥ २।१२।४२ ॥ | 2.12.42bयो दत्वा वरमद्यैव पुनरन्यानि भाषसे॥2.12.42॥ | |
| 118 | #43aಶೈಬ್ಯಃ ಶ್ಯೇನಕಪೋತೀಯೇಸ್ವಮಾಂಸಂ ಪಕ್ಷಿಣೇ ದದೌ । | 2.12.43aशैब्यः श्येनकपोतीये स्वमांसं पक्षिणे ददौ । | 2.12.43aशैब्यः श्येनकपोतीये स्वमांसं पक्षिणे ददौ । | 2.12.43aशैब्यः श्येनकपोतीये स्वमांसं पक्षिणे ददौ। | 2.12.43aशैब्यः श्येनकपोतीये स्वमांसं पक्षिणे ददौ । | 2.12.43aशैब्यश्श्येनकपोतीये स्वमांसं पक्षिणे ददौ। | |
| 119 | #43bಅಲರ್ಕಶ್ಚಕ್ಷುಷೀ ದತ್ತ್ವಾ ಜಗಾಮ ಗತಿಮುತ್ತಮಾಮ್ ॥ | 2.12.43bअलर्कश्चक्षुषी दत्त्वा जगाम गतिमुत्तमाम् ॥ ४३ ॥ | 2.12.43bअलर्कश्चक्षुषी दत्त्वा जगाम गतिमुत्तमाम् ॥ 2.12.43 ॥ | 2.12.43bअलर्कश्चक्षुषी दत्त्वा जगाम गतिमुत्तमाम् ॥ 2.12.43 ॥ | 2.12.43bअलर्कश्चक्षुषी दत्त्वा जगाम गतिमुत्तमाम् ॥ २।१२।४३ ॥ | 2.12.43bअलर्कश्चक्षुषी दत्वा जगाम गतिमुत्तमाम्॥2.12.43॥ | |
| 120 | #44aಸಾಗರಃ ಸಮಯಂ ಕೃತ್ವಾ ನ ವೇಲಾಮತಿವರ್ತತೇ । | 2.12.44aसागरः समयं कृत्वा न वेलामतिवर्तते । | 2.12.44aसागरः समयं कृत्वा न वेलामतिवर्त्तते । | 2.12.44aसागरः समयं कृत्वा न वेलामतिवर्त्तते। | 2.12.44aसागरः समयं कृत्वा न वेलामतिवर्त्तते । | 2.12.44aसागरस्समयं कृत्वा न वेलामतिवर्तते। | |
| 121 | #44bಸಮಯಂ ಮಾನೃತಂ ಕಾರ್ಷೀಃ ಪೂರ್ವವೃತ್ತಮನುಸ್ಮರನ್ ॥ | 2.12.44bसमयं मानृतं कार्षीः पूर्ववृत्तमनुस्मरन् ॥ ४४ ॥ | 2.12.44bसमयं मानृतं कार्षीः पूर्वं वृत्तमनुस्मरन् ॥ 2.12.44 ॥ | 2.12.44bसमयं मानृतं कार्षीः पूर्वं वृत्तमनुस्मरन् ॥ 2.12.44 ॥ | 2.12.44bसमयं मानृतं कार्षीः पूर्वं वृत्तमनुस्मरन् ॥ २।१२।४४ ॥ | 2.12.44bसमयं माऽनृतं कार्षीः पूर्ववृत्तमनुस्मरन्॥2.12.44॥ | |
| 122 | #45aಸ ತ್ವಂ ಧರ್ಮಂ ಪರಿತ್ಯಜ್ಯ ರಾಮಂ ರಾಜ್ಯೇಭಿಷಿಚ್ಯ ಚ । | 2.12.45aस त्वं धर्मं परित्यज्य रामं राज्येऽभिषिच्य च । | 2.12.45aस त्वं धर्मं परित्यज्य रामं राज्ये ऽभिषिच्य च । | 2.12.45aस त्वं धर्मं परित्यज्य रामं राज्येऽभिषिच्य च। | 2.12.45aस त्वं धर्मं परित्यज्य रामं राज्ये ऽभिषिच्य च । | 2.12.45aस त्वं धर्मं परित्यज्य रामं राज्येऽभिषिच्य च। | |
| 123 | #45bಸಹ ಕೌಸಲ್ಯಯಾ ನಿತ್ಯಂ ರಂತುಮಿಚ್ಛಸಿ ದುರ್ಮತೇ ॥ | 2.12.45bसह कौसल्यया नित्यं रन्तुमिच्छसि दुर्मते ॥ ४५ ॥ | 2.12.45bसह कौसल्यया नित्यं रन्तुमिच्छसि दुर्मते ॥ 2.12.45 ॥ | 2.12.45bसह कौसल्यया नित्यं रन्तुमिच्छसि दुर्मते ॥ 2.12.45 ॥ | 2.12.45bसह कौसल्यया नित्यं रन्तुमिच्छसि दुर्मते ॥ २।१२।४५ ॥ | 2.12.45bसह कौसल्यया नित्यं रन्तुमिच्छसि दुर्मते॥2.12.45॥ | |
| 124 | #46aಭವತ್ವಧರ್ಮೋ ಧರ್ಮೋ ವಾ ಸತ್ಯಂ ವಾ ಯದಿ ವಾನೃತಮ್ । | 2.12.46aभवत्वधर्मो धर्मो वा सत्यं वा यदि वानृतम् । | 2.12.46aभवत्वधर्मो धर्मो वा सत्यं वा यदि वानृतम् । | 2.12.46aभवत्वधर्मो धर्मो वा सत्यं वा यदि वानृतम्। | 2.12.46aभवत्वधर्मो धर्मो वा सत्यं वा यदि वानृतम् । | 2.12.46aभवत्वधर्मो धर्मो वा सत्यं वा यदि वाऽनृतम्। | |
| 125 | #46bಯತ್ತ್ವಯಾ ಸಂಶ್ರುತಂ ಮಹ್ಯಂ ತಸ್ಯ ನಾಸ್ತಿ ವ್ಯತಿಕ್ರಮಃ ॥ | 2.12.46bयत्त्वया संश्रुतं मह्यं तस्य नास्ति व्यतिक्रमः ॥ ४६ ॥ | 2.12.46bयत्त्वया संश्रुतं मह्यं तस्य नास्ति व्यतिक्रमः ॥ 2.12.46 ॥ | 2.12.46bयत्त्वया संश्रुतं मह्यं तस्य नास्ति व्यतिक्रमः ॥ 2.12.46 ॥ | 2.12.46bयत्त्वया संश्रुतं मह्यं तस्य नास्ति व्यतिक्रमः ॥ २।१२।४६ ॥ | 2.12.46bयत्त्वया संश्रुतं मह्यं तस्य नास्ति व्यतिक्रमः॥2.12.46॥ | |
| 126 | #47aಅಹಂ ಹಿ ವಿಷಮದ್ಯೈವ ಪೀತ್ವಾ ಬಹು ತವಾಗ್ರತಃ । | 2.12.47aअहं हि विषमद्यैव पीत्वा बहु तवाग्रतः । | 2.12.47aअहं हि विषमद्यैव पीत्वा बहु तवाग्रतः । | 2.12.47aअहं हि विषमद्यैव पीत्वा बहु तवाग्रतः। | 2.12.47aअहं हि विषमद्यैव पीत्वा बहु तवाग्रतः । | 2.12.47aअहं हि विषमद्यैव पीत्वा बहु तवाग्रतः। | |
| 127 | #47bಪಶ್ಯತಸ್ತೇ ಮರಿಷ್ಯಾಮಿ ರಾಮೋ ಯದ್ಯಭಿಷಿಚ್ಯತೇ ॥ | 2.12.47bपश्यतस्ते मरिष्यामि रामो यद्यभिषिच्यते ॥ ४७ ॥ | 2.12.47bपश्यतस्ते मरिष्यामि रामो यद्यभिषिच्यते ॥ 2.12.47 ॥ | 2.12.47bपश्यतस्ते मरिष्यामि रामो यद्यभिषिच्यते ॥ 2.12.47 ॥ | 2.12.47bपश्यतस्ते मरिष्यामि रामो यद्यभिषिच्यते ॥ २।१२।४७ ॥ | 2.12.47bपश्यतस्ते मरिष्यामि रामो यद्यभिषिच्यते॥2.12.47॥ | |
| 128 | #48aಏಕಾಹಮಪಿ ಪಶ್ಯೇಯಂ ಯದ್ಯಹಂ ರಾಮಮಾತರಮ್ । | 2.12.48aएकाहमपि पश्येयं यद्यहं राममातरम् । | 2.12.48aएकाहमपि पश्येयं यद्यहं राममातरम् । | 2.12.48aएकाहमपि पश्येयं यद्यहं राममातरम्। | 2.12.48aएकाहमपि पश्येयं यद्यहं राममातरम् । | 2.12.48aएकाहमपि पश्येयं यद्यहं राममातरम्। | |
| 129 | #48bಅಂಜಲಿಂ ಪ್ರತಿಗೃಹ್ಣಂತೀಂ ಶ್ರೇಯೋ ನನು ಮೃತಿರ್ಮಮ ॥ | 2.12.48bअञ्जलिं प्रतिगृह्णन्तीं श्रेयो ननु मृतिर्मम ॥ ४८ ॥ | 2.12.48bअञ्जलिं प्रतिगृह्णन्तीं श्रेयो ननु मृतिर्मम ॥ 2.12.48 ॥ | 2.12.48bअञ्जलिं प्रतिगृह्णन्तीं श्रेयो ननु मृतिर्मम ॥ 2.12.48 ॥ | 2.12.48bअञ्जलिं प्रतिगृह्णन्तीं श्रेयो ननु मृतिर्मम ॥ २।१२।४८ ॥ | 2.12.48bअञ्जलिं प्रतिगृह्णन्तीं श्रेयो ननु मृतिर्मम॥2.12.48॥ | |
| 130 | #49aಭರತೇನಾತ್ಮನಾ ಚಾಹಂ ಶಪೇ ತೇ ಮನುಜಾಧಿಪ । | 2.12.49aभरतेनात्मना चाहं शपे ते मनुजाधिप । | 2.12.49aभरतेनात्मना चाहं शपे ते मनुजाधिप । | 2.12.49aभरतेनात्मना चाहं शपे ते मनुजाधिप। | 2.12.49aभरतेनात्मना चाहं शपे ते मनुजाधिप । | 2.12.49aभरतेनात्मना चाहं शपे ते मनुजाधिप। | |
| 131 | #49bಯಥಾ ನಾನ್ಯೇನ ತುಷ್ಯೇಯಮೃತೇ ರಾಮವಿವಾಸನಾತ್ ॥ | 2.12.49bयथा नान्येन तुष्येयमृते रामविवासनात् ॥ ४९ ॥ | 2.12.49bयथा नान्येन तुष्येयमृते रामविवासनात् ॥ 2.12.49 ॥ | 2.12.49bयथा नान्येन तुष्येयमृते रामविवासनात् ॥ 2.12.49 ॥ | 2.12.49bयथा नान्येन तुष्येयमृते रामविवासनात् ॥ २।१२।४९ ॥ | 2.12.49bयथा नान्येन तुष्येयमृते रामविवासनात्॥2.12.49॥ | |
| 132 | #50aಏತಾವದುಕ್ತ್ವಾ ವಚನಂ ಕೈಕೇಯೀ ವಿರರಾಮ ಹ । | 2.12.50aएतावदुक्त्वा वचनं कैकेयी विरराम ह । | 2.12.50aएतावदुक्त्वा वचनं कैकेयी विरराम ह । | 2.12.50aएतावदुक्त्वा वचनं कैकेयी विरराम ह। | 2.12.50aएतावदुक्त्वा वचनं कैकेयी विरराम ह । | 2.12.50aएतावदुक्त्वा वचनं कैकेयी विरराम ह। | |
| 133 | #50bವಿಲಪಂತಂ ಚ ರಾಜಾನಂ ನ ಪ್ರತಿವ್ಯಾಜಹಾರ ಸಾ ॥ | 2.12.50bविलपन्तं च राजानं न प्रतिव्याजहार सा ॥ ५० ॥ | 2.12.50bविलपन्तं च राजानं न प्रतिव्याजहार सा ॥ 2.12.50 ॥ | 2.12.50bविलपन्तं च राजानं न प्रतिव्याजहार सा ॥ 2.12.50 ॥ | 2.12.50bविलपन्तं च राजानं न प्रतिव्याजहार सा ॥ २।१२।५० ॥ | 2.12.50bविलपन्तं च राजानं न प्रतिव्याजहार सा॥2.12.50॥ | |
| 134 | 2.12.4850aइत्याह--एकाहमिति । | ||||||
| 135 | 2.12.4850aकौसल्यातो ऽप्यधिकं भोगं तव दास्यामीत्यत्र तत्प्राधान्यं न सह इत्याह–एकाहमिति । | ||||||
| 136 | 2.12.4850bअञ्जलिं प्रतिगृह्णन्तीं राजमातृत्वेन सर्वेषामिति शेषः । | 2.12.4850bअञ्जलिं प्रतिगृह्णन्तीं राजमातृत्वेन सर्वेषामिति शेषः । | |||||
| 137 | 2.12.4850cश्रेयः तदा तदपेक्षयेति शेषः ॥ 2.12.4850 ॥ | 2.12.4850cश्रेयः तदा तदपेक्षयेति शेषः ॥ २।१२।४८५० ॥ | |||||
| 138 | #51aಶ್ರುತ್ವಾ ತು ರಾಜಾ ಕೈಕೇಯ್ಯಾ ವಾಕ್ಯಂ ಪರಮಶೋಭನಮ್ । | 2.12.51aश्रुत्वा तु राजा कैकेय्या वाक्यं परमशोभनम् । | 2.12.51aश्रुत्वा च राजा कैकेय्या वृतं परमशोभनम् । | 2.12.51aश्रुत्वा च राजा कैकेय्या वृतं परमशोभनम्। | 2.12.51aश्रुत्वा च राजा कैकेय्या वृतं परमशोभनम् । | 2.12.51aश्रुत्वा तु राजा कैकेय्या वृतं परमशोभनम्। | |
| 139 | #51bರಾಮಸ್ಯ ಚ ವನೇ ವಾಸಮೈಶ್ಚರ್ಯಂ ಭರತಸ್ಯ ಚ ॥ | 2.12.51bरामस्य च वने वासमैश्वर्यं भरतस्य च ॥ ५१ ॥ | 2.12.51bरामस्य च वने वासमैश्वर्यं भरतस्य च ॥ 2.12.51 ॥ | 2.12.51bरामस्य च वने वासमैश्वर्यं भरतस्य च ॥ 2.12.51 ॥ | 2.12.51bरामस्य च वने वासमैश्वर्यं भरतस्य च ॥ २।१२।५१ ॥ | 2.12.51bरामस्य च वने वासमैश्वर्यं भरतस्य च॥2.12.51॥ | |
| 140 | #52aನಾಭ್ಯಭಾಷತ ಕೈಕೇಯೀಂ ಮುಹೂರ್ತಂ ವ್ಯಾಕುಲೇಂದ್ರಿಯಃ । | 2.12.52aनाभ्यभाषत कैकेयीं मुहूर्तं व्याकुलेन्द्रियः । | 2.12.52aनाभ्यभाषत कैकेयीं मुहूर्त्तं व्याकुलेन्द्रियः । | 2.12.52aनाभ्यभाषत कैकेयीं मुहूर्त्तं व्याकुलेन्द्रियः। | 2.12.52aनाभ्यभाषत कैकेयीं मुहूर्त्तं व्याकुलेन्द्रियः । | 2.12.52aनाभ्यभाषत कैकेयीं मुहूर्तं व्याकुलेन्द्रियः। | |
| 141 | #52bಪ್ರೈಕ್ಷತಾನಿಮಿಷೋ ದೇವೀಂ ಪ್ರಿಯಾಮಪ್ರಿಯವಾದಿನೀಮ್ ॥ | 2.12.52bप्रैक्षतानिमिषो देवीं प्रियामप्रियवादिनीम् ॥ ५२ ॥ | 2.12.52bप्रैक्षतानिमिषो देवीं प्रियामप्रियवादिनीम् ॥ 2.12.52 ॥ | 2.12.52bप्रैक्षतानिमिषो देवीं प्रियामप्रियवादिनीम् ॥ 2.12.52 ॥ | 2.12.52bप्रैक्षतानिमिषो देवीं प्रियामप्रियवादिनीम् ॥ २।१२।५२ ॥ | 2.12.52bप्रैक्षतानिमिषो देवीं प्रियामप्रियवादिनीम्॥2.12.52॥ | |
| 142 | #53aತಾಂ ಹಿ ವಜ್ರಸಮಾಂ ವಾಚಮಾಕರ್ಣ್ಯ ಹೃದಯಾಪ್ರಿಯಾಮ್ । | 2.12.53aतां हि वज्रसमां वाचमाकर्ण्य हृदयाप्रियाम् । | 2.12.53aतां हि वज्रसमां वाचमाकर्ण्य हृदयाप्रियाम् । | 2.12.53aतां हि वज्रसमां वाचमाकर्ण्य हृदयाप्रियाम्। | 2.12.53aतां हि वज्रसमां वाचमाकर्ण्य हृदयाप्रियाम् । | 2.12.53aतां हि वज्रसमां वाचमाकर्ण्य हृदयाप्रियाम्। | |
| 143 | #53bದುಃಖಶೋಕಮಯೀಂ ಶ್ರುತ್ವಾ ರಾಜಾ ನ ಸುಖಿತೋಭವತ್ ॥ | 2.12.53bदुःखशोकमयीं श्रुत्वा राजा न सुखितोऽभवत् ॥ ५३ ॥ | 2.12.53bदुःखशोकमयीं घोरां राजा न सुखितो ऽभवत् ॥ 2.12.53 ॥ | 2.12.53bदुःखशोकमयीं घोरां राजा न सुखितोऽभवत् ॥ 2.12.53 ॥ | 2.12.53bदुःखशोकमयीं घोरां राजा न सुखितो ऽभवत् ॥ २।१२।५३ ॥ | 2.12.53bदुःखशोकमयीं घोरां राजा न सुखितोऽभवत्॥2.12.53॥ | |
| 144 | #54aಸ ದೇವ್ಯಾ ವ್ಯವಸಾಯಂ ಚ ಘೋರಂ ಚ ಶಪಥಂ ಕೃತಮ್ । | 2.12.54aस देव्या व्यवसायं च घोरं च शपथं कृतम् । | 2.12.54aस देव्या व्यवसायं च घोरं च शपथं कृतम् । | 2.12.54aस देव्या व्यवसायं च घोरं च शपथं कृतम्। | 2.12.54aस देव्या व्यवसायं च घोरं च शपथं कृतम् । | 2.12.54aस देव्या व्यवसायं च घोरं च शपथं कृतम्। | |
| 145 | #54bಧ್ಯಾತ್ವಾ ರಾಮೇತಿ ನಿಃಶ್ವಸ್ಯ ಚ್ಛಿನ್ನಸ್ತರುರಿವಾಪತತ್ ॥ | 2.12.54bध्यात्वा रामेति निःश्वस्य च्छिन्नस्तरुरिवापतत् ॥ ५४ ॥ | 2.12.54bध्यात्वा रामेति निश्वस्य च्छिन्नस्तरुरिवापतत् ॥ 2.12.54 ॥ | 2.12.54bध्यात्वा रामेति निश्वस्य च्छिन्नस्तरुरिवापतत् ॥ 2.12.54 ॥ | 2.12.54bध्यात्वा रामेति निश्वस्य च्छिन्नस्तरुरिवापतत् ॥ २।१२।५४ ॥ | 2.12.54bध्यात्वा रामेति निश्श्वस्य छिन्न स्तरुरिवापतत्॥2.12.54॥ | |
| 146 | #55aನಷ್ಟಚಿತ್ತೋ ಯಥೋನ್ಮತ್ತೋ ವಿಪರೀತೋ ಯಥಾತುರಃ । | 2.12.55aनष्टचित्तो यथोन्मत्तो विपरीतो यथातुरः । | 2.12.55aनष्टचित्तो यथोन्मत्तो विपरीतो यथातुरः । | 2.12.55aनष्टचित्तो यथोन्मत्तो विपरीतो यथातुरः। | 2.12.55aनष्टचित्तो यथोन्मत्तो विपरीतो यथातुरः । | 2.12.55aनष्टचित्तो यथोन्मत्तो विपरीतो यथाऽतुरः। | |
| 147 | #55bಹೃತತೇಜಾ ಯಥಾ ಸರ್ಪೋ ಬಭೂವ ಜಗತೀಪತಿಃ ॥ | 2.12.55bहृततेजा यथा सर्पो बभूव जगतीपतिः ॥ ५५ ॥ | 2.12.55bहृततेजा यथा सर्पो बभूव जगतीपतिः ॥ 2.12.55 ॥ | 2.12.55bहृततेजा यथा सर्पो बभूव जगतीपतिः ॥ 2.12.55 ॥ | 2.12.55bहृततेजा यथा सर्पो बभूव जगतीपतिः ॥ २।१२।५५ ॥ | 2.12.55bहृततेजा यथा सर्पो बभूव जगतीपतिः॥2.12.55॥ | |
| 148 | #56aದೀನಯಾಽಽತುರಯಾ ವಾಚಾ ಇತಿ ಹೋವಾಚ ಕೇಕಯೀಮ್ । | 2.12.56aदीनयाऽऽतुरया वाचा इति होवाच कैकयीम् । | 2.12.56दीनया तु गिरा राजा इति होवाच कैकयीम् ॥ 2.12.56 ॥ | 2.12.56दीनया तु गिरा राजा इति होवाच कैकयीम् ॥ 2.12.56 ॥ | 2.12.56दीनया तु गिरा राजा इति होवाच कैकयीम् ॥ २।१२।५६ ॥ | 2.12.56aदीनया तु गिरा राजा इति होवाच कैकयीम्। | |
| 149 | #56bಅನರ್ಥಮಿವಮರ್ಥಾಭಂ ಕೇನ ತ್ವಮುಪದೇಶಿತಾ ॥ | 2.12.56bअनर्थमिममर्थाभं केन त्वमुपदेशिता ॥ ५६ ॥ | 2.12.57aअनर्थमिममर्थाभं केन त्वमुपदर्शिता । | 2.12.57aअनर्थमिममर्थाभं केन त्वमुपदर्शिता। | 2.12.57aअनर्थमिममर्थाभं केन त्वमुपदर्शिता । | 2.12.56bअनर्थमिममर्थाभं केन त्वमुपदर्शिता॥2.12.56॥ | |
| 150 | #57aಭೂತೋಪಹತಚಿತ್ತೇವ ಬ್ರುವಂತೀ ಮಾಂ ನ ಲಜ್ಜಸೇ । | 2.12.57aभूतोपहतचित्तेव ब्रुवन्ती मां न लज्जसे । | 2.12.57bभूतोपहतचित्तेव ब्रुवन्ती मां न लज्जसे ॥ 2.12.57 ॥ | 2.12.57bभूतोपहतचित्तेव ब्रुवन्ती मां न लज्जसे ॥ 2.12.57 ॥ | 2.12.57bभूतोपहतचित्तेव ब्रुवन्ती मां न लज्जसे ॥ २।१२।५७ ॥ | 2.12.57aभूतोपहतचित्तेव ब्रुवन्ती मां न लज्जसे। | |
| 151 | #57bಶೀಲವ್ಯಸನಮೇತತ್ ತೆ ನಾಭಿಜಾನಾಮ್ಯಹಂ ಪುರಾ ॥ | 2.12.57bशीलव्यसनमेतत् ते नाभिजानाम्यहं पुरा ॥ ५७ ॥ | 2.12.58aशीलव्यसनमेतत्ते नाभिजानाम्यहं पुरा । | 2.12.58aशीलव्यसनमेतत्ते नाभिजानाम्यहं पुरा। | 2.12.58aशीलव्यसनमेतत्ते नाभिजानाम्यहं पुरा । | 2.12.57bशीलव्यसनमेतत्ते नाभिजानाम्यहं पुरा॥2.12.57॥ | |
| 152 | #58aಬಾಲಾಯಾಸ್ತತ್ತ್ವಿದಾನೀಂ ತೇ ಲಕ್ಷಯೇ ವಿಪರೀತವತ್ । | 2.12.58aबालायास्तत् त्विदानीं ते लक्षये विपरीतवत् । | 2.12.58bबालायास्तत्त्विदानीं ते लक्षये विपरीतवत् ॥ 2.12.58 ॥ | 2.12.58bबालायास्तत्त्विदानीं ते लक्षये विपरीतवत् ॥ 2.12.58 ॥ | 2.12.58bबालायास्तत्त्विदानीं ते लक्षये विपरीतवत् ॥ २।१२।५८ ॥ | 2.12.58aबालायास्तत्त्वितिदानीं ते लक्षये विपरीतवत्। | |
| 153 | #58bಕುತೋ ವಾ ತೇ ಭಯಂ ಜಾತಂ ಯಾ ತ್ವಮೇವಂವಿಧಂ ವರಮ್ ॥ | 2.12.58bकुतो वा ते भयं जातं या त्वमेवंविधं वरम् ॥ ५८ ॥ | 2.12.59कुतो वा ते भयं जातं या त्वमेवंविधं वरम् ॥ 2.12.59 ॥ | 2.12.59कुतो वा ते भयं जातं या त्वमेवंविधं वरम् ॥ 2.12.59 ॥ | 2.12.59कुतो वा ते भयं जातं या त्वमेवंविधं वरम् ॥ २।१२।५९ ॥ | 2.12.58bकुतो वा ते भयं जातं या त्वमेवंविधं वरम्॥2.12.58॥ | |
| 154 | #59aರಾಷ್ಟ್ರೇ ಭರತಮಾಸೀನಂ ವೃಣೀಷೇ ರಾಘವಂ ವನೇ । | 2.12.59aराष्ट्रे भरतमासीनं वृणीषे राघवं वने । | 2.12.60aराष्ट्रे भरतमासीनं वृणीषे राघवं वने । | 2.12.60aराष्ट्रे भरतमासीनं वृणीषे राघवं वने । | 2.12.59aराष्ट्रे भरतमासीनं वृणीषे राघवं वने। | ||
| 155 | #59bವಿರಮೈತೇನ ಭಾವೇನ ತ್ವಮೇತೇನಾನೃತೇನ ಚ ॥ | 2.12.59bविरमैतेन भावेन त्वमेतेनानृतेन च ॥ ५९ ॥ | 2.12.60bविरमैतेन भावेन त्वमेतेनानृतेन वा । | 2.12.60aविरमैतेन भावेन त्वमेतेनानृतेन वा। | 2.12.60bविरमैतेन भावेन त्वमेतेनानृतेन वा । | 2.12.59bविरमैतेन भावेन त्वमेतेनानृतेन वा॥2.12.59॥ | |
| 156 | #60aಯದಿ ಭರ್ತುಃ ಪ್ರಿಯಂ ಕಾರ್ಯಂ ಲೋಕಸ್ಯ ಭರತಸ್ಯ ಚ । | 2.12.60aयदि भर्तुः प्रियं कार्यं लोकस्य भरतस्य च । | 2.12.60cयदि भर्तुः प्रियं कार्यं लोकस्य भरतस्य च ॥ 2.12.60 ॥ | 2.12.60bयदि भर्तुः प्रियं कार्यं लोकस्य भरतस्य च ॥ 2.12.60 ॥ | 2.12.60cयदि भर्तुः प्रियं कार्यं लोकस्य भरतस्य च ॥ २।१२।६० ॥ | 2.12.60aयदि भर्तुः प्रियं कार्यं लोकस्य भरतस्य च। | |
| 157 | #60bನೃಶಂಸೇ ಪಾಪಸಂಕಲ್ಪೇ ಕ್ಷುದ್ರೇ ದುಷ್ಕೃತಕಾರಿಣಿ ॥ | 2.12.60bनृशंसे पापसङ्कल्पे क्षुद्रे दुष्कृतकारिणि ॥ ६० ॥ | 2.12.61aनृशंसे पापसङ्कल्पे क्षुद्रे दुष्कृतकारिणि । | 2.12.61aनृशंसे पापसङ्कल्पे क्षुद्रे दुष्कृतकारिणि। | 2.12.61aनृशंसे पापसङ्कल्पे क्षुद्रे दुष्कृतकारिणि । | 2.12.60bनृशंसे पापसङ्कल्पे क्षुद्रे दुष्कृतकारिणि॥2.12.60॥ | |
| 158 | #61aಕಿಂ ನು ದುಃಖಮಲೀಕಂ ವಾ ಮಯಿ ರಾಮೇ ಚ ಪಶ್ಯಸಿ । | 2.12.61aकिं नु दुःखमलीकं वा मयि रामे च पश्यसि । | 2.12.61bकिन्नु दुःखमलीकं वा मयि रामे च पश्यसि ॥ 2.12.61 ॥ | 2.12.61bकिन्नु दुःखमलीकं वा मयि रामे च पश्यसि ॥ 2.12.61 ॥ | 2.12.61bकिन्नु दुःखमलीकं वा मयि रामे च पश्यसि ॥ २।१२।६१ ॥ | 2.12.61aकिन्नु दुखमलीकं वा मयि रामे च पश्यसि। | |
| 159 | #61bನ ಕಥಂಚಿದೃತೇ ರಾಮಾದ್ ಭರತೋ ರಾಜ್ಯಮಾವಸೇತ್ ॥ | 2.12.61bन कथञ्चिदृते रामाद् भरतो राज्यमावसेत् ॥ ६१ ॥ | 2.12.62aन कथञ्चिदृते रामाद्भरतो राज्यमावसेत् । | 2.12.62aन कथञ्चिदृते रामाद्भरतो राज्यमावसेत्। | 2.12.62aन कथञ्चिदृते रामाद्भरतो राज्यमावसेत् । | 2.12.61bन कथञ्चिदृते रामाद्भरतो राज्यमावसेत्॥2.12.61॥ | |
| 160 | #62aರಾಮಾದಪಿ ಹಿ ತಂ ಮನ್ಯೇ ಧರ್ಮತೋ ಬಲವತ್ತರಮ್ । | 2.12.62aरामादपि हि तं मन्ये धर्मतो बलवत्तरम् । | 2.12.62bरामादपि हितं मन्ये धर्मतो बलवत्तरम् ॥ 2.12.62 ॥ | 2.12.62bरामादपि हितं मन्ये धर्मतो बलवत्तरम् ॥ 2.12.62 ॥ | 2.12.62bरामादपि हितं मन्ये धर्मतो बलवत्तरम् ॥ २।१२।६२ ॥ | 2.12.62aरामादपि हि तं मन्ये धर्मतो बलवत्तरम्। | |
| 161 | 2.12.6162aनृशंस इति । | ||||||
| 162 | 2.12.6162bनृशंसे निर्दये । | ||||||
| 163 | 2.12.6162cतत्र हेतुः पापसङ्कल्प इति । | ||||||
| 164 | 2.12.6162dरामविवासनरूपपापसङ्कल्पे । | ||||||
| 165 | 2.12.6162eतत्रापि हेतुः क्षुद्र इति । | ||||||
| 166 | 2.12.6162fअल्पमतिके । | ||||||
| 167 | 2.12.6162gतत्रापि हेतुः दुष्कृतकारिणीते । | ||||||
| 168 | 2.12.6162hजन्मान्तरे पापकारिणीत्यर्थः । | ||||||
| 169 | 2.12.6162iदुःखं दुःखनिमित्तम् । | ||||||
| 170 | 2.12.6162jअलीकं अप्रियम् । | ||||||
| 171 | 2.12.6162k“अलीकं त्वप्रिये ऽनृते” इत्यमरः ॥ 2.12.6162 ॥ | ||||||
| 172 | #62bಕಥಂ ದ್ರಕ್ಷ್ಯಾಮಿ ರಾಮಸ್ಯ ವನಂ ಗಚ್ಛೇತಿ ಭಾಷಿತೇ ॥ | 2.12.62bकथं द्रक्ष्यामि रामस्य वनं गच्छेति भाषिते ॥ ६२ ॥ | 2.12.63aकथं द्रक्ष्यामि रामस्य वनं गच्छेति भाषिते । | 2.12.63aकथं द्रक्ष्यामि रामस्य वनं गच्छेति भाषिते। | 2.12.63aकथं द्रक्ष्यामि रामस्य वनं गच्छेति भाषिते । | 2.12.62bकथं द्रक्ष्यामि रामस्य वनं गच्छेति भाषिते॥2.12.62॥ | |
| 173 | #63aಮುಖವರ್ಣಂ ವಿವರ್ಣಂ ತು ಯಥೈವೇಂದುಮುಪಪ್ಲುತಮ್ । | 2.12.63aमुखवर्णं विवर्णं तु यथैवेन्दुमुपप्लुतम् । | 2.12.63bमुखवर्णं विवर्णं तं यथैवेन्दुमुपप्लुतम् ॥ 2.12.63 ॥ | 2.12.63bमुखवर्णं विवर्णं तं यथैवेन्दुमुपप्लुतम् ॥ 2.12.63 ॥ | 2.12.63bमुखवर्णं विवर्णं तं यथैवेन्दुमुपप्लुतम् ॥ २।१२।६३ ॥ | 2.12.63aमुखवर्णं विवर्णं तु तं यथैवेन्दुमुपप्लुतम्। | |
| 174 | #63bತಾಂ ತು ಮೇ ಸುಕೃತಾಂ ಬುದ್ಧಿಂ ಸುಹೃದ್ಭಿಃ ಸಹ ನಿಶ್ಚಿತಾಮ್ ॥ | 2.12.63bतां तु मे सुकृतां बुद्धिं सुहृद्भिः सह निश्चिताम् ॥ ६३ ॥ | 2.12.64aतां हि मे सुकृतां बुद्धिं सुहृद्भिः सह निश्चिताम् । | 2.12.64aतां हि मे सुकृतां बुद्धिं सुहृद्भिः सह निश्चिताम्। | 2.12.64aतां हि मे सुकृतां बुद्धिं सुहृद्भिः सह निश्चिताम् । | 2.12.63bतां हि मे सुकृतां बुद्धिं सुहृद्भिस्सह निश्चिताम्॥2.12.63॥ | |
| 175 | #64aಕಥಂ ದ್ರಕ್ಷ್ಯಾಮ್ಯಪಾವೃತ್ತಾಂ ಪರೈರಿವ ಹತಾಂ ಚಮೂಮ್ । | 2.12.64aकथं द्रक्ष्याम्यपावृत्तां परैरिव हतां चमूम् । | 2.12.64bकथं द्रक्ष्याम्यपावृत्तां परैरिव हतां चमूम् ॥ 2.12.64 ॥ | 2.12.64bकथं द्रक्ष्याम्यपावृत्तां परैरिव हतां चमूम् ॥ 2.12.64 ॥ | 2.12.64bकथं द्रक्ष्याम्यपावृत्तां परैरिव हतां चमूम् ॥ २।१२।६४ ॥ | 2.12.64aकथं द्रक्ष्याम्यपावृत्तां परैरिव हतां चमूम्। | |
| 176 | #64bಕಿಂ ಮಾಂ ವಕ್ಷ್ಯಂತಿ ರಾಜಾನೋ ನಾನಾದಿಗ್ಭ್ಯಃ ಸಮಾಗತಾಃ ॥ | 2.12.64bकिं मां वक्ष्यन्ति राजानो नानादिग्भ्यः समागताः ॥ ६४ ॥ | 2.12.65aकिं मां वक्ष्यन्ति राजानो नानादिग्भ्यः समागताः । | 2.12.65aकिं मां वक्ष्यन्ति राजानो नानादिग्भ्यः समागताः। | 2.12.65aकिं मां वक्ष्यन्ति राजानो नानादिग्भ्यः समागताः । | 2.12.64bकिं मां वक्ष्यन्ति राजानो नानादिग्भ्यस् समागताः॥2.12.64॥ | |
| 177 | #65aಬಾಲೋ ಬತಾಯಮೈಕ್ಷ್ವಾಕಶ್ಚಿರಂ ರಾಜ್ಯಮಕಾರಯತ್ । | 2.12.65aबालो बतायमैक्ष्वाकश्चिरं राज्यमकारयत् । | 2.12.65bबालो बतायमैक्ष्वाकश्चिरं राज्यमकारयत् ॥ 2.12.65 ॥ | 2.12.65bबालो बतायमैक्ष्वाकश्चिरं राज्यमकारयत् ॥ 2.12.65 ॥ | 2.12.65bबालो बतायमैक्ष्वाकश्चिरं राज्यमकारयत् ॥ २।१२।६५ ॥ | 2.12.65aबालो बताऽयमैक्ष्वाकश्चिरं राज्यमकारयत्। | |
| 178 | #65bಯದಾ ಹಿ ಬಹವೋ ವೃದ್ಧಾ ಗುಣವಂತೋ ಬಹುಶ್ರುತಾಃ ॥ | 2.12.65bयदा हि बहवो वृद्धा गुणवन्तो बहुश्रुताः ॥ ६५ ॥ | 2.12.66aयदा तु बहवो वृद्धा गुणवन्तो बहुश्रुताः । | 2.12.66aयदा तु बहवो वृद्धा गुणवन्तो बहुश्रुताः। | 2.12.66aयदा तु बहवो वृद्धा गुणवन्तो बहुश्रुताः । | 2.12.65bयदा तु बहवो वृद्धा गुणवन्तो बहुश्रुताः॥2.12.65॥ | |
| 179 | #66aಪರಿಪ್ರಕ್ಷ್ಯಂತಿ ಕಾಕುತ್ಸ್ಥಂ ವಕ್ಷ್ಯಾಮೀಹ ಕಥಂ ತದಾ । | 2.12.66aपरिप्रक्ष्यन्ति काकुत्स्थं वक्ष्यामीह कथं तदा । | 2.12.66bपरिप्रक्ष्यन्ति काकुत्स्थं वक्ष्यामि किमहं तदा ॥ 2.12.66 ॥ | 2.12.66bपरिप्रक्ष्यन्ति काकुत्स्थं वक्ष्यामि किमहं तदा ॥ 2.12.66 ॥ | 2.12.66bपरिप्रक्ष्यन्ति काकुत्स्थं वक्ष्यामि किमहं तदा ॥ २।१२।६६ ॥ | 2.12.66aपरिप्रक्ष्यन्ति काकुत्स्थं वक्ष्यामि किमहं तदा। | |
| 180 | #66bಕೈಕೇಯ್ಯಾ ಕ್ಲಿಶ್ಯಮಾನೇನ ಪುತ್ರಃ ಪ್ರವ್ರಾಜಿತೋ ಮಯಾ ॥ | 2.12.66bकैकेय्या क्लिश्यमानेन पुत्रः प्रव्राजितो मया ॥ ६६ ॥ | 2.12.67aकैकेय्या क्लिश्यमानेन पुत्रः प्रव्राजितो मया । | 2.12.67aकैकेय्या क्लिश्यमानेन पुत्रः प्रव्राजितो मया। | 2.12.67aकैकेय्या क्लिश्यमानेन पुत्रः प्रव्राजितो मया । | 2.12.66bकैकेय्या क्लिश्यमानेन रामः प्रव्राजितो मया॥2.12.66॥ | |
| 181 | #67aಯದಿ ಸತ್ಯಂ ಬ್ರವೀಮ್ಯೇತತ್ತದಸತ್ಯಂ ಭವಿಷ್ಯತಿ । | 2.12.67aयदि सत्यं ब्रवीम्येतत् तदसत्यं भविष्यति । | 2.12.67bयदि सत्यं ब्रवीम्येतत्तदसत्यं भविष्यति ॥ 2.12.67 ॥ | 2.12.67bयदि सत्यं ब्रवीम्येतत्तदसत्यं भविष्यति ॥ 2.12.67 ॥ | 2.12.67bयदि सत्यं ब्रवीम्येतत्तदसत्यं भविष्यति ॥ २।१२।६७ ॥ | 2.12.67aयदि सत्यं ब्रवीम्येतत्तदसत्यं भविष्यति। | |
| 182 | #67bಕಿಂ ಮಾಂ ವಕ್ಷ್ಯತಿ ಕೌಸಲ್ಯಾ ರಾಘವೇ ವನಮಾಸ್ಥಿತೇ ॥ | 2.12.67bकिं मां वक्ष्यति कौसल्या राघवे वनमास्थिते ॥ ६७ ॥ | 2.12.68aकिं मां वक्ष्यति कौसल्या राघवे वनमास्थिते । | 2.12.68aकिं मां वक्ष्यति कौसल्या राघवे वनमास्थिते। | 2.12.68aकिं मां वक्ष्यति कौसल्या राघवे वनमास्थिते । | 2.12.67bकिं मां वक्ष्यति कौशल्या राघवे वनमास्थिते॥2.12.67॥ | |
| 183 | #68aಕಿಂ ಚೈನಾಂ ಪ್ರತಿವಕ್ಷ್ಯಾಮಿ ಕೃತ್ವಾ ವಿಪ್ರಿಯಮೀದೃಶಮ್ । | 2.12.68aकिं चैनां प्रतिवक्ष्यामि कृत्वा विप्रियमीदृशम् । | 2.12.68bकिञ्चैनां प्रतिवक्ष्यामि कृत्वा विप्रियमीदृशम् ॥ 2.12.68 ॥ | 2.12.68bकिञ्चैनां प्रतिवक्ष्यामि कृत्वा विप्रियमीदृशम् ॥ 2.12.68 ॥ | 2.12.68bकिञ्चैनां प्रतिवक्ष्यामि कृत्वा विप्रियमीदृशम् ॥ २।१२।६८ ॥ | 2.12.68aकिं चैनां प्रतिवक्ष्यामि कृत्वा विप्रियमीदृशम्। | |
| 184 | #68bಯದಾ ಯದಾ ಚ ಕೌಸಲ್ಯಾ ದಾಸೀವ ಚ ಸಖೀವ ಚ ॥ | 2.12.68bयदा यदा च कौसल्या दासीव च सखीव च ॥ ६८ ॥ | 2.12.69aयदा यदा हि कौसल्या दासीवच्च सखीव च । | 2.12.69aयदा यदा हि कौसल्या दासीवच्च सखीव च। | 2.12.69aयदा यदा हि कौसल्या दासीवच्च सखीव च । | 2.12.68bयदा यदा हि कौशल्या दासीवच्च सखीव च॥2.12.68॥ | |
| 185 | #69aಭಾರ್ಯಾವದ್ ಭಗಿನೀವಚ್ಚ ಮಾತೃವಚ್ಚೋಪತಿಷ್ಠತಿ । | 2.12.69aभार्यावद् भगिनीवच्च मातृवच्चोपतिष्ठति । | 2.12.69bभार्यावद्भगिनीवच्च मातृवच्चोपतिष्ठति ॥ 2.12.69 ॥ | 2.12.69bभार्यावद्भगिनीवच्च मातृवच्चोपतिष्ठति ॥ 2.12.69 ॥ | 2.12.69bभार्यावद्भगिनीवच्च मातृवच्चोपतिष्ठति ॥ २।१२।६९ ॥ | 2.12.69aभार्यावद्भगिनीवच्च मातृवच्चोपतिष्ठति। | |
| 186 | #69bಸತತಂ ಪ್ರಿಯಕಾಮಾ ಮೇ ಪ್ರಿಯಪುತ್ರಾ ಪ್ರಿಯಂವದಾ ॥ | 2.12.69bसततं प्रियकामा मे प्रियपुत्रा प्रियंवदा ॥ ६९ ॥ | 2.12.70aसततं प्रियकामा मे प्रियपुत्रा प्रियंवदा । | 2.12.70aसततं प्रियकामा मे प्रियपुत्रा प्रियंवदा। | 2.12.70aसततं प्रियकामा मे प्रियपुत्रा प्रियंवदा । | 2.12.69bसततं प्रियकामा मे प्रियपुत्रा प्रियंवदा॥2.12.69॥ | |
| 187 | #70aನ ಮಯಾ ಸತ್ಕೃತಾ ದೇವೀ ಸತ್ಕಾರಾರ್ಹ ಕೃತೇ ತವ । | 2.12.70aन मया सत्कृता देवी सत्कारार्हा कृते तव । | 2.12.70bन मया सत्कृता देवी सत्कारार्हा कृते तव ॥ 2.12.70 ॥ | 2.12.70bन मया सत्कृता देवी सत्कारार्हा कृते तव ॥ 2.12.70 ॥ | 2.12.70bन मया सत्कृता देवी सत्कारार्हा कृते तव ॥ २।१२।७० ॥ | 2.12.70aन मया सत्कृता देवी सत्कारार्हा कृते तव। | |
| 188 | 2.12.6970aयदेत्यादि श्लोकद्वयमेकान्वयम् । | ||||||
| 189 | 2.12.6970bयदा यदा उपतिष्ठति तत्तदुचितकृत्येनोपस्ते तदातदा सत्कारार्हा तव कृते न सत्कृता । | ||||||
| 190 | 2.12.6970cतव विप्रियं भविष्यतीति सा न सत्कृतेत्यर्थः । | ||||||
| 191 | 2.12.6970dपरिचर्याकाले दासीवत्परिचरति न महिषीत्वं पुरस्करोति । | ||||||
| 192 | 2.12.6970eद्यूतक्रीडादिसमये सखीव व्यवहरति । | 2.12.6970aद्यूतक्रीडादिसमये सखीव व्यवहरति । | |||||
| 193 | 2.12.6970fधर्मानुष्ठानसमये भार्यावत् भार्य्यया यथा वर्तितव्यं तथा वर्तते न तु महिषीत्वाभिमानेन जोषमास्त इत्यर्थः । | 2.12.6970bधर्मानुष्ठानसमये भार्यावत् भार्य्यया यथा वर्तितव्यं तथा वर्तते न तु महिषीत्वाभिमानेन जोषमास्त इत्यर्थः । | |||||
| 194 | 2.12.6970gभार्य्यान्तरविवाहसमये भगिनीवत् सोदरीव । | 2.12.6970cभार्य्यान्तरविवाहसमये भगिनीवत् सोदरीव । | |||||
| 195 | 2.12.6970hउपलालयति शरीरपोषणादिदशायां मातृवद्धितपरा तिष्ठतीति भावः ॥ 2.12.6970 ॥ | 2.12.6970dउपलालयति शरीरपोषणादिदशायां मातृवद्धितपरा तिष्ठतीति भावः ॥ २।१२।६९७० ॥ | |||||
| 196 | #70bಇದಾನೀಂ ತತ್ತಪತಿ ಮಾಂ ಯನ್ಮಯಾ ಸುಕೃತಂ ತ್ವಯಿ ॥ | 2.12.70bइदानीं तत्तपति मां यन्मया सुकृतं त्वयि ॥ ७० ॥ | 2.12.71aइदानीं तत्तपति मां यन्मया सुकृतं त्वयि । | 2.12.71aइदानीं तत्तपति मां यन्मया सुकृतं त्वयि। | 2.12.71aइदानीं तत्तपति मां यन्मया सुकृतं त्वयि । | 2.12.70bइदानीं तत्तपति मां यन्मया सुकृतं त्वयि॥2.12.70॥ | |
| 197 | #71aಅಪಥ್ಯವ್ಯಂಜನೋಪೇತಂ ಭುಕ್ತಮನ್ನಮಿವಾತುರಮ್ । | 2.12.71aअपथ्यव्यञ्जनोपेतं भुक्तमन्नमिवातुरम् । | 2.12.71bअपथ्यव्यञ्जनोपेतं भुक्तमन्नमिवातुरम् ॥ 2.12.71 ॥ | 2.12.71bअपथ्यव्यञ्जनोपेतं भुक्तमन्नमिवातुरम् ॥ 2.12.71 ॥ | 2.12.71bअपथ्यव्यञ्जनोपेतं भुक्तमन्नमिवातुरम् ॥ २।१२।७१ ॥ | 2.12.71aअपथ्यव्यञ्जनोपेतं भुक्तमन्नमिवातुरम्। | |
| 198 | #71bವಿಪ್ರಕಾರಂ ಚ ರಾಮಸ್ಯ ಸಂಪ್ರಯಾಣಂ ವನಸ್ಯ ಚ ॥ | 2.12.71bविप्रकारं च रामस्य सम्प्रयाणं वनस्य च ॥ ७१ ॥ | 2.12.72aविप्रकारं च रामस्य सम्प्रयाणं वनस्य च । | 2.12.72aविप्रकारं च रामस्य सम्प्रयाणं वनस्य च। | 2.12.72aविप्रकारं च रामस्य सम्प्रयाणं वनस्य च । | 2.12.71bविप्रकारं च रामस्य सम्प्रयाणं वनस्य च॥2.12.71॥ | |
| 199 | #72aಸುಮಿತ್ರಾ ಪ್ರೇಕ್ಷ್ಯ ವೈ ಭೀತಾ ಕಥಂ ಮೇ ವಿಶ್ವಸಿಷ್ಯತಿ । | 2.12.72aसुमित्रा प्रेक्ष्य वै भीता कथं मे विश्वसिष्यति । | 2.12.72bसुमित्रा प्रेक्ष्य वै भीता कथं मे विश्वसिष्यति ॥ 2.12.72 ॥ | 2.12.72bसुमित्रा प्रेक्ष्य वै भीता कथं मे विश्वसिष्यति ॥ 2.12.72 ॥ | 2.12.72bसुमित्रा प्रेक्ष्य वै भीता कथं मे विश्वसिष्यति ॥ २।१२।७२ ॥ | 2.12.72aसुमित्रा प्रेक्ष्य वै भीता कथं मे विश्वसिष्यति। | |
| 200 | #72bಕೃಪಣಂ ಬತ ವೈದೇಹೀ ಶ್ರೋಷತಿ ದ್ವಯಮಪ್ರಿಯಮ್ ॥ | 2.12.72bकृपणं बत वैदेही श्रोष्यति द्वयमप्रियम् ॥ ७२ ॥ | 2.12.73aकृपणं बत वैदेही श्रोष्यति द्वयमप्रियम् । | 2.12.73aकृपणं बत वैदेही श्रोष्यति द्वयमप्रियम्। | 2.12.73aकृपणं बत वैदेही श्रोष्यति द्वयमप्रियम् । | 2.12.72bकृपणं बत वैदेही श्रोष्यति द्वयमप्रियम्॥2.12.72॥ | |
| 201 | #73aಮಾಂ ಚ ಪಂಚತ್ವಮಾಪನ್ನಂ ರಾಮಂ ಚ ವನಮಾಶ್ರಿತಮ್ । | 2.12.73aमां च पञ्चत्वमापन्नं रामं च वनमाश्रितम् । | 2.12.73bमां च पञ्चत्वमापन्नं रामं च वनमाश्रितम् ॥ 2.12.73 ॥ | 2.12.73bमां च पञ्चत्वमापन्नं रामं च वनमाश्रितम् ॥ 2.12.73 ॥ | 2.12.73bमां च पञ्चत्वमापन्नं रामं च वनमाश्रितम् ॥ २।१२।७३ ॥ | 2.12.73aमां च पञ्चत्वमापन्नं रामं च वनमाश्रितम्। | |
| 202 | #73bವೈದೇಹೀ ಬತ ಮೇ ಪ್ರಾಣಾನ್ ಶೋಚಂತೀ ಕ್ಷಪಯಿಷ್ಯತಿ ॥ | 2.12.73bवैदेही बत मे प्राणान् शोचन्ती क्षपयिष्यति ॥ ७३ ॥ | 2.12.74aवैदेही बत मे प्राणान् शोचन्ती क्षपयिष्यति । | 2.12.74aवैदेही बत मे प्राणान् शोचन्ती क्षपयिष्यति। | 2.12.74aवैदेही बत मे प्राणान् शोचन्ती क्षपयिष्यति । | 2.12.73bवैदेही बत मे प्राणान्शोचन्ती क्षपयिष्यति॥2.12.73॥ | |
| 203 | #74aಹೀನಾ ಹಿಮವತಃ ಪಾರ್ಶ್ವೇ ಕಿನ್ನರೇಣೇವ ಕಿನ್ನರೀ । | 2.12.74aहीना हिमवतः पार्श्वे किन्नरेणेव किन्नरी । | 2.12.74bहीना हिमवतः पार्श्वे किन्नरेणेव किन्नरी ॥ 2.12.74 ॥ | 2.12.74bहीना हिमवतः पार्श्वे किन्नरेणेव किन्नरी ॥ 2.12.74 ॥ | 2.12.74bहीना हिमवतः पार्श्वे किन्नरेणेव किन्नरी ॥ २।१२।७४ ॥ | 2.12.74aहीना हिमवतः पार्श्वे किन्नरेणेव किन्नरी। | |
| 204 | #74bನ ಹಿ ರಾಮಮಹಂ ದೃಷ್ಟ್ವಾ ಪ್ರವಸಂತಂಮಹಾವನೇ ॥ | 2.12.74bनहि राममहं दृष्ट्वा प्रवसन्तं महावने ॥ ७४ ॥ | 2.12.75aन हि राममहं दृष्ट्वा प्रविशन्तं महावने । | 2.12.75aन हि राममहं दृष्ट्वा प्रविशन्तं महावने। | 2.12.75aन हि राममहं दृष्ट्वा प्रविशन्तं महावने । | 2.12.74bन हि राममहं दृष्ट्वा प्रवसन्तं महावने॥2.12.74॥ | |
| 205 | #75aಚಿರಂ ಜೀವಿತುಮಾಶಂಸೇ ರುದಂತೀಂ ಚಾಪಿಮೈಥಿಲೀಮ್ । | 2.12.75aचिरं जीवितुमाशंसे रुदन्तीं चापि मैथिलीम् । | 2.12.75bचिरं जीवितुमाशंसे रुदन्तीं चापि मैथिलीम् ॥ 2.12.75 ॥ | 2.12.75bचिरं जीवितुमाशंसे रुदन्तीं चापि मैथिलीम् ॥ 2.12.75 ॥ | 2.12.75bचिरं जीवितुमाशंसे रुदन्तीं चापि मैथिलीम् ॥ २।१२।७५ ॥ | 2.12.75aचिरं जीवितुमाशंसे रुदन्तीं चापि मैथिलीम्। | |
| 206 | #75bಸಾ ನೂನಂ ವಿಧವಾ ರಾಜ್ಯಂ ಸು ಪುತ್ರಾ ಕಾರಯಿಷ್ಯಸಿ ॥ | 2.12.75bसा नूनं विधवा राज्यं सपुत्रा कारयिष्यसि ॥ ७५ ॥ | 2.12.76aसा नूनं विधवा राज्यं सपुत्रा कारयिष्यसि । | 2.12.76aसा नूनं विधवा राज्यं सपुत्रा कारयिष्यसि। | 2.12.76aसा नूनं विधवा राज्यं सपुत्रा कारयिष्यसि । | 2.12.75bसा नूनं विधवा राज्यं सपुत्रा कारयिष्यसि॥2.12.75॥ | |
| 207 | 2.12.76bन हि प्रव्राजिते रामे देवि जीवितुमुत्सहे ॥ 2.12.76 ॥ | 2.12.76bन हि प्रव्राजिते रामे देवि जीवितुमुत्सहे ॥ 2.12.76 ॥ | 2.12.76bन हि प्रव्राजिते रामे देवि जीवितुमुत्सहे ॥ २।१२।७६ ॥ | 2.12.76aन हि प्रव्राजिते रामे देवि जीवितुमुत्सहे। | |||
| 208 | 2.12.7376aकृपणमिति । | ||||||
| 209 | 2.12.7376bश्रोष्यतीति यत् तत् कृपणं कष्टम् बतेति योजना ॥ 2.12.7376 ॥ | ||||||
| 210 | #76aಸತೀಂ ತ್ವಾಮಹಮತ್ಯಂತಂ ವ್ಯವಸ್ಯಾಮ್ಯಸತೀಂ ಸತೀಮ್ । | 2.12.76aसतीं त्वामहमत्यन्तं व्यवस्याम्यसतीं सतीम् । | 2.12.77aसतीं त्वामहमत्यन्तं व्यवस्याम्यसतीं सतीम् । | 2.12.77aसतीं त्वामहमत्यन्तं व्यवस्याम्यसतीं सतीम्। | 2.12.77aसतीं त्वामहमत्यन्तं व्यवस्याम्यसतीं सतीम् । | 2.12.76bसतीं त्वामहमत्यन्तं व्यवस्याम्यसतीं सतीम्। | |
| 211 | #76bರೂಪಿಣೀಂ ವಿಷಸಂಯುಕ್ತಾಂ ಪೀತ್ವೇವ ಮದಿರಾಂ ನರಃ ॥ | 2.12.76bरूपिणीं विषसंयुक्तां पीत्वेव मदिरां नरः ॥ ७६ ॥ | 2.12.77bरूपिणीं विषसंयुक्तां पीत्वेव मदिरां नरः ॥ 2.12.77 ॥ | 2.12.77bरूपिणीं विषसंयुक्तां पीत्वेव मदिरां नरः ॥ 2.12.77 ॥ | 2.12.77bरूपिणीं विषसंयुक्तां पीत्वेव मदिरां नरः ॥ २।१२।७७ ॥ | 2.12.76cरूपिणीं विषसंयुक्तां पीत्वेव मदिरां नरः॥2.12.76॥ | |
| 212 | #77aಅನೃತೈರ್ಬಹು ಮಾಂ ಸಾಂತ್ವೈಃ ಸಾಂತ್ವಯಂತೀ ಸ್ಮ ಭಾಷಸೇ । | 2.12.77aअनृतैर्बत मां सान्त्वैः सान्त्वयन्ती स्म भाषसे । | 2.12.78aअनृतैर्बहु मां सान्त्वैः सान्त्वयन्ती स्म भाषसे । | 2.12.78aअनृतैर्बहु मां सान्त्वैः सान्त्वयन्ती स्म भाषसे। | 2.12.78aअनृतैर्बहु मां सान्त्वैः सान्त्वयन्ती स्म भाषसे । | 2.12.77aअनृतैर्बहु मां सान्त्वैस् सान्त्वयन्ती स्म भाषसे। | |
| 213 | #77bಗೀತಶಬ್ದೇನಸಂರುಧ್ಯ ಲುಬ್ಧೋ ಮೃಗಮಿವಾವಧೀಃ ॥ | 2.12.77bगीतशब्देन संरुध्य लुब्धो मृगमिवावधीः ॥ ७७ ॥ | 2.12.78bगीतशब्देन संरुद्ध्य लुब्धो मृगमिवावधीः ॥ 2.12.78 ॥ | 2.12.78bगीतशब्देन संरुद्ध्य लुब्धो मृगमिवावधीः ॥ 2.12.78 ॥ | 2.12.78bगीतशब्देन संरुद्ध्य लुब्धो मृगमिवावधीः ॥ २।१२।७८ ॥ | 2.12.77bगीतशब्देन संरुध्य लुब्धो मृगमिवावधीः॥2.12.77॥ | |
| 214 | #78aಅನಾರ್ಯ ಇತಿ ಮಾಮಾರ್ಯಾಃ ಪುತ್ರವಿಕ್ರಾಯಕಂ ಧ್ರುವಮ್ । | 2.12.78aअनार्य इति मामार्याः पुत्रविक्रायकं ध्रुवम् । | 2.12.79aअनार्य इति मामार्याः पुत्रविक्रायिकं ध्रुवम् । | 2.12.79aअनार्य इति मामार्याः पुत्रविक्रायिकं ध्रुवम्। | 2.12.79aअनार्य इति मामार्याः पुत्रविक्रायिकं ध्रुवम् । | 2.12.78aअनार्य इति मामार्याः पुत्रविक्रायकं ध्रुवम्। | |
| 215 | #78bವಿಕರಿಷ್ಯಂತಿ ರಥ್ಯಾಸುಸುರಾಪಂ ಬ್ರಾಹ್ಮಣಂ ಯಥಾ ॥ | 2.12.78bविकरिष्यन्ति रथ्यासु सुरापं ब्राह्मणं यथा ॥ ७८ ॥ | 2.12.79bधिक्करिष्यन्ति रथ्यासु सुरापं ब्राह्मणं यथा ॥ 2.12.79 ॥ | 2.12.79bधिक्करिष्यन्ति रथ्यासु सुरापं ब्राह्मणं यथा ॥ 2.12.79 ॥ | 2.12.79bधिक्करिष्यन्ति रथ्यासु सुरापं ब्राह्मणं यथा ॥ २।१२।७९ ॥ | 2.12.78bधिक्करिष्यन्ति रथ्यासु सुरापं ब्राह्मणं यथा॥2.12.78॥ | |
| 216 | #79aಅಹೋ ದುಃಖಮಹೋ ಕೃಚ್ಛ್ರಂ ಯತ್ರ ವಾಚಃ ಕ್ಷಮೇ ತವ । | 2.12.79aअहो दुःखमहो कृच्छ्रं यत्र वाचः क्षमे तव । | 2.12.80aअहो दुःखमहो कृच्छ्रं यत्र वाचः क्षमे तव । | 2.12.80aअहो दुःखमहो कृच्छ्रं यत्र वाचः क्षमे तव। | 2.12.80aअहो दुःखमहो कृच्छ्रं यत्र वाचः क्षमे तव । | 2.12.79aअहो दुःखमहो कृच्छ्रं यत्र वाचः क्षमे तव। | |
| 217 | #79bದುಃಖಮೇವಂವಿಧಂ ಪ್ರಾಪ್ತಂ ಪುರಾ ಕೃತಮಿವಾಶುಭಮ್ ॥ | 2.12.79bदुःखमेवंविधं प्राप्तं पुरा कृतमिवाशुभम् ॥ ७९ ॥ | 2.12.80bदुःखमेवंविधं प्राप्तं पुराकृतमिवाशुभम् ॥ 2.12.80 ॥ | 2.12.80bदुःखमेवंविधं प्राप्तं पुराकृतमिवाशुभम् ॥ 2.12.80 ॥ | 2.12.80bदुःखमेवंविधं प्राप्तं पुराकृतमिवाशुभम् ॥ २।१२।८० ॥ | 2.12.79bदुःखमेवंविधं प्राप्तं पुराकृतमिवाशुभम्॥2.12.79॥ | |
| 218 | #80aಚಿರಂ ಖಲು ಮಯಾ ಪಾಪೇ ತ್ವಂ ಪಾಪೇನಾಭಿರಕ್ಷಿತಾ । | 2.12.80aचिरं खलु मया पापे त्वं पापेनाभिरक्षिता । | 2.12.81aचिरं खलु मया पापे त्वं पापेनाभिरक्षिता । | 2.12.81aचिरं खलु मया पापे त्वं पापेनाभिरक्षिता। | 2.12.81aचिरं खलु मया पापे त्वं पापेनाभिरक्षिता । | 2.12.80aचिरं खलु मया पापे त्वं पापेनाभिरक्षिता। | |
| 219 | #80bಅಜ್ಞಾನಾದುಪಸಂಪನ್ನಾ ರಜ್ಜುರುದ್ಬಂಧನೀ ಯಥಾ ॥ | 2.12.80bअज्ञानादुपसम्पन्ना रज्जुरुद्बन्धनी यथा ॥ ८० ॥ | 2.12.81bअज्ञानादुपसम्पन्ना रज्जुरुद्बन्धिनी यथा ॥ 2.12.81 ॥ | 2.12.81bअज्ञानादुपसम्पन्ना रज्जुरुद्बन्धिनी यथा ॥ 2.12.81 ॥ | 2.12.81bअज्ञानादुपसम्पन्ना रज्जुरुद्बन्धिनी यथा ॥ २।१२।८१ ॥ | 2.12.80bअज्ञानादुपसम्पन्ना रज्जुरुद्बन्धिनी यथा॥2.12.80॥ | |
| 220 | #81aರಮಮಾಣಸ್ತ್ವಯಾ ಸಾರ್ಧಂ ಮೃತ್ಯುಂ ತ್ವಾಂ ನಾಭಿಲಕ್ಷಯೇ । | 2.12.81aरममाणस्त्वया सार्धं मृत्युं त्वां नाभिलक्षये । | 2.12.82aरममाणस्त्वया सार्द्धं मृत्युं त्वां नाभिलक्षये । | 2.12.82aरममाणस्त्वया सार्द्धं मृत्युं त्वां नाभिलक्षये। | 2.12.82aरममाणस्त्वया सार्द्धं मृत्युं त्वां नाभिलक्षये । | 2.12.81aरममाणस्त्वया सार्धं मृत्युं त्वां नाभिलक्षये। | |
| 221 | #81bಬಾಲೋರಹಸಿ ಹಸ್ತೇನ ಕೃಷ್ಣಸರ್ಪಮಿವಾಸ್ಪೃಶಮ್ ॥ | 2.12.81bबालो रहसि हस्तेन कृष्णसर्पमिवास्पृशम् ॥ ८१ ॥ | 2.12.82bबालो रहसि हस्तेन कृष्णसर्पमिवास्पृशम् ॥ 2.12.82 ॥ | 2.12.82bबालो रहसि हस्तेन कृष्णसर्पमिवास्पृशम् ॥ 2.12.82 ॥ | 2.12.82bबालो रहसि हस्तेन कृष्णसर्पमिवास्पृशम् ॥ २।१२।८२ ॥ | 2.12.81bबालो रहसि हस्तेन कृष्णसर्पमिवास्पृशम्॥2.12.81॥ | |
| 222 | 2.12.83aमया ह्यपितृकः पुत्रः स महात्मा दुरात्मना । | 2.12.83aमया ह्यपितृकः पुत्रः स महात्मा दुरात्मना। | 2.12.83aमया ह्यपितृकः पुत्रः स महात्मा दुरात्मना । | 2.12.82aमया ह्यपितृकः पुत्रस् समहात्मा दुरात्मना। | |||
| 223 | #82aತಂ ತು ಮಾಂ ಜೀವಲೋಕೋಯಂ ನೂನಮಾಕ್ರೋಷ್ಟುಮರ್ಹತಿ । | 2.12.82aतं तु मां जीवलोकोऽयं नूनमाक्रोष्टुमर्हति । | 2.12.83bतं तु मां जीव लोको ऽयं नूनमाक्रोष्टुमर्हति ॥ 2.12.83 ॥ | 2.12.83bतं तु मां जीव लोकोऽयं नूनमाक्रोष्टुमर्हति ॥ 2.12.83 ॥ | 2.12.83bतं तु मां जीव लोको ऽयं नूनमाक्रोष्टुमर्हति ॥ २।१२।८३ ॥ | 2.12.82bतं तु मां जीवलोकोऽयं नूनमाक्रोष्टुमर्हति॥2.12.82॥ | |
| 224 | #82bಮಯಾ ಹ್ಯಪಿತೃಕಃ ಪುತ್ರಃ ಸ ಮಹಾತ್ಮಾ ದುರಾತ್ಮನಾ ॥ | 2.12.82bमया ह्यपितृकः पुत्रः स महात्मा दुरात्मना ॥ ८२ ॥ | |||||
| 225 | #83aಬಾಲಿಶೋ ಬತ ಕಾಮಾತ್ಮಾ ರಾಜಾ ದಶರಥೋ ಭೃಶಮ್ । | 2.12.83aबालिशो बत कामात्मा राजा दशरथो भृशम् । | 2.12.84aबालिशो बत कामात्मा राजा दशरथो भृशम् । | 2.12.84aबालिशो बत कामात्मा राजा दशरथो भृशम्। | 2.12.84aबालिशो बत कामात्मा राजा दशरथो भृशम् । | 2.12.83aबालिशो बत कामात्मा राजा दशरथो भृशम्। | |
| 226 | #83bಸೀಕೃತೇ ಯಃ ಪ್ರಿಯಂ ಪುತ್ರಂ ವನಂ ಪ್ರಸ್ಥಾಪಯಿಷ್ಯತಿ ॥ | 2.12.83bस्त्रीकृते यः प्रियं पुत्रं वनं प्रस्थापयिष्यति ॥ ८३ ॥ | 2.12.84bस्त्रीकृते यः प्रियं पुत्रं वनं प्रस्थापयिष्यति ॥ 2.12.84 ॥ | 2.12.84bस्त्रीकृते यः प्रियं पुत्रं वनं प्रस्थापयिष्यति ॥ 2.12.84 ॥ | 2.12.84bस्त्रीकृते यः प्रियं पुत्रं वनं प्रस्थापयिष्यति ॥ २।१२।८४ ॥ | 2.12.83bयः स्त्रीकृते प्रियं पुत्रं वनं प्रस्थापयिष्यति॥2.12.83॥ | |
| 227 | #84aವೇದೈಶ್ಚ ಬ್ರಹ್ಮಚರ್ಯೈಶ್ಚ ಗುರುಭಿಶ್ಚೋಪಕರ್ಶಿತಃ । | 2.12.84aवेदैश्च ब्रह्मचर्यैश्च गुरुभिश्चोपकर्शितः । | 2.12.85aव्रतैश्च ब्रह्मचर्यैश्चगुरुभिश्चोपकर्शितः । | 2.12.85aव्रतैश्च ब्रह्मचर्यैश्चगुरुभिश्चोपकर्शितः। | 2.12.85aव्रतैश्च ब्रह्मचर्यैश्चगुरुभिश्चोपकर्शितः । | 2.12.84aव्रतैश्च ब्रह्मचर्यैश्च गुरुभिश्चोपकर्शितः। | |
| 228 | #84bಭೋಗಕಾಲೇ ಮಹತ್ಕೃಚ್ಛ್ರಂ ಪುನರೇವ ಪ್ರಪತ್ಸ್ಯತೇ ॥ | 2.12.84bभोगकाले महत्कृच्छ्रं पुनरेव प्रपत्स्यते ॥ ८४ ॥ | 2.12.85bभोगकाले महत्कृच्छ्रं पुनरेव प्रपत्स्यते ॥ 2.12.85 ॥ | 2.12.85bभोगकाले महत्कृच्छ्रं पुनरेव प्रपत्स्यते ॥ 2.12.85 ॥ | 2.12.85bभोगकाले महत्कृच्छ्रं पुनरेव प्रपत्स्यते ॥ २।१२।८५ ॥ | 2.12.84bभोगकाले महत्कृच्छ्रं पुनरेव प्रपत्स्यते॥2.12.84॥ | |
| 229 | #85aನಾಲಂ ದ್ವಿತೀಯಂ ವಚನಂ ಪುತ್ರೋ ಮಾಂ ಪ್ರತಿಭಾಷಿತುಮ್ । | 2.12.85aनालं द्वितीयं वचनं पुत्रो मां प्रतिभाषितुम् । | 2.12.86aनालं द्वितीयं वचनं पुत्रो मां प्रतिभाषितुम् । | 2.12.86aनालं द्वितीयं वचनं पुत्रो मां प्रतिभाषितुम्। | 2.12.86aनालं द्वितीयं वचनं पुत्रो मां प्रतिभाषितुम् । | 2.12.85aनालं द्वितीयं वचनं पुत्रो मां प्रतिभाषितुम्। | |
| 230 | #85bಸವನಂ ಪ್ರವ್ರಜೇತ್ಯುಕ್ತೋ ಬಾಢಮಿತ್ಯೇವ ವಕ್ಷ್ಯತಿ ॥ | 2.12.85bस वनं प्रव्रजेत्युक्तो बाढमित्येव वक्ष्यति ॥ ८५ ॥ | 2.12.86bस वनं प्रव्रजेत्युक्तो बाढमित्येव वक्ष्यति ॥ 2.12.86 ॥ | 2.12.86bस वनं प्रव्रजेत्युक्तो बाढमित्येव वक्ष्यति ॥ 2.12.86 ॥ | 2.12.86bस वनं प्रव्रजेत्युक्तो बाढमित्येव वक्ष्यति ॥ २।१२।८६ ॥ | 2.12.85bस वनं प्रव्रजेत्युक्तो बाढमित्येव वक्ष्यति॥2.12.85॥ | |
| 231 | #86aಯದಿ ಮೇ ರಾಘವಃ ಕುರ್ಯಾದ್ ವನಂ ಗಚ್ಛೇತಿ ಜೋದಿತಃ । | 2.12.86aयदि मे राघवः कुर्याद् वनं गच्छेति चोदितः । | 2.12.87aयदि मे राघवः कुर्याद्वनं गच्छेति चोदितः । | 2.12.87aयदि मे राघवः कुर्याद्वनं गच्छेति चोदितः। | 2.12.87aयदि मे राघवः कुर्याद्वनं गच्छेति चोदितः । | 2.12.86aयदि मे राघवः कुर्याद्वनं गच्छेति चोदितः। | |
| 232 | #86bಪ್ರತಿಕೂಲಂ ಪ್ರಿಯಂ ಮೇ ಸ್ಯಾನ್ನ ತು ವತ್ಸಃ ಕರಿಷ್ಯತಿ ॥ | 2.12.86bप्रतिकूलं प्रियं मे स्यान्न तु वत्सः करिष्यति ॥ ८६ ॥ | 2.12.87bप्रतिकूलं प्रियं मे स्यान्न तु वत्सः करिष्यति ॥ 2.12.87 ॥ | 2.12.87bप्रतिकूलं प्रियं मे स्यान्न तु वत्सः करिष्यति ॥ 2.12.87 ॥ | 2.12.87bप्रतिकूलं प्रियं मे स्यान्न तु वत्सः करिष्यति ॥ २।१२।८७ ॥ | 2.12.86bप्रतिकूलं प्रियं मे स्यान्न तु वत्सः करिष्यति॥2.12.86॥ | |
| 233 | 2.12.88aशुद्धभावो हि भावं मे न तु ज्ञास्यति राघवः । | 2.12.88aशुद्धभावो हि भावं मे न तु ज्ञास्यति राघवः। | 2.12.88aशुद्धभावो हि भावं मे न तु ज्ञास्यति राघवः । | 2.12.87शुद्धभावो हि भावं मे न तु ज्ञास्यति राघवः॥2.12.87॥ | |||
| 234 | 2.12.88bस वनं प्रव्रजेत्युक्तो बाढमित्येव वक्ष्यति ॥ 2.12.88 ॥ | 2.12.88bस वनं प्रव्रजेत्युक्तो बाढमित्येव वक्ष्यति ॥ 2.12.88 ॥ | 2.12.88bस वनं प्रव्रजेत्युक्तो बाढमित्येव वक्ष्यति ॥ २।१२।८८ ॥ | 2.12.88aस वनं प्रब्रजे त्युक्तो बाढ मित्येव वक्षयति। | |||
| 235 | #87aರಾಘವೇ ಹಿ ವನಂ ಪ್ರಾಪ್ತೇ ಸರ್ವಲೋಕಸ್ಯಧಿಕ್ಕೃತಮ್ । | 2.12.87aराघवे हि वनं प्राप्ते सर्वलोकस्य धिक्कृतम् । | 2.12.89aराघवे हि वनं प्राप्ते सर्वलोकस्य धिक्कृतम् । | 2.12.89aराघवे हि वनं प्राप्ते सर्वलोकस्य धिक्कृतम्। | 2.12.89aराघवे हि वनं प्राप्ते सर्वलोकस्य धिक्कृतम् । | 2.12.88bराघवे हि वनं प्राप्ते सर्वलोकस्य धिक्कृतम्॥2.12.88॥ | |
| 236 | #87bಮೃತ್ಯುರಕ್ಷಮಣೀಯಂ ಮಾಂ ನಯಿಷ್ಯತಿ ಯಮಕ್ಷಯಮ್ ॥ | 2.12.87bमृत्युरक्षमणीयं मां नयिष्यति यमक्षयम् ॥ ८७ ॥ | 2.12.89bमृत्युरक्षमणीयं मां नयिष्यति यमक्षयम् ॥ 2.12.89 ॥ | 2.12.89bमृत्युरक्षमणीयं मां नयिष्यति यमक्षयम् ॥ 2.12.89 ॥ | 2.12.89bमृत्युरक्षमणीयं मां नयिष्यति यमक्षयम् ॥ २।१२।८९ ॥ | 2.12.89aमृत्युरक्षमणीयं मां नयिष्यति यमक्षयम्। | |
| 237 | #88aಮೃತೇ ಮಯಿ ಗತೇ ರಾಮೇ ವನಂ ಮನುಜಪುಂಗವೇ । | 2.12.88aमृते मयि गते रामे वनं मनुजपुङ्गवे । | 2.12.90aमृते मयि गते रामे वनं मनुजपुङ्गवे । | 2.12.90aमृते मयि गते रामे वनं मनुजपुङ्गवे। | 2.12.90aमृते मयि गते रामे वनं मनुजपुङ्गवे । | 2.12.89bमृते मयि गते रामे वनं मनुजपुङ्गवे॥2.12.89॥ | |
| 238 | #88bಇಷ್ಟೇ ಮಮ ಜನೇ ಶೇಷೇ ಕಿಂ ಪಾಪಂ ಪ್ರತಿಪತ್ಸ್ಯಸೇ ॥ | 2.12.88bइष्टे मम जने शेषे किं पापं प्रतिपत्स्यसे ॥ ८८ ॥ | 2.12.90bइष्टे मम जने शेषे किं पापं प्रतिपत्स्यसे ॥ 2.12.90 ॥ | 2.12.90bइष्टे मम जने शेषे किं पापं प्रतिपत्स्यसे ॥ 2.12.90 ॥ | 2.12.90bइष्टे मम जने शेषे किं पापं प्रतिपत्स्यसे ॥ २।१२।९० ॥ | 2.12.90aइष्टे मम जने शेषे किं पापं प्रतिपत्स्यसे। | |
| 239 | #89aಕೌಸಲ್ಯಾಂ ಮಾಂ ಚ ರಾಮಂ ಚ ಪುತ್ರೌ ಚ ಯದಿ ಹಾಸ್ಯತಿ । | 2.12.89aकौसल्या मां च रामं च पुत्रौ च यदि हास्यति । | 2.12.91aकौसल्यां मां च रामं च पुत्रौ च यदि हास्यति । | 2.12.91aकौसल्यां मां च रामं च पुत्रौ च यदि हास्यति। | 2.12.91aकौसल्यां मां च रामं च पुत्रौ च यदि हास्यति । | 2.12.90bकौशल्या मां च रामं च पुत्रौ च यदि हास्यति॥2.12.90॥ | |
| 240 | #89bದುಃಖಾನ್ಯಸಹತೀ ದೇವೀ ಮಾಮೇವಾನುಗಮಿಷ್ಯತಿ ॥ | 2.12.89bदुःखान्यसहती देवी मामेवानुगमिष्यति ॥ ८९ ॥ | 2.12.91bदुःखान्यसहती देवी मामेवानुमरिष्यति ॥ 2.12.91 ॥ | 2.12.91bदुःखान्यसहती देवी मामेवानुमरिष्यति ॥ 2.12.91 ॥ | 2.12.91bदुःखान्यसहती देवी मामेवानुमरिष्यति ॥ २।१२।९१ ॥ | 2.12.91aदुःखान्यसहती देवी मामेवानुमरिष्यति। | |
| 241 | #90aಕೌಸಲ್ಯಾಂ ಚ ಸುಮಿತ್ರಾಂ ಚ ಮಾಂ ಚ ಪುತ್ರೈಸ್ತ್ರಿಭಿಃ ಸಹ । | 2.12.90aकौसल्यां च सुमित्रां च मां च पुत्रैस्त्रिभिः सह । | 2.12.92aकौसल्यां च सुमित्रां च मां च पुत्रैस्त्रिभिः सह । | 2.12.92aकौसल्यां च सुमित्रां च मां च पुत्रैस्त्रिभिः सह। | 2.12.92aकौसल्यां च सुमित्रां च मां च पुत्रैस्त्रिभिः सह । | 2.12.91bकौसल्यां च सुमित्रां च मां च पुत्रैस्त्रिभिस्सह॥2.12.91॥ | |
| 242 | #90bಪ್ರಕ್ಷಿಪ್ಯ ನರಕೇ ಸಾ ತ್ವಂ ಕೈಕೇಯಿ ಸುಖಿತಾ ಭವ ॥ | 2.12.90bप्रक्षिप्य नरके सा त्वं कैकेयि सुखिता भव ॥ ९० ॥ | 2.12.92bप्रक्षिप्य नरके सा त्वं कैकेयि सुखिता भव ॥ 2.12.92 ॥ | 2.12.92bप्रक्षिप्य नरके सा त्वं कैकेयि सुखिता भव ॥ 2.12.92 ॥ | 2.12.92bप्रक्षिप्य नरके सा त्वं कैकेयि सुखिता भव ॥ २।१२।९२ ॥ | 2.12.92aप्रक्षिप्य नरके सा त्वं कैकेयि सुखिता भव। | |
| 243 | #91aಮಯಾ ರಾಮೇಣ ಚ ತ್ಯಕ್ತಂ ಶಾಶ್ವತಂ ಸತ್ಕೃತಂ ಗುಣೈಃ । | 2.12.91aमया रामेण च त्यक्तं शाश्वतं सत्कृतं गुणैः । | 2.12.93aमया रामेण च त्यक्तं शाश्वतं सत्कृतं गुणैः । | 2.12.93aमया रामेण च त्यक्तं शाश्वतं सत्कृतं गुणैः। | 2.12.93aमया रामेण च त्यक्तं शाश्वतं सत्कृतं गुणैः । | 2.12.92bमया रामेण च त्यक्तं शाश्वतं सत्कृतं गुणैः॥2.12.92॥ | |
| 244 | #91bಇಕ್ಷ್ವಾಕುಕುಲಮಕ್ಷೋಭ್ಯಮಾಕುಲಂ ಪಾಲಯಿಷ್ಯಸಿ ॥ | 2.12.91bइक्ष्वाकुकुलमक्षोभ्यमाकुलं पालयिष्यसि ॥ ९१ ॥ | 2.12.93bइक्ष्वाकुकुलमक्षोभ्यमाकुलं पालयिष्यसि ॥ 2.12.93 ॥ | 2.12.93bइक्ष्वाकुकुलमक्षोभ्यमाकुलं पालयिष्यसि ॥ 2.12.93 ॥ | 2.12.93bइक्ष्वाकुकुलमक्षोभ्यमाकुलं पालयिष्यसि ॥ २।१२।९३ ॥ | 2.12.93aइक्ष्वाकुकुलमक्षोभ्यमाकुलं पालयिष्यसि। | |
| 245 | #92aಪ್ರಿಯಂ ಚೇದ್ ಭರತಸ್ಯೈತದ್ ರಾಮಪ್ರವ್ರಾಜನಂ ಭವೇತ್ । | 2.12.92aप्रियं चेद् भरतस्यैतद् रामप्रव्राजनं भवेत् । | 2.12.94aप्रियं चेद्भ्ारतस्यैतद्रामप्रवाजनं भवेत् । | 2.12.94aप्रियं चेद्भ्ारतस्यैतद्रामप्रवाजनं भवेत्। | 2.12.94aप्रियं चेद्भ्ारतस्यैतद्रामप्रवाजनं भवेत् । | 2.12.93bप्रियं चेद्भरतस्यैतद्रामप्रव्राजनं भवेत्॥2.12.93॥ | |
| 246 | #92bಮಾ ಸ್ಮ ಮೇ ಭರತಃ ಕಾರ್ಷಿತ್ಪ್ರೇತಕೃತ್ಯಂ ಗತಾಯುಷಃ ॥ | 2.12.92bमा स्म मे भरतः कार्षीत् प्रेतकृत्यं गतायुषः ॥ ९२ ॥ | 2.12.94bमा स्म मे भरतः कार्षीत् प्रेतकृत्यं गतायुषः ॥ 2.12.94 ॥ | 2.12.94bमा स्म मे भरतः कार्षीत् प्रेतकृत्यं गतायुषः ॥ 2.12.94 ॥ | 2.12.94bमा स्म मे भरतः कार्षीत् प्रेतकृत्यं गतायुषः ॥ २।१२।९४ ॥ | 2.12.94aमा स्म मे भरतः कार्षीत्प्रेतकृत्यं गतायुषः। | |
| 247 | 2.12.95aहन्तानार्ये ममा मित्रे सकामा भव कैकयि । | 2.12.95aहन्तानार्ये ममा मित्रे सकामा भव कैकयि। | 2.12.95aहन्तानार्ये ममा मित्रे सकामा भव कैकयि । | 2.12.94bहन्तानार्ये ममामित्रे सकामा भव कैकयि॥2.12.94॥ | |||
| 248 | #93aಮೃತೇ ಮಯಿ ಗತೇ ರಾಮೇ ವನಂ ಪುರುಷಪುಂಗವೇ । | 2.12.93aमृते मयि गते रामे वनं पुरुषपुङ्गवे । | 2.12.95bमृते मयि गते रामे वनं पुरुषपुङ्गवे ॥ 2.12.95 ॥ | 2.12.95bमृते मयि गते रामे वनं पुरुषपुङ्गवे ॥ 2.12.95 ॥ | 2.12.95bमृते मयि गते रामे वनं पुरुषपुङ्गवे ॥ २।१२।९५ ॥ | 2.12.95aमृते मयि गते रामे वनं पुरुषपुङ्गवे। | |
| 249 | #93bಸೆದಾನೀಂ ವಿಧವಾ ರಾಜ್ಯಂ ಸಪುತ್ರಾ ಕಾರಯಿಷ್ಯಸಿ ॥ | 2.12.93bसेदानीं विधवा राज्यं सपुत्रा कारयिष्यसि ॥ ९३ ॥ | 2.12.96सेदानीं विधवा राज्यं सपुत्रा कारयिष्यसि ॥ 2.12.96 ॥ | 2.12.96सेदानीं विधवा राज्यं सपुत्रा कारयिष्यसि ॥ 2.12.96 ॥ | 2.12.96सेदानीं विधवा राज्यं सपुत्रा कारयिष्यसि ॥ २।१२।९६ ॥ | 2.12.95bसेदानीं विधवा राज्यं सपुत्रा कारयिष्यसि॥2.12.95॥ | |
| 250 | 2.12.9396aमयेति । | 2.12.9396aमयेति । | |||||
| 251 | 2.12.9396bआकुलं क्षुभितंपालयिष्यसि ॥ 2.12.9396 ॥ | 2.12.9396bआकुलं क्षुभितंपालयिष्यसि ॥ २।१२।९३९६ ॥ | |||||
| 252 | #94aತ್ವಂ ರಾಜಪುತ್ರಿ ದೈವೇನ ನ್ಯವಸೋ ಮಮ ವೇಶ್ಮನಿ । | 2.12.94aत्वं राजपुत्रि दैवेन न्यवसो मम वेश्मनि । | 2.12.97aत्वं राजपुत्रीवादेन न्यवसो मम वेश्मनि । | 2.12.97aत्वं राजपुत्रीवादेन न्यवसो मम वेश्मनि । | 2.12.96aत्वं राजपुत्रीवादेन न्यवसो मम वेश्मनि। | ||
| 253 | #94bಅಕೀರ್ತಿಶ್ಚಾತುಲಾ ಲೋಕೇ ಧ್ರುವಃ ಪರಿಭವಶ್ಚ ಮೇ । | 2.12.94bअकीर्तिश्चातुला लोके ध्रुवः परिभवश्च मे । | 2.12.97bअकीर्त्तिश्चातुला लोके ध्रुवः परिभवश्च मे । | 2.12.97aअकीर्त्तिश्चातुला लोके ध्रुवः परिभवश्च मे। | 2.12.97bअकीर्त्तिश्चातुला लोके ध्रुवः परिभवश्च मे । | 2.12.96bअकीर्तिश्चातुला लोके ध्रुवः परिभवश्च मे॥2.12.96॥ | |
| 254 | #94cಸರ್ವಭೂತೇಷು ಚಾವಜ್ಞಾ ಯಥಾ ಪಾಪಕೃತಸ್ತಥಾ ॥ | 2.12.94cसर्वभूतेषु चावज्ञा यथा पापकृतस्तथा ॥ ९४ ॥ | 2.12.97cसर्वभूतेषु चावज्ञा यथा पापकृतस्तथा ॥ 2.12.97 ॥ | 2.12.97bसर्वभूतेषु चावज्ञा यथा पापकृतस्तथा ॥ 2.12.97 ॥ | 2.12.97cसर्वभूतेषु चावज्ञा यथा पापकृतस्तथा ॥ २।१२।९७ ॥ | 2.12.97aसर्वभूतेषु चावज्ञा यथा पापकृतस्तथा। | |
| 255 | #95aಕಥಂ ರಥೈರ್ವಿಭುರ್ಯಾತ್ವಾ ಗಜಾಶ್ವೈಶ್ಚ ಮುಹುರ್ಮುಹುಃ । | 2.12.95aकथं रथैर्विभुर्यात्वा गजाश्वैश्च मुहुर्मुहुः । | 2.12.98aकथं रथैर्विभुर्यात्वा गजाश्वैश्च मुहुर्मुहुः । | 2.12.98aकथं रथैर्विभुर्यात्वा गजाश्वैश्च मुहुर्मुहुः। | 2.12.98aकथं रथैर्विभुर्यात्वा गजाश्वैश्च मुहुर्मुहुः । | 2.12.97bकथं रथैर्विभुर्यात्वा गजाश्वैश्च मुहुर्मुहुः॥2.12.97॥ | |
| 256 | #95bಪದ್ಭ್ಯಾಂ ರಾಮೋ ಮಹಾರಣ್ಯೇ ವತ್ಸೋ ಮೇ ವಿಚರಿಷ್ಯತಿ ॥ | 2.12.95bपद्भ्यां रामो महारण्ये वत्सो मे विचरिष्यति ॥ ९५ ॥ | 2.12.98bपद्भ्यां रामो महारण्ये वत्सो मे विचरिष्यति ॥ 2.12.98 ॥ | 2.12.98bपद्भ्यां रामो महारण्ये वत्सो मे विचरिष्यति ॥ 2.12.98 ॥ | 2.12.98bपद्भ्यां रामो महारण्ये वत्सो मे विचरिष्यति ॥ २।१२।९८ ॥ | 2.12.98aपद्भ्यां रामो महारण्ये वत्सो मे विचरिष्यति। | |
| 257 | 2.12.9798aत्वमित्याद्यर्धत्रयमेकान्वयम् । | 2.12.9798aत्वमित्याद्यर्धत्रयमेकान्वयम् । | |||||
| 258 | 2.12.9798bअकीर्त्यादित्रयरूपा त्वं राजपुत्रीवादेन राजपुत्रीव्यपदेशेन मम वेश्मनि न्यवसः । | 2.12.9798bअकीर्त्यादित्रयरूपा त्वं राजपुत्रीवादेन राजपुत्रीव्यपदेशेन मम वेश्मनि न्यवसः । | |||||
| 259 | 2.12.9798cपरिभवः महाजनसमक्षं धिक्कारः । | 2.12.9798cपरिभवः महाजनसमक्षं धिक्कारः । | |||||
| 260 | 2.12.9798dअवज्ञा क्षुद्रत्वेन प्रतिपत्तिः ॥ 2.12.9798 ॥ | 2.12.9798dअवज्ञा क्षुद्रत्वेन प्रतिपत्तिः ॥ २।१२।९७९८ ॥ | |||||
| 261 | #96aಯಸ್ಯ ಚಾಹಾರಸಮಯೇ ಸೂದಾಃ ಕುಂಡಲಧಾರಿಣಃ । | 2.12.96aयस्य चाहारसमये सूदाः कुण्डलधारिणः । | 2.12.99aयस्य त्वाहारसमये सूदाः कुण्डलधारिणः । | 2.12.99aयस्य त्वाहारसमये सूदाः कुण्डलधारिणः। | 2.12.99aयस्य त्वाहारसमये सूदाः कुण्डलधारिणः । | 2.12.98bयस्य त्वाहारसमये सूदाः कुण्डलधारिणः॥2.12.98॥ | |
| 262 | #96bಅಹಂಪೂರ್ವಾಃ ಪಚಂತಿ ಸ್ಮ ಪ್ರಸನ್ನಾಃ ಪಾನಭೋಜನಮ್ ॥ | 2.12.96bअहम्पूर्वाः पचन्ति स्म प्रसन्नाः पानभोजनम् ॥ ९६ ॥ | 2.12.99bअहंपूर्वाः पचन्ति स्म प्रशस्तं पानभोजनम् ॥ 2.12.99 ॥ | 2.12.99bअहम्पूर्वाः पचन्ति स्म प्रशस्तं पानभोजनम् ॥ 2.12.99 ॥ | 2.12.99bअहंपूर्वाः पचन्ति स्म प्रशस्तं पानभोजनम् ॥ २।१२।९९ ॥ | 2.12.99aअहंपूर्वाः पचन्ति स्म प्रशस्तं पानभोजनम्। | |
| 263 | #97aಸ ಕಥಂ ನು ಕಷಾಯಾಣಿ ತಿಕ್ತಾನಿ ಕಟುಕಾನಿ ಚ । | 2.12.97aस कथं नु कषायाणि तिक्तानि कटुकानि च । | 2.12.100aस कथं नु कषायाणि तिक्तानि कटुकानि च । | 2.12.100aस कथं नु कषायाणि तिक्तानि कटुकानि च। | 2.12.100aस कथं नु कषायाणि तिक्तानि कटुकानि च । | 2.12.99bस कथन्नु कषायाणि तिक्तानि कटुकानि च॥2.12.99॥ | |
| 264 | #97bಭಕ್ಷಯನ್ ವನ್ಯಮಾಹಾರಂ ಸುತೋಮೇವರ್ತಯಿಷ್ಯತಿ ॥ | 2.12.97bभक्षयन् वन्यमाहारं सुतो मे वर्तयिष्यति ॥ ९७ ॥ | 2.12.100bभक्षयन् वन्यमाहारं सुतो मे वर्त्तयिष्यति ॥ 2.12.100 ॥ | 2.12.100bभक्षयन् वन्यमाहारं सुतो मे वर्त्तयिष्यति ॥ 2.12.100 ॥ | 2.12.100bभक्षयन् वन्यमाहारं सुतो मे वर्त्तयिष्यति ॥ २।१२।१०० ॥ | 2.12.100aभक्षयन्वन्यमाहारं सुतो मे वर्तयिष्यति। | |
| 265 | #98aಮಹಾರ್ಹವಸ್ತ್ರಸಂಬದ್ಧೋ ಭೂತ್ವಾ ಚಿರಸುಖೋಚಿತಃ । | 2.12.98aमहार्हवस्त्रसम्बद्धो भूत्वा चिरसुखोचितः । | 2.12.101aमहार्हवस्त्रसंवीतो भूत्वा चिरसुखोषितः । | 2.12.101aमहार्हवस्त्रसंवीतो भूत्वा चिरसुखोषितः। | 2.12.101aमहार्हवस्त्रसंवीतो भूत्वा चिरसुखोषितः । | 2.12.100bमहार्हवस्त्रसंवीतो भूत्वा चिरसुखोषितः॥2.12.100॥ | |
| 266 | #98bಕಾಷಾಯಪರಿಧಾನಸ್ತು ಕಥಂ ರಾಮೋ ಭವಿಷ್ಯತಿ ॥ | 2.12.98bकाषायपरिधानस्तु कथं रामो भविष्यति ॥ ९८ ॥ | 2.12.101bकाषायपरिधानस्तु कथं भूमौ निवत्स्यति ॥ 2.12.101 ॥ | 2.12.101bकाषायपरिधानस्तु कथं भूमौ निवत्स्यति ॥ 2.12.101 ॥ | 2.12.101bकाषायपरिधानस्तु कथं भूमौ निवत्स्यति ॥ २।१२।१०१ ॥ | 2.12.101aकाषायपरिधानस्तु कथं भूमौनिवत्स्यति। | |
| 267 | #99aಕಸ್ಯೈಂದಂ ದಾರುಣಂ ವಾಕ್ಯಮೇವಂವಿಧಮಪೀರಿತಮ್ । | 2.12.99aकस्येदं दारुणं वाक्यमेवंविधमपीरितम् । | 2.12.102aकस्यैतद्दारुणं वाक्यमेवंविधमचिन्तितम् । | 2.12.102aकस्यैतद्दारुणं वाक्यमेवंविधमचिन्तितम्। | 2.12.102aकस्यैतद्दारुणं वाक्यमेवंविधमचिन्तितम् । | 2.12.101bकस्यैतद्धारुणं वाक्यमेवंविधमचिन्तितम्॥2.12.101॥ | |
| 268 | #99bರಾಮಸ್ಯಾರಣ್ಯಗಮನಂ ಭರತಸ್ಯಾಭಿಷೇಚನಮ್ ॥ | 2.12.99bरामस्यारण्यगमनं भरतस्याभिषेचनम् ॥ ९९ ॥ | 2.12.102bरामस्यारण्यगमनं भरतस्याभिषेचनम् ॥ 2.12.102 ॥ | 2.12.102bरामस्यारण्यगमनं भरतस्याभिषेचनम् ॥ 2.12.102 ॥ | 2.12.102bरामस्यारण्यगमनं भरतस्याभिषेचनम् ॥ २।१२।१०२ ॥ | 2.12.102aरामस्यारण्यगमनं भरतस्याभिषेचनम्। | |
| 269 | #100aಧಿಗಸ್ತು ಯೋಷಿತೋ ನಾಮ ಶಠಾಃ ಸ್ವಾರ್ಥಪರಾಯಣಾಃ । | 2.12.100aधिगस्तु योषितो नाम शठाः स्वार्थपरायणाः । | 2.12.103aधिगस्तु योषितो नाम शठाः स्वार्थपरास्सदा । | 2.12.103aधिगस्तु योषितो नाम शठाः स्वार्थपरास्सदा। | 2.12.103aधिगस्तु योषितो नाम शठाः स्वार्थपरास्सदा । | 2.12.102bधिगस्तु योषितो नाम शठास् स्वार्थपरास्सदा। | |
| 270 | #100bನ ಬ್ರವೀಮಿ ಸ್ತ್ರಿಯಃ ಸರ್ವಾ ಭರತಸ್ಯೈವ ಮಾತರಮ್ ॥ | 2.12.100bन ब्रवीमि स्त्रियः सर्वा भरतस्यैव मातरम् ॥ १०० ॥ | 2.12.103bन ब्रवीमि स्त्रियः सर्वा भरतस्यैव मातरम् ॥ 2.12.103 ॥ | 2.12.103bन ब्रवीमि स्त्रियः सर्वा भरतस्यैव मातरम् ॥ 2.12.103 ॥ | 2.12.103bन ब्रवीमि स्त्रियः सर्वा भरतस्यैव मातरम् ॥ २।१२।१०३ ॥ | 2.12.102cन ब्रवीमि स्त्रियस् सर्वा भरतस्यैव मातरम्॥2.12.102॥ | |
| 271 | #101aಅನರ್ಥಭಾವೇಽರ್ಥಪರೇ ನೃಶಂಸೇ ಮಮಾನುತಾಪಾಯ ನಿವೇಶಿತಾಸಿ । | 2.12.101aअनर्थभावेऽर्थपरे नृशंसे ममानुतापाय निवेशितासि । | 2.12.104aअनर्थभावे ऽर्थपरे नृशंसे ममानुतापाय निविष्टभावे । | 2.12.104aअनर्थभावेऽर्थपरे नृशंसे ममानुतापाय निविष्टभावे। | 2.12.104aअनर्थभावे ऽर्थपरे नृशंसे ममानुतापाय निविष्टभावे । | 2.12.103aअनर्थभावेऽर्थपरे नृशंसे ममानुतापाय निविष्टभावे। | |
| 272 | #101bಕಿಮಪ್ರಿಯಂ ಪಶ್ಯಸಿ ಮನ್ನಿಮಿತ್ತಂ ಹಿತಾನುಕಾರಿಣ್ಯಥವಾಪಿ ರಾಮೇ ॥ | 2.12.101bकिमप्रियं पश्यसि मन्निमित्तं हितानुकारिण्यथवापि रामे ॥ १०१ ॥ | 2.12.104bकिमप्रियं पश्यसि मन्निमित्तं हितानुकारिण्यथवापि रामे ॥ 2.12.104 ॥ | 2.12.104bकिमप्रियं पश्यसि मन्निमित्तं हितानुकारिण्यथवापि रामे ॥ 2.12.104 ॥ | 2.12.104bकिमप्रियं पश्यसि मन्निमित्तं हितानुकारिण्यथवापि रामे ॥ २।१२।१०४ ॥ | 2.12.103bकिमप्रियं पश्यसि मन्निमित्तं हितानुकारिण्यथवाऽपि रामे॥2.12.103॥ | |
| 273 | #102aಪರಿತ್ಯಜೇಯುಃ ಪಿತರೋಽಪಿ ಪುತ್ರಾನ್ ಭಾರ್ಯಾಃ ಪತೀಂಶ್ಚಾಪಿ ಕೃತಾನುರಾಗಾಃ । | 2.12.102aपरित्यजेयुः पितरोऽपि पुत्रान् भार्याः पतींश्चापि कृतानुरागाः । | 2.12.105aपरित्यजेयुः पितरो हि पुत्रान् भार्याः पतींश्चापि कृतानुरागाः । | 2.12.105aपरित्यजेयुः पितरो हि पुत्रान् भार्याः पतींश्चापि कृतानुरागाः। | 2.12.104aपरित्यजेयुः पितरो हि पुत्रान्भार्याः पतींश्चापि कृतानुरागाः। | ||
| 274 | #102bಕೃತ್ಸ್ನಂ ಹಿ ಸರ್ವಂ ಕುಪಿತಂ ಜಗತ್ ಸ್ಯಾದ್ ದೃಷ್ಟೈವ ರಾಮಂ ವ್ಯಸನೇ ನಿಮಗ್ನಮ್ ॥ | 2.12.102bकृत्स्नं हि सर्वं कुपितं जगत् स्याद् दृष्ट्वैव रामं व्यसने निमग्नम् ॥ १०२ ॥ | 2.12.105bकृत्स्नं हि सर्वं कुपितं जगत् स्याद्दृष्ट्वैव रामं व्यसने निमग्नम् ॥ 2.12.105 ॥ | 2.12.105bकृत्स्नं हि सर्वं कुपितं जगत् स्याद्दृष्ट्वैव रामं व्यसने निमग्नम् ॥ 2.12.105 ॥ | 2.12.104bकृत्स्नं हि सर्वं कुपितं जगत्स्याद्दृष्ट्वैव रामं व्यसने निमग्नम्॥2.12.104॥ | ||
| 275 | #103aಅಹಂ ಪುನರ್ದೇವಕುಮಾರರೂಪ- ಮಲಂಕೃತಂ ತಂ ಸುತಮಾವ್ರಜಂತಮ್ । | 2.12.103aअहं पुनर्देवकुमाररूप- मलङ्कृतं तं सुतमाव्रजन्तम् । | 2.12.106aअहं पुनर्देवकुमाररूपमलंकृतं तं सुतमाव्रजन्तम् । | 2.12.106aअहं पुनर्देवकुमाररूपमलङ्कृतं तं सुतमाव्रजन्तम्। | 2.12.106aअहं पुनर्देवकुमाररूपमलंकृतं तं सुतमाव्रजन्तम् । | 2.12.105aअहं पुनर्देवकुमाररूपमलङ्कृतं तं सुतमाव्रजन्तम्। | |
| 276 | #103bನಂದಾಮಿ ಪಶ್ಯನ್ನಿವ ದರ್ಶನೇನ ಭವಾಮಿ ದೃಷ್ಟೈವ ಪುನರ್ಯುವೇವ ॥ | 2.12.103bनन्दामि पश्यन्निव दर्शनेन भवामि दृष्ट्वैव पुनर्युवेव ॥ १०३ ॥ | 2.12.106bनन्दामि पश्यन्नपि दर्शनेन भवामि दृष्ट्वा च पुनर्युवेव ॥ 2.12.106 ॥ | 2.12.106bनन्दामि पश्यन्नपि दर्शनेन भवामि दृष्ट्वा च पुनर्युवेव ॥ 2.12.106 ॥ | 2.12.106bनन्दामि पश्यन्नपि दर्शनेन भवामि दृष्ट्वा च पुनर्युवेव ॥ २।१२।१०६ ॥ | 2.12.105bनन्दामि पश्यन्नपि दर्शनेन भवामि दृष्ट्वैव च पुनर्युवेव॥2.12.105॥ | |
| 277 | #104aವಿನಾ ಹಿ ಸೂರ್ಯೇಣ ಭವೇತ್ ಪ್ರವೃತ್ತಿ- ರವರ್ಷತಾ ವಜ್ರಧರೇಣ ವಾಪಿ । | 2.12.104aविना हि सूर्येण भवेत् प्रवृत्ति- रवर्षता वज्रधरेण वापि । | 2.12.107aविनापि सूर्येण्ा भवेत्प्रवृत्तिरवर्षता वज्रधरेण वापि । | 2.12.107aविनापि सूर्येण्ा भवेत्प्रवृत्तिरवर्षता वज्रधरेण वापि। | 2.12.106aविनाऽपि सूर्येण भवेत्प्रवृत्तिरवर्षता वज्रधरेण वाऽपि। | ||
| 278 | #104bರಾಮಂ ತು ಗಚ್ಛಂತಮಿತಃ ಸಮೀಕ್ಷ್ಯ ಜೀವೇನ್ನ ಕಶ್ಚಿತ್ತ್ವಿತಿ ಚೇತನಾ ಮೇ ॥ | 2.12.104bरामं तु गच्छन्तमितः समीक्ष्य जीवेन्न कश्चित्त्विति चेतना मे ॥ १०४ ॥ | 2.12.107bरामं तु गच्छन्तमितः समीक्ष्य जीवेन्न कश्चित्त्विति चेतना मे ॥ 2.12.107 ॥ | 2.12.107bरामं तु गच्छन्तमितः समीक्ष्य जीवेन्न कश्चित्त्विति चेतना मे ॥ 2.12.107 ॥ | 2.12.106bरामं तु गच्छन्तमितस् समीक्ष्य जीवेन्न कश्चित्त्विति चेतना मे॥2.12.106॥ | ||
| 279 | 2.12.107aविनेति । | ||||||
| 280 | 2.12.107bप्रवृत्तिः सञ्चारः । | ||||||
| 281 | 2.12.107cचेतना बुद्धिः । | ||||||
| 282 | 2.12.107dवज्रधरपक्षे प्रवृत्तिशब्देन जीवनविषयप्रवृत्तिरुच्यते ॥ २।१२।१०७ ॥ | ||||||
| 283 | #105aವಿನಾಶಕಾಮಾಮಹಿತಾಮಮಿತ್ರಾ- ಮಾವಾಸಯಂ ಮೃತ್ಯುಮಿವಾತ್ಮನಸ್ತ್ವಾಮ್ । | 2.12.105aविनाशकामामहिताममित्रा- मावासयं मृत्युमिवात्मनस्त्वाम् । | 2.12.108aविनाशकामामहिताममित्रामावासयं मृत्युमिवात्मनस्त्वाम् । | 2.12.108aविनाशकामामहिताममित्रामावासयं मृत्युमिवात्मनस्त्वाम्। | 2.12.108aविनाशकामामहिताममित्रामावासयं मृत्युमिवात्मनस्त्वाम् । | 2.12.107aविनाशकामामहिताममित्रामावासयं मृत्युमिवात्मनस्त्वाम्। | |
| 284 | #105bಚಿರಂ ಬತಾಂಕೇನ ಧೃತಾಸಿ ಸರ್ಪೀ ಮಹಾವಿಷಾ ತೇನ ಹತೋಸ್ಮಿ ಮೋಹಾತ್ ॥ | 2.12.105bचिरं बताङ्केन धृतासि सर्पी महाविषा तेन हतोऽस्मि मोहात् ॥ १०५ ॥ | 2.12.108bचिरं बताङ्केन धृतासि सर्पी महाविषा तेन हतो ऽस्मि मोहात् ॥ 2.12.108 ॥ | 2.12.108bचिरं बताङ्केन धृतासि सर्पी महाविषा तेन हतोऽस्मि मोहात् ॥ 2.12.108 ॥ | 2.12.108bचिरं बताङ्केन धृतासि सर्पी महाविषा तेन हतो ऽस्मि मोहात् ॥ २।१२।१०८ ॥ | 2.12.107bचिरं बताङ्केन धृतासि सर्पी महाविषा तेन हतोऽस्मि मोहात्॥2.12.107॥ | |
| 285 | #106aಮಯಾ ಚ ರಾಮೇಣ ಸಲಕ್ಷ್ಮಣೇನ ಪ್ರಶಾಸ್ತು ಹೀನೋ ಭರತಸ್ತ್ವಯಾ ಸಹ । | 2.12.106aमया च रामेण सलक्ष्मणेन प्रशास्तु हीनो भरतस्त्वया सह । | 2.12.109aमया च रामेण च लक्ष्मणेन प्रशास्तु हीनो भरतस्त्वया सह । | 2.12.109aमया च रामेण च लक्ष्मणेन प्रशास्तु हीनो भरतस्त्वया सह। | 2.12.108aमया च रामेण च लक्ष्मणेन प्रशास्तु हीनो भरतस्त्वया सह। | ||
| 286 | #106bಪುರಂ ಚ ರಾಷ್ಟ್ರಂ ಚ ನಿಹತ್ಯ ಬಾಂಧವಾನ್ ಮಮಾಹಿತಾನಾಂ ಚ ಭವಾಭಿಹರ್ಷಿಣೀ ॥ | 2.12.106bपुरं च राष्ट्रं च निहत्य बान्धवान् ममाहितानां च भवाभिहर्षिणी ॥ १०६ ॥ | 2.12.109bपुरं च राष्ट्रं च निहत्य बान्धवान् ममाहितानां च भवाभिहर्षिणी ॥ 2.12.109 ॥ | 2.12.109bपुरं च राष्ट्रं च निहत्य बान्धवान् ममाहितानां च भवाभिहर्षिणी ॥ 2.12.109 ॥ | 2.12.108bपुरं च राष्ट्रं च निहत्य बान्धवान् ममाहितानां च भवाभिहर्षिणी॥2.12.108॥ | ||
| 287 | 2.12.109aमयेति । | ||||||
| 288 | 2.12.109bसलक्ष्मणेन रामेण मया च हीनो भरतस्त्वया सह पुरं राष्ट्रं बान्धवांश्च निहत्य प्रशास्तु पुरादिहननरूपं प्रशासनं करोतु । | ||||||
| 289 | 2.12.109cममाहितानां शत्रूणां च अभिहर्षिणी भवेतिसम्बन्धः ॥ २।१२।१०९ ॥ | ||||||
| 290 | #107aನೃಶಂಸವೃತ್ತೇ ವ್ಯಸನಪ್ರಹಾರಿಣಿ ಪ್ರಸಹ್ಯ ವಾಕ್ಯಂ ಯದಿಹಾದ್ಯ ಭಾಷಸೇ । | 2.12.107aनृशंसवृत्ते व्यसनप्रहारिणि प्रसह्य वाक्यं यदिहाद्य भाषसे । | 2.12.110aनृशंसवृत्ते व्यसनप्रहारिणि प्रसह्य वाक्यं यदिहाद्य भाषसे । | 2.12.110aनृशंसवृत्ते व्यसनप्रहारिणि प्रसह्य वाक्यं यदिहाद्य भाषसे। | 2.12.110aनृशंसवृत्ते व्यसनप्रहारिणि प्रसह्य वाक्यं यदिहाद्य भाषसे । | 2.12.109aनृशंसवृत्ते व्यसनप्रहारिणि प्रसह्य वाक्यं यदिहाद्य भाषसे। | |
| 291 | #107bನ ನಾಮ ತೇ ತೇನ ಮುಖಾತ್ಪತಂತ್ಯಧೋ ವಿಶೀರ್ಯಮಾಣಾ ದಶನಾಃ ಸಹಸ್ರಧಾ ॥ | 2.12.107bन नाम ते तेन मुखात् पतन्त्यधो विशीर्यमाणा दशनाः सहस्रधा ॥ १०७ ॥ | 2.12.110bन नाम ते केन मुखात्पतन्त्यधो विशीर्यमाणा दशनाः सहस्रधा ॥ 2.12.110 ॥ | 2.12.110bन नाम ते केन मुखात्पतन्त्यधो विशीर्यमाणा दशनाः सहस्रधा ॥ 2.12.110 ॥ | 2.12.110bन नाम ते केन मुखात्पतन्त्यधो विशीर्यमाणा दशनाः सहस्रधा ॥ २।१२।११० ॥ | 2.12.109bन नाम ते केन मुखात्पतन्त्यधो विशीर्यमाणा दशनास् सहस्रधा॥2.12.109॥ | |
| 292 | 2.12.111aन किञ्चिदिति । | ||||||
| 293 | #108aನ ಕಿಂಚಿದಾಹಾಹಿತಮಪ್ರಿಯಂ ವಚೋ ನ ವೇತ್ತಿ ರಾಮಃ ಪರುಷಾಣಿ ಭಾಷಿತುಮ್ । | 2.12.108aन किञ्चिदाहाहितमप्रियं वचो न वेत्ति रामः परुषाणि भाषितुम् । | 2.12.111aन च किञ्चिदाहाहितमप्रियं वचो न वेत्ति रामः परुषाणि भाषितुम् । | 2.12.111aन च किञ्चिदाहाहितमप्रियं वचो न वेत्ति रामः परुषाणि भाषितुम्। | 2.12.111bरामः अहितमप्रियं च किञ्चिद्वचो नाह, परुषाणि भाषितुं न वेत्ति । | 2.12.110aन किञ्चिदाहाहितमप्रियं वचो न वेत्ति रामः परुषाणि भाषितुम्। | |
| 294 | #108bಕಥಂ ನು ರಾಮೇ ಹ್ಯಭಿರಾಮವಾದಿನಿ ಬ್ರವೀಷಿ ದೋಷಾನ್ ಗುಣನಿತ್ಯಸಮ್ಮತೇ ॥ | 2.12.108bकथं तु रामे ह्यभिरामवादिनि ब्रवीषि दोषान् गुणनित्यसम्मते ॥ १०८ ॥ | 2.12.111bकथं नु रामे ह्यभिरामवादिनि ब्रवीषि दोषान् गुणनित्यसम्मते ॥ 2.12.111 ॥ | 2.12.111bकथं नु रामे ह्यभिरामवादिनि ब्रवीषि दोषान् गुणनित्यसम्मते ॥ 2.12.111 ॥ | 2.12.110bकथन्नु रामे ह्यभिरामवादिनि ब्रवीषि दोषान्गुणनित्यसम्मते॥2.12.110॥ | ||
| 295 | 2.12.111cज्ञानपूर्वकत्वात् भाषणस्य कुतस्तत्प्रसक्तिरिति भावः । | ||||||
| 296 | 2.12.111dन केवलं परुषावेदनं प्रत्युताभिरामवादिनि सर्वप्रियभाषिणि । | ||||||
| 297 | 2.12.111eगुणैर्नित्यं संमते रामे कथं नु दोषान् प्रव्राजनहेतून् ब्रवीषि ॥ २।१२।१११ ॥ | ||||||
| 298 | #109aಪ್ರತಾಮ್ಯ ವಾ ಪ್ರಜ್ವಲ ವಾ ಪ್ರಣಶ್ಯ ವಾ ಸಹಸ್ರಶೋ ವಾ ಸ್ಫುಟಿತಾಂ ಮಹೀಂ ವ್ರಜ । | 2.12.109aप्रताम्य वा प्रज्वल वा प्रणश्य वा सहस्रशो वा स्फुटितां महीं व्रज । | 2.12.112aप्रताम्य वा प्रज्वल वा प्रणश्य वा सहस्रशो वा स्फुटिता महीं व्रज । | 2.12.112aप्रताम्य वा प्रज्वल वा प्रणश्य वा सहस्रशो वा स्फुटिता महीं व्रज। | 2.12.112aप्रताम्य वा प्रज्वल वा प्रणश्य वा सहस्रशो वा स्फुटिता महीं व्रज । | 2.12.111aप्रताम्य वा प्रज्वल वा प्रणश्य वा सहस्रशो वा स्फुटिता महीं व्रज। | |
| 299 | #109bನ ತೇ ಕರಿಷ್ಯಾಮಿ ವಚಃ ಸುದಾರುಣಂ ಮಮಾಹಿತಂ ಕೇಕಯರಾಜಪಾಂಸನೆ ॥ | 2.12.109bन ते करिष्यामि वचः सुदारुणं ममाहितं केकयराजपांसने ॥ १०९ ॥ | 2.12.112bन ते करिष्यामि वचः सुदारुणं ममाहितं केकयराजपांसनि ॥ 2.12.112 ॥ | 2.12.112bन ते करिष्यामि वचः सुदारुणं ममाहितं केकयराजपांसनि ॥ 2.12.112 ॥ | 2.12.112bन ते करिष्यामि वचः सुदारुणं ममाहितं केकयराजपांसनि ॥ २।१२।११२ ॥ | 2.12.111bन ते करिष्यामि वचस् सुदारुणं ममाहितं केकयराजपांसनि॥2.12.111॥ | |
| 300 | #110aಕ್ಷುರೋಪಮಾಂ ನಿತ್ಯಮಸತ್ಪ್ರಿಯಂವದಾಂ ಪ್ರದುಷ್ಟಭಾವಾಂ ಸ್ವಕುಲೋಪಘಾತಿನೀಮ್ । | 2.12.110aक्षुरोपमां नित्यमसत्प्रियंवदां प्रदुष्टभावां स्वकुलोपघातिनीम् । | 2.12.113aक्षुरोपमां नित्यमसत्प्रियंवदां प्रदुष्टभावां स्वकुलोपघातिनीम् । | 2.12.113aक्षुरोपमां नित्यमसत्प्रियंवदां प्रदुष्टभावां स्वकुलोपघातिनीम्। | #112aक्षुरोपमां नित्यमसत्प्रियंवदां प्रदुष्टभावां स्वकुलोपघातिनीम्। | ||
| 301 | #110bನ ಜೀವಿತುಂ ತ್ವಾಂ ವಿಷಹೇಽಮನೋರಮಾಂ ದಿಧಕ್ಷಮಾಣಾಂ ಹೃದಯಂ ಸಬಂಧನಮ್ ॥ | 2.12.110bन जीवितुं त्वां विषहेऽमनोरमां दिधक्षमाणां हृदयं सबन्धनम् ॥ ११० ॥ | 2.12.113bन जीवितुं त्वां विषहे ऽमनोरमां दिधक्षमाणां हृदयं सबन्धनम् ॥ 2.12.113 ॥ | 2.12.113bन जीवितुं त्वां विषहेऽमनोरमां दिधक्षमाणां हृदयं सबन्धनम् ॥ 2.12.113 ॥ | #112bन जीवितुं त्वां विषहेऽमनोरमां दिधक्षमाणां हृदयं सबन्धनम्॥ | ||
| 302 | #112c2.12,112॥ | ||||||
| 303 | #111aನ ಜೀವಿತಂ ಮೇಽಸ್ತಿ ಕುತಃ ಪುನಃ ಸುಖಂ ವಿನಾತ್ಮಜೇನಾತ್ಮವತಾಂ ಕುತೋ ರತಿಃ । | 2.12.111aन जीवितं मेऽस्ति कुतः पुनः सुखं विनात्मजेनात्मवतां कुतो रतिः । | 2.12.114aन जीवितं मे ऽस्ति कुतः पुनः सुखं विनात्मजेनात्मवतः कुतो रतिः । | 2.12.114aन जीवितं मेऽस्ति कुतः पुनः सुखं विनात्मजेनात्मवतः कुतो रतिः। | 2.12.113aन जीवितं मेऽस्ति पुनःकुतस् सुखं विनाऽऽत्मजेनाऽत्मवतः कुतो रतिः। | ||
| 304 | #111bಮಮಾಹಿತಂ ದೇವಿ ನ ಕರ್ತುಮರ್ಹಸಿ ಸ್ಪೃಶಾಮಿ ಪಾದಾವಪಿ ತೇ ಪ್ರಸೀದ ಮೇ ॥ | 2.12.111bममाहितं देवि न कर्तुमर्हसि स्पृशामि पादावपि ते प्रसीद मे ॥ १११ ॥ | 2.12.114bममाहितं देवि न कर्तुमर्हसि स्पृशामि पादावपि ते प्रसीद मे ॥ 2.12.114 ॥ | 2.12.114bममाहितं देवि न कर्तुमर्हसि स्पृशामि पादावपि ते प्रसीद मे ॥ 2.12.114 ॥ | 2.12.113bममाहितं देवि न कर्तुमर्हसि स्पृशामि पादावपि ते प्रसीद मे॥2.12.113॥ | ||
| 305 | 2.12.114aनेति । | ||||||
| 306 | 2.12.114bरतिस्त्वद्विषयेति शेषः । | ||||||
| 307 | 2.12.114cयदेवमत आह ममाहितमिति । | ||||||
| 308 | 2.12.114dआत्मवतः जीवत इत्यर्थः ॥ २।१२।११४ ॥ | ||||||
| 309 | #112aಸ ಭೂಮಿಪಾಲೋ ವಿಲಪನ್ನನಾಥವತ್ ಸ್ತ್ರಿಯಾ ಗೃಹೀತೋಹೃದಯೇಽತಿಮಾತ್ರಯಾ । | 2.12.112aस भूमिपालो विलपन्ननाथवत् स्त्रिया गृहीतो हृदयेऽतिमात्रया । | 2.12.115aस भूमिपलो विलपन्ननाथवत् स्त्रिया गृहीतो हृदये ऽतिमात्रया । | 2.12.115aस भूमिपलो विलपन्ननाथवत् स्त्रिया गृहीतो हृदयेऽतिमात्रया। | 2.12.115aस भूमिपलो विलपन्ननाथवत् स्त्रिया गृहीतो हृदये ऽतिमात्रया । | 2.12.114aस भूमिपालो विलपन्ननाथवत्स्त्रिया गृहीतो हृदयेऽतिमात्रया। | |
| 310 | #112bಪಪಾತ ದೇವ್ಯಾಶ್ಚರಣೌ ಪ್ರಸಾರಿತಾ- ವುಭಾವಸಂಪ್ರಾಪ್ಯ ಯಥಾಽಽತುರಸ್ತಥಾ ॥ | 2.12.112bपपात देव्याश्चरणौ प्रसारिता- वुभावसम्प्राप्य यथाऽऽतुरस्तथा ॥ ११२ ॥ | 2.12.115bपपात देव्याश्चरणौ प्रसारितावुभावसंस्पृश्य यथातुरस्तथा ॥ 2.12.115 ॥ | 2.12.115bपपात देव्याश्चरणौ प्रसारितावुभावसंस्पृश्य यथातुरस्तथा ॥ 2.12.115 ॥ | 2.12.115bपपात देव्याश्चरणौ प्रसारितावुभावसंस्पृश्य यथातुरस्तथा ॥ २।१२।११५ ॥ | 2.12.114bपपात देव्याश्चरणौ प्रसारितावुभावसम्स्पृश्य यथाऽतुरस्तथा॥2.12.114॥ |