अयोध्यावर्णनम्. Built from structured/verses.jsonl. Rows are monotone-aligned half-verse/pāda-like units split at । and ॥, so verse-number boundary differences can appear as inserted or shifted line rows.
46 aligned line rows across 7 source streams.
gor-kn 46 lines
gor-hi 46 lines
crit 46 lines
gr 46 lines
dr-mula 46 lines
gr-iitk 46 lines
iitk 46 lines
| # | gor-kn | gor-hi | crit | gr | dr-mula | gr-iitk | iitk |
|---|---|---|---|---|---|---|---|
| 1 | #1aಸರ್ವಾ ಪೂರ್ವಮಿಯಂ ಯೇಷಾಮಾಸೀತ್ ಕೃತ್ಸ್ನಾವಸುಂಧರಾ । | 1.5.1aसर्वा पूर्वमियं येषामासीत् कृत्स्ना वसुन्धरा । | 1.5.1aसर्वापूर्वमियं येषामासीत्कृत्स्ना वसुंधरा । | 1.5.1aसर्वापूर्वमियं येषामासीत्कृत्स्ना वसुन्धरा । | 1.5.1aसर्वापूर्वमियं येषामासीत्कृत्स्ना वसुन्धरा। | 1.5.1aसर्वापूर्वमियं येषामासीत्कृत्स्ना वसुन्धरा । | 1.5.1aसर्वा पूर्वमियं येषामासीत्कृत्स्ना वसुन्धरा । |
| 2 | #1bಪ್ರಜಾಪತಿಮುಪಾದಾಯ ನೃಪಾಣಾಂ ಜಯಶಾಲಿನಾಮ್ ॥ | 1.5.1bप्रजापतिमुपादाय नृपाणां जयशालिनाम् ॥ १ ॥ | 1.5.1bप्रजापतिमुपादाय नृपाणां जयशालिनाम् ॥1.5.1॥ | 1.5.1bप्रजापतिमुपादाय नृपाणां जयशालिनाम् ॥ 1.5.1 ॥ | 1.5.1bप्रजापतिमुपादाय नृपाणां जयशालिनाम् ॥ 1.5.1 ॥ | 1.5.1bप्रजापतिमुपादाय नृपाणां जयशालिनाम् ॥ १।५।१ ॥ | 1.5.1bप्रजापतिमुपादाय नृपाणां जयशालिनाम् ॥1.5.1॥ |
| 3 | #2aಯೇಷಾಂ ಸ ಸಗರೋ ನಾಮ ಸಾಗರೋ ಯೇನ ಖಾನಿತಃ । | 1.5.2aयेषां स सगरो नाम सागरो येन खानितः । | 1.5.2aयेषां स सगरो नाम सागरो येन खानितः । | 1.5.2aयेषां स सगरो नाम सागरो येन खानितः । | 1.5.2aयेषां स सगरो नाम सागरो येन खानितः। | 1.5.2aयेषां स सगरो नाम सागरो येन खानितः । | 1.5.2aयेषां स सगरो नाम सागरो येन खानितः । |
| 4 | #2bಷಷ್ಟಿಪುತ್ರಸಹಸ್ರಾಣಿ ಯಂ ಯಾಂತಂ ಪರ್ಯವಾರಯನ್ ॥ | 1.5.2bषष्टिपुत्रसहस्राणि यं यान्तं पर्यवारयन् ॥ २ ॥ | 1.5.2bषष्टिः पुत्रसहस्राणि यं यान्तं पर्यवारयन् ॥1.5.2॥ | 1.5.2bषष्टिः पुत्रसहस्राणि यं यान्तं पर्यवारयन् ॥ 1.5.2 ॥ | 1.5.2bषष्टिः पुत्रसहस्राणि यं यान्तं पर्यवारयन् ॥ 1.5.2 ॥ | 1.5.2bषष्टिः पुत्रसहस्राणि यं यान्तं पर्यवारयन् ॥ १।५।२ ॥ | 1.5.2bषष्टिः पुत्रसहस्राणि यं यान्तं पर्यवारयन् ॥1.5.2॥ |
| 5 | #3aಇಕ್ಷ್ವಾಕೂಣಾಮಿದಂ ತೇಷಾಂ ರಾಜ್ಞಾಂ ವಂಶೇ ಮಹಾತ್ಮನಾಮ್ । | 1.5.3aइक्ष्वाकूणामिदं तेषां राज्ञां वंशे महात्मनाम् । | 1.5.3aइक्ष्वाकूणामिदं तेषां राज्ञां वंशे महात्मनाम् । | 1.5.3aइक्ष्वाकूणामिदं तेषां राज्ञां वंशे महात्मनाम् । | 1.5.3aइक्ष्वाकूणामिदं तेषां राज्ञां वंशे महात्मनाम्। | 1.5.3aइक्ष्वाकूणामिदं तेषां राज्ञां वंशे महात्मनाम् । | 1.5.3aइक्ष्वाकूणामिदं तेषां राज्ञां वंशे महात्मनाम् । |
| 6 | #3bಮಹದುತ್ಪನ್ನಮಾಖ್ಯಾನಂ ರಾಮಾಯಣಮಿತಿ ಶ್ರುತಮ್ ॥ | 1.5.3bमहदुत्पन्नमाख्यानं रामायणमिति श्रुतम् ॥ ३ ॥ | 1.5.3bमहदुत्पन्नमाख्यानं रामायणमिति श्रुतम् ॥1.5.3॥ | 1.5.3bमहदुत्पन्नमाख्यानं रामायणमिति श्रुतम् ॥ 1.5.3 ॥ | 1.5.3bमहदुत्पन्नमाख्यानं रामायणमिति श्रुतम् ॥ 1.5.3 ॥ | 1.5.3bमहदुत्पन्नमाख्यानं रामायणमिति श्रुतम् ॥ १।५।३ ॥ | 1.5.3bमहदुत्पन्नमाख्यानं रामायणमिति श्रुतम् ॥1.5.3॥ |
| 7 | #4aತದಿದಂ ವರ್ತಯಿಷ್ಯಾವಃ ಸರ್ವಂ ನಿಖಿಲಮಾದಿತಃ । | 1.5.4aतदिदं वर्तयिष्यावः सर्वं निखिलमादितः । | 1.5.4aतदिदं वर्तयिष्यामि सर्वं निखिलमादितः । | 1.5.4aतदिदं वर्तयिष्यामि सर्वं निखिलमादितः । | 1.5.4aतदिदं वर्तयिष्यामि सर्वं निखिलमादितः। | 1.5.4aतदिदं वर्तयिष्यामि सर्वं निखिलमादितः । | 1.5.4aतदिदं वर्तयिष्यामि सर्वं निखिलमादितः । |
| 8 | #4bಧರ್ಮಕಾಮಾರ್ಥಸಹಿತಂ ಶ್ರೋತವ್ಯಮನಸೂಯತಾ ॥ | 1.5.4bधर्मकामार्थसहितं श्रोतव्यमनसूयता ॥ ४ ॥ | 1.5.4bधर्मकामार्थसहितं श्रोतव्यमनसूयया ॥1.5.4॥ | 1.5.4bधर्मकामार्थसहितं श्रोतव्यमनसूयया ॥ 1.5.4 ॥ | 1.5.4bधर्मकामार्थसहितं श्रोतव्यमनसूयया ॥ 1.5.4 ॥ | 1.5.4bधर्मकामार्थसहितं श्रोतव्यमनसूयया ॥ १।५।४ ॥ | 1.5.4bधर्मकामार्थसहितं श्रोतव्यमनसूयया ॥1.5.4॥ |
| 9 | #5aಕೋಸಲೋ ನಾಮ ಮುದಿತಃ ಸ್ಫೀತೋ ಜನಪದೋ ಮಹಾನ್ । | 1.5.5aकोशलो नाम मुदितः स्फीतो जनपदो महान् । | 1.5.5aकोसलो नाम मुदितः स्फीतो जनपदो महान् । | 1.5.5aकोसलो नाम मुदितः स्फीतो जनपदो महान् । | 1.5.5aकोसलो नाम मुदितः स्फीतो जनपदो महान्। | 1.5.5aकोसलो नाम मुदितः स्फीतो जनपदो महान् । | 1.5.5aकोसलो नाम मुदितस्स्फीतो जनपदो महान् । |
| 10 | #5bನಿವಿಷ್ಟಃ ಸರಯೂ ತೀರೇ ಪ್ರಭೂತಧನಧಾನ್ಯವಾನ್ ॥ | 1.5.5bनिविष्टः सरयूतीरे प्रभूतधनधान्यवान् ॥ ५ ॥ | 1.5.5bनिविष्टः सरयूतीरे प्रभूतधनधान्यवान् ॥1.5.5॥ | 1.5.5bनिविष्टः सरयूतीरे प्रभूतधनधान्यवान् ॥ 1.5.5 ॥ | 1.5.5bनिविष्टः सरयूतीरे प्रभूतधनधान्यवान् ॥ 1.5.5 ॥ | 1.5.5bनिविष्टः सरयूतीरे प्रभूतधनधान्यवान् ॥ १।५।५ ॥ | 1.5.5bनिविष्टस्सरयूतीरे प्रभूतधनधान्यवान् ॥1.5.5॥ |
| 11 | #6aಅಯೋಧ್ಯಾ ನಾಮ ನಗರೀ ತತ್ರಾಸೀಲ್ಲೋಕವಿಶ್ರುತಾ । | 1.5.6aअयोध्या नाम नगरी तत्रासील्लोकविश्रुता । | 1.5.6aअयोध्या नाम नगरी तत्रासील्लोकविश्रुता । | 1.5.6aअयोध्या नाम नगरी तत्रासील्लोकविश्रुता । | 1.5.6aअयोध्या नाम नगरी तत्रासील्लोकविश्रुता। | 1.5.6aअयोध्या नाम नगरी तत्रासील्लोकविश्रुता । | 1.5.6aअयोध्या नाम नगरी तत्रासील्लोकविश्रुता । |
| 12 | #6bಮನುನಾ ಮಾನವೇಂದ್ರೇಣ ಯಾ ಪುರೀ ನಿರ್ಮಿತಾ ಸ್ವಯಮ್ ॥ | 1.5.6bमनुना मानवेन्द्रेण या पुरी निर्मिता स्वयम् ॥ ६ ॥ | 1.5.6bमनुना मानवेन्द्रेण या पुरी निर्मिता स्वयम् ॥1.5.6॥ | 1.5.6bमनुना मानवेन्द्रेण या पुरी निर्मिता स्वयम् ॥ 1.5.6 ॥ | 1.5.6bमनुना मानवेन्द्रेण या पुरी निर्मिता स्वयम् ॥ 1.5.6 ॥ | 1.5.6bमनुना मानवेन्द्रेण या पुरी निर्मिता स्वयम् ॥ १।५।६ ॥ | 1.5.6bमनुना मानवेन्द्रेण या पुरी निर्मिता स्वयम् ॥1.5.6॥ |
| 13 | #7aಆಯತಾ ದಶ ಚ ದ್ವೇ ಚ ಯೋಜನಾನಿ ಮಹಾಪುರೀ । | 1.5.7aआयता दश च द्वे च योजनानि महापुरी । | 1.5.7aआयता दश च द्वे च योजनानि महापुरी । | 1.5.7aआयता दश च द्वे च योजनानि महापुरी । | 1.5.7aआयता दश च द्वे च योजनानि महापुरी। | 1.5.7aआयता दश च द्वे च योजनानि महापुरी । | 1.5.7aआयता दश च द्वे च योजनानि महापुरी । |
| 14 | #7bಶ್ರೀಮತೀ ತ್ರೀಣಿ ವಿಸ್ತೀರ್ಣಾ ಸುವಿಭಕ್ತಮಹಾಪಥಾ ॥ | 1.5.7bश्रीमती त्रीणि विस्तीर्णा सुविभक्तमहापथा ॥ ७ ॥ | 1.5.7bश्रीमती त्रीणि विस्तीर्णा सुविभक्तमहापथा ॥1.5.7॥ | 1.5.7bश्रीमती त्रीणि विस्तीर्णा सुविभक्तमहापथा ॥ 1.5.7 ॥ | 1.5.7bश्रीमती त्रीणि विस्तीर्णा सुविभक्तमहापथा ॥ 1.5.7 ॥ | 1.5.7bश्रीमती त्रीणि विस्तीर्णा सुविभक्तमहापथा ॥ १।५।७ ॥ | 1.5.7bश्रीमती त्रीणि विस्तीर्णा सुविभक्तमहापथा ॥1.5.7॥ |
| 15 | #8aರಾಜಮಾರ್ಗೇಣ ಮಹತಾ ಸುವಿಭಕ್ತೇನ ಶೋಭಿತಾ । | 1.5.8aराजमार्गेण महता सुविभक्तेन शोभिता । | 1.5.8aराजमार्गेण महता सुविभक्तेन शोभिता । | 1.5.8aराजमार्गेण महता सुविभक्तेन शोभिता । | 1.5.8aराजमार्गेण महता सुविभक्तेन शोभिता। | 1.5.8aराजमार्गेण महता सुविभक्तेन शोभिता । | 1.5.8aराजमार्गेण महता सुविभक्तेन शोभिता । |
| 16 | #8bಮುಕ್ತಪುಷ್ಪಾವಕೀರ್ಣೇನ ಜಲಸಿಕ್ತೇನ ನಿತ್ಯಶಃ ॥ | 1.5.8bमुक्तपुष्पावकीर्णेन जलसिक्तेन नित्यशः ॥ ८ ॥ | 1.5.8bमुक्तपुष्पावकीर्णेन जलसिक्तेन नित्यशः ॥1.5.8॥ | 1.5.8bमुक्तपुष्पावकीर्णेन जलसिक्तेन नित्यशः ॥ 1.5.8 ॥ | 1.5.8bमुक्तपुष्पावकीर्णेन जलसिक्तेन नित्यशः ॥ 1.5.8 ॥ | 1.5.8bमुक्तपुष्पावकीर्णेन जलसिक्तेन नित्यशः ॥ १।५।८ ॥ | 1.5.8bमुक्तपुष्पावकीर्णेन जलसिक्तेन नित्यशः ॥1.5.8॥ |
| 17 | #9aತಾಂ ತು ರಾಜಾ ದಶರಥೋ ಮಹಾರಾಷ್ಟ್ರವಿವರ್ಧನಃ । | 1.5.9aतां तु राजा दशरथो महाराष्ट्रविवर्धनः । | 1.5.9aतां तु राजा दशरथो महाराष्ट्रविवर्धनः । | 1.5.9aतां तु राजा दशरथो महाराष्ट्रविवर्द्धनः । | 1.5.9aतां तु राजा दशरथो महाराष्ट्रविवर्द्धनः। | 1.5.9aतां तु राजा दशरथो महाराष्ट्रविवर्द्धनः । | 1.5.9aतां तु राजा दशरथो महाराष्ट्रविवर्धनः । |
| 18 | #9bಪುರೀಮಾವಾಸಯಾಮಾಸ ದಿವಿ ದೇವಪತಿರ್ಯಥಾ ॥ | 1.5.9bपुरीमावासयामास दिवि देवपतिर्यथा ॥ ९ ॥ | 1.5.9bपुरीमावासयामास दिवि देवपतिर्यथा ॥1.5.9॥ | 1.5.9bपुरीमावासयामास दिवं देवपतिर्यथा ॥ 1.5.9 ॥ | 1.5.9bपुरीमावासयामास दिवं देवपतिर्यथा ॥ 1.5.9 ॥ | 1.5.9bपुरीमावासयामास दिवं देवपतिर्यथा ॥ १।५।९ ॥ | 1.5.9bपुरीमावासयामास दिवं देवपतिर्यथा ॥1.5.9॥ |
| 19 | #10aಕಪಾಟತೋರಣವತೀಂ ಸುವಿಭಕ್ತಾಂತರಾಪಣಾಮ್ । | 1.5.10aकपाटतोरणवतीं सुविभक्तान्तरापणाम् । | 1.5.10aकपाटतोरणवतीं सुविभक्तान्तरापणाम् । | 1.5.10aकवाटतोरणवतीं सुविभक्तान्तरापणाम् । | 1.5.10aकवाटतोरणवतीं सुविभक्तान्तरापणाम्। | 1.5.10aकवाटतोरणवतीं सुविभक्तान्तरापणाम् । | 1.5.10aकवाटतोरणवतीं सुविभक्तान्तरापणाम् । |
| 20 | #10bಸರ್ವಯಂತ್ರಾಯುಧವತೀಮುಷಿತಾ ಸರ್ವಶಿಲ್ಪಿಭಿಃ ॥ | 1.5.10bसर्वयन्त्रायुधवतीमुषितां सर्वशिल्पिभिः ॥ १० ॥ | 1.5.10bसर्वयन्त्रायुधवतीमुपेतां सर्वशिल्पिभिः ॥1.5.10॥ | 1.5.10bसर्वयन्त्रायुधवतीमुपेतां सर्वशिल्पिभिः ॥ 1.5.10 ॥ | 1.5.10bसर्वयन्त्रायुधवतीमुपेतां सर्वशिल्पिभिः ॥ 1.5.10 ॥ | 1.5.10bसर्वयन्त्रायुधवतीमुपेतां सर्वशिल्पिभिः ॥ १।५।१० ॥ | 1.5.10bसर्वयन्त्रायुधवतीमुपेतां सर्वशिल्पिभिः ॥1.5.10॥ |
| 21 | #11aಸೂತಮಾಗಧಸಂಬಾಧಾಂ ಶ್ರೀಮತೀಮತುಲಪ್ರಭಾಮ್ । | 1.5.11aसूतमागधसम्बाधां श्रीमतीमतुलप्रभाम् । | 1.5.11aसूतमागधसंबाधां श्रीमतीमतुलप्रभाम् । | 1.5.11aसूतमागधसम्बाधां श्रीमतीमतुलप्रभाम् । | 1.5.11aसूतमागधसम्बाधां श्रीमतीमतुलप्रभाम्। | 1.5.11aसूतमागधसम्बाधां श्रीमतीमतुलप्रभाम् । | 1.5.11aसूतमागधसम्बाधां श्रीमतीमतुलप्रभाम् । |
| 22 | #11bಉಚ್ಚಾಟ್ಟಾಲಧ್ವಜವತೀಂ ಶತಘ್ನೀಶತಸಂಕುಲಾಮ್ ॥ | 1.5.11bउच्चाट्टालध्वजवतीं शतघ्नीशतसङ्कुलाम् ॥ ११ ॥ | 1.5.11bउच्चाट्टालध्वजवतीं शतघ्नीशतसंकुलाम् ॥1.5.11॥ | 1.5.11bउच्चाट्टालध्वजवतीं शतघ्नीशतसङ्कुलाम् ॥ 1.5.11 ॥ | 1.5.11bउच्चाट्टालध्वजवतीं शतघ्नीशतसङ्कुलाम् ॥ 1.5.11 ॥ | 1.5.11bउच्चाट्टालध्वजवतीं शतघ्नीशतसङ्कुलाम् ॥ १।५।११ ॥ | 1.5.11bउच्चाट्टालध्वजवतीं शतघ्नीशतसङ्कुलाम् ॥1.5.11॥ |
| 23 | #12aವಧೂನಾಟಕಸಂಘೈಶ್ಚ ಸಂಯುಕ್ತಾಂ ಸರ್ವತಃ ಪುರೀಮ್ । | 1.5.12aवधूनाटकसङ्घैश्च संयुक्तां सर्वतः पुरीम् । | 1.5.12aवधूनाटकसङ्घैश्च संयुक्तां सर्वतः पुरीम् । | 1.5.12aवधूनाटकसङ्घैश्च संयुक्तां सर्वतः पुरीम् । | 1.5.12aवधूनाटकसङ्घैश्च संयुक्तां सर्वतः पुरीम्। | 1.5.12aवधूनाटकसङ्घैश्च संयुक्तां सर्वतः पुरीम् । | 1.5.12aवधूनाटकसङ्घैश्च संयुक्तां सर्वतः पुरीम् । |
| 24 | #12bಉದ್ಯಾನಾಮ್ರವಣೋಪೇತಾಂ ಮಹತೀಂ ಸಾಲಮೇಖಲಾಮ್ ॥ | 1.5.12bउद्यानाम्रवणोपेतां महतीं सालमेखलाम् ॥ १२ ॥ | 1.5.12bउद्यानाम्रवणोपेतां महतीं सालमेखलाम् ॥1.5.12॥ | 1.5.12bउद्यानाम्रवणोपेतां महतीं सालमेखलाम् ॥ 1.5.12 ॥ | 1.5.12bउद्यानाम्रवणोपेतां महतीं सालमेखलाम् ॥ 1.5.12 ॥ | 1.5.12bउद्यानाम्रवणोपेतां महतीं सालमेखलाम् ॥ १।५।१२ ॥ | 1.5.12bउद्यानाम्रवणोपेतां महतीं सालमेखलाम् ॥1.5.12॥ |
| 25 | #13aದುರ್ಗಗಂಭೀರಪರಿಖಾಂ ದುರ್ಗಾಮನ್ಯೈರ್ದುರಾಸದಮ್ । | 1.5.13aदुर्गगम्भीरपरिखां दुर्गामन्यैर्दुरासदाम् । | 1.5.13aदुर्गगम्भीरपरिखां दुर्गामन्यैर्दुरासदाम् । | 1.5.13aदुर्गगम्भीरपरिघां दुर्गामन्यैर्दुरासदाम् । | 1.5.13aदुर्गगम्भीरपरिघां दुर्गामन्यैर्दुरासदाम्। | 1.5.13aदुर्गगम्भीरपरिघां दुर्गामन्यैर्दुरासदाम् । | 1.5.13aदुर्गगम्भीरपरिघां दुर्गामन्यैर्दुरासदाम् । |
| 26 | #13bವಾಜಿವಾರಣ ಸಂಪೂರ್ಣಾಂ ಗೋಭಿರುಷ್ಟ್ರೈಃ ಖರೈಸ್ತಥಾ ॥ | 1.5.13bवाजिवारणसम्पूर्णां गोभिरुष्ट्रैः खरैस्तथा ॥ १३ ॥ | 1.5.13bवाजिवारणसंपूर्णां गोभिरुष्ट्रैः खरैस्तथा ॥1.5.13॥ | 1.5.13bवाजिवारणसम्पूर्णां गोभिरुष्ट्रैः खरैस्तथा ॥ 1.5.13 ॥ | 1.5.13bवाजिवारणसम्पूर्णां गोभिरुष्ट्रैः खरैस्तथा ॥ 1.5.13 ॥ | 1.5.13bवाजिवारणसम्पूर्णां गोभिरुष्ट्रैः खरैस्तथा ॥ १।५।१३ ॥ | 1.5.13bवाजिवारणसम्पूर्णां गोभिरुष्ट्रैः खरैस्तथा ॥1.5.13॥ |
| 27 | #14aಸಾಮಂತರಾಜ ಸಂಘೈಶ್ಚ ಬಲಿಕರ್ಮಭಿರಾವೃತಾಮ್ । | 1.5.14aसामन्तराजसङ्घैश्च बलिकर्मभिरावृताम् । | 1.5.14aसामन्तराजसङ्घैश्च बलिकर्मभिरावृताम् । | 1.5.14aसामन्तराजसङ्घैश्च बलिकर्मभिरावृताम् । | 1.5.14aसामन्तराजसङ्घैश्च बलिकर्मभिरावृताम्। | 1.5.14aसामन्तराजसङ्घैश्च बलिकर्मभिरावृताम् । | 1.5.14aसामन्तराजसङ्घैश्च बलिकर्मभिरावृताम् । |
| 28 | #14bನಾನಾದೇಶನಿವಾಸೈಶ್ಚ ವಣಿಗ್ಭಿರುಪಶೋಭಿತಾಮ್ ॥ | 1.5.14bनानादेशनिवासैश्च वणिग्भिरुपशोभिताम् ॥ १४ ॥ | 1.5.14bनानादेशनिवासैश्च वणिग्भिरुपशोभिताम् ॥1.5.14॥ | 1.5.14bनानादेशनिवासैश्च वणिग्भिरुपशोभिताम् ॥ 1.5.14 ॥ | 1.5.14bनानादेशनिवासैश्च वणिग्भिरुपशोभिताम् ॥ 1.5.14 ॥ | 1.5.14bनानादेशनिवासैश्च वणिग्भिरुपशोभिताम् ॥ १।५।१४ ॥ | 1.5.14bनानादेशनिवासैश्च वणिग्भिरुपशोभिताम् ॥1.5.14॥ |
| 29 | #15aಪ್ರಾಸಾದೈ ರತ್ನವಿಕೃತೈಃ ಪರ್ವತೈರಿವ ಶೋಭಿತಾಮ್ । | 1.5.15aप्रासादै रत्नविकृतैः पर्वतैरिव शोभिताम् । | 1.5.15aप्रसादै रत्नविकृतैः पर्वतैरुपशोभिताम् । | 1.5.15aप्रासादै रत्नविकृतैः पर्वतैरुपशोभिताम् । | 1.5.15aप्रासादै रत्नविकृतैः पर्वतैरुपशोभिताम्। | 1.5.15aप्रासादै रत्नविकृतैः पर्वतैरुपशोभिताम् । | 1.5.15aप्रासादै रत्नविकृतैः पर्वतैरुपशोभिताम् । |
| 30 | #15bಕೂಟಾಗಾರೈಶ್ಚ ಸಂಪೂರ್ಣಾಮಿಂದ್ರಸ್ಯೇವಾಮರಾವತೀಮ್ ॥ | 1.5.15bकूटागारैश्च सम्पूर्णामिन्द्रस्येवामरावतीम् ॥ १५ ॥ | 1.5.15bकूटागारैश्च संपूर्णामिन्द्रस्येवामरावतीम् ॥1.5.15॥ | 1.5.15bकूटागारैश्च सम्पूर्णामिन्द्रस्येवामरावतीम् ॥ 1.5.15 ॥ | 1.5.15bकूटागारैश्च सम्पूर्णामिन्द्रस्येवामरावतीम् ॥ 1.5.15 ॥ | 1.5.15bकूटागारैश्च सम्पूर्णामिन्द्रस्येवामरावतीम् ॥ १।५।१५ ॥ | 1.5.15bकूटागारैश्च सम्पूर्णामिन्द्रस्येवामरावतीम् ॥1.5.15॥ |
| 31 | #16aಚಿತ್ರಾಮಷ್ಟಾಪದಾಕಾರಾಂ ವರನಾರೀಗಣಾಯುತಾಮ್ । | 1.5.16aचित्रामष्टापदाकारां वरनारीगणायुताम् । | 1.5.16aचित्रामष्टापदाकारां वरनारीगणैर्युताम् । | 1.5.16aचित्रामष्टापदाकारां वरनारीगणैर्युताम् । | 1.5.16aचित्रामष्टापदाकारां वरनारीगणैर्युताम्। | 1.5.16aचित्रामष्टापदाकारां वरनारीगणैर्युताम् । | 1.5.16aचित्रामष्टापदाकारां नरनारीगणैर्युताम् । |
| 32 | #16bಸರ್ವರತ್ನ ಸಮಾಕೀರ್ಣಾಂ ವಿಮಾನಗೃಹಶೋಭಿತಾಮ್ ॥ | 1.5.16bसर्वरत्नसमाकीर्णां विमानगृहशोभिताम् ॥ १६ ॥ | 1.5.16bसर्वरत्नसमाकीर्णां विमानगृहशोभिताम् ॥1.5.16॥ | 1.5.16bसर्वरत्नसमाकीर्णां विमानगृहशोभिताम् ॥ 1.5.16 ॥ | 1.5.16bसर्वरत्नसमाकीर्णां विमानगृहशोभिताम् ॥ 1.5.16 ॥ | 1.5.16bसर्वरत्नसमाकीर्णां विमानगृहशोभिताम् ॥ १।५।१६ ॥ | 1.5.16bसर्वरत्नसमाकीर्णां विमानगृहशोभिताम् ॥1.5.16॥ |
| 33 | #17aಗೃಹಗಾಢಾಮವಿಚ್ಛಿದ್ರಾಂ ಸಮಭೂಮೌ ನಿವೇಶಿತಾಮ್ । | 1.5.17aगृहगाढामविच्छिद्रां समभूमौ निवेशिताम् । | 1.5.17aगृहगाढामविच्छिद्रां समभूमौ निवेशिताम् । | 1.5.17aगृहगाढामविच्छिद्रां समभूमौ निवेशिताम् । | 1.5.17aगृहगाढामविच्छिद्रां समभूमौ निवेशिताम्। | 1.5.17aगृहगाढामविच्छिद्रां समभूमौ निवेशिताम् । | 1.5.17aगृहगाढामविच्छिद्रां समभूमौ निवेशिताम् । |
| 34 | #17bಶಾಲಿತಂಡುಲಸಂಪೂರ್ಣಾಮಿಕ್ಷುಕಾಂಡರಸೋದಕಾಮ್ ॥ | 1.5.17bशालितण्डुलसम्पूर्णामिक्षुकाण्डरसोदकाम् ॥ १७ ॥ | 1.5.17bशालितण्डुलसंपूर्णामिक्षुकाण्डरसोदकाम् ॥1.5.17॥ | 1.5.17bशालितण्डुलसम्पूर्णामिक्षुकाण्डरसोदकाम् ॥ 1.5.17 ॥ | 1.5.17bशालितण्डुलसम्पूर्णामिक्षुकाण्डरसोदकाम् ॥ 1.5.17 ॥ | 1.5.17bशालितण्डुलसम्पूर्णामिक्षुकाण्डरसोदकाम् ॥ १।५।१७ ॥ | 1.5.17bशालितण्डुलसम्पूर्णामिक्षुकाण्डरसोदकाम् ॥1.5.17॥ |
| 35 | #18aದುಂದುಭೀಭಿರ್ಮೃದಂಗೈಶ್ಚ ವೀಣಾಭಿಃ ಪಣವೈಸ್ತಥಾ । | 1.5.18aदुन्दुभीभिर्मृदङ्गैश्च वीणाभिः पणवैस्तथा । | 1.5.18aदुन्दुभीभिर्मृदङ्गैश्च वीणाभिः पणवैस्तथा । | 1.5.18aदुन्दुभीभिर्मृदङ्गैश्च वीणाभिः पणवैस्तथा । | 1.5.18aदुन्दुभीभिर्मृदङ्गैश्च वीणाभिः पणवैस्तथा। | 1.5.18aदुन्दुभीभिर्मृदङ्गैश्च वीणाभिः पणवैस्तथा । | 1.5.18aदुन्दुभीभिर्मृदङ्गैश्च वीणाभिः पणवैस्तथा । |
| 36 | #18bನಾದಿತಾಂ ಭೃಶಮತ್ಯರ್ಥಂ ಪೃಥಿವ್ಯಾಂ ತಾಮನುತ್ತಮಾಮ್॥ | 1.5.18bनादितां भृशमत्यर्थं पृथिव्यां तामनुत्तमाम् ॥ १८ ॥ | 1.5.18bनादितां भृशमत्यर्थं पृथिव्यां तामनुत्तमाम् ॥1.5.18॥ | 1.5.18bनादितां भृशमत्यर्थं पृथिव्यां तामनुत्तमाम् ॥ 1.5.18 ॥ | 1.5.18bनादितां भृशमत्यर्थं पृथिव्यां तामनुत्तमाम् ॥ 1.5.18 ॥ | 1.5.18bनादितां भृशमत्यर्थं पृथिव्यां तामनुत्तमाम् ॥ १।५।१८ ॥ | 1.5.18bनादितां भृशमत्यर्थं पृथिव्यां तामनुत्तमाम् ॥1.5.18॥ |
| 37 | #19aವಿಮಾನಮಿವ ಸಿದ್ಧಾನಾಂ ತಪಸಾಧಿಗತಂ ದಿವಿ । | 1.5.19aविमानमिव सिद्धानां तपसाधिगतं दिवि । | 1.5.19aविमानमिव सिद्धानां तपसाधिगतं दिवि । | 1.5.19aविमानमिव सिद्धानां तपसाधिगतं दिवि । | 1.5.19aविमानमिव सिद्धानां तपसाधिगतं दिवि। | 1.5.19aविमानमिव सिद्धानां तपसाधिगतं दिवि । | 1.5.19aविमानमिव सिद्धानां तपसाधिगतं दिवि । |
| 38 | #19bಸುನಿವೇಶಿತವೇಶ್ಮಾಂತಾಂ ನರೋತ್ತಮಸಮಾವೃತಾಮ್ ॥ | 1.5.19bसुनिवेशितवेश्मान्तां नरोत्तमसमावृताम् ॥ १९ ॥ | 1.5.19bसुनिवेशितवेश्मान्तां नरोत्तमसमावृताम् ॥1.5.19॥ | 1.5.19bसुनिवेशितवेश्मान्तां नरोत्तमसमावृताम् ॥ 1.5.19 ॥ | 1.5.19bसुनिवेशितवेश्मान्तां नरोत्तमसमावृताम् ॥ 1.5.19 ॥ | 1.5.19bसुनिवेशितवेश्मान्तां नरोत्तमसमावृताम् ॥ १।५।१९ ॥ | 1.5.19bसुनिवेशितवेश्मान्तां नरोत्तमसमावृताम् ॥1.5.19॥ |
| 39 | #20aಯೇ ಚ ಬಾಣೈರ್ನವಿಧ್ಯಂತಿ ವಿವಿಕ್ತಮಪರಾಪರಮ್ । | 1.5.20aये च बाणैर्न विध्यन्ति विविक्तमपरापरम् । | 1.5.20aये च बाणैर्न विध्यन्ति विविक्तमपरापरम् । | 1.5.20aये च बाणैर्न विध्यन्ति विविक्तमपरापरम् । | 1.5.20aये च बाणैर्न विध्यन्ति विविक्तमपरापरम्। | 1.5.20aये च बाणैर्न विध्यन्ति विविक्तमपरापरम् । | 1.5.20aये च बाणैर्न विध्यन्ति विविक्तमपरापरम् । |
| 40 | #20bಶಬ್ದವೇಧ್ಯಂ ಚ ವಿತತಂ ಲಘುಹಸ್ತಾ ವಿಶಾರದಾಃ ॥ | 1.5.20bशब्दवेध्यं च विततं लघुहस्ता विशारदाः ॥ २० ॥ | 1.5.20bशब्दवेध्यं च विततं लघुहस्ता विशारदाः ॥1.5.20॥ | 1.5.20bशब्दवेध्यं च विततं लघुहस्ता विशारदाः ॥ 1.5.20 ॥ | 1.5.20bशब्दवेध्यं च विततं लघुहस्ता विशारदाः ॥ 1.5.20 ॥ | 1.5.20bशब्दवेध्यं च विततं लघुहस्ता विशारदाः ॥ १।५।२० ॥ | 1.5.20bशब्दवेध्यं च विततं लघुहस्ता विशारदाः ॥1.5.20॥ |
| 41 | #21aಸಿಂಹವ್ಯಾಘ್ರವರಾಹಾಣಾಂ ಮತ್ತಾನಾಂ ನದತಾಂ ವನೇ । | 1.5.21aसिंहव्याघ्रवराहाणां मत्तानां नदतां वने । | 1.5.21aसिंहव्याघ्रवराहाणां मत्तानां नदतां वने । | 1.5.21aसिंहव्याघ्रवराहाणां मत्तानां नर्दतां वने । | 1.5.21aसिंहव्याघ्रवराहाणां मत्तानां नर्दतां वने। | 1.5.21aसिंहव्याघ्रवराहाणां मत्तानां नर्दतां वने । | 1.5.21aसिंहव्याघ्रवराहाणां मत्तानां नर्दतां वने । |
| 42 | #21bಹಂತಾರೋ ನಿಶಿತೈಃ ಶಸ್ತ್ರೈರ್ಬಲಾದ್ಬಾಹುಬಲೈರಪಿ ॥ | 1.5.21bहन्तारो निशितैः शस्त्रैर्बलाद् बाहुबलैरपि ॥ २१ ॥ | 1.5.21bहन्तारो निशितैः शस्त्रैर्बलाद्बाहुबलैरपि ॥1.5.21॥ | 1.5.21bहन्तारो निशितैः शस्त्रैर्बलाद्बाहुबलैरपि ॥ 1.5.21 ॥ | 1.5.21bहन्तारो निशितैः शस्त्रैर्बलाद्बाहुबलैरपि ॥ 1.5.21 ॥ | 1.5.21bहन्तारो निशितैः शस्त्रैर्बलाद्बाहुबलैरपि ॥ १।५।२१ ॥ | 1.5.21bहन्तारो निशितैश्शस्त्रैर्बलाद्बाहुबलैरपि ॥1.5.21॥ |
| 43 | #22aತಾದೃಶಾನಾಂ ಸಹಸ್ರೈಸ್ತಾಮಭಿಪೂರ್ಣೋ ಮಹಾರಥೈಃ । | 1.5.22aतादृशानां सहस्रैस्तामभिपूर्णां महारथैः । | 1.5.22aतादृशानां सहस्रैस्तामभिपूर्णां महारथैः । | 1.5.22aतादृशानां सहस्रैस्तामभिपूर्णां महारथैः । | 1.5.22aतादृशानां सहस्रैस्तामभिपूर्णां महारथैः। | 1.5.22aतादृशानां सहस्रैस्तामभिपूर्णां महारथैः । | 1.5.22aतादृशानां सहस्रैस्तामभिपूर्णां महारथैः । |
| 44 | #22bಪುರೀಮಾವಾಸಯಾಮಾಸ ರಾಜಾ ದಶರಥಸ್ತದಾ ॥ | 1.5.22bपुरीमावासयामास राजा दशरथस्तदा ॥ २२ ॥ | 1.5.22bपुरीमावासयामास राजा दशरथस्तदा ॥1.5.22॥ | 1.5.22bपुरीमावासयामास राजा दशरथस्तदा ॥ 1.5.22 ॥ | 1.5.22bपुरीमावासयामास राजा दशरथस्तदा ॥ 1.5.22 ॥ | 1.5.22bपुरीमावासयामास राजा दशरथस्तदा ॥ १।५।२२ ॥ | 1.5.22bपुरीमावासयामास राजा दशरथस्तदा ॥1.5.22॥ |
| 45 | #23aತಾಮಗ್ನಿಮದ್ಭಿರ್ಗುಣವದ್ಭಿರಾವೃತಾಂ ದ್ವಿಜೋತ್ತಮೈರ್ವೇದಷಡಂಗಪಾರಗೈಃ । | 1.5.23aतामग्निमद्भिर्गुणवद्भिरावृतां द्विजोत्तमैर्वेदषडङ्गपारगैः । | 1.5.23aतामग्निमद्भिर्गुणवद्भिरावृतां द्विजोत्तमैर्वेदषडङ्गपारगैः । | 1.5.23aतामग्निमद्भिर्गुणवद्भिरावृतां द्विजोत्तमैर्वेदषडङ्गपारगैः । | 1.5.23aतामग्निमद्भिर्गुणवद्भिरावृतां द्विजोत्तमैर्वेदषडङ्गपारगैः। | 1.5.23aतामग्निमद्भिर्गुणवद्भिरावृतां द्विजोत्तमैर्वेदषडङ्गपारगैः । | 1.5.23aतामग्निमद्भिर्गुणवद्भिरावृतां द्विजोत्तमैर्वेदषडङ्गपारगैः । |
| 46 | #23bಸಹಸ್ರದೈಃ ಸತ್ಯರತೈರ್ಮಹಾತ್ಮಭಿ- ರ್ಮಹರ್ಷಿಕಲ್ಪೈರ್ ಋಷಿಭಿಶ್ಚ ಕೇವಲೈಃ ॥ | 1.5.23bसहस्रदैः सत्यरतैर्महात्मभि- र्महर्षिकल्पैर्ऋषिभिश्च केवलैः ॥ २३ ॥ | 1.5.23bसहस्रदैः सत्यरतैर्महात्मभि र्महर्षिकल्पैरृषिभिश्च केवलैः ॥1.5.23॥ | 1.5.23bसहस्रदैः सत्यरतैर्महात्मभिर्महर्षिकल्पैर्ऋषिभिश्च केवलैः ॥ 1.5.23 ॥ | 1.5.23bसहस्रदैः सत्यरतैर्महात्मभिर्महर्षिकल्पैर्ऋषिभिश्च केवलैः ॥ 1.5.23 ॥ | 1.5.23bसहस्रदैः सत्यरतैर्महात्मभिर्महर्षिकल्पैर्ऋषिभिश्च केवलैः ॥ १।५।२३ ॥ | 1.5.23bसहस्रदैस्सत्यरतैर्महात्मभि र्महर्षिकल्पै ऋषिभिश्च केवलैः ॥1.5.23॥ |