अभिषेकार्थं जनोल्लासः. Built from structured/verses.jsonl. Rows are monotone-aligned half-verse/pāda-like units split at । and ॥, so verse-number boundary differences can appear as inserted or shifted line rows.
73 aligned line rows across 7 source streams.
gor-kn 55 lines
gor-hi 56 lines
crit 56 lines
gr 73 lines
dr-mula 56 lines
iitk 56 lines
| # | gor-kn | gor-hi | crit | gr | dr-mula | gr-iitk | iitk |
|---|---|---|---|---|---|---|---|
| 1 | 2.6.1aपौराः पुरम् अलङ्कृत्य दशरथं प्राशंसन्। | ||||||
| 2 | 2.6.1bरामाभिषेक-दिदृक्षागत-जनैर् अयोध्या पूर्णाभवत्। | ||||||
| 3 | #1aಗತೇ ಪುರೋಹಿತೇ ರಾಮಃ ಸ್ನಾತೋ ನಿಯತಮಾನಸಃ । | 2.6.1aगते पुरोहिते रामः स्नातो नियतमानसः । | 2.6.1aगते पुरोहिते रामः स्नातो नियतमानसः । | 2.6.1c> गते पुरोहिते रामः स्नातो नियत-मानसः । | 2.6.1aगते पुरोहिते रामः स्नातो नियतमानसः। | 2.6.1aगते पुरोहिते रामः स्नातो नियतमानसः। | |
| 4 | #1bಸಹ ಪತ್ನ್ಯಾ ವಿಶಾಲಾಕ್ಷ್ಯಾ ನಾರಾಯಣಮುಪಾಗಮತ್ ॥ | 2.6.1bसह पत्न्या विशालाक्ष्या नारायणमुपागमत् ॥ १ ॥ | 2.6.1bसह पत्न्या विशालाक्ष्या नारायणमुपागमत् ॥2.6.1॥ | 2.6.1d> सह-पत्न्या विशालाक्ष्या नारायणम् उपागमत् ॥ २.६.१ ॥ | 2.6.1bसह पत्न्या विशालाक्ष्या नारायणमुपागमत् ॥ 2.6.1 ॥ | 2.6.1bसह पत्न्या विशालाक्ष्या नारायणमुपागमत्॥2.6.1॥ | |
| 5 | #2aಪ್ರಗೃಹ್ಯ ಶಿರಸಾ ಪಾತ್ರೀಂ ಹವಿಷೋ ವಿಧಿವತ್ ತತಃ । | 2.6.2aप्रगृह्य शिरसा पात्रीं हविषो विधिवत् ततः । | 2.6.2aप्रगृह्य शिरसा पात्रीं हविषो विधिवत्तदा । | 2.6.2a> प्रगृह्य शिरसा पात्रीं हविषो विधिवत् ततः । | 2.6.2aप्रगृह्य शिरसा पात्रीं हविषो विधिवत्तदा। | 2.6.2aप्रगृह्य शिरसा पात्रीं हविषो विधिवत्तदा। | |
| 6 | #2bಮಹತೇ ದೈವತಾಯಾಜ್ಯಂಜುಹಾವ ಜ್ವಲಿತಾನಲೇ ॥ | 2.6.2bमहते दैवतायाज्यं जुहाव ज्वलितानले ॥ २ ॥ | 2.6.2bमहते दैवतायाज्यं जुहाव ज्वलितेऽनले ॥2.6.2॥ | 2.6.2b> महते दैवतायाज्यं जुहाव ज्वलितानले ॥ २.६.२ ॥ | 2.6.2bमहते दैवतायाज्यं जुहाव ज्वलितेऽनले ॥ 2.6.2 ॥ | 2.6.2bमहते दैवतायाज्यं जुहाव ज्वलितेऽनले॥2.6.2॥ | |
| 7 | #3aಶೇಷಂ ಚ ಹವಿಷಸ್ತಸ್ಯ ಪ್ರಾಶ್ಯಾಶಾಸ್ಯಾತ್ಮನಃ ಪ್ರಿಯಮ್ । | 2.6.3aशेषं च हविषस्तस्य प्राश्याशास्यात्मनः प्रियम् । | 2.6.3aशेषं च हविषस्तस्य प्राश्याशास्यात्मनः प्रियम् । | 2.6.3a> शेषं च हविषस् तस्य प्राश्याशास्यात्मनः प्रियम् । | 2.6.3aशेषं च हविषस्तस्य प्राश्याशास्यात्मनः प्रियम्। | 2.6.3aशेषं च हविषस्तस्य प्राश्याशास्यात्मनः प्रियम्। | |
| 8 | #3bಧ್ಯಾಯನ್ನಾರಾಯಣಂ ದೇವಂ ಸ್ವಾಸ್ತೀರ್ಣೇ ಕುಶಸಂಸ್ತರೇ ॥ | 2.6.3bध्यायन्नारायणं देवं स्वास्तीर्णे कुशसंस्तरे ॥ ३ ॥ | 2.6.3bध्यायन्नारायणं देवं स्वास्तीर्णे कुशसंस्तरे ॥2.6.3॥ | 2.6.3b> ध्यायन् नारायणं देवं स्वास्तीर्णे कुश-संस्तरे ॥ २.६.३ ॥ | 2.6.3bध्यायन्नारायणं देवं स्वास्तीर्णे कुशसंस्तरे ॥ 2.6.3 ॥ | 2.6.3bध्यायन्नारायणं देवं स्वास्तीर्णे कुशसंस्तरे॥2.6.3॥ | |
| 9 | #4aವಾಗ್ಯತಃ ಸಹ ವೈದೇಹ್ಯಾ ಭೂತ್ವಾ ನಿಯತಮಾನಸಃ । | 2.6.4aवाग्यतः सह वैदेह्या भूत्वा नियतमानसः । | 2.6.4aवाग्यतः सह वैदेह्या भूत्वा नियतमानसः । | 2.6.4a> वाग्-यतः सह वैदेह्या भूत्वा नियत-मानसः । | 2.6.4aवाग्यतः सह वैदेह्या भूत्वा नियतमानसः। | 2.6.4aवाग्यतस् सह वैदेह्या भूत्वा नियतमानसः। | |
| 10 | #4bಶ್ರೀಮತ್ಯಾಯತನೇ ವಿಷ್ಣೋಃ ಶಿಶ್ಯೇ ನರವರಾತ್ಮಜಃ ॥ | 2.6.4bश्रीमत्यायतने विष्णोः शिश्ये नरवरात्मजः ॥ ४ ॥ | 2.6.4bश्रीमत्यायतने विष्णोः शिश्ये नरवरात्मजः ॥2.6.4॥ | 2.6.4b> श्रीमत्यायतने विष्णोः शिश्ये नर-वरात्मजः ॥ २.६.४ ॥ | 2.6.4bश्रीमत्यायतने विष्णोः शिश्ये नरवरात्मजः ॥ 2.6.4 ॥ | 2.6.4bश्रीमत्यायतने विष्णो श्शिश्ये नरवरात्मजः॥2.6.4॥ | |
| 11 | #5aಏಕಯಾಮಾವಶಿಷ್ಟಾಯಾಂ ರಾತ್ರ್ಯಾಂ ಪ್ರತಿವಿಬುಧ್ಯ ಸಃ । | 2.6.5aएकयामावशिष्टायां रात्र्यां प्रतिविबुध्य सः । | 2.6.5aएकयामावशिष्टायां रात्र्यां प्रतिविबुध्य सः । | 2.6.5aएकयामावशिष्टायां रात्र्यां प्रतिविबुध्य सः। | 2.6.5aएकयामावशिष्टायां रात्र्यां प्रतिविबुध्य सः। | 2.6.5aएकयामावशिष्टायां रात्र्यां प्रतिविबुद्ध्य सः। | |
| 12 | #5bಅಲಂಕಾರವಿಧಿಂ ಸಮ್ಯಕ್ ಕಾರಯಾಮಾಸ ವೇಶ್ಮನಃ ॥ | 2.6.5bअलङ्कारविधिं सम्यक् कारयामास वेश्मनः ॥ ५ ॥ | 2.6.5bअलंकारविधिं कृत्स्नं कारयामास वेश्मनः ॥2.6.5॥ | 2.6.5bअलङ्कारविधिं सम्यक्कारयामास वेश्मनः॥2.6.5॥ | 2.6.5bअलङ्कारविधिं कृत्स्नं कारयामास वेश्मनः ॥ 2.6.5 ॥ | 2.6.5bअलङ्कारविधिं कृत्स्नं कारयामास वेश्मनः॥2.6.5॥ | |
| 13 | 2.6.5aएकयामावशिष्टायामिति। | ||||||
| 14 | 2.6.5bअलङ्कारविधिं अलङ्कारविधानम्‘विधिर्विधाने दैवेऽपि’इत्यमरः॥5॥ | ||||||
| 15 | #6aತತ್ರ ಶೃಣ್ವನ್ ಸುಖಾ ವಾಚಃ ಸೂತಮಾಗಧವಂದಿನಾಮ್ । | 2.6.6aतत्र शृण्वन् सुखा वाचः सूतमागधवन्दिनाम् । | 2.6.6aतत्र शृण्वन्सुखा वाचः सूतमागधबन्दिनाम् । | 2.6.6aतत्र श्रुण्वन्सुखा वाचः सूतमागधबन्दिनाम्। | 2.6.6aतत्र श्रृण्वन् सुखा वाचः सूतमागधवन्दिनाम्। | 2.6.6aतत्र श्रृण्वन्सुखा वाचस् सूतमागधवन्दिनाम्। | |
| 16 | #6bಪೂರ್ವಾಂ ಸಂಧ್ಯಾಮುಪಾಸೀನೋ ಜಜಾಪ ಸುಸಮಾಹಿತಃ ॥ | 2.6.6bपूर्वां सन्ध्यामुपासीनो जजाप सुसमाहितः ॥ ६ ॥ | 2.6.6bपूर्वां संध्यामुपासीनो जजाप यतमानसः ॥2.6.6॥ | 2.6.6bपूर्वां सन्ध्यामुपासीनो जजाप सुसमाहितः॥2.6.6॥ | 2.6.6bपूर्वां सन्ध्यामुपासीनो जजाप यतमानसः ॥ 2.6.6 ॥ | 2.6.6bपूर्वां सध्यामुपासीनो जजाप यतमानसः॥2.6.6॥ | |
| 17 | #7aತುಷ್ಟಾವ ಪ್ರಣತಶ್ಚೈವ ಶಿರಸಾ ಮಧುಸೂದನಮ್ । | 2.6.7aतुष्टाव प्रणतश्चैव शिरसा मधुसूदनम् । | 2.6.7aतुष्टाव प्रणतश्चैव शिरसा मधुसूदनम् । | 2.6.7aतुष्टावप्रणतश्चैव शिरसा मधुसूदनम्। | 2.6.7aतुष्टाव प्रणतश्चैव शिरसा मधुसूदनम्। | 2.6.7aतुष्टाव प्रणतश्चैव शिरसा मधुसूदनम्। | |
| 18 | #7bವಿಮಲಕ್ಷೌಮಸಂವೀತೋ ವಾಚಯಾಮಾಸ ಸ ದ್ವಿಜಾನ್ ॥ | 2.6.7bविमलक्षौमसंवीतो वाचयामास स द्विजान् ॥ ७ ॥ | 2.6.7bविमलक्षौमसंवीतो वाचयामास च द्विजान् ॥2.6.7॥ | 2.6.7bविमलक्षौमसम्वीतो वाचयामास स द्विजान्॥2.6.7॥ | 2.6.7bविमलक्षौमसंवीतो वाचयामास च द्विजान् ॥ 2.6.7 ॥ | 2.6.7bविमलक्षौमसंवीतो वाचयामास स द्विजान्॥2.6.7॥ | |
| 19 | #8aತೇಷಾಂ ಪುಣ್ಯಾಹಘೋಷೋಽಥ ಗಂಭೀರಮಧುರಸ್ತದಾ । | 2.6.8aतेषां पुण्याहघोषोऽथ गम्भीरमधुरस्तथा । | 2.6.8aतेषां पुण्याहघोषोऽथ गम्भीरमधुरस्तदा । | 2.6.8aतेषां पुण्याहघोषोथ गम्भीरमधुरस्तथा। | 2.6.8aतेषां पुण्याहघोषोऽथ गम्भीरमधुरस्तदा। | 2.6.8aतेषां पुण्याहघोषोऽथ गम्भीरमधुरस्तदा। | |
| 20 | #8bಅಯೋಧ್ಯಾಂ ಪೂರಯಾಮಾಸ ತೂರ್ಯ ಘೋಷಾನುನಾದಿತಃ ॥ | 2.6.8bअयोध्यां पूरयामास तूर्यघोषानुनादितः ॥ ८ ॥ | 2.6.8bअयोध्यां पूरयामास तूर्यघोषानुनादितः ॥2.6.8॥ | 2.6.8bअयोध्यां पूरयामास तूर्यघोषानुनादितः॥2.6.8॥ | 2.6.8bअयोध्यां पूरयामास तूर्यघोषानुनादितः ॥ 2.6.8 ॥ | 2.6.8bअयोध्यां पूरयामास तूर्यघोषानुनादितः॥2.6.8॥ | |
| 21 | 2.6.8aतेषामिति । | ||||||
| 22 | 2.6.8bतूर्यघोषानुनादितः तूर्यघोषानुबन्धिनादयुक्तः॥8॥ | ||||||
| 23 | #9aಕೃತೋಪವಾಸಂ ತು ತದಾ ವೈದೇಹ್ಯಾ ಸಹ ರಾಘವಮ್ । | 2.6.9aकृतोपवासं तु तदा वैदेह्या सह राघवम् । | 2.6.9aकृतोपवासं तु तदा वैदेह्या सह राघवम् । | 2.6.9aकृतोपवासं तु तदा वैदेह्या सह राघवम्। | 2.6.9aकृतोपवासं तु तदा वैदेह्या सह राघवम्। | 2.6.9aकृतोपवासं तु तदा वैदेह्या सह राघवम्। | |
| 24 | #9bಅಯೋಧ್ಯಾನಿಲಯಃ ಶ್ರುತ್ವಾ ಸರ್ವಃ ಪ್ರಮುದಿತೋ ಜನಃ ॥ | 2.6.9bअयोध्यानिलयः श्रुत्वा सर्वः प्रमुदितो जनः ॥ ९ ॥ | 2.6.9bअयोध्या निलयः श्रुत्वा सर्वः प्रमुदितो जनः ॥2.6.9॥ | 2.6.9bअयोध्यानिलयः श्रुत्वा सर्वः प्रमुदितो जनः॥2.6.9॥ | 2.6.9bअयोध्यानिलयः श्रुत्वा सर्वः प्रमुदितो जनः ॥ 2.6.9 ॥ | 2.6.9bअयोध्यानिलयश्श्रुत्वा सर्वः प्रमुदितो जनः॥2.6.9॥ | |
| 25 | 2.6.9aकृतोपवासमिति । | ||||||
| 26 | 2.6.9bप्रमुदितः सन्तुष्टः अभूत्॥9॥ | ||||||
| 27 | #10aತತಃ ಪೌರಜನಃ ಸರ್ವಃ ಶ್ರುತ್ವಾ ರಾಮಾಭಿಷೇಚನಮ್ । | 2.6.10aततः पौरजनः सर्वः श्रुत्वा रामाभिषेचनम् । | 2.6.10aततः पौरजनः सर्वः श्रुत्वा रामाभिषेचनम् । | 2.6.10aततः पौरजनः सर्वः श्रुत्वा रामाभिषेचनम्। | 2.6.10aततः पौरजनः सर्वः श्रुत्वा रामाभिषेचनम्। | 2.6.10aततः पौरजनस्सर्वश्श्रुत्वा रामाभिषेचनम्। | |
| 28 | #10bಪ್ರಭಾತಾಂ ರಜನೀಂ ದೃಷ್ಟ್ವಾ ಚಕ್ರೇ ಶೋಭಯಿತುಂ ಪುರೀಮ್ ॥ | 2.6.10bप्रभातां रजनीं दृष्ट्वा चक्रे शोभयितुं पुरीम् ॥ १० ॥ | 2.6.10bप्रभातां रजनीं दृष्ट्वा चक्रे शोभां परां पुनः ॥2.6.10॥ | 2.6.10bप्रभातां रजनीं दृष्ट्वा चक्रे शोभयितुं पुरीम्॥2.6.10॥ | 2.6.10bप्रभातां रजनीं दृष्ट्वा चक्रे शोभयितुं पुरीम् ॥ 2.6.10 ॥ | 2.6.10bप्रभातां रजनीं दृष्ट्वा चक्रे शोभयितुं पुरीम्॥2.6.10॥ | |
| 29 | 2.6.10aतत इति । | ||||||
| 30 | 2.6.10bपुरीं शोभयितुं चक्रे पुरशोभोत्पादनार्थं सम्मार्जनालेपनवितानमालिकाबन्धनकर्मादिक- मकरोदित्यर्थः॥10॥ | ||||||
| 31 | #11aಸಿತಾಭ್ರಶಿಖರಾಭೇಷು ದೇವತಾಯತನೇಷು ಚ । | 2.6.11aसिताभ्रशिखराभेषु देवतायतनेषु च । | 2.6.11aसिताभ्रशिखराभेषु देवतायतनेषु च । | 2.6.11aसिताभ्रशिखराभेषुदेवतायतनेषु च। | 2.6.11aसिताभ्रशिखराभेषु देवतायतनेषु च। | 2.6.11aसिताभ्रशिखराभेषु देवतायतनेषु च। | |
| 32 | #11bಚತುಷ್ಟಥೇಷು ರಥ್ಯಾಸು ಚೈತ್ಯೇಷ್ವಟ್ಟಾಲಕೇಷು ಚ ॥ | 2.6.11bचतुष्पथेषु रथ्यासु चैत्येष्वट्टालकेषु च ॥ ११ ॥ | 2.6.11bचतुष्पथेषु रथ्यासु चैत्येष्वट्टालकेषु च ॥2.6.11॥ | 2.6.11bचतुष्पथेषु रथ्यासु चैत्येष्वट्टालकेषु च॥2.6.11॥ | 2.6.11bचतुष्पथेषु रथ्यासु चैत्येष्वट्टालकेषु च ॥ 2.6.11 ॥ | 2.6.11bचतुष्पथेषु रथ्यासु चैत्येष्वट्टालकेषु च॥2.6.11॥ | |
| 33 | #12ನಾನಾ ಪಣ್ಯಸಮೃದ್ಧೇಷು ವಣಿಜಾಮಾಪಣೇಷು ಚ ಕುಟುಂಬಿನಾಂ ಸಮೃದ್ಧೇಷು ಶ್ರೀಮತ್ಸು ಭವನೇಷು ಚ ॥ | 2.6.12aनानापण्यसमृद्धेषु वणिजामापणेषु च । | 2.6.12aनानापण्यसमृद्धेषु वणिजामापणेषु च । | 2.6.12aनानापण्यसमृद्धेषु वणिजामापणेषु च। | 2.6.12aनानापण्यसमृद्धेषु वणिजामापणेषु च। | 2.6.12aनानापण्यसमृद्धेषु वणिजामापणेषु च। | |
| 34 | 2.6.12bकुटुम्बिनां समृद्धेषु श्रीमत्सु भवनेषु च ॥ १२ ॥ | 2.6.12bकुटुम्बिनां समृद्धेषु श्रीमत्सु भवनेषु च ॥2.6.12॥ | 2.6.12bकुटुम्बिनां समृद्धेषु श्रीमत्सु भवनेषु च॥2.6.12॥ | 2.6.12bकुटुम्बिनां समृद्धेषु श्रीमत्सु भवनेषु च ॥ 2.6.12 ॥ | 2.6.12bकुटुम्बिनां समृद्धेषु श्रीमत्सु भवनेषु च॥2.6.12॥ | ||
| 35 | #13aಸಭಾಸು ಚೈವ ಸರ್ವಾಸು ವೃಕ್ಷೇಷ್ವಾಲಕ್ಷಿತೇಷು ಚ । | 2.6.13aसभासु चैव सर्वासु वृक्षेष्वालक्षितेषु च । | 2.6.13aसभासु चैव सर्वासु वृक्षेष्वालक्षितेषु च । | 2.6.13aसभासु चैव सर्वासु वृक्षेष्वालक्षितेषुच। | 2.6.13aसभासु चैव सर्वासु वृक्षेष्वालक्षितेषु च। | 2.6.13aसभासु चैव सर्वासु वृक्षेष्वालक्षितेषु च। | |
| 36 | #13bಧ್ವಜಾಃ ಸಮುಚ್ಛ್ರಿತಾಃ ಸಾಧು ಪತಾಕಾಶ್ಚಾಭವಂಸ್ತಥಾ ॥ | 2.6.13bध्वजाः समुच्छ्रिताः साधु पताकाश्चाभवंस्तथा ॥ १३ ॥ | 2.6.13bध्वजाः समुच्छ्रिताश्चित्राः पताकाश्चाभवंस्तदा ॥2.6.13॥ | 2.6.13bध्वजाः समुच्छ्रिताः साधु पताकाश्चाभवंस्तथा॥2.6.13॥ | 2.6.13bध्वजाः समुच्छ्रिताश्चित्राः पताकाश्चाभवंस्तदा ॥ 2.6.13 ॥ | 2.6.13bध्वजास् समुच्छ्रिताश्चित्राः पताकाश्चाभवंस्तदा॥2.6.13॥ | |
| 37 | #14aನಟನರ್ತಕಸಂಘಾನಾಂ ಗಾಯಕಾನಾಂ ಚ ಗಾಯತಾಮ್ । | 2.6.14aनटनर्तकसङ्घानां गायकानां च गायताम् । | 2.6.14aनटनर्तकसंघानां गायकानां च गायताम् । | 2.6.14aनटनर्तकसङ्घानां गायकानां च गायताम्। | 2.6.14aनटनर्तकसङ्घानां गायकानां च गायताम्। | 2.6.14aनटनर्तकसङ्घानां गायकानां च गायताम्। | |
| 38 | #14bಮನಃ ಕರ್ಣಸುಖಾ ವಾಚಃ ಶುಶ್ರಾವ ಜನತಾ ತತಃ ॥ | 2.6.14bमनःकर्णसुखा वाचः शुश्राव जनता ततः ॥ १४ ॥ | 2.6.14bमनःकर्णसुखा वाचः शुश्रुवुश्च ततस्ततः ॥2.6.14॥ | 2.6.14bमनःकर्णसुखा वाचः शुश्राव जनता ततः॥2.6.14॥ | 2.6.14bमनःकर्णसुखा वाचः शुश्रुवुश्च ततस्ततः ॥ 2.6.14 ॥ | 2.6.14bमनः कर्णसुखा वाच श्शुशृवुश्च ततस्ततः॥2.6.14॥ | |
| 39 | #15aರಾಮಾಭಿಷೇಕಯುಕ್ತಾಶ್ಚ ಕಥಾಶ್ಚಕ್ರುರ್ಮಿಥೋ ಜನಾಃ । | 2.6.15aरामाभिषेकयुक्ताश्च कथाश्चक्रुर्मिथो जनाः । | 2.6.15aरामाभिषेकयुक्ताश्च कथाश्चक्रुर्मिथो जनाः । | 2.6.15aरामाभिषेकयुक्ताश्च कथाश्चक्रुर्मिथो जनाः। | 2.6.15aरामाभिषेकयुक्ताश्च कथाश्चक्रुर्मिथो जनाः। | 2.6.15aरामाभिषेकयुक्ताश्च कथाश्चक्रुर्मिथो जनाः। | |
| 40 | #15bರಾಮಾಭಿಷೇಕೇ ಸಂಪ್ರಾಪ್ತೇಚತ್ವರೇಷು ಗೃಹೇಷು ಚ ॥ | 2.6.15bरामाभिषेके सम्प्राप्ते चत्वरेषु गृहेषु च ॥ १५ ॥ | 2.6.15bरामाभिषेके संप्राप्ते चत्वरेषु गृहेषु च ॥2.6.15॥ | 2.6.15bरामाभिषेके सम्प्राप्ते चत्वारेषु गृहेषु च॥2.6.15॥ | 2.6.15bरामाभिषेके सम्प्राप्ते चत्वरेषु गृहेषु च ॥ 2.6.15 ॥ | 2.6.15bरामाभिषेके सम्प्राप्ते चत्वरेषु गृहेषु च॥2.6.15॥ | |
| 41 | #16aಬಾಲಾ ಅಪಿ ಕ್ರೀಡಮಾನಾ ಗೃಹದ್ವಾರೇಷು ಸಂಘಶಃ । | 2.6.16aबाला अपि क्रीडमाना गृहद्वारेषु सङ्घशः । | 2.6.16aबाला अपि क्रीडमाना गृहद्वारेषु संघशः । | 2.6.16aबाला अपि क्रीडमाना गृहद्वारेषु सङ्घशः। | 2.6.16aबाला अपि क्रीडमाना गृहद्वारेषु सङ्घशः। | 2.6.16aबाला अपि क्रीडमाना गृहद्वारेषु सङ्घशः। | |
| 42 | #16bರಾಮಾಭಿಷವಸಂಯುಕ್ತಾಶ್ಚಕ್ರುರೇವ ಕಥಾ ಮಿಥಃ ॥ | 2.6.16bरामाभिषवसंयुक्ताश्चक्रुरेव कथा मिथः ॥ १६ ॥ | 2.6.16bरामाभिषेकसंयुक्ताश्चक्रुरेव मिथः कथाः ॥2.6.16॥ | 2.6.16bरामाभिषेकसम्युक्ताश्चक्रुरेव कथा मिथः॥2.6.16॥ | 2.6.16bरामाभिषेकसंयुक्ताश्चक्रुरेवं मिथः कथाः ॥ 2.6.16 ॥ | 2.6.16bरामाभिषवसंयुक्ताश्चक्रुरेवं मिथः कथाः॥2.6.16॥ | |
| 43 | #17aಕೃತಪುಷ್ಪೋಪಹಾರಶ್ಚ ಧೂಪಗಂಧಾಧಿವಾಸಿತಃ । | 2.6.17aकृतपुष्पोपहारश्च धूपगन्धाधिवासितः । | 2.6.17aकृतपुष्पोपहारश्च धूपगन्धाधिवासितः । | 2.6.17aकृतपुष्पोपहारश्च धूपगन्धाधिवासितः। | 2.6.17aकृतपुष्पोपहारश्च धूपगन्धाधिवासितः। | 2.6.17aकृतपुष्पोपहारश्च धूपगन्धाधिवासितः। | |
| 44 | #17bರಾಜಮಾರ್ಗಃ ಕೃತಃ ಶ್ರೀಮಾನ್ ಪೌರೈರಾಮಾಭಿಷೇಚನೇ ॥ | 2.6.17bराजमार्गः कृतः श्रीमान् पौरै रामाभिषेचने ॥ १७ ॥ | 2.6.17bराजमार्गः कृतः श्रीमान्पौरै रामाभिषेचने ॥2.6.17॥ | 2.6.17bराजमार्गः कृतः श्रीमान्पौरै रामाभिषेचने॥2.6.17॥ | 2.6.17bराजमार्गः कृतः श्रीमान् पौरै रामाभिषेचने ॥ 2.6.17 ॥ | 2.6.17bराजमार्गः कृतः श्रीमान्पौरै रामाभिषेचने॥2.6.17॥ | |
| 45 | 2.6.17aकृतपुष्पोपहार इति । | ||||||
| 46 | 2.6.17bकृतपुष्पोपहारः कृतपुष्पबलिः ॥17॥ | ||||||
| 47 | #18aಪ್ರಕಾಶಕರಣಾರ್ಥಂ ಚ ನಿಶಾಗಮನಶಂಕಯಾ । | 2.6.18aप्रकाशकरणार्थं च निशागमनशङ्कया । | 2.6.18aप्रकाशीकरणार्थं च निशागमनशङ्कया । | 2.6.18aप्रकाशीकरणार्थं च निशागमनशङ्कया। | 2.6.18aप्रकाशकरणार्थं च निशागमनशङ्कया। | 2.6.18aप्रकाशकरणार्थं च निशागमनशङ्कया। | |
| 48 | #18bದೀಪವೃಕ್ಷಾಂಸ್ತಥಾ ಚಕ್ರುರನುರಥ್ಯಾಸು ಸರ್ವಶಃ ॥ | 2.6.18bदीपवृक्षांस्तथा चक्रुरनुरथ्यासु सर्वशः ॥ १८ ॥ | 2.6.18bदीपवृक्षांस्तथा चक्रुरनु रथ्यासु सर्वशः ॥2.6.18॥ | 2.6.18bदीपवृक्षांस्तथा चक्रुरनुरथ्यासु सर्वशः॥2.6.18॥ | 2.6.18bदीपवृक्षांस्तथा चक्रुरनुरथ्यासु सर्वशः ॥ 2.6.18 ॥ | 2.6.18bदीपवृक्षां स्तथा चक्रुरनु रथ्यासु सर्वशः॥2.6.18॥ | |
| 49 | #19aಅಲಂಕಾರಂ ಪುರಸ್ಯೈವಂ ಕೃತ್ವಾ ತತ್ಪುರವಾಸಿನಃ । | 2.6.19aअलङ्कारं पुरस्यैवं कृत्वा तत् पुरवासिनः । | 2.6.19aअलंकारं पुरस्यैवं कृत्वा तत्पुरवासिनः । | 2.6.19aअलङ्कारंपुरस्यैवं कृत्वा तत्पुरवासिनः। | 2.6.19aअलङ्कारं पुरस्यैवं कृत्वा तत्पुरवासिनः। | 2.6.19aअलङ्कारं पुरस्यैवं कृत्वा तत्पुरवासिनः। | |
| 50 | #19bಆಕಾಂಕ್ಷಮಾಣಾ ರಾಮಸ್ಯಯೌವರಾಜ್ಯಾಭಿಷೇಚನಮ್ ॥ | 2.6.19bआकाङ्क्षमाणा रामस्य यौवराज्याभिषेचनम् ॥ १९ ॥ | 2.6.19bआकाङ्क्षमाणा रामस्य यौवराज्याभिषेचनम् ॥2.6.19॥ | 2.6.19bआकाङ्क्षमाणा रामस्य यौवराज्याभिषेचनम्॥2.6.19॥ | 2.6.19bआकाङ्क्षमाणा रामस्य यौवराज्याभिषेचनम् ॥ 2.6.19 ॥ | 2.6.19bआकाङ्क्षमाणा रामस्य यौवराज्याभिषेचनम्॥2.6.19॥ | |
| 51 | #20aಸಮೇತ್ಯ ಸಂಘಶಃ ಸರ್ವೇ ಚತ್ವರೇಷು ಸಭಾಸು ಚ । | 2.6.20aसमेत्य सङ्घशः सर्वे चत्वरेषु सभासु च । | 2.6.20aसमेत्य संघशः सर्वे चत्वरेषु सभासु च । | 2.6.20aसमेत्य सङ्घशः सर्वे चत्वरेषु सभासु च। | 2.6.20aसमेत्य सङ्घशः सर्वे चत्वरेषु सभासु च। | 2.6.20aसमेत्य सङ्घशस्सर्वे चत्वरेषु सभासु च। | |
| 52 | #20bಕಥಯಂತೋ ಮಿಥಸ್ತತ್ರ ಪ್ರಶಶಂಸುರ್ಜನಾಧಿಪಮ್ ॥ | 2.6.20bकथयन्तो मिथस्तत्र प्रशशंसुर्जनाधिपम् ॥ २० ॥ | 2.6.20bकथयन्तो मिथस्तत्र प्रशशंसुर्जनाधिपम् ॥2.6.20॥ | 2.6.20bकथयन्तो मिथस्तत्र प्रशशंसुर्जनाधिपम्॥2.6.20॥ | 2.6.20bकथयन्तो मिथस्तत्र प्रशशंसुर्जनाधिपम् ॥ 2.6.20 ॥ | 2.6.20bकथयन्तो मिथस्तत्र प्रशशंसुर्जनाधिपम्॥2.6.20॥ | |
| 53 | #21aಅಹೋಮಹಾತ್ಮಾ ರಾಜಾಯಮಿಕ್ಷ್ವಾಕುಕುಲನಂದನಃ । | 2.6.21aअहो महात्मा राजायमिक्ष्वाकुकुलनन्दनः । | 2.6.21aअहो महात्मा राजायमिक्ष्वाकुकुलनन्दनः । | 2.6.21aअहो महात्मा राजायमिक्ष्वाकुकुलनन्दनः। | 2.6.21aअहो महात्मा राजाऽयमिक्ष्वाकुकुलनन्दनः। | 2.6.21aअहो महात्मा राजाऽयमिक्ष्वाकुकुलनन्दनः। | |
| 54 | #21bಜ್ಞಾತ್ವಾ ವೃದ್ಧ ಂ ಸ್ವಮಾತ್ಮಾನಾಂ ರಾಮಂ ರಾಜ್ಯೇಽಭಿಷೇಕ್ಷ್ಯತಿ ॥ | 2.6.21bज्ञात्वा वृद्धं स्वमात्मानं रामं राज्येऽभिषेक्ष्यति ॥ २१ ॥ | 2.6.21bज्ञात्वा यो वृद्धमात्मानं रामं राज्येऽभिषेक्ष्यति ॥2.6.21॥ | 2.6.21bज्ञात्वा वृद्धं स्वमात्मानं रामं राज्येभिशेक्ष्यति॥2.6.21॥ | 2.6.21bज्ञात्वा यो वृद्धमात्मानं रामं राज्येऽभिषेक्ष्यति ॥ 2.6.21 ॥ | 2.6.21bज्ञात्वा यो वृद्धमात्मानं रामं राज्येऽभिषेक्ष्यति॥2.6.21॥ | |
| 55 | #22aಸರ್ವೇ ಹ್ಯನುಗೃಹೀತಾಃ ಸ್ಮ ಯನ್ನೋ ರಾಮೋ ಮಹೀಪತಿಃ । | 2.6.22aसर्वे ह्यनुगृहीताः स्म यन्नो रामो महीपतिः । | 2.6.22aसर्वे ह्यनुगृहीताः स्म यन्नो रामो महीपतिः । | 2.6.22aसर्वे ह्यनुगृहीताः स्म यन्नो रामो महीपतिः। | 2.6.22aसर्वे ह्यनुगृहीताः स्म यन्नो रामो महीपतिः। | 2.6.22aसर्वेप्यनुगृहीता स्मो यन्नो रामो महीपतिः। | |
| 56 | #22bಚಿರಾಯ ಭವಿತಾ ಗೋಪ್ತಾ ದೃಷ್ಟಲೋಕಪರಾವರಃ ॥ | 2.6.22bचिराय भविता गोप्ता दृष्टलोकपरावरः ॥ २२ ॥ | 2.6.22bचिराय भविता गोप्ता दृष्टलोकपरावरः ॥2.6.22॥ | 2.6.22bचिराय भविता गोप्ता दृष्टलोकपरावरः॥2.6.22॥ | 2.6.22bचिराय भविता गोप्ता दृष्टलोकपरावरः ॥ 2.6.22 ॥ | 2.6.22bचिराय भविता गोप्ता दृष्टलोकपरावरः॥2.6.22॥ | |
| 57 | #23aಅನುದ್ಧತಮನಾ ವಿದ್ವಾನ್ ಧರ್ಮಾತ್ಮಾ ಭ್ರಾತೃವತ್ಸಲಃ । | 2.6.23aअनुद्धतमना विद्वान् धर्मात्मा भ्रातृवत्सलः । | 2.6.23aअनुद्धतमना विद्वान्धर्मात्मा भ्रातृवत्सलः । | 2.6.23aअनुद्धतमना विद्वान्धर्मात्मा भ्रातृवत्सलः। | 2.6.23aअनुद्धतमना विद्वान् धर्मात्मा भ्रातृवत्सलः। | 2.6.23aअनुद्धतमनाः विद्वान्धर्मात्मा भ्रातृवत्सलः। | |
| 58 | #23bಯಥಾ ಚ ಭ್ರಾತೃಷು ಸ್ನಿಗ್ಧಸ್ತಥಾಸ್ಮಾಸ್ವಪಿ ರಾಘವಃ ॥ | 2.6.23bयथा च भ्रातृषु स्निग्धस्तथास्मास्वपि राघवः ॥ २३ ॥ | 2.6.23bयथा च भ्रातृषु स्निग्धस्तथास्मास्वपि राघवः ॥2.6.23॥ | 2.6.23bयथा च भ्रातृषु स्निग्धस्तथास्मास्वपि राघवः॥2.6.23॥ | 2.6.23bयथा च भ्रातृषु स्निग्धस्तथास्मास्वपि राघवः ॥ 2.6.23 ॥ | 2.6.23bयथा च भ्रातृषु स्निग्धस्तथाऽस्मास्वपि राघवः॥2.6.23॥ | |
| 59 | #24aಚಿರಂ ಜೀವತು ಧರ್ಮಾತ್ಮಾ ರಾಜಾ ದಶರಥೋನಘಃ । | 2.6.24aचिरं जीवतु धर्मात्मा राजा दशरथोऽनघः । | 2.6.24aचिरं जीवतु धर्मात्मा राजा दशरथोऽनघः । | 2.6.24aचिरं जीवतु धर्मात्मा राजा दशरथोनघः। | 2.6.24aचिरञ्जीवतु धर्मात्मा राजा दशरथोऽनघः। | 2.6.24aचिरं जीवतु धर्मात्मा राजा दशरथोऽनघः। | |
| 60 | #24bಯತ್ಪ್ರಸಾದೇನಾಭಿಷಿಕ್ತಂ ರಾಮಂ ದ್ರಕ್ಷ್ಯಾಮಹೇ ವಯಮ್ ॥ | 2.6.24bयत्प्रसादेनाभिषिक्तं रामं द्रक्ष्यामहे वयम् ॥ २४ ॥ | 2.6.24bयत्प्रसादेनाभिषिक्तं रामं द्रक्ष्यामहे वयम् ॥2.6.24॥ | 2.6.24bयत्प्रसादेनाभिषिक्तं रामं द्रक्ष्यामहे वयम्॥2.6.24॥ | 2.6.24bयत्प्रसादेनाभिषिक्तं रामं द्रक्ष्यामहे वयम् ॥ 2.6.24 ॥ | 2.6.24bयत्प्रसादोनभिषिक्तं तु रामं द्रक्ष्यामहे वयम्॥2.6.24॥ | |
| 61 | #25aಏವಂ ವಿಧಂ ಕಥಯತಾಂ ಪೌರಾಣಾಂಶುಶ್ರುವುಃ ಪರೇ । | 2.6.25aएवंविधं कथयतां पौराणां शुश्रुवुः परे । | 2.6.25aएवंविधं कथयतां पौराणां शुश्रुवुस्तदा । | 2.6.25aएवंविधं कथयता पौराणां शुश्रुवुः परे। | 2.6.25aएवंविधं कथयतां पौराणां शुश्रुवुस्तदा। | 2.6.25aएवंविधं कथयतां पौराणां शुश्रुवु स्तदा। | |
| 62 | #25bದಿಗ್ಭ್ಯೋ ವಿಶ್ರುತ ವೃತ್ತಾಂತಾಃ ಪ್ರಾಪ್ತಾ ಜಾನಪದಾ ಜನಾಃ ॥ | 2.6.25bदिग्भ्यो विश्रुतवृत्तान्ताः प्राप्ता जानपदा जनाः ॥ २५ ॥ | 2.6.25bदिग्भ्योऽपि श्रुतवृत्तान्ताः प्राप्ता जानपदा जनाः ॥2.6.25॥ | 2.6.25bदिग्भ्यो विश्रुतवृत्तान्ताः प्राप्ता जानपदा जनाः॥2.6.25॥ | 2.6.25bदिग्भ्योऽपि श्रुतवृत्तान्ताः प्राप्ता जानपदा जनाः ॥ 2.6.25 ॥ | 2.6.25bदिग्भ्योपि श्रुतवृत्तान्ताः प्राप्ता जानपदा जनाः॥2.6.25॥ | |
| 63 | #26aತೇ ತು ದಿಗ್ಭ್ಯಃ ಪುರೀಂ ಪ್ರಾಪ್ತಾ ದ್ರಷ್ಟುಂರಾಮಾಭಿಷೇಚನಮ್ । | 2.6.26aते तु दिग्भ्यः पुरीं प्राप्ता द्रष्टुं रामाभिषेचनम् । | 2.6.26aते तु दिग्भ्यः पुरीं प्राप्ता द्रष्टुं रामाभिषेचनम् । | 2.6.26aते तु दिग्भ्यः पुरीं प्राप्ता द्रष्टुं रामाभिषेचनम्। | 2.6.26aते तु दिग्भ्यः पुरीं प्राप्ता द्रष्टुं रामाभिषेचनम्। | 2.6.26aते तु दिग्भ्यः पुरीं प्राप्ता द्रष्टुं रामाभिषेचनम्। | |
| 64 | #26bರಾಮಸ್ಯ ಪೂರಯಾಮಾಸುಃ ಪುರೀಂ ಜಾನಪದಾಜನಾಃ ॥ | 2.6.26bरामस्य पूरयामासुः पुरीं जानपदा जनाः ॥ २६ ॥ | 2.6.26bरामस्य पूरयामासुः पुरीं जानपदा जनाः ॥2.6.26॥ | 2.6.26bरामस्य पूरयामासुः पुरीं जानपदा जनाः॥2.6.26॥ | 2.6.26bरामस्य पूरयामासुः पुरीं जानपदा जनाः ॥ 2.6.26 ॥ | 2.6.26bरामस्य पूरयामासुः पुरीं जानपदा जनाः॥2.6.26॥ | |
| 65 | 2.6.26aते त्विति । | ||||||
| 66 | 2.6.26bपूर्वदिने सकलजनसन्निधौ रामाभिषेकस्य प्रतिश्रुतत्वाद्रामस्य पुरमिति निर्ड्र्ष्टवानृषिः॥26॥ | ||||||
| 67 | #27aಜನೌಘೈಸ್ತೈರ್ವಿಸರ್ಪದ್ಭಿಃ ಶುಶ್ರುವೇ ತತ್ರ ನಿಃಸ್ವನಃ । | 2.6.27aजनौघैस्तैर्विसर्पद्भिः शुश्रुवे तत्र निःस्वनः । | 2.6.27aजनौघैस्तैर्विसर्पद्भिः शुश्रुवे तत्र निःस्वनः । | 2.6.27aजनौघैस्तैर्विसर्पद्भिः शुश्रुवे तत्र निःस्वनः। | 2.6.27aजनौघैस्तैर्विसर्पद्भिः शुश्रुवे तत्र निस्वनः। | 2.6.27aजनौघैस्तैर्विसर्पद्भिः शुश्रुवे तत्र निस्वनः। | |
| 68 | #27bಪರ್ವಸೂದೀರ್ಣವೇಗಸ್ಯ ಸಾಗರಸ್ಯೇವ ನಿಃಸ್ವನಃ ॥ | 2.6.27bपर्वसूदीर्णवेगस्य सागरस्येव निःस्वनः ॥ २७ ॥ | 2.6.27bपर्वसूदीर्णवेगस्य सागरस्येव निःस्वनः ॥2.6.27॥ | 2.6.27bपर्वसूदीर्णवेगस्य सागरस्येव निस्वनः॥2.6.27॥ | 2.6.27bपर्वसूदीर्णवेगस्य सागरस्येव निस्वनः ॥ 2.6.27 ॥ | 2.6.27bपर्वसूदीर्णवेगस्य सागरस्येव निस्वनः॥2.6.27॥ | |
| 69 | 2.6.27aजनौघैरिति । | ||||||
| 70 | 2.6.27bविसर्पद्भिः नानादेशेभ्यः आगच्छद्भिः उत्पादित इति शेषः । | ||||||
| 71 | 2.6.27cउदीर्णवेगस्य उज्जृम्भितवेगस्य ॥27॥ | ||||||
| 72 | #28aತತಸ್ತದಿಂದ್ರಕ್ಷಯಸಂನಿಭಂ ಪುರಂ ದಿದೃಕ್ಷುಭಿರ್ಜಾನಪದೈರುಪಾಹಿತೈಃ । | 2.6.28aततस्तदिन्द्रक्षयसन्निभं पुरं दिदृक्षुभिर्जानपदैरुपाहितैः । | 2.6.28aततस्तदिन्द्रक्षयसंनिभं पुरं दिदृक्षुभिर्जानपदैरुपागतैः । | 2.6.28aततस्तदिन्द्रक्षयसन्निभं पुरं दिदृक्षुभिर्जानपदैरुपाहितैः। | 2.6.28aततस्तदिन्द्रिक्षयसन्निभं पुरं दिदृक्षुभिर्जानपदैरुपागतैः। | 2.6.28aततस्तदिन्द्रक्षयसन्निभं पुरं दिदृक्षुभिर्जानपदैरुपागतैः। | |
| 73 | #28bಸಮಂತತಃ ಸಸ್ವನಮಾಕುಲಂ ಬಭೌ ಸಮುದ್ರಯಾದೋಭಿರಿವಾರ್ಣವೋದಕಮ್ ॥ | 2.6.28bसमन्ततः सस्वनमाकुलं बभौ समुद्रयादोभिरिवार्णवोदकम् ॥ २८ ॥ | 2.6.28bसमन्ततः सस्वनमाकुलं बभौ समुद्रयादोभिरिवार्णवोदकम् ॥2.6.28॥ | 2.6.28bसमन्ततः सस्वनमाकुलं बभौ समुद्रयादोभिरिवार्ण्वोदकम्॥2.6.28॥ | 2.6.28bसमन्ततः सस्वनमाकुलं बभौ समुद्रयादोभिरिवार्णवोदकम् ॥ 2.6.28 ॥ | 2.6.28bसमन्ततस् सस्वनमाकुलं बभौ समुद्रयादोभिरिवार्णवोदकम्॥2.6.28॥ |